सामग्री पर जाएँ

ऋग्वेदः खिलसूक्तानि/अध्यायः ५

विकिस्रोतः तः

(V अध्याय, अनुक्रमणी)
ओम् < संज्ञानम् > पञ्च कश्यपस् संज्ञानश् शम्युर् उत्तमा साशीश् शक्वरी सर्वत्र < नैर्हस्त्यम् > तृचम् निर्हस्त्य सपत्नघ्नम् सेना दरणम् आनुष्टुभम् बृहती मध्यम् < प्र > सप्त कश्यपो जमदग्निर् उत्तमा शम्युर् आद्याग्नेयी गायत्री द्वितीयोपोत्तमाशीः पाङ्क्त्यम् तृतीयाक्षर स्तुतिस् सानुष्टुप् चतुर्थी सौमी पञ्चमी सौरी < विदा > दश पादाश् च पञ्च विश्वामित्रेन्द्रो वा प्रजापतिर् ऐन्द्रम् पावनम् आनुष्टुभम् पुरीष पदान्य् आग्नेय वैष्नवाइन्
द्र पौष्ण दैवानि वैराजानि द्वितीया पञ्चम्याव् उष्णिहौ चतुर्थी न्यङ्कुसारिणी सप्तमी पुरस्ताद् बृहती नवम्य् अन्त्ये पङ्क्ती < अग्निर् > एकादश लिङ्गोक्त देवतम् यजूंषि
< वायुस् > सप्त प्रउगेणोक्त दैवतम् गायत्रम् षष्ठी शक्वरी याजुषाणि पञ्च < होता > द्वादश वसिष्ठो वा प्रैष सूक्तान्य् आद्यम् आप्रियम् परम् लिङ्गोक्त देवतम् अनिरुक्तम् स्वयज्ञोक्त देवतम् अन्यत् प्रोक्तम् < अजैद् > एकादश सप्तमी नवम्यौ त्रिष्टुभौ < देवम् होता > अष्टादश < होता > द्वादश < इदम् > तृचम् वसिष्ठ वामदेवौ कुन्तापौ द्विबृहत्याव् अनुष्टुब् < वच्यस्वर् > आनुष्टुब् अन्तम् राज्ञश् चतुष्कम् < इन्द्रः > पङ्क्त्य् अन्तम् < यः > पञ्च < यष् षड्
 यत् > पञ्चैता द्व्यूनाइतशो मुनिष् षष्ट्य् अष्टम्याव् उष्णुहाव् अन्त्या द्विपदा यजूंषि वा चत्वारि
< विततौ > षड् आनुष्टुभम् < इहेत्थ > चतुष्कम् द्विपदम् < भुग् > एकपादा निचृद् < वि > इमेऽनुष्टुब् < आदित्याः > पञ्च जगती त्रिष्टुब् उपरिष्टाद् बृहती पुरस्ताद् बृहती द्विपदा यजुर् वा < त्वम् > तृचम् आनुष्टुभम् तु < यद् > दश होतृ प्रतिगरित्रोस् संवादो नाक पृत्सु जगत्य् आद्या जगत्य् आद्या ॥

5.1
संज्ञानम् उशनावदत् संज्ञानम् वरुणो वदत् ।
संज्ञामम् इन्द्रश् चाग्निश् च संज्ञानम् सविता वदत् ।१
संज्ञानम् नस् स्वेभ्यस् संज्ञानम् अरणेभ्यः ।
संज्ञानम् आश्विन युवम् इहास्मासु नियच्छताम् ।२
यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनम् ।३
सम् वो मनांसि जानताम् सम् आकूतिम् मनामसि ।
असौ यो विमना जनस् तम् समावर्तयामसि । ४
तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥५(प् १३२)
5.2
नैर्हस्त्यम् सेना दरणम् परि वर्त्मेव यद्द् हविः ।
तेनामित्राणाम् बाहून् हविषा शोषयामसि ।१
परि वर्त्मान्य् एषाम् इन्द्रः पूषा च चक्रतुः ।
तेषाम् वो अग्नि दग्धानाम् अग्नि गूढानाम् इन्द्रो हन्तु वरम् वरम् ।२
ऐषु नह्य विषादनम् हरिणस्य धियम् यथा ।
परान् अमित्रान् ऐषत्व् अर्वाची गौर् उपेजतु ॥३२
5.3
प्राध्वराणाम् पते वसो होतर् वरेण्य क्रतो ।
तुभ्यम् गायत्रम् ऋच्यते ।१
गो कामो अन्न कामः प्रजा कामोत कश्यपः ।
भूतम् भविष्यत् प्रस्तौति महद् ब्रह्मैकम् अक्षरम् बहु ब्रह्मैकम् अक्षरम् ।२
यद् अक्षरम् भूतकृतो विश्वे देवोपासते ।
महर्षिम् अस्य गोप्तारम् जमदग्निम् अकुर्वत ।३
जमदग्निर् आप्यायते छन्दोभिश् चतुर् उत्तरैः ।(प् १३३)
राज्ञस् सोमस्य भक्षेण ब्रह्मणा वीर्यवताम् शिवा नः प्रदिशो दिशः । ४
अजो यत् तेजो ददृशे शुक्रम् ज्योतिः परो गुहा ।
तद् ऋषिः कश्यप स्तौति सत्यम् ब्रह्म चराचरम् ध्रुवम् ब्रह्म चराचरम् ।५
त्र्यायुषम् जमदग्नेः कश्यपस्य त्र्यायुषम् ।
अगस्त्यस्य त्र्यायुषम् यद् देवानाम् त्र्यायुषम् तन् नो अस्तु त्र्यायुषम् ।६
तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥७३
5.4
विदा मघवन् विदा गातुम् अनु शंसिषो दिशः ।
शिक्षा शचीनाम् पते पूर्वीणाम् पुरूवसो ।१(प् १३४)
आभिष् ट्वम् अभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय नेषैवा हि शक्रः ।२
राये वाजाय वज्रिवश् शविष्ठ वज्रिन् ऋञ्जसे ।
मन्हिष्ठ वज्रिन् ऋञ्जसायाहि पिब मत्स्व । ३
विदा राये सुवीर्यम् भुवो वाजानाम् पतिर् वशाम् अनु ।
मन्हिष्ठ वज्रिन् ऋञ्जसे यश् शविष्ठस् शूराणाम् ।४
यो मन्हिष्ठो मघोनाम् चिकित्वो अभि नो नय ।
इन्द्रो विदे तम् उ स्तुषे वशी हि शक्रः ॥५
तम् ऊतये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् क्रतुश् छन्दर्तम् बृहत् ।६
इन्द्रम् धनस्य सातये हवामहे जेतारम् अपराजितम् ।
स नः पर्षद् अतिद्विषस् स नः पर्षद् अतिस्रिधः ।७
पूर्वस्य यत् तेऽद्रिवस् सुम्नाधेहि नो वसो ।
पूर्तिश् शविष्ठ शश्वतेशे हि शक्रः ।८
नूनम् तम् नव्यम् मन्यसे प्रभो जनस्य वृत्रहन् ।
सम् अन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥९
एवा ह्य् एवैवा ह्य् अग्ने ।एवा ह्य् एवैवा हि विष्णो ।
एवा ह्य् एवैवा हीन्द्र ।एवा ह्य् एवैवा हि पूषन् ।
एवा ह्य् एवैवा हि देवाः । १०
एवा हि शक्रो वशी हि शक्रो वशाम् अनु ।
आयो मन्याय मन्यवोपो मन्याय मन्यवोपेहि विश्वथ ॥११(प् १३५)


ऋतुग्रहप्रचारः
ऋतुग्रहः


निविदध्यायः

५,५ १
अग्निर् देवेद्धः ।
अग्निर् मन्व् इद्ध ।
अग्निस् सुषमित् ।
होता देव वृतः ।
होता मनु वृतः ।
प्रणीर् यज्ञानाम् ।
रथीर् अध्वराणाम् ।
अतूर्तो होता ।
तूर्णिर् हव्यवाट् ।
आ देवो देवान् वक्षत् ।
यक्षद् अग्निर् देवो देवान् ।
सो अध्वरा करति जातवेदाः ॥७
५,५ २
इन्द्रो मरुत्वान् सोमस्य पिबतु ।
मरुत् स्तोत्रो मरुद् गणः ।
मरुत् सखा मरुद् वृधः ।
घ्नन् वृत्रा सृजद् अपः ।
मरुताम् ओजसा सह ।
येम् एनम् देवान्वमदन् ।
अप् तूर्ये वृत्र तूर्ये ।
शम्बर हत्ये गविष्ठौ ।
अर्चन्तम् गुह्या पदा ।
परमस्याम् परावति ।
आद् ईम् ब्रह्माणि वर्धयन् ।
अनाधृष्टान्य् ओजसा ।
कृण्वन् देवेभ्यो दुवः ।
मरुद्भिस् सखिभिस् सह ।
इन्द्रो मरुत्वान् इह श्रवद् इह सोमस्य पिबतु ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥८
५,५ ३
इन्द्रो देवस् सोमम् पिबतु ।
एकजानाम् वीरतमः ।
भूरिजानाम् तवस्तमः ।
हर्योस् स्थाता ।
पृश्नेः प्रेता ।
वज्रस्य भर्ता ।
पुराम् भेत्ता ।
पुराम् दर्मा ।
अपाम् सृष्टा ।
अपाम् नेता ।
सत्वानाम् नेता ।
निजघ्निर् दूरेश्रवाः ।
उपमाजिकृद् दंसनावान् ।
इहोशन् देवो बहूवान् ।
इन्द्रो देवेह श्रवद् इह सोमम् पिबतु ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥९(प् १३६)
५,५ ४
सविता देवस् सोमस्य पिबतु हिरण्य पाणिस् सुजिह्वः ।
सुबाहुस् स्वङ्गुरिः ।
त्रिर् अहन् सत्य सवनः ।
यत् प्रासुवद् वसुधित्युभे जोष्ट्री सवीमनि ।
श्रेष्ठम् सावित्रम् आसुवन् ।
दोग्ध्रीन् धेनुम् ।
वोढारम् अनट्वाहम् ।
आशुम् सप्तिम् ।
जिष्णुम् रथेष्ठाम् ।
पुरन्धिम् योषाम् ।
सभेयम् युवानाम् ।
परामीवाम् साविषत् पराघशंसम् ।
सविता देवेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमाम् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१०
५,५ ५
द्यावा पृथिवी सोमस्य मत्सताम् ।
पिता च माता च ।
पुत्रश् च प्रजननम् च ।
धेनुश् चर्षभश् च ।
धन्या च धिषणा च ।
सुरेताश् च सुदुग्धा च ।
शम्भूश् च मयोभूश् च ।
ऊर्जस्वती च पयस्वती च ।
रेतोधाश् च रेतोभोऋच् च ।
द्यावा पृथिवीह श्रुताम् इह सोमस्य मत्सताम् ।
प्रेमाम् देवी देव हूतिम् अवताम् देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् स्न्वन्तम् यजमानम् अवताम् ।
चित्रे चित्राभिर् ऊतिभिः ।
श्रुताम् ब्रह्माण्य् आवसा गमताम् ॥११
५,५ ६
ऋभवो देवास् सोमस्य मत्सन् ।
विष्ट्वी स्वपसः ।
कर्मणा सुहस्ताः ।
धन्या धनिष्ठाः ।
शम्या शमिष्ठाः ।
शच्या शचिष्ठाः ।
ये धेनुम् विश्वजुवम् विश्व रूपाम् अरक्षन् ।
अरक्षन् धेनुर् अभवद् विश्व रूपी ।
अयुञ्जत हरी ।
अयुर् देवान् उप ।
अबुध्रन् सम् कनीना मदन्तः ।
संवत्सरे स्वपसो यज्ञियम् भागम् आयन् ।
ऋभवो देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमाम् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चित्राभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१२
५,५ ७
विश्वे देवास् सोमस्य मत्सन् ।
विश्वे वैश्वानराः ।
विश्वे विश्व महसः ।
महि महनतः ।
तक्वान्ना नेमधितीवानः ।
आस्क्राः पचत वाहसः ।
वातात्मानो अग्नि जूताः ।
ये द्याम् च पृथिवीम् चातस्थुः ।पश् च स्वश् च ।
ब्रह्म च क्षत्रम् च ।
बर्हिश् च वेदिम् च ।
यज्ञम् चोरु चान्तरिक्षम् ।
ये स्थ त्रयैकादशाः ।
त्रयश् च त्रिंशच् च ।
त्रयश् च त्री च शता ।
त्रयश् च त्री च सहस्रा ।
तावन्तो अभिषाचः ।तावन्तो राति षचाः ।
तावतीः पत्नीः ।
तावतीर् ग्नाः ।
तावन्तोदरणे ।
तावन्तो निवेशने ।
अतो वा देवा भूयांसस् स्थ(प् १३७) ।
मा वो देवातिशषा मा परिशसा विक्षि ।
विश्वे देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमाम् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चिताभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१३
५,५ ८
अग्निर् वैश्वानरस् सोमस्य मत्सत् ।
विश्वेषाम् देवानाम् समित् ।
अजस्रम् दैव्यम् ज्योतिः ।
यो विड्भ्यो मानुषीभ्यो दीदेत् ।
द्युषु पूर्वासु दिद्युतानः ।
अजरोषसाम् अनीके ।
आ यो द्याम् भात्य् आ पृथिवीम् ।
उर्व् अन्तरिक्षम् ।
ज्योतिषा यज्ञाय शर्म यंसत् ।
अग्निर् वैश्वानरेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमान् देवो देह हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१४
५,५ ९
मरुतो देवास् सोमस्य मत्सन् ।
सुष्टुभस् स्वर्काः ।
अर्क स्तुभो बृहद् वयसः ।
शूरानाधृष्ट रथाः ।
त्वेषासः पृश्नि मातरः ।
शुभ्रा हिरण्य खादयः ।
तवसो भन्ददिष्टयः ।
नभस्या वर्ण निर्णिजः ।
मरुतो देवेह श्रवन्न् इह सोमस्य मत्सन् ।
प्रेमान् देवा देव हूतिम् अवन्तु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवन्तु ।
चित्राश् चित्राभिर् ऊतिभिः ।
श्रवन् ब्रह्माण्य् आवसा गमन् ॥१५

५,५ १०
अग्निर् जातवेदास् सोमस्य मत्सत् ।
स्वनीकश् च चित्र भानुः ।
अप्रोषिवान् गृहपतिस् तिरस् तमांसि दर्शतः ।
घृताहवनेड्यः ।
बहुल वर्त्मास्तृत यज्वा ।
प्रतीत्या शत्रून् जेतापराजितः ।
अग्ने जातवेदो अभि द्युम्नम् अभि सहायच्छस्व ।
तुशो अप्तुशः ।
समिद्धारम् स्तोतारम् अंहसस् पाहि ।
अग्निर् जातवेदेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमाम् देवो देव हूतिम् अवतु ।
देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्र्म ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१६

५,५ ११
अस्य मदे जरितर् इन्द्रस् सोमस्य मत्सत् ।
अस्य मदे जरितर् इन्द्रो अहिम् अहम् ।
अस्य मदे जरितर् इन्द्रो वृत्रम् अहन् ।
अस्य मदे जरितर् इन्द्रो अपाम् वेगम् ऐरयत् ।
अस्य मदे जरितर् इन्द्रो जिन्वद् अजुवो पिन्वद् अजितः ।
अस्य मदे जरितर् इन्द्रोद् आर्यम् वर्णम् अतिरद् अवदासीद् विशो अस्तभ्नात् ।
अस्य मदे जरितर् इन्द्रोद् द्याम् अस्तभ्नाद् अप्रथयत् पृथिवीम् ।
अस्य मदे जरितर् इन्द्रो दिवि सूर्याम् ऐरय(प् १३८) ।
व्य् अन्तरिक्षम् अतिरत् ।
अस्य मदे जरितर् इन्द्रस् समुद्रान् प्रकुपिताम् अरम्णात् ।
अस्य मदे जरितर् इन्द्रर्श्याम् इव पम्फणतः पर्वतान् प्रकुपितान् अरम्णात् ।
अस्य मदे जरितर् इन्द्रेह श्रवद् इह सोमस्य मत्सत् ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥१७(प् १३९)
५.६
वायुर् अग्रेगा यज्ञप्रीस् साकम् गन् मनसा यज्ञम् ।
शिवो नियुद्भिश् शिवाभिः ।
हिरण्य वर्तनी नरा देवा पत्यभिष्टये ।
वायुश् चेन्द्रश् च सुमखा ।
काव्या राजाना क्रत्वा दक्षस्य दुरोणे ।
रिशादसा सधस्था ।
दैव्याध्वर्य्वागतम् रथेन सूर्य त्वचा ।
मध्वा यज्ञम् समञ्जाथे ।
इन्द्रोक्थेभिर् भन्दिष्ठो वाजानाम् च वाज पतिः ।
हरिवान् सुतानाम् सखा ।
विश्वान् देवान् हवामहेऽस्मिन् यज्ञे सुपेशसः ।
तेमम् यज्ञम् आगमन् देवासो देव्या धिया ।
जुषाणाध्वरे सदो ये यज्ञस्य तनूकृतः ।
विश्वा सोम पीतये ।
वाचा महीम् देवीम् वाचम् अस्मिन् यज्ञे सुपेशसम् ।
सरस्वतीम् हवामहे ॥१८(प् १४१)

ऋतुग्रहप्रचारः
ऋतुग्रहः


५.७.१
होता यक्षद् अग्निम् समिधा सुषमिधा समिद्धम् नाभा पृथिव्यास् संगथे वामस्य ।
वर्ष्मम् दिवेडस् पदे वेत्व् आज्यस्य होतर् यज ।
होता यक्षत् तनूनपातम् अदितेर् गर्भम् भुवनस्य गोपाम् ।
मध्वाद्य देवो देवेभ्यो देव यानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज ।
होता यक्षन् नराशंसम् नृशस्तम् नॄम्ः प्रणेत्रम् ।
गोभिर् वपावान् स्याद् वीरैश् शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निम् इडेडितो देवो देवम् आवक्षद् दूतो हव्यवाड् अमूरः ।
उपेमम् यज्ञम् उपेमाम् देवो देव हूतिम् अवतु वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् बर्हिस् सुष्टरीमोर्णम्रदास्मिन् यज्ञे वि च प्र च प्रथाम् स्वासस्थम् देवेभ्यः ।
एम् एनद् अद्य वसवो रुद्रादित्यास् सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज।
होता यक्षद् दुरर्ष्वाः कवष्यो कोष धावनीर् उद् आताभिर् जिहताम् विप्रक्षोभिश् श्रयन्ताम् ।
सुप्रायणास्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो व्यन्त्व् आज्यस्य होतर् यज ।१९
होता यक्षद् उषासा नक्ता बृहती सुपेशसा नॄम्ः पतिभ्यो योनिम् कृण्वाने ।
संस्मयमाने इन्द्रेण देवैर् एदम् बर्हिस् सीदताम् वीताम् आज्यस्य होतर् यज ।
होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा ।
स्विष्टम् अद्यान्याः करद् इषा स्वभिगूर्तम् अन्योर्जा स्वतवसेमम् यज्ञम् दिवि देवेषु धत्ताम् वीताम् आज्यस्य होतर् यज।
होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमाछिद्रम् अद्येदम् अपस् तन्वताम् ।
होता यक्षत् त्वष्टारम् अचिष्टम् अपाकम् रेतोधाम् विश्व वसम् यशोधाम् ।
पुरु रूपम् अकामकर्शनम् सुपोषः पोषैस् स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज ।(प् १४२)
होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारम् शशमन् नरः ।
स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ।
होता यक्षद् अग्निम् स्वाजाज्यस्य स्वाहा मेदसस् स्वाहा स्तोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा हव्य सूक्तीनाम् ।
स्वाहा देवाज्यपा जुषाणाग्नाज्यस्य व्यन्तु होतर् यज ॥२०

५.७.२
अजैद् अग्निर् असनद् वाजन् नि देवो देवेभ्यो हव्यवाट् ।
प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः ।
प्रतिरन्न् उपप्रेष होतर् हव्या
होता यक्षद् अग्निम् आज्यस्य जुषताम् हविर् होतर् यज ।
होता यक्षत् सोमम् आज्यस्य जुषताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ छागस्य वपाया मेदसो जुषेताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ पुरोडाशस्य जुषेताम् हविर् होतर् यज ।
होता यक्षद् अग्नीषोमौ छागस्य हविषात्ताम् अद्य मध्यतो मेदोद्भृतम् पुरा देवेषोभ्यः पुरा पौरुषेय्या गृभो घस्ताम् नूनम् घाएऽज्राणाम् यवस प्रथमानाम् सुमत्क्षराणाम् शत रुद्रियानाम् अग्निष्वात्तानाम् पीवोपवसनानाम् पार्श्वतश् श्रोणितश् शितामतोत्सादतो अङ्गाद् अङ्गाद् अवत्तानाम् करतैवाग्नीषोमौ जुषेताम् अह्विर् होतर् यज ॥२१
देवेभ्यो वनपते हवींषि हिरण्य पर्ण प्रदिवस् तेऽर्थम् ।
प्रदक्षिणिद् रशनया नियूयर्तस्य वक्षि पथिभी रजिष्ठैः ।
होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्टया रशनयाधित ।
यत्राग्नेर् आज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नीष् ओमयोश् छागस्य हविषः प्रिया धामानि यत्रा वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानाम् प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतम् प्रस्तुत्य् एवोपस्तुत्य् एवोपावस्रक्षद् रभीयाम् सम् इव कृत्वी करद् एवम् देवो वनस्पतिर् जुषताम् हविर् होतर् यज ।(प् १४३)
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ।
होता यक्षद् अग्निम् स्विष्टकृतम् अयाद् अग्निर् अग्नेर् आज्यस्य हविषः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् अग्नी षोमयोश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानाम् प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वम् महिमानम् आयजताम् एज्येषः कृणोतु सो अध्वरा जातवेदा जुषताम् हविर् होतर् यज ।
अग्निम् अद्य होतारम् अवृणीतायम् यजमानः पचन् पक्तीः पचन् पुरोडाशम् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमायाज्यम् बध्नन्न् अग्नीषोमाभ्याम् छागम् सूपस्थाद्य देवो ननस्पतिर् अभवद् अग्नयाज्येन सोमायाज्येनाग्नी षोमाभ्याम् छागेनाघत्ताम् तम् मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेताम् पुरोडाशेन त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायाम् यजमानो बहुभ्या संगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२२

५.७.३
देवम् बर्हिस् सुदेवम् देवैस् स्यात् सुवीरम् वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ।
देवीर् द्वारस् संघाते वीड्वीर् यामन् शिथिरा ध्रुवा देव हूतौ वत्सेम् एनास् तरुणामिमीयात् कुमारो वा नव जातो मैनार्वा रेणुक काटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज ।
देव्युषासा नक्ता व्य् अस्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनम् दैवीर् विशः प्रायासिष्ठाम् सुप्रीते सुधिते वसुवने वसुधेयस्य वीताम् यज ।
देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्यावक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीताम् यज ।
देव्यूर्जाहुतीषम् ऊर्जम् अन्यावक्षत् सग्धिम् सपीतिम् अन्या नवेन पूर्वम् दयमाना स्याम पुराणेन नवम् ताम् ऊर्जम् ऊर्जाहुत्यूर्जयमानेऽधाताम् वसुवने वसुधेयस्य वीताम् यज
देवा दैव्या होतारा पोतारा नेष्टारा हताघ शंसाव् आभरद् वसू वसुवने वसुधेयस्य वीताम् यज ।
देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्याम् भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमम् रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादम् मदेम वसुवने वसुधेयस्य
देवो नराशंसस् त्रिशीर्षा षडक्षश् शतम् इद् एनम् शिति पृष्ठादधति सहस्रम् ईम् प्रवहन्ति मित्रा वरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवम् वसुवने
देवो वनस्पतिर् वर्ष प्रावा घृत निर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षम् मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज ।
देवम् बर्हिर् वारितीनाम् निधेधासि प्रच्युतीनाम् अप्रच्युतम् निकाम धरणम् पुरु स्पार्हम् यशस्वद् एना बर्हिषाण्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज ।
देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायाजी होता होतुर् होतुर् आयजीवान् अग्ने यान् देवान् अयाड् याम् अपिप्रेर् ये ते होत्रेऽमत्सत ।
ससनुषीम् होत्रान् देवंगमाम् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ॥

५.७.४
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ॥२४
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ।
होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु होतर् यज ।
होता यक्षद् अग्निः पुरोडाशानां जुषताम् हविर् होतर् यज ।(प् १४५)
होता यक्षद् वायुम् अग्रेगाम् अग्रेयावानम् अग्रे सोमस्य पातारम् करद् एवम् वायुर् आवसा गमज् जुषताम् वेतु पिबतु सोमम् होतर् यज ॥२५
होता यक्षद् इन्द्र वाय्वर्हन्ता रिहाणा गव्याभिर् गोमन्ता भ्रियन्ताम् वीरस्या शुक्रयैनयोर् नियुतो गो अग्रयाणाम् वीरौ कशाश्व पुरस्तात् तासाम् इह प्रयाणम् आस्तिक विमोचनम् करतैवेन्द्र वायू जुषेताम् वीताम् पिबताम् सोमम् होतर् यज ।
होता यक्षन् मित्रा वरुणा सुक्षत्त्रा रिशादसा नि चिन् मिषन्ता निचिरा निचय्यांसाक्ष्णश् चिद् गातु वित्तरानुल्बणेन चक्षसर्तम् ऋतम् इति दीध्याना करतैवम् मित्रा वरुणा जुषेताम् वीताम् पिबेताम् सोमम् होतर् यज ।
होता यक्षद् अश्विना नासत्या दीद्यग्नी रुद्र वर्तनी न्य् अन्तरेण चक्रेण च वामीर् इषोर्जावहतम् सुवीरास् सनुतरेणानरुषो बाधेताम् मधुकशयेमम् यज्ञम् युवाना मिमिक्षताम् करतैवाश्विना जुषेताम् वीताम् पिबेताम् सोम होतर् यज ।
होता यक्षद् इन्द्रम् प्रातः प्रातस् सावस्य् अर्वावतो गमद् आ परावतोरोर् अन्तरिक्षाद् आ स्वात् सधस्थाद् इमेऽस्मै शुक्रा मधु श्चुतः प्रस्हितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज
होता यक्षद् इन्द्रम् माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारम् पातारम् श्रोतारम् हवम् आगन्तारम् अस्या धियो वितारम् सुन्वतो यजमानस्य वृधम् ओभा कुक्षि पृणताम् वार्त्रघ्नम् च माह्गोनम् चेमेऽस्मै शुक्रा मन्थिनः प्रस्थितेन्द्राय सोमास् ताम् जुषटाम् वेतु पिबतु सोमम् होतर् यज ॥२६
होता यक्षद् इन्द्रम् तृतीयस्य सवनस्यर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस् सम् अस्य मदाः प्रातस्तनाग्मत सम् माध्यंदिनास् समिदातनास् तेषाम् समुक्षितानाम् गौरेव प्रगाह्या वृषायस्वायूया बाहुभ्याम् उपयाहि हरिभ्याम् प्रप्रुथ्या शिप्रे निष्पृथ्यर्जीषिन्न् इमेऽस्मै तीव्राशीर्वन्तः प्रस्थिते प्रस्थितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
होता यक्षद् इन्द्रम् मरुत्वन्तम् इन्द्रो मरुत्वान् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
होता यक्षद् आदित्यान् प्रियान् प्रिय धाम्नः प्रिय व्रतान् महस् स्वसरस्य पतीन् उरोर् अन्तरिक्षस्याध्यक्षान् स्वादित्यम् (प् १४६)। अवोचत् तद् अस्मै सुन्वते यजमानाय करन्न् एवम् आदित्या जुषन्ताम् मन्दन्ताम् व्यन्तु पिबन्तु मन्दन्तु सोमम् होतर् यज ।
होता यक्षद् देवम् सवितारम् परामीवान् साविषत् पराघ शंसम् सुसावित्रम् असाविषत् तद् अस्मै सुन्वते यजमानाय करद् एवम् देवस् सविता जुषताम् मन्दताम् वेतु पिबतु सोमम् होतर् यज ।
अग्निम् अद्य होतारम् अवृणीतायम् सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोडाशान् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमा याज्यम् बध्नन्न् अङ्गये छागम् सुन्वन्न् इन्द्राय सोम भृज्ज हरिभ्याम् धानास् सूपस्थाद्य देवो वनस्पतिर् अभवद् अग्नये आज्येन सोमायाज्येनाग्नये छागेनेन्द्राय सोमेन हरिभ्याम् धानाभिर् अघत्तम्।
मेदस्तः प्रति पचताग्रभीद् अवीवृधत पुरोडाशैर् अपाद् इन्द्रस् सोमम् गवाशिरम् यवाशिरम् तीव्रान्तम् बहुल मध्यम् उपोत्था मदा व्यश्रोद् विमदाम् आनड् अवीवृधताङ्गूषैस् त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायन् सुन्वन् यजमानो बहुभ्यासंगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२७
धाना सोमानाम् इन्द्राद्द् हि च पिब च बब्धान् ते हरी धानोपर्जीषम् जिघ्रताम् आ रथ चर्षणे सिञ्चस्व यत् त्वा पृच्छाद् विषम् पत्नीः क्वामीमदथेत्य् अस्मिन् सुन्वति यजमाने तस्मै किम् अरास्थाः ।
सुष्ठु सुवीर्यम् यज्ञस्यागुरोदृचम् यद् यद् अचीकमतोत् तत् तथाभूद्द् होतर् यज ।
इह मदैव मघवन्न् इन्द्र ते श्वो वसुमतो रुद्रवतो आदित्यवतर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतश् श्वस्सुत्याम् अग्निम् इन्द्रायेन्द्राग्निभ्याम् प्रब्रूहि ।
मित्र वरुणाभ्याम् वसुभ्यो रुद्रेभ्यो आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्रह्मणेभ्यस् सोम्येभ्यस् सोमपेभ्यो ब्रह्मन् वाचम् यच्छ।
होता यक्षद् अश्विना सोमानाम् तिरो अह्न्यानाम् त्रिर् आ वर्तिर् याताम् त्रिर् अह मानयेथाम् उतो तुरीयम् नासत्या वाजिनाय देवाः ।
सजूर् अग्नि रोहिद् अश्वो घृतस्नुः ।
सजूरुषा अरुषेभिः । सजूस् सूर्यैतशेभिः ।सजोषसाव् अश्विना दंसोभिः करतैवाश्विना जुषेताम् मन्देताम् वीताम् पिबेताम् सोमम् होतर् यज ॥२८(प् १४७)

टिप्पणी

हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्रस्यापूप इति हविष्पंक्त्या यजत्यृक्सामे वा इन्द्रस्य हरी पशवः पूषान्नं करम्भः सरस्वतीवान्भारतीवानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्रस्यापूप इत्यन्नमेव परिवाप इन्द्रियमपूप एतासामेव तद्देवतानां यजमानं सायुज्यं सरूपतां सलोकतां गमयति गच्छति - ऐब्रा २.२४

प्रातःसवने पुरोडाशस्य पुरोनुवाक्याप्रैषयाज्या - - मैत्रावरुणस्य प्रैषरूपा याज्या - ये३यजामहे हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापः (लाजा) इन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाँ इन्द्रः प्रस्थितां जुषाणो वेतु वौषट् - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः(प. पीताम्बरदत्त शास्त्री)

परिवापश्च वै लाजाः पयस्याऽऽमिक्षिका मता - लक्ष्मीनारायणसंहिता २.२४८.६

लाजा उपरि संदर्भाः

५.७.५
होता यक्षद् इन्द्रम् होत्रात् सजूर् दिवा पृथिव्यर्तुना सोमम् पिबतु होतर् यज ।
होता यक्षन् मरुतः पोत्रात् सुष्टुभस् स्वर्कर्तुना सोमम् पिबन्तु पोतर् यज ।
होता यक्षद् ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर् देवानाम् पत्नीभिर् ऋतुना सोमम् पिबतु नेष्टर् यज ।
होता यक्षद् अग्निम् आग्नीध्राद् ऋतुना सोमम् पिबत्व् अग्नीद् यज ।
होता यक्षद् इन्द्रम् ब्रह्माणम् ब्रह्मणाद् ऋतुना सोमम् पिबतु ब्रह्मन् यज ।
होता यक्षन् मित्रा वरुणा प्रशास्तारौ प्रशास्त्राद् ऋतुना सोमम् पिबताम् प्रशास्तर् यज ।२९
होता यक्षद् देवम् द्रविणोदाम् होत्राद् ऋतुभिस् सोमम् पिबतु होतर् यज ।
होता यक्षद् देवम् द्रविणोदाम् पोत्राद् ऋतुभिस् सोमम् पिबतु पोतर् यज ।
होता यक्षद् देवम् द्रविणोदाम् नेष्ट्राद् ऋतुभिस् सोमम् पिबतु नेष्टर् यज ।
होता यक्षद् देवम् द्रविणोदाम् अपाद् होत्राद् अपात् पोत्राद् अपान् नेष्ट्रात् तुरीयम् पात्रम् अमृक्तम् अमर्त्यम् इन्द्र पानम् देवो द्रविणोदाः पिबतु द्राविणोदसः ।
स्वयम् आयूयास् स्वयम् अभिगूर्याः ।
स्वयम् अभिगूर्तया होत्रायर्तुभिस् सोमस्य पिबत्व् अच्छावाक यज ।
होता यक्षद् अश्विनाध्वर्य्वाध्वर्यवाद् ऋतुना सोमम् पिबेताम् अध्वर्यू यजताम् ।
होता यक्षद् अग्निम् गृहपतिम् गार्हपत्यात् सुगृहपतिस् त्व् अधाग्ने याम् सुन्वन् यजमानस् स्यात् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानस् स्यास् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानेनाग्निर् गृहपतिर् गार्हपत्याद् ऋतुना सोमम् पिबतु गृहपते यज ॥३०॥(प् १४८)


५,१ १ संज्ञानम् उशनावदत् संज्ञानम् वरुणो वदत् ।
५,१ १ संज्ञामम् इन्द्रश् चाग्निश् च संज्ञानम् सविता वदत् ।
५,१ २ संज्ञानम् नस् स्वेभ्यस् संज्ञानम् अरणेभ्यः ।
५,१ २ संज्ञानम् आश्विन युवम् इहास्मासु नियच्छताम् ।
५,१ ३ यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
५,१ ३ तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनम् ।
५,१ ४ सम् वो मनांसि जानताम् सम् आकूतिम् मनामसि ।
५,१ ४ असौ यो विमना जनस् तम् समावर्तयामसि ।
५,१ ५ तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
५,१ ५ ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥(प् १३२)

५,२ १ नैर्हस्त्यम् सेना दरणम् परि वर्त्मेव यद्द् हविः ।
५,२ १ तेनामित्राणाम् बाहून् हविषा शोषयामसि ।
५,२ २ परि वर्त्मान्य् एषाम् इन्द्रः पूषा च चक्रतुः ।
५,२ २ तेषाम् वो अग्नि दग्धानाम् अग्नि गूढानाम् इन्द्रो हन्तु वरम् वरम् ।
५,२ ३ ऐषु नह्य विषादनम् हरिणस्य धियम् यथा ।
५,२ ३ परान् अमित्रान् ऐषत्व् अर्वाची गौर् उपेजतु ॥२

५,३ १ प्राध्वराणाम् पते वसो होतर् वरेण्य क्रतो ।
५,३ १ तुभ्यम् गायत्रम् ऋच्यते ।
५,३ २ गो कामो अन्न कामः प्रजा कामोत कश्यपः ।
५,३ २ भूतम् भविष्यत् प्रस्तौति महद् ब्रह्मैकम् अक्षरम् बहु ब्रह्मैकम् अक्षरम् ।
५,३ ३ यद् अक्षरम् भूतकृतो विश्वे देवोपासते ।
५,३ ३ महर्षिम् अस्य गोप्तारम् जमदग्निम् अकुर्वत ।
५,३ ४ जमदग्निर् आप्यायते छन्दोभिश् चतुर् उत्तरैः ।(प् १३३)
५,३ ४ राज्ञस् सोमस्य भक्षेण ब्रह्मणा वीर्यवताम् शिवा नः प्रदिशो दिशः ।
५,३ ५ अजो यत् तेजो ददृशे शुक्रम् ज्योतिः परो गुहा ।
५,३ ५ तद् ऋषिः कश्यप स्तौति सत्यम् ब्रह्म चराचरम् ध्रुवम् ब्रह्म चराचरम् ।
५,३ ६ त्र्यायुषम् जमदग्नेः कश्यपस्य त्र्यायुषम् ।
५,३ ६ अगस्त्यस्य त्र्यायुषम् यद् देवानाम् त्र्यायुषम् तन् नो अस्तु त्र्यायुषम् ।
५,३ ७ तत् शम्योर् आवृणीमहे गातुम् यज्ञाय गातुम् यज्ञ पतये दैवी स्वस्तिर् अस्तु नस् स्वस्तिर् मानुषेभ्यः ।
५,३ ७ ऊर्ध्वम् जिगातु भेषजम् शम् नो अस्तु द्विपदे शम् चतुष्पदे ॥३

५,४ १ विदा मघवन् विदा गातुम् अनु शंसिषो दिशः ।
५,४ १ शिक्षा शचीनाम् पते पूर्वीणाम् पुरूवसो ।(प् १३४)
५,४ २ आभिष् ट्वम् अभिष्टिभिः प्रचेतन प्रचेतय ।
५,४ २ इन्द्र द्युम्नाय नेषैवा हि शक्रः ।
५,४ ३ राये वाजाय वज्रिवश् शविष्ठ वज्रिन् ऋञ्जसे ।
५,४ ३ मन्हिष्ठ वज्रिन् ऋञ्जसायाहि पिब मत्स्व ।
५,४ ४ विदा राये सुवीर्यम् भुवो वाजानाम् पतिर् वशाम् अनु ।
५,४ ४ मन्हिष्ठ वज्रिन् ऋञ्जसे यश् शविष्ठस् शूराणाम् ।
५,४ ५ यो मन्हिष्ठो मघोनाम् चिकित्वो अभि नो नय ।
५,४ ५ इन्द्रो विदे तम् उ स्तुषे वशी हि शक्रः ॥४
५,४ ६ तम् ऊतये हवामहे जेतारम् अपराजितम् ।
५,४ ६ स नः पर्षद् अतिद्विषस् क्रतुश् छन्दर्तम् बृहत् ।
५,४ ७ इन्द्रम् धनस्य सातये हवामहे जेतारम् अपराजितम् ।
५,४ ७ स नः पर्षद् अतिद्विषस् स नः पर्षद् अतिस्रिधः ।
५,४ ८ पूर्वस्य यत् तेऽद्रिवस् सुम्नाधेहि नो वसो ।
५,४ ८ पूर्तिश् शविष्ठ शश्वतेशे हि शक्रः ।
५,४ ९ नूनम् तम् नव्यम् मन्यसे प्रभो जनस्य वृत्रहन् ।
५,४ ९ सम् अन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः ॥५
५,४ १० एवा ह्य् एवैवा ह्य् अग्ने ।एवा ह्य् एवैवा हि विष्णो ।
५,४ १० एवा ह्य् एवैवा हीन्द्र ।एवा ह्य् एवैवा हि पूषन् ।
५,४ १० एवा ह्य् एवैवा हि देवाः ।
५,४ ११ एवा हि शक्रो वशी हि शक्रो वशाम् अनु ।
५,४ ११ आयो मन्याय मन्यवोपो मन्याय मन्यवोपेहि विश्वथ ॥६(प् १३५)


५,६ १ वायुर् अग्रेगा यज्ञप्रीस् साकम् गन् मनसा यज्ञम् ।
५,६ १ शिवो नियुद्भिश् शिवाभिः ।
५,६ २ हिरण्य वर्तनी नरा देवा पत्यभिष्टये ।
५,६ २ वायुश् चेन्द्रश् च सुमखा ।
५,६ ३ काव्या राजाना क्रत्वा दक्षस्य दुरोणे ।
५,६ ३ रिशादसा सधस्था ।
५,६ ४ दैव्याध्वर्य्वागतम् रथेन सूर्य त्वचा ।
५,६ ४ मध्वा यज्ञम् समञ्जाथे ।
५,६ ५ इन्द्रोक्थेभिर् भन्दिष्ठो वाजानाम् च वाज पतिः ।
५,६ ५ हरिवान् सुतानाम् सखा ।
५,६ ६ विश्वान् देवान् हवामहेऽस्मिन् यज्ञे सुपेशसः ।
५,६ ६ तेमम् यज्ञम् आगमन् देवासो देव्या धिया ।
५,६ ६ जुषाणाध्वरे सदो ये यज्ञस्य तनूकृतः । विश्वा सोम पीतये ।
५,६ ७ वाचा महीम् देवीम् वाचम् अस्मिन् यज्ञे सुपेशसम् ।
५,६ ७ सरस्वतीम् हवामहे ॥१८(प् १४१)

(प्रैषाध्यायः)

प्रयाज प्रैषाः

५,७ १ होता यक्षद् अग्निम् समिधा सुषमिधा समिद्धम् नाभा पृथिव्यास् संगथे वामस्य ।
वर्ष्मम् दिवेडस् पदे वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षत् तनूनपातम् अदितेर् गर्भम् भुवनस्य गोपाम् ।
५,७ १ मध्वाद्य देवो देवेभ्यो देव यानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षन् नराशंसम् नृशस्तम् नॄम्ः प्रणेत्रम् ।
गोभिर् वपावान् स्याद् वीरैश् शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् अग्निम् इडेडितो देवो देवम् आवक्षद् दूतो हव्यवाड् अमूरः ।
उपेमम् यज्ञम् उपेमाम् देवो देव हूतिम् अवतु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यकद् बर्हिस् सुष्टरीमोर्ण ंरदास्मिन् यज्ञे वि च प्र च प्रथाम् स्वासस्थम् देवेभ्यः ।
एम् एनद् अद्य वसवो रुद्रादित्यास् सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् दुरर्ष्वाः कवष्यो कोष धावनीर् उद् आताभिर् जिहताम् विप्रक्षोभिश् श्रयन्ताम् ।
सुप्रायणास्मिन् यज्ञे विश्रयन्ताम् ऋता वृधो व्यन्त्व् आज्यस्य होतर् यज ।१९
५,७ १ होता यक्षद् उषासा नक्ता बृहती स्पुएशसा नॄम्ः पतिभ्यो योनिम् कृण्वाने ।
संस्मयमाने इन्द्रेण देवैर् एदम् बर्हिस् सीदताम् वीताम् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा ।
स्विष्टम् अद्यान्याः करद् इषा स्वभिगूर्तम् अन्योर्जा स्वतवसेमम् यज्ञम् दिवि देवेषु धत्ताम् वीताम् आज्यस्य होतर् यज ।
५,७ १ होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमाछिद्रम् अद्येदम् अपस् तन्वताम् ।
५,७ १ होता यक्षत् त्वष्टारम् अचिष्टम् अपाकम् रेतोधाम् विश्व वसम् यशोधाम् ।
पुरु रूपम् अकाम कर्शनम् सुपोषः पोषैस् स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज ।(प् १४२)
५,७ १ होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारम् शशमन् नरः ।
स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ।
५,७ १ होता यक्षद् अग्निम् स्वाजाज्यस्य स्वाहा मेदसस् स्वाहा स्तोकानाम् स्वाहा स्वाहा कृतीनाम् स्वाहा हव्य सूक्तीनाम् ।
स्वाहा देवाज्यपा जुषाणाग्नाज्यस्य व्यन्तु होतर् यज ॥२०

५,७ २ अजैद् अग्निर् असनद् वाजन् नि देवो देवेभ्यो हव्यवाट् ।
प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः ।
प्रतिरन्न् उपप्रेष होतर् हव्या देवेभ्यः ।
५,७ २ होता यक्षद् अग्निम् आज्यस्य जुषताम् हविर् होतर् यज ।
५,७ २ होता यक्षत् सोमम् आज्यस्य जुषताम् हविर् होतर् यज ।
५,७ २ होता यक्षद् अग्नी षोमौ छागस्य वपाया मेदसो जुषेताम् हविर् होतर् यज ।
५,७ २ होता यक्षद् अग्नी षोमौ पुरोडाशस्य जुषेताम् हविर् होतर् यज ।
५,७ २
होता यक्षद् अग्नी षोमौ छागस्य हविषात्ताम् अद्य मध्यतो मेदोद्भृतम् पुरा देवेषोभ्यः पुरा पौरुषेय्या गृभो घस्ताम् नूनम् घाएऽज्राणाम् यवस प्रथमानाम् सुमत्क्षराणाम् शत रुद्रियानाम् अग्निष्वात्तानाम् पीवोपवसनानाम् पार्श्वतश् श्रोणितश् शितामतोत्सादतो अङ्गाद् अङ्गाद् अवत्तानाम् करतैवाग्नी षोमौ जुषेताम् अह्विर् होतर् यज ॥२१
५,७ २ देवेभ्यो वनपते हवींषि हिरण्य पर्ण प्रदिवस् तेऽर्थम् ।
प्रदक्षिणिद् रशनया नियूयर्तस्य वक्षि पथिभी रजिष्ठैः ।
५,७ २ होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्टया रशनयाधित ।

यत्राग्नेर् आज्यस्य हविषः प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्राग्नीष् ओमयोश् छागस्य हविषः प्रिया धामानि यत्रा वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानाम् प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतम् प्रस्तुत्य् एवोपस्तुत्य् एवोपावस्रक्षद् रभीयाम् सम् इव कृत्वी करद् एवम् देवो वनस्पतिर् जुषताम् हविर् होतर् यज ।(प् १४३)
५,७ २ वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ।
५,७ २
होता यक्षद् अग्निम् स्विष्टकृतम् अयाद् अग्निर् अग्नेर् आज्यस्य हविषः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् अग्नी षोमयोश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानाम् प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वम् महिमानम् आयजताम् एज्येषः कृणोतु सो अध्वरा जातवेदा जुषताम् हविर् होतर् यज ।
५,७ २
अग्निम् अद्य होतारम् अवृणीतायम् यजमानः पचन् पक्तीः पचन् पुरोडाशम् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमायाज्यम् बध्नन्न् अग्नी षोमाभ्याम् छागम् सूपस्थाद्य देवो ननस्पतिर् अभवद् अग्नयाज्येन सोमायाज्येनाग्नी षोमाभ्याम् छागेनाघत्ताम् तम् मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेताम् पुरोडाशेन त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायाम् यजमानो बहुभ्या संगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२२

५,७ ३ देवम् बर्हिस् सुदेवम् देवैस् स्यात् सुवीरम् वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवीर् द्वारस् संघाते वीड्वीर् यामन् शिथिरा ध्रुवा देव हूतौ वत्सेम् एनास् तरुणामिमीयात् कुमारो वा नव जातो मैनार्वा रेणुक काटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज ।
५,७ ३ देव्युषासा नक्ता व्य् अस्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनम् दैवीर् विशः प्रायासिष्ठाम् सुप्रीते सुधिते वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्यावक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देव्यूर्जाहुतीषम् ऊर्जम् अन्यावक्षत् सग्धिम् सपीतिम् अन्या नवेन पूर्वम् दयमाना स्याम पुराणेन नवम् ताम् ऊर्जम् ऊर्जाहुत्यूर्जयमानेऽधाताम् वसुवने वसुधेयस्य वीताम् यज ॥२३(प् १४४)
५,७ ३ देवा दैव्या होतारा पोतारा नेष्टारा हताघ शंसाव् आभरद् वसू वसुवने वसुधेयस्य वीताम् यज ।
५,७ ३ देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्याम् भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमम् रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादम् मदेम वसुवने वसुधेयस्य व्यन्तु यज ।
५,७ ३ देवो नराशंसस् त्रिशीर्षा षडक्षश् शतम् इद् एनम् शिति पृष्ठादधति सहस्रम् ईम् प्रवहन्ति मित्रा वरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवम् वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवो वनस्पतिर् वर्ष प्रावा घृत निर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षम् मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवम् बर्हिर् वारितीनाम् निधेधासि प्रच्युतीनाम् अप्रच्युतम् निकाम धरणम् पुरु स्पार्हम् यशस्वद् एना बर्हिषाण्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज ।
५,७ ३ देवो अग्निस् स्विष्टकृत् सुद्रविणा मन्द्रः कविस् सत्य मन्मायाजी होता होतुर् होतुर् आयजीवान् अग्ने यान् देवान् अयाड् याम् अपिप्रेर् ये ते होत्रेऽमत्सत ।
ताम् ससनुषीम् होत्रान् देवंगमाम् दिवि देवेषु यज्ञम् एरयेमम् स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ॥

५,७ ४ होता यक्षद् इन्द्रम् हरिवाम् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो मित्रा वरुणयोः पयस्या प्रातस् सावस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ॥२४
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपो माध्यंदिनस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थिताम् जुषाणो वेतु होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् हरिवान् इन्द्रो धानात्तु पूषण्वान् करम्भम् सरस्वतीवान् भारतीवान् परिवापेन्द्रस्यापूपस् तृतीयस्य सवनस्य पुरोडाशाम् इन्द्रः प्रस्थितम् जुषाणो वेतु होतर् यज ।
५,७ ४ होता यक्षद् अग्निः पुरोडाशानाम् जुषताम् हविर् होतर् यज ।(प् १४५)
५,७ ४ होता यक्षद् वायुम् अग्रेगाम् अग्रेयावानम् अग्रे सोमस्य पातारम् करद् एवम् वायुर् आवसा गमज् जुषताम् वेतु पिबतु सोमम् होतर् यज ॥२५
५,७ ४ होता यक्षद् इन्द्र वाय्वर्हन्ता रिहाणा गव्याभिर् गोमन्ता भ्रियन्ताम् वीरस्या शुक्रयैनयोर् नियुतो गो अग्रयाणाम् वीरौ कशाश्व पुरस्तात् तासाम् इह प्रयाणम् आस्तिक विमोचनम् करतैवेन्द्र वायू जुषेताम् वीताम् पिबताम् सोमम् होतर् यज ।
५,७ ४ होता यक्षन् मित्रा वरुणा सुक्षत्त्रा रिशादसा नि चिन् मिषन्ता निचिरा निचय्यांसाक्ष्णश् चिद् गातु वित्तरानुल्बणेन चक्षसर्तम् ऋतम् इति दीध्याना करतैवम् मित्रा वरुणा जुषेताम् वीताम् पिबेताम् सोमम् होतर् यज ।
५,७ ४ होता यक्षद् अश्विना नासत्या दीद्यग्नी रुद्र वर्तनी न्य् अन्तरेण चक्रेण च वामीर् इषोर्जावहतम् सुवीरास् सनुतरेणानरुषो बाधेताम् मधुकशयेमम् यज्ञम् युवाना मिमिक्षताम् करतैवाश्विना जुषेताम् वीताम् पिबेताम् सोम होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् प्रातः प्रातस् सावस्य् अर्वावतो गमद् आ परावतोरोर् अन्तरिक्षाद् आ स्वात् सधस्थाद् इमेऽस्मै शुक्रा मधु श्चुतः प्रस्हितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज
५,७ ४ होता यक्षद् इन्द्रम् माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्यात्तारम् पातारम् श्रोतारम् हवम् आगन्तारम् अस्या धियो वितारम् सुन्वतो यजमानस्य वृधम् ओभा कुक्षि पृणताम् वार्त्रघ्नम् च माह्गोनम् चेमेऽस्मै शुक्रा मन्थिनः प्रस्थितेन्द्राय सोमास् ताम् जुषटाम् वेतु पिबतु सोमम् होतर् यज ॥२६

५,७ ४
होता यक्षद् इन्द्रम् तृतीयस्य सवनस्यर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस् सम् अस्य मदाः प्रातस्तनाग्मत सम् माध्यंदिनास् समिदातनास् तेषाम् समुक्षितानाम् गौरेव प्रगाह्या वृषायस्वायूया बाहुभ्याम् उपयाहि हरिभ्याम् प्रप्रुथ्या शिप्रे निष्पृथ्यर्जीषिन्न् इमेऽस्मै तीव्राशीर्वन्तः प्रस्थितेन्द्राय सोमास् ताम् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् इन्द्रम् मरुत्वन्तम् इन्द्रो मरुत्वान् जुषताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् आदित्यान् प्रियान् प्रिय धाम्नः प्रिय व्रतान् महस् स्वसरस्य पतीन् उरोर् अन्तरिक्षस्याध्यक्षान् स्वादित्यम् (प् १४६)। अवोचत् तद् अस्मै सुन्वते यजमानाय करन्न् एवम् आदित्या जुषन्ताम् मन्दन्ताम् व्यन्तु पिबन्तु मन्दन्तु सोमम् होतर् यज ।
५,७ ४ होता यक्षद् देवम् सवितारम् परामीवान् साविषत् पराघ शंसम् सुसावित्रम् असाविषत् तद् अस्मै सुन्वते यजमानाय करद् एवम् देवस् सविता जुषताम् मन्दताम् वेतु पिबतु सोमम् होतर् यज ।
५,७ ४ अग्निम् अद्य होतारम् अवृणीतायम् सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोडाशान् गृह्णन्न् अग्नयाज्यम् गृह्णन् सोमा याज्यम् बध्नन्न् अङ्गये छागम् सुन्वन्न् इन्द्राय सोम भृज्ज हरिभ्याम् धानास् सूपस्थाद्य देवो वनस्पतिर् अभवद् अग्नये आज्येन सोमायाज्येनाग्नये छागेनेन्द्राय सोमेन हरिभ्याम् धानाभिर् अघत्तम् ।
मेदस्तः प्रति पचताग्रभीद् अवीवृधत पुरोडाशैर् अपाद् इन्द्रस् सोमम् गवाशिरम् यवाशिरम् तीव्रान्तम् बहुल मध्यम् उपोत्था मदा व्यश्रोद् विमदाम् आनड् अवीवृधताङ्गूषैस् त्वाम् अद्यर्षार्षेयर्षीणाम् नपाद् अवृणीतायन् सुन्वन् यजमानो बहुभ्यासंगतेभ्यः ।
एष मे देवेषु वसु वार्य् आयक्ष्यतेति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्र वाच्याय प्रेषितो मानुषस् सूक्त वाकाय सूक्ता ब्रूहि ॥२७
५,७ ४ धाना सोमानाम् इन्द्राद्द् हि च पिब च बब्धान् ते हरी धानोपर्जीषम् जिघ्रताम् आ रथ चर्षणे सिञ्चस्व यत् त्वा पृच्छाद् विषम् पत्नीः क्वामीमदथेत्य् अस्मिन् सुन्वति यजमाने तस्मै किम् अरास्थाः ।
सुष्ठु सुवीर्यम् यज्ञस्यागुरोदृचम् यद् यद् अचीकमतोत् तत् तथाभूद्द् होतर् यज ।
५,७ ४ इह मदैव मघवन्न् इन्द्र ते श्वो वसुमतो रुद्रवतो आदित्यवतर्भुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतश् श्वस्सुत्याम् अग्निम् इन्द्रायेन्द्राग्निभ्याम् प्रब्रूहि ।
मित्र वरुणाभ्याम् वसुभ्यो रुद्रेभ्यो आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्रह्मणेभ्यस् सोम्येभ्यस् सोमपेभ्यो ब्रह्मन् वाचम् यच्छ ।
५,७ ४ होता यक्षद् अश्विना सोमानाम् तिरो अह्न्यानाम् त्रिर् आ वर्तिर् याताम् त्रिर् अह मानयेथाम् उतो तुरीयम् नासत्या वाजिनाय देवाः ।
सजूर् अग्नि रोहिद् अश्वो घृतस्नुः ।
सजूर् उषारूषेभिः ।सजूस् सूर्यैतशेभिः ।सजोषसाव् अश्विना दंसोभिः करतैवाश्विना जुषेताम् मन्देताम् वीताम् पिबेताम् सोमम् होतर् यज ॥२८(प् १४७)

५,७ ५ होता यक्षद् इन्द्रम् होत्रात् सजूर् दिवा पृथिव्यर्तुना सोमम् पिबतु होतर् यज ।
५,७ ५ होता यक्षन् मरुतः पोत्रात् सुष्टुभस् स्वर्कर्तुना सोमम् पिबन्तु पोतर् यज ।
५,७ ५ होता यक्षद् ग्रावो नेष्ट्रात् त्वष्टा सुजनिमा सजूर् देवानाम् पत्नीभिर् ऋतुना सोमम् पिबतु नेष्टर् यज ।
५,७ ५ होता यक्षद् अग्निम् आग्नीध्राद् ऋतुना सोमम् पिबत्व् अग्नीद् यज ।
५,७ ५ होता यक्षद् इन्द्रम् ब्रह्माणम् ब्रह्मणाद् ऋतुना सोमम् पिबतु ब्रह्मन् यज ।
५,७ ५ होता यक्षन् मित्रा वरुणा प्रशास्तारौ प्रशास्त्राद् ऋतुना सोमम् पिबताम् प्रशास्तर् यज ।२९
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् होत्राद् ऋतुभिस् सोमम् पिबतु होतर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् पोत्राद् ऋतुभिस् सोमम् पिबतु पोतर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् नेष्ट्राद् ऋतुभिस् सोमम् पिबतु नेष्टर् यज ।
५,७ ५ होता यक्षद् देवम् द्रविणोदाम् अपाद् होत्राद् अपात् पोत्राद् अपान् नेष्ट्रात् तुरीयम् पात्रम् अमृक्तम् अमर्त्यम् इन्द्र पानम् देवो द्रविणोदाः पिबतु द्राविणोदसः ।
स्वयम् आयूयास् स्वयम् अभिगूर्याः ।
स्वयम् अभिगूर्तया होत्रायर्तुभिस् सोमस्य पिबत्व् अच्छावाक यज ।
५,७ ५ होता यक्षद् अश्विनाध्वर्य्वाध्वर्यवाद् ऋतुना सोमम् पिबेताम् अध्वर्यू यजताम् ।
५,७ ५ होता यक्षद् अग्निम् गृहपतिम् गार्हपत्यात् सुगृहपतिस् त्व् अधाग्ने याम् सुन्वन् यजमानस् स्यात् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानस् स्यास् सुगृहपतिस् त्वम् अनेन सुन्वता यजमानेनाग्निर् गृहपतिर् गार्हपत्याद् ऋतुना सोमम् पिबतु गृहपते यज ॥३०॥(प् १४८)

(कुन्तापाध्यायः)८-२२
5.8
इदम् जनोपश्रुतम् नराशंस स्तविष्यते । ५,८ १
षष्टिम् सहस्रा नवतिम् च कौरवा रुशमेषु दद्महे । ५,८ १
उष्ट्रा यस्य प्रवाहिणो वधूमन्तो द्विर् दश । ५,८ २
वर्ष्मा रथस्य निजिहीडते दिवेषमाणोपस्पृशः । ५,८ २
एषेषाय मामहे शतम् निष्कान् दश स्रजः । ५,८ ३
त्रीणि शतान्य् अर्वताम् सहस्रा दश गोनाम् ॥३१ ५,८ ३
5.9
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः । ५,९ १
निष् टे जिह्वा चर्चरीति क्षुरो न भुरिजोर् इव ।(प् १५५) ५,९ १
प्र रेभासो मानीषया वृथा गावेवेरते । ५,९ २
अमोत पुत्रकैषाम् उ मोदकोपासते । ५,९ २
प्र रेभ धियम् भरस्व गोविदम् वसुविदम् । ५,९ ३
देवत्रेमाम् वाचम् शृणीहीषुर् ना वीरास्तारम् ॥३२ ५,९ ३
5.10
राज्ञो विश्व जनीनस्य यो देवो मत्यान् अति । ५,१० १
वैश्वानरस्य सुष्टुतिम् आसुनोता परिक्षितः । ५,१० १
परिक्षिन् नः क्षेमम् अकरत् तमासनम् आ सरम् । ५,१० २
अराय्यन् कुर्वन् कौरव्यः पतिर् वदति जायया । ५,१० २
कतरत् ताहराणि दधि मन्थाम् परिस्रुतम् । ५,१० ३
जाया पतिम् विपृच्छति राष्ट्त्रे राज्ञः परिक्षितः । ५,१० ३
( अभीव स्वः प्रजिहीते यवः पक्वः पथो बिलम् । ५,१० ४
जनस् स भद्रम् एधते राष्ट्रे राज्ञः परिक्षितः ) ॥३३(प् १५६) ५,१० ४
5.11
इन्द्रः कारुम् अबूबुधद् उत्तिष्ठ वि चरा चरन् । ५,११ १
ममेद् उग्रस्य चर्कृतिस् सर्वेत् ते पृणाद् अरिः । ५,११ १
इह गावः प्रजायध्वम् इहाश्वेह पूर्षाः । ५,११ २
इहो सहस्र दक्षिणो वीरस् त्राता निषीदतु । ५,११ २
नेमेन्द्र गावो रिषन् मो असान् गोपती रिषत् । ५,११ ३
मासाम् अमित्रयुर् जनेन्द्र मा स्तेनेशत । ५,११ ३
उप वो नरैमसि सूक्तेन वचसा वयम् भद्रेण वचसा वयम् । ५,११ ४
चनो दधिष्व नो गिर न रिष्येम कदाचन ॥३४ ५,११ ४
5.12
यस् सभेयो विदथ्यस् सुत्वा यज्वा च पूरुषः । ५,१२ १
सूर्यम् चमू रिशादसम् तद् देवाः प्राग् अकल्पयन् । ५,१२ १
यो जाम्याः प्रत्य् अमदद् यस् सखायन् निनित्सति । ५,१२ २
ज्येष्ठो यद् अप्रचेतास् तद् आहुर् अधराग् इति । ५,१२ २
यद् भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः । ५,१२ ३
तद् विप्रो अब्रवीद् उदग् गन्धर्वः काम्यम् वचः । ५,१२ ३
यश् च पणिस् अभुजिष्यो यश् च रेवान् अदाशुरिः । ५,१२ ४
धीराणाम् शश्वताम् अहम् तद् अपाग् इति शुश्रव । ५,१२ ४
ये च देवायजन्ताथो ये च पराददुः । ५,१२ ५
सूर्यो दिवम् इव गत्वाय मघावानो विरप्सते ॥३५(प् १५७) ५,१२ ५
5.13
यो अनाक्ताक्ष्यो अनभ्यक्तो मणिवो अहिरण्यवतः । ५,१३ १
अब्रह्माब्रह्मणस् पुत्रस् तो त कल्पेषु सम्मिता । ५,१३ १
याक्ताक्ष्यस् स्वभ्यक्तस् सुमणिस् सुहिरण्यवतः । ५,१३ २
सुब्रह्मा ब्रह्मणस् पुत्रस् तो ता कल्पेषु सम्मिता । ५,१३ २
अप्रपाणा च वेशन्ता रेवाम् अप्रचतिश् चयः । ५,१३ ३
अयभ्या कन्या कल्याणि त्वो ता कल्पेषु सम्मिता । ५,१३ ३
सुप्रपाण च वेशन्ता रेवाम् सुप्रचतिश् चयः । ५,१३ ४
सुयभ्या कन्या कल्याणि त्वो ता कल्पेषु सम्मिता । ५,१३ ४
परिवृक्ता च महिषी स्वस्त्या च युधिम् गमः । ५,१३ ५
श्वाशुर् अश्वायामी त्वो ता कल्पेषु सम्मिता । ५,१३ ५
वावाता च महिष्वणिस्था च युधिम् गमः । ५,१३ ६
अनाशुर् अश्वायामी त्वो ता कल्पेषु सम्मिता ॥३६(प् १५८) ५,१३ ६
5.14
यद् इन्द्रादो दशाराज्ञेऽमानुषम् विगाहथाः । १
विरूपस् सर्वस्मा आसीत् सदृग् अक्षाय वञ्चते । १
त्वम् विषाक्षम् मघवन् नम्रम् पर्याकरोर् अभि । २
त्वम् रौहिणम् व्यास्यः त्वम् वृत्रस्याभिनत् शिरः ।२
यः पर्वतान् व्यदधाद् यो अपो व्यगाहथाः । ३
यो वृत्रम् वृत्रहन्न् अहन् तस्मा इन्द्र नमो अस्तु ते ।३
प्रष्टिम् धावन्तम् हर्योर् औच्चैश्श्रवसम् अब्रवम् । ४
स्वस्त्य् अश्व जैत्रायेन्द्रम् आवहतो रथम् । ४
यत्वा श्वेता उच्चैश्श्रवसम् हर्योर् युञ्जन्ति दक्षिणम् ।५
मूर्धानम् अश्वम् देवानाम् बिभ्रद् इन्द्रम् महीयते ॥३७ ५
5.15
एताश्वाप्लवन्ते । प्रतीपम् प्रातिसत्वनम् । ५,१५ १
तासाम् एका हरिक्लिका । हरिक्लिके किम् इच्छसि ।(प् १५९) ५,१५ १
साधुम् पुत्रम् हिरण्ययम् । क्वाह तम् परास्यः । ५,१५ २
यत्रामूस् तिस्रश् शिंशपाः । परि त्रयः पृदाकवः । ५,१५ २
शृङ्गम् धमन्तासते । अयम् वहातेऽवहि । ५,१५ ३
सेत्थ कम् सैव कम् । सघा घ ते सघा घ मे । ५,१५ ३
गोमी घ गिमिनीर् अभि । पुमान् भूम्ने निनित्ससि । ५,१५ ४
बल्बब् अथो इति । बल्बबो अथो इति । ५,१५ ४
अजकोरकोविका । अश्वस्य वारो गोश् शफः । ५,१५ ५
केशिनी श्येन्येनीव । अनामयोपजिह्विका ॥३८ ५,१५ ५
को अम्ब हुलम् अयुनि । को अर्जुन्याः पयः । ५,१५ ६
को असिक्न्याः पयः । एतम् पृच्छ कुहम् पृच्छ । ५,१५ ६
कुहा कम् पक्वकम् पृच्छ । यायन्ति श्वभिष् कुभिः । ५,१५ ७
अब्जन्तः कुभायवः । आमनको मनस्थकः । ५,१५ ७
देवत्तः प्रति जूर्यः । पिनष्टि पर्तिका हविः । ५,१५ ८
प्र बुद्बुदो मथायति । शुङ्गोत्पत । ५,१५ ८
इरा चेन्द्रम् अमन्दत । इयन्न् इयन्न् इति । ५,१५ ९
अथो इयन्न् इति । अथो ज्यायस्तरो भुवत् । ५,१५ १०
इयम् यका सलाकका । आमिनोति निभज्यते ॥३९ ५,१५ १०
तस्यानुनिभञ्जनम् । वरुणो याति बभ्रुभिः । ५,१५ ११
शतम् बभ्रोर् अभीशुभिः । शतम् कशा हिरण्ययीः । ५,१५ ११
शतम् रथा हिरण्ययाः । आहकलुश् शवर्तकः । ५,१५ १२
आयवनेन तेजनी । शफेन पीवौहते । ५,१५ १२
वनिष्ठुनोपनृत्यति । इमम् मह्यम् अदुर् इति । ५,१५ १३
ते वृष्कास् सह तिष्ठन्ति । पाकवलिश् शकवलिः । ५,१५ १३
अश्वत्तः खदिरो धवः । अरदुः परमश् शये । ५,१५ १४
हतेव पाप पूरुषः । अदोहम् इत् पियूषकम् । ५,१५ १४
द्वम् च हस्तिनो दृती । अध्यर्धम् च परस्वतः । ५,१५ १५
आद् अलाबुकम् एककम् । अलाबुकम् निखातकम् ॥४० ५,१५ १५
कर्करिको निखातकः । तद् वातोन्मथायति । ५,१५ १६
कुलायम् करवान् इति । उग्रम् वल्षद् आततम् । ५,१५ १६
न वल्षद् अनाततम् । कैषाम् कर्करिम् लिखत् । ५,१५ १७
कैषाम् दुन्दुभिम् हनत् । यद् ईम् हनत् कथम् हनत् । ५,१५ १७
दैलीम् हनत् कथम् हनत् । पर्य् आकरम् पुनः पुनः ॥४१(प् १६०) ५,१५ १८
5.16
विततौ किरणौ द्वौ ताव् आपिनष्टि पूरुषः । ५,१६ १
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ १
मातुष् टे किरणौ द्वौ नीवीतः पुरुषाद् ऋते । ५,१६ २
न वै कुमारि तद् तथा यथा कुमारि मन्यसे । ५,१६ २
निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमम् । ५,१६ ३
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ३
उत्तानायै शयनायै तिष्ठन्न् एवावगूहसि । ५,१६ ४
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ४
श्लक्ष्णावाम् श्लक्ष्णिकायाम् श्लक्ष्णम् एवावगूहसि । ५,१६ ५
न वै कुमारि तत् तथा यथा कुमारि मन्यसे । ५,१६ ५
अव श्लक्ष्णम् अवभ्रशद् अन्तर् लोमवती ह्रदे । ५,१६ ६
न वै कुमारि तत् तथा यथा कुमारि मन्यसे ॥४२(प् १६२) ५,१६ ६
5.17
इहेत्थ प्राग् अपाग् उदग् अधराग् अरालोदभर्त्सत । ५,१७ १
इहेत्थ प्राग् अपाग् उदग् अधराग् वत्साः प्रुषन्तासते । ५,१७ २
इहेत्थ प्राग् अपाग् उदग् अधराक् स्थालीपाओ विलीयते । ५,१७ ३
इहेत्थ प्राग् अपाग् उदग् अधराक् सिली पुच्छो विलीयते ॥ ५,१७ ४
5.18
भुग् इत्य् अभिगतः । ५,१८ १
शर् इत्य् अभिष्ठितः ।
फल् इत्य् अपक्रान्तः । ५,१८ १
5.19
वीमे देवाक्रन्सताध्वर्योः क्षिप्रम् प्रचर । ५,१९ १
सुशस्तिर् इद् गवाम् अस्य् अति प्रखिदसो महत् ॥४३(प् १६३) ५,१९ १
5.20
आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयन् । ५,२० १
ताम् ह जरितर् न प्रत्य् आयन् ताम् उ ह जरितः प्रत्यायन् । ५,२० १
ताम् ह जरितर् न प्रत्य् अगृभ्णन् ताम् उ ह जरितः प्रत्यगृभ्णन् । ५,२० २
अहा नेत सन्न् अविचेतनानि जज्ञा नेत सन्न् अपुरोगवासः । ५,२० २
उत श्वेताशुपत्वोतो पद्याभिर् जविष्ठः । ५,२० ३
उतेम् आशु मानम् पिपर्ति । ५,२० ३
आदित्या रुद्रा वसवस् त्व् एडते इदम् राधः प्रति गृभ्णीह्य् अङ्गिरः । ५,२० ४
इदम् राधो बृहत् पृथु देवा ददात्व् आ वरम् । ५,२० ४
तद् वो अस्तु सुचेतनम् युष्मेऽस्तु दिवे दिवे । ५,२० ५
प्रत्य् एव गृभायत ॥४४ ५,२० ५
5.21
त्वम् इन्द्र शर्मन्न् अरिणा हव्यम् परावतेभ्यः । ५,२१ १
विप्राय स्तुवते वस्वृजुर् इत् श्रवसे वहः । ५,२१ १
त्वम् इन्द्र कपोताय छिन्न पक्षाय वञ्चते । ५,२१ २
श्यामाकम् पक्वम् विरुज वार् अस्माकृणोर् बहु । ५,२१ २
आरङ्गरो वावदीति त्रेधा बद्धो वरत्य् अयाः । ५,२१ ३
इराम् उ ह प्रशंसत्य् अनिराम् अपसेधत ॥४५(प् १६४) ५,२१ ३
5.22
यद् अस्यांहु भेद्याः पृथु स्थूरम् उपातसत् । ५,२२ १
मुष्केद् अस्यैजतो गोशफे शकुलाव् इव । ५,२२ १
यदा स्थूरेण पससाणू मुष्कोपावधीत् । ५,२२ २
विष्वञ्चाव् अस्यार्दतस्सिकतास्व् इव गर्दभौ । ५,२२ २
यद् अल्पिका स्वल्पिका कर्कन्धुकेव पच्यते । ५,२२ ३
वासन्तिकम् इव तेजनम् यभ्यमाना विनम्यते । ५,२२ ३
यद् देवासो ललाबुकम् प्रविष्टीमिनम् आविषुः । ५,२२ ४
सक्थ्ना ते दृश्यते नारी सत्यस्याक्षी भागो यथा ॥४६ ५,२२ ४
महानग्न्य् उपब्रूते श्वस्या वेशितम् पसः । ५,२२ ५
ईदृक् फलस्य वृक्षस्य शूर्पम् शूर्पम् भजेमहि । ५,२२ ५
महानग्न्य् अदृप्तम् हि सो क्रन्दद् अस्तम् आसदत् । ५,२२ ६
सक्नु कामना भुव मशकम् सक्थ्य् उद्यतम् । ५,२२ ६
महानग्न्य् उलूखलम् अतिक्रामन्त्य् अब्रवीत् । ५,२२ ७
यथैव ते वनस्पते पिघ्नन्ति तथैव मे । ५,२२ ७
महानग्नी कृकवाकुम् शम्यया परिधावति । ५,२२ ८
इदम् न विद्म तेजनम् शीर्ष्णा भवति धानिका । ५,२२ ८
महानग्नी महागङ्गन् धावन्तम् अनुधावति । ५,२२ ९
इमास् तद् अस्य गा रक्ष यभ माम् अद्ध्य् ओदनम् । ५,२२ ९
महान् वै भद्रो बिल्वो महान् पक्वोदुम्बरः । ५,२२ १०
महान् अभिज्ञु बाधते महतस् साधु खोदनम् । ५,२२ १०
कपृन् नरः कपृथम् उद्दधातन चोदयत खुदत वाज सातये । ५,२२ ११
निष्टिग्र्यः पुत्रम् आच्यावयोतयेन्द्रम् सबाधेह सोम पीतये । ५,२२ ११
यद् ध प्राचीर् अजगन्तोरो मण्डूर धाणिकीः । ५,२२ १२
हतेन्द्रस्य शत्रवस् सर्वे बुद्बुदयाशवः । ५,२२ १२
दधिक्राव्णो अकारिषन् जिष्णोर् अश्वस्य वाजिनः । ५,२२ १३
सुरभि नो मुखा करत् प्र णायूंषि तारिषत् ॥४७(प् १६५) ५,२२ १३



(षंहितारण्यम्)

[३ १] उदितस् शुक्रियन् दधे तद् अहम् आत्मनि दधे ।
अनु माम् ऐत्व् इन्द्रियम् मयि श्रीर् मयि यशः ।
[३ २] सर्वस्य प्राणस् सबलोत्तिष्ठाम्य् अनु माशीर् उत्तिष्ठत्व् अनु मा यन्तु देवताः ।
अदब्धम् चक्षुर् इषिरम् मनस् सूर्यो ज्योतिषाम् श्रेष्ठो दीक्षे मा मा हिंसीः
[३ ३] तच् चक्षुर् देव हितम् शुक्रम् उच्चरत् ।
पश्येम शरदस् शतम् जीवेम शरदस् शतम् ॥
[३ ४] अग्ने इडा नमेडा नमर्षिभ्यो मन्त्रकृद्भ्यो मन्त्र पातिभ्यो नमो वो असु देवेभ्यः ।
शिवा नश् शंतमा भव सुमृडीका सरस्वती ।
मा ते व्योम संदृशि ।
भद्रम् कर्णे (प् १६७)भिः । ऋक् ।
शम् नेन्द्राग्न्यृक् ।
स्तुषे जनम् ।
ऋक् कया नश् चित्रः ।
कस् त्वा सत्यो मदानाम् ।
अभी षु नः ।
स्योना पृथिवी भव ।
सप्रथेति शान्तिश् शान्तिश् शान्तिः ॥

इत्य् ऋग्वेदे संहितारण्ये तृतीयो अध्यायः ।
इति श्र्यृग्वेदे शाकलके शाखायाम् दशम मण्डले ऋग्वेद खिल सहितस् संहितारण्य सहितश् च सम्पूर्णम् समाप्तम् ।
ओम् नमो ब्रह्मणे नमो अस्त्व् अग्नये नमः पृथिव्यै नमौषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमीत्य् एतासाम् एव देवतानाम् सार्ष्टिकाम् सायुज्यम् सलोकताम् आप्नोति यैवम् विद्वान् स्वाध्यायम् अधीते ॥
ओम् अनन्त शाखा कल्पाय भोग्य मोक्ष फलाय च ।
ब्रह्मणासेविमानाय वेद वृक्षाय वै नमः ॥
सम्५१ हा शु ति १३ लिखितम् ॥
भट्ट भीम स्वामिनो रामिस्वामिनः पुत्रश् शवलस्वामिनः पौत्रस् सम्पाद्यतम् समाप्तम् ।
शुभम् अस्तु ॥(प् १६८)