कथासरित्सागरः/लम्बकः १०/तरङ्गः १
शक्तियशो नाम दशमो लम्बकः ।
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
अवारणीयं रिपुभिर्वारणीयं करं नुमः ।
हेरम्बस्य ससिन्दूरमसिं दूरमघच्छिदम् ।। १
पायाद्वः पुरदाहाय शंभोः संदधतः शरम् ।
समं व्यग्रेषु नेत्रेषु तृतीयमधिकं स्फुरत् ।। २
रक्तारुणा नृसिंहस्य कुटिला विद्विषो वधे ।
नखश्रेणी च दृष्टिश्च निहन्तुं दुरितानि वः ।। ३
एवं वत्सेश्वरसुतः कौशाम्ब्यां सचिवैः सह ।
नरवाहनदत्तः स तस्थौ भार्यासखः सुखी ।। ४
एकदा चास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः ।
वत्सेश्वरस्य विज्ञप्त्यै तद्वासी वणिगाययौ ।। ५
स रत्नदत्तनामा तं प्रतीहारनिवेदितः ।
प्रविश्य नत्वा राजानं वणिगेवं व्यजिज्ञपत् ।। ६
नाम्ना वसुधरो देव दरिद्रोऽस्तीह भारिकः ।
अकस्माच्च ददत्खादन्पिबंश्चाद्य स दृश्यते ।। ७
कौतुकाच्च गृहं नीत्वा यथेष्टं पानभोजनम् ।
दत्त्वा स क्षीबतां नीत्वा मया पृष्टोऽब्रवीदिदम् ।। ८
लब्धं राजकुलद्वारात्सरत्नं कटकं मया ।
उत्पाट्य रत्नमेकं च ततो विक्रीतवानहम् ।। ९
तच्च दीनारलक्षेण मूल्येन वणिजो मया ।
दत्तं हिरण्यगुप्तस्य तेनाद्याहं सुखं स्थितः ।। १०
इत्युक्त्वा दर्शितं तेन देवनामाङ्कितं मम ।
कटकं यत्ततो देव विज्ञप्तोऽद्य मया प्रभुः ।। ११
एतच्छ्रुत्वा स वत्सेशस्तत्रानाययति स्म तौ ।
भारिकं तं सवलयं सरत्नं वाणिजं च तम् ।। १२
हन्त स्मृतं प्रकोष्ठान्मे भ्रष्टमेतत्पुरभ्रमे ।
इति तत्कटकं दृष्ट्वा स राजाभिदधे स्वयम् ।। १३
निर्हृतं राजनामाङ्कं लब्ध्वा किं कटकं त्वया ।
इति पृष्टोऽथ सभ्यैः स राजाग्रे भारिकोऽभ्यधात् ।। १४
भारजीवी कुतो वेद्मि राजनामाक्षराण्यहम् ।
दारिद्र्यदुःखदग्धेन लब्ध्वैतत्स्वीकृतं मया ।। १५
इत्युक्ते तेन रत्नार्थमाक्षिप्तः सोऽब्रवीद्वणिक् ।
प्रसह्य(?) मूल्येन मया गृहीतं रत्नमापणे ।। १६
न चास्य राजाभिज्ञानमस्ति तन्मय(?)मुच्यते ।
मूल्यात्पञ्चसहस्री तु नीतानेन परं स्थितम् ।। १७
एतद्धिरण्यगुप्तस्य वचो यौगन्धरायणः ।
श्रुत्वा तत्र स्थितोऽवादीन्नात्र दोषोऽस्ति कस्यचित् ।। १८
दरिद्रस्यालिपिज्ञस्य भण्यतां भारिकस्य किम् ।
दारिद्यात्क्रियते चौर्यं लब्धं केनोज्झितं पुनः ।। १९
मूल्येन रत्नग्राही च न वाच्यो वणिगप्यसौ ।
एतन्महामन्त्रिवचो वत्सेशः श्रद्दधे तदा ।। २०
दत्त्वा पञ्चसहस्रीं च भारिकेण व्ययीकृताम् ।
हिरण्यगुप्ताद्वणिजो रत्नं तस्मात्स्वमाददे ।। २१
भारिकं चाकरोन्मुक्तं गृहीत्वा कटकं निजम् ।
भुक्तपञ्चसहस्रीको गतभीः सोऽप्यगाद्गृहम् ।। २२
विश्वस्तघाती पापोऽयमिति चान्तर्द्विषन्नृपः ।
रत्नदत्तं स वणिजं कार्यार्थं तममानयत् ।। २३
गतेषु तेषु राजाग्रगतोऽवोचद्वसन्तकः ।
अहो दैवाभिशप्तानां प्राप्तोऽप्यर्थः पलायते ।। २४
अस्य भद्रघटोदन्तः संवृत्तो भारिकस्य यत् ।
तथाहि कश्चिदासीत्प्राक्पुरे पाटलिपुत्रके ।। २५
शुभदत्तः स नाम्ना च प्रत्यहं काष्ठभारकम् ।
वनादानीय विक्रीय पुष्णाति स्म कुटुम्बकम् ।। २६
एकदा चागतो दूरं वनं दैवाद्ददर्श सः ।
तत्रस्थांश्चतुरो यक्षान्दिव्याभरणवाससः ।। २७
ते भीतं वीक्ष्य तं प्रीत्या सर्वे पृष्ट्वा यथातथम् ।
बुद्ध्वा दरिद्रमुत्पन्नकृपा यक्षा बभाषिरे ।। २८
इहास्मदन्तिके तिष्ठ भद्र कर्मकरो भवान् ।
अक्लेशं गृहनिर्वाहं करिष्यामो वयं तव ।। २९
इत्युक्तस्तैस्तथेत्यासीच्छुभदत्तस्तदन्तिके ।
स्नानादिपरिचर्यां च कृत्स्नां तेषां चकार सः ।। ३०
संजाते भोजनस्थाने यक्षास्ते जगदुश्च तम् ।
आहारमस्मानमुतो देहि भद्रघटादिति ।। ३१
अन्तःशून्यं स तं दृष्ट्वा घटं यावद्विलम्बते ।
तावत्तं गुह्यका भूयस्तमाहुः सस्मिताननाः ।। ३२
शुभदत्त न वेत्सि त्वं क्षिप हस्तं घटान्तरे ।
यथेष्टं लप्स्यसे सर्वं घटः कामप्रदो ह्यसौ ।। ३३
तच्छ्रुत्वा प्रक्षिपत्यन्तः पाणिं यावद्धटान्तरे ।
तावदाहारपानादि कामितं दृष्टवानसौ ।। ३४
......... ।
शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं ततः ।। ३५
एवं परिचरन्यक्षान्भक्त्या भीत्या च सोऽन्वहम् ।
तस्थौ कुटुम्बचिन्तार्तः शुभदत्तस्तदन्तिके ।। ३६
तत्कुटुम्बं च दुःखार्तं स्वप्नादेशेन गुह्यकैः ।
आश्वासितं तत्प्रसादाद्रमते स्म ततश्च सः ।। ३७
मासमात्रेण यक्षास्ते शुभदत्तं तमभ्यधुः ।
तुष्टाः स्मस्तेऽनया भक्त्या ब्रूहि किंचिद्ददाम ते ।। ३८
तच्छ्रुत्वा स जगादैतांस्तुष्टाः स्थ यदि सत्यतः ।
एष भद्रघटस्तन्मे युष्माभिर्दीयतामिति ।। ३९
ततस्तमूचुर्यक्षास्ते नैतं शक्ष्यसि रक्षितुम् ।
भङ्गे पलायते ह्येष तद्वृणीष्वापरं वरम् ।। ४०
इत्युक्तोऽपि स यक्षैस्तैः शुभदत्तोऽपरं यदा ।
वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ।। ४१
ततः प्रणम्य तान्हृष्टो घटमादाय तं जवात् ।
गृहं स शुभदत्तः स्वं प्राप नन्दितबान्धवः ।। ४२
तत्र तस्माद्धटाल्लब्ध्वा भोजनादि निवेश्य तत् ।
गुप्त्यर्थमन्यभाण्डेषु सोऽभुङ्क्त स्वजनैः सह ।। ४३
भारमुक्तो भजन्भोगान्पानमत्तोऽथ जातु सः ।
कुतस्तवैषा भोगश्रीरित्यपृच्छ्यत बन्धुभिः ।। ४४
स व्यक्तमब्रुवन्मूढो गर्वेणेप्सितकामदम् ।
गृहीत्वा घटकं स्कन्धे प्रारेभे बत नर्तितुम् ।। ४५
नृत्यतस्तस्य च स्कन्धान्मदोद्रेकस्खलद्गतेः ।
स भद्रघटको यातः पतित्वा भुवि खण्डशः ।। ४६
तदैव चाक्षतीभूय स जगाम यथागतम् ।
पूर्वावस्थां च स प्राप शुभदत्तो विषादवान् ।। ४७
तदेवं पानदोषादिप्रमादाहतबुद्धयः ।
अभव्याः प्राप्तमप्यर्थं नैव जानन्ति रक्षितुम् ।। ४८
इति भद्रघटाख्यानहासं श्रुत्वा वसन्तकात् ।
उत्थाय चक्रे वत्सेशः स्नानाहारादिकाः क्रियाः ।। ४९
नरवाहनदत्तोऽपि स्नात्वा भुक्त्वान्तिके पितुः ।
दिनान्ते सखिभिः साकं जगाम भवनं निजम् ।। ५०
तत्र रात्रावनिद्रं तं शयनीयगतं सुहृत् ।
शृण्वत्सु सचिवेष्वेतेष्ववोचन्मरुभूतिकः ।। ५१
दासीसङ्गेच्छया देव जाने नान्तःपुरं त्वया ।
आहूतं सापि नाहूता तेन निद्राद्य नास्ति ते ।। ५२
तत्किमद्यापि वेश्यासु जानन्नप्यनुरज्यसे ।
नह्यासां चास्ति सद्भावस्तथा चैतां कथां शृणु ।। ५३
अस्तीह चित्रकूटाख्यमृद्धिमन्नगरं महत् ।
तत्राभूद्रत्नवर्माख्यो महाधनपतिर्वणिक् ।। ५४
ईश्वराराधनादेकस्तस्य सूनुरजायत ।
अतश्चेश्वरवर्माणं नाम्ना चक्रे स तं सुतम् ।। ५५
अधीतविद्यमासन्नयौवनं वीक्ष्य तं च सः ।
एकपुत्रो वणिङ्मुख्यो रत्नवर्मा व्यचिन्तयत् ।। ५६
रूपिणी कुसृतिः सृष्टा धनप्राणापहारिणी ।
आढ्यानां यौवनान्धानां वेश्या नामेह वेधसा ।। ५७
तदर्पयामि कुट्टन्याः कस्याश्चिदमुमात्मजम् ।
वेश्याव्याजोपशिक्षार्थं येन ताभिर्न वञ्च्यते ।। ५८
इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा ।
यमजिह्वाभिधानायाः कुट्टन्याः सदनं ययौ ।। ५९
तत्र स्थूलहनुं दीर्घदशनां भुग्ननासिकाम् ।
शिक्षयन्तीं दुहितरं कुट्टनीं तां ददर्श सः ।। ६०
धनेन पूज्यते पुत्रि सर्वो वेश्या विशेषतः ।
तच्च नास्त्यनुरागिण्या रागं वेश्या त्यजेदतः ।। ६१
दोषाग्रदूतो रागो हि वेश्यापश्चिमसंध्ययोः ।
मिथ्यैव दर्शयेद्वेश्या तं नटीव सुशिक्षिता ।। ६२
रञ्जयेत्तेन सा पूर्वं दुह्याद्रक्तं ततो धनम् ।
दुग्धार्थं च त्यजेदन्ते प्राप्तार्थं पुनराहरेत् ।। ६३
समो यूनि शिशौ वृद्धे विरूपे रूपवत्यपि ।
वेश्याजनो यो मुनिवत्स चार्थं परमश्नुते ।। ६४
इति ब्रुवाणां दुहितुस्तामुपागात्स कुट्टनीम् ।
रत्नवर्मा कृतातिथ्यस्तया च समुपाविशत् ।। ६५
अब्रवीत्तां च पुत्रो मे त्वयार्ये शिक्ष्यतामयम् ।
वेशयोषित्कला येन वैदग्ध्यं प्राप्नुयादसौ ।। ६६
दीनाराणां सहस्रं च निष्क्रयं ते ददाम्यहम् ।
तच्छ्रुत्वा तस्य कामं तं प्रतिपेदे तथेति सा ।। ६७
ततो वितीर्य दीनारान्पुत्र तस्यै समर्प्य च ।
स तमीश्वरवर्माणं रत्नवर्मा ययौ गृहम् ।। ६८
अथात्रेश्वरवर्मा स यमजिह्वागृहे कलाः ।
वर्षेणैकेन शिक्षित्वा पितुस्तस्य गृहं ययौ ।। ६९
प्राप्तषोडशवर्षश्च पितरं तमुवाच सः ।
अर्थाद्धि धर्मकामौ नः पूजार्थादर्थतः प्रथा ।। ७०
एवमुक्तवते तस्मै श्रद्धाय स तथेति तत् ।
पञ्चानां द्रव्यकोटीनां भाण्डं प्रीतो ददौ पिता ।। ७१
तदादाय वणिक्पुत्रः ससार्थः स शुभेऽहनि ।
प्रायादीश्वरवर्माथ स्वर्णद्वीपाभिवाञ्छया ।। ७२
गच्छन्क्रमात्पथि प्राप स काञ्चनपुराभिधम् ।
नगरं तत्र चासन्नबाह्योद्याने समावसत् ।। ७३
स्नातभुक्तानुलिप्तश्च प्रविश्य नगरेऽत्र सः ।
युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ ।। ७४
तत्रापश्यच्च नृत्यन्तीं सुन्दरीं नाम लासिकीम् ।
तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव ।। ७५
दृष्ट्वैव तां तदा सोऽभूत्तदेकगतमानसः ।
क्रुद्धेव कुट्टनीशिक्षा दूरे तस्याभवद्यथा ।। ७६
वयस्यं प्रेष्य वृत्तान्ते प्रार्थयामास तां च सः ।
धन्यास्मीति वदन्ती च प्रह्वा साप्यन्वमन्यत ।। ७७
स्थापयित्वा निवासे स्वे निपुणान्भाण्डरक्षिणः ।
तस्या ईश्वरवर्मासौ सुन्दर्या वसतिं ययौ ।। ७८
तस्मिन्मकरकट्याख्या तन्माता तमुपागतम् ।
अमानयद्गृहाचारैस्तैस्तैस्तत्समयोचितैः ।। ९
निशागमे वासगृहं स्फुरद्रत्नवितानकम् ।
न्यस्तपर्यङ्कशयनं प्रावेश्यत तया च सः ।। ८०
तत्रारमत सुन्दर्या तयानुमतया सह ।
विचित्रकरणे नृत्ते सुरते च विदग्धया ।। ८१
गाढदर्शितरागां तां पार्श्वादनपगामिनीम् ।
दृष्ट्वा द्वितीयेऽह्नि ततो निर्गन्तुं नाशकच्च सः ।। ८२
ददौ च हेमरत्नादिलक्षाणां पञ्चविंशतिम् ।
तस्यै दिनद्वये तस्मिन्सुन्दर्यै स वणिग्युवा ।। ८३
प्राप्तं मया धनं भूरि नाहं प्राप्ता भवादृशाम् ।
स एव चेन्मया प्राप्तः किं धनेन करोम्यहम् ।। ८४
इत्यसत्यानुबन्धेन सुन्दरीं तदगृह्णतीम् ।
माता मकरकट्येवमेकापत्यैव साह ताम् ।। ८५
इदानीमस्मदीयं यत्तदस्यैव स्वकं धनम् ।
तन्मध्ये स्थापयित्वा तद्गृह्यतां पुत्रि का क्षतिः ।। ८६
इत्युक्ता सुन्दरी मात्रा कृच्छ्रादिव तदग्रहीत् ।
मेने चेश्वरवर्मा तां मूढः सत्यानुरागिणीम् ।। ८७
तस्या रूपेण नृत्तेन गीतेन च हृतात्मनः ।
वणिजोऽत्र स्थितस्याथ तस्य मासद्वयं ययौ ।। ८८
तावच्च तस्यै सुन्दर्यै कोट्यौ द्वे स ददौ क्रमात् ।
अथोपेत्यार्थदत्ताख्यः सखा स्वैरमुवाच तम् ।। ८९
सखे किं कुट्टनीशिक्षा सा यत्नोपार्जितापि ते ।
कातरस्यास्त्रविद्येव निष्फलावसरे गता ।। ९०
वेश्याप्रेमणि सद्भावो यदस्मिन्बुध्यते त्वया ।
सत्यं भवति किं जातु जलं मरुमरीचिषु ।। ९१
तत्सर्वं क्षीयते यावदिहैव न धनं तव ।
तावद्व्रजामो बुध्वा हि क्षमेतैतत्पिता न ते ।। ९२
इत्युक्तस्तेन मित्रेण वणिक्पुत्रो जगाद सः ।
सत्यं न वेश्यास्वाश्वासः सुन्दरी तु न तादृशी ।। ९३
क्षणं हि मामपश्यन्ती मुञ्चेत्प्राणानसौ सखे ।
तद्गत्वा बोधयत्वेतां गन्तव्यं यदि सर्वथा ।। ९४
एवमुक्तः स तेनार्थदत्तस्तस्यैव संनिधौ ।
मातुर्मकरकट्याश्च सुन्दरीमवदत्ततः ।। ९५
तव तावदसामान्या प्रीतिरीश्वरवर्मणि ।
गन्तव्यं चाधुनावश्यं स्वर्णद्वीपं वणिज्यया ।। ९६
ततः प्राप्स्यत्ययं लक्ष्मीं ययागत्य त्वदन्तिके ।
यावत्कालं सुखं स्थास्यत्यनुमन्यस्व तत्सखि ।। ९७
तच्छ्रुत्वा साश्रुनयना पश्यन्तीश्वरवर्मणः ।
मुखं कृतविषादा सा सुन्दरी च तमभ्यधात् ।। ९८
यूयं जानीत किमहं वच्म्यन्तमनवेक्ष्य कः ।
कस्य प्रत्येति तदलं यद्विधत्तां विधिर्मम ।। ९९
तच्छ्रुत्वोवाच माता तां मा दुःखं धृतिरस्तु ते ।
एष्यत्येव प्रियोऽयं ते सिद्धार्थस्त्वां न हास्यति ।। १००
इति माता किलाश्वास्य कृतसंवित्तया सह ।
मार्गाग्रे गुप्तमेकस्मिन्कूपे जालमकारयत् ।। १०१
तदा चेश्वरवर्माभूत्तद्दोलारूढमानसः ।
शुचेवाल्पाल्पमाहारपानं चक्रे च सुन्दरी ।। १०२
गीतवादित्रनृत्तेषु न बबन्ध रतिं च सा ।
आश्वास्यते स्म प्रणयैस्तैस्तैरीश्वरवर्मणा ।। १०३
ततो दिने वयस्योक्ते सुन्दरीमन्दिरात्ततः ।
चचालेश्वरवर्मा स कुट्टनीकृतमङ्गलः ।। १०४
अनुवव्राज चोदश्रुः सुन्दरी तं समातृका ।
नगराद्बहिरा कूपाद्बद्धान्तर्जालकात्ततः ।। १५५
ततो निवर्त्य यावच्च सुन्दरीं तां प्रयाति सः ।
तावदात्मा तया कूपे जालपृष्ठे निचिक्षिपे ।। १०६
हा हा स्वामिनि हा पुत्रीत्याक्रन्दः सुमहांस्ततः ।
दासीनां भृत्यवर्गस्य तन्मातुश्चात्र शुश्रुवे ।। १०७
तेन प्रतिनिवृत्त्यैव समित्रः स वणिक्सुतः ।
कूपे क्षिप्ततनुं कान्तां बुद्ध्वा मोहमगात्क्षणम् ।। १०८
सप्रलापं च शोचन्ती तस्मिन्मकरकट्यथ ।
स्वानवातारयद्भृत्यान्कूपे स्निग्धान्ससंविदः ।। १०९
रज्जुभिस्तेऽवतीर्यैव दिष्ट्या जीवति जीवति ।
इत्युक्त्वा तां ततः कूपादुत्क्षिपन्ति स्म सुन्दरीम् ।। ११०
उत्क्षिप्ता मृतकल्पं सा कृत्वात्मानं निवेदितम् ।
प्रत्यागतं वणिक्पुत्रमालापं शनकैर्ददौ ।। १११
समाश्वस्तां समादाय हृष्टस्तां सानुगः प्रियाम् ।
अगादीश्वरवर्मासौ प्रत्यावृत्त्यैव तद्गृहम् ।। ११२
निश्चित्य सुन्दरीप्रेमप्रत्ययं जन्मनः फलम् ।
तत्प्राप्तिमेव मत्वा स यात्राबुद्धिं पुनर्जहौ ।। ११३
ततो बद्धस्थितिं तत्र सोऽर्थदत्तः सखा पुनः ।
तमभ्यधात्सखे मोहात्किमात्मा नाशितस्त्वया ।। ११४
मा भूत्ते सुन्दरीस्नेहप्रत्ययः कूपपाततः ।
अतर्क्या कुट्टनीकूटरचना हि विधेरपि ।। ११५
पितुश्च क्षपितार्थः किं वक्ष्यसे यास्यसि क्व वा ।
तदितोऽद्यापि निर्याहि कल्याणे चेन्मतिस्तव ।। ११६
एतत्तस्य वचः सख्युरवधीर्य वणिग्युवा ।
मासेनान्यद्व्ययीचक्रे तत्र कोटित्रयं स तत् ।। ११७
ततो हृतस्वो दत्तार्धचन्द्रकः सुन्दरीगृहात् ।
तया मकरकट्याथ कुट्टन्या निरवास्यत ।। ११८
अर्थदत्तादयस्ते च गत्वा स्वनगरं द्रुतम् ।
तत्पित्रे तत्समाचख्युर्यथावृत्तमशेषतः ।। ११९
स तत्पिता रत्नवर्मा तद्बुद्ध्वा दुःखितो भृशम् ।
कुट्टनीं यमजिह्वां तां गत्वावोचद्वणिक्पतिः ।। १२०
गृहीत्वा मूल्यमीदृक्स त्वया मे शिक्षितः सुतः ।
हृतं मकरकट्या यत्सर्वस्वं तस्य हेलया ।। १२१
इत्युक्त्वा पुत्रवृत्तान्तं तस्यै स तमवर्णयत् ।
ततः सा यमजिह्वा तं वृद्धकुट्टन्यभाषत ।। १२२
आनाययेह पुत्रं ते करिष्यामि तथा यथा ।
तस्या मकरकट्यास्तत्सर्वस्वं स हरिष्यति ।। १२३
एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया ।
तदैव शीघ्रं संदिश्य वृत्त्या दानपुरःसरम् ।। १२४
रत्नवर्मा ततस्तस्य पुत्रस्यानयनाय सः ।
तन्मित्रमर्थदत्तं च प्रजिघाय हितैषिणम् ।। १२५
अर्थदत्तः स गत्वा च तत्काञ्चनपुरं पुरम् ।
तस्मै तं सर्वसंदेशं शशंसेश्वरवर्मणे ।। १२६
पुनस्तं चाब्रवीन्मित्त्र नाकार्षीस्त्वं वचो हि मे ।
तदद्य वेश्यासद्भावो दृष्टः प्रत्यक्षतस्त्वया ।। १२७
अर्धचन्द्रस्त्वया प्राप्तो दत्त्वा तत्कोटिपञ्चकम् ।
कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु च ।। १२८
किमुच्यते वा भवतो वस्तुधर्मोऽयमीदृशः ।
तावद्विदग्धो वीरश्च नरो भागी शुभस्य च ।। १२९
यावत्पतति नैवासौ रामाविभ्रमभूमिषु ।
तदागच्छ पितुः पार्श्वं मन्युप्रतिकृतिं कुरु ।। १३०
इत्युक्त्वा सोऽर्थदत्तेन तेनानीयत सत्वरम् ।
आश्वास्येश्वरवर्मासौ पितुः पार्श्वमुपागतः ।। १३१
पित्रा चैकसुतस्नेहात्सान्त्वयित्वैव तेन सः ।
नीतोऽभूद्यमजिह्वायाः कुट्टन्या निकटं पुनः ।। १३२
पृष्टश्चात्र तयाचख्यौ सोऽर्थदत्तमुखेन तम् ।
स्वोदन्तं सुन्दरीकूपनिपातान्तं धनक्षयम् ।। १३३
यमजिह्वा ततोऽवादीदहमेवापराधिनी ।
यद्विस्मृत्य मया मायामेतामेष न शिक्षितः ।। १३४
कूपे मकरकट्या हि जालमन्तर्न्यबध्यत ।
तत्पृष्ठे सुन्दरी देहमक्षिपन्न ममार यत् ।। १३५
तदत्रास्ति प्रतीकार इत्युक्त्वा सापि कुट्टनी ।
आनाययत्स्वदासीभिरालं नाम स्वमर्कटम् ।। १३६
दत्त्वाग्रे स्वं च दीनारसहस्रं तमुवाच सा ।
निगिलेति ततः सोऽपि शिक्षितस्तन्निगीर्णवान् ।। १३७
पुत्रास्मै विंशतिं देहि देह्यस्मै पञ्चविंशतिम् ।
षष्टिमस्मै शतं चास्या इति नानाव्ययेषु च ।। १३८
दाप्यमानो निगीर्णास्तांस्तयात्र यमजिह्वया ।
उद्गीर्योद्गीर्य दीनारांस्तथैव स कपिर्ददौ ।। १३९
आलयुक्तिं प्रदर्श्यैतां यमजिह्वाब्रवीत्पुनः ।
गृहाणेश्वरवर्मस्त्वमेतं मर्कटपोतकम् ।। १४०
पुनस्तत्सुन्दरीवेश्म प्राग्वद्गत्वा दिने दिने ।
एवं गुप्तनिगीर्णांस्तान्मृगयस्वामुतो व्यये ।। १४१
दृष्ट्वा चिन्तामणिप्रख्यं सैतमालं च सुन्दरी ।
दत्त्वा ते प्रार्थ्य सर्वस्वं कपिमेकं ग्रहीष्यति ।। १४२
गृहीततद्धनो दत्त्वा निगीर्णाहर्द्वयव्ययम् ।
इमं तस्यै ततो दूरं यायास्त्वमविलम्बितम् ।। १४३
इत्युक्त्वा यमजिह्वा तत्तस्मायीश्वरवर्मणे ।
मर्कटं तं ददौ भाण्डं पिता कोटिद्वयस्य च ।। १४४
तद्गृहीत्वैव स प्रायात्तत्काञ्चनपुरं पुनः ।
सृष्टाग्रदूतः सुन्दर्या तद्गृहं प्रविवेश च ।। १०७
सा तं साधनसर्वस्वं निर्बन्धमिव सुन्दरी ।
अभ्यनन्दत्ससुहृदं कण्ठाश्लेषादिसंभ्रमैः ।। १४६
विश्वास्येश्वरवर्माथ तत्समक्षं क्षणान्तरे ।
आलमानय गत्वेति सोऽर्थदत्तमभाषत ।। १४७
तथेति तेन गत्वा च समानीयत मर्कटः ।
निगीर्णपूर्वदीनारसहस्रं स जगाद तम् ।। १४८
आल पुत्र प्रयच्छाद्य दीनाराणां शतत्रयम् ।
आहारपानस्य कृते ताम्बूलादिव्यये शतम् ।। १४९
शतं मकरकट्यै च देह्यम्बायै द्विजातिषु ।
शतं शेषं सहस्राद्यत्सुन्दर्यै तत्समर्पय ।। १५०
एवमीश्वरवर्मोक्तो मर्कटः स तथैव ताम् ।
उद्गीर्योद्गीर्य दीनारान्प्राङ्निगीर्णान्व्ययेष्वदात् ।। १५१
इत्थं युक्त्यानया नित्यं यावदीश्वरवर्मणा ।
आलो व्ययेषु दीनारान्दाप्यते पक्षमात्रकम् ।। १५२
तावन्मकरकट्येवं सुन्दरी च व्यचिन्तयत् ।
अहो चिन्तामणिरयं सिद्धोऽस्य कपिरूपधृत् ।। १५३
दिने दिने सहस्रं यो दीनाराणां प्रयच्छति ।
एषोऽमुना चेदस्माकं दत्तः सिद्धं मनोरथैः ।। १५४
इत्यालोच्य समं मात्रा विजनेऽर्थयते स्म तम् ।
सुन्दरीश्वरवर्माणं भुक्तोत्तरसुखस्थितम् ।। १५५
प्रसादो मयि सत्यं चेदालमेतं प्रयच्छ मे ।
तच्छ्रुत्वेश्वरवर्मा तां निजगाद हसन्निव ।। १५६
असौ तातस्य सर्वस्वं तच्च दातुं न युज्यते ।
इत्यूचिवांसं च पुनः सुन्दरी तमुवाच सा ।। १५७
ददामि पञ्चकोटीर्वस्तदयं दीयतामिति ।
तत ईश्वरवर्मा च निश्चित्यैव जगाद तम् ।। १५८
ददासि यदि सर्वस्वमिदं वा नगरं मम ।
तथापि युज्यते नैष दातुं किमिति कोटिभिः ।। १५९
श्रुत्वैतत्सुन्दरी स्माह सर्वस्वं ते ददाम्यहम् ।
देह्येतं मर्कटं मह्यमम्बा कुप्यतु नाम मे ।। १६०
इत्युक्त्वा सुन्दरी पादौ जग्राहेश्वरवर्मणः ।
ऊचुस्ततोऽर्थदत्ताद्या दीयतां यद्भवत्विति ।। १६१
ततश्चेश्वरवर्मा तं तथा दातुममन्यत ।
अनयत्सह सुन्दर्या दिनं तच्च प्रहृष्टया ।। १६२
प्रातश्चाभ्यर्थमानायै सुन्दर्यै मर्कटं स तम् ।
निगीर्णगुप्तदीनारसहस्रद्वितयं ददौ ।। १६३
तन्मूल्यं गृहसर्वस्वं तस्याश्चादाय तत्क्षणम् ।
ततः प्रायाद्द्रुतं चागात्स्वर्णद्वीपं वणिज्यया ।। १६४
सुन्दर्यै च प्रहृष्टायै ददावालो दिनद्वयम् ।
स सहस्रं सहस्रं तान्दीनारान्याचितः कपिः ।। १६५
तृतीयेऽह्न्यसकृत्प्रीत्या याच्यमानोऽप्यसौ यदा ।
नादात्किंचित्तदा मुष्ट्या सुन्दरी तमताडयत् ।। १६६
स ताडितः क्रुधोत्पत्य मर्कटो दशनैर्नैखैः ।
सुन्दर्यास्तज्जनन्याश्च घ्नन्त्योः पाटितवान्मुखम् ।। १६७
ततस्तज्जननी सा तं स्रवद्रक्तमुखी क्रुधा ।
लगुडैस्ताडयामास तेनालोऽत्र ममार सः ।। १६८
तं मृतं वीक्ष्य सर्वस्वं नष्टमालोच्य दुःखिता ।
प्राणत्यागोद्यता साभूज्जनन्या सह सुन्दरी ।। १६९
जालं मकरकट्या तत्कृत्वा यस्य हृतं धनम् ।
आलं कृत्वाद्य तेनास्याः सर्वस्वं सुधिया हृतम् ।। १७०
तयान्यस्य कृतं जालमाल ज्ञातं तु नात्मनः ।
इत्युवाचात्र विज्ञातवृत्तान्तो विहसञ्जनः ।। १७१
ततः सा सुन्दरी कृच्छ्राद्देहत्यागान्न्यवर्त्यत ।
स्वजनैर्जननीयुक्ता नष्टार्था पाटितानना ।। १७२
स चार्जिताधिकश्रीकः स्वर्णद्वीपात्ततोऽचिरात् ।
आगादीश्वरवर्मा तच्चित्रकूटे पितुर्गृहम् ।। १७३
तमुपागतमर्जितामितार्थं सुतमालोक्य पिता च रत्नवर्मा ।
अभिपूज्य स कुट्टनीं धनेन यमजिह्वा सुमहोत्सवं चकार ।। १७४
स च विदितातुलमायो विरक्तचेता विलासिनीसङ्गे ।
आसीदीश्वरवर्मा ततोऽत्र कृतदारसंग्रहः स्वगृहे ।। १७५
एवं नरेश वनिताहृदये न जातु कूटादृते वसति सत्यकथालवोऽपि ।
तत्सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः ।। १७६
इति मरुभूतेर्वदनाच्छ्रुत्वा स यथावदालजालकथाम् ।
नरवाहनदत्तस्तच्छ्रद्धाय जहास गोमुखादियुतः ।। १७७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके प्रथमस्तरङ्गः ।