कथासरित्सागरः/लम्बकः १०/तरङ्गः २

विकिस्रोतः तः

एवं वेश्यास्वसद्भावे कथिते मरुभूतिना ।
आचख्यौ गोमुखो धीमांस्तद्वत्कुमुदिकाकथाम् ।। १
आसीद्विक्रमसिंहाख्यः प्रतिष्ठाने महीपतिः ।
व्यधायि विधिनान्वर्थो यः सिंह इव विक्रमे ।। २
यस्येश्वरस्य सुभगा नदीनप्रभवा प्रिया ।
अलंकारतनुर्देवी शशिलेखेति चाभवत् ।। ३
तमेकदा स्वनगरे स्थितं संभूय गोत्रजाः ।
पञ्चषा गृहमागत्य राजानं पर्यवेष्टयन् ।। ४
महाभटो वीरबाहुः सुबाहुः सुभटस्तथा ।
नृपः प्रतापादित्यश्च सर्वेऽप्येते महाबलाः ।। ४
तेषु सामादि युञ्जानं निराकृत्य स्वमन्त्रिणम् ।
राजा विक्रमसिंहोऽसौ युद्धायैषां विनिर्ययौ ।। ६
प्रवृत्ते शस्त्रसंपाते स नृपः सैन्ययोर्द्वयोः ।
शौर्यदर्पाद्गजारूढः प्रविवेशाहवं स्वयम् ।। ७
धनुर्द्वितीयं दृष्ट्वा तं दलयन्तं द्विषच्चमूम् ।
महाभटाद्याः पञ्चापि राजानोऽभ्यपतन्समम् ।। ८
तद्बले च समं भूयस्यखिलेऽप्यभिधावति ।
बलं विक्रमसिंहस्य तदतुल्यमभज्यत ।। ९
ततोऽनन्तगुणाख्यस्तं मन्त्री पार्श्वस्थितोऽब्रवीत् ।
भग्नमस्मद्बलं तावज्जयो नास्तीह सांप्रतम् ।। १०
विधूयास्मान्कृतश्चायं बलवद्विग्रहस्त्वया ।
तच्छिवायाधुनापीदं मदीयं वचनं कुरु ।। ११
अवरुह्य द्विपादस्मादारुह्य च तुरङ्गमम् ।
एह्यन्यविषयं यावो जीवञ्जेतास्यरीन्पुनः ।। १२
इति मन्त्रिगिरा स्वैरमवतीर्य स वारणात् ।
हयारूढः समं तेन स्वबलान्निर्ययौ पुनः ।। १३
ययौ च वेषच्छन्नः सन्सहितस्तेन मन्त्रिणा ।
राजा विक्रमसिंहोऽसौ क्रमादुज्जयिनीं पुरीम् ।। १४
तस्यां कुमुदिकाख्यायाः प्रख्यातवसुसंपदः ।
मन्त्रिद्वितीयो वसतिं विलासिन्या विवेश सः ।। १५
अकस्मात्तं गृहायातं दृष्ट्वा सापि व्यचिन्तयत् ।
पुरुषातिशयः कोऽपि ममायं गृहमागतः ।। १६
तेजसा लक्षणैश्चैष महान्राजेति सूच्यते ।
तन्मे यथेप्सितं सिध्येदीदृक्चेत्स्वीकृतो भवेत् ।। १७
इत्यालोच्य तमुत्थाय स्वागतेनाभिनन्द्य च ।
चकार महदातिथ्यं राज्ञः कुमुदिकास्य सा ।। १८
विश्रान्तं च जगादैनं राजानं सा क्षणान्तरे ।
धन्याहमद्य सुकृतं प्राक्तनं फलितं मम ।। १९
देवेन स्वयमागत्य यद्गृहं मे पवित्रितम् ।
तदनेन प्रसादेन क्रीता दासीयमस्मि ते ।। २०
यदस्ति मे हस्तिशतं हयानां द्वे तथायुते ।
मन्दिरं पूर्णरत्नं च तदायत्तमिदं तव ।। २१
इत्युक्त्वा सा कुमुदिका राजानं तमुपाचरत् ।
स्नानादिनोपचारेण महार्हेण समन्त्रिकम् ।। २२
ततस्तन्मन्दिरे साकं तया तत्रार्पितस्वया ।
राजा विक्रमसिंहोऽसौ खिन्नस्तस्थौ यथासुखम् ।। २३
बुभुजे द्रविणं तस्या याचकेभ्यो ददौ च सः ।
न च सादर्शयत्तस्य विकारं तुष्यति स्म तु ।। २४
अहो मय्यनुरक्तेयमिति तुष्टं ततो नृपम् ।
तं सोऽनन्तगुणो मन्त्री रहोऽवादीत्सहस्थितः ।। २५
वेश्यानां देव सद्भावो नास्त्येव कुरुते पुनः ।
यत्ते कुमुदिका भक्तिं न जाने तत्र कारणम् ।। २६
एतत्तस्य वचः श्रुत्वा स राजा निजगाद तम् ।
मैवं कुमुदिका प्राणानपि मुञ्चति मत्कृते ।। २७
न चेत्प्रत्येषि तदहं प्रत्ययं दर्शयामि ते ।
इत्युक्त्वा तं स्वसचिवं राजा व्याजमिमं व्यधात् ।। २८
शनैः कृशीकृत्य तनुं मितपानोऽल्पभोजनः ।
चकार मृतमात्मानं निश्चेष्टं लुठिताङ्गकम् ।। २९
ततोऽधिरोप्य शिबिकां निन्ये परिजनेन सः ।
श्मशानं शोचतानन्तगुणे कृतकदुःखिते ।। ३०
सा च शोकात्कुमुदिका वार्यमाणापि बान्धवैः ।
आगत्य तेनैव समं समारोहच्चितोपरि ।। ३१
यावन्न दीप्यते वह्निस्तावदन्वागतां स ताम् ।
बुद्ध्वा कुमुदिकां राजा समुत्तस्थौ सजृम्भिकम् ।। ३२
प्रत्युज्जीवित एषोऽत्र दिव्या दिष्ट्येति वादिनः ।
सर्वे कुमुदिकायुक्तं निन्युस्तं स्वगृहं मुदा ।। ३३
अथोत्सवे कृते प्राप्तः स राजा प्रकृतिं रहः ।
कच्चिदृष्टोऽनुरागोऽस्या इति तं स्माह मन्त्रिणम् ।। ३४
ततस्तं सोऽब्रवीन्मन्त्री न प्रत्येम्येवमप्यहम् ।
अस्त्यत्र कारणं नूनं तत्पश्यामोऽत्र निश्चयम् ।। ३५
प्रकाशयामस्त्वात्मानमस्यै येनैतदर्पितम् ।
बलं मित्रबलं चान्यत्प्राप्य हन्मो रिपून्रणे ।। ३६
एवं तस्मिन्वदत्येव मन्त्रिण्यत्राययौ पुनः ।
स गुप्तप्रहितश्चारः स च पृष्टोऽब्रवीदिदम् ।। ३७
वैरिभिर्विषयो व्याप्तः शशिलेखा तु लोकतः ।
देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत् ।। ३८
एतच्चारवचः श्रुत्वा शोकाशनिहतस्तदा ।
हा देवि हा सतीत्यादि विललाप स भूपतिः ।। ३९
ततः क्रमेण विज्ञाततत्त्वा कुमुदिकात्र सा ।
एत्य विक्रमसिंहं तमाश्वास्योवाच भूपतिम् ।। ४०
प्रागेव मम नादिष्टं किं देवेनाधुनापि यत् ।
धनैर्मदीयैः सबलैः क्रियतामरिनिग्रहः ।। ४१
इत्युक्तः स तया कृत्वा तद्धनैरधिकं बलम् ।
ययौ राजा स्वमित्त्रस्य राज्ञो बलवतोऽन्तिकम् ।। ४२
तद्बलैः स्वबलैस्तैश्च सह गत्वा निहत्य तान् ।
पञ्चाप्यरिनृपान्युद्धे तद्राज्यान्यप्यवाप सः ।। ४३
ततस्तुष्टः कुमुदिकां सोऽब्रवीत्तां सह स्थिताम् ।
प्रीतोऽस्मि ते तवाभीष्टं किं करोम्युच्यतामिति ।। ४४
अथावोचत्कुमुदिका सत्यं तुष्टोऽसि चेत्प्रभो ।
तदुद्धरेदं हृच्छल्यमेकं मम चिरस्थितम् ।। ४७
उज्जयिन्यां द्विजसुतं श्रीधरं नाम मे प्रियम् ।
राज्ञाल्पेनापराधेन बद्धं तस्माद्विमोचय ।। ४६
दृष्ट्वा त्वां भाविकल्याणमुत्तमै राजलक्षणैः ।
एतत्कार्यक्षमं देव भक्त्या सेवितवत्यहम् ।। ४७
अभीष्टसिद्धिनैराश्यादारोहं त्वच्चितामपि ।
विफलं जीवितं मत्वा विना तं विप्रपुत्रकम् ।। ४८
एवमुक्तवतीं तां स राजावोचद्विलासिनीम् ।
साधयिष्याम्यहं तत्ते धीरा सुवदने भव ।। ४९
इत्युक्त्वा मन्त्रिवचनं संस्मृत्याचिन्तयच्च सः ।
सत्यं वेश्यास्वसद्भावः प्रोक्तोऽनन्तगुणेन मे ।। ५०
अतस्तु पूरणीयैषा वराक्याः कामना मया ।
इति संकल्प्य सबलः स तामुज्जयिनीमगात् ।। ५१
श्रीधरं मोचयित्वा तं दत्त्वा च द्रविणं बहु ।
व्याधात्कुमुदिकां तत्र प्रियसंगमसुस्थिताम् ।। ५२
आगत्य च स्वनगरं मन्त्रिमन्त्रमलङ्घयन् ।
क्रमाद्विक्रमसिंहोऽसौ बुभुजे सकलां महीम् ।। ५३
एवं हृदयमज्ञेयमगाधं वेशयोषिताम् ।
....... ।। ५४
इत्याख्याय कथां तस्मिन्विरते तत्र गोमुखे ।
नरवाहनदत्ताग्रे जगादाथ तपन्तकः ।। ५५
देव न प्रत्ययः स्त्रीषु चपलास्वखिलास्वपि ।
चिरण्टीष्वपि न ग्राह्यो वेशस्त्रीष्विव सर्वदा ।। ५६
इहैव यन्मया दृष्टमाश्चर्यं वच्मि तच्छृणु ।
बलवर्माभिधानोऽभूदस्यामेव वणिक्पुरि ।। ५७
चन्द्रश्रीस्तस्य भार्याभूत्सा च वातायनाग्रतः ।
भव्यं शीलहरं नाम ददर्शैकं वणिक्सुतम् ।। ५८
सखीगृहं तमानीय तन्मुखेनैव तत्क्षणम् ।
अरंस्त मदनाक्रान्ता तेन साकमलक्षिता ।। ५३
प्रत्यहं च समं तेन यावत्सा रमते तथा ।
तावत्तत्सङ्गिनी ज्ञाता समग्रैर्भृत्यबान्धवैः ।। ६०
एकस्तु बलवर्मा तां नाज्ञासीदसतीं पतिः ।
प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः ।। ६१
अथ दाहज्वरस्तस्य समभूद्बलवर्मणः ।
तेन चान्त्यामवस्थां स क्रमात्संप्राप्तवान्वणिक् ।। ६२
तदवस्थेऽपि तस्मिंश्च तद्भार्या सा दिने दिने ।
अगादुपपतेस्तस्य निकटं स्वसखीगृहे ।। ६३
तत्रैव चास्यां तिष्ठन्त्यामन्येद्युस्तत्पतिर्मृतः ।
अगच्छत्सा च तद्बुद्ध्वा तमापृच्छ्याशु कामुकम् ।। ६४
आरोहच्च समं तेन पत्या सा तच्छुचा चिताम् ।
स्वजनैर्वार्यमाणापि शीलज्ञैः कृतनिश्चया ।। ६५
इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल ।
अन्यासक्तं च कुर्वन्ति म्रियन्ते च पतिं विना ।। ६६
एवं तपन्तकेनोक्ते क्रमाद्धरिशिखोऽभ्यधात् ।
अत्रापि देवदासस्य यद्वृत्तं तन्न किं श्रुतम् ।। ६७
कुटुम्बी देवदासाख्यो ग्रामे स ह्यभवत्पुरा ।
दुःशीलेति च तस्यासीन्नाम्नान्वर्थेन गेहिनी ।। ६८
तां चान्यपुरुषासक्तां विविदुः प्रातिवेशिकाः ।
एकदा देवदासोऽसौ कार्याद्राजकुलं ययौ ।। ६९
आनीय सा च तत्कालं तद्भार्या तद्वधैषिणी ।
गृहस्योपरिभूमौ तं निदधे परपूरुषम् ।। ७०
आगतं च ततस्तं सा देवदासं निजं पतिम् ।
निशीथे तेन जारेण भुक्तसुप्तमघातयत् ।। ७१
विसृज्योपपतिं तं च स्थित्वा तूष्णीं निशात्यये ।
निर्गत्य चक्रन्द हतो भर्ता मे तस्करैरिति ।। ७२
ततोऽत्र बन्धवोऽभ्येत्य दृष्ट्वावोचन्नयं यदा ।
चौरैर्हतः कथं नीतं न किंचिदपि तैरितः ।। ७३
इत्युक्त्वात्र स्थितं बालं पप्रच्छुस्ते तदात्मजम् ।
तातो हतस्ते केनेति ततः स स्पष्टमब्रवीत् ।। ७४
पृष्ठभूमाविहारुह्य कोऽप्यासीद्दिवसे युवा ।
रात्रौ तेनावतीर्यैव तातो मे पश्यतो हतः ।। ९
अम्बा तु मां गृहीत्वादौ तातपार्श्वात्तदोत्थिता ।
इत्युक्ते शिशुना बुद्ध्वा भार्याजारेण तं हतम् ।। ७६
जघ्नुस्तद्बन्धवोऽन्विष्य तज्जारं तं तदैव ते ।
स्वीकृत्य तं शिशुं तां च दुःशीलां निरवासयन् ।। ७७
इत्यन्यरक्तचित्ता स्त्रीभुजंगी हन्त्यसंशयम् ।
एवं हरिशिखेनोक्ते बभाषे गोमुखः पुनः ।। ७८
किमन्येनेह यद्वृत्तं वज्रसारस्य संप्रति ।
वत्सेश सेवकस्येह हास्यं तच्छ्रूयतामिदम् ।। ७९
तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा ।
वज्रसारस्य भार्याभूत्स्वशरीराधिकप्रिया ।। ८०
एकदा तस्य भार्यायास्तस्याः पुत्रान्वितः पिता ।
निमन्त्रणाय मालव्यः सोत्कण्ठोऽभ्याययौ स्वयम् ।। ८१
वज्रसारोऽथ सत्कृत्य तं स राज्ञे निवेद्य च ।
निमन्त्रितस्तेन समं सभार्यो मालवं ययौ ।। ८२
मासमात्रं च विश्रम्य सोऽत्र श्वशुरवेश्मनि ।
इहागाद्राजसेवार्थं तद्भार्या त्वास्त तत्र सा ।। ८३
ततो दिनेषु यातेषु वज्रसारमुपेत्य तम् ।
अकस्मात्क्रोधनो नाम सुहृदेवमभाषत ।। ८४
भार्यां पितृगृहे त्यक्त्वा किं गृहं नाशितं त्वया ।
तत्रान्यपुरुषासङ्गः पापया हि कृतस्तथा ।। ८५
आगतेन ततोऽद्यैतदाप्तेन कथितं मम ।
मा मंस्था वितथं तस्मान्निगृह्यैतां वहापराम् ।। ८६
इत्युक्त्वा क्रोधने याते स्थित्वा मूढ इव क्षणम् ।
अचिन्तयद्वज्रसारः शङ्के सत्यं भवेदिदम् ।। ८७
आह्वायके विसृष्टेऽपि सान्यथा नागता कथम् ।
तदेतां स्वयमानेतुं यामि पश्यामि किं भवेत् ।। ८८
इति संकल्प्य गत्वैव मालवं श्वशुरो स तौ ।
अनुज्ञाप्य गृहीत्वैतां भार्यां प्रस्थितवांस्ततः ।। ८९
गत्वा च दूरमध्वानं स युक्त्या वञ्चितानुगः ।
उत्पथेनाविशद्भार्यामादाय गहनं वनम् ।। ९०
तत्रोपवेश्य मध्ये तां विजने वदति स्म सः ।
त्वमन्यपुरुषासक्तेत्याप्तान्मित्रान्मया श्रुतम् ।। ९१
मया चात्र स्थितेनैव यदाहूतासि नागता ।
तत्सत्यं ब्रूहि नो चेद्वा करिष्ये निग्रहं तव ।। ९२
तच्छ्रुत्वा तमवादीत्सा तवैष यदि निश्चयः ।
तत्किं पृच्छसि मां यत्ते रोचते तत्कुरुष्व मे ।। ९३
इति सावज्ञमाकर्ण्य वचस्तस्याः स कोपतः ।
वज्रसारस्तरौ बद्ध्वा लताभिस्तामताडयत् ।। ९४
वस्त्रं हरति यावच्च तस्यास्तावद्विलोक्य ताम् ।
नग्नां रिरंसा मूढस्य तस्याजायत रागिणः ।। ९५
ततो निवेश्य बद्धां तां रन्तुमाश्लिष्यति स्म सः ।
नेच्छति स्म च सा तेन प्रार्थ्यमाना जगाद च ।। ९६
लताभिस्ताडिता बद्ध्वा यथाहं भवता तथा ।
यद्यहं ताडयेयं त्वां तत इच्छामि नान्यथा ।। ९७
तथेति प्रतिपेदे तत्स च व्यसनमोहितः ।
तृणसारीकृतश्चित्रं वज्रसारो मनोभुवा ।। ९८
ततः सहस्तपादं तं सा बबन्ध दृढं तरौ ।
तच्छस्त्रेणैव बद्धस्य कर्णनासं चकर्त सा ।। ९९
गृहीत्वा तस्य शस्त्रं च वासांसि च विधाय च ।
पापा पुरुषवेषं सा यथाकाममगात्ततः ।। १००
वज्रसारस्तु तत्रासीच्छिन्नश्रवणनासिकः ।
गलता शोणितौघेन मानेन च नताननः ।। १०१
अथ तत्रागतः कश्चिदोषध्यर्थं वने भिषक् ।
दृष्ट्वा तं कृपयोन्मुच्य साधुः स्वं नीतवान्गृहम् ।। १०२
तत्र चाश्वासितस्तेन शनैः स्वगृहमागमत् ।
स वज्रसारो न च तां चिन्वन्प्राप कुगेहिनीम् ।। १०३
अवर्णयच्च तं तस्मै वृत्तान्तं क्रोधनाय सः ।
तेनापि वत्सराजाग्रे कथितं सर्वमेव तत् ।। १०४
अयं निष्पौरुषामर्षः स्त्रीभूत इति भार्यया ।
पुंवेषोऽस्य हृतो नूनं निग्रहश्चोचितः कृतः ।। १०५
इति राजकुले सर्वजनोपहसितोऽपि सः ।
वज्रसार इहैवास्ते वज्रसारेण चेतसा ।। १०६
तदेवं कस्य विश्वासः स्त्रीषु देवेति गोमुखे ।
उक्तवत्यथ भूयोऽपि जगाद मरुभूतिकः ।। १०७
अप्रतिष्ठं मनः स्त्रीणामत्रापि श्रूयतां कथा ।
पूर्वं सिंहबलो नाम राजाभूद्दक्षिणापथे ।। १०८
तस्य कल्याणवत्याख्या सर्वान्तःपुरयोषिताम् ।
प्रिया मालवसामन्तसुता भार्या बभूव च ।। १०९
तया सह स राज्यं स्वं शासन्नृपतिरेकदा ।
निष्कासितोऽभूद्बलिभिर्देशात्संभूय गोत्रजैः ।। ११०
देवीद्वितीयः प्रच्छन्नं सायुधोऽल्पपरिच्छदः ।
स प्रतस्थे ततो राजा मालवं श्वशुरास्पदम् ।। १११
गच्छन्पथि च सोऽटव्यां सिंहमाधावितं पुरः ।
शरः खड्गप्रहारेण द्विधा चक्रेऽवहेलया ।। ११२
वनद्विपं च गर्जन्तमायान्तं मण्डलैर्भ्रमन् ।
खड्गच्छिन्नकराङ्घ्रीकं मुक्तारटिमपातयत् ।। ११३
एकाकी तस्करचमूर्विदलन्नवपङ्कजाः ।
ममाथारण्यविक्रान्तः करी कमलिनीरिव ।। ११४
एवं मार्गमतिक्रम्य दृष्टात्यडुतविक्रमाम् ।
मालवं प्राप्य देवीं स्वां सोऽब्रवीत्सत्वसागरः ।। ११५
न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया ।
लज्जैषा देवि का श्लाघा क्षत्रियस्य हि विक्रमे ।। ११६
इत्युक्त्वा च तया साकं प्राविशत्तत्पितुर्गृहम् ।
संभ्रमात्तेन पृष्टश्च निजं वृत्तान्तमुक्तवान् ।। ११७
संमान्य दत्तहस्त्यश्वस्तेनैव श्वशुरेण सः ।
गजानीकाभिधस्यागाद्राज्ञोऽतिबलिनोऽन्तिकम् ।। ११८
देवीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि ।
तत्रैव स्थापयामास विपक्षविजयोद्यतः ।। ११९
तस्मिन्प्रयाते यातेषु दिवसेष्वेकदात्र सा ।
देवी वातायनाग्रस्था कंचित्पुरुषमैक्षत ।। १२०
स दृष्ट एव रूपेण तस्याश्चित्तमपाहरत् ।
स्मरेणाकृष्यमाणा च तत्क्षणं सा व्यचिन्तयत् ।। १२१
जानेऽहं नार्यपुत्राद्यत्सुरूपोऽन्यो न शौर्यवान् ।
धावत्येव तथाप्यस्मिन्पुरुषे बत मे मनः ।। १२२
तदद्यैव भजाम्येनमिति संचिन्त्य सा तदा ।
सख्यै रहस्यधारिण्यै स्वाभिप्रायं शशंस तम् ।। १२३
तयैवानाय्य नक्तं च वातायनपथेन सा ।
अन्तःपुरं तं पुरुषं रज्जूत्क्षिप्तं न्यवेशयेत्।। १२४
स प्रविष्टोऽत्र पुरुषो नैवाध्यासितुमोजसा ।
शशाक तस्याः पर्यङ्कं न्यषीदत्पृथगासने ।। १२५
तद्दृष्ट्वा बत नीचोऽयमिति यावद्विषीदति ।
राज्ञी सा तावदत्रागादुपरिष्टाद्भ्रमन्नहिः ।। १२६
तं विलोक्य भियोत्थाय सहसा पुरुषोऽत्र सः ।
धनुरादाय भुजगं जघान विशिखेन तम् ।। १२७
विपन्नपतितं तं च गवाक्षेणाक्षिपद्बहिः ।
हर्षेण तद्भयोत्तीर्णो ननर्त स च कातरः ।। १२८
नृत्यन्तं वीक्ष्य तं विग्ना सा कल्याणवती भृशम् ।
दध्यौ धिग्धिक्किमेतेन निःसत्त्वेनाधमेन मे ।। १२९
दृष्ट्वैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी ।
निर्गत्याशु प्रविश्यात्र जगाद कृतसंभ्रमा ।। १३०
आगतस्ते पिता देवि तदयं यातु संप्रति ।
यथागतेनैव पथा स्वगृहं त्वरितं युवा ।। १३१
एवं तयोक्ते निर्यातो रज्वा वातायनाद्बहिः ।
भयाकुलः स पतितो न दैवात्पञ्चतां गतः ।। १३२
गते तस्मिन्नवोचत्तां सा कल्याणवती सखीम् ।
सखि सुष्ठु कृतं नीचो यत्त्वयैष बहिःकृतः ।। १३३
ज्ञातं त्वया मे हृदयं चेतो हि मम दूयते ।
भर्ता मे व्याघ्रसिंहादीन्निपात्यापह्नुते ह्रिया ।। १३४
अयं तु भुजगं हत्वा हीनसत्त्वः प्रनृत्यति ।
तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ।। १३५
तदप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः ।
या धावन्त्यशुचिं हित्वा कर्पूरं मक्षिका इव ।। १३६
इति जातानुतापा सा राज्ञी नीत्वा निशां ततः ।
प्रतीक्षमाणा भर्तारमासीत्तत्र पितुर्गृहे ।। १३७
तावत्स दत्तान्यबलो गजानीकेन भूभुजा ।
गत्वा तान्गोत्रजान्पञ्च पापान्सिंहबलोऽवधीत् ।। १३८
ततः स संप्राप्य पुनः स्वराज्यमानीय भार्यां च पितुर्गृहात्ताम् ।
प्रपूर्य तं च श्वशुरं धनौघैर्निष्कण्टकां क्ष्मां सुचिरं शशास ।। १३९
इति प्रवीरे सुभगे च सत्पतौ विवेकिनीनामपि देव योषिताम् ।
चलं मनो धावति यत्र कुत्रचिद्विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ।। १४०
इति मरुभूतिनिगदितामाकर्ण्य कथां स वत्सराजसुतः ।
नरवाहनदत्तस्तां सुखसुप्तो नीतवान्रजनीम् ।। १४१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सतारे शक्तियशोलम्बके द्वितीयस्तरङ्गः ।