ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका ५-८)

विकिस्रोतः तः
Jump to navigation Jump to search

विषयसूची(पञ्चिका १-४)

विषयसूची(पञ्चिका ५-८)

प्रथम पञ्चिका

द्वितीय पञ्चिका

तृतीय पञ्चिका

चतुर्थ पञ्चिका

पञ्चम पञ्चिका

षष्ठम पञ्चिका

सप्तम पञ्चिका

अष्टम पञ्चिका

पञ्चमपञ्चिकायाः प्रथमोऽध्यायः ५.१
तृतीयेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.२
चतुर्थेऽहनि न्यूङ्खविधानाय प्रस्तावः ५.३
न्यूङ्खस्य विधानम्
आश्वलायनेन प्रोक्तं न्यूङ्खस्वरूपम्
अर्द्धौंकारविवरणम्
तस्य न्यूङ्खस्य प्रशंसनम्
न्यूङ्खस्य मन्त्रमध्ये स्थानविशेषविधानम्
स्थाननिर्णये पक्षचतुष्टयवर्णनम्
प्रातरनुवाके स्थानविशेषविधानम्
आज्यशस्त्रे स्थानविशेषविधानम्
माध्यन्दिने सवने स्थानविशेषविधानम्
चतुर्थेऽहनि देवता स्तोम-साम-च्छन्दसां विधानम् ५.४
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः
विमदेन महर्षिणा दृष्टं न्यूङ्खसहितं सूक्तविधानम् ५.५

पञ्चमपञ्चिकायाः द्वितीयोऽध्यायः
पञ्चमेऽहनि देवता-स्तोमसाम-च्छन्दसां विधानम् ५.६
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.७
महानाम्नीषु शाक्वरसामविधौ महानाम्नीशब्दनिर्वचनम्
प्रसङ्गतो दाशतयीनामाद्यन्तयोर्मन्त्रभागयोरुल्लेखः
पञ्चपादोपेततया पाङ्क्तत्वलिङ्गयुक्तसूक्तं विधत्ते ५.८
षष्ठस्याह्नो देवक्षेत्रत्ववर्णनम् ५.९
षष्ठेऽहनि ऋतुप्रैषेषु ऋतुयाज्यासूक्ते विशेषविधिः, तत्र विचारश्च
प्रातस्सवने माध्यन्दिनसवने च पारुच्छेपीविधानम् ५.१०
आख्यायिका-विहितानां पारुच्छेपीनामुपाख्यानेन प्रशंसार्था ५.११
देवता-स्तोम-साम-च्छन्दसा विधानम्
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.१२
पारुच्छेपत्वादिलिङ्गत्रयोपेतं सूक्तं विधत्ते ५.१३
आख्यायिका-विहितनाभानेदिष्ठसूक्तीयनाभानेदिष्ठवर्णनार्था ५.१४
प्रसङ्गतः 'सत्यमेव वदितव्यम्' -इति विधिः
नाभानेदिष्ठवालखिल्यवृषाकप्येवयामरुन्नाममन्त्राणां सहचारित्वम् ५.१५
पञ्चमपञ्चिकायाः तृतीयोऽध्यायः ५.१६
द्वादशाहक्रतौ द्वितीयादि-नवरात्रिगतास्त्रयस्त्र्यहाः; तत्र प्रथम-द्वितीयत्र्यहाभ्यामेकः पृष्ठ्यः षडहः सम्पद्यते, अन्तिमस्त्र्यहश्छन्दोमाख्यः; तस्य प्रथमेऽहनि नवरात्रिगते सप्तमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.१६
प्रशब्दलिङ्गकं सूक्तं विधत्ते ५.१७
चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिशाख्यानां छन्दोमस्तोमानाम् अष्टमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.१८
महच्छब्दयुक्तसूक्तचतुष्टयं विधत्ते ५.१९
पञ्चमपञ्चिकायाः चतुर्थोऽध्यायः ५.२०
नवमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः ५.२०
नवमेऽहनि सूक्तानां लिङ्गानि ५.२१
पृष्ष्ठ्यषडहस्य, छन्दोमत्र्यहस्य, दशमस्याह्नश्च (प्रायणीयेन सह गणिते तु एकादशस्याह्नश्च) मुखादिसाम्येन, नासिकादिसाम्येन, अक्ष्यादिसाम्येन, कर्णादिसाम्येन च प्रशंसा ५.२२
दशमेऽहनि नियमविशेषस्य विधानम्
मानसग्रहाय प्रसर्पणविधिः
तीर्थदेशे मार्जनविधिः
होमार्थं पत्नीशालागमनविधिः
पत्नीशालागतानां होमविधिस्तन्मन्त्रादि-विधिश्च
कृतहोमानां तेषां पुनः सदःप्रवेशविध्यादि ५.२३
सदोमण्डपस्थितानां सामगानां सार्पराज्ञीषु स्तोत्रगानविधिः
मानसग्रहाय साम्नां प्रस्तावोद्गीथप्रतिहारभागानां मनसैव गेयत्वम्, शस्त्राणां तु वाचा शंसनविधिः
सार्पराज्ञाः शंसनादूर्ध्वं चतुर्होतृमन्त्राणां शंसनविधिः
शस्तानां चतुर्होतृमन्त्राणां व्याख्यानप्रशंसे
औदुम्बरीशाखायाः सम्भूयोपस्पर्शनविधिः ५.२४
औदुम्बरीस्पर्शादनन्तरं वाग्विसर्गविधिः
वाग्विसर्गस्य कालविशेषविधिः
 - देशविशेषविधिः
 - मन्त्रविशेषविधिः
चतुर्होतृमन्त्रव्याख्यानाय होतुराहावविधिः ५.२५
 - अध्वर्योः प्रतिगरविधिः
दशपदात्मकचतुर्होतृसंज्ञकमन्त्रसङ्घातस्य स्वरूपप्रदर्शनम्
ग्रहसंज्ञकमन्त्रस्य स्वरूपप्रदर्शनम्
प्रजापतितनुसंज्ञकानां द्वादशमन्त्राणां विधिः
 - स्वरूपप्रदर्शनम्
ब्रह्मोद्यसंज्ञकमन्त्रस्य विधिः
 - स्वरूपप्रदर्शनम्
द्वादशाहयागीयविशेषवक्तव्यानि समाप्तानि
पञ्चमपञ्चिकायाः पञ्चमोऽध्यायः ५.२६
अथाग्निहोत्रयागस्य विधयः ५.२६
अग्निहोत्रस्य सायंकालीनं यजमानकर्त्तव्यम्
अग्निहोत्रस्य प्रातःकालीनं यजमानकर्तव्यम्
आहवनीयोद्धरणस्य प्रशंसा
क्षीरादिरूपस्य होमद्रव्यस्य प्रशंसा
होमद्रव्यस्य (क्षीरस्य) अवस्थाभेदात् षोडशदेवताकत्वम्
प्रायश्चित्तम् अग्निहोत्री यदि दुह्यमाना उपविशेत् ५.२७
तत्र ध्वनिं कुर्यात्, तत्र दोह्यमानस्य क्षीरस्य अग्निहोत्र्याश्चलनेन भूमिपतने
सर्वस्य भूमिपतने उपायान्तररूपम्
अग्निहोत्रसिद्धये क्षीरद्रव्याभावे श्रद्धाहोमस्य विधानम्
तत्तद्भावनारूपमानसाग्निहोत्रहोमस्य स्वरूपं विधिश्च ५.२८
मानुषदैवतभेदाद् दक्षिणाद्वैविध्यवर्णनम्
अग्निहोत्रानुष्ठानस्य सर्वधनदानफलसाम्येन प्रशंसा
गवामयनसत्रसाम्येन प्रशंसा
आख्यायिका-अनुदितहोमनिन्दोदितहोमप्रशंसार्था ५.२९
उदितहोमस्य दृष्टान्तपूर्विका प्रशंसा
पुनः प्रकारान्तरेण प्रशंसा
यज्ञगाथा-उदितहोमस्य प्रशंसार्था ५.३०
वृहद्रथन्तरसम्बन्धेन दिवाहोमस्य रात्रिहोमस्य च प्रशंसापूर्वकम् उदितहोमनिगमनम्
यज्ञगाथा-अनुदितहोमनिन्दार्था
आदित्यदेवप्रशंसार्था (बिसस्तैन्यशपथोपाख्यानम्)
आदित्यदेवस्य प्रशंसा, प्रकारान्तरेण पुनः प्रशंसा, एकातिथिरूपत्वं च
बिसस्तैन्यगाथाया भागविशेषस्य तात्पर्यव्याख्यानम्
अग्निहोत्रस्यावश्यकत्ववर्णनप्रसङ्गे सायमतिथिनिराकरणनिषेधः
अनुदितहोमनिन्दा उदितहोमप्रशंसा च प्रकारान्तरेण, ५.३१
दृष्टान्तान्तरेण. पुनः प्रकारान्तरेण युक्त्यन्तरेण च
यज्ञगाथा-उदितहोमप्रशंसार्था अनुदितहोमनिन्दार्था च
आख्यायिका -- सर्वप्रायश्चित्तसम्पादनस्य व्याहृतित्रयस्य सृष्टिवर्णनार्था ५.३२
प्रणवस्योत्पत्तिवर्णनार्था
ऋग्यजुस्सामत्रयीभिर्हौत्राध्वर्यवौद्गात्रब्रह्मत्वविधिः
यज्ञदोषप्रायश्चित्ताय गार्हपत्यादिषु व्याहृतिहोमविधिः
व्याहृतीनां वेदान्तःश्लेषणत्वम्
विश्लिष्टोऽपि यज्ञो व्याहृतिभिरेव संश्लिष्टो भवतीत्यत्र दृष्टान्तप्रदर्शनम्
प्रश्नोत्तराभ्यां ब्रह्मण आर्त्विज्यनिरूपणम् ५.३३
ब्रह्मणः मनसा वैकल्यराहित्यानुसन्धानविधिः
वाग्व्यवहारे बाधप्रदर्शनम्
उपाकृते प्रातरनुवाके उपांश्वन्तर्यामहोमं यावत् मौनविधिः
दक्षिणाग्रहणे विचारः ५.३४
यज्ञभिषक्त्वेन दक्षिणाग्रहणं न्यायमिति सिद्धान्तः
मानसानुष्ठानकारित्वेनैव दक्षिणाबाहुल्यम्
व्याहृतिप्रायश्चित्तानुष्ठानविधिः
आर्त्विज्यकर्तव्यान्तराणि

षष्ठपञ्चिकायाः प्रथमोऽध्यायः
आख्यायिका - ग्रावस्तुत् कर्तव्यविधानार्था ६.१
ग्रावस्तुत्सूक्तेन ग्राव्णामभिष्टवविधिः
ग्रावस्तुदभिष्टवदृष्टान्तप्रसङ्गेन अर्बुदोदासर्पणीनामप्रपत्कथा
अभिष्टवकाले ग्रावस्तुव उष्णीषेण नेत्रवेष्टनविधिः
ग्रावस्तुतोऽभिष्टवार्थमन्यासामप्यृचां विधानम्
ग्रावस्तुदभिष्टवकृतां पापशान्तिविषये दृष्टान्तप्रदर्शनम्
ग्रावस्तुदभिष्टवगतानाम् ऋचां शतसंख्याकत्वविधानम् ६.२
त्रयस्त्रिंशत् संख्याकत्वविधानम्
अपरिमितसंख्याकत्वविधानम्
पाठप्रकारविधानम्
मध्यन्दिनकालीनाभिष्टवस्य विशेषतः प्रशंसा
ग्रावस्तुतः सम्प्रैषनिरपेक्षत्वविधानम्
सुब्रह्मण्याख्यस्य ऋत्विजः कर्तव्यनिरूपणम् ६.३
-प्रशंसा, स्त्रीलिङ्गशब्दवाच्यत्वे हेतुश्च
 - समीपे दक्षिणात्वेन वृषभानयनविधिः
सुब्रह्मण्याह्वानस्य देशविशेषनिरूपणम्
 - विहितस्य उत्करदेशस्य प्रश्नोत्तराभ्यां प्रशंसा
आग्नीध्रस्य ऋत्विजः आर्त्विज्यकर्त्तव्यविधानम्
पात्नीवतग्रहे अनुवषट्कारनिषेधः
 - अनुवषट्कारनिषेधे यज्ञगाथा
नेष्ट्र्युपस्थासीनस्य पात्नीवतग्रहभक्षणविधिः
सुब्रह्मण्यायै दक्षिणासु नीतासु यज्ञसमाप्तिः

षष्ठपञ्चिकायाः द्वितीयोऽध्यायः
आख्यायिका-मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां शस्त्रविधानार्था ६.४
मैत्रावरुणस्य शस्त्रविधिः
ब्राह्मणाच्छंसिनः शस्त्रविधिः
अच्छावाकस्य शस्त्रविधिः
प्रातस्सवनाभिमानिनोऽग्निदेवस्य प्रशंसा
तृतीयसवनाभिमानिनां विश्वेषां देवानां प्रशंसा
होत्रकाणामहर्गणेषु शस्त्रेषु प्रातस्सवने प्रकारविशेषविधिः ६.५
माध्यन्दिनसवने तन्निषेधः
तृतीयसवने माध्यन्दिनन्यायातिदेशः
होत्रकाणामारम्भणीयानामृचां विधानप्रस्तावः ६.६
 - प्रशंसा
आरम्भणीयाविधिः मैत्रावरुणस्य होत्रकस्य
ब्राह्मणाच्छंसिनो होत्रकस्य
अच्छावाकस्य होत्रकस्य
होत्रकाणां परिधानीयानामृचां विधानप्रस्तावः ६.७
परिधानीयाविधिः मैत्रावरुणस्य होत्रकस्य
ब्राह्मणाच्छंसिनः होत्रकस्य
परिधानीयाविधिः अच्छावाकस्य होत्रकस्य
होत्रकाणां त्रयाणां सवनद्वये परिधानीयाद्वैविध्योपदेशः ६.८
मैत्रावरुणस्य ऐकाहिकाभिरेव परिधानीयाविधिः
अच्छावाकस्य सवनद्वये प्रकृतिविलक्षणपरिधानीयाद्वयविधिः
ब्राह्मणाच्छंसिनः अहीनगताभिरैकाहिकाभिश्चोभयीभिरेव परिधानीयाभिः परिधानविधिः
तृतीयसवनगतानां त्रयाणामेव होत्रकाणां परिधानीयानां प्रशंसा
प्रातस्सवनगतानां याज्यादीनां मध्ये अनवानविधिः
स्तोमवृद्धौ नियमविशेषस्य विधानम्
प्रातस्सवने अतिशंसननिषेधः
माध्यन्दिनसवनतृतीयसवनयोरतिशंसनविधिः
यत्रातिशसनं कर्त्तव्यं भवति, तत्र तदर्थं यासामृचामानयनं कर्त्तव्यम्, तासामृचां देवविशेषोपदेशः
होत्रकाणां विहितानां परिधानीयानां स्तुति

षष्ठपञ्चिकायाः तृतीयोऽध्यायः
प्रातस्सवने उन्नीयमानसूक्तस्य विधानम् ६.९
उन्नीयमानसूक्तगतानामृचां देवताद्वारा प्रशंसा
छन्दोद्वारा प्रशंसा
ऋक्सङ्ख्याद्वारा प्रशंसा
माध्यन्दिनसवने उन्नीयमानसूक्तगतानां दशानामृचां विधिः
तृतीयसवने उन्नीयमानसूक्तगतानां नवानामृचां विधिः
सम्पूर्णसूक्तानुवचनं कर्त्तव्यमिति प्रथममतस्य प्रशंसा
प्रतिसूक्तं सप्तानामेवर्चामनुवचनीयत्वमिति द्वितीयमतस्य प्रशंसा
प्रथमसूक्तगतानां नवानां, द्वितीयसूक्तगतानां दशानां, तृतीयसूक्तगतानां नवानामेवानुवचनीयत्वमिति तृतीयमतस्य प्रशंसाधिक्यम्
प्रस्थितयाज्यानामैन्द्रत्वं कथमिति विचारारम्भः ६.१०
याज्याया ऐन्द्रत्वसम्पादनप्रकारोपदेशः मैत्रावरुणस्य
पोतुः
नेष्टुः
आग्नीध्रस्य
अच्छावाकस्य
माध्यन्दिन सवने उन्नीयमानसूक्तस्य विधानम् ६.११
देवताद्वारा छन्दोद्वारा च तत्सूक्तीयानामृचां प्रशंसा
होत्रादीनां सप्तानामेवर्त्विजां प्रस्थितयाज्याविधिः
याज्याया उपदेशः-- होतुः, मैत्रावरुणस्य, ब्राह्मणाच्छंसिनः
पोतुः, नेष्टुः, अच्छावाकस्य, आग्नीध्रस्य
तृतीयसवने उन्नीयमानसूक्तस्य विधानम् ६.१२
पवमानस्तोत्रे देवताविषयको विचारः
छन्दोविषयको विचारः
प्रस्थितयाज्याविषयको विचारः
याज्याया ऐन्द्रार्भवत्वप्रदर्शनम्-होतुः मैत्रावरुणस्य, ब्राह्मणाच्छंसिनः
पोतुः नेष्टुः, अच्छावाकस्य, आग्नीध्रस्य
याज्यास्ववस्थितस्य छन्दसः प्रशंसा
होत्रकाणां परस्परं साम्यं वैषम्यं च विवेक्तुं विचारः ६.१३
मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां शंसनविचारः
होतृहोत्रकयोः द्व्युक्थत्वेन साम्यं कथमिति विचारः
पोतृनेष्ट्र्याग्नीध्रीयाणामपि होत्रा उक्थिन्यः कथमिति विचारः ६.१४
द्विप्रैषः पोता, द्विप्रैषो नेष्टा, अन्ये एकप्रैषा इत्यत्र विचारः


साम्प्रदायविद्भिः पठितं प्रैषसूत्रम्
अहोतॄणामपि मैत्रावरुणादीनां कथं होतृत्वव्यपदेश इति विचारः
उदगातृविषये कश्चिद् विशेष विचारः
अच्छावाकविषयेऽपि कश्चिद् विशेष विचारः
उक्थसंस्थेष्वहस्सु मैत्रावरुणशस्त्रविषयको विचारः
ब्राह्मणाच्छंस्यच्छावाकशस्त्रविषयको विचारः
तृतीयसवनगतानां मैत्रावरुणादिशस्त्राणां छन्दोदैवतविचारः ६.१५
आरम्भणीयानां छन्दोदैवतविचारः
परिधानीयानां छन्दोदैवतविचाराः
होत्रच्छावाकयोरुक्थेऽभ्यासविधानम्
षोडशिसंस्थायां चतुरक्षराभ्यासविधिः
अच्छावाकः तृतीयसवने शिल्पेषु अनाराशंसी ऋचः कथं शंसति ६.१६
दृढतायै शंसति
प्रसङ्गतो गर्भोपनिषद्वचनोदाहरणम्

षष्ठपञ्चिकायाः चतुर्थोऽध्यायः
अथाहर्गणेषु होत्रकाणां माध्यन्दिनीयशस्त्रक्लृप्तिविचारः ६.१७
माध्यन्दिनीयशस्त्रक्लृप्तिविधानम्
आख्यायिका -- सम्पात्सूक्तानामुत्पत्तिकथाप्रकाशार्था ६.१८
विश्वामित्रदृष्टानां सम्पातसूक्तानां वामदेवकर्तृकापहरणम्
सम्पातसूक्तानां वामदेव्यत्ववैश्वामित्रत्ववर्णनादिकम्
भारद्वाजवासिष्ठनौधससूक्तानां वर्णनम्
अहर्गणेषु प्रातस्सवने अहीनसूक्तानां विधिः
तेषामेवाहीनसूक्तानां स्वरूपोपदेशः
गवामयने हि द्विविधान्यहानि,-- चतुर्विंशादीन्यावृत्तिरहितानि, षडहगतान्यावृत्तिसहितानि चेति, तत्रोभयत्रैव वह्निवत् सूक्तं कः कथं शंसतीति विचारः
आवृत्तिरहितेष्वहस्सु विहितसूक्तानां शंसनप्रशंसा
मैत्रावरुणो यांस्त्रीन् सम्पात्सूक्तान् विपर्यस्य शंसेत्, तत्प्रदर्शनम् ६.१९
ब्राह्मणाच्छंसी यांस्त्रीन् सम्पातसूक्तान् विपर्यस्य शंसेत्, तत्प्रदर्शनम्
अच्छावाकः यांस्त्रीन् सम्पातसूक्तान् विपर्यस्य शंसेत्, तत्प्रदर्शंनम्
प्रतिदिनं पुरस्ताच्छंसनीयानां त्रयाणां सूक्तानां विधानम्
पृष्ठ्यषडहस्य उत्तरस्मिंस्त्र्यहे कासांञ्चिदृचामावापविधिः
कस्मिन् दिने का ऋच आवपनीया इति विचार्य तन्निर्णयः
स्तोमवृद्धावतिशंसनार्थानामावपनीयानां सूक्तानां प्रदर्शनम्
विश्वामित्रशब्दनिरुक्तिः ६.२०
सूक्तस्य पुरस्ताच्छंसनीयं सूक्तम्-मैत्रावरुणस्य
ब्राह्मणाच्छंसिनः
अच्छावाकस्य
अनिर्द्दिष्टदेवताकसूक्तादीनां प्राजापत्यत्वविधानम्
प्रतिदिनं शंसनीया ये कद्वन्तः प्रगाथास्तेषां विधिः ६.२१
कद्वत्प्रगाथेभ्य ऊर्ध्वं शंसनीयानां सूक्तप्रतिपदां शंसनविधिः
सूक्तप्रतिपद्भ्यः पूर्वं व्याहावनिषेधः
त्रिष्टुप्छन्दस्कानां सूक्तप्रतिपन्नामकानामृचां प्रशंसा ६.२२
 - स्वरूपाणि व्याख्यानानि च
परिधानीया ऋचः स्तोतुमुपक्रमः
दृष्टान्तद्वयपूर्वकं परिधानीयानां शंसनविधानम् ६.२३
अभितष्टीयसूक्तस्य परिधानीयाविधौ विशेषोपदेशः
परिधानीयामुपजीव्य क्रतोर्योगविमोकौ ब्राह्मणाच्छंसिनः
अच्छावाकस्य
मैत्रावरुणस्य
यथोक्तयोगविमोकज्ञानस्य प्रशंसा
अहस्समूहमपेक्ष्य योगविमोकयोरुपदेशः
योगविमोकहेतूनां परिधानीयानाम् एकैकविधत्वस्य निन्दा
योगविमोकहेतूनां परिधानीयानाम् उभयविधत्वस्य प्रशंसा
स्तोमातिशंसने विशेषोपदेशः
बहुभिः स्तोमातिशंसने दोषदृष्टान्तः
तृतीयसवने अपरिमितशंसनविधिः
वेदनपूर्वकस्यानुष्ठानस्य प्रशंसा
पृष्ठ्यस्य षडहस्य षष्ठेऽहनि धिष्ण्याख्यशस्त्रक्लृप्ति सूक्तस्य विधिः ६.२४
नभाकदृष्टानां तृचानां विधानम्
वालखिल्यसूक्तानामृक्षु शिल्पस्वरूपप्रदर्शनम्
प्रगाथान्तेषु प्रक्षेपणीयानामेकपदानामुपदेशः
पच्छो विहरणे प्रक्षेपणीयानां पादानामुपदेशः
अर्द्धर्च्चशो विहरणे प्रक्षेपणीयोपदेशः
ऋक्शो विहरणे प्रक्षेपणीयोपदेशः
पच्छः, अर्द्धर्च्चशः, ऋक्श इति विहरणत्रैविध्यस्य प्रशंसा
विहरणमन्तरेण यथाध्ययनशंसनस्य विधानम्
वालखिल्यानां षट्सूक्तेषु विहारो विहितः, अवशिष्टयोः सप्तमाष्टमयोः सूक्तयोः विपर्यासेन शंसनस्य विधानम्
निरूपितस्य शिल्पनामकशस्त्रस्य प्रशंसा
सप्तभिः प्रकारैः पाठरूपस्य दूरोहणशंसनस्वरूपस्योपदेशः ६.२५
प्रसङ्गतो महासूक्तक्षुद्रसूक्तयोर्लक्षणोपन्यासः
दूरोहणशंसनविधिः ऐन्द्रे सूक्ते, बरौ सूक्ते
ऐन्द्रावरुणे सूक्ते, सौपर्णे सूक्ते
सौपर्णे सूक्ते दूरोहणे शस्ते ऐकाहिकानां संशंसने विचारः ६.२६
वालखिल्यानां शंसने मैत्रावरुणस्य दर्पश्चेत् तत्र कर्त्तव्यम्
वालखिल्यानां शंसने यथा विहरणं, तथैव स्तोत्रेऽपि किमिति विचारः
शस्त्रमुपजीव्य याज्यायां कश्चिदुपदेशः

षष्ठपञ्चिकायाः पञ्चमोऽध्यायः
पृष्ठ्यषडहस्य षष्ठेऽहनि शिल्पनामकशस्त्राणां शंसनविधानम् ६.२७
देवशिल्पानां हस्तिकंसादीनामुदाहरणत्वेनोपन्यासः
होतुः नाभानेदिष्ठनामसूक्तरूपस्य शिल्पस्य शंसनविधिः
तस्यैव नाराशंसाख्यसूक्तरूपस्य शिल्पस्य शंसनविधिः
मैत्रावरुणस्य वालखिल्याख्यसूक्तरूपस्य शिल्पस्य शंसनविधिः ६.२८
हौण्डिनविहारयोः महावालभिन्नामकविहारस्य चोपदेशः
ब्राह्मणाच्छंसिनः सुकीर्तिसूक्तरूपस्य शिल्पस्य शंसनविधिः ६.२९
वृषाकपिसूक्तरूपस्य शिल्पस्य शंसनविधिः
वृषाकपिसूक्तमध्ये न्यूङ्खविधिः, तत्प्रकारोपदेशश्च
अच्छावाकस्य एवयामरुत्सूक्तरूपस्य शिल्पस्य शंसनविधिः ६.३०
एवयामरुत्सूक्तमध्ये न्यूङ्खविधिस्तत्प्रकारोपदेशश्च
होत्रादिभिः प्रयोज्यानां शिल्पानामेकस्मिन्नहनि प्रयोगसाहित्यविधिः
आख्यायिका -- शिल्पशंसनविषये बुलिलगौश्लयोरुपाख्यानार्था
संवत्सरसत्रेऽग्निष्टोमसंस्थे विश्वजिदाख्येऽहनि विहितेषु शिल्पशस्त्रेषु किञ्चिच्चोद्यम् ६.३१
आख्यायिका-ब्राह्मणाच्छंसिनः शिल्पे शस्त्रे सुकीर्त्तिवृषाकपिसूक्तयोः शंसनानन्तरं कुन्तापाख्यस्य त्रिंशदृक्सूक्तस्य शंसनार्था ६.३२
कुन्तापसूक्तगतानां नाराशंसीनां तिसृणामृचां विधानम्
 - तत्र पादे पादे अवसानविधानम्
 - तत्र निनर्द्दविधिश्च
 - न्यूङ्खनिनर्द्दयोः स्वरूपोपदेशः
रैभीणां तिसृणामृचां शंसनविधिः
पारिक्षितीनां चतसृणामृचां शंसनविधिः
कारव्याणां चतसृणामृचां शंसनविधिः
दिशाङ्क्लृप्तीनां पञ्चानामृचां शंसनविधिः
जनकल्पानां षण्णामृचां शंसनविधिः
इन्द्रगाथानां पञ्चानामृचां शंसनविधिः
आख्यायिका-ऐतशप्रलापस्तुत्यर्था ६.३३
ऐतशप्रलापस्य बाहुल्येऽपि यावत्कामशंसनस्य विधिः
ऐतशप्रलापशंसने पदे पदेऽवग्रहस्य, अन्ते प्रणवस्य च विधिः
प्रवह्लिकाख्यानां षण्णामृचां विधानम्
प्रवह्लिकाख्यासु ऋक्षु अर्द्धर्च्चेऽवसानविधिः
आकिज्ञासेनीनां चतसृणामृचां विधानम्
प्रतिराधाख्यस्य मन्त्रस्य शंसनविधिः
अतिवादाख्यस्य मन्त्रस्य शंसनविधिः
देवनीथाख्यानां सप्तदशानां पदानां शंसनविधिः ६.३४
अख्यायिका -- देवनीथाख्यप्रपदसमूह प्रशंसार्था
अङ्गिरसामग्नेश्चमिथः संवादः
अङ्गीरसामनमीष्टस्यापि स्वकीयार्त्विज्यस्याङ्गीकारे युक्तिप्रदर्शनम्
आर्त्विज्यपरिहारयोग्यस्य विषयस्योपदेशः
आख्यायिका-अङ्गिरसां भूमिरूपदक्षिणात्यागकथार्था ६.३५
त्यक्तदक्षिणायाः पुनः प्रतिग्रहनिषेधः
 - पुनः प्रतिग्रहे कृते कर्त्तव्योपदेशः
अङ्गिरसां दक्षिणाप्रतिग्रहत्यागस्य फलकथनम्
देवनीथगतानां सप्तदशपदानां स्वरूपाणि तात्पर्यं व्याख्यानानि च
--- - शंसनप्रकारोपदेशः
भूतेच्छन्नामकानां तिसृणामृचां शंसनविधिः ६.३६
आहनस्यामिधानां दशानामृचां शंसनविधिः
दाधिक्रीनामर्च्चः शंसनविधिः
पावमानीनां तिसृणामृचां शंसनविधिः
बार्हस्पत्यस्य तृचस्य शंसनविधिः
प्राकृतेन शस्त्रेण वैकृतानां शस्त्राणां संशंसनविचारः

सप्तमपञ्चिकायाः प्रथमोऽध्यायः
अथ सवनीयपशोर्विभागः ७.१
सवनीयपशुविभागानां सङ्ख्यानिर्णयः
 - सङ्ख्यासाम्याद् बृहतीत्वम्
सवनीयपशुविमागानां अन्यथाकरणे दोषः
 - तद्द्रष्टृमहर्षिद्वारा प्रशंसा
-- उपदेशकसम्प्रदायनिर्देशः

सप्तमपञ्चिकायाः द्वितीयोऽध्यायः
यद्याहिताग्निरुपवसथदिने म्रियेत, कथं यज्ञ इति? ७.२
प्रायश्चित्तम् - यद्याहिताग्निः अधिश्रितेऽग्निहोत्रे सान्नाय्ये वा म्रियेत
आसन्नेषु हविष्षु म्रियेत
प्रवासे म्रियेत
आहिताग्नौ मृते तच्छरीरप्राप्त्यभावे पर्णशर-दाहस्य कर्तव्यत्वम्
प्रायश्चित्तम-उपावसृष्टाया दुह्यमानाया अग्निहोत्र्याः उपवेशने ७.३
हम्बारवे कृते, स्पन्दने
सायं दुग्धे सान्नाय्ये दुष्टे अपहृते वा ७.४
सर्वस्मिन्नेव सान्नाय्ये दुष्टे अपहृते वा
सर्वेष्वेव हविष्षु दुष्टेष्वपहृतेषु वा
अधिश्रितमग्निहोत्रं यद्यमेध्यमापद्येत ७.५
अधिश्रितस्याग्निहोत्रस्य स्कन्दने विष्यन्दने वा
प्रायश्चितम्-अधिश्रितस्याग्निहोत्रस्य स्खलने भ्रंशने वा
स्रुग्भेदे
सत्याहवनीयाग्नौ गार्हपत्याग्नावुपशान्ते
गार्हपत्याहवनीययोरग्न्योः अनुचितदर्शनादौ ७.६
गार्हपत्याहवनीययोरग्न्योः मिथः संसर्गे
सर्वेषामेवाग्नीनां मिथः संसर्गे
लौकिकाद्यन्याग्निना ससर्गे
ग्राम्येणाग्निना दाहे ७.७
दिव्येनाग्निना संसर्गे
शवाग्निना संसर्गे
आरण्येनाग्निना दाहे
उपवसथदिने प्राहिताग्ने अश्रुपाते ७.८
अव्रत्यमापन्ने
आमावास्येष्टेः पौर्णमासेष्टेर्वातिक्रमे
सर्वेष्वेवाग्निषु उपशान्तेषु
आग्रयणेष्टिमकृत्वैव नवान्नप्राशने प्रायश्चित्तम् ७.९
पुरोडाशनिष्पादके कपाले नष्टे
पवित्रे नष्टे
हिरण्ये नष्टे
प्रातःस्नानमकृत्वैवावाग्निहोत्रे हुते
सूतकान्नप्राशने
स्वमरणप्रवादे श्रुते
भार्याया गोर्वा यमापत्यजनने
अथापत्नीकस्याग्निहोत्रकर्त्तव्यताविचारः
ब्राह्मणस्य ऋणत्रययुक्तत्वे श्रुतिप्रमाणप्रदर्शनम्
अथापत्नीकस्य वाचिकं मानसं चाग्निहोत्रम्, तत्र वाचिके विचारः ७.१०
तथा तत्र मानसे विचारः
अथ दर्शपूर्णमासयोरुपवासविधिः ७.११
उपवासतिथिविषये शाखाभेदवचनमाश्रित्य विकल्पः
कर्मोपयोगिन्योर्दर्शपौर्णमास्योस्तिथ्योः स्वरूप निर्णयः
प्रायश्चित्तम् आहिताग्नेः आदित्योदयेऽप्यग्नावनुद्धते ७.१२
गार्हपत्याहवनीययोर्मध्ये शकटादिगमने
इष्टेरादावन्वाधानकाले दक्षिणाग्नेरभिज्वलनं कुर्यान्न वेति विचारः
होष्यतः पुरुषस्य गार्हपत्याहवनीयमध्यगतेन मार्गेण सञ्चरणविधिः
आहिताग्नेः प्रवासकाले अग्न्युपस्थानविषयको विचारः

सप्तमपञ्चिकायाः तृतीयोऽध्यायः
अथ शौनःशेपाख्यानम्- ७.१३
पर्वतस्यर्षेः गाथया पुत्रेण जातेन किं फलम्? इति प्रश्नः
नारदस्यर्षे प्रथमगाथया ऋणापनोदनं पुत्रजन्मफलमित्युत्तरम्
२-पुत्रस्य सर्वभोगश्रेष्ठत्वाख्यानम्
३-पुन्नामनरकत्राणहेतुत्वाख्यानम्
४-गृहस्थाश्रमस्य श्रेष्ठत्वे बीजत्वाख्यानम्
५-ज्योतिः स्वरूपत्वेन ब्रह्मप्रापकत्वाख्यानम्
६-आत्मनो नवीभूतत्वे हेतुत्वाख्यानम्
७-जायाग्रहणसार्थकत्वे निदानाख्यानम्
८--जायाया जननीत्वे हेतुत्वाख्यानम्
९-परलोकसुखहेतुत्वाख्यानम्
१०-प्राकृतनियमानुसारित्वाख्यानम्
हरिश्चन्द्रस्य पुत्रार्थं वरुणदेवताराधनाख्यानम् ७.१४
 - रोहितनामपुत्रोत्पत्याख्यानम्
 - वरुणेन सहोक्तिप्रत्युक्तयः
 - पुत्रस्य रोहितस्य वारुणयज्ञे मेधमयादरण्ये पलायनम्
रोहितस्य संवत्सरान्ते वरुणकोपादुदररोगपीडितत्वाख्यानम् ७.१५
स्वपुरं प्रत्यागच्छतः परमेश्वरः सर्वत्रैकसहाय इति इन्द्रोपदेशः
पुनः प्रत्यागच्छतः परिश्रमः पुण्यहेतुरिति द्वितीयोपदेशः
देशभ्रमणं समृद्धिहेतुरिति तृतीयोपदेशः
आलस्यादयः कलियुगादितुल्या इति चतुर्थोपदेशः
आरण्यादिभ्रमणाद् दुष्प्राप्यलाभ इति पञ्चमोपदेशः
पञ्चवर्षारण्यभ्रमणादारोग्यप्राप्तिः
षष्ठे वर्षे दरिद्रेणाजीगर्तेन सह संवादः
शुनःशेपनामाजीगर्त्तमध्यमपुत्रक्रयः
स्वपुर्यागमनम्, पित्रे शुनःशेपदानं, तन्मेधे वरुणसम्मतिश्च
हरिश्चन्द्रस्य राजसूये विश्वामित्रादीनाम् आर्त्विज्यं स्वीकारः
शुनःशेपपितुरजीगर्त्तस्यैव पशुनियोक्तृत्वस्वीकारः ७.१६
तस्य विशसितृत्वस्वीकारः
पशुरूपस्य शुनःशेपस्य मुक्तिकामनया प्रजापत्युपासनम्
अग्न्युपासनम्, सवित्र्युपासनम्
वरुणोपासनम्, पुनरग्न्युपासनम्
वैश्वदेवोपासनम्, इन्द्रोपासनम्
अश्विनोरुपासनम् तथा उषसउपासनम्
ततो बन्धनमोचनम्
मुक्तबन्धनस्य शुनःशेपस्याञ्जस्सवयागारम्भकत्वम् (अञ्जस्सवो नाम पशुसाङ्कर्यहीनः सोमप्रयोगविशेषः ) ७.१७
विश्वामित्राजीगर्त्तयोः संवादः
शुनःशेपाजीगर्त्तयोः संवादः
अजीगर्त्तशुनःशेपयोरुक्तिप्रत्युक्ती
विश्वामित्रस्य स्वपुत्रत्वेन शुनःशेपग्रहणम्
शुनःशेपविश्वामित्रयोरुक्तिप्रत्युक्ती
विश्वामित्रस्य पुत्राणां ज्येष्ठ इति शुनःशेपस्वीकारः
ज्येष्ठपञ्चाशत् पुत्राणां तत्र असम्मतिः ७.१८
तान् ज्येष्ठपञ्चाशत् पुत्रान् प्रति अभिसम्पातः
मधुच्छन्द-आद्येकपञ्चाशतां पितृवाक्यानुगामित्वं
विश्वामित्रस्य पञ्चभिर्गाथाभिः तान् प्रत्याशीर्वादः
शौनःशेपाख्यानस्य परऋक्शतगाथत्वम्
तस्यैतस्य शौनःशेपाख्यानस्य राजसूयक्रतौ विनियोगविधिः
तत्र अध्वर्युणा प्रयोक्तव्यस्य प्रतिगरविशेषस्य विधानम्
शौनःशेपाख्यानस्य पापप्रशमनहेतुत्वं पुत्रलाभहेतुत्वं च
आख्यातुर्होतुः, प्रतिगरितुरध्वर्योश्च दक्षिणाविधिः

सप्तमपञ्चिकायाः चतुर्थोऽध्यायः
 आख्यायिका-राजक्रतौ विशेषविधानार्था ७.१९
प्रजापतिसृष्टस्य यस्य विवरणाख्यानम्
दशयज्ञायुधानां नामनि
यज्ञमनुगच्छन्त्योर्ब्राह्मणक्षत्रियजात्योर्ब्राह्मणजातेर्यज्ञप्राप्तिकथा
 - क्षत्रियजाश्च यज्ञप्राप्तिकथा
क्षत्रियस्य देवयजनयाञ्चाविचारः, देवयजनयाञ्चाप्रशंसा च ७.२०
दीक्षणीयेष्टेः पूर्वमिष्टापूर्त्तापरिज्यानिसंज्ञकहोमविधिः ७.२१
तत्र इष्टापूर्त्तयोः पूर्वाचार्यकृते लक्षणे
क्षत्रियस्य इष्टापूर्त्तापरिज्यानिनामहोममन्त्रः
अनुबन्धाख्यपशोरुत्तरकालीनस्य समिष्टयजुर्होमस्य विधिः
इष्टापूर्त्तापरिज्यानिहोमस्य समिष्टयजुर्होमस्य च प्रशंसा
तयोरेव होमयोः प्रकारान्तरेण विधानम् ७.२२
दीक्षणीयेष्टेः प्राक् प्रयोज्यो मन्त्रः, तत्तात्पर्याख्यानं च
पश्चात् प्रयोज्यो मन्त्रः, तत्तात्पर्याख्यानञ्च
क्षत्रियस्याहवनीयोपस्थानस्य विधानम्, मन्त्रः, प्रशंसा च ७.२३
उत्तरहोमादूर्ध्वमुपस्थानस्यापि - - - ७.२४
क्षत्रियस्य दीक्षितत्वावेदनमन्त्रे विचारः ७.२५
क्षत्रियस्य यजमानभागप्राशने विचारः ७.२६
सप्तमपञ्चिकायाः पञ्चमोऽध्यायः
आख्यायिका-अथ विश्वन्तरोपाख्यानम् ७.२७
क्षत्रियस्य सोमभक्षराहित्यप्रदर्शनार्थमुपाख्यानम्
सौषद्मनो विश्वन्तरस्य राज्ञो विश्यापर्णयज्ञकथा ७.२८
तत्र पारिक्षितस्य जनमेजयस्य राज्ञो विकश्यपयज्ञकथा
ततो मार्गवेयरामोपाख्यानम्
अनूचानस्य मार्गवेयस्य रामस्य विश्वन्तरं राजानं
प्रत्युपदेशः ततो रामविश्वन्तरयोरुक्तिप्रत्युक्तयः
क्षत्रियस्य त्रिविधहेयभक्ष्याणामुपदेशः ७.२९
 - उपादेयभक्ष्यस्यैकविधस्योपदेशः ७.३०
न्यग्रोधशब्दनिरुक्तिर्न्यग्रोधतरोरुत्पत्तिनिरूपणं च
औदुम्बरफलानामश्वत्थफलानां प्लक्षफलानां च प्रशंसा ७.३१
न्यग्रोधवृक्षस्यावरोधानां फलानां च उत्पत्तिनिरूपणम्


क्षत्रियभक्षत्वेन प्रशंसा

न्यग्रोधक्षत्रिययोः साम्यमापाद्य प्रशंसा
औदुम्बरादि प्रशंसा ७.३२
भक्षप्रयोगः तत्र सोमक्रयात् पूर्वं सम्पाद्यानां वस्तूनां नामानि
फलचमसस्योन्नयनादिप्रयोगप्रदर्शनम् ७.३३
फलचमसभक्षणस्य विधानम्, मन्त्रः, प्रशंसा च
तस्य भक्षणादूर्ध्वं मन्त्रेण आत्मस्पर्शविधिः
अन्वयव्यतिरेकाभ्यामभिमर्शप्रशंसा
द्वाभ्यामृगभ्यां तस्य चमसस्य पूरणविधिः
भक्षिताप्यायितस्य नाराशंसचमसस्य प्रयोगविधिः ७.३४
सवनत्रये त्रिविधस्य मन्त्रतात्पयंस्योपदेशः
नाराशंसचमसभक्षणस्य प्रशंसा
प्रातस्सवने उक्तानां विधीनामुत्तरयोस्सवनयोरतिदेशः
विश्वन्तरश्यापर्णयोः पुनः संवादः
सम्प्रदायकथनेन भक्षस्य प्रशंसा
पुनरपि फलकथनेन नाराशंसभक्षस्य प्रशंसा

अष्टमपञ्चिकायाः प्रथमोऽध्यायः
अथ राजसूये स्तोत्रशस्त्रयोर्विशेषाविशेषयोर्विधानम् ८.१
प्रातस्सवने तृतीयसवने च ऐकाहिकवत् स्तोत्रशस्त्रप्रयोगः
माध्यन्दिनसवने मरुत्वतीयशस्त्रस्य होत्रकशस्त्राणाञ्चैकाहिकत्वम्
अभिजिदहोविहितोभयसामा माध्यन्दिनः पवमानः
मरुत्वतीयशस्त्रस्य प्रतिपदनुचरयोरनुवादः
ब्रह्मान्नपृथिवीरूपत्वेन रथन्तरस्य प्रशंसा
डन्द्रनिहवब्राह्मणस्पत्ययोः प्रगाथयोः ऐकाहिकतुल्यत्वेन प्रशंसा
धाय्यानामृचां प्रकृतौ विकृतौ च तुल्यत्वविधिः
मरुत्वतीयप्रगाथस्य प्रकृतिविकृत्योरेकत्वविधानम्
मरुत्वतीये सूक्ते निविद्धानीयस्य सूक्तस्य प्रशंसा ८.२
निष्केवल्यशस्त्रस्य प्रतिपत्तृचस्य विधानम्
-- अनुरूपतृचस्य विधानम्
--- धाय्यायाः पूर्वोक्तप्रशंसाब्राह्मणस्मारणम्
-- उभयसामप्रगाथप्रदर्शनम्
  -- निविद्धानीयसूक्तप्रशंसा ८.३
बृहद्रथन्तरसामोपेतप्राकृतयज्ञक्रतुसमृद्धिमुपजीव्यैकसामकेऽपि क्षत्रिययज्ञे पृष्ठस्तोत्रस्य बृहत्सामसाध्यत्वविधिः
माध्यन्दिनसवने होत्रकाणां प्रकृतिवत्त्वव्यवस्था ८.४
एकाहयज्ञानां द्वैविध्यप्रदर्शनम्
क्षत्रिययज्ञस्य ज्योतिष्टोमस्य उक्थ्यसंस्थत्वविधिः
उक्थ्यसंस्थस्य ज्यतिष्टोमस्य स्तोत्रशसङ्ख्याप्रशंसा
क्षत्रियाणामग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य विधानम्
अग्निष्टोमे ये त्रिवृदादयश्चत्वारः स्तोमास्तेषां ब्राह्मणादिवर्णचतुष्टयरूपेण तेजादिगुणचतुष्टयरूपेण च प्रशंसा
अग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य स्तोत्रशस्त्रसङ्ख्या प्रशंसा

अष्टमपञ्चिकायाः द्वितीयोऽध्यायः
अथ राजसूये क्रतौ पुनरभिषेकस्य विधिः ८.५
कालविधिः
साधनद्रव्याणां विधानम्
आसन्द्याः प्रतिष्ठापनविधिः
प्रतिष्ठिताया आसन्द्या उपरि चर्मास्तरण विधिः ८.६
अभिमन्त्रणविध्यादि
आरोहणविध्यादि
अभिषेककर्त्तुः शान्तिमन्त्रवाचनविध्यादि
अभिषेकप्रकारस्य विधानम् ८.७
तिसृणामृचामेकस्य यजुषो व्याहृतीनां च त्रयाणां विध्यादि अभिषेकाङ्गहोमस्य विधानम्
अभिषेकसाधनानां द्रव्याणां मध्ये आसन्द्यादित्रयस्य प्रशंसा ८.८
दध्यादित्रयस्य प्रशंसा
आतपवर्ष्याणामपां प्रशंसा
श्यामतृणानामङ्कुराणां च प्रशंसा
सुरायाः प्रशंसा
अभिषेकसाधनानां दूर्वाणां प्रशंसा
सर्वेषामेवैकत्र प्रशंसा
अभिषिक्तस्य क्षत्रियस्य पानपात्रविध्यादि
शान्तिमन्त्रवाचनविध्यादि
स्वमित्राय पीतशेषदानविधिः
आसन्द्याः अवरोहणविध्यादि ८.९
प्रत्यवरोहणविध्यादि
नमस्कारविध्यादि
वरदानप्रशंसादि
समिदाधानविध्यादि
दिगुपस्थानविध्यादि
आख्यायिका-ऐशान्या दिशो मुख्यापराजितत्वख्यापनार्था ८.१०
युद्धजयार्थं शरणमापन्नेन साहाय्यप्रार्थिना सह व्यवहारोपदेशः
युद्धजयार्थो मन्त्रप्रयोगविध्याद्युपदेशः
द्वन्द्वयुद्धजयार्थं प्रयोगविध्याद्युपदेशः
भ्रष्टराष्ट्रस्य पुनरपि राज्यप्राप्त्यर्थंप्रयोगविध्याद्युपदेशः
ईशानदिगुपस्थानानन्तरं स्वगृहं प्रत्यागमनस्य प्रयोगविध्याद्युपदेशः
गृहागतस्य राज्ञः प्रपदहोमविधिः
प्रपदलक्षणबोधिका पूर्वाचार्यकृता कारिका
प्रपदहोमीय-मन्त्रत्रयाणां स्वरूपाणि पाठप्रकारश्च ८.११
प्रपदाख्यमन्त्रत्रयसाध्याया आहुतेः प्रशंसा
प्रपदहोमादूर्द्ध्वमाशीर्मन्त्रपाठविधिः
पुनरभिषेकपर्यन्तेऽस्मिन् क्षत्रिययागे याजयितॄणामृत्विजां वेदनप्रशंसा
अभिषेकपरिज्ञानाभाववतामृत्विजां निन्दा
अभिषेकपर्यन्तस्य क्षत्रिययागस्योदाहरणमुखेन प्रशंसा
जनमेजयवाक्योदाहरणे दृढीकृतस्यार्थस्य निगमनम्

अष्टमपञ्चिकायाः तृतीयोऽध्यायः
अथ ऐन्द्रमहाभिषेकस्य विध्यारम्भः ८.१२
देवताविषये विचारः
वेदमय्या आसन्द्याः समाहरणवर्णनम्
आसन्दीसमारोहणमन्त्राः षट्
आख्यायिका-इन्द्रारोहणादूर्द्ध्वं देवानामभ्युत्क्रोशनाख्यानम्
अभ्युत्क्रोशनादूर्द्ध्वं प्रजापतिकृताभिमन्त्रणमन्त्रः ८.१३
अभिमन्त्रितस्येन्द्रस्य अभिषेकप्रकाराख्यानम्
इन्द्रस्य प्रजापतिकृताभिषेकादूर्द्ध्वं प्राच्यां दिशि वसुभिःकृतोऽभिषेकः ८.१४
दक्षिणस्यां दिशि रुद्रैः कृतोऽभिषेकः
प्रतीच्यां दिश्यादित्यैः कृतोऽभिषेकः
उदीच्यां दिशि विश्वैर्देवैः कृतोऽभिषेकः
कृत्स्नस्यैन्द्राभिषेकस्य निगमनम्

अष्टमपञ्चिकायाः चतुर्थोऽध्यायः
अथ पुमर्थाभिषेकविधिः ८.१५
क्षत्रियस्य शपथकरणप्रकारादिकम्
पुमर्थाभिषेकस्य सम्भाराणां विधानम् ८.१६
तत्र न्यग्रोधादेर्वृक्षचतुष्टयस्य प्रशंसा
सम्भाररूपाणामोषधिद्रव्याणां विधिप्रशंसे
आसन्द्यादिसम्भाराणां विधिः, आसन्दीपरिचयश्च ८.१७
आसन्द्यभिमन्त्रणमन्त्रादिकम्
आसन्द्यारोहणमन्त्रादिकम्
आसन्द्यारूढस्य क्षत्रियस्याभ्युत्क्रोशनम्
आचार्यस्य क्षत्रियाभिमन्त्रणविधिमन्त्रौ ८.१८
अभिमन्त्रितस्य क्षत्रियस्याभिषेकप्रकारः
अभिषिक्तस्य क्षत्रियस्याभिमन्त्रणविधिः ८.१९
अभिषेकसाधनानां दध्यादिद्रव्याणां प्रशंसा ८.२०
आचार्याय दक्षिणादानविधिः
प्राप्तदक्षिणस्याचार्य्यस्य क्षत्रियहस्ते सुरापूर्णपात्रदानविधिः
प्राप्तसुरापात्रस्य क्षत्रियस्य मन्त्रद्वयेन तत्पानविधिः
पीतसुरासोमस्य क्षत्रियस्य द्वाभ्यां मन्त्राभ्यामभिमन्त्रणविधि।
एतद्विधायाः सुरायाः सुरात्वाभावः तत् प्रशंसा च
चिरन्तनशिष्टाचारोदाहरणेनैतस्य महाभिषेकस्य प्रशंसा ८.२१
तत्र पारिक्षितस्य जनमेजयस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
मानवस्य शार्यातस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
सात्राजितस्य शतानीकस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
आम्बाष्ठ्यस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
औग्रसैन्यस्य युधाश्रौष्टेः, भौवनस्य विश्वकर्मणः, (अत्रास्ति गाथा) ..
पैजवनस्य सुदासः, आविक्षितस्य मरुत्तस्य, राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
वैरोचनस्य अङ्गस्य, (सन्त्यत्र पञ्चश्लोकाः) राज्ञो महाभिषेककथा (अत्रास्ति गाथा) ८.२२
दौष्षन्तेर्भरतस्य (पञ्चश्लोकाः चात्र सन्ति) राज्ञो महाभिषेककथा (अत्रास्ति गाथा) ८.२३
सम्प्रदायकथनमुखेन महाभिषेकस्य प्रशंसा
ब्राह्मणस्योक्ताधिकाराभावेऽपि तद्विद्याविकारसद्भावात् तत्फलसिद्धेरुदाहरणानि
यथाभिषेके शपथेन गुरुद्रोहवारणं तथा विद्यायामपि

अष्टमपञ्चिकायाः पञ्चमोऽध्यायः
ब्राह्मणस्य पौरोहित्यविषये उपदेशः ८.२४
राज्ञो ब्राह्मणपुरोहितकरणविधिः
पुरोहित-पुत्र-जायानामाहवनीयगार्हपत्यान्वाहार्यपचनतुल्यत्वम्
पुरोहितस्य पञ्चविधमेन्युपेतवैश्वानराग्निसमानत्वेन प्रशंसा
विहितोपचारेण प्रीतस्य समुद्रदृष्टान्तेन प्रशंसा ८.२५
अनिष्टपरिहारशक्तिमत्त्वेन प्रशंसा
इष्टप्राप्त्युपायमूलत्वेन प्रशंसा
पुरोहितयुक्ते राज्ञि प्रजानुरागवृद्धिरिति प्रशंसा
पुरोहितमहिमानं दृढयितुं तृचप्रदर्शनं, तत्तात्पर्यव्याख्यानं च ८.२६
पौरोहित्यस्य योग्यायोग्यत्वविवेकः ८.२७
योग्यस्य पुरोहितस्य प्रशंसा
राज्ञो ब्राह्मणपुरोहितवरणमन्त्रः
राज्ञा कृतस्य पुरोहितस्य राजदत्तविष्टराभिमन्त्रणविधिमन्त्रौ
अभिमन्त्रिते विष्टरे पुरोहितस्योपवेशनविधिमन्त्रौ
पुरोहितस्य पाद्यार्थानीतानामपामभिमन्त्रणमन्त्रः
अभिमन्त्रिताभिरद्भिः पुरोहितस्य पादप्रक्षालनमन्त्रः
पुरोहितपादप्रक्षालनावशिष्टानामपामभिमन्त्रणमन्त्रः
अथ ब्रह्मणः परिमरस्य (शत्रुक्षयकारिप्रयोगविशेषस्य) विधिः ८.२८
ब्रह्मणः परिमरे वेद्यस्वरूपस्य उपदेशः
तत्र विद्युतो मृतिप्रतिपादनम्
वृष्टेः, चन्द्रमसः, आदित्यस्य तथा
अग्नेः मृतिप्रतिपादनम्
वायोः परितो म्रियमाणानां देवानां पुनर्वायोरेवाविर्भावः
तत्र अग्नेः उत्पत्तिप्रतिपादनम्
आदित्यस्य, चन्द्रमसः, वृष्टेः, तथा
विद्युतः उत्पत्तिप्रतिपादनम्
एतत्परिमरविद्यायाः आचार्यसम्प्रदायकथनम्
परिमरव्रतस्य उपदेशः फलश्रुतिश्च