सामग्री पर जाएँ

औचित्यविचारचर्चा (क्षेमेन्द्रविरचिता)

विकिस्रोतः तः
औचित्यविचारचर्चा (विरचिता)
क्षेमेन्द्रः

[]महाकविश्रीक्षेमेन्द्रकृता

औचित्यविचारचर्चा।

कृतारिवञ्चने दृष्टियेनाञ्जनमलीमसा ।
अच्युताय नमस्तस्सै परमौचित्यकारिणे ॥१॥

कृत्वापि काव्यालंकारां क्षेमेन्द्रः []केविकर्णिकाम् ।
तत्कलङ्कं विवेकं च विधाय विबुधप्रियम् ॥२॥

औचित्यस्य चमत्कारकारिणवारुचर्वणे ।
रसजीवितभूतस्य विचारं कुरुतेऽधुना ॥ ३ ॥ (युम्मम्)

काव्यस्यालमलंकारैः किं मिथ्यागणितैर्गुणैः ।
यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥४॥

अलंकारास्त्वलंकारा गुणा एव गुणा: सदा ।
औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ ५ ॥

परस्परोपकारकरुचिरशब्दार्थरूपस्य काव्यस्योपमोत्प्रेक्षादयो ये प्रचु- रालंकारास्ते कटककुण्डलकेयूरहारादिवदलंकारा एव, बाह्यशोभाहेतुत्वात् । येऽपि काव्यगुणाः केचन तल्लक्षणविचक्षणैः समानातास्तेऽपि श्रुतसत्य- शीलादिवद्गुणा एव, आहार्यत्वात् । औचित्यं त्वग्रे वक्ष्यमाणलक्षणं स्थिरमविनश्वरं जीवितं काव्यस्य, तेन विनास्य गुणालंकारयुक्तस्यापि निर्जीवत्वात् । रसेन शृङ्गारादिना सिद्धस्य प्रसिद्धस्य काव्यस्य धातुवा- दरससिद्धस्येव तज्जीवित स्थिरमित्यर्थः । उक्तार्थस्यैव विशेषमाह-

उचितस्थानविन्यासादलंकृतिरलंकृतिः ।
औचित्यादच्युत्ता नित्यं भवन्त्येव गुणा गुणाः ॥६॥



१. कलाविलासप्रारम्भलिखितक्षेमेन्द्रकृतग्रन्थनाममालिकातिरिक्ता: क्षेमेन्द्रकृता
ग्रन्थास्त्वेते---(१)अवसरसारः, (२) नीतिलता, (३) मुनिमतमीमांसा, (४) ललितरत्न
- माला, (५) विनयवल्ली.। अथ च तत्र क्षेमेन्द्रकृतग्रन्थेषु 'हस्त्रिजनप्रकाशः' इति प्रन्थनाम
लिखितम् , तत्कर्ता कश्चिदर्वाचीनो गुर्जरदेशोद्भवो यदुशर्मसूनुरन्यः क्षेमेन्द्र इति ज्ञेयम्।
अयमनेकप्रम्थकर्ता महाकविः क्षेमेन्द्रस्तु प्रकाशेन्द्रात्मजः कश्मीरदेशोद्भूतश्चेति सुप्रसिद्धमेव.

२. कस्यचित्क्षेमेन्द्रकृतग्रन्यस्यैव नाम भाति. अलंकृतिरुचितस्थानविन्यासादलंकर्तुं क्षमा भवति, अन्यथा त्वलंकृति- व्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुणतामासादयन्ति, अन्यथा पुनरगुणा एव । यदाह-

'कण्ठे मेखलया नितम्बफलके तारेण हारेण वा
पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।
शौर्येण प्रणते रिपो करुणया नायान्ति के हास्यत्ता-
मौचित्येन विना रुचिं प्रतनुते नालंकृतिर्नो गुणाः ॥'

किं तदौचित्यमित्याह-

उचितं प्राहुराचार्याः सदृशं किल यस यत् ।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ ७॥

यस्किल यस्यानुरूपं तदुचितमुच्यते, तस्य भावमौचित्यं कथयन्ति । अधुना सकलकाव्यशरीरजीवितभूतस्यौचित्यस्य प्राधान्येनोपलभ्यां स्थिति दर्शयितुमाह-

पदे वाक्ये प्रवन्धार्थे गुणेऽलंकरणे रसे।
क्रियायां कारके लिङ्गे वचने च विशेषणे ॥८॥

उपसर्गेनिपाते च काले देशे कुले व्रते ।
तत्त्वे तत्त्वेऽप्यभिप्राये खभावे सारसंग्रहे ॥९॥

प्रतिभायामवस्थायां विचारे नाम्र्यथाशिषि ।
काव्यस्याङ्गेषु च प्राहुरौचित्यं व्यापि जीवितम् ॥ १०॥

एतेषु पदप्रभृतिषु स्थानेषु मर्मस्विव काव्यस सकलशरीरव्यापि जीवितमौचित्यं स्फुटत्वेन स्फुरदवभासते । तेषुदाहरणानि क्रमेण दर्शयितुमाह--

तिलकं बिभ्रती सूक्तिर्भात्येकमुचितं पदम् ।
चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥११॥

एकमेवोचितं पदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरमागशी- भातिशयेन रुचिरतामावहति । यथा []परिमलस्य-

’मग्नानि द्विषतां कुलानि समरे त्वत्खङ्गधाराकुले
नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा ।
मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः
कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ ।'

अत्र मुग्धापदेनार्थौचित्यचमत्कारकारिणा सूक्तिः शरदिन्दुक्दनेव श्या- मतिलकेन श्यामेव शुभविशेषकेण विभूषिता सकलकविकुलललामभूतां विच्छित्तिमातनोति । न तु यथा []धमकीर्तेः-

'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निर्मितः।
एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥'

अत्र 'तन्व्याः' इति पदं केवलशब्दानुपासव्यसनितया निबद्धं न कांचिदर्थौचित्यचमत्कारकणिकामाविष्करोति । 'सुन्दर्याः' इत्यत्र पदमनुरूपं स्यात् । अन्यानि वा निरतिशयरूपलावण्यव्यञ्जकानि । तन्वीपदं तु विरह- विधुररमणीजने प्रयुक्तमोचित्यशोभां जनयति । यथा []श्रीहर्षस्य-

’परिम्लानं पीनस्तनजघनसादुमयत-
स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् ।



१. पद्मगुप्तापरनामा परिमलकविः साहसाङ्कचरितनामकेऽष्टादशसर्गात्मके महाकाव्ये-
अवन्तिभूपालस्य चरितं वर्णितवान.। २, अयं बौद्धो धर्मकीर्तिर्वासवदत्ताकर्तुः सुबन्धु-
कवेरपि प्राचीन आसीत. वासवदत्तायां वासवदत्तावर्णनप्रकरणे बौद्धसंगतिमिवालंकार-
भूषिताम्' इत्यस्ति. 'बौद्धसंगतिमिवालंकारो धर्मकीर्तिकृतो ग्रन्थविशेषस्तेन भूषिताम्'
इति तट्टीकायां शिवरामः,आनन्दवर्धनाचार्येणायमेव श्लोको धर्मकीर्तिनामोल्लेस्तपूर्वकंध्व-
निप्रन्म उदाहृतः सुभाषितावलावपि बहवो मदन्तधर्मकीर्तिश्लोकाः सन्ति। भदन्तशब्दो
बौद्धभिक्षुवाचकः ।. ३. रत्नावलीप्रियदर्शिकानागानन्दानां कर्ता कोऽयं, श्रीहर्ष इति न

११.प्र् गु.

   
इदं व्यस्तन्यासं लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः संतापं वदति बिसिनीपञ्रशयनम् ॥'

अत्र सागरिकाया विरहावस्थासूचकम् 'कृशाङ्ग्याः ' इति पदं परम- मौचित्यं पुष्णाति । वाक्यगतमौचित्यं दर्शयितुमाह-

औचित्यरचितं वाक्यं सततं संमतं सताम् ।
त्यागोदग्रमिवैश्वर्यं शीलोज्ज्वलमिव श्रुतम् ॥ १२ ॥

औचित्यरचितं वाक्यं काव्यविवेकविचक्षणानामभिमततमम् ।

यथा मम विनयवल्ल्याम्----

'देवो दयावान्विजयो जितात्मा यमौ मनःसंयममाननीयौ ।
इति ब्रुवाणः स्वभुजं प्रमार्ष्टि यः कीचकाकालिककालदण्डम् ।।
धीरः स किर्मीरजटासुरारिः कुबेरशौर्यप्रशमोपदेष्टा ।
दृष्टो हिडिम्बादयितः कुरूणां पर्यन्तरेखागणनाकृतान्तः ।

(युग्मम्) अत्र भीमस्य भीमचरितोचितकीचकाकालिककालदण्डहिडिम्बादयिता. दिभिः पदैरुन्निद्रौद्ररसस्वरूपानुरूपो वाक्यार्थः सजीव इवावभासते। यथा वा राजशेखरस्य-

'संबन्धी पुरुभूभुजां मनसिजव्यापारदीक्षागुरु-
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः ।


निश्चयः. बाणभट्ट एष खप्रभोः श्रीहर्षस्य नाम्ना रत्नावल्यादिग्रन्थान्कृतवानिति काश्मी- रकाः, पठन्ति च काव्यप्रकाशेऽपि 'श्रीहर्षादेर्वाणादीनामिव धनम्' इति. अन्यदेशीवास्तु धावककविः श्रीहर्षनाम्ना रनावलीं कृत्वा बहुधनं लब्धवानिति वदन्ति. अन्यदेशीयका- व्यप्रकाशपुस्तकेष्वपि 'श्रीहर्षादिर्धावकादीनामिव धनम् इत्येव पाठः काश्मीरकमते तु धावककविः शशशृङ्गायते. अन्यदेशीयपुस्तकपाठापेक्षया काश्मीरपुश्तकस्थपाठस किं- चिदधिकं प्रामाण्यम् , काव्यप्रकाशकर्तू राजानकममाटस्य काश्मीरदेशोत्पन्नत्वात् रत्ना - वलीश्लोका आनन्दवर्धनाचार्येणापि ध्वनिग्रन्थ उदाहृताः सन्ति ।. ख्रिस्तसंवत्सरीयाष्टम- शतकमध्यभागसमुत्पन्नेन कश्मीरमहीपतेर्जयापीडस्य मत्रिणा दामोदरागुप्तेनापि कुट्टनी- मतग्रन्थे रनावलीनाटिका विस्तरेण वर्णितास्ति. रनावलीप्रथमाङ्कस्था "उदयनगान्त-

रितमियम्' इत्याद्यार्यापि प्रसङ्गागता तत्र गृहीतास्ति ।.

सद्योमार्जितदाक्षिणात्यतरुणीदन्ताक्दातद्युति-
श्चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डीशचूडामणिः ॥'

अत्रापि चन्द्रमसः शृङ्गारान्तरङ्गैरनङ्गोद्दीपनैः पदैर्निर्वर्तितो वाक्यार्थः सदर्थौचित्यसामर्येनात्यर्थमर्थनीयतां प्राप्तः। न तु यथास्यैव-

'नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः
शश्वत्स्वङ्गमुजंगचन्दनतरौ क्रीडोपधाने श्रियः ।
आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे परं
श्रीदुर्योधनदोष्णि विक्रमपरे लीनं जगन्नन्दतु ॥'

अत्रातिशयपरकर्कशसोत्कर्षसुभटभुजस्तम्भस्यासमुचितेन कुवलयनालतु- लाधिरोपणेन वाक्यार्थः सोपहासतयेव निबद्धः परिज्ञायते । प्रबन्धार्थौचित्यं दर्शयितुमाह-

उचितार्थविशेषेण प्रबन्धार्थः प्रकाश्यते ।
गुणप्रभावभव्येन विभवेनेव सज्जनः ॥ १३ ॥

अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन सकलप्रबन्धार्थाप्यायिपीयूषवर्षेण समु- चितार्थविशेषेण महाकाव्यं स्फुरदिव चमत्कारकारितामापद्यते । यथा कालिदासस्य-

'जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुष कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याञ्चा मोधा वरमधिगुणे नाधमे लब्धकामा ।'

अत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दौत्ययोग्यताधानाय प्रथिवपु-- करावर्तकपर्जन्यवंश्यत्वममात्यप्रकृतिपुरुषत्वं च यदुपन्यस्तं तेन समतप्र- बन्धस्याभिधानतोत्प्रेक्षितेतिवृत्तरुचिरतरस्य निरतिशयमौचित्यमुद्द्योतितम् । यथा वा भवभूते:---- "(नेपथ्ये।)"

योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सतलोकैकवीरस्य दशकण्ठकुलद्विषः ॥.

लवः-(सगर्वमिव ।) अहो संतापनान्यक्षराणि । भो भोः, किमक्ष- त्रिया पृथिवी यदेवमुद्भष्यते । (विहस्य ।) आः, किं नाम स्फरन्ति शस्त्राणि । (धनुरारोपयन् ।)

ज्याजिह्वया वलयितोत्कटकोटि दंष्ट्र-
मुद्गारिधोरधनधर्धरघ्षोमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्रयन्त्र-
जृम्भाविडम्बिविकटोदरमस्तु चापम् ॥'

अत्रार्थे रामायणकथातिक्रमेण नूतनोत्प्रेक्षिता रामतनयस्य सहजवि- क्रमानुसारिणी शौर्योत्कर्षभूमिः परप्रतापस्पर्शासहिष्णुता प्रबन्धस्य रसबन्धु- रामौचित्यच्छायां प्रयच्छति ॥ न तु यथा राजशेखरस्य-

'रावण:-यत्पार्वतीहटकचहणप्रवीणे
पाणौ स्थितं पुरभिदः शरवां सहस्रम् ।
गीर्वाणसारकणनिर्मितगात्रमत्र
तन्मैथिलीक्रयधनं धनुराविरस्तु ।

जनक:-आविरस्तु सममगर्भसंभवया सीतया ।'

अत्र 'आविरस्तु समं सीतया' इति जनकराजेन यदुच्यते तेनास्य पि- शिताशनाय तनयाप्रतिपादनमभिमतमिवोपलक्ष्यते । न चैतद्विभः कथं भक्ष्यभूता कुसुमकोमलाङ्गी पुरुषादाय प्रतिपाद्यते । इत्यनौचित्येन प्रसिद्धेन वृत्तवैपरीत्यं परं हृदयविसंवादमादधाति । यथा वा कालिदासस्य---

'ऊरुमूलनखमार्गपङ्क्तिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस संयम कुर्वतीं प्रियतमामवारयत् ।।'

अत्राम्बिकासंभोगवर्णने पामरनारीसमुचितनिर्लज्जसज्जेनस्वराजिविराजि- तोरुमूलहृतविलोचनत्वं त्रिलोचनस्य भगवतस्त्रिजयदुरोर्यदुक्तं तेनानौचि- त्यमेव परं प्रबन्धार्थः पुष्णाति । गुणौचित्य दर्शयितुमाह-

प्रस्तुतार्थोचितः काव्ये भव्यः सौभाग्यवान्गुणः ।
स्सन्दतीन्दुरिवानन्दं संभोगावसरोदितः ॥ १४ ॥

प्रस्तुतस्यार्थस्यौचित्येनौजःप्रसादमाधुर्यसौकुमार्यादिलक्षणो गुणः काव्ये भव्यः सौभाग्यवत्तामवाप्तः सहृदयानन्दसंदोहमिन्दुरिव स्यन्दति ॥ यथा []भेट्टनारायणस्य-

'महाप्रलयमारुतक्षुभितपुष्करावर्तक-
प्रचण्डधनगर्जितप्रतिरवानुकारी मुहुः ।
रवः श्रवणभैरवः स्थागितरोदसीकंदरः
कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥'

अत्रौजस्विनः भटमुकुटमणेरश्वत्थाम्नः स्फूर्जदूर्जितप्रतापानुरूपं वा- क्यमोजसा काव्यगुणेनोदप्रतामवाप्तं सहस्रगुणमिव विक्रमौचित्यगौरव- मावहति ॥ यथा वा भट्टवाणस्य-

'हारो जलार्द्रवसन नलिनीदहानि
प्रालेयशीकरमु चस्तुहिनांशुभासः ।
यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः॥

अत्र विप्रलम्भभरभमग्नधैर्यायाः कादम्बर्या विरहव्यश्रावर्णना माधुर्य- सौकुमार्यादिगुणयोगेन पूर्णेन्दुवदनेव प्रियंवदत्वेन हृदयानन्ददायिनीं दयिततमतामातनोति ॥ नंतु यथा []चन्द्रकस्य-

'युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा
दैवं नियच्छति जयं च पराजयं च ।
एषैव मे रणगतस्य सदा प्रतिज्ञा
पश्यन्ति यन्न रिपवो जघनं हयानाम् ।

अत्र क्षत्रवृत्तिरिवौजसा काव्यगुणेनास्पृष्टा सुभटोक्तिरुचितार्थापि ते- जोजीवितविरहिता दुर्गतगृहदीपशिखेव मन्दायमाना न विद्योतते ॥ यथा वा राजशेखरस्य-

'एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्यो न यः
स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् ।
निर्वीर्थीकृतचन्दनौषधविधौ तस्मिंस्तडकारिणों
लाजस्फोटममी स्फुटन्ति मणयः सर्वेऽपि हारस्रजाम् ॥

अत्र विरहविधुररमणीमनोभवावस्थानुरूपं माधुर्यमुत्सृज्य तडत्कारिणो लाजस्फोटं स्फुटन्ती त्योजःस्फूर्जितोर्जितस्वभावाधिवासिता सूक्तिर्लीवण्य- पेशलतनुर्ललितललनेव परुषभाषिणी झटित्यनौचित्यं चेतसि संचारयति ।। अलंकारौचित्यं दर्शयितुमाह----

अर्थौचित्यवता सूक्तिरलंकारेण शोभते ।
पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥१५॥

प्रस्तुतार्थस्यौचित्येनोपमोर्प्रेक्षारूपकादिनालंकारेण सूक्तिश्चकास्ति का- मिनीवोच्चकुचंचुम्बिना रुचिरमुक्ताकलापेन ॥



़ १. अयं चन्द्रककविः कश्मीरदेशे तु‘ञ्जीनस्य राज्यकाले बभूव। 'नाट्यं सर्वजनप्रेक्ष्यं
यश्चक्रे स महाकविः । द्वैपायनमुनेरंशस्तत्काले चन्द्रकोऽभवत् ॥' इति राजतरङ्गिणी
(२ । १६). तुञ्जीनश्च ख्रिस्तसंवत्सरप्रारम्भात् १०३ मितवर्षपूर्ण राज्यसिंहासनमारो-
. हेति बहूनां मतम्, कनिङ्गह्यममते तु ३१९ मिते ख्रिस्तसंवत्सरे तुज्जीनो राज्यसिंहास-
नमारूढः मन बहूनां मतमेर प्राह्यम्.. </poem> यथा श्रीहर्षस्य-

'विश्रान्तविग्रहकथो रतिमाञ्जनस्य
चित्ते वसन्प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥'

अत्र वत्सेश्वरस्य कुसुमचापेनोपमा शृङ्गारावसरसरसचारुतरतामौचि- त्येन कामपि चेतश्चमत्कारिणीमाविष्करोति ॥ न तु यथा चन्दकस्य-

'खगो त्क्षिप्तैरन्त्रैस्तरुशिरसि दोलेब रचिता
शिवा तृप्ताहारा स्वपिति रतिखिन्नेव वनिता ।
तृषार्तो गोमायुः सरुधिरमसिं लेढि बहुशो
बिलान्वेपी सर्पो हतगजकराग्रं प्रविशति ॥

अत्रानुचितस्थानस्थितायाः पुरुषपिशिततृप्तसुप्तायाः शिवायाः सुरतके- लिक्लान्तकान्तया विच्छायैवोपमा परं वैपरीत्यं प्रकाशयति ।।

यथा वा []मालवरुद्रस्य----

'अभिनववधूरोषस्वादः करीषतनूनपा- दसरलज्जनाश्लेषकूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे- र्विरहिवनितावक्त्रौपम्यं बिमर्ति निशाकरः ॥’ </poem> अत्र कोमलकामिनीकोपेन करीषकशानोः साहश्यं शीतसमयखा- दुतया हृदयसंवादसुन्दरमप्यनुचितत्वेन सहसैव चेतसः संकोचमिवादधाति । यथा वा राजशेखरस्य- <poem> 'चिताचक्र चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस्तत्रत्यः स्पृशति मलिनाङ्गारकलनाम् । यदेतत्सज्योतिर्दरदलितकर्पूरघवलं मरुद्भिर्भस्मैतत्प्रसरति विकीर्णं दिशि दिशि ॥'


१.सुभाषितहारावलावयं श्लोको भासकवेः. अत्राप्यानन्दिसुधावस्यन्दसुन्दरस्येन्दोश्चिताचक्रत्वमनुचिततया कर्णकटु- कमातङ्कमिवातनोति । योऽर्थस्तु हृदयसंवादी स यद्यनौचित्यस्पर्शलेश- रहितस्तदधिकतरामलंकारशोभां पुष्णाति ।। यथा []कार्पटिकस्य---

'शीतेनोद्धृषितस्य भाषशिमिवञ्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वापि विमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा नक्षीयते शर्वरी।"

अत्रानौचित्यस्पर्शपरिहारेण केवलं हृदयसंवादसौन्दर्यमेव स्वादुता- मादधाति ॥ रसौचित्य दर्शयितुमाह-

कुर्वन्साशये व्याप्तिमौचित्यरुचिरो रसः।
मधुमास इवाशोकं करोत्यङ्कुरितं मनः ॥ १६ ॥

औचित्येन भ्राजिष्णुः शृङ्गारादिलक्षणो रसः सकलजनहृदयव्यापी वसन्त इवाशोकतरुमङ्कुरितं मनः करोति ।। यथा श्रीहर्षस्य-

"उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योधानलतामिमां समदनां नारीमिवायान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुर्खं देव्याः करिष्याम्यहम् ॥'

अत्रेर्ष्याविप्रलम्भरूपस्य शृङ्गाररसस्य वासवदत्तायामवेक्ष्यमाणस्य नवमालिकालताया ललितवनितातुल्यतया विरहावस्यारोपणेन नितरामौ- चित्यरुचिरचमत्कारकारिणी दीतिरुपपादिता ॥ यथा वा कालिदासस्य--

'बालेन्दुवक्राण्यविकासमाषाह्वभुः पलशान्यतिलोहितानि ।
सद्यौ वसन्तेन समागतानां नखक्षतानीव बनस्वलीनाम् ।।




१. राजतरहिण्याम् (३।१८१) अयं श्लोको भतृगुप्तस्य. अत्र पार्वत्यां परमेश्वरस्याभिलाषशृङ्गारे वक्ष्यमाणे प्रथममुद्दीपनवि- भावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललनानां कुटिल- लोहितपलाशकालिकाभिर्नवसंगमयोग्यनखक्षतान्युप्रेक्षितानि परमामौचित्य- चारुतां प्रतिपादयन्ति । न तु यथास्यैव-

'वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स चेतः ।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ।।

-

अत्र केवलकर्णिकारकुसुमवर्णनमात्रेण विधातृवाच्यतागर्भेणैव प्रस्तुत- शृङ्गारानुपयोगिना तदुद्दीपनविभावोचितं न किंचिदभिहितम् ॥ हास्यरसे यथा मम लावण्यवतीनाम्नि काव्ये--

'सीधुस्पर्शभयान्न चुम्बसि मुखं किं नासिकां गृहसे
रे रेश्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना ।
इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती
लीनस्यात्रिवसोः करोति बकुलस्वेवासवासेचनम् ॥

अत्र श्रोत्रियस्यात्रिवसोरपवित्रसीधुस्पर्शशङ्कासंकोचनिलीनस्य शुष्क- बकुलवृक्षस्येव सरसतापादनाय वेशविलासिन्या यदासवासेचनं तदङ्गभूत- शृङ्गाररसाभासस्पर्शेन हास्यरसस्य वरासवस्येव सहकाररसवेधेन सचमत्कार- मौचित्यमाचिनोति ॥ यथा वा मम लावण्यवत्यामेव-

'मार्गे केतकसूचिभिन्नचरणा सीत्कारिणी केरली
रम्यं रम्यमहो पुनः कुरु विटेनेत्यर्थिता सस्मिता ।
कान्ता दन्तचतुष्कबिम्बतशशिज्योत्स्नापटेन क्षणं
धूर्तालोकनलजितेव तनुते मन्ये मुखाच्छादनम् ॥

अत्रापि हास्यरसस्य कुटिलविटनर्मोक्तिवचनौचित्येन शृङ्गाररसाभासा- धिवासितस्य सचमत्कारः परः परिपोषः समुन्मिषति ॥

न तु यथा श्यामलस्य----

'चुम्बनसक्तः सोऽस्या दशनं च्युतमूलमात्मनो वदनात् ।
जिल्हामूलप्राप्तं खाडिति कृत्वा निरष्ठीवत् ॥'.

अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लशुनलिप्तस्येव कुसुमशेखर स्यातिजुगुप्सितत्वादनीप्सितस्य परमानौचित्येन चमत्कारस्तिरोहितः । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठलोठिनः ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, न तु हास्यरसस्य ॥

करुणो यथा मम मुनिमतमीमांसायाम्----

'प्रत्यग्रोपनताभिमन्युनिधने हा वत्स हा पुत्रके-
त्यस्मद्रावि सुभद्रया प्रलपितं पार्थस्य यत्तत्पुरः ।
येनोद्बाप्पविमुक्तशष्पकवलैः सेनातुरंगरपि
न्यञ्चत्पार्श्वगतैककर्णकुहरैनि:स्पन्दमन्दं स्थितम् ॥

अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभावोचितं दृषदामपि हृदयद्रावणं समुद्रया यत्प्रलपितं तदर्जुनचेतसि प्रतिफलितं न केवलमुद्दीप्ततामुपगतं यावतिरश्चा तुरंगमाणामप्यन्तः संक्रान्तमुद्बाष्पविभु- कशष्पकवलनिःस्पन्दस्थितादिभिरनुभावैरुदीर्णतरुणकरुणरसप्रतिपत्तिं किम- प्यादधाति ॥ नतु यथा परिमलस्य-

'हा शृङ्गारतरङ्गिणीकुलगिरे हा राजचूडामणे
हा सौजन्यसुधानिधान हहहा वैदग्ध्यदुग्धोदधे ।
हा देवोज्जयिनीभुजंग युवतिप्रत्यक्षकंदर्प हा
हा सद्बान्धव हा कलामृतकर क्वासिं प्रतीक्षख नः ।।'

अत्र हाहेति हतमहीपतिविरहे तद्गुणामघ्रणपदैर्वक्तृवक्त्रगत एव शोकः केवलमुपलक्ष्यते । न तु विभावानुभावव्यभिचारिसंयोगेन शोकाख्यस्य स्था- विभावस्योचितं रसीकरणं किंचिन्निष्पन्नम् ॥ रौद्रे यथा भट्टनारायणस्य-

'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तकर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं.
क्रोधान्वस्तस्य तस्य स्वयमपि जगतामन्तकस्सान्तकोऽहम् ॥

अत्र क्रूरकोषस्थायिभावात्मकस्योन्निद्ररौद्ररसस्योचिता शिशुस्थविरगर्भ- गतविशंसननिस्त्रिंशकर्माध्यवसायाधिरोहणसंवादिनी द्रोणवधविधुरामर्ष विष- विषमव्यथाकश्मलशिथिलमश्वत्थाम्नः स्थेमानं प्रतिज्ञापयति ॥ न तु यथा [१०]श्रीप्रवरसेनस्य---

'[११]दणुइन्दरुहिरलग्गे जस्स फुरन्ते णहप्पहाविछड्डे ।
गुप्पन्ती विवलाआ गलिअब्बथणंसुए महासुरलच्छी ॥'

अत्र क्रोधव्यञ्जकपदविरहिततया 'दनुजेन्द्ररुविरलग्ने थस्य नरसिंहस्य स्फुरति नस्वप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका महासुरलक्ष्मीः' इति वर्णनया रुधिरलग्न इति बीभत्सरससंस्पर्शे व्याकुली- भवन्ती दैत्यश्रीः पलायितेति भयानकरससंकरेण प्रकृतोचितप्रधानभूतस्य रौद्ररसस्य कचिन्मुखमपि न दृश्यते ॥ वीरे यथा मम नीतिलवायाम्-

शौर्याराधितभर्गमार्गवमुनेः शस्त्रग्रहोन्मार्गिणः
संक्षेपेण निवार्य संक्षयमयीं क्षत्रोचितां तीक्ष्णताम् ।
आकर्णायतकृष्टचापकुटिलभ्रूभङ्गसंसर्गिणा
येनान्यायनिषेधिना शममयी बाह्मी प्रदिष्टा स्थितिः ॥'



१. अयं रावणवधापरनामकसेतुबन्धाख्यप्राकृतकाव्यस्य कर्ता प्रवरसेनः कश्मीर- महाराज मन्त्रीत. १२३ मिते ख्रिस्त्वस्वसंवत्सरेऽस्य राज्यप्रारम्भ इति बहूनां मतम्. कनि- ङ्गह्याममते तु ४३२ मिते ख्रिस्तवसंवत्सरे प्रवरसेनराज्यप्रारम्भः. 'कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥' इति हर्षचरितप्रारम्भ बाणभट्टः. 'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुब- न्धादि यन्मयम् ॥' इति काव्यादर्शे (१।३४) आचार्यदण्डी॥ २. सेतुबन्धकाव्ये (१ । २) 'दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे । न्याकुलीभवन्ती विपलायिता गलितस्त. नांशुका महासुरलक्ष्मीः ॥ इति च्छाया. वीरस्य क्रोधे विकारासंभवात् । प्रसन्नमधुरधीरा हि वीरवृत्तिः । तदुचि- तमनामिहितम् । भार्गवाभिभवेन च प्रधाननायकस्योत्कर्षः प्रतिपादितः ।। यथा वा राजशेखरस्य-

'स्त्रीणां मध्ये सलीलं भ्रमितगुरुगदाघातनिर्नष्टसंज्ञः
सद्यो वध्योऽभवस्त्वं पशुरिव विक्शस्तेन राज्ञार्जुनेन ।
तस्य च्छेत्तापि योऽसौ सकलनुपरिपुर्जामदग्र्यो भुजानां
जित्वोच्चैः सोऽपि येन द्विज इति न हतस्तापसस्त्वेष रामः ।।'

अत्र रावणकार्तवीर्यजामदग्न्यो त्कर्षोत्कर्षतरसोपानपरम्पराधिरोहणक्रमेण प्रधाननायकस्य प्रतापः परां कोटिमारोपितः ॥ न तु यथा भवभूतेः-

'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्ततां
युद्धं स्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ।।

अत्राप्रधानस्य रामसूनोः कुमारलवस्य परप्रतापोत्कर्षासहिष्णो:रर- सोद्दीपनाय सकलप्रबन्धजीवितसर्वस्वभूतस्य प्रधाननायकगतस्य वीररसस्य ताडकादमनखररणापसरणान्यरणसंसक्तवालिब्यापादनादिजनपिहितापवादप्र- तिपादनेन स्ववचसा कविना विनाशः कृत इत्यनुचितमेतत् ।। भयानके यथा श्रीहर्षेस-----

'कण्ठे कृत्तावशेष कनकमयमधः शृङ्गलदाम कर्ष-
न्क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवाला !
दत्तातङ्कोऽङ्गनानामनुसृतसरणिः सम्रामादश्वपालैः
प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥

अपि च।

नष्ठं वर्षवरैर्मनुष्यगणनामावादकृत्या त्रया-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।

पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ '

अत्राङ्गनानां निशितदशननखशिखोल्लेखातदानेन प्रचुरतरवानराभि- रणभयसंभ्रान्तान्तः युरिकवृद्धवामनकिरातकुब्जादीनां पुरुषगणनाविही- तया धैर्यविरहकातराणामुचितचेष्टानुभाववर्णनया भयानकरससंवादिरुचि- पचकारित ॥ यथा राजपुत्रमु[१२]क्तापीडस्य----

नीवारप्रसराग्रमुष्टिकवलैर्य वर्धितः शैशवे
पीतं येन सरोजपत्रपुटके होमावशेष पयः ।
तं दृष्ट्वा मदमन्थरालिवलयच्यालोलगल्लं (ण्डं) गजं
सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥'

अत्र गजस्याघातकविकृतचेष्टानुवर्णनाविरहिततया स्थायिभावस्य भ- यानुभाववर्जितस्य केवलं नाममात्रोदीरणेन च भयानकरसोचितसंभ्रमाभा- वादुपचितमौचित्यं न किंचिदुपलभ्यते ॥ बीभत्से यथा मम मुनिमतमीमांसायाम्----

'सर्वापायचयाश्रयस्थ नियतं कुत्सानिकायस्थ किं
कायस्यास्य विभूषणैः सुवसनैरानन्दनैश्चन्दनैः
अन्तर्यस्य शकृद्यकृत्कृमिकुलक्लोमन्त्रमालाकुले
क्लेदिन्यन्तदिने प्रयान्ति विमुखाः कौलेयकाका अपि ।'

अन्न वैराग्यवासनाच्छुरितबीभत्सरसस्य जुगुप्साख्यस्थायिभावोचित- कायगत कुत्सिततरान्त्रतन्त्रादिसमुदीरणेन परा परिपुष्टिर्निःसारशरीराभिमानवै-. रस्पजननी प्रतिपादिता।। नतु यथा चन्दकस्य-

'कृशः काण: खञ्जः श्रवणरहितः पुच्छविकलः
क्षुधाक्षामो रूक्षः पिठरककपालार्दितगलः ।



१. मुक्तापीड इति कश्मीरमहीपतेर्ललितादित्यस्य नामान्तरम. सुभाषितावलावयं श्लोको
भाश्चुनाम्ना लिखितः, कदाचिन्मक्तपीडस्यैव बाल्यावस्थोचितं भश्चरिति नाम स्यात.॥

     
व्रणैः पूतिक्लिन्नैः कृमिपरिवृतैरावृततनुः
शुनीमन्वेति श्वा तमपि मदयेष मदनः ॥'

अत्राशुचिचर्वणरुचेरुपचितविचिकित्सकुत्सानिकायकायस्य स्वभावजुगु- प्सितयोनेः शुनकस्य क्रिमेतैभित्सविशेषणैरतिशयनिर्धन्धानुबद्धरधिकमुद्भ- सितम् । एतैरेव पुरुषगतैर्जुगुप्सा परं गौरखमावहति ।। अद्भुते यथा चन्दकस्य---

'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम्
व्यादेहीति विकासितेऽथ वदने दृष्ट्वा समस्तं जग-
न्माता यस्य जगाम विस्मयपदं पायारस वः केशवः ।।

अत्र पाण्डुराङ्गकरसाक्षिलक्षितमृद्भक्षणाक्षेपोद्यतजननीभयचकितस्य हवकारिणः शिशोर्विकासितास्यस्यान्तः समस्तजगद्दर्शनेन मातुश्च उत्प्रभावा- नमिज्ञतया बात्सल्यविह्ललाया विस्मयगमनेनात्युचितोऽयमद्भुतार्तिशयः । न तु यथा मम मुनिमतमीमांसायाम्-----

'समस्ताश्चर्याणां जलनिधिरपारः सवसति-
स्ततोऽप्याश्चर्यं अपिबति सकलं तं किल मुनिः ।
इदं त्वत्याश्चर्य लघुकलशजन्मापि यदसौ
परिच्छेत्तुं को वा प्रभवति तवाश्चर्यसरणिम् ॥

अत्रापारसरित्पतिप्रभावेण मुनिना तस्यैकचुलकाचभनेन मुनेश्च लघु-. कलशजन्मना क्रमाक्रान्तिसमारूढोऽप्यसमविस्मयमयोऽयम द्भुतप्रसरः सं-. सारस्यैर्वंविधैर्वाश्चर्यसरणिरपरिच्छिन्ना न किंचिदेतत्कौतुकगित्यर्थान्तरन्या- रसामर्थ्येन सहसैवावरोपित इव तिरोभूततामुपगता ।। शान्ते यथा मम चतुर्वर्गसंग्रहे-

'भोगे रोगभयं सुखे क्षयभयं वित्तेऽमिभूभृद्भय
दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्धयम् ।
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं
सर्व नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥'

अत्र सकलजनामिमतभोगसुखवित्तादीनां भयमयतया हेयतां प्रति- पाद्य वैराग्यमेव सकलभयायासशमनमुपादेयतया यदुपन्यस्तं तेन शा- तरसस्य निरर्गलमार्गावतरणमुचिततरमुपदिष्टं भवति ॥ यथा वा मम मुनिमतमीमांसायाम्-

'कुसुमशयनं पाषाणो वा प्रियं भवनं वनं
प्रतनु मसृणस्पर्शं वासस्त्वगप्यथ तारवी।
सरसमशनं कुल्माषो वा धनानि तृणानि वा
शमसुखसुधापानक्षैब्ये समं हि महात्मनाम् ॥'

अत्र सकलविकल्पतल्परहिभेदावमासमानात्मतत्त्वविश्रान्तिजनितस- साम्यसमुल्लसितशमसुखपीयूषपानोदितनित्यानन्दपूर्णमानमानसानां प्रिया- प्रियसुखदुःखादिषु महतां सदृशी प्रतिपत्तिरिति जीवन्मुक्तिसमुचित- मभिहितम् ॥ न तु यथा [१३]श्रीमदुत्पलराजस्य--

'अहो वा हारे वा बलवति रिपो वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्यारण्ये शिवशिवशिवेति प्रलपतः ॥'

अत्र जीवन्मुक्तोचितं प्रियाप्रियरागद्वेषोपशमलक्षणमोक्षक्षम सर्वसा-. म्यमहिहारसुहृदरिसमदृष्टिरूपमभिदधता कचित्पुण्यारण्ये यदभिहितं- तद्विकल्पप्रतिपादकमभेदवासनाविरुद्धमनुचितमवभासते। धाराविरूढसर्व- साम्यविगलितभेदाभिमानग्रन्थेर्हि सर्वत्र सर्व शिवमयं पश्यतस्तपोवने- नगरावस्करकूटे च विमलामलाभतृप्ततया समानदृशः कचित्पुण्यारण्यादि- वचनमनुचितोच्चारणमेव ॥

यथा मधुरतिक्ताद्या रसाः कुशलयोजिताः।
विचित्रास्वादतां यान्ति शृङ्गाराधास्तथा मिथः ॥ १७ ॥



१. अभिनवगुप्ताचार्यस्य परमगुरुः प्रत्यभिज्ञासूत्राद्यनेकग्रनथकर्ता श्रीमदुत्पलराजः
खृस्तवसंवत्सरीयदशमशतकस्य पूर्वाध एवं कश्मीरदेश आसीत्॥

तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम् ।
अनौचित्येन संस्पृष्टः कस्बेष्टो रससंकरः ॥१८॥

रसाः कटुकमधुराम्ललवणाद्याः कुशलसूदेन वेसवारपानादिषु योजिता विचित्राखादतामुपयान्ति तथैव परस्परमविरुद्धाः श्रुङ्गारादय इति । तेषा- मन्योन्यमङ्गाङ्गिभावयोजनायामौचित्यस्य जीवितसर्वस्वभूतस्य रक्षां कुर्यात् । अनौचित्यरजसा रससंयोगः स्पृष्टो न कस्यचिदभिमत इत्यर्थः ॥ रससंकरौचित्ये शान्तशृङ्गारयोरङ्गाङ्गिभावो मथा भगवतो महर्षे- व्यासस्य-

'सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मताङ्गेनापाङ्गभङ्गिलोलं हि जीवितम् ॥

अन भगवता जन्तुहिताभिनिविष्टेन मोक्षक्षभोपदेशेऽङ्गिनः शान्तर- सस्य रागिजनानिष्टत्वात्सकलजनमनःप्रहादने बालगुडजिहिकया श्रू- ङ्गारेऽङ्गभावमुपनीते पर्यन्ते शान्तसैव लोलं जीवितमित्यनित्यताप्रतिपाद- नपरिनिर्वाहेण परममौचित्यमुच्चैः कृतम् ॥ बीभत्सशृङ्गारयोरङ्गाङ्गिभावो यथा मम बौद्धावदानकसxxलतायाम्---

"क्षीबस्येवाचलस्य द्रुतहतहृदया जम्बुकी कण्ठसक्ता
रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासूत्रयन्ती ।
आखाद्यस्वध्य यूनः क्षणमपरदलं ददन्तव्रणाग्कं
लग्नानङ्गक्रियायामियमतिरमसोत्कर्षमाविष्करोति ।'

अत्र श्लेषोपमया · तुल्यकक्षाधिरूढयोरपि परस्परविरुदयोरर्थयोर्बी- भत्सशृङ्गाराङ्गाङ्गिमावयोजनायां जम्बुकी तरुणशवस्य क्षीबस्येव निक्ष- लस्थितेः सहसैव हृतहृदयपमा कृष्टचिता वा, कण्ठे लग्ना शोणिते भृशा- मभिव्यक्तस्पृहा रक्ताभिव्यक्तकामा वा, नखोल्लेखमासूत्रयन्ती दत्तदन्तव्र-- णमघरमास्वाद्याङ्गच्छेदक्रियायामनङ्गभोगक्रियायां वा, लगना गा - त्राणामूर्ध्वगतं कर्षणं रतकौशलोत्कर्षं वा, प्रकाशयतीति समानयोर्बीभ- त्सश्रृङ्गारयोः कामिनीपदपरित्यागेन केवलं जम्भुक्या कर्तुत्वेन बीभत्स स्यैव प्राधान्ये शृङ्गारेऽङ्गतामुपगते वक्तुर्बोधिसत्त्वस्यान्तर्गतगाढवैराग्यवास- नाधिवासितचेतसः कुत्साहजुगुप्सया नितम्बिनीरतिविडम्बनमौचित्यरुचिर- तामादधाति । यद्यप्यत्र महावाक्ये शान्तस्यैव प्राधान्यं तथाप्युदाहरणश्लोक- वाक्ये बीभत्सस्यैव ॥ वीरकरुणयोर्यथा मम मुनिमतमीमांसायाम्-

'गाण्डीवस्रुदमार्जनप्रणयिनः स्नातस्य बाष्पाम्बुभि-
श्चण्डं खाण्डवपावकादपि परं शोकानलं बिभ्रतः ।
जिष्णोनूतनयौवनोदयदिनच्छिन्नाभिमन्योश्चिरं
हा वत्सेति बभूव सैन्ववववारब्धाभिचारे जपः ॥'

अत्र निगर्तसङ्घामगतस्य गाण्डीवधन्वनः शत्रुभिर्नवयौवनोदयसमयनि- हततनयस्य कार्मुकस्त्रुवमुन्मार्जयतः प्रसरदश्रुतातस्य शोकाग्निमुद्वहतश्चिरं हा पुत्रेति जयद्रथवधारव्याभिचारे जपो बभूवेति यदुषन्यस्तं तेनारिक्षये दीक्षासमुचितव्रतवर्णनया शोकामेश्चण्डत्वेन खाण्डवपदोदीरणेन वीररसस्या- ङ्गिनः सहसैवागन्तुके करुणरसे प्रज्वलिते सैन्धववधारब्धाभिचाराभिधानेन पर्यन्ते शौर्यनिर्बाहेण परममौचित्यमुज्जृम्भते ।। शान्तशृङ्गारकरुणबीभत्सानो यथा मम तत्रैव-

'तीक्ष्णान्तस्त्रीकटाक्षक्षतहृदयतया व्यक्तसंसक्तरक्ताः
क्रोधादिक्रूररोगबणगणगणनानीततीव्रव्यथार्ताः ।
स्नेहक्लेदातिलग्नैः कृमिभिरिव सुतैः स्वाङ्गजैर्भक्ष्यमाणाः
संसारक्लेशशय्यानिपतिततनवः पश्य सीदन्ति मन्दाः ॥'

अत्र मुख्यस्याङ्गिनः शान्तरसस्यैवोद्दीपने कारणीभूतास्तीक्ष्णान्तस्त्री- कटाक्षक्षतहृदयव्यथार्तस्नेहक्लेदातिलग्नकृमितुल्यतनयादिपदोपादानेन शृङ्गार- करुणबीमत्साः शान्तमुखप्रेक्षिणः संलीनतया स्तिमितवृत्तयो भृत्या इव परममौचित्यं दर्शयन्ति ॥ रससंकरस्यानौचित्यमुद्भावयितुमाह । शृङ्गारशान्तयोर्यथामरकस्य-

'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।

   
संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्वया सह मम स्याहा न वा संगमः ॥'

अत्र प्रकरणवर्तिनः शृङ्गाररसस्य पश्यामि यावन्मुखभित्युत्कण्ठोत्क- ण्ठासमुज्जृम्भमाणस्य स्वभावविरोधिनी शान्तेऽङ्गभावमुपनीते विस्तीर्ण- तरानित्यतावर्णनया वैराग्येण रतेर्न्यग्भावमापादयन्त्याप्रधानरससंबन्धे- नाधिकमनौचित्यमुत्साहितम् । निःसारसंसाराचारुताश्रयणेन हि कठिन- क्रियाकूरचेतसामप्युत्साहभङ्गादङ्गान्यलसीभवन्ति, किमुत कुसुमसुकुमारशृ- ङ्गाररसकोमलमनसां विलासवताम् । प्रान्ते च शान्तपरिपोषनिर्वाहेण राग- वैरस्यमेव पर्यस्यति । तदुक्तमानन्दवर्धनेन-विरोधी वाविरोधी वा रसोऽशिनि रसान्तरे । परिपोषं न नेतन्यस्तेन स्वादविरोधिता ॥ तदेवात्र वैपरीत्येनोपलभ्यते परिपोषविपरीते स्वभावविरोधिन्यपि प्रधाना- नुपरोध एव ॥ यथा राजशेखरस्य-

'माणं मुंचध देह वलहजणे दिहि तरंगुत्तर
तारुण्णं दिअहाइं पंच दह या पीणत्थणत्थंभणं ।
इत्थं कोइलिमंजुसिंजिणमिसाद्देवस्स पंचेसुणो
दिण्णा वित्तमहूसवेण सहसा आणव्व सब्बंकसा ।'

अत्र 'मानं मुश्चत ददत बल्लभजने दृष्टिं तरङ्गिता तारुण्यं दिनानि पञ्च दश वा पीनस्तनस्तम्भनमित्थं कोकिलमधुरध्वनिव्याजेन देवस्थ पञ्चेषोश्चैत्रमहोत्सवेनाज्ञेव सर्वंकषा दत्ता' इति वाक्ये मुख्यः शृङ्गाररसः प्रा- रम्भपर्यन्तव्याप्तिशाली कतिपयदिवसस्थायि यौवनमित्यनित्यतारूपशान्त- रसबिन्दुना मध्यब्रुडितेनेव विरसतां न नीतः। विरुद्धस्य परिपोषाभावात् । विरुद्धवर्णनोदितेन ह्यनौचित्येन स्थायी कुञ्जर इव श्वभ्रपातितः पुनरुत्थातुं नोत्सहत इत्यलं विस्तरेण । अनया दिशा रससंकरे भेदप्रपञ्चौचित्य विप श्चिद्भिः स्वयं विचार्यम् ॥ रसौचित्यविचारानन्तरमुद्देशानुसारक्रमेण क्रमोपगतं क्रियापदौचित्यं दर्शयितुमाह--

सगुणत्वं सुवृत्तत्वं साधुता च विराजते ।
काव्यस्य सुजनसेव यद्यौचित्यवती क्रिया ॥ १९ ॥

काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकादिसुवृत्तता परिपूर्णलक्षण- साधुता च विराजते, यद्यौचित्ययुक्तं क्रियापदं भवति । सुजनस्येवेति तत्तु- ल्यत्वं स्पष्टार्थमेव ॥ क्रियापदौचित्यं यथा मम नीतिलतायाम्-

'यः प्रख्यातजयः सदा स्थितिविधौ सप्ताब्धिसंध्यार्चने
दोर्दर्पेण निनाय दुन्दुभिवपुर्यः कालकंकालताम् ।
यः पातालमसृङ्भयं प्रविदधे निष्पिष्य मायाविनं
सुग्रीवाग्र्यविभूतिलुण्ठनपटुर्वाली स किंस्मर्यते ॥'

अत्र सप्ताब्धिसंध्यार्चनप्रख्यातजवो महिषरूपदुन्दुभिदानवोन्माथी मायाविदानवनिष्पेषोद्भूतशोणितपूरितपातालतलः स किं वाली स्मर्यत इति क्रियापदेन शुकसारणाभ्यां रावणस्य दुर्नयाभिनिवेशिनस्तद्विरामाय हितोपदेशेन भवान्वसनकोणनियमिततनुः कक्षायां निःक्षिप्त इत्युचितयुक्ति- युक्तमुक्तं भवति ॥ न तु यथा श्रीप्रवरसेनस्य-

"[१४]सगं अपारिजा कोत्युहलच्छिरहिअं महुमहस्स उरं ।
सुमिरामि महणपुरओ अमुद्धअन्दं हरअडापब्भारं ।'

अत्र जाम्बुचताभिधीयमाने स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्यां विर- हितं मधुमथनस्योरः स्मराम्यमृतमथनपुरतोऽप्यबालचन्द्रं हरजटाप्रग्भारम्'



> १. सेतुबन्धे (४।२०) स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः । स्म
- रामि मथनपुरतोऽमुग्धचन्द्रं च हरेजटाप्राग्भारम् ॥’ इति च्छाया. </small- इति प्रगुणगुणाख्यानप्रसङ्गे क्रियापदेन जराजर्जरशरीरत्वमात्रमेव प्रतिपा- दितम् । न तु पौरुषोत्कर्षविशेषातिशयः कश्चिदुचितः संसूचितः ।। कारकौचित्यं दर्शयितुमाह-

सान्वयं शोभते वाक्यमुचितैरेव कारकैः ।
कुलाभरणमैश्वर्यमौदार्यचरितैरिव ॥२०॥

उचितैरेव कारकैः सदन्वयवद्वाक्यं विराजते सद्वंशभूषितमैश्वर्य सञ्च- रितैरिव ॥ कर्तृपदौचित्यं यथा भट्टयाणस्य----

'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ।'

अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये, स्तनयुग बाप्पसलिलस्नातं शोकाग्निसमीपवर्ति विमुक्तमोजने विगतमुक्ताहारं र सद्व्र तं चरतीत्युक्ते कर्तृपदमौचित्यमुपचितं जनयति ।। न तु यथा परिमलस्य---

'आहारं न करोति नाम्बु पिवति स्त्रौणं न संसेवते
शेते यत्सिकतासु मुक्तविषयश्चण्डातपं सेवते ।।
त्वत्पादाब्जरजः प्रसादकणिकालोभोन्मुखस्तन्मरौ
मन्ये मालवसिंह गुर्जरपसिस्तीव्र तपस्तप्यते ।"

अत्र गुर्जरपतिविद्रुतो मरुगहनं प्रविष्टः परित्यक्ताहारादिसमस्तवि- षयश्चण्डातपोपसेवी तपश्चरतीति यदुक्तं तत्कर्तृपदस्य विशेषाभिप्रायो- चितं न किंचिदुपलक्ष्यते शत्रुत्रासतरलतया मरुकान्तारान्तरावसन्नः सक लविषयसुखभोगपरिभ्रष्टः किमन्यत्कुरुताम् । स्तनयुगवत्कर्तृपदस्य चम- त्कारोचितं न किंचिदभिहितम् ॥ कर्मपदौचित्यं यथा मम लावण्यवत्याम्-

'सदा सक्तं शैत्यं विमलजलधारापरिचितं
धनोलासा क्ष्मामृत्पॄथुकटकपाती वहति यः

  
विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः
स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥'

अत्र निश्चलममलजलधारागतं शैत्यं तैक्ष्ण्यं शीतलत्वं च, वनोल्लासो निबिडोत्साहः पर्जन्यतुल्योदयश्च, क्ष्माभृतां सानुसैन्यनिपाती वहति स शौर्यश्रीश्रवणनवनीलोत्पलतुल्यस्त्वत्स्वङ्गश्चित्रं शत्रूणां संतापं करोतीति यदुक्तं तत्कर्मभूतस्य तापस्य शिशिरतरसामग्रीजन्मनः परं वैचित्र्यं रु- चिरमौचित्यमासूत्रितम् ॥ न तु यथा ममैवावसरसारे-

'भमाहितश्वसितवातविबोध्यमानः
काष्ठाश्रयेण सहसैव विवृद्धिमाप्तः।
तापं तनोति निहतारिविलासिनीनां
वहिद्युतिर्भुवननाथ भवत्प्रतापः ॥

अत्र विद्वतारातिनिःश्वसितानिलप्रबोध्यमानः काष्ठाश्रयेण दिक्चक्र. पूरणेन प्रौढतां प्राप्तः पावकतुल्यस्त्वत्प्रतापः शत्रुकान्तानां तापमात्रं तनोतीति तत्समुचितमाश्चर्यं न किंचित् ।। करणौचित्यं यथा गौडकुम्भकारस्य-

'लाङ्गूलेन गमस्तिमान्वलयितः प्रोतः शशी मौलिना
व्याधूता जलदाः सटाभिरुडयो दंष्ट्राभिरुत्तम्भिताः ।
प्रोत्तीर्णो जलधिर्दृशैव हरिणा खैराट्टहासोर्मिभि-
र्लङ्केशस्य च लङ्घितो दिशि दिशि प्राज्यः प्रतापानलः ॥'

अत्र हरिणा हनुमता जलनिधितरणे तरणिलाङ्गूलेन वलयितः किरी- टपान्तेन शशी प्रोतः सटाभिर्मेषा व्याधूतास्तारा दंष्ट्राभिरायासितास्तीर्णो- ऽब्धिर्दृष्ट्यैवाट्टहासतरङ्गैर्लङ्केशस्य विस्तीर्णः प्रतापाग्निः शमित इति बहुभिः करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहणसोपानैरिव रघुप- तिप्रभावारम्भविजयध्वजायमानस्य पवनसूनोरौचित्यातिशयः प्रकाशितः ॥ न तु यथा भट्टबाणस्य-

'जयत्युपेन्द्रः स चकार द्वरतो विभत्सया यः क्षणलब्धलक्षया ।
हशैव कोपारुणया रिपोरः स्वयं भयाद्भिन्नगिवासपाटलम् ॥’

अत्र भगवतो नृसिंहस्य कोपरत्तया दृष्टौव क्षणलब्धलक्षया हिर- ण्यकशिपोदीक्षा स्वयं भयादिभिन्नगिवेति यदुक्त्तं तन्गहोत्साहपराकरस्य प्रतिनायकस्य रिपोः प्रधाननायकप्रतापोदीपनोपकरणीभूताधिकथैर्यस्य स्वयं भयविह्वलतया हृदयस्फुटनमित्युपचितमनौचित्यं 'दृशैव' करणप- दस्य शिरसि विश्रान्तम् ॥ संप्रदानौचित्यं यथा मट्टप[१५]भाकरख-

दिङ्भातङ्गधटाविभक्तचतुराघटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाशिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तसी नमो
यस्मादाविरभूत्कथाद्भूतमिदं यत्रैव चास्तं गतम् ॥

'

अत्र दिग्गजचतुरस्रा भूः साध्यते, सा च सिद्धा हेलयवान्नमुष्टिरि- वैकस्मै विपमात्राय प्रतिपाद्यत इति निरतिशयौदार्याश्चर्यचमत्काररुचिरौ- चित्यचर्वणया वयं रोमाञ्चाञ्चिताः पश्यत, रोमाश्वस्य प्रत्यक्षपरिदृश्यमा- नत्वात् । किमपरमपूर्वत्यागिने भार्गवाय तस्मै नम इति विभायेति संप्र. दानपदगत एवोत्कर्षविशेषः प्रकाशते ॥ न तु यथा राजशेखरस्य-

'पौलस्त्यः प्रणयेन याचत इति श्रुत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति ।
ताद्वाच्यः स बचाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥'

अन्न रावणदूतेन परशुं याचितो भार्गवो भूते-'नैष हरमसादलब्धः परशुर्दानयोग्यः । तत्तस्मादस्मद्वचसा स दशग्रीवो वाच्या, पृथ्वी मया कश्यपाय प्रतिपादिता । तुभ्यं पातालत्रिदिवयोर्मध्मात्किं निर्जित्य दीयताम्'



१.कश्वन सुप्रसिद्धो मीमांसको भप्रमाकर आसीत्, असा गुरुरिति नामान्तरम्. इत्यनुचितं मुनेर्लोकहितप्रवृत्तस्य त्रैलोक्यकण्टकभूताय राक्षसाय भुव- नप्रतिपादनम् ।। अपादानौचित्यं यथा मालवरुद्रस्य-

'एतस्माजलधेर्मिताम्बुकणिकाः काश्चिद्गृहीत्वा ततः
पाथोदाः परिपूरयन्ति जगती रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥'

अत्र यदुक्तमेतस्मान्महोदधेः परिमिताम्बुकणिकाः प्राप्य जलदा जगत्पूरयन्ति तथा म्रमन्मन्दरकूटकोटिसंघट्टत्रासतरलतारकामेकां जलमा- नुषीं श्रियं प्राप्य श्रीमानच्युतोऽभूदिति तेन सागरगतनिरतिशयोत्कर्ष- विशेषः प्रदर्शितः । एतस्माज्जलधेरित्येतत्पदमौचित्यस्य मूलभूमिः ।। न तु यथा भट्टेन्दुराजस्य----

'आदाय वारि परितः सरितां मुखेभ्यः
किं नाम साधितमनेन महार्णवेन ।
क्षारीकृतं च वडवादहने हुतं च
पातालमूलकुहरे विनिवेशितं च ॥

अत्र महार्णवव्यपदेशेनान्यायोपार्जितद्रविणदुर्व्ययकारिणः सत्संवि- भागविमुखस्य कस्यचिदुच्यते । सरितां मुखेभ्यः समन्तात्तोयमादायापा- त्रेभ्यः प्रतिपादित दूषितम् । यत्त्वत्र सरिभ्द्यः समादायेति वक्तव्ये सरिन्मुखेभ्य इति यदुक्तं मुखशब्दस्य नैरर्थक्यादत्रानौचित्यमेव पर्यवस्यति ॥ अधिकरणौचित्यं यथा कुन्तेश्वरदौत्ये [१६]कालिदासस्य-

'इह निवसति मेरुः शेखरः क्षमाधराणा-
मिह विनिहितभाराः सागराः सप्त चान्ये ।
इदमहिपतिभोगस्तम्भविभाज्यमानं
धरणितलमिहैव स्थानमसद्विधानाम् ॥'



१. प्रतिद्धेषु कालिदासग्रन्थेष्ययं श्लोको न प्राप्तः. अत्र महाराजदुतोऽपि सामन्तास्थाने खप्रभुसमुचितगौरवपूजाईमास- नमनासाद्य कार्यवशेन भूमावेवोपविष्टः प्रागल्भ्यगाम्भीर्येणैवं ब्रूते यथा- स्मद्विधानां वसुधातल एवं भुजगपतिभोगस्तम्भप्राग्भारनिष्कम्पे धरासने स्थान युक्तं यस्मादिहैव गेरुरचलचक्रवर्ती समुपविष्टः सप्तमहाब्धयश्च तत्तुल्यतैवास्माकमित्यौचित्यमधिकरणपदसंबद्धमेव ।। न तु यथा परिमलस्य---

'तत्र स्थितं खितिमतां वर देव देवा-
द्भृत्येन ते चकितचितमियन्त्यहानि ।
उत्कम्पिनि स्तनतटे हरिणेक्षणानां
हारान्प्रवर्तयति यत्र भवत्प्रातापः ॥'

अत्र त्वद्भृत्येन मया तन तस्मिन्देशे स्थितं यत्र भवत्प्रतापः कम्पतर- लस्तनतटे हरिणहशां हारान्प्रवर्तयतीति यदुक्तं तेन शौर्यश्ऱङ्गारगुणोत्क- र्पोस्तुतौ सर्वतो दिग्गमनाविच्छिन्नप्रसरः प्रतापः पारिमित्यं प्राप्तः । एकत्र परिच्छिन्ने देशे मया सत्र स्थितं यत्र त्वत्प्रतापतरुणीस्तनतटेपु हारत- रलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगतश्चेत्प्रतापस्तत्सर्वत्रैव मया स्थितमिति वक्तव्ये तत्रेत्येकदेशाभिधायि पद नोपपाद्यते । दस्यु- मात्रस्याप्येकदेशे जृम्भमाणप्रतापत्वात् । तदत्राधिकरणपदगतमनौचित्यमु- पलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भवत्प्रताप इत्येव सुत्युचितं युक्तमुक्तम् स्यात् ।। लिङ्गौचित्यं दर्शयितुमाह-

उचितेनैव लिङ्गेन काव्यमायाति भव्यताम् ।
साम्राज्यसूचकेनेव शरीरं शुभलक्ष्मणा ॥ २१ ॥

प्रस्तुतार्थोचितेन लिङ्गेन काव्यं भव्यतामुपयाति, राजलक्षणेनेव शरीरम् ॥ यथा मम ललितरनमालायाम्-

'निद्रा न स्पृशति त्जत्यपि धृतिं घत्ते स्थितिं क्वचि-
द्दोर्घां वेत्ति कथां व्यक्षां न भजते सर्वात्मना निवृतिम् ।

तेनाराधयता गुणस्तव जपध्यानेन रत्नावलीं
निःसङ्गेन पराङ्गनापरिगतं नामापि नो सह्यते ।'

अत्र वत्सेश्वरस्य रत्नावली विरह विधुरचेतसः स्मरावस्थासमुचितं विदू- षकेण सुसंगतायै यदभिहितं निद्रां न स्पृशति, धृतिं त्यजति, स्थितिं न घत्ते, दीर्घां कथां व्यथामिव वेत्ति, निवृतिं न भजते, तां विना तेन तद्गु- णजापिना तयाननित्येन जनसङ्गत्यागिनान्यासामङ्गनानां नाममात्रमपि न सह्यते । स्थितिधृतिकथानिर्वृतीनां स्त्रीलिङ्गाभिधानेनाङ्गत्वाध्यारोपेण परम- मौचित्यं प्रतिपादितम् ॥ न तु यथा मम नीतिलतायास्-

'वरुणरणसमर्था स्वर्गभङ्गैः कृतार्थी
यमनियमनशक्ता मारुतोन्माथसक्ता ।
धनदनिधनसज्जा लज्जते मर्त्ययुद्धे
दहनदलनचण्डा मण्डली मद्भुजानाम् ॥'

अत्र रावणः कपिनिकारामर्षविषमविकाराविष्कारोचितं ब्रूते । वरुणा- दिलोकपालविशालबलावलेपविप्लवकारिणी मयमात्रयुद्धे त्वज्जते प्रचण्डा मद्भुजमण्डलीति स्त्रीलिङ्गेन निर्देशस्त्रैलोक्यविजयोर्जितस्य प्रताप स्य कठोर- तामपहरन्ननौचित्यं सूचयति ॥ वचनौचित्यं दर्शयितुमाह-

उचितैरेव वचनैः काव्यमायाति चारुताम् ।
अदैन्यधन्यमनसां वदनं विदुषामिव ॥ २२ ॥

उचितैरेकवचन द्विवचनबहुवचनैः काव्यं चारुतामायाति । अदैन्यो- दारचेतसां विदुषामिव वदनमयाच्ञारुचिरौचित्यचारुभिर्वचोमिः ॥ यथा मम नीतिलतायाम् -

त्रैलोक्याक्रमणैर्वराहविजयैर्निःसंख्यरत्नाप्तिभिः
प्रख्यातः स्वरसस्वयंवरशतैर्युद्धाब्धिमध्ये श्रियः ।
साश्चर्यैबलिबन्धनैश्च बहुभिर्नित्यं हसत्युस्थितः
पौलस्त्यः सकृदुद्यमश्रमवशाद्व्यासक्तनिद्रं हरिम् ॥

अत्र शुकसारणाभ्यां रघुपतेरग्रे दशग्रीवपराक्रमेऽभिधीयगाने यदुक्तं पौलस्त्यः शेषशायिनं हरिमाकवारोद्योगश्रमवशेन संसक्तालस्यनिद्रमेक- त्रैलोक्याक्रमणैराहविजयिनां सुभटानां जपैरनेकरत्नप्राप्तिभिः समरस- मुद्रमध्ये बहुवारविहितैः श्रियः स्वयंवरशतैर्वलिनां च लोकपालानां बन्धनः प्रख्यातः सदोस्थितः सोत्साहः सततं हसतीति बहुवचनैरेव हरि- वैलक्षण्यलक्षणमुपचितमौचित्यमुदश्चित्तम् ॥ न तु यथा [१७]मातृगुप्तस्य-

'नायं निशामुखसरोरुहराजहंसः
कीरीकपोलतलकान्ततनुः शशाङ्कः ।
आभाति नाथ तदिदं दिवि दुग्धसिन्धु-
डिण्डीरपिण्डपरिपाण्डु यशस्त्वदीयम् ॥'

अत्र नायं शशी, त्वदीयमिन्दुदुग्धाब्धि फेनपिण्डपाण्डुरं यश इति यदाभिहितं तदविच्छिन्नप्रसराणां यशसा बहुवचनेन वर्णनायां समुचिता- यामेकवचनोपन्यासश्चन्द्रबिम्बाकारेण पिण्डमात्रपरिच्छिन्नतया संकोचरूप- मनौचित्यमुद्भावयति ॥ विशेपणौचित्यं दर्शयितुमाह-

विशेषणः समुचितविशेष्योऽर्थः प्रकाशते ।
गुणाधिकैर्गुणोदारः सुहृद्धिरिव सज्जनः ।। २३ ॥

काव्ये विशेष्योऽर्थः समुचितैरेव विशेषणैः शोभां लभते । गुणोदारः साधुर्यथाभ्यधिकगुणैः सुहृद्भिः ॥ यथा मम मुनिमतमीमांसायां-

'चैत्रे सूत्रितयौवनान्युप वनान्यामोदिनी पद्मिनी
ज्योत्स्नाप्रावरणानि रत्नवलभीहर्म्याणि रम्याः स्त्रियः ।



१. षड्वर्षपर्यन्तमयं ब्राह्मणः कश्मीरवेशराज्यं कृतवान्, उज्जयिनीप्रभुणा हर्षापरनामा विक्रमादित्येनास्मै कदमीरराज्यं वितीर्णमित्यादिकया राजतऍरङिण्यां तदीगतरङ्गे द्रष्टव्या-

 
सर्व चारुतरं न कस्य दयितं यस्मिंस्तु तद्भुज्यते
तन्मृन्निमितमाममाजनमिव क्षिप्रक्षयं जीवितम् ॥

अत्र युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभिमानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावखरूपाभाववादोपदेशिनो महामु- नेराशयविचारावसरे यदुक्तं कुसुमसमयसमुपचितयौवनान्युपवनानि मकर- न्दामोदसुन्दरारविन्दिनीज्योत्स्नापटप्रावृतानि रत्नवलभीर्हाणि रमणीया रमण्यश्चेति सर्वमेतच्चारुतरं सर्वस्याभिमतम् । किं तु यस्मिन्भुज्यते तज्जी- वितमाममृत्पात्रनिःसारं क्षिप्रक्षयमिति तद्विशेष्यपदोत्कर्षकारिविशेषणपदो- दितसौन्दर्येण पर्यन्तनिःसारतानिर्वेदसंवादि स्फुरदौचित्यमातनोति ।। न तु यथा [१८]भट्टलट्टनस्य-

'ग्रीमं द्विषन्तु जलदागममर्थयन्तां
ते संकटप्रकृतयो विकटास्तडागाः ।
अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र-
निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥'

मत्र ग्रीष्मं द्विषन्तु, मेघागमं संकटस्वभावा विकटा विस्तीर्णाश्च तटाकाः प्रार्थयन्ताम्, महाब्धेस्तु बालशफरीलोलाचलेन्द्रनिश्चलकुक्षिप- यसो ग्रीष्मघनागमावप्यगणनीयाविति यदुक्तम्, “तत्र तडागविशेषणयोः संकटविकटपदयोः परस्परविरुद्धार्थयोरनौचित्यं स्पष्टमवभासते। संकट- खभावस्य हि विकटत्वं विस्तीर्णत्वं नोपपद्यते । अथ खभावे संकटत्व- माकारे विपुलत्वं तदपि तटाकस्य निश्चेतनस्य स्वभावाभावादनुपपन्नमेव ।। उपसर्गौचित्यं दर्शयितुमाह-

योग्योपसर्गसंसर्गैर्निरर्गलगुणोचिता ।
सूक्तिर्विवर्धते संपत्सन्मार्गगमनैरिव ॥ २४ ॥

उचितैः प्रादिभिरूपसर्गः सूक्तिरन्नतिमासादयति । विभूतिरिव- सन्मार्गगमनैः ॥



१. एकलिन्पुस्तके 'भट्टवल्लभस्य इति पाठः, यथा मम मुनिमतमीगांमायाग्-

'आचारं भजते त्यजत्यषि गद वैराग्यमालम्ते
कर्तुं याच्छाति सङ्गगङ्गगलितो्त्तुङ्गाभिमानं तपः ।
देवन्यस्त विपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः
प्रायस्तापविलीनलोद्दसादृशीमायाति कर्मण्यत्वात्॥'

अत्र दुर्योधनस्य घोषयात्रायां गन्धर्वबन्धपराभवभागाभिगानस्य प्रा- ज्यसाम्राज्यमुत्सृज्य तपाप्रयत्नाभिनिविष्टस्य दुर्ग्रहे वर्ण्यमाने यदुक्तं सर्वो जनः सुखभ्रष्टः प्रणष्टविभवः सदानारं भजते, मदं त्यजति, वैराग्यमा- श्रयति, सङ्गभङ्गेन विगलितोतु्xxभिमानम् तपः कर्तुं वान्छति; प्रायो बाहुल्येन तापबिगलितलोहपिण्डशदृशीं कर्मण्यतामायति; अत्रोत्पूर्वतया सोपसर्गस्य तुङ्ग्शब्दस्य स्वभावोजतिर्द्विगुणतामपयाता दुर्मदागिमानार्थौ चित्यमुच्चैः करोति ।। न तु यथा [१९]कुमारदासस्य---

'अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु बब्लभम् ।
अरुणकरोद्ग्म एष वर्तते वरतनु संप्रवदन्ति कxटाः ॥'

[२०]अत्राभिनवानङ्गसंगमगाढमालिङ्गननिश्चलाङ्गच्छन्नाङ्गनाप्रबोधने सख्या यदुकं बल्लभं मुञ्च प्रभात सध्यायामरुणकिरणोद्गमो वर्तते, कुक्कुटाश्च संप्रवद- न्तीति, तन्न संप्रोपसर्गशून्यशच्या(ब्दा)पूरणमात्रेण निरर्थकत्वदनुचितमेव ।। निपातौचित्यं दर्शयितुमाह-

उचितस्थानविन्यस्तैर्निपातैरर्थसंगतिः ।
उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥ २५ ॥


१. भगवता पतलालमुनिना व्याकरणमहाभाष्ये 'व्यक्तवाचां समुच्चारणे' (१ | ३ | ४८ | ) इति सूत्रन्याख्यायाम "वरतनु संप्रवदन्ति कुक्कुटाः" इत्यस्य श्लोकस्य चतुर्थः पाद उदाहृताः , जानकीहरणकाव्यस कर्ता कुमारदासा। जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कमारदासस्य रावणx यदि क्षमः ॥' इति राजशेकरश्लोकः मारका जानकी xxxxxxxxxxxxxxxx? २.अत्राभिमानवसंगम-’ इति द्वितीयपुस्तकपाठः ॥ उपादेयैश्चादिभिर्निपातैरुचितपदविनिवेशितैः काव्यस्यार्थसंगतिरसंदिग्धा सत्सहायैरिव भवति ॥ यथा मम मुनिमतमीमांसायाम्-

'सर्वे स्वर्गसुखार्थिनः ऋतुशतैः प्राज्यैर्यजन्ते जडा-
स्तेषां नाकपुरे प्रयाति विपुलः कालः क्षणार्धं च तत् ।
क्षीणे पुण्यधने स्थितिर्न तु यथा वेश्यागृहे कामिनां
तस्मान्मोक्षसुखं समाश्रयत भोः सत्यं च नित्यं च यत् ॥

अत्र स्वर्गसुखस्व वेश्याभोगवदवसानविरसचपलतायां प्रतिपादितायां निश्चलमोक्षसुखस्य निःसंदेह निश्चिता प्रतिपत्तिर्निपात्रपदोपबृंहिता वाक्या- र्थैचित्यं जनयति ॥ न तु यथा [२१]श्रीचक्रस्य- 'देवो जानाति सर्वं यदपि च तदपि ब्रूमहे नीतिनिष्ठं सार्धं संघाय जालान्तरधरणिभुजा निर्वृतो बान्धवेन । म्लेच्छानुच्छिन्धि मिन्धि प्रतिदिनमयशो रुन्धि विश्वं यशोभिः सोदन्वन्मेखलायां परिकलय करं किं च विश्वंभरायाम् ॥'

अत्र क्षितिपतिस्तुतिप्रस्तावे 'देवो जानाति सर्वं यदपि च तदपिर इति यदुक्तं तत्र पूर्वापरपदयोरसंबद्धत्वेन निरर्थक एव निरुपयोगश्चकारः प्रततोत्सवबहुजनभोजनपङ्क्तावपरिज्ञातः स्वयमिव मध्ये समुपविष्टः पश्चा- दभिव्यक्तः परं लज्जादुमनौचित्यं प्रतनोति ॥ कालौचित्यं दर्शयितुमाह-

कालौचित्येन यात्येव वाक्यमर्थेन चारुताम् ।
जनावर्जनरम्येण वेषेणेच सतां वपुः ।। २६ ॥

कालकतौचित्ययुक्तेनार्थेन वाक्यं चारुतामेति वेषपरिग्रहेणेव कालयो- ग्येन सतामवसरज्ञानां वपुः ॥



१.मुकाकणभ्राता चक्रपाल इति कविकण्ठाभरणे, स एवायं चक्र इति भाति ।
मुक्ता xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx?.
यथा मम मुनिमतमीमांसायाम्---

'योऽभूद्गोपशिशुः पगोदधिशिरश्चयौरः करीपंकप -
स्तस्यैवाध जगत्पते स्वगपते शोर मुसरे हरे।
श्रीवत्साङ्क जडेरितिस्तुतियदैः कर्णौ नुणां पूरितौ
ही कालस्य विपर्ययप्रणायिनी पाकक्रियाश्चर्यभूः ।।

अत्रामर्षाधिपविपमाविष्कारमुमूर्षुणा शिशुपाले नाभिधीयमाने यत्किल गोपाल्यालः पयोदधिशिरश्चौरः करीषंकषोऽभूत्तसयैवाध जगन्नाथादिभिः स्तुतिपदैर्नृणां कर्णौ पूरितौ बत कालन्य विपर्ययकारिणी पाकक्रिया- श्चर्यभूमिरिति । तत्राभूदितिभूतकालेनाथxx रिपोषरनिरमारब्धाविशे- पलक्षणं वाक्यौचित्यं कृतम् ।। राथा या मालवकुवलयस--

[२२]च्युतसुमनसः कुन्दाः पुष्पोद्गमैरलसा द्रुमा
मनसि च गिरं गृहन्तीमे किरन्ति न कोकिलाः ।
अथ च सवितुः शीतोलासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥

अत्र शिशुतरवसन्तकान्तोपवननवरसोल्लाससूच्यमानमनसिजोत्कण्ठाव- र्णनायामृतुसंधिसमुचिताः कुन्दाः कुसुमावसानशून्यतनवः, किंशुकाशोकाः कलिकोद्गमभरालसाः, मनसि कोकिलाः फलकृजितान्यनुसंधवति, स्वेर्म- रीचयः शीतोल्लासमय च निवारयन्ति नच संतापदायिनी प्रीदतामा- लम्बन्ते, इत्युक्ते वर्तमानकालपदेष्वेव हृदयसंवादसुन्दरमौचित्यं किम- प्यामोदते ॥ यथा वा भट्टमल्लटस्य-

'मृत्योरास्यमिवाततं धनुरिदं मूर्छद्विषाश्श्चेषवः
शिक्षा सा विजितार्जुना प्रतिलयं सर्वाङ्गलग्ना गतिः ।
अन्तः क्रौर्यमहो शठस्य मधुनो हाहारि गौवं मुखे
व्याघस्यास्य यथा भविष्यति तथा मन्ये वन निर्मृगम् ।।'



१. उदाक्षलोऽयं श्लोको वामनशृतौ समताख्याणप्रकरणे. तस्माद्वामनात्प्राचीनोऽयं कविः ॥ अत्र लुब्धकस्य धनुःसायकशिक्षागतिक्रौर्यगीतानि तथा यथा वनं निर्मृगं भविष्यतीति भविष्यत्कालः प्रकृतार्थपरिपोषेण हृदयसंवादौचित्य- मादधाति ।। न तु यथा वराहमिहिरस्थ--

क्षीणश्चन्द्रो विशति तरणेमण्डलं मासि मासि
लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।
संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो-
र्नों दोर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥

अत्र रवेर्मण्डलं क्षीणः शशी प्रतिमासं प्रविशति ततः कांचिदाप्या- यिकां कलां प्राप्य दूरे दूरे भवति । परिपूर्णश्च तस्यैव स्पर्धयाभ्युदेति । दौर्जन्यान्न विरमति न च दैन्याद्व्यरंसी दित्येतो "विरमति’ "व्यरंसीत्" इति- परस्परासंगतं कालपदद्वयं चन्द्रस्य सदृशयोर्दौर्जेन्यदैन्ययोः सर्वकाल- मभिनिवृत्तयोर्यदुपन्यस्तं तत्र व्यरंसीदिति विरुद्धार्थत्वादनुचितमेव ॥ देशौचित्यं दर्शयितुमाह-

देशौचित्येन काव्यार्थः ससंवादेन शोभते ।
परं परिचयाशंसी व्यवहारः सतामिव ॥ २७ ॥

देशविषयौचित्येन हृदयसंवादिना काव्यार्थः सतां व्यवहार इव परि- चयसूचकः शोभते ॥ यथा भट्टभवभूतेः-

'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं ढयति ।।

अत्र बहुभिर्वर्षसहस्त्रैरतिक्रान्तैः शम्बुकवधप्रसङ्गेन दण्डकारण्यं रामः पूर्वपरिचितं पुनः प्रविष्टः समन्तादवलोक्यैवं ब्रूते-'पुरा यत्र नदीनां प्रवाहस्तत्रेदानीं तटम्, वृक्षाणां धनविरलत्वे विपर्ययश्चिरादृष्टं वनमिदमपूर्व मिव मन्ये, पर्वतसंनिवेशस्तु तदैवैतदिति बुद्धिं स्थिरीकरोति । इत्युक्ते चिरकालविपर्ययपरिवृत्तसंस्थानकाननवर्ण नया हदयसंवादी देशस्वभावः परममौचित्यमुद्द्योतयति ।। न तु यथा राजशेखरस्य-

काटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहतः
प्राढान्ध्रीस्तनपीडितः प्रणयिनीभ्राभङ्गवित्रासितः ।
लाटीबाह्रविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः
सोऽयं संप्रति राजशेखरकविर्वाराणासीं बाञ्छति ।।

अत्र कर्णाटमहाराष्ट्रान्ध्रलाटमलयालनासंभोगसुभगः कालेन गलित- रागमोहः संप्रति राजशेखरकविर्वाराणसीं गन्तुमिच्छतीयुक्ते शृङ्गाररस्स-. तरङ्गितवराजङ्गनाप्रसङ्गेऽनङ्गेनिरर्गलदक्षिणापथदेशोदेशमध्ये प्रणयिनीभ्रूम- ङवित्रासित इति देशोपलक्षणविरहितकवलप्रणयिनीपदेन देशौचित्यमुप-. चितमध्यनुचितता नीतम् ।। कुलौचित्य दर्शयितुमाह--

कुलोपचितमौचित्यं विशेषोत्कर्षकारणम् ।
काव्यस्य पुरुषस्येव प्रियं प्रायः सचेतसाम् ॥ २८ ॥

पुरुषस्येव काव्यस्य कुलोन्नतमौचित्यं सविशेषोत्कर्षजनकं प्रायेण बाहु- ल्येन सहृदयानामभिमतम् ॥ यथा कालिदासस्य-

'अथ स विषयव्यावृत्तात्मा यथविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलित वयसामिक्ष्वाकृणामिदं हि कुलव्रतम् ॥

अत्र " अथ स राधा वृद्धास्तरुणाय सूनवे राज्यं प्रतिपाद्य तया देव्या सह, तपोषनं भेजे। विरक्तचेतसामिक्ष्वाकूणामन्ते हि कुलव्र्तमिदमेव’ इत्युक्ते भूतवर्तमानभाविनां तद्व्श्यानामैचित्यमुन्मीलितम् ॥ न तु यथा [२३]यशोवर्मदेवस्य

"उत्पतिर्भण्डकुले यदभीष्टं तत्पदं समाकान्तम् ।
भोगास्तथापि दैवात्सकृदपि भोक्तुं न लभ्यन्ते ।।

अत्र ममोत्पत्तिभण्डकुले समीहितपदाक्रमणं च निष्पन्न तथापि दैवा- र्पितप्रियाविप्रयोगाद्भोगा भो क्तुं न लभ्यन्त इत्यभिहिते वसंवेद्यमेव भण्ड- कुलमन्यत्राप्रसिद्धं स्वयमेव निर्दिश्यमानमुत्कर्षविशेषणविरहितकेवलपदो- पादानेन निरर्थकतया निरौचित्यमेव । इक्ष्वाकुकुलस्य तु निर्विशेषणत्व- मुपपद्यत एव । त्रिभुवनप्रसिद्धौचित्य चरित्रत्वात् ।। व्रतौचिलं दर्शयितुमाह---

काच्यार्थः साधुवादाई। सद्व्रतौचित्यगौरवात् ।
संतोपनिर्भरं भक्या करोति जनमानसम् ॥ २९ ।।

काच्यार्थः समुचितव्रतगौरवात्साधुवादयोग्यः संतोषपूर्णं जनमनः करो- ति । भक्तिर्विच्छितिः ॥ कथा मम मुक्तावलीकाव्ये-

'अत्र वल्कलजुपः पलाशिनः पुष्परेणुभरममभूषिताः ।
लोलाभृङ्गवलयाक्षमालिकास्तापसा इव विभान्ति पादपाः ॥'

अत्र तपोवनोचितवतव्यञ्जकवल्कलभसाक्षसूत्रप्रणयिपादपवर्णनायामचे. तनानामपि शमसमयविमलचित्तवृत्तिरौचित्यमुपजनयति ।। न तु यथा दीपकस्य-

'पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपाली-
मादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।
द्वार द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी सनाथः स पुनरनुदिनं तुल्यकुल्येषु दीनः ॥

अत्र वैराग्यनिरर्गलवर्णनायां भिक्षाकपालीमादाय क्षुरक्षामः कुक्षिपूर- णाय प्रवृत्तो मानी वरं द्वारं द्वारं यष्टिनिविष्टपाणिः परिभ्रान्तो न पुनरनिशं तुल्यकुल्येषु दीन इत्युक्ते सहजप्रशमविमलमानसविश्रान्तिसंतोषमुत्सृज्य



१. द्वितीयपुस्तके श्रीहर्षदेवस्य. तुल्यकुल्यद्वेषविजिगीपापरमेव वाक्यं भृशमनोचित्यमुद्भावयति । वरमेतत्ती- व्रव्रतकष्टं न तु स्वजनदैन्यया जनमिति संसारग्रन्थिथन्धागिमानोपन्यासः ग्मर्वन्भात्माथ्निपन्यासः ।। तत्वौचित्यं दर्शयितुमाह-

काव्यं हृदयसंवादि सत्यप्रत्ययनिश्चयात् ।
तत्वोचिताभिधानेन यात्युपादेयतां कवेः ॥ ३० ॥

तत्त्वोचित्ताख्यानेन कवेः सूक्तं सत्यप्रत्ययग्यैर्थासंवादि गृह्यतां याति ॥

यथा मम बौद्धाबदानलतिकायाम् ----

'दिवि भुषि फणिलोके शैशवे यैवने वा
जरसि निधनकाले गर्भशय्याश्रये वा ।
सहगमनसहिष्णोः सर्वधा देहभाजां
न हि भवति विनाशः कर्मणः प्राक्तनस्य ।'

अत्र प्राक्तनस्य कर्मणxलोवथे शशशीवनवृद्धत्वावस्थासु देहिनां सह गमने समर्थत्वान्न विनाशोऽस्तीत्युक्ते गुने नि:संशयसकलजनहृदयसंवा- दितत्त्वाख्यान मौचित्य ख्यापयति ॥ न तु यथा माघस्स-

[२४]बुभुक्षितैत्व्याकरणं न भुज्यते न पौयते काव्यरसः पिपासितः ।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निप्फलाः कलाः ॥’

अत्रार्यार्थितापरत्वेन धनमेवार्जय, क्षुचितैर्व्याकरणं न भुज्यते न च काव्यरसः पिपासितैः पीयते, न च विद्यया कुलं केनचिदुद्धृतमित्युक्ते सर्व- मेतद्दारिद्र्यदैन्यविद्रुतधैर्यकातरतया तत्त्वविरहितं विपरीतमपन्यस्तमनौचित्यं सयुक्तमेव । विद्यानामेव सर्वसंपत्प्रसविनीनां कुलोद्भरणक्षमत्वं नान्यस ॥ सत्वौचित्यं दर्शयितुमाह-

चमत्कारं करोत्येव पचा सच्चोचितं कवेः।
विचाररुचिरोदारचरितं सुमतेरिव ॥ ३१ ॥

सत्त्वोचितं कवेर्वचश्चमत्कारं करोति । सुमतेरिव विचार्यमाणं रुचिरमु- दारचरितम् ।।



१. मापकुते प्रसिद्धे शिशुपालवधाभिधे काव्ये नायं श्लोकः ॥, यथा मम चित्रभारते नाटके-

'नदीवृन्दोद्दामप्रसरसलिलापूरिततनुः
स्फुरत्स्फीतज्वालानिबिडवडवाग्निक्षतजलः ।
न दर्पं नो दैन्यं स्पृशति बहुसत्त्वः पतिरपा-
मवस्थानां भेदाद्भवति विकृति व महताम् ॥

अत्र पयोधिव्यपदेशेन युधिष्ठिरस्य सत्त्वोत्कर्पे ऽभिधीयमाने सरित्पूर- प्रवार्धिततनुर्वडवाग्निनिष्पीतश्च नोत्सेकं न संकोचमब्धिर्विपुलसत्त्वः स्पृशति । न ह्यवस्थानां भेदान्महाशयानां विकारी भवतीत्युक्ते गम्भीरधीरा सत्त्ववृ- तिरौचित्यमातनोति ।। न तु यथा [२५]भट्टेन्दुराजस्थ---

'आश्चर्य वडवानलः स भगवानाश्चर्य मग्मोनिधि-
यत्कातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै-
रन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि जातः श्रमः ॥'

अत्र वडवानलसमुद्रयोः सत्वमहत्वे बक्ष्यमाणे नातिविपुलाशयत्वा- देकस्य पिबतः पयोभिस्तृप्तिर्न जाता, द्वितीयस्य तदुपजीव्यमानस न मनागपि खेदः, तदेतदुभयमाश्चर्यमित्युक्ते निःसंतोषतया सततया च कस्य न बड़वागेर्लज्जा । न च जलनिधेराश्रितकार्थिपूरणसामर्थ्यमित्यसत्त्वे सत्त्व- स्तुतिरनौचित्यमावह्ति ॥ अभिप्रायौचित्य दर्शयितुमाह-


अकदर्थनया सूक्तमभिप्रायसमर्पकम् ।
चित्तमावर्जयत्येव सतां स्वस्थमिवार्जवम् ।। ३२ ॥

अक्लेशेनाभिप्रायसमर्पकं काव्यं हृदयमावर्जयति । सज्जनानां निर्मल- मार्जवमिव ।।



१. श्रीमदभिनवगुप्ताचार्यस्य गुरमहन्दुराजा, यथा दीपकस्य-

'श्येनाङ्घिग्रहदारितोत्तरकरो ज्याप्र[२६]कोष्ठान्तर
आताम्राघरपाणिपादनयनप्रान्तः पृथूरःस्थलः ।
मन्येऽयं द्विजमध्यगो नृपसुतः कोऽप्यम्ब निःशम्बल:
पुत्र्येवं यदि कोष्टमेतु सुकृतैः प्राप्तो विशेषातिथिः ।'

अत्र खैररमणी रमणीयं दिनावसाने युवानं पथिकमालोक्याभिप्रायसू- चकं जननीमेवं ब्रूते । यदसौ राजपुत्राकृतिः श्येनग्रहनाराचपरिचयोचितः सायं समये प्राप्त इत्युक्ते मात्राप्यभिप्रायपूरकमभिहितम् । पुत्रि यद्येव तत्कोष्ठाङ्कं प्रविशतु सुकृतविशेषोऽतिथिः प्राप्तः पूज्य इत्येतेन स्फुटाभि- प्रायसूचकमौचित्यमुपचितमाचकास्ति ।। न तु यथास्यैव-

'अयि विरहविचित्चे भर्तुरर्थे तथार्ता
सपदि निपतिता त्वं पादयोश्चण्डिकाया।
स्वयमुपहित्तधूपस्थालकच्छत्रशृङ्गो-
हलितमपि ललाटं येन नैवाललक्षे ॥'

अत्र विनयवत्याः सुचिरात्पत्यावागते ललाटनखोल्लेखापह्नववचने सख्या समुपदिश्यमाने हे विरहोन्मते भर्तुरर्थे चण्डिकापादपतने स्वयं स्थापितधू-. पस्थालकोटिक्षतमपि न लक्षितं भवत्या ललाटमित्युक्तौ स्वैरापह्नवशिक्षामा- त्रमेबोपलक्ष्यते । न तु तस्याः सख्या वा कश्चिदभिप्रायविशेषः ॥ समावौचित्यं दर्शयितुमाह-


स्वभावौचित्यमाभाति सूक्तीनां चारभूषणम् ।
अकृत्रिममसामान्यं लावण्यमिव योषिताम् ॥ ३३ ॥

स्वभावोचितत्वं कविवाचामाभरणमाभाति । अकृत्रिममनन्यसामान्यं लावण्यमिव ललनानाम् ॥ यथा मम मुनिमतमीमांसायाम्---

'कोर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना
हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी।



१. 'प्रकोष्टान्तिक' इति द्वितीयपुखका द्वितीयपारे 'चाताम्राधर -' इति पाठोयुक्तः।

 
निर्धौताञ्जनशोणकोणनयना सानावसानेऽङ्गना
प्रस्सन्दत्कर्बद्रीर्रा न कुरुते कस्य स्पृहार्द्रं मनः ॥'

अत्र व्याससूनोः शुकस्य गाढवैराग्यनिःसङ्गस्य गगनगङ्गातीरे स्नानो- त्तीर्णास्त्रिदशयोषितो विवसनास्तदर्शननिःसंकोचाः पश्यतः प्रशमविमलम- नसः सरव्यतिकरनिर्विकारतायां प्रतिपाद्यमानायां कर्णमूलोत्क्षिप्तालक- पर्यन्तनिपतत्तोयकणसंतानेन स्तनयोः कृतिमुहूर्तहारविभ्रमा, शीतेन रोमाञ्च- सीत्कारिणी, धौताञ्जनारुणनयनान्ता प्रस्रवन्मुक्तकेशकलापा, खानोत्तीर्णा तरुणी कस्य स्पृहाद्रं न मनः करोतीत्युक्ते स्वयमार्द्रस्वभावः परमप्यार्दी- करोतीत्युचितमेतत् ।। नतु यथा मम तत्रैव-

'भक्तिः कातरतां क्षमा सभयतां पूज्यस्तुतिदीनतां
धैर्यं दारुणतां मतिः कुटिलतां विद्याबलं क्षोभताम् ।
ध्यानं वञ्चकतां तपः कुहकतां शीलवतं षण्डतां
पैशुन्यत्रतिनां गिरां किमिव वा नायाति दोषार्द्रताम् ॥

अत्र पिशुनस्वभावे वर्ण्यमाने भक्त्यादीनां गुणानां वैपरीत्ये प्रतिपा- दिते पिशुनानां वचसां किं वा दोषार्द्रतां नायातीत्यमिहिते स्वयमनार्द्रस्व- भावस्य परार्द्रीकरणमनुचितमेव ॥ सारसंग्रहौचित्यं दर्शयितुमाह-

सारसंग्रहवाक्येन काव्यार्थः फलनिश्चितः।
अदीर्घसूत्रव्यापार इव कस्य न संमतः ॥ ३४ ॥

सारसंग्रहवाक्येन काव्यार्थः सुनिश्चितफलः शीघ्रकारिण :इव व्यापारः कस्य नाभिमतः॥ यया मम मुनिमतमीमांसायाम्--

'विविधगहनगर्भग्रन्थसंभारभारै-
र्मुनिबिरभिनिविष्टैस्तत्त्वमुक्तं न किंचित् ।

१४ . प्र. गु

कृतरुचिरविचारं सारमेतन्महः-
रहमिति भवभूमिर्नाहमित्येव मोक्षः ॥'

अत्र भगवद्गीतार्थविचारे सारसंग्रहोऽभिहितः, यत्किल मुनिभिरनेक- भेदभिन्नशास्त्रजडैरभिनिविष्टमतिभिस्तत्त्वमुपादेयं न किंचित्कथितम् । भ- गवतो महर्षेव्यासस्य सुमतेविमलविचारोत्तीर्णं निश्चितमेतदेव । यदहंकारः संसारमूलभूमिर्ममतापरित्याग एवं मोक्ष इति तत्संक्षेपेण भवक्षयोपदेशः प्रकृतार्थस्य परममौचित्यं पुष्णाति ।। न तु यथा परिव्राजकस्य-

'तपो न तप्तं वयमेव तप्ता भोगा न भुक्ता वयमेव भुक्ताः ।
जरा न जीर्णा वयमेव जीर्णास्तृष्णा न याता वयमेव याताः ॥'

अत्र वयमेव वप्ता भुक्ता जीर्णा याता इत्युक्ते निःसाराचारुत्वादपर्य- वसितो वाक्यार्थः फलशून्यतया सारसंग्रहोचितं न किंचित्प्रतिपादयति ।। प्रतिभौचित्यं दर्शयितुमाह----.

प्रतिभाभरणं काव्यमुचितं शोभते कवेः।
निर्मलं सुगुणस्येव कुलं भूतिविभूपित्तम् ।। ३५ ।।

प्रतिभालंकृतं कवेः काव्यमुचितं गुणवतः कुलमिव विमलं लक्षम्या प्रकाशितं शोभते ।। यथा मम लावण्यवत्याम्-

'अदय दशसि कि स्वं बिम्बबुद्ध्याधरं में
भव चपल निराशः पक्कजम्बूफलानाम् ।
इति दयितमवेत्य द्वारदेशाप्तमन्या
नि[२७]गदति शुकमुञ्चैः कान्तदन्तक्षतौष्ठी ।'

अत्र कयापि द्वारदेशाप्तं प्रियं ज्ञात्वा अन्यकामुकवचनखण्डितौष्ठ्या संप्रति तवागमनानभिज्ञयेव शुकमाद्दिश्य यदुक्तं निर्दय किं त्वं बिम्बफल- बोभादधरं मम विदारयसि । पक्कानां जम्बूफकानामिदानीं चपलनिराशो



१.द्वितीयपुस्तके "न्यगदत" इति पाठ भव कुपिता तुभ्यं नो दास्यामीति तेनोच्चैः प्रत्यायनापहवनवोन्मेषप्रज्ञा- चातुर्यचारुवचनमौचित्यचमत्कारं करोति ॥ यदाह [२८]भट्टतौतः–'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति ॥ न तु यथा मम तत्रैव-

निर्याते दयिते गृहे विशयने निर्माल्यमाल्ये हृते
प्राप्ते प्रातरसारागिणि परे वारावहारेऽन्यया ।
द्वारालीनविलोचना व्यसनिनी सुप्ताहमेकाकिनी-
त्युक्त्वा नीविविकर्षणैः स चरणाघातैरशोकीकृतः ।

अत्र वेश्या व्यालयकामुकस्य वारावहारं विधाय नवकामुकेन सह क्ष- पायां नीतायां प्रभाते तसिन्निर्याते शय्याकुसुमादिसंभोगलक्षणे निवारिते वारवञ्चनकुपिते गाढानुराग ग्रहग्रस्तमतौ पूर्वकामुके प्राप्ते त्वदालोकनका- ङ्क्षिणी व्यसनिनी द्वारन्यस्तनयनाइमेकाकिनी सुप्तेति प्रत्यायनावचनविली- नमन्युसरभससरसनीविकर्षणोधताकृतिकृतेर्ष्याकोपया चरणनलिनप्रहारै- रशोकीकृतः । शङ्काशल्योन्मूलनान्निःशोकः संपादितः । संततपुलकाङ्कु- रत्वादशोकतरुतुल्यतां नीत इति वा वाक्यार्थः। केवलसत्यविप्रलम्भप्राग- ल्भ्यमात्रमेव गणिकाया गाढरागमूलतां च प्रतिपादयति । न तु प्रतिभोद्भू- तामौचित्यकणिकां सूचयति ॥ अवस्थौचित्यं दर्शयितुमाह-

अवस्थोचितमाधत्ते काव्यं जगति पूज्यताम् ।
विचार्यमाणरुचिरं कर्तव्यमिव धीमताम् ॥ ३६॥

अवस्थोचिततया कान्यं जगति श्लाध्यतामायाति । मतिमतामिव कृत्यं विचारनिर्घर्षरुचिरम् ॥ यथा मम लावण्यवत्याम्-

'मुक्तः कन्दुकविभ्रमस्तरलता त्यतैव बाल्योचिता
मौग्ध्यं निर्घतमाश्रिता गजगतिभ्रूलास्यमभ्यस्यते ।



१. अभिनवगुप्ताचार्यस्योपाध्यायो भट्टतौतः,

 
यन्न[२९]र्मोमिषु निर्मितं मृगदृशा वैदग्थ्यदिव्यं वच-
स्तद्विद्मः सुभगाभिमानल[३०]टभाभावे निबद्धो भरः ॥'

अत्र यदुक्तं कन्दुकक्रीडा त्यक्ता, बालचापल्यं परिहृतम्, मोग्ध्यं निरस्तम्, गजगतिरङ्गीकृता, भ्रूलतालास्याभ्यासः क्रियते, नौर्मोर्मिषु वत्तनवैचिच्य- मासूत्रितम्, तेन जानीमहे शैशवावस्थां समुत्सृजन्त्या यौवनमाश्रयन्त्या प्रौढताभनारूढयापि नवसंभोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे बा- लया भरो निबद्ध इत्यभिहिते [३१]स्फुटमृदुसंनद्धा(?) वयोवस्थामध्यसंधिवर्ण- नायामौचित्यं स्फुरदिवावभासते ॥ न तु यथा राजशेखरस्य-----

ज्यायान्धन्वी नवधृतधनुस्ताम्रहस्तोदरेण
क्षत्रक्षोदव्यतिकरपटुस्ताटकाताडकेन ।
कर्णाभ्यर्णस्फुरितपलितः क्षीरकण्ठेन सार्धं
योद्धं वाञ्छन्न कथममुना लज्जते जामदग्र्यः ।।'

अत्र भार्गवः स्थविरावस्थास्थितः स्थिरतरपराक्रमकर्कशप्रौढो धनुर्षर: शिशुना रामेण धनुर्ग्रहणारुणितकोमलकरकमलतलेन क्षत्रियक्षयसंरम्भप्र- गल्भरताटकाताडकेन स्फुरदाकर्णपलितः संभाव्यमानजननीस्तनक्षीरकण्ठे- नामुना युयुत्सुः कथं न लज्जत इत्युक्ते पेशलतया राघवावस्थायां जाम- ददयावस्थाविपरीतायां प्रतिपाद्यमानायां ताटकाताडकेनेति विरुद्धावाविवा- सोऽर्थः किमप्यनौचित्येन चेतसि संकोचमादधाति ।। विचारौचित्यं दर्शयितुमाह-

उचितेन विचारेण चारुतां यान्ति सूक्तयः।
वेद्यतत्वावबोधेन विद्या इव मनीपिणाम् ॥ ३७॥

विचारौचित्येन सूक्तयश्चारुतां यान्ति । ज्ञेयस्वरूपज्ञानेन विद्या श्व विदुषाम्॥



१. 'नर्मोक्तिषु' इति द्वितीय पुस्तकपाठ। २. प्रगल्भाङ्गनाभावे. ।
३. 'स्फुटध्रिया' इति द्वितीयापुस्खकपाठ: ।
यथा मम मुनिमतमीमांसायाम्-

"अश्वत्थामवधाभिधानसमये सत्यव्रतोत्साहिना
मि[३२]थ्या धर्मसुतेन जिह्मवचसा हस्तीति यद्व्याहृतम् ।
सा सत्यामृतरश्मिवैरमसमं संसूचयन्त्याः सदा
शङ्के पङ्कजसंश्रयेण मलिनारम्भा विजृम्मा श्रियः ॥'

अत्र द्रोणनिधनाख्याने सत्यव्रतोत्साहवता धर्मतनयेनापि मिथ्या ल-. घुवचसा कुञ्जर इति यदुक्तं सा सततं सत्यचन्द्रद्वेषं सूचयन्त्याः श्रियः शङ्के पङ्कजसंश्रयेण मलिनव्यापारा विजृम्भेत्यभिहिते ससंवादलक्ष्मीस्व- भावपरिभावनतया तत्वावबोधेन मूलविश्रान्त्या फलपर्यवसायी विचार: सहृदयसंवेद्यमौचित्यं व्यनक्ति ॥ न तु यथा मम तत्रैव-

’प्रम्लाने चिरकालवृत्तदयिताकेशाम्बराकर्षणे
क्रूर राक्षसवैशसं यदि कृतं भीमेन दुःशासने ।
तत्कालक्षमिणा कुशाश्मपरुषारण्यप्रवासे चिरं
किं पीतं तत तापमग्नमहिषस्वेदाम्बुपृक्तं पयः ॥

अत्र भीमसेनचरिते विचार्यमाणे त्रयोदशवर्षपर्युषिते कृष्णाकेशाक- र्षणपराभवे भीमेन भीमं राक्षसकर्म दुःशासने यदि कृतं तत्सद्यःकृतार्द्रा- पराधकालक्षमिणा सुचिरं दर्भसूचीविषमाश्मपरुषवनवासे कि ग्रीष्मताप- निमग्नमहिषस्वेदस्त्रुतिपृक्तं पयः पीतमित्यनुपपन्नकृत्येऽभिहिते कारण- विचाराभावान्निर्मूलोपालम्ममात्रमनौचित्यमनुबध्नाति ।। नामौचित्यं दर्शयितुमाह--

नामा कर्मानुरूपेण ज्ञायते गुणदोषयोः ।
काव्यस्य पुरुषस्येव व्यक्तिः संवादपातिनी ॥ ३८ ॥

काव्यस्य कर्म औचित्यं तेन नाम्ना पुरुषस्येव गुणदोषव्यक्तिः संवा- दिनी ज्ञायते॥



१. 'धर्मस्यापि सुतेन हती द्वितीयपुस्तकपाट. यथा कालिदासस्य-

'इदमसुलभवस्तुप्रार्थनादुर्निवारः
प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातान्दोलितापाण्डुपत्रै-
रुपवनसहकारैर्दर्शितेप्वङ्कुरेषु ॥’

अन्न प्रारम्भ एवं ममेदं मनः पञ्चबाणः सुदुर्लभवस्तुप्रार्थनादुर्निवारः शकलीकरोति । किमुत लीलोद्यानसहकारैर्मलयानिलान्दोलितबालपल्लवै- रङ्कुरेषु दर्शितेष्वित्युक्ते मदनस्य पञ्चबाणाभिधानमुचितमेव ।।

यथा वा मम बौद्धावदानलतायाम्-

'तारुण्येन निपीतशैशवतया सानाङ्गशृङ्गारिणी
तन्वङ्ग्या सकलाङ्गसङ्गमसखी भङ्गिनिवाङ्गीकृता ।
निःसंरम्भपराक्रमः पृथुतरारम्भाभियोगं विना
साम्राज्ये जगतां यया विजयते देवो विल्मसायुधः ।'

अत्र यौवननिपीतशैशवतया तन्वङ्ग्यानशृङ्गारवति सर्वाङ्गसंगमसखी सा काप्यभिनवा भङ्गिरङ्गीकृता यया निष्प्रयलपराक्रमः प्रभूततरारम्भसं- भारं विहाय त्रिभुवनसाम्राज्ये जयति देवो विलासायुष इत्युक्ते कामस्य विलासायुध इति नामोपपन्नमेव । तन्वङ्गीभङ्गायैव सिद्धत्रैलोक्याधिपत्यवि- जिगीषायां कामसायकादीनां नैरर्थक्यात् ।। न तु यथा कालिदासस्य-

'कोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स बहिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।'

अत्र पश्यतो भगवतस्त्रिनेत्रस्य स्मरशरनिपातक्षोभे वर्ण्यमाने तन्निका- रकोपशमाय संहर संहर प्रभो क्रोषमिति यावद्वचः खे देवानां चरति तावद्भवनेत्रोद्भवः स वह्निर्मदनं भस्म्राशिशेषमकार्षीदित्युक्ते संहारावसरे स्व्रस्य भवाभिधानमनुचितमेव ॥ आशीर्वचनौचित्य दर्शयितुमाह-

पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः ।
उचिताशीर्नृपस्येव भवत्यभ्युदयावहा ॥ ३९ ॥

संपूर्णार्थसमर्पकस्य संतोषितविदुषः काव्यस्य नृपतेरिवोचितमाशी:- पदमभ्युदयावहं भवति ॥ यथास्मदुपाध्याय[३३]गङ्गकस्य-

'स कोऽपि प्रेमार्द्रः प्रणयपरिपाकप्रचलितो
विलासोऽक्ष्णां देयासुखमनुपमं वो मृगहदृशाम् ।
यदाकूतं दृष्ट्वा पिदधति तुणविवरे
निरस्तव्यापारा भुवनजयिनः पञ्च बिशिखाः ।।"

अत्र स कोऽप्यसामान्यप्रेमप्रणयविश्रान्तिप्रगल्भकुरङ्गदृशा निरुप- मो नयनविलासः सुखं वो देयात् । यदभिप्रायमालोक्य भुवनजयिनः का- मस्य पञ्च सायकाः समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिदधती- त्युक्ते सुखं वो देयादित्याशी:पदमुचित्तमेव । प्रियानयनविभ्रमस्य सुखा- र्पणयोग्यत्वात् ॥ यथा वा मम वास्यायनसूत्रसारे

'कामः कामं कमलवदनानेत्रपर्यन्तवासी
दासीभूतत्रिभुवनजनः प्रीतये जायतां वः ।
दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा
यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता॥'

अत्र कामः प्रीतये वो जायतां यस्य दग्धस्याप्यञ्जनस्येवाधिक्यं रूचिः र्योतेस्युक्ते प्रीतये जायतामित्युचितं कामस्य प्रीत्यात्मकत्वात् ॥ नतु यथामरुकम-

'बालोलमलकावली विलुलितां बिभ्रञ्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां सीकरैः ।



१.क्षेमेन्द्रस्योपाध्यायो गङ्गकः ।

[३४]तन्वयाः सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये
तत्त्वां पातु चिराय कि हरिहरस्कन्दादिभिर्दैवतैः ॥

अत्र तन्व्या रतिव्यत्यये लोलालकं चलत्कुण्डलं स्वेदसलिलेन किंचि- दुन्मृष्टतिलकं यन्मुख तत्त्वां पातु, कि हरिहरस्कन्दादिभिर्दैवतैरित्युक्ते पानतु त्वामित्यनुचितम्, आनन्दयतु त्वामित्युचितं स्यात् । अन्येषु का- व्याङ्गेष्वनयैव दिशा स्वयमौचित्यमुत्प्रेक्षणीयम् । तदुदाहरणान्यानन्त्यान्न प्रदर्शितानीत्यलमतिप्रसङ्गेन ।

आसीत्मकाशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरश्रीः ।
अभूद्धहे यस्य पवित्रसत्रमच्छिन्नमग्रासनमग्रजानाम् ॥

यः श्रीस्वयंभूमवने विचित्रे लेप्यप्रतिष्ठापितमातृचक्रः ।
गोभूमिकृष्णाजिनवेश्मदाता तत्रैव काले तनुमत्ससर्ज ॥

तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदासापरपुण्यनामा ।
क्षेमेन्द्र इत्यक्षयकाव्यकीर्तिश्चक्रे नवौचित्यविचारचर्चाम् ॥

श्रीरत्नसिंहे सुहृदि प्रयाते शार्वं पुरं श्रीविजयेशराज्ञि ।
तदात्मजस्योदयसिंहनाम्नः कृते कृतस्तेन गिरां विचारः ॥

यस्यासिः परिवारकृत्रिभुवनप्रख्यातशीलश्रुतेः
सर्वसावनतेन येन नितरां प्राप्ता विशेषोन्नतिः ।
आशाः शीतलतां नवत्यविरतं यस्य प्रतापानल-
स्तस्य श्रीमदनन्तराजनृपतेः काले किलाय कृतः ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापराख्य श्रीक्षेमेन्द्रकृता- औचित्यविचारचर्चा समप्ता ॥






१. "तन्व्या सुत्सुरतान्ततान्तनयनम्" इत्यxxxxxxxxxxxxकेषु पाठः ॥