ऋग्वेदवेदाङ्गज्योतिषम्

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् ।
दिनर्त्वयनम् आसाङ्गं प्रणम्य शिरसा शुचिः ॥ १

प्रणम्य शिरसा कालम् अभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २

ज्योतिषाम् अयनं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥ ३

निरेकं द्वादशार्धाब्दं द्विगुणं गतसंज्ञिकम् ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिर् उच्यते ॥ ४

स्वर् आक्रमेते सोमार्कौ यदा साकं सवासवौ ।
स्यात् तदादि युगं माघस्तपः शुक्लोऽयनं ह्य् उदक् ॥ ५

प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसाव् उदक् ।
सार्पार्धे दक्षिणार्कस् तु माघश्रावणयोः सदा ॥ ६

घर्मवृद्धिर् अपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ७

द्विगुणं सप्तमं चाहुर् अयनाद्यं त्रयोदशम् ।
चतुर्थं दशमं च द्विर्युग्माद्यं बहुलेऽप्य् ऋतौ ॥ ८

वसुस् त्वष्टा भवोऽजश् च मित्रः सर्पाश्विनौ जलम् ।
धाता कश् चायनाद्याश् चार्थपञ्चमभस् त्व् ऋतुः ॥ ९

भांशाः स्युर् अष्टकाः कार्याः पक्षद्वादशकोद्गताः ।
एकादशगुणश् चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १०

कार्या भांशाष्टकस्थाने कला एकान्नविंशतिः ।
ऊनस्थाने त्रिसप्ततिम् उद्वपेद् ऊनसंमिताः ॥ ११

त्र्यंशो भशेषो दिवसांशभागश् चतुर्दशश् चाप्य् अनीय भिन्नम् ।
भार्धेऽधिके चापि गते परोऽंशो द्वाव् उत्तमैकं प्नवकैरवेद्यम् ॥ १२

पक्षात् पञ्चदशाच् चोर्ध्वं तद्भुक्तम् इति निर्दिशेत् ।
नवभिस् तूद्गतोऽंशः स्याद् ऊनांशद्व्यधिकेन तु ॥ १३

जौ द्रा घः खे श्वेऽही रो षा चिन् मू ष ण्यः सू मा धा णः ।
रे मृ घ्राः स्वाऽपोऽजः कृ ष्यो ह ज्ये ष्ठा इत्तृक्षा लिङ्गैः ॥ १४

जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्वसूत्तरे ।
भादानं स्यात् चतुर्दश्यां काष्ठानां देविना कलाः ॥ १५

कला दश सविंशा स्यात् द्वे मुहूर्तस्य नाडिके ।
द्युत्रिंशत् तत्कलानां तु षट्छती त्र्यधिकं भवेत् ॥ १६

नाडिके द्वे मुहूर्तस् तु पञ्चाशत्पलम् आढकम् ।
आढकात् कुम्भको द्रोणः कुटपैर् वर्धते त्रिभिः ॥ १७

ससप्तकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश ।
नवभानि च पञ्चाह्नः काष्ठाः पञ्चाक्षराः स्मृताः ॥ १८

श्रविष्ठायां गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् ।
स्तर्यान् मासान् षडभ्यस्तान् विद्याच् चान्द्रमसान् ऋतुन् ॥ १९

अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् ।
तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥ २०

याः पर्वभादानकलास् तासु सप्तगुणां तिथिम् ।
प्रक्षिपेत् तत्समूहस् तु विद्याद् आदानिकीः कलाः ॥ २१

यद् उत्तरस्यायनतो गतं स्याच् छेषं तु यद् दक्षिणतोऽयनस्य ।
तद् एकषष्ट्या द्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ २२

यद् अर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद् विद्यात् संख्याय सहपर्वणाम् ॥ २३

इत्य् उपायसमुद्देशो भूयोऽप्य् अह्नः प्रकल्पयेत् ।
ज्ञेयराशिगताभ्यस्तं विभजेत् ज्ञानराशिना ॥ २४

अग्निः प्रजापतिः सोमो रुद्रोऽदितिर् बृहस्पतिः ।
सर्पाश् च पितरश् चैव भगश् चैवार्यमापि च ॥ २५

सविता त्वष्टाथ वायुश् चेन्द्राग्नी मित्र एव च ।
इन्द्रो निऋर्तिर् आपो वै विश्वेदेवास् तथैव च ॥ २६

विष्नुर् वसवो वरुणोऽज एकपात् तथैव च ।
अहिर्बुध्न्यस् तथा पूषा अश्विनौ यम एव च ॥ २७

नक्षत्रदेवता एता एताभिर् यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर् नाम नक्षत्रजं स्मृतम् ॥ २८

इत्य् एवं मासवर्षाणां मुहूर्तोदयपर्वणाम् ।
दिनर्त्वयनम् आसाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥ २९

सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ।
सोमसूर्यस्तृचरितं विद्वान् वेदविद् अश्नुते ॥ ३०

विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् ।
यल् लब्धं तानि पर्वाणि तथार्धं सा तिथिर् भवेत् ॥ ३१

माघशुक्लप्रवृत्तस्य पौषकृष्नसमापिनः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२

तृतीयां नवमीं चैव पौर्णमासीम् अथासिते ।
षष्ठीं च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥ ३३

चतुर्दशीम् उपवसथस् तथा भवेद् यथोदितो दिनम् उपैति चन्द्रमाः ।
माघशुक्लाह्निको युङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४

यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥ ३५

वाह्यसूत्राणि[सम्पाद्यताम्]

  • यहाँ से लिया और Sanscript द्वारा IAST से यूनिकोड में परिवर्तित किया।