सामग्री पर जाएँ

ऐतरेय आरण्यकम्/आरण्यक १/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ ऐतरेय आरण्यकम्
अध्यायः २
अध्यायः ३ →


आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ, इति । ऐकाहिकौ रूपसमृद्धौ बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । इन्द्र नेदीय एदिहि प्रसूतिरा शचीभिर्ये त उक्थिन इत्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । प्रैतु ब्रह्मणस्पतिरच्छा वीरमिति वीरवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । उत्तिष्ठ ब्रह्मणस्पते सुवीर्यमिति वीर्यवद्र्पसमृद्धमेतस्याह्नो रूपम्, इति । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यमित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याहो रूपम्, इति ।

अग्निर्नेता स वृत्रहेति वार्त्रघ्नमिन्द्ररूप मैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं वृषा वृषत्वेभिर्महित्वेति वृषण्वद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । पिन्वन्त्यपोऽत्यं न मिहे विनयन्ति वाजिनमिति वाजिमद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । अथो उत्सं दुहन्ति स्तनयन्तमक्षितमिति स्तनयद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । प्र व इन्द्राय बृहत इति यद्वै बृहत्तन्महन्महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । बृहदिन्द्राय गायतेति यद्वै बृहत्तन्महन्मह द्वद्रूपसमृद्धमेतस्याहो रूपम्, इति । नकिः सुदासो रथं पर्यास न रीरमदिति पर्यस्तवद्रान्तिमद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । सर्वान्प्रगाथाञ्च्छंसति सर्वेषामह्नामाप्त्यै सर्वेषामुक्थानां सर्वेषां पृष्ठानां सर्वेषां शस्त्राणां सर्वेषां प्रउगाणां सर्वेषां सवनानाम्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १.२.१ ।। ( ५)


असत्सु मे जरितः साभिवेगः सत्यध्वृतमिति शंसति सत्यं वा एतदहः सत्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु वासुक्रं ब्रह्म वै वसुक्रो ब्रह्मैतदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदाहुरथ कस्माद्वास्रुक्रेणैतन्मरुत्वतीयं प्रतिपद्यत इति न ह वा एतदन्यो वसुक्रान्मरुत्वतीयमुदयच्छन्न विव्याचेति तस्माद्वासुक्रेणैवैतन्मरुत्वतीयं प्रतिपद्यते, इति । तदनिरुक्तं प्राजापत्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै, इति । सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते, इति । पिबा सोममभि यमुग्र तर्द इति शंसति, इति। ऊर्वं गव्यं महि गृणान इन्द्रेति महद्वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु भारद्वाजं भरद्वाजो ह वा ऋषीणामनूचानतमो दीर्घजीवितमस्तपस्वितम आस स एतेन सूक्तेन पाप्मानमपाहत तद्यद्भारद्वाजं शंसति पाप्मनोऽपहत्या अनूचानो दीर्घजीवी तपस्व्यसानीति तस्माद्भारद्वाजं शंसति, इति । कया शुभा सवयसः सनीळा इति शंसति, इति । आशासते प्रतिहर्यन्त्युक्थेत्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव, इति । तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कुर्यादेवास्य कयाशुभीयम्, इति । मरुत्वाँ इन्द्र वृषभो रणायेति शंसति, इति । इन्द्र वृषभ इति वृषण्वद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति । तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस, इति । विश्वं हास्मै मित्रं भवति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । जनिष्ठा उग्रः सहसे तुरायेति निविद्धानमैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । ताः पराग्वचनेन सप्तनवतिर्भवन्ति सा या नवतिस्तिस्रस्तास्त्रिंशिन्यो विराजोऽथ याः सप्तातियन्ति यैवैषा प्रशंसा साप्त्यस्य तस्या एव, इति । तास्त्रिः प्रथमया त्रिरुत्तमयैकशतं भवन्ति, इति । पञ्चाङ्गुलयश्चतुष्पर्वा द्वे कक्षसी दोश्चाक्षश्चांसफलकं च सा पञ्चविंशतिः पञ्चविंशानीतराणि ह्यङ्गानि तच्छतमात्मैकशततमः, इति । यच्छतं तदायुरिन्द्रियं वीर्यं तेजो यजमान एकशततम आयुषीन्द्रिये वीर्ये तेजसि प्रतिष्ठितः, इति । तास्त्रिष्टुभमभि संपद्यन्ते त्रैष्टुभो हि मध्यंदिनः, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। १.२.२ ।। ( ६)


तदाहुः किं प्रेङ्खस्य प्रेङ्खत्वमित्ययं वै प्रेङ्खो योऽयं पवत एष ह्येषु लोकेषु प्रेङ्खत इति तत्प्रेङ्खस्य प्रेङ्खत्वम्, इति । एकं फलकं स्यादित्याहुरेकधा ह्येवायं वायुः पवतेऽस्य रूपेणेति, इति । तत्तन्नाऽऽदृत्यम्, इति । त्रीणि फलकानि स्युरित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषां रूपेणेति, इति । तत्तन्नाऽऽदृत्यम्, इति । द्वे एव स्यातां द्वौ वा इमौ लोकावद्धातमाविव दृश्येते य उ एने अन्तरेणाऽऽकाशः सोऽन्तरिक्षलोकस्तस्माद्द्वे एव स्याताम्, इति । औदुम्बरे स्यातामूर्ग्वा अन्नाद्यमुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै, इति । मध्यत उद्धृते स्यातां मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति, इति । उभय्यो रज्जवो भवन्ति दक्षिणाश्च सव्याश्च दक्षिणा वा एकेषां पशूनां रज्जवः सव्या एकेषां तद्यदुभय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै, इति । दार्भ्यः स्युर्दर्भोवा ओषधीनामपहतपाप्मा तस्माद्दार्भ्यः स्युः, इति ।।इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। १.२.३ ।। ( ७)


अरत्निमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति । प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति । मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति । पुरस्तात्प्रत्यञ्च प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति । तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति तेनो सर्वान्कामानवाप्नवामेति तत्तन्नाऽऽदृत्यम्, इति। अन्वञ्चमधिरोहेदित्याहुरनूची वै नावमधिरोहन्ति नौर्वैषा स्वर्गयाणी यत्प्रेङ्ख इति तस्मादन्वञ्चमेवाधिरोहेत्, इति । छुबुकेनोपस्पृशेच्छुको हैवं वृक्षमधिरोहति स उ वयसामन्नादतम इति तस्माच्छुबुकेनोपस्पृशेत्, इति । बाहुभ्यामधिरोहेदेव श्येनो वयांस्यभिनिविशत एवं वृक्षं स उ वयसां वीर्यवत्तम इति तस्माद्बाहुभ्यामधिरोहेत्, इति । अस्यै पादं नोच्छिन्द्यान्नेदस्यै प्रतिष्ठाया उच्छिद्या इति, इति । प्रेङ्खं होताऽधिरोहत्यौदुम्बरीमासन्दीमुद्गाता वृषा वै प्रेङ्खो योषाऽऽसन्दी तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथान्नं वै प्रेङ्खः श्रीरासन्द्यन्नं चैव तच्छ्रियं चान्वधिरोहतः, इति । बृसीर्होत्रकाः समधिरोहन्ति सब्रह्मकाः, इति । समुत्सृप्य वा ओषधिवनस्पतयः फलं गृह्णन्ति तद्यदेतस्मिन्नहनि सर्वशः समधिरोहन्तीषमेव तदूर्जमन्नाद्यमधिरोहन्त्यूर्जोऽन्नाद्यस्यावरुद्ध्यै, इति । वषट्कृत्यावरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामपश्यते करोति, इति । निगृह्य भक्षमवरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामध्यृष्टाय करोति, इति । प्रतिख्याय भक्षमवरोहेदेषा वा अपचितिर्यां पश्यते करोति तस्मात्प्रतिख्यायैव भक्षमवरोहेत्, इति । प्राङवरोहेत्प्राग्वै देवरेत( ः ?) संप्रजायते तस्मात्प्राङवरोहेदवरोहेत्, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।।१.२.४ ।। (८)


इति वह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयोऽध्यायः ।। २ ।।