एप्रिलमासस्य प्रवचनानि

विकिस्रोतः तः
Jump to navigation Jump to search

एप्रिल 1 – जीवने सङ्गतिः अतिमहत्त्वपूर्णा आयुषि सङ्गतेः महत्त्वं भृशं वर्तते। सङ्गत्याः परिणामः विनाकष्टम् अज्ञात्वा च भवति। सत्पुरुषसङ्गतिलाभः भाग्येन एव भवति। सत्सङ्गतिः तु पूर्वसञ्चितपुण्येन एव लभ्यते। येन सह सङ्गतिः तस्य गुणाः अस्मासु अपि लगन्ति इति वयं पश्यामः। चिन्तयन्तु, केचन जनाः अत्र आगन्तुं प्रस्थिताः। एकः चिन्तयति पद्भ्यामेव गच्छामि। द्वितीयः वृषभशकटेन प्रस्थितः। तृतीयः रेलयानेन आगतः। चतुर्थः मोटरयानेन आगतवान्। यद्यपि सर्वे एकस्मात् स्थानात् निर्गताः तथापि कारयानेन आगन्ता सर्वप्रथमं प्राप्नुयात्। इत्युक्ते यस्य यानस्य सङ्गतिः तस्य गुणाः तेन लब्धाः। सङ्गतेः अपरमेकं वैचित्र्यं यद् यस्य सङ्गत्यां वयं गच्छामः तस्य अपेक्षया अस्माकं कर्तृत्वस्य लोपः भवति। इतः बहवः बालकाः उच्चशिक्षणं प्राप्य अधिवक्तारः वैद्याः च अभवन्। अत्र प्रत्यागत्य ते अत्रस्थाभिः बालिकाभिः विवाहान् कृतवन्तः। अधिवक्त्रा सह विवाहिता अधिवक्त्री जाता। वैद्येन सह विवाहिता वैद्या जाता। एतया पद्धत्या देहसङ्गत्या सामान्यजनानां गुणाः अस्मान् आयान्ति, तर्हि सत्सङ्गत्याः परिणामः कियान् भवेत्। चिटिकां स्वीकृत्य वयं याने उपविशामः। पार्श्वे कः उपविशेद् इति वयं न जानीमः। यदि सः धूम्रपानकर्ता तर्हि धूम्रे असहनीये अस्माभिः निरुपायेन तत्रैव उपवेष्टव्यं भवति। व्यसनिनः विषयिणः वा जनस्य सङ्गतिः एतादृशी तापदा घातकी वा वर्तते। प्रत्युत सत्पुरुषसङ्गतिः उत्तमा लाभप्रदा च वर्तेते। सत्सङ्गतीतः सद्वासनाः सद्विचाराः च लभ्यन्ते। कश्चन साधुः वृक्षतले उपविष्टः। यदि स्वयं क्षुधार्तः तर्हि तं प्रति आगन्तारः अपि क्षुधिताः एव भविष्यन्ति। समर्थं (सन्यासिनं) प्रति यदि कश्चन गच्छति तर्हि सः वदेत्, अहं भिक्षापात्रं स्वीकरोमि। भवान् अपि स्वीकरोतु। यद् लभ्येत तद् आवां भोक्ष्यावहे। परं यदि सत्पुरुषः गृहस्थाश्रमी तर्हि सः कथमपि याचकं भोजयिष्यति। अन्नानुसारं वासना भवति। अतः सत्पुरुषगृहे अन्नं याचित्वा भोक्तव्यम्। सत्पुरुषाणां देहेन सङ्गतिः बहु दुष्करा। कदाचित् तस्मात् बहु दूरे वयं निवसामः। यद्यपि वासः समीपे भवति, तथापि उद्योगकारणात् कियन्तं समयं तेन सह स्थातुं शक्नुमः? तदनु देहसङ्गत्याः लाभः कियान्? अतः नाम्नः सङ्गतिः एव सदा सर्वेभ्यः उपलब्धा उत्तमा च सत्सङ्गतिः।

      • परमार्थं साधितुं सत्सङ्गतिः अतीव उपयुक्ता।***

एप्रिल 2 – सत्सङ्गतेः प्रकारद्वयम्। सत्सङ्गतिः अपूर्वं कार्यं करोति। सत्सङ्गतिः प्रकारद्वयेन भवितुमर्हति। एकं सत्पुरुषाणां देहेन सह, अपरं तैः कथितं साधनम् आचर्य। एतयोः प्रथमप्रकारः इत्युक्ते देहसङ्गतिः बहु दुर्लभा। यतो हि यद्यपि सत्पुरुषः सत्यः तथापि तस्य ज्ञानं दुष्करम्। बहुधा तस्य बाह्याचरणेन मनसि विकल्पोद्भवस्य एव संभावना वर्तते। कदाचित् केनचिद् दाम्भिकेन मेलनं भवति चेत् तस्य सङ्गत्याः हानिरेव भवेत्। अतः सत्पुरुषाणां देहसङ्गत्याः मार्गः बहुधा आपत्तिकरः भवितुमर्हति। अपरमार्गः इत्युक्ते तेन कथितेन साधनकरणेन न कापि हानिः। यतो हि वास्तवः भवेत् वा दाम्भिकः भवेत्, कथनसमये सः योग्यमेव कथयेत्। यदि दाम्भिकः तर्हि तद् गोपयितुं सः योग्यमेव कथयति। साधकेन शुद्धभावनया यदि तत् साधनं कृतं तर्हि सत्सङ्गतेः लाभं प्राप्य तस्य कार्यं सिद्ध्यति। सत्यसत्पुरुषस्य देहसङ्गतेः लाभः यदि दैववशात् जातः तर्हि कार्यं सुसमीचीनं भवति। आश्रितवाहनस्य वेगः एव अस्माकं वेगः वर्तते। वाहने निश्चलत्वेन उपवेशनमात्रम् आवश्यकम्। तद्वद् अस्माभिः सत्यसत्पुरुषसमीपे केवलं स्थातव्यम्। सत्सङ्गत्याम् अस्माकं कृतिः न कापि वर्तते। केवलमस्तित्वं वर्तते। तेन अहंकारः निरवकाशः भवति। तेन वासनाक्षयार्थं साहाय्यं भवति। तुकाराममहाराजः देवं धनं न अयाचत। ‘मुक्तिरपि मास्तु’ इति सः उक्तवान्। केवलं सत्सङ्गतिं याचितवान्। सत्सङ्गेन नामस्मरणस्य बुद्धिः जायते। बुद्धिस्थैर्यं केवलं नामस्मरणेन सिद्ध्येत्। नामस्मरणं यद् आवश्यकं तद् रक्षति, अवशिष्टं नाशयति। परम् अनन्यतया नामस्मरणं करणीयम्। नामजपं कुर्वन् बुद्धिस्थैर्यं लभते। तेन मनसि विकल्पस्फुरणं न भवति। सत्सङ्गत्याः सम्यग् लाभं स्वीकर्तुं शक्नुमः। सत्सङ्गत्या ईश्वरप्राप्तिः विना कष्टम् भवति। सत्सङगत्यां साधनानि स्वाभाविकानि भवन्ति। सतां पूजनेन पूजनं, भजनेन भजनं, श्रवणेन श्रवणं, स्मरणेन स्मरणं च सहजं भवति। सत्सङ्गत्यां स्वविस्मरणं भवति, नामस्मरणं भवति च। अतः प्रयत्नेन सत्सङ्गतिः करणीया। तत्र प्रारब्धं न आनेतव्यम्। सत्सङ्त्यां स्थित्वा नामस्मरणं कृतं चेद् देहबुद्धिबन्धनात् मुक्तिः शक्या।

      • सत्पुरुषेभ्यः यद् रोचते तद् अस्मभ्यमपि रोचते चेत् तेषां सहवासः जातः।****

एप्रिल3 – सत्पुरुषान् कथं परिचिनुमः? धान्ये केचन अश्मखण्डाः एतादृशाः सन्ति यत् ते धान्याद् भिन्नाः कर्तुं न शक्यन्ते। तण्डुले धवलाश्मखण्डा वर्तन्ते। तेषां परिचयनं दुष्करम्। तद्वत् सत्पुरुषाः अस्मासु सन्ति। तान् पश्यामः चेत् ते अस्मत्सदृशाः संसारे व्यवहरन्तः दृश्यन्ते। परं वस्तुतः ते अस्मत् भिन्नाः। पुस्तकेषु सत्पुरुषलक्षणानि बहूनि वर्णितानि सन्ति। परं तथा वयं पश्यामः चेत् सत्पुरुषान् परिचिनोतुं शक्नुमः एव इति न। सत्पुरुषस्य एकमेव सम्यग् लक्षणं वर्तते यत् सः सर्वत्र देवं पश्यति। परं केवलमेतेन तं परिचिनोतुं शक्नुमः किम्? न। यदा वयं सत्पुरुषाः भवामः तदैव वयं तं परिचिनोतुं शक्नुमः। जगति अस्माभिः कस्यापि निन्दा न करणीया। यदा वयम् अन्येषां दोषान् पश्यामः इत्युक्ते ते दोषाः सत्पुरुषेषु सन्ति इति दृश्यन्ते तदा ते एव दोषाः आत्मनि सूक्ष्मरूपेण वर्तन्ते एव इति अवगन्तव्यम्। देवं झटिति शरणं गत्वा एतान् मम दुर्गुणान् निराकरोतु इति करुणया प्रार्थयामहे। यदा वयं ‘जगति न्यायः न अवशिष्टः’ इति वदामः तदा सः दोषः अस्मासु अपि वर्तते इति ज्ञातव्यम्। अतः कस्यापि दोषान् न पश्येम। वयम् आदौ अस्मान् परिष्कुर्मः। चित्तशुद्धिं विना स्वमनसि भगवद्भावः न उद्भवेत्। अतः यदा यदा वयम् अन्येषां दोषान् पश्यामः तदा स्वचित्तम् अशुद्धमेव वर्तते इति अवगत्य परमात्मनः करुणां याचित्वा तं शरणं गच्छेम। ‘मम चित्तं शुद्धं करोतु’ इति प्रार्थयामहे। एतेन अस्माकं चित्तं शुद्धं भवेद्; भगवत्प्राप्तिः भवितुं विलम्बः न भवेत्। यद् मिश्रितं तत् पचनार्थं दुष्करम्। उदाहरणार्थं मिश्रपिष्टम्। अमिश्रितम् एकमेव शुद्धमन्नं पचनार्थं सुलभम्। इदं यथा सत्यं तद्वद् अस्माकम् अन्तःकरणं पूर्णतः शुद्धं भवेत्। तेन तत् सर्वैः सह शीघ्रं सम्मिलेत्। परम् अस्माकम् अन्तःकरणे स्वार्थः मिश्रितः, येन तत् सर्वैः सह समरसं न भवितुमर्हति। शुद्धान्तःकरणजनस्य चलनं मन्दं, भाषणं मृदु, च वर्तते। सः सर्वेभ्यः प्रियः। जगति अस्माकं समाधानम् असमाधानं वा यया वृत्या वयं जगत् पश्यामः तस्याम् अवलम्बितं वर्तते। ‘मम कृते न अहं, जनानां कृते अस्मि। जगन् न मम कृते, अहं जगतः कृते’। एषा वृत्तिः अस्माभिः आनुवर्तनीया।

      • सर्वं चराचरं भगवद्रूपं यः पश्यति, सः सत्पुरुषः।****

एप्रिल 4 – सत्पुरुषाः कथं सन्ति? स्वसुज्ञत्वम् अपाकृत्य यः सत्पुरुषान् शरणं गच्छति सः वास्तवः साधकः। येन सर्वा सृष्टी रामरूपा दृश्यते, शिष्यमपि यः रामरूपं पश्यति च सः एव सद्गुरुः। सद्गुरुः कदापि दीनत्वेन न व्यवहरति। लवमात्रमपि भयं तस्य मनसि न विद्यते। स्वशिष्यः कस्यां भूमिकायां वर्तते इति एतस्य सम्यग् ज्ञानं गुरोः वर्तते। देहबुद्धियुताः जनाः विषयदासाः सन्ति। सत्पुरुषाः विषयैः सह स्वामित्वेन व्यवहरन्ति। सत्पुरुषाणां सविधे यत् समाधानं वर्तते तद् यदा वयं लभामहे, तद्विषये रुचिः अस्मासु अपि यदा उत्पद्यते वा तदा सत्पुरुषाणां प्रचीतिः आगता इति ज्ञातव्यम्। औषधेः स्वरूपम् अनवगत्य श्रद्धया सः स्वीकृत: चेत् तस्य परिणामः लभ्यते। अथ वा पाचनम् अज्ञात्वापि रुचिः ज्ञायते, उदरपूर्तिः अपि भवति। तथैव कश्चन ज्ञानम् अनुभवेत् परं शब्दैः वर्णितुं शक्नुयादेव इति न। लवणरुचेः दुःखं वयं न अनुभवामः, तथैव जगति युद्धानि, कलहाः, सज्जनास्कन्दनम्, आपद: इति एतेषां विषये सत्पुरुषाः दुःखं न कुर्वन्ति। इत्युक्ते तेभ्यः इदं सर्वं रोचते इति कदापि न। परं लवणरुचिः अपरिवर्तनीया तथैव जगति एते प्रसङ्गाः भवन्ति एव, जगतः एषः एव अभिक्रमः च इति मत्वा ते न खिद्यन्ते। भोजने अधिकं लवणे जाते सति न सह्यते तथा सः अपि अनुभवेत्। अपि च जगति दुःखं न्यूनीकर्तुमेव सः प्रयतते। कूपे विद्यमानाः दर्दुराः यथा समुद्रकल्पनां कर्तुं न प्रभवन्ति तथा वयं सत्पुरुषाणां कल्पनां कर्तुं न शक्नुमः। सत्पुरुषाः आदौ अस्मत्सदृशाः एव आसन्, परम् अनुसन्धानेन ते सत्पुरुषाः जाताः। सत्पुरुषाणां गवेषणस्य न कापि आवश्यकता। बलवत्याम् इच्छायां सत्यां सत्पुरुषाः अस्मान् अन्विष्य अस्मान् प्रति आगमिष्यन्ति। अस्माकं भावना कीदृशी वर्तते इति सत्पुरुषाः अवध्यायन्ति। सत्पुरुषाः गुप्तभटसदृशाः सन्ति ते अस्मासु निवसन्ति, परं वयं परिचिनोतुं न शक्नुमः। सत्पुरुषाः स्वशरीरे विद्यमानं चलनवलनं सर्वं जानन्ति। अतः रोगाणां चिन्तां ते न कुर्वन्ति। सत्पुरुषाः कर्म अग्रेपृष्ठे कर्तुं शक्नुवन्ति, परं परिहर्तुं न शक्नुवन्ति। तत् केनापि भोक्तव्यं भवति एव। सत्पुरुषाः यत् साधनं कथयन्ति तदस्माकं शक्त्यनुगुणं वर्तते। सत्पुरुषाणाम् उपदेशं स्वल्पं वा आचरामः।

      • सत्पुरुषः यथा वदति तथा आचरति, वयं सुन्दरं भाषामहे परं विपरीतम् आचरामः।***

एप्रिल 5 – सत्सङ्गतेः परिणामः। चरवैद्यानां समीपे एका गुलिका वर्तते। विषयुक्तरुग्णस्य व्रणे स्थापितायां सत्यां सा विषम् आचूषति। तां क्षालयामः चेत् सा पूर्ववत् भवति। तथैव सत्पुरुषाणां सविधे अस्माकं पापम् आचूष्यते। पुनः सः सत्पुरुषः शुद्धः एव भवति। सत्सङ्गतिः लभ्येत परं तस्याः रक्षणं बहुदुष्करम्।सामान्यतः प्रियविषयाणां सङ्गतिं वयं पश्यामः। अहं दुर्व्यवहारः चेद् दुर्जनानामेव सङ्गतिं करोमि। विषयेषु न दोषाः। केवलं विषयाः न बाधकाः, विषयिजनानां सङ्गतिः बहु बाधते। सङ्गत्या बहु परिणामो भवति। विषये याचिते अपि यो न ददाति, ततः परावृत्तं करोति सः सत्पुरुषः। विषयतृप्त्यर्थं गच्छामः, परं निर्विषयाः भूत्वा प्रत्यागच्छामः इति एषः सत्सङ्गत्याः परिणामः। यस्य सङ्गत्या भगवत्प्रेम जागर्ति सः सत्पुरुषः। एतादृशाणां सङ्गतिः कदा लभ्येत इति सिषाधयिषा भवेत्। विषयस्य लालसा अति तीव्रा वर्तते, तां त्यजामः इति मनसि उत्पद्यते चेद् भजनपूजनकर्तॄणां सङ्गतिः करणीया। दुर्विचाराः मनसि यदा उद्भवन्ति तदा नाम स्मरणीयम्। सर्वविषये भगवद्भावः वर्धते चेत् सत्पुरुषाणां प्रचीतिः आयाति। भगवल्लीलानां द्रष्टारः एव वास्तवम् आनन्दं लभन्ते। अतः सत्पुरुषाः सदैव भगवद्विषये एव वदन्ति। ते यं गायन्ति सः सङ्गीते रागो एव इति मन्यन्ताम्। तुकाराममहाराजः केवलं विठ्ठल विठ्ठल इति वदति स्म, परं तस्य माधुर्यम् अस्माकं गाने अपि न वर्तते। नूनं वयं न जानीमः यत् सत्पुरुषाणां मनसि, अस्मद्विषये कियती चिन्ता वर्तते। सत्पुरुषाः अस्मभ्यं हितकरमेव कथयन्ति, परमस्माकं विषयव्याप्ते मनसि तेषां कथनं न दृढायते एव। तिक्ते औषधौ सति रुग्णाः वयं तं स्वीकुर्मः एव नु? तदनु प्रपञ्चव्याधिभिः त्रस्तैः अस्माभिः तेषां हितवचनानि किमर्थम् अनवधानीयानि? यस्य भगवदधिष्ठानं वर्तते तस्य उग्रवचनानि न कमपि दूषयन्ति। अत्यन्ता निर्भयता सत्पुरुषाणां प्रथमगुणः, यतो हि सर्वत्र अहमेव वर्ते इति भावना जाता चेद् भयस्य कारणमेव नावशिष्यते। मातृत्वं यथा सर्वत्र समानं तथैव सर्वे सत्पुरुषाः एकया एव भाषया वदन्ति।सत्पुरुषैः प्राप्तं पदं लब्धुं साधनं वयमपि कुर्मः। परं तेषां करणं निःसंशयं वर्तते। प्रत्युत वयं सदा संशयं प्रकटीकुर्मः। नेत्रे तुदन्तं अश्मानं निष्कासयितुं नवनीतं योजयन्ति। तेन अश्मा बहिः आयाति। नेत्रं शान्तं भवति। तथैव सत्पुरुषाणां वाणी मधुरा, मृद्वी, हितकरी च वर्तते। अस्माभिः अपि सदा तथैव भाषणीयम्।

      • अस्माकं भूमिका काचित् सिद्धा वर्तते चेत् सत्सङ्गत्याः परिणामः शीघ्रं भवति।***

एप्रिल 6 – सत्पुरुषाः मनुष्यरूपदेवाः एव। व्यवहारे यः सम्यग् व्यवहर्तुं न शक्नोति, सः परमार्थः कर्तुमक्षमः। व्यवहारे घटितानां प्रसङ्गानां परिणामः मनसि न भवेद्, इति निश्चेतव्यम्, सद्गुरोः आज्ञया सः निश्चयः आचरणीयःच। साधने बलं दातव्यम्।आत्मा परिचेतव्य:। भगवदतीतं किमपि न वर्तते इति ज्ञायते चेत् कोऽहम् इत्यपि ज्ञायेत। निर्गुणज्ञानं भवति चेदपि सगुणं न त्यक्तव्यम्। मम मुखे रामः उद्भूतः चेत् इतोऽपि मम किं भाग्यम्? हृदये स्फुरणानन्तरमेव वयं वदामः, अतः मुखे रामेण उद्भूते सति सः हृदये न वर्तते इति कथम्? भवन्तः माम् उपनिषदः किमपि कथय इति वदन्ति चेत् कथं कथयामि? येन यत् अभ्यस्तं कृतं वा तदेव सः वक्तुं शक्नोति। गुर्वाज्ञापालनं विना मया किमपि न कृतम्, तर्हि अन्यत् कथं कथयामि?सत्सङ्गत्या वयं सन्मार्गेण गच्छामः। वयं सत्पुरुषं व्यवहारम् आनयामः, तदनु सः व्यवहारेण वर्तते चेत् सः समत्वेन न व्यवहरति इति दूषयामः। सत्पुरुषाः देहरोगान् न दूरीकुर्वन्ति, ते तेषां भयं निरस्तीकुर्वन्ति। सत्पुरुषाः जीवन्तः देवाः। सत्पुरुषाणां देहव्यापारस्य महत्त्वं न विद्यते। भगवन्नाम्नः सिद्धि: एव तेषां जगति महदुपकाराः। सहस्रावधिजनानां भगवन्नामस्मरणे योजनमेव सत्पुरुषाणां वास्तवं कार्यम्। सत्पुरुषाणां कोऽपि मार्गः वेदशास्त्रविरुद्धः न भवितुमर्हति। सत्पुरुषाः भास्करवद् जगति स्वाभाविकतया उपकारान् कुर्वन्तः सन्ति। सूर्यतेजः क्षीयमाणणम् इति शास्त्रज्ञाः वदन्ति परं सत्पुरुषाणां तेजः वर्धमानम् एव। धनिकपुत्रं भिक्षुकरूपेण दृष्ट्वा करुणा मनसि जायते, तद्वद् मनुष्यरुपेणजीवनं प्राप्तवत: अस्मान् दुःखितान् दृष्ट्वा सत्पुरुषाः खिन्नायन्ते। एतावतीषु योनीषु मनुष्यजन्म दुर्लभम्। मनुष्यजन्म लब्ध्वा भगवन्तं न प्राप्तुवन्तिचेद्, जीवस्य महती हानिः। अतः अत्यन्तं दृढतया सत्सङ्गः करणीयः। सत्पुरुषाणां कृपा सम्पादनीया। सत्पुरुषैः दर्शितेन मार्गेण निःसङ्कोचेन गन्तव्यम्। पतनात् स्खलनात्च भयमेव नास्ति। वयं प्रपञ्चे एतावन्तः निमग्ना: यत् सत्पुरुषाणाम् आह्वानं श्रोतुमेव न शक्नुमः। श्रोतुं शक्यं तावत् तु अन्तरं भवेत् नु? सत्पुरुषवचने विश्वसेम। तेन भगवत्प्रेम लभ्येत। तेन विषयप्रेम न्यूनीभवेत्। अतः केवलं सत्सङ्गतिः कृता चेदपि कल्याणं भविष्यति।

      • सत्पुरुषसङ्गतिः नामस्मरणं च एताभ्यां भगवत्प्रेम लभ्येत।***

एप्रिल 7 – वयम् अस्माकं वास्तवं स्वार्थं न साधयामः। वयं बहु पठामः, श्रुण्मः च परं यदि न आचरामः तर्हि कः लाभः? आचरणेन विना समाधानं न लभ्यते। श्रवणं केन कृतम्? येन तदनुरूपम् आचरितं तेन। सत्पुरुषाणां कथनस्य वयं चिन्तनं मननं वा न कुर्मः, तर्हि तस्य बहु कथनेन वा किम्? देहः अनित्यः इति सर्वैः सत्पुरुषैः समानमेव कथितं तथापि अस्माकं देहप्रेम न नश्यति एतदर्थं किं कुर्म? सत्पुरुषेषु न विश्वसन्ति चेत् स्वानुभवः द्रष्टव्यः। देहात् सर्वं सुखं लभामहे इति अस्माभिर्विचिन्त्य निश्चितम्। परं वास्तवः अनुभवः द्रष्टव्यः। वयं पश्यामः यद् आबालवृद्धाः आनिर्धनसधना: च सर्वे निरन्तरं समाधानार्थमेव परिश्राम्यन्ति। बाल्यात् वयं वृद्धाः जाताः, विद्या प्राप्ता, सेवावृत्तिः प्राप्ता, पत्नी प्राप्ता, कन्यापुत्राः जाताः, येन समाधानं लभ्येत इति चिन्तितं तदर्थं प्रायतन्त, परं समाधानं लब्धं किम्? देहप्रेम विना प्रपञ्चविषयाः न प्रवर्तन्ते इति सत्यम्, परं देहसुखार्थमेव आजन्म परिश्रमाः करणीयाः इति न योग्यम्। वास्तवं स्वार्थं वयं न साधयाम: एव। देहलालनं कृत्वा अन्येषामेव वयं लाभं कारयामः। तस्य लाभं वयं न लभामहे। देहः नश्यति चेत् सर्वं नश्यति। आचरणेन विना ये वदन्ति ते नश्यन्ति। भाषे इति जनाः मन्यन्ते तदा एव भाषणं स्थगनीयम्। स्वातन्त्र्यं स्वैरवर्तनं च बाह्यतः समानमेव दृश्येते। परं तयोः मध्ये महान् भेदः। स्वातन्त्र्यं पवित्रम्, स्वैरवर्तनं अशौचम्। जनानां स्वातन्त्र्यविषयिकाः कल्पनाः विचित्राः। वस्तुतः स्वातन्त्र्यम् जनानाम् आत्मोन्नत्यर्थमेव वर्तते। अन्येषु इत्युक्ते देह इत्यादिषु विषयेषु बन्धनानि एव विद्यन्ते तानि आवश्यकानि अपि। देहसम्बन्धीनि पिता, पुत्रः, पतिः, पत्नी चेत्यादिभिः सह कर्तव्यानि प्रत्येकं जनेन आचरणीयानि एव, परं मनुष्यत्वस्य यदि किमपि कर्तव्यं भवेत् तर्हि तद् भगवदीयत्वं लभ्येत इति एव। कार्यालयं गन्तृभिः स्वकर्तव्यं सम्यक् करणीयम्। गृहजनैः स्वकार्याणि सम्यक् करणीयानि। इदं सर्वं कृत्वा अवशिष्टः समयः भगवन्नाम्नि यापनीयः। वयं कमपि वाणिज्यं कुर्मः चेत् ततः शुद्धम् उत्पन्नमेव अस्माकं वास्तवः लाभः। तद्वत् प्रपञ्चात् लब्धः लाभः, इत्युक्ते भगवति अस्माकं यावत् प्रेम, तावान् एव।

      • यत्र कर्तव्यविषये जागृतिः, भगवद्विषये स्मृतिः च वर्तते तत्रैव समाधानं लभ्यते।***
एप्रिल 8 –निश्शङ्कं नाम जपनीयम्।(

- ‘नाम स्मरतु’ इति वदामश्चेद् जनाः व्याजानि कथयन्ति, परं नामस्मरणार्थं कोऽपि अवरोधो न सम्भवति। कार्येषु क्रियमाणेषु सत्सु विचाराः मनःप्रविशन्ति एव ननु? एवं चेद् नाम स्मर्तुं का समस्या? विचारान्तरमपेक्षया भगवन्नाम जपः श्रेयान् नु? समये लब्धे सति व्यर्थं वार्तालापम् अकृत्वा नामस्मरणं कर्तव्यम् श्रद्धया कर्तव्यंच। द्वौ पथिकौ पद्भ्यां गच्छन्तौ आस्ताम्। तौ क्षुधितौ। मार्गे आम्रवाटिका आसीत्। तौ स्वामिनं पृष्टवन्तौ, ‘खादावः किम्’?‘पञ्चदशनिमिषैः यावन्ति शक्यन्ते तावन्ति खाद्यन्ताम्। द्वयोरेको महतीं पृच्छाम्आरब्धवान्, ‘एतस्य स्वामी कः?’, ‘क्षेत्रस्य करः कियान्?’ इत्यादि। अपरः शीघ्रं फलानि खादितवान्। समाप्तेषु पञ्चदशनिमेषेषु स्वामी अब्रवीत्,‘समयो जातः। भवन्तौ गच्छताम्’। प्रथमः पूर्णोदरः, अपरः क्षुधित एव। एतेन अवगम्यते यत् केवलं प्रश्नपृच्छापेक्षया श्रद्धया नाम जपनीयम्। नाम्नोऽर्थो यद्यपि अस्माभिः न ज्ञायते, तथापि भगवता तु ज्ञायते। अतो नाममहत्त्वे ज्ञाते अज्ञाते वा नाम जपनीयम्। ध्रुवेण किं कृतं? नारदवचने विश्वस्य प्रेम्णा नामस्मरणमारब्धम्। विचारान्तरं वा शङ्कापशङ्का वा तेन नावधत्ता।नाम इति एकमेव तत्त्वम् इति सूत्रं तेन अङ्गीकृतम्। इत्यतः नारायणः प्रसन्नो जातः। सत्पुरुषा निस्वार्थिनः भवन्ति। आर्ततया ते कथयन्ति। तेषु अस्माभिः श्रद्धा कल्पनीया नामजपः आरम्भणीयः च। अखण्डनामस्मरणे स्थातव्यम्। कदापर्यन्तं नाम जपनीयम्? यावत् तं त्यक्तुं नेच्छति तावत्। नामस्मरणे तल्लीनताप्राप्तिपर्यन्तं नाम जपनीयम्। नामस्मरणे तल्लीनः चेन् नामजपनं न मुञ्च्येत ञ्चे एव। भगवन्नाम श्रेष्ठम्। तस्मिन् यो रमते स योग्यः। चरित्रं विस्मृतं चेन् न समस्या परं नाम न विस्मरणीयम्। यतो हि नाम्नि सर्वं चरित्रं विहितम्। ज्ञानम् उपासना कर्म चेत्यादयो विविधा मार्गाः। परम् इत्यादिषु विविधेषु मार्गेषु सत्सु अपि नामस्मरणं सरलम् साधनम्। कश्चन विशालो दुर्ग आसीत्। सोऽभेद्यः। पिपीलिका अपि प्रवेष्टुं न शक्नुयाद् एतादृशः तटः आसीत्। तस्मिन् एकं द्वारमासीत्। द्वारं बृहता तालेन कीलितम्। कश्चन तस्य कुञ्चिकां प्राप्तवान्। तेन तस्य प्रवेशः सुलभो जातः। तथैव नाम कुञ्चिका वर्तते। परमार्थः कियानपि दुष्करः स नाम्ना सुसाध्यः। नाम्नि प्रेम श्रद्धा च न भवति इति जना वदन्ति। सत्पुरुषवचने विश्वस्य अखण्डं नाम जपनीयम्। तेन समाधानं भवेत्।

      • प्रतिदिनं प्रभाते उत्थाय भगवन्नामस्मरणाभ्यासस्य नियमः करणीयः। स्नानादि भवति चेदुत्तमं परं एते विषया न बाधेरन्।***

एप्रिल 9 – सत्पुरुषा भगवन्तं स्मारयन्ति। ज्ञाते सत्ये सर्वज्ञः भवति । सत्यं धरन्ति ते सत्पुरुषाः। सत्पुरुषाः मार्गं दर्शयितुं सिद्धाः परमस्माकमभिमानः अवरुणद्धि। तेन वयं सत्पुरुषान् दूषयामः। कश्चन सत्पुरुषान् अवदत्, भवन्तः अस्माकं हानिंकुर्वन्ति। अपकारं कुर्वत्सु उपकारं कर्तुम् उपदिश्य अस्मान् मेषसदृशान् कुर्वन्तः सन्ति। वस्तुतः अस्माकं सत्पुरुषैः कर्मगिरिः निर्मितः। परं तेषां तथा अस्माकं कर्मणोर्मध्ये भेदो वर्तते। रामः कर्ता इति भावनया ते कर्म कुर्वन्ति, अहंत्वेन वयं कुर्मः च। अतः कर्म अस्मान् बध्नाति। सत्पुरुषाणां कर्तृत्वं न जनगोचरं भवति। अस्माकं तु केवलं दर्शनाय एव। तेन तन्न पर्याप्तम्। कश्चन भृशं ज्ञानं प्राप्तवान्, परं तद् मनोवृत्तौ नायाति चेत् को लाभः? जगतो वास्तवं स्वरूपं ज्ञातुं सुखदुःखजालमुक्तं प्रति गन्तव्यम्। स साक्षित्वेन स्थित्वा जगता अलिप्तो वर्तते। कर्म कृत्वापि स अलिप्तः। वयं तु सुखदुःखैः निगृहिताः।शुद्धान्तःकरणेन सत्पुरुषाणाम् अपशब्दयुता भाषापि न तुदति। किं बहुना सापि आशीर्वादयुता भवति। सत्पुरुषा न विद्वांसः। अतिविद्वान्सत्पुरुषो जातः इति न श्रुतम्। कश्चन अष्टमे वर्षे गृहाद् निर्गच्छति। कश्चन स्वविवाहसमारम्भे पलायते। कश्चन लेखने पठने च अनभिज्ञः। एतादृशा जनाः सत्पुरुषाः जाता इति दृश्यते। देहपतनानन्तरमपि जनैः तेषामस्तित्वं प्रतीयते। शिशुः अङ्गणे क्रीडति। सहसा मातृस्मरणेन सः तां प्रति धावति। इत्युक्ते शिशुः सूक्ष्मतया मातरं सततं स्मरति। तादृशीं भगवत्स्मरणतीव्रतां, तादृशं तस्य अस्तित्वस्य भानं, तादृशीं निष्ठां च वयमपेक्षामहे। एतादृशी भगवतः सिषाधयिषा लब्धा चेद् मनुष्यः पिशाच्चवत् व्यवहरति। तदा कश्चन सत्पुरुषेण मिलति चेत् सः शान्तो भवति। सत्पुरुषाः मातृवत् ननु। ते अस्मान् भगवन्तं स्मारयन्ति। सर्वजगति सत्पुरुषाणामुपकाराः सन्ति। तैः भगवान् सगुणत्वम् आनीत:, स: सुसेव्य: कृत: च। परमात्मानमात्मीयं कर्तुं नामस्मरणं सुलभं साधनम् दत्तम्।नाथभागवतं,ज्ञानेवरी च एतादृशाः सरलग्रन्थाः निर्मिताः। यथाशक्ति अन्नदानं कलियुगे उत्तमं साधनमिति कथितम्। एतान् चतुर: विषयान् आचरितुं यः प्रयतते तस्य किमपि न न्यूनायते। सः सदैव समाधानं लभते।

      • जगत् सत्पुरुषान् विना न भवितुमर्हति, वयं तान् परिचिनोतुं न शक्नुमः।***

- एप्रिल 11 – साधनैः यन्न सिद्ध्यते तत् सत्पुरुषैः सह वासेन सिद्ध्येत्। अवतारिणः सत्पुरुषाः तथा च अन्ये सत्पुरुषा एतयोर्मध्ये भेदो वर्तते। अवतारिणः सत्पुरुषा ज्ञानेश्वरमहाराजेन वा समर्थरामदासेन वा सदृशाः सन्ति। स्वयमेव ते आयान्ति कार्यं प्रपूर्य ते प्रतिगच्छन्ति। ते अत्र न तिष्ठन्ति। सत्पुरुषैः जगति विद्यमानानि राज्यानि न लब्धानि। परं ते आत्मानं शासितवन्तः। इन्द्रजालकरणं न सत्पुरुषलक्षणम्। चमत्काराः सहजं भवन्ति तर्हि भवन्तु नाम। तान् दर्शयितुं सत्पुरुषाः चमत्कारान् न कुर्वन्ति। सत्पुरुषाणां निन्दा अपमान: वा न करणीये। ते न परीक्षणीयाः। कस्यापि दुश्चिन्तनं मास्तु। कस्यापि हितं करणीयम्, हितमेव चिन्तनीयम्। नामस्मरणं विना न किमपि उत्तमं हितकरं च। अतः अखण्डं भगवन्नामजप एव सत्सङ्गतिः। सद्विचारा अपि काचित् सत्सङ्गतिः। ध्यानं, स्मरणं मननं सद्ग्रन्थवाचनं च इति एतैः सत्पुरुषाणां मेलनं लभेत। तैः सह समागमोऽपिशक्येत। सत्पुरुषसमागमे स्थित्वा विषययाच्ञा इति न समागमस्य रहस्यम्। एकमात्रेण पुत्रेण यदि अहिफेनंहठेन याचितंतर्हि माता तस्मै दद्यात् किम्? दत्ते सति सा न सत्या माता। तद्वद् यो विषयप्रेम ददाति सः न वास्तवः सत्पुरुषः। सत्पुरुषस्य विषयप्रेम न वर्तते। अपि च तदीय आत्मीयो जनो विषये लिप्तो भवति चेत् सः अत्यन्तं दुःखमनुभवति। अस्थिखण्डं चर्वन्तं तेन मुखादागतं रुधिरं पिबन्तं तद् अस्थ्न: आगतमिति मत्वा अन्ते म्रियमाणं शुनकं दृष्ट्वा यावद् दुःखमनुभूयते तदपेक्षया दशगुणितं न नैकगुणितं दुःखं विषयलिप्तान् अस्मान् दृष्ट्वा सत्पुरुषैः अनुभूयते। वास्तवं भगवन्तं ज्ञात्वा जिज्ञासवं शिष्यं लब्ध्वा सत्पुरुषाः स्वजीवनसार्थक्यमनुभवन्ति। साधनया यन्न लभ्यते तत्सत्सङ्गत्या लभ्यते। मनुष्यो यावान् निःस्वार्थः तावती तस्य भाषा विशाला। अस्माकं गृहजना अपि अस्माकं न श्रुण्वन्ति, परं सत्पुरुषाणां वाणी सर्वजगति परिणामं करोति। यतो हि सा सर्वव्यापृता। सा अत्यन्तम् आर्ता। एतेन अर्थेन एव श्रुति: सनातना। जगत्कल्याणार्थमेव ऋषयः अब्रुवन्। अतः तया वाण्या जगत्कल्याणमेव भवेत् तथा च यावज्जगत्कल्याणेच्छा वर्तते तावत्पर्यन्तं सा वाणी भवेदेव। विद्यमानायां स्थित्यां समाधानं, कस्यापि न द्वेषो मत्सरो वा, सर्वत्र भगवद्भावः, निरभिमानत्वं, सर्वदा भगवन्नामस्मरणं, सत्पुरुषसज्जनसद्गुरुणां विषये पूज्यभावः चेति एतेषां विषयाणाम् आचरणमेव परमार्थः। एतेषु को विषयो दुष्करो व्यययुतो वा? दृढनिश्चयेन वयं तं नाचरामः, अतः समाधानं न लभ्यते। तथा आचरामश्चेत् समाधानं लप्स्यामहे एव।

      • प्रपञ्चे कथं व्यवहर्तव्यमिति सत्पुरुषाः पाठयन्ति, आचर्य दर्शयन्ति च।***

एप्रिल 16 – व्यवहारवासनानां तृप्त्यर्थं सत्पुरुषा न वर्तन्ते। सेवाकार्यं कर्तुमिच्छामः चेत् तस्य दाता यत्र वर्तते तत्र वयं गच्छामः। तथैव भगवता मेलितुमिच्छामः चेद् यत्र सत्पुरुषाः निवसन्ति तत्र अस्माभिः गन्तव्यम्। परमेश्वरस्वरूपं ज्ञातुं सत्पुरुषाणां समीपे गमनमावश्यकम्। सत्पुरुषाणाम् अस्तित्वं न तेषां देहे, अपि तु तेषां वचने वर्तते। सत्पुरुषाणां चित्तं निर्विषय़ं वर्तते। रात्रौ निद्रितेषु सर्वेषु प्रहरी रक्षणं करोति, तद्वद् अस्माकम् अनवधानावस्थायां सत्पुरुषाः जागरिता: वर्तन्ते। निद्रितानाम् अस्माकं वृत्तिं ते परीक्षन्ते। काचिद् महिला प्रसूता। कालान्तरेण शिशोः मूर्च्छा भवति स्म। शिशुः प्रेङ्खायां तूष्णीं निपतति स्म। सः सम्यग् न वर्धते स्म, न हसति स्म, न क्रीडति स्म च। शिशोः अवस्थां दृष्ट्वा माता खिन्नायते स्म। सत्पुरुषाः अपि तथैव मन्यन्ते। शिष्यः कृतः परं साधने यदि सः न विकसति तर्हि सत्पुरुषाणां बहु दुःखं भवति। शिष्यस्य उन्नतिः न भवति चेत् सत्पुरुषः स्वप्रेम्णा शिष्यस्य लालनं कुर्वन्ति। सामान्यतः सत्पुरुषाणां कृते न कोऽपि साधुवादं यच्छति। तैः कस्यचित् कल्याणं कृतं चेत् तस्य दश आप्ताः सत्पुरुषान् निन्दन्ति। सत्पुरुषाणाम् अवगमनार्थं कथिताः गुणाः, तेषां परीक्षार्थं न, न तथा तेषाम् उपयोगः, अपि तु ते अस्माकम् आचरणार्थम् कथिताः सन्ति। सत्पुरुषसन्निकर्षे निवसितॄणां जनानां तिस्र:हानय:, त्रयः लाभाः च वर्तन्ते। हानिषु एका वेदान्तभाषणमात्रं सम्यक् कर्तुं शक्नोति। द्वितीया वृथा सन्मानं लभते। सत्पुरुषो मम सर्वं करिष्यति इति मिथ्या भावनया एषः यद्वा तद्वा व्यवहरति। अधुना लाभान् पश्यामः। प्रथमो वर्तते यत् सत्यभावनया सत्पुरुषैः सह वासेन एव किमपि साधनम् अकृत्वापि परमार्थो लभ्यते। द्वितीय़ः यत् सन्मानं प्राप्नोति परं स्वयं सन्मानापेक्षातीतो वर्तते इति। तृतीयो यद् वेदान्तो भाषणे कदाचिन् न, परमाचरणे भवति। अतः सत्पुरुषैः सह निवसितृभिः तेषां वचनानुसारं वर्तनीयं, सन्मानो न अपेक्षणीयः, तथा च वेदान्तो न बहु जल्पनीयः। भाषितुं तीव्रेच्छा भवति चेदपि सा दमनीया। सत्पुरुषाज्ञाप्रमाणत्वस्वीकरणं प्रचीतिलाभस्य साधनमेव। व्यवहारवासनातृप्त्यर्थं सत्पुरुषाः न वर्तन्ते इति अवगम्य तेषां सङ्गतिः करणीया। तैलं वर्तिका च वर्तेते चेद् दीपं ज्वालयितुं न विलम्बः तद्वद् अस्माकं भूमिका यदि सिद्धा तर्हि सत्सङ्गत्याः परिणामाय न विलम्बः।

      • सत्पुरुषज्ञानार्थम् अनुसन्धानं विना न अन्यत् साधनम्। ****

एप्रिल 17 –‘भवान् भगवतः’ इति भानं सत्पुरुषाः यच्छन्ति। कस्मिन्नपि कर्मणि तस्य हेतुः मनसि निरन्तरं वर्तते, तद्वन्नामस्मरणे तस्य हेतोः भानं निरन्तरं भवेत्। इदम् अखण्डं भानम्, ‘अहं भगवतः’ इति अवगमनं च इति एतस्य नाम एव अनुसन्धानम्। वस्तुतः ‘अहं भगवतः’ परं भ्रमेण ‘अहं विषयाणाम्’ इति कल्पना जाता। सत्पुरुषाः‘भवान् न विषयाणां भवान् भगवत’ इति कथयन्ति। एतदेव सत्पुरुषाणां कर्तृत्वम्, एतदर्थमेव ते नामस्मरणं कथयन्ति। नामस्मरणमित्युक्ते ‘अहं भगवतः, न विषयाणाम्’ इति मनसे कथनीयम् मनसि तथा च भानम् उत्पादनीयम्। इदं भानं कल्पयितुं पुनः पुनः मनः तथैव कथनीयम्, इत्युक्ते सततं नाम जपनीयम्। भवन्तो रामदर्शनम् इच्छन्ति, परं रामं कथं परिचययिष्यति? रामदर्शनं कर्तुं तावदन्तरं गन्तव्यं भवति। रामस्य सम्यक् परिचय आवश्यकः। एतदर्थम् अन्तःकरणं पवित्रं भवेत्। शुद्धो भावः आवश्यकः। सर्वं साधनं कृतम्, परं भावः न वर्तते तर्हि सर्वं व्यर्थम्। कालान्तरेण भावः उत्पद्येत। परं भावेन यदि साधनं कृतं तर्हि प्राप्तिः शीघ्रम्। नवविधभक्त्यां सरला मुख्या च भक्तिः अर्पणभक्तिः। अस्माभिः सर्वथा भगवतो भूत्वा भवितव्यं येन अस्माभिः कृतं सर्वम् अर्पणमेव भवति। प्रत्येकं जनेन स्वहितं ज्ञात्वा वर्तनीयम्। कल्याणमार्गं कोऽपि दर्शयेत्, परं वर्तनं तु स्वेन एव करणीयम्। बन्धनस्य वास्तवं कारणं न परिस्थितिः अपि तु आत्मनो मनसः अवस्था। कस्यामपि परिस्थित्यां, कस्मिन्नपि समये, कस्यामपि अवस्थायां च कर्तुं शक्यते तद् भगवन्नामस्मरणमेव। विद्यमानायां परिस्थित्यां पूर्णं समाधानं भवेद् इति तु भगवतः एव पूर्णा कृपा। अग्नेः उपयोगं कर्तुः इच्छामवलम्बते। तथैव देवस्य उपयोगम् अपि यथा कुर्मः तथा भवति। परमेश्वरस्य ध्यानेन सिद्धयः लभ्यन्ते, ताः तु त्याज्याः। अतः परमेश्वरस्य ध्यानमेव न करणीयं किम्?तर्हि ध्यानं सिद्ध्यर्थं न करणीयम्। परमेश्वरप्राप्त्यर्थं निष्कामबुद्ध्या करणीयम्, तेन परमेश्वरः सिद्धिरूपान् अवरोधान् अपाकरोति। सत्पुरुषाः सिद्धीनामुपयोगं कदापि न कुर्वन्ति। ते परमात्मस्वरूपे निमीलयन्तः वर्तन्ते। सर्वविषयान् ते परमेश्वरे त्यजन्ति। तस्य इच्छया एव कदाचित् सत्पुरुषाणां चरित्रे चमत्काराः दृश्यन्ते।

      • सत्पुरुषं कदापि व्यवहारविषयान् न याचेरन्। तान् प्रारब्धे त्यजेयुः।***

एप्रिल 18 – सत्पुरुषाः विषये देवं पश्यन्ति, वयं देवे विषयं पश्यामः। प्रत्येकं जनः भक्तिं करोति एव। यतो हि व्यापकदृष्ट्या पश्यामः चेद् भक्तिः इत्युक्ते रुचिः। परमार्थे भक्तिः इत्युक्ते भगवतः रुचिः। सर्वेभ्यः विषयाः रोचन्ते। सर्वे जनाः प्रकारान्तरेण भक्तिम् एव कुर्वन्ति। विषयस्य रुचिः देहबुद्ध्या सह वर्तते, देहबुद्धिं वर्धयन्ती, स्वार्थिनी च वर्तते।यावद् एषा न्यूना न भवति तावत् परमात्मनः रुचिः इत्युक्ते भक्तिः न उत्पद्यते। एतदर्थं भक्तिमार्गे प्रथमः सोपानो वर्तते यद् अनपेक्षं निष्कामं निःस्वार्थि परमात्मस्मरणम् इति तथा च अन्तिमः सोपानो वर्तते यद् आत्मविस्मरणम् देहबुद्धेः विगलनं च इति। देहरक्षणं परमात्मप्राप्त्यर्थं करणीयम्। जीवने विषयसेवनमात्रमेव करणीयं चेद् मरणमेव उत्तमम्। महापुरुषाणां जयन्त्यादीन् उत्सवान् भगवति प्रेम लब्धुं वयं कुर्मः। मूलतः प्रेम एव न विद्यते तर्हि यस्मिन् प्रेम विद्यते तस्य कृते कृतान् उपचारान् कृत्वा प्रेम प्राप्तव्यम्। प्रेमोपचारयोः अन्योन्यसम्बन्धाः सन्ति। एतेन उपचारेण भगवता सह सम्बन्धाः वर्धन्ते, तेन भगवति प्रेमापि वर्धते। माता स्वपुत्रम् आभूषणैः अलङ्करोति। तेन पुत्रः किमपि सुखं न लभते, प्रत्युत अल्पं वा दुःखमेव भवति, परं माता स्वसुखाय तथा करोति। तथैव भगवन्तं वयम् अलङ्कुर्मः चेत् तद् अस्माकं कृते एव। वस्तुतः भगवतः किं न्यूनम्? सत्पुरुषाः विषयेषु देवं पश्यन्ति परं वयं तु देवेऽपि विषयं पश्यामः। ‘रामस्य विग्रहः कियान् सुन्दरः!’, ‘मन्दिरं कियत् मनोहरम्!’ च इति वयं वदामः। अस्माकं वृत्तिः विषयकारा, अतः सर्वत्र वयं विषयमेव पश्यामः। सत्पुरुषाणां वृत्तिः राममयी। ते सर्वत्र रामं पश्यन्ति। त्रयोदशकोटिपरिमतः जपः कृतः चेद् रामदर्शनं भवति इति वदन्ति। यदि प्रतिदिनं दश-द्वादशघण्टाः जपं करोति तर्हि त्रयोदशकोटिपरिमितं जपं कर्तुं सामान्यतः द्वादशवर्षाणि अपेक्ष्यन्ते। एतादृशः निरन्तरं निदिध्यास: भवति चेत् सः तद्रूपो भवति। नामजपः कदापि वृथा न भवति। कदाचित् कोऽपि दर्शनं न लभते तदा तस्य नामजपः अन्यत्र व्यतीतः। कदाचिद् विषयप्राप्त्यर्थं वा पूर्वपापं न्यूनीकर्तुम्। विषयार्थं नाम नवेतव्यम्। नाम्नः कृते एव नामजपः करणीयः।

      • नामजपः अस्माकं सर्वस्वमिति मन्तव्यम्****

एप्रिल 19 – भवरोगात् मुक्तेः उपायः वर्तते सत्सङ्गतिः नामस्मरणं च। कस्मिञ्श्चिद् ग्रामे कश्चन वैद्यः निवसति स्म। मुखं दृष्ट्वा सः रोगं जानाति स्म। कमपि गच्छन्तं जनं सः गृहात् दृष्टवान्। तमाहूय सः उक्तवान्, ‘भवतः शरीरे गभीरः रोगः जातः अस्ति। मया दत्तम् औषधिं भवान् स्वीकरोति, मया कथितं पथ्यं भवान् पालयति च तर्हि भवान् सम्यक् भवितुमर्हति’। सः औषधिं न स्वीकरोति पथ्यं न पालयति च तर्हि वैद्यस्य का हानिः? तथैव सत्पुरुषाः अस्मान् उपदिशन्ति, तेन ते स्वात्मनां कृते किमपि लब्धुम् इच्छन्ति किम्? सत्पुरुषकथनानुसरणेन अस्माकमेव लाभो भवति। अस्माकं भवरोगः जातः अस्ति इति ते कथयन्ति तथा च उपायरूपेण सत्सङ्गतिं नामस्मरणं च कुर्वन्तु इति ते वदन्ति। स्वानुभवेनैव ते कथयन्तः सन्ति। सामान्यः औषधिः अतः न परिणामं दर्शयति इति कथं वक्तुं शक्नुमः? स्वोपासनायाः शपथेन तुकाराममहाराजः नामस्मरणसमं सरलं साधनं न वर्तते इति उक्तवान्। विद्यमानेषु सत्पुरुषेषु भवन्तः यदि न विश्वसन्ति तर्हि समर्थतुकारामयोः विश्वसितुं का हानिः? भवतां कल्याणार्थमेव ताभ्यां साधनं कथितं वर्तते। भवन्तः यदि न अनुसरन्ति तर्हि तेषां न कापि हानिः। हानिः तु भवतामेव। अतः चिन्तयन्तु। आदौ रोगेण ‘अहं पीडितः’ इति निश्चयः भवेत्। तेन अर्धं कार्यं भवति। ‘रोगेण पीडितोऽस्मि’ इति सम्यक् ज्ञातं चेद् औषधिं न परिहरेयम्। संसारे सुखं न विद्यते इति पश्यद्भिः अस्माभिः सुखसाधनार्थं प्रयत्नाः आरभणीयाः। तदर्थं यावत्शक्यं नामस्मरणं करणीयं येन भवन्तः वास्तवं समाधानं लप्स्यन्ते। कश्चन मनुष्यः त्रिंशत् वर्षाणि सेवां कृतवान्। स अवदत्, ‘भगवतः भक्तिःकथं करणीया इति मया सेवाकार्यात् ज्ञातम्’। सः पृष्टः,‘तत् कथम्’? तदा तेन भणितम्, ‘सेवावृत्त्यां ज्यायताम् इच्छानुसारं वर्तनीयं भवति। तैः यत्र परिवर्तितं तत्र गन्तव्यमेव भवति। तदनु गृहे कापि समस्या वर्तते चेत् किमपि कर्तुं न शक्नुमः। ममत्वमपाकरणीयं भवति। सेवानिवृत्त्यनन्तरं केवलं स्वामी परिवर्तितः। अधिकारिणां स्थाने अहं भगवन्तं स्थापितवान्। भगवान् श्रेष्ठः अधिकारी। यतो हि सः मनुष्यसमः स्वार्थी न वर्तते। अत्यन्तेन निःस्वार्थित्वेन मम हितकरमेव स सदा घटयति। अतः साम्प्रतम् अहं महति आनन्दे अस्मि।

      • अनन्यतां विना भगवत्प्राप्तिः न विद्यते। तस्यामेव भक्तिः उदेति।*****

एप्रिल 21 – सत्समागमः इत्युक्ते सत्पुरुषाणाम् उपदेशानुसारं वर्तनीयम्। कस्मिन्नपि मङ्गलकार्ये आदौ श्रीगणेशस्य आवाहनं कुर्वन्ति, सर्वेषाम् अन्ते तस्य विसर्जनं कुर्वन्ति च। तद्वद् अनुसन्धानेन एव ग्रन्थवाचनम् आरभेत, अनुसन्धानेन एव समापयेत्। लौकिककार्ये गणेशविसर्जनानन्तरम् अस्माभिः अवशिष्यते, परम् अनुसन्धानविसर्जने अस्माकमपि लयः भवेत्। ‘ यथा भवन्तः इच्छन्ति तथा स्थापयन्तु परं भवतां विस्मरणं न भवेत् इति भिक्षां देहि’ इति गुरुचरणयोः प्रार्थना करणीया। भगवन्तं विस्मृत्य भजनं मास्तु। भगवन्तं स्मृत्वा शाकमानीतं चेदपि श्रेयस्करम्। जगतः लज्जया भगवन्तं न दूरीकुर्मः। ‘कः अहम्?’ इति चिन्तनीयम्। तदर्थम् ‘अहं कस्य न?’? इति अपि द्रष्टव्यम्। ‘अहं न आप्तानां, न दारपुत्राणां, न मातापित्रोः, तथैव नाहं देहस्य, मनसः अपि न’ इति चिन्तयन् यः अवशिष्टः ‘सः अहम्’। वास्तवं समाधानम् एकत्वे अद्वैते च वर्तते। अतः द्वैतस्य जनकः इत्युक्ते अभिमानः कथं क्षीयेत इति द्रष्टव्यम्। एतदर्थम् ‘अहं कर्ता न, देवः एव कर्ता’ इति मन्तव्यम्। सर्वभूतेषु भगवद्भावः द्रष्टव्यः। सत्समागमः करणीयः। सत्समागमः इत्युक्ते सत्यस्य समागमः। सत्पुरुषाणां वचनेषु विश्वस्य तथा वृत्तिः रचनीया इति एव वास्तवः सत्समागमः। सत्पुरुषेषु अनन्या श्रद्धा कल्पनीया। ते अनुसरणीयाः। तेषां समागमे दैन्यं नमन्तव्यम्। ये भवतः विषयावश्यकतां सततं पूरयन्ति ते न सत्पुरुषाः। सत्याः सत्पुरुषाः विषयासक्तिं न्यूनीकुर्वन्ति। एतादृशः सत्पुरुषः शरणं गन्तव्यः। सत्पुरुषाः एव चित्तं निर्विषयं कर्तुं शक्नुवन्ति। सत्पुरुषाः ईश्वरदर्शनस्य तीव्रेच्छाम् उत्पादयन्ति। एषा सिषाधयिषा उत्पादनीया इति एव सत्पुरुषाणां कर्तृत्वम्। सत्पुरुषाणां भाषायाम् आर्तता वर्तते। अतः सा आर्तताम् उत्पादयति। सत्पुरुषकथनानुसारं वर्तनीयम्। जगत् सत्पुरुषान् विना न भवितुमर्हति।ये देहे दृश्यन्ते परं देहातीताः भवन्ति ते सत्पुरुषाः। वयं तान् परिचिनोतुं न शक्नुमः एतदर्थं किं करणीयम्? नामजपयोगेन सत्पुरुषान् परिचिनोतुं शक्नुमः, तैः सह सम्बन्धान् योजयितुं शक्नुमः, रक्षितुं शक्नुमः च। यो नामस्मरणं कुर्यात् तेन एव सत्पुरुषः मिलेत्, सः एव भगवन्तं लब्धुं शक्नुयात्। तस्य कुत्रापि अवरोधः न भवेत्। परं यः केवलं शब्दज्ञानम् अनुधावति तस्य आसक्तिः न नश्येत्, तस्य जीवनं सार्थकं न भवेत्।

      • सत्पुरुषस्य चरणे पतामः चेत् सः अस्माकं लज्जां रक्षति।*****

एप्रिल 22 सत्समागमः सर्वसाधनानां राजा ! मनुष्यजन्मप्राप्तिः, सत्पुरुषमेलनं, तान् अभिज्ञाय तैः सह वासः एते त्रयः विषयाः दुर्लभाः। अतः सत्समागमसदृशः लाभः न विद्यते इति वदन्ति। सत्समागमः सर्वसाधनानां राजा। याचनेषणामेव सत्पुरुषाः नाशयन्ति। कस्यापि प्राप्तिः क्व अवशिष्यते? सत्पुरुषत्वं व्यावहारिकदृष्ट्या न लाभाय। कस्यचित् स्नानसंध्याशीलस्य शरीरे तेजः दृश्यते। यतो हि देहकर्मणःएतत् तेजः वर्तते। सत्पुरुषस्य शरीरे तादृशं तेजः कदाचिद् न दृश्येत। अन्ते विद्यमानाय ज्ञानाय योग्यः सत्पुरुषस्य देहः विद्यते। देहेन भुज्यमानानां जगति विद्यमानानां च सुखानाम् उपलब्धिमार्गान् सत्पुरुषाणामपेक्षया वयं प्रापञ्चिकाः जनाः एव अधिकं जानीमः। परं देहातीतं, शाश्वतं, देहं विस्मृत्य देवं स्मृत्वा च लभ्यमानं यद् भगवत्सुखं तस्य उपायं ज्ञातुं सत्पुरुषान् प्रति एव गन्तव्यम्। विषयतृप्त्यर्थं गत्वा निर्विषयीभूय प्रत्यागमनम्इति एषः सत्सङ्गत्याः परिणामः।एतादृशः सत्पुरुषः एव न, अपि तु साक्षात् भगवान् एव। एतादृशाणां सङ्गतिः कदा लभ्येत इति सिषाधयिषा भवेत्। सत्पुरुषाः अस्मान् सत्यस्वरूपं परिचाययन्ति। सत्पुरुषेण आलेखितेन मार्गेण कायवाङ्मनसा कृतं कर्म पौरुषम् एव। लोहपथयाने उपविष्टाः सर्वे जनाः कस्यामपि श्रेण्यां भवेयुः, कदाचित् चिटिकां विनापि भवेयुः, यानेन सह अन्तिमं स्थानकं प्राप्नुवन्ति, तद्वत् सत्सङ्गतिं कुर्वाणाः सर्वे जनाः भगवन्तं प्राप्नुवन्ति। तेषु चिटिकारहिताः जनाः इत्युक्ते दुष्टाः, पापिनः, दुराचारिणः, त्याज्याः, अयोग्याः च जनाः अपि तरन्ति। केवलं यानं केनापि न त्यक्तव्यम्। एषः एव सत्सङ्गतिमहिमा। परमार्थं प्राप्तुं सत्सङ्गतिः बहु लाभाय। एषा सङ्गतिः त्रिधा भवति। साक्षात् देहे एव सत्पुरुषस्य वासः। सत्पुरुषेण कथितेन मन्त्रेण सह वासः। तथा च सत्पुरुषाणां विचारैः सह वासः। सङ्गत्याः परिणामःअविज्ञातोऽपि भवति। अतः सत्सङ्गः धरणीयः। अस्माकं जन्मकारणं केवलं सत्पुरुषाः एव जानन्ति। अतः तान् शरणं गन्तव्यम्। स्वयं समाधानं लब्ध्वा सत्पुरुषाः अन्येभ्यः अपि यच्छन्ति इति एते तेषाम् अस्मासु कियन्तः उपकाराः।

      • सत्पुरुषाणां समीपे विद्यमानं समाधानं यदि वयमपि लभामहे तर्हि सत्पुरुषाणां प्रचीतिः अस्माभिः लब्धा इति मन्तव्यम्।***

एप्रिल 23 – सत्पुरुषैः लिखिताः ग्रन्थाः तेषां मृत्युपत्राणि इव। सत्पुरुषाणां ग्रन्थलेखने आसक्तिः न विद्यते। अपर्यायः इति मत्वा ते ग्रन्थान् लिखन्ति। एकनाथैः समर्थरामदासैः वा ज्ञानेश्वरीपारायणानि कृत्वा स्वग्रन्थाः लिखिताः इति भवन्तः मन्यन्ते किम्? तेषां ज्ञानं स्वतन्त्रं विद्यते तत् तु साक्षाद् भगवतः आगतं वर्तते। स्वाभाविकं यत् तेषु पूर्वसूरिभिः लिखिताः विषयाः अपि भवितुमर्हन्ति। सत्पुरुषैः लिखिताः ग्रन्थाः तेषां मृत्युपत्राणि इव वर्तन्ते। स्वपुत्राः सम्यग् व्यवहरिष्यन्ति इति यः पिता निश्चयेन मन्यते सः किमर्थं मृत्युपत्रं लिखेत्? तथा विश्वासः नास्ति अतः सः पर्यायो नास्ति इति मत्वा मृत्युपत्रं लिखति। तद्वत् सत्पुरुषैः विनोदेन वैदुष्यं दर्शनार्थं वा ग्रन्थाः न लिखिताः अपि तु अस्मत्सदृशाणां कल्याणं भवेद् इति सिषाधयिषया लिखिताः। भगवत्कथाग्रन्थाः, पुराणानि, सत्पुरुषाणां ग्रन्थाः च इति एतेषाम् अस्माकं जीवनस्य निकटः सम्बन्धः विद्यते। एतेषु ग्रन्थेषु व्यवहारे उपयोगयोग्यः वेदान्तः कथितः वर्तते। अस्माकं कल्पनातीतानां शङ्कानाम् उत्तराणि समर्थैः दासबोधे दत्तानि सन्ति। परमार्थं न शृणोति सः दोषी, परम् अश्रुण्वन्तं जनं यो परमार्थं श्रावयति सः ततोपि दोषी। परम् इमं दोषं स्वीकृत्यापि सत्पुरुषाः जनान् परमार्थं कथयन्ति। तस्य लाभाः करणीयाः। ग्रन्थपठनसमये यदि ध्येयं परमार्थप्राप्तिः विद्यते तर्हि तदर्थं ग्रन्थे कथितं साधनम् अवधातव्यम्। योग्यं साधनं लभते चेत् साध्यं लभ्येदेव। यस्मिन् विषये पटुत्वं प्राप्तव्यं तद्विषयकग्रन्थाः पठनीयाः। अस्माकं विपरीतं भवति। गणितं पठितुमिच्छामः परम् उपन्यासान् पठामः। कथं गणितपरीक्षामुत्तरामः? परमार्थमेव यदि ध्येयं तर्हि सत्पुरुषग्रन्थाध्ययनमेव करणीयम्? ते एव श्रवणीयाः मननीयाः च। अस्माकं मनः भगवच्चरणयोः संयुज्य देहः प्रारब्धे त्यक्तव्यः। कदाचित् सः सुखे भवेत्, कदाचित् दुःखे, कदाचित् बहूनि दिनानि सः सरलं गच्छेत् कदाचित् घट्टनं प्राप्य निमज्जितः इव भवेत्। परं तस्य कस्यामपि स्थित्याम् अस्माकं कृते आनन्दः चिरकालं लभ्येत इत्यत्र न शङ्का। अस्माकं देहं प्रति भिन्नत्वेन द्रष्टुं पठनीयम्। मनः भगवते दातव्यं देहः प्रारब्धाय दातव्यः तेन तत् सिद्ध्येत्। देहस्य सुखदुःखम् उत्तानं भवेत् अन्तः प्रविश्य तेन मनसि परिणामः न करणीयः। भगवन्नामस्मरणेन इदं निश्चयेन सिद्ध्येत्। अतः अन्ते नामस्मरणं विना पर्यायो न विद्यते।

      • सत्पुरुषाणां ग्रन्थानां सत्यः अर्थः कृतिना एव ज्ञायेत। ***

एप्रिल24 – सत्पुरुषाणां भवितव्यम् इत्युक्ते तेषामाज्ञया जीवनम् भवेत्। अहं जीवन् भवेयमिति यावदावश्यकं तावदेव परमात्मज्ञानमावश्यकम्। जगति कं न दूषयन्ति? परमार्थाय समर्पयामः चेत् गार्हस्थ्यं सम्यग् न कुर्मः इति दूषयन्ति। तद् नावधातव्यम्। मनोविषादस्य कारणमेकमेव भवेत् यदहम् अद्यापि भगवतः न जातः। यः भगवदिच्छया व्यवहरति तस्य सर्वं साधु भवति। भगवान् यथा स्थापयति तथा समाधानं मननीयम्। भगवद्रूपमानन्दमयं वर्तते। सृष्टिक्रमः अपि मनुष्यम् आनन्दं प्रापयति। अत्यन्तं दरिद्रः अपि क्वचिद् आनन्दं लभते। आनन्दं विना मनुष्यस्य जीवनमसम्भवम्। मूलतः अहमानन्दरूपः परं दुःखं कुतः आगतम्? अहं दुःखं लभे यतो हि मम क्वचित् प्रमादो भवति। मम प्रमादः जातः वा न इति शङ्कापि मुक्तजनाय नायाति यतो हि सः देवः च एकरूपौ। बद्धः अपि न शङ्कायते यतो हि सः देवं न जानाति। ‘सर्वमहमेव करोमि देवः तु नास्ति एव।’इति सः वदति। मुमुक्षोः तु सिषाधयिषा वर्तते। तस्यां तीव्रतायां सति सत्पुरुषाः मिलन्ति। किञ्चित् पूर्वसञ्चितं विना एषा सिषाधयिषा न लभ्यते। सत्पुरुषीयः भूत्वा स्थातव्यम्। तथा चेद् न कोपि मामकः इति मन्तव्यम्। सत्पुरुषीयत्वमित्युक्ते तेषामाज्ञया वर्तनीयम्। यथाज्ञापयन्ति तथा करणीयम्। ते यथा व्यवहरन्ति तथा न वर्तनीयम्। सत्यस्य सङ्गः क्रियते चेत् सत्सङ्गतिः लभ्यते। कामपि आसक्तिं विना जगति व्यवहारः एव मुक्तानां लक्षणम्। इच्छा विलीयते चेद् दुःखस्य कारणमेव न अवशिष्यते। यत्र भवन्तः निवसन्ति तत्र सद्गुरुः वर्तते इति भवन्तः मन्यन्ते समाधानं लभन्ते च एषा एव तेषां वास्तवा कृपा। श्रद्धया यत् कार्यं भवति तत् तपसा न भवति। स्वगुरुणा कथितस्य अनुवर्तनम् एव अस्माकं परमार्थः इति मन्तव्यः। गुरुः साक्षात् परमात्मा। तस्याज्ञापालनम् एव अस्माकं तपश्चर्या। इतोऽपि भिन्नं किमपि करणस्यापेक्षा न मन्तव्या। मम मनोविकाराः न नश्यन्ति इति साधुजनाः अपि मन्यन्ते। ते ‘न नश्यन्ति न नश्यन्ति’ इति पुनःपुनः उच्चारणेन तेषां निदिध्यासेन च ते वर्धिष्यन्ते एव। तत्र नावधातव्यम्। स्वनामस्मरणकार्यमेव सततं करणीयम्। तेन विकाराः सहजं विलीष्यन्ते।देहः मनः न अनुधावेद्इति केवलंकल्पनीयम्।

      • सत्पुरुषाज्ञाप्रमाणमेव प्रचीतिसाधनम्।***

एप्रिल 25 – सत्पुरुषाः अस्माकं सम्बन्धं भगवता सह योजयन्ति। अस्माकं हृदयं विषयेन एतावद् व्यापृतं वर्तते यत् तत्र भगवत्प्रेम्णे स्थानमेव न विद्यते। अस्तु, भगवत्प्रेम तस्मिन् बलेन पूरयामः चेत् तत् अन्त:न गत्वा बहिः एव आयाति वाय्वा डीयमानं गच्छति च। वस्तुभिः परिपूर्ण-प्रकोष्ठवद् अस्माकं हृदयं जातमस्ति। अस्य हृदयस्य भगवता सह सम्बन्धं योजयितुं हृदये विद्यमानानि वस्तुनि इत्युक्ते विषयान् अपाकृत्य तत्स्थाने भगवत्प्रेम पूरणीयं भवेत्। सामान्यतः अस्माकम् अनुभवः वर्तते यत् किमपि वस्तु बहुप्रमाणेन पौनःपुन्येन च लभ्यते चेत् तस्य विषये मनसि जिहासा उत्पद्यते। अतः किमपि वस्तु कियदपि लभ्येत परं जिहासा नोत्पद्येत, तथा तद् लभ्येत्। एतादृशम् एकमेव वस्तु विद्यते यन्नाम भगवान्। राज्ञा काचिद् मुद्रा कृता अतिप्रामाणिकाय जनाय दत्ता च। तथैव भगवता स्वनाम सत्पुरुषेभ्यः दत्तम्। तेन सत्पुरुषाः यत् कुर्वन्ति तस्य समर्थनं भगवता करणीयमेव भवति। अस्मत्-सत्पुरुषयोर्मध्ये मनुष्यदृष्ट्या न कोपि भेदः। भेदमात्रम् एव यत् सत्पुरुषाः यथा वदन्ति तथा व्यवहरन्ति। वयं साधु वदामः परं विपरीतं व्यवहरामः। अस्माकं स्वार्थे कश्चन विक्षेपं करोति चेद् वयं अपशब्दान् वदामः। यस्मिन् वयं प्रीणीमः तस्मिन् कश्चन अन्यः प्रीणाति चेद् वयं तं निन्दामः। केवलं नीतितत्वकथने वयं सम्यक् वदामः किन्तु व्यवहारे विपरीतं वर्तामहे। अतः एतादृशीं कृतिं कुर्मः ययावयं तदनुरूपम् अनन्तरं वक्तुं शक्नुमः। याने उपवेष्टुमानन्दः अतः कोपि याने न उपविशति परं गन्तव्यस्थानं गन्तुमेव वयं याने उपविशामः। तथैव महद्भि: सत्पुरुषैः प्रपञ्चः कृतः खलु, परं सुखार्थं न। स्ववृत्तितः अस्खलन्तः ते इतरान् तारितवन्तः। निमज्जन्तं जनं यथा रज्ज्वा: आधारं दद्मः तथा सत्पुरुषाः अस्मभ्यं परमात्मनः आधारं दत्तवन्तः। चन्दनवृक्षसमीपस्थवृक्षाः यथा चन्दनगन्धं लभन्ते तथैव सत्पुरुषसन्निकर्षे जनः सत्पुरुषः एव भवति। विनाकष्टं परमार्थलाभः एव सत्सङ्गत्याः महत्त्वम्।

      • वयम् एतावत् प्रपञ्चस्य अन्त: गच्छामः यत् सत्पुरुषाणामाह्वानं न श्रूयते एव। तत् श्रोतुं शक्यं तावदेव अन्तरं भवेत्।***

एप्रिल 26 – सत्पुरुषैः एवभगवान् सगुणत्वे आनीत:। सर्वासु अर्पणभक्तिः श्रेष्ठा। पूजासमये ‘अहं भवतः दासः’ इति वक्तव्यम्। तेन प्रेम लभते। अत्र लज्जास्पदं किमपि नास्ति। आदौ भगवतः दास:भवेत् अनन्तरं पूजां कुर्यात्। वयम् अन्येषां बहूनां दासाः भवामः, अनन्तरम् अवशिष्टं चेद् भगवद्दासा: भवामः। तेन पूजायाम् अर्पणभक्तिः कथं लभ्येत? यद् अस्मभ्यं रोचते तद् मनसा भगवते अर्पणीयम्। अत्र सर्वमपि मनसा करणीयं वर्तते। शरीरमात्रेण बहून् परिश्रमान् कुर्मः चेत् प्रेम लभ्येदेव इति न। चित्ते विषयं प्रति आसक्तिं संस्थाप्य भगवत्सेवाकरणमित्युक्ते कार्यपराङ्मुखता भवेत्। तथा न करणीयम्। भगवति मनः संयोजयितुं सगुणोपासना उत्तमा। सर्वे जनाः येनकेनापि प्रकारेण सगुणमेव उपासन्ते। निश्चितः समयः निश्चितं साधनं च भवति चेत् प्रेम लभते। यम् उपास्महे सोऽपि सगुणः एव ननु? अतः तस्य अपि अभ्यासः भवति। यं विग्रहं वयम् उपास्महे तस्य तेज: वर्धते एव। यस्य विग्रहस्य उपासना केनचित् सत्पुरुषेण कृता तस्मिन् भृशं तेजः वर्तते, दीर्घकालपर्यन्तं तद् अवशिष्यते च। अपि च इतरजनानां कृते तद् उपयुक्तं च। जगतः वास्तवं स्वरूपं ज्ञातुं सगुणोपासना एव अपेक्ष्यते। सर्वान् भोगान् भुञ्जामहेपरम् अस्माकंचिन्ता न भवेत् इति एव उपासनायाः रहस्यम्। उपासनायाः तेजः चकासनीयमेव। इदं तेजः बहु विलक्षणम्। धनस्य वैदुष्यस्य वा तथा न भवितुमर्हति। यस्य उपासनायाः बलं वर्तते सः एव जगति महत्कार्यं करोति। काचित् महिला नेत्रे निमेल्य उपविष्टा चेत् तया काचिद् देवी दृश्यते स्म। देवी तया सह सम्भाषते स्म। प्रपञ्चे कथं व्यवहरणीयमिति कथयति स्म। ध्यानं तया त्यक्तम्। अतः देवीदर्शनं नष्टं जातम्। तद्वत् कस्मिंश्चित् बालके नेत्रे निमेल्य उपविष्टे सति सः श्वेतश्मश्रुयुतं मुनिं पश्यति स्म। परं यदा तेन ध्यानं त्यक्तं तदा सः श्मश्रुवान् अदृश्यः जात:। एतस्य एषः एव अर्थः यद् अस्माकं पालिकाः शक्तय: अस्माकं पृष्ठतः सन्ति। तासामुपासना अस्माभिः न त्यक्तव्या। भगवान् सगुणत्वे आनीत: इति सत्पुरुषाणाम् अस्मासु महान् उपकारः। सत्पुरुषाः अस्मान् अकथयन्, “एषः दृश्यमानः विग्रहः भवतः। भवतः इच्छानुगुणं सर्वेषां वस्तूनां दाता सः भगवान् एव।” इदं भानं कल्पना च आत्मनि वर्धते चेत् तेन ‘भगवान् दाता वर्तते’ इति भानम् उत्पद्येत। भगवान् दाता वर्तते, सः मम पृष्ठतः वर्तते, सः मम सुखस्य आधारः, सः मम कल्याणकर्ताच इति एतद् भानं विद्यते चेद् यत् प्राप्तं तद् भगवदिच्छया एव प्राप्तम् इति भावनया विद्यमानायां परिस्थित्यां समाधानं चिरं भवेत्।

      • आनन्दरूपं परमात्मानं लब्धुं सगुणोपासना अपेक्ष्यते।****

एप्रिल 27 – नामधारकेण परिहर्तव्याः विषयाः। अस्माकं विचाराः स्वार्थिनः न भवेयुः। स्वार्थे अभिमानः नित्यजागरितः। स्वार्थिनः जनस्य जगति सुखप्राप्तिः कदापि न शक्या। नीतिबन्धनानि पालयन्तु। परस्त्रीं मातृवत् मन्यन्ताम्। प्रपञ्चे एकपत्नीव्रतस्थाः जनाः ब्रह्मचारिणः एव। परद्रव्याभिलाषः मास्तु। सः तु विष्ठावदेव इति मन्यन्ताम्। परद्रव्यस्य अभिलाषेण अस्माकं कियान् घातः भवेत् इत्यस्य कल्पना एव पर्याप्ता। परस्त्री परद्रव्यं परनिन्दा च अत्यन्ताः त्याज्याः विषयाः। परनिन्दया वयमस्माकमेव घातं कुर्मः। परनिन्दायाम् अन्येषां दोषाणां चिन्तनेन अस्मान् एव ते दोषाः प्रविशन्ति। एतान् सर्वान् विषयान् स्ववगत्य भवन्तः नामस्मरणं कुर्वन्तु। निश्चयेन भवन्तः नामप्रेम लभन्ते। एतेषु सर्वेषु क्रियमाणेषु मातृपितॄणां दारापुत्राणां च विषये कर्तव्यं न परिसारणीयम्, न तु कर्तव्ये आसक्तिः भवेत्। प्रतिफलापेक्षां विना कृतं कर्म कर्तव्यमेव। तत् कर्तव्यं कृत्वा नीतिधर्मेण व्यवहृत्य स्वप्रपञ्चं कुर्वन्तु, भगवन्तं स्मरन्तु च।तेन भवतां प्रपञ्चः परमार्थरूपः भवेत् भगवत्प्रेम लभ्येत च इति मयि विश्वसन्तु। प्रपञ्चः लवणसदृशः वर्तते। रोटिकायां लवणं कियत् स्थापनीयम्? अत्यल्पम्। केवलं रुच्यर्थम्। परं वयं लवणस्य रोटिकां कुर्मः,तस्मिन् परमार्थस्य मुच्चुटिमितं लवणं स्थापयामः। तेन रोटिकां भोक्तुं शक्नुमः किम्?वास्तवं समाधानं लब्ध्वा मनुष्यः क्रीडासमं प्रपञ्चं करोति। तत्र उपरि आरूढः अधः पतितः वा तस्य समानमेव। अन्येन आघातः कृतः चेद् एषः अपि आघातं कुर्यात् परम् एतस्य जयापजयस्य चिन्ता न भवति। प्रपञ्चे नैकानि वस्तूनि सन्ति, परं भगवत्समीपे एकमेव वस्तु वर्तते। प्रपञ्चे कियन्ति अपि वस्तूनि आनयामश्चेद् तानि पर्याप्तानि न भवन्ति। यतो हि एकस्य वस्तुनः प्राप्त्याम् अपरस्य वस्तुनः आकाङ्क्षाबीजं निहितं वर्तते। परं भगवतः न तथा अस्ति। भगवद्वस्तु एकवारमानयामश्चेत् पुनः नापेक्ष्यते। चिन्तयन्तु, कस्मिञ्श्चिद् आपणे बहूनि वस्तूनि पूरितानि सन्ति। अस्माभिः अपेक्षितं वस्तु तत्र न वर्तते। इत्युक्ते अस्माकं दृष्ट्या तत्र किमपि न वर्तते। तद्वत् सर्वविधासु मनःशक्तीषु सतीषु अपि यदि भगवान् तत्र नास्ति तर्हि तासाम् अस्तित्वं नास्तित्वं वा समानमेव मन्तव्यम्। परमात्मानं प्रपञ्चरूपम् अकृत्वा प्रपञ्चं परमात्मरूपं कुर्याम। अस्मिन्नेव जन्मनः सार्थक्यं विद्यते।

      • परमार्थे अहंकारः मेलितः चेत् सः प्रपञ्चः एव। प्रपञ्चात् अहंकारः अपाकृतः चेत् स परमार्थः एव।****

एप्रिल 28 – सत्या सिषाधयिषा वर्तते चेत् सत्पुरुषः लभ्यते। असत्पुरुषस्य प्रेम यदा नश्येत् तदा एव सत्पुरुषप्राप्तेः इच्छा भवेत्। विषयाः अस्मान् पीडयन्ति परं तेषां परिहरणं वयं न जानीमः। अरण्ये निगृहीतेन जनेन सदृशी अस्माकं स्थितिः वर्तते। ‘अहं मार्गच्युतः’ इति ज्ञाते सति अरण्यात् बहिर्गन्तुं मार्गं सः पृच्छति। ‘ अधुना आयुः समाप्यमानम्। कालः समागतः। ‘हे राम, त्वमेव त्रायस्व’ इति आर्तता वर्तते चेदेव सत्पुरुषसङ्गः लभ्येत। ‘सत्सङ्गम् इच्छामि’ इति वदामः खलु परं याचामहे असदेव। तदनु सत्सङ्गः कथं लभ्येत?आत्मा कथं विस्मरणीय: इति अवगन्तुम् एव सत्पुरुष: शरणं गन्तव्य:। आत्मनः विस्मरणमित्युक्ते भगवतः विस्मरणम्। ‘तातः दूरं वर्तते तस्य पत्रं नागतम्’ इत्यर्थं चिन्तां कुर्मः। भगवान् तु जन्मतः दूरे वर्तते तस्य सिषाधयिषां किमर्थं न लभामहे? वयं नामस्मरणं कुर्मः परं यस्य नाम जपामः सः कः इति चिन्तयामः किम्? विषयत्यागं विना रामः कथं लभ्येत? रामः लभ्येत विषयः अपि लभ्येत इति कथं भवितुमर्हति? यावत् सन्दञ्शं (अर्थो न ज्ञायते) जानीमः तावत् कर्ममार्गेण एव गन्तव्यम्। कर्ममार्गेण गमने ‘नाहं कर्ता’ इति भावरक्षणमपेक्ष्यते। यः वास्तवः अनुभवी सः न वदेदेव। वदेत् चेदपि अत्यल्पम्। सः उत्तमः। अनुभवी परं पर्यायः नास्ति इति मत्वा यः वदति सः किञ्चित् अधःस्तरीयः। ‘भाषणेन विना जनाः कथं जानीयुः?’ इति विचिन्त्य केचन कनीयस्त्वं स्वीकृत्य अपि बहु भणन्ति परं विना अनुभवं शब्दपाण्डित्यं कुर्वाणाः अति अधःस्तरीयाः जनाः। स्वल्पानुभविनः शब्दपाण्डित्यं बहु कुर्वन्ति। यः जगत् न वञ्चयति स्वयं अपि न वञ्चति सः एव जगत् सन्मार्गं नेतुं शक्नुयात्। नैके सत्पुरुषाः पाषाणखण्डैः ताडयन्ति, अपशब्दान् वदन्ति च। तथापि जनाः तान् अनुधावन्ति। यतो हि तेषाम् अपशब्दाः अपि आशीर्वादसदृशाः वर्तन्ते। बहवाः इदं नावगच्छन्ति। कश्चन पुत्रः तातं वदति, ‘अहम् एतावत् समीपम्, परं मह्यं ताडनं, सः दूरस्थः बालकः परं तस्मै लालनम्’! तत् ताडनमेव स्वहिताय वर्तते इति सः न जानाति। सत्पुरुषाणां भाषणे ताडने वा दुष्टबुद्धिः न वर्तते। सत्पुरुषाः जगत्कल्याणाय एव वदन्ति। सत्पुरुषाः निस्स्वार्था: सन्ति। आर्ततया ते कथयन्ति। अस्माभिः श्रद्धया श्रोतव्यम्। तेषां कथनस्य सत्यः अर्थः आचरणेन एव ज्ञायेत।

** सत्पुरुषाणां सङ्गे अस्माकं कर्तृत्वं विलीयते। ***

एप्रिल 29 – धनस्य आसक्तिः न भवेत्। कामवासना धनं च परमार्थाय घातकौ। परं यदि मां कोपि पृच्छति, ‘द्वयोर्मध्ये घातकतरं किम्?’तर्हि अहं वदिष्यामि यद्धनम् अधिकतरं हानिकरं विद्यते। धनेन भगवन्निष्ठा अत्यधिकं न्यूनीक्रियते। वयं सत्पात्राणिअतः किं भगवान् अस्मभ्यं धनं ददाति? अतः भिक्षुकाय नाणकदानसमये वृथा वादः न करणीयः। तथा करणमित्युक्ते किमपि न दानस्य बुद्धिः।कश्चन त्यागी जनः सर्वं दद्यात् परं स्वं न दद्यात्। स्वं दत्त्वा सर्वं रक्षितं तर्हि अनुमतं परं सर्वं दत्त्वा स्वं रक्षितं तर्हि अयोग्यं जातम्। इत्युक्ते अहम् अददम् इति भावः अवशिष्टः तर्हि सर्वदानं वृथा गतम्। मुख्यं यद् वासना नश्येत् तेन एव सुखं लभ्येत। देहम् अधिष्ठानं मत्वा भवनं निर्मामः चेद् भवनं दृढं कथं भवेत्? वयं देहः मम इति वदामः परं ज्वरस्य उद्भवनं अनुद्भवनं, व्रणस्य भवनं अभवनं च अस्माकं नियन्त्रणे वर्तते किम्?अहम् आत्मानं रक्षामि इति वदामः परं मार्गे घट्टनेन पतामः चेद् इतरजनैः गृहम् आनयनं भवति। जीवनं कियत्पराधीनंवर्तते! देहेन कियदपि कार्यं कृतं चेत् तत् शिखरं गन्तुं न शक्नोति। अभिमानेन कृतं कार्यं शिखऱं कथं गच्छेत्? केवलं भगवदिच्छया कृतं कार्यमेव पूर्णत्वं प्राप्नोति। समर्थरामदासैः देहबुद्धिं विनाश्य श्रीरामाधिष्ठाने कार्यं कृतम्। अतः ते एतावत् कार्यं कृतवन्तः। यः भगवतः जातः तस्यैव कार्यं पूर्णायते। सः एव वास्तवं समाधानं लभते। राजपुत्राः अपि भिक्षुकाः भवन्ति। तदनु मया धनस्य गर्वः कथं करणीयः? धनेन प्रेम बाध्यते समीपस्थाः आप्तजनाः अपि दूरीभवन्ति। अवितथं वदामि यद् धनलोभः मास्तु इति। इमं लोभं नाशयितुं उपायः सत्समागमः। वास्तवाः सत्पुरुषाः साम्प्रतं क्व वर्तते इति वयं वदामः परं सत्पुरुषेण मिलेयमिति आर्तता अस्माकं हृदये वर्तते किम्? सत्पुरुषे सत्पुरुषत्वं न दृश्यते यतो हि अस्माकं हृदये सिषाधयिषा न विद्यते। सत्ययुगे यः रामः आसीत् सः अद्यापि विद्यते परं मम भावः एव न्यूनः जातः। तदर्थं किं करणीयम्? सत्पुरुषे मिथ्याचारम् आक्षिपामः परम् अस्माकं भावः न शुद्धः इति न जानीमः। विषये अस्माकमिच्छानुगुणं सुखं न प्राप्नुमः अतः सत्पुरुषं गच्छामः। परं सत्पुरुषाय स्वात्मानं अर्पितुं कतिचन जनाः गच्छन्ति? देवस्य कृते देवं गन्तारः कति भवितुमर्हन्ति?

      • मनसा ‘अहं रामस्य’ इति भावः कल्पनीयः।***