सामग्री पर जाएँ

ऋग्विधानम्

विकिस्रोतः तः
ऋग्विधानम्
[[लेखकः :|]]


अथ.ऋग्विधानम्

१.१.(१ ) स्वयम्भुवे.ब्रह्मणे.विश्वगोप्त्रे.नमस्कृत्वा.मन्त्रदृग्भ्यस्.तथैव.।
१.१.(१ ) विवक्षुर्.अस्म्य्.ऋग्विधानम्.पुराणम्.पुरादृष्टम्.ऋषिभिर्.मन्त्र.दृग्भिः.॥

१.१.(२ ) मन्त्रेभ्यो.मन्त्र.दृग्भ्यश्.च.समाम्नायानुपूर्वशः.।
१.१.(२ ) कर्मणाम्.ऋषि.दृष्टानाम्.विधिम्.प्रोवाच.शौनकः.॥

१.१.(३ ) ऋषिभिर्.विविधा.मन्त्रा.दृष्टा.दृष्ट.प्रयोजनाः.।
१.१.(३ ) प्रयोजनाय.चोद्दिष्टास्.तस्मिंस्.तस्मिन्.प्रदर्शिताः.॥

१.१.(४ ) नानार्थानि.च.कर्माणि.शान्ति.पुष्ट्य्.आश्रयाणि.च.।
१.१.(४ ) सिद्धयश्.च.तपो.मूलाः.श्रद्दधानस्य.कुर्वतः.॥

१.१.(५ ) स्तुत्य्.आदयो.ये.विकाराः.प्रदिष्टास्.तथा.अर्थवादा.र्क्षु.सूक्तेषु.चैव.।
१.१.(५ ) यैर्..यैः.कामैर्.ऋषिर्.देवताश्.च.तुष्टूष्यन्ते..तान्..शृणुष्व.उच्यमानान्.॥

१.१.(६ ) आयुः.स्वर्गो.द्रविणम्.सूनवश्.च.चतुर्विधम्.प्रोक्तम्.आशास्यम्.अग्रे.।
१.१.(६ ) अन्ये.कामाः.शतशः.सम्प्रदिष्टाः.संस्तुवद्भिर्.ऋषिभिर्.देवताश्.च.॥

१.२.(७ ) सिद्धा.मन्त्रा.विधिना.ब्राह्मणस्य.फलम्.यच्छन्ति.विधिवत्.प्रयुक्ताः.।
१.२.(७ ) सत्यम्.तेषाम्.साधनम्.सम्यमश्.च.शमस्.तितिक्षा.अनसूया.दमश्.च.॥

१.२.(८ ) तस्माद्.द्विजः.प्रशान्त.आत्मा.जप.होम.परायणः.।
१.२.(८ ) तपस्य्.अध्ययने.युक्तो.भवेद्.भूत.अनुकम्पकः.॥

१.२.(९ ) क्षत्रियो.बाहु.वीर्येण.तरेद्.आपदम्.आत्मनः.।
१.२.(९ ) धनेन.वैश्य.शूद्रौ.तु.जप.होमैर्.द्विज.उत्तमः.॥

१.२.(१० ) तपसा.स्वर्गम्.आप्नोति.तपसा.विन्दते.महत्.।
१.२.(१० ) तपो.युक्तस्य.सिध्यन्ति.कर्माणि.नियत.आत्मनः.।
१.२.(११ ) विद्वेषणम्.संवननम्.विषघ्नम्.रोग.नाशनम्.।
१.२.(११ ) येन.येन.अर्थम्.ऋषिणा.यद्.अर्थम्.देवताः.स्तुताः.॥

१.३.(१२ ) स.स.कामः.समृद्धश्.च.तेषाम्.तेषाम्.तथा.तथा.।
१.३.(१२ ) तानि.कर्माणि.वक्ष्यामि.विविधानि.च.कर्मणाम्.॥

१.३.(१३ ) पुरश्चरणम्.आदौ.तु.कर्मणाम्.सिद्धि.कारकम्.।
१.३.(१३ ) स्वाध्याय.अभ्यसनस्य.आदौ.प्राजापत्यम्.चरेद्.द्विजः.॥

१.३.(१४ ) केश.श्मश्रु.लोम.नखान्.वापयित्वा.आप्लुतः.शुचिः.।
१.३.(१४ ) तिष्ठेद्.अहनि.रात्रौ.तु.शुचिर्.आसीत.वाग्.यतः.॥

१.३.(१५ ) सत्य.वादी.पवित्राणि.जपेद्.व्याहृतयस्.तथा.।
१.३.(१५ ) ओम्.कार.आद्यास्.तु.ता.जप्त्वा.सावित्रीम्.च.तद्.इत्य्.ऋचम्.॥

१.३.(१६ ) आपो.हि.ष्ठ.इति.सूक्तम्.तु.शुद्धवत्यो.अघमर्षणम्.।
१.३.(१६ ) शंवत्यः.स्वस्तिमत्यश्.च.पावमान्यस्.तथैव.च.॥

१.४.(१७ ) सर्वत्र.एतत्.प्रयोक्तव्यम्.आदाव्.अन्ते.च.कर्मणाम्.।
१.४.(१७ ) आसहस्राद्.आशताद्.वा.दश.अन्तम्.अथवा.जपेत्.॥

१.४.(१८ ) ओम्.कारम्.व्याहृतीस्.तिस्रः.सावित्रीम्.अथवा.अयुतम्.।
१.४.(१८ ) तर्पयित्वा.अद्भिर्.आचार्यान्.ऋषींश्.छन्दांसि.देवताः.॥

१.४.(१९ ) प्रपद्येत.विरूक.अक्षम्.रौद्रम्.मन्त्र.गणम्.जपन्.।
१.४.(१९ ) अनार्यैर्.न.च.भाषेत.न.शूद्रैर्.न.अपि.गर्हितै.ः.॥

१.४.(२० ) न.रजस्वलया.नार्या.पतितैर्.न.अन्त्यजैर्.नृभि.ः.।
१.४.(२० ) न.देव.ब्राह्मण.द्विष्टैर्.न.आचार्य.गुरु.निन्दकैः.॥

१.४.(२१ ) न.मातृ.पितृ.विद्विष्टैर्.न.अवमन्येत.कंचन.।
१.४.(२१ ) मङ्गल.आचार.युक्त.ः.स्यात्.त्रिर्.अह्नो.अभ्युपयन्.अपः.॥

१.५.(२२ ) अन्ते.द्वादश.रात्रस्य.स्थाली.पाकम्.प्रकल्पयेत्.।
१.५.(२२ ) अग्नये.च.अथ.सोमाय.तृतीयाम्.च.तयोः.सह.॥

१.५.(२३ ) वैश्वदेवीम्.च.रौद्रीम्.च.जुहुयाद्.उत्तरे.ततः.।
१.५.(२३ ) अवसानस्य.पतये.तथा.अनुमतये.अपि.च.॥

१.५.(२४ ) धन्वन्तरय.इत्य्.अन्या.गन्धर्व.अप्सरसाम्.अपि.।
१.५.(२४ ) दशमी.ब्राह्मणस्पत्या.परा.तु.ब्रह्मणे.स्मृता.॥

१.५.(२५ ) सरस्वत्यै.तथा.विष्णोर्.अन्त्या.सौविष्टकृत्य्.अपि.।
१.५.(२५ ) आज्य.आहुतय.एव.आदौ.स्थाली.पाके.हुते.पुनः.॥

१.५.(२६ ) हुत्वा.अग्निम्.तर्पयेद्.विप्रान्.शुचिर्.भुञ्जीत.वाग्.यतः.।
१.५.(२६ ) ततः.शेषम्.विधानेन.शुचिर्.भुञ्जीत.वाग्.यतः.॥

१.६.(२७ ) कृच्छ्राणाम्.एष.सर्वेषाम्.विधिर्.उक्तो.अनुपूर्वशः.।
१.६.(२७ ) प्राजापत्य.अतिकृच्छ्रस्य.तथा.सांतपनस्य.च.॥

१.६.(२८ ) पराकस्य.च.कृच्छ्रस्य.विधिश्.चान्द्रायणस्य.च.।
१.६.(२८ ) एकेन.शुद्धिम्.आप्नोति.द्वाभ्याम्.पापैः.प्रमुच्यते.॥

१.६.(२९ ) त्रिभिर्.सिध्यन्ति.मन्त्राश्.च.मुच्यते.च.उपपातकै.ह् ।(?)
१.६.(२९ ) चतुर्भिर्.भ्रूणहत्यायास्.तथैव.अयाज्य.याजनात्.॥

१.६.(३० ) पञ्चभिः.पातकैः.सर्वैर्.दुष्कृतैश्.च.प्रमुच्यते.।
१.६.(३० ) तप्त.कृच्छ्रेण.सर्वाणि.पापानि.प्रतिबाधते.॥

१.६.(३१ ) चान्द्रायणम्.सह.आद्य्.अन्तम्.एभि.ः.कृच्छ्रैः.समम्.स्मृतम्.।
१.६.(३१ ) त्रिभिश्.चान्द्रायणैः.पूतो.ब्रह्म.लोकम्.समश्नुते.॥

१.७.(३२ ) अष्टाभिर्.देवताः.साक्षात्.पश्येत.वरदास्.तथा.।
१.७.(३२ ) छन्दांसि.दशभिर्.ज्ञात्वा.सर्वान्.कामान्त्.समश्नुते.॥

१.७.(३३ ) त्र्यहम्.प्रातस्.त्र्यहम्.सायम्.त्र्यहम्.अद्याद्.अयाचितम्.।
१.७.(३३ ) त्र्यहम्.परम्.च.न.अश्नीयात्.प्राजापत्यम्.चरन्.द्विजः.॥

१.७.(३४ ) एक.एकम्.ग्रासम्.अश्नीयात्.त्र्यहाणि.त्रीणि.पूर्ववत्.।
१.७.(३४ ) त्र्यहम्.च.उपवसेद्.अन्त्यम्.अतिकृच्छ्रम्.चरन्.द्विजः.॥

१.७.(३५ ) गो.मूत्रम्.गोमयम्.क्षीरम्.दधि.सर्पिः.कुश.उदकम्.।
१.७.(३५ ) एक.रात्र.उपवासश्.च.कृच्छ्रः.सांतपनः.स्मृतः.॥

१.७.(३६ ) एतम्.एव.त्र्यहैर्.युक्तम्.महा.सांतपनम्.विदुः.।
१.७.(३६ ) उपवासस्.तु.सत.अहम्.शिशु.सांतपनम्.स्मृतम्.॥

१.८.(३७ ) तप्त.कृच्छ्रम्.चरन्.विप्रो.जल.क्षीर.घृत.अनिलान्.।
१.८.(३७ ) प्रतित्र्यहम्.पिबेद्.उष्णान्त्.सकृत्स्नायी.संहाहितः.॥

१.८.(३८ ) नियतस्.तु.पिबेद्.अपः.प्राजापत्य.विधिः.स्मृतः.।
१.८.(३८ ) यति.कृच्छ्रम्.वदन्त्य्.एतद्.रपसाम्.अपनोदनम्.॥

१.८.(३९ ) यत.आत्मनो.अप्रमत्तस्य.द्वादश.अहम्.अभोजनम्.।
१.८.(३९ ) पराको.नाम.कृच्छ्रो.अयम्.सर्व.पाप.अपनोदनः.॥

१.८.(४० ) एक.एकम्.ह्रासयेत्.पिण्डम्.कृष्णे.शुक्ले.च.वर्धयेत्.।
१.८.(४० ) उपस्पृशंस्.त्रिषवणम्.एतच्.चान्द्रायणम्.व्रतम्.॥

१.८.(४१ ) एतम्.एव.विधिम्.कृत्स्नम्.आचरेद्.यव.मध्यमे.।
१.८.(४१ ) शुक्ल.पक्ष.आदि.नियतः.चरंश्.चान्द्रायण.व्रतम्.॥

१.९.(४२ ) चतुरः.प्रातर्.अश्नीयाद्.विप्रः.पिण्डान्.कृत.आह्निकः.।
१.९.(४२ ) चतुरो.अस्तमिते.सूर्ये.शिशु.चान्द्रयणम्.स्मृतम्.॥

१.९.(४३ ) अष्टाव्.अष्टौ.समश्नीयात्.पिण्डान्.मध्यंदिने.स्थिते.।
१.९.(४३ ) नियत.आत्मा.हविष्यस्य.यति.चान्द्रायण.व्रतम्.॥

१.९.(४४ ) यथा.कथंचित्.पिण्डानाम्.तिस्रो.अशीतीः.समाहितः.।
१.९.(४४ ) मासेन.अश्नन्.हविष्यस्य.चन्द्रस्य.एति.सलोकताम्.॥

१.९.(४५ ) एतद्.रुद्रास्.तथा.आदित्या.वसवश्.च.आचरन्.व्रतम्.।
१.९.(४५ ) सर्व.अकुशल.मोक्षाय.मरुतश्.च.ऋभुभिः.सह.॥

१.९.(४६ ) यावकः.सप्त.रात्रम्.तु.पातव्यो.नियत.आत्मना.।(?)
१.९.(४६ ) स्थान.आसन.त्रिषवणैर्.जपता.पावनानि.च.॥

१.१०.(४७ ) एक.एकम्.सप्त.रात्रेण.पुनाति.विधिवत्.कृतः.।
१.१०.(४७ ) त्वग्.असृक्.पिशित.अस्थीनि.मेदो.मज्जानम्.एव.च.॥

१.१०.(४८ ) एक.एकम्.सप्त.रात्रम्.तु.त्वग्.आदीनाम्.विशोधनम्.।
१.१०.(४८ ) एभिर्.व्रतैर्.विपूत.आत्मा.कुर्यात्.कर्माण्य्.अतन्द्रितः.॥

१.१०.(४९ ) इष्टान्.कामान्.ततः.सर्वान्.अवाप्नोति.न.संशयः.।
१.१०.(४९ ) कण.पिण्याक.तक्राणाम्.एक.एकम्.शोधनम्.भवेत्.॥

१.१०.(५० ) शुद्ध.आत्मा.कर्म.कुर्वीत.सत्य.वादी.जित.इन्द्रियः.।
१.१०.(५० ) एवम्.शुद्धस्य.कर्माणि.मन्त्रैर्.वक्ष्यामि.तद्यथा.॥

१.१०.(५१ ) त्रिरात्रम्.एव.उपवसेद्.आदितः.सर्व.कर्मणाम्.।
१.१०.(५१ ) त्रीणि.नक्तानि.वा.कुर्यात्.ततः.कर्म.समारभेत्.॥

१.११.(५२ ) नित्य.प्रयोगिणाम्.चैव.प्रयोग.आदौ.व्रतम्.त्र्यहम्.।
१.११.(५२ ) उपरिष्टाद्.उपवसेत्.कृत्वा.वा.साम्निपातिकम्.॥

१.११.(५३ ) आयुष्याण्य्.एव.कर्माणि.मत्र.युक्तः.समारभेत्.।
१.११.(५३ ) शंवत्यः.स्वस्तिमत्यश्.च.जपेत.त्रिवृता.ऋचः.॥

१.११.(५४ ) अरण्ये.च.उदिते.सूर्ये.दिशम्.प्राप्य.अपराजिताम्.।
१.११.(५४ ) प्राचीम्.अथ.उत्तराम्.वा.अपि.शुचौ.देशे.समाहितः.॥

१.११.(५५ ) सवासाः.सशिरस्को.अप्सु.स्नात्वा.अभ्युक्ष्य.जपेद्.द्विजः.।
१.११.(५५ ) शुद्धवत्यस्.तथा.अब्वत्यः.पावमान्यो.अघमर्षणम्.॥

१.११.(५६ ) एवम्.त्रिर्.आप्लुत्य.शुचिः.प्राण.आयामान्त्.समाचरेत्.।
१.११.(५६ ) त्रीन्.षड्.अष्टौ.द्वादश.वा.षोडश.अष्टादश.अपि.वा.॥

१.१२.(५७ ) आशताद्.वायमेत्.प्राणान्.जपन्.ब्रह्म.अघमर्षणम्.।(?)
१.१२.(५७ ) यावद्.वा.मनसस्.तुष्टिस्.तावत्.प्राणान्त्.समायमेत्.॥

१.१२.(५८ ) यथा.यथा.मनस्.तस्य.दुष्कृतम्.कर्म.गर्हति.।
१.१२.(५८ ) तथा.तथा.शरीरम्.तत्.तेन.अधर्मेण.मुच्यते.॥

१.१२.(५९ ) प्राण.आयामैर्.दग्ध.दोषः.शुक्ल.अम्बर.धरः.शुचिः.।
१.१२.(५९ ) यथा.विध्य्.अप.आचम्य.आरोहेद्.धर्म.प्रस्तरम्.॥

१.१२.(६० ) पवित्र.पाणिः.कृत्वा.तु.उपस्थम्.दक्षिण.उत्तरम्.।
१.१२.(६० ) दिशोर्.एव.अन्तरम्.प्रेक्ष्य.अनिमिषम्.छाद्य.चक्षुषी.॥

१.१२.(६१ ) ओम्.कार्म.व्याहृतीस्.तिस्रः.सावित्रीम्.च.तद्.इत्य्.ऋचम्.।
१.१२.(६१ ) मनसा.एता.अनुद्रुत्य.वेद.आदिम्.समुपकमेत्.॥

१.१३.(६२ ) मन्द्रम्.एव.पठेत्.प्रातर्.उच्चैर्.मध्यंदिने.पठेत्.।
१.१३.(६२ ) उच्चैर्.एव.अपर.अह्ने.तु.संध्या.काल.उपारमेत्.॥

१.१३.(६३ ) ब्राह्मे.मुहूर्ते.च.उत्थाय.त्रिर्.आप्लुत्य.पठेद्.द्विजः.।
१.१३.(६३ ) मध्यमाम्.वृत्तिम्.आस्थाय.न.द्रुताम्.न.विलम्बिताम्.॥

१.१३.(६४ ) पूर्वाम्.संध्याम्.जपैस्.तिष्ठेद्.उपासीत.च.पश्चिमाम्.।
१.१३.(६४ ) न.च.अन्तरा.व्याहरेत.विरमेद्.वा.कथंचन.॥

१.१३.(६५ ) विरमेद्.ब्राह्मणे.प्राप्ते.कामम्.तेन.तु.संवदेत्.।
१.१३.(६५ ) शूद्रम्.दृष्ट्वा.एव.सम्प्राप्तम्.न.अधीयीत.कथंचन.॥

१.१३.(६६ ) आग्नेयम्.सूक्तम्.आद्यम्.तु.मुख्यम्.ब्रह्म.ऋषि.सम्मतम्.।
१.१३.(६६ ) रायस्.पोष.करम्.धन्यम्.जपन्.विप्रो.अर्थम्.आप्नुयात्.॥

१.१४.(६७ ) ऋषिम्.सर्वम्.इदम्.जप्त्वा.सपुतम्.नियत.ः.शुचिः.।(?)
१.१४.(६७ ) संहिता.फलम्.आप्नोति.ऋग्वेदस्य.न.संशयः.॥

१.१४.(६८ ) एकादश.गुणम्.ह्य्.एतज्.जपन्.ब्रह्म.सनातनम्.।
१.१४.(६८ ) सर्वान्.कामान्.अवाप्नोति.पापैश्.च.परिमुच्यते.॥

१.१४.(६९ ) अनश्नन्.संहिताम्.एताम्.प्रातः.प्रातर्.दिने.दिने.।
१.१४.(६९ ) आयुर्.विध्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥

१.१४.(७० ) एतद्.ब्रह्म.जपन्.शूद्रान्.न.ईक्षेत.अन्यांश्.च.तद्विधान्.।
१.१४.(७० ) प्रेक्ष्य.आचम्य.उदकम्.पूतः.पश्येद्.गाम्.अग्नि.भास्करौ.॥

१.१४.(७१ ) मन्द्रम्.जपो.दश.गुण.उपांशु.स्यात्.शत.अन्वितः.।
१.१४.(७१ ) सहस्रम्.मानसम्.विद्याद्.एष.जप्य.विधिः.स्मृतः.॥

१.१५.(७२ ) आदाव्.एव.तु.सावित्र्या.कर्म.कुर्वीत.शान्तये.।
१.१५.(७२ ) पुष्टये.धन.लाभाय.पशु.लाभाय.भूतये.॥

१.१५.(७३ ) एषा.हि.सम्मिता.वेदैः.सर्व.ब्रह्ममई.निचृत्.।
१.१५.(७३ ) उग्रेण.तपसा.दृष्टा.विश्वामित्रेण.धीमता.॥

१.१५.(७४ ) होमांश्.च.जप.यज्ञांश्.च.नित्यम्.कुर्वीत.च.एतया.।
१.१५.(७४ ) सर्व.काम.समृद्ध्य्.अर्थम्.परम्.ब्रहम्.इदम्.उच्यते.॥

१.१५.(७५ ) एषा.एव.प्रतिलोम.उक्ता.पच्छः.शत्रु.विनाशिनी.।(?)
१.१५.(७५ ) अक्षर.प्रतिलोमा.इयम्.अभिचारेषु.शस्यते.॥

१.१५.(७६ ) अक्षर.प्रतिकोमा.इयम्.यस्मिन्.युज्येत.कर्मणि.।
१.१५.(७६ ) तद्.अमोघम्.विजानीयाद्.एतद्.वै.ब्रह्मणो.बलम्.॥

१.१५.(७७ ) व्याघातक.इध्म.समिधो.अक्षर.प्रतिलोमया.।(?)
१.१५.(७७ ) जुहुयात्.सार्षपम्.तैलम्.वैभीतक.कृत.स्रुचा.॥

१.१५.(७८ ) य.इच्छेत्.पीडनम्.शत्रोर्.अपि.वा.उच्चाटनम्.पुनः.।
१.१५.(७८ ) पच्छः.सम्पीडयेत्.शत्रून्.वर्णशश्.च.प्रमापयेत्.॥

१.१६.(७९ ) ऋग्वेद.आद्य.सूक्तस्य.विधिम्.वक्ष्याम्य्.अतः.परम्.।
१.१६.(७९ ) यथा.ऋषिर्.मधुच्छन्दाः.कर्म.एतेन.अकरोत्.पुरा.॥

१.१६.(८० ) शिरसा.धारयेद्.अग्निम्.नियतः.परिवत्सरम्.।
१.१६.(८० ) चतुर्थ.प्राण.कालीयो.हुत.शिष्टम्.अदन्.हविः.॥

१.१६.(८१ ) जुह्वत्.त्रिर्.उपतिष्ठेत.सत्य.वादी.दिने.दिने.।
१.१६.(८१ ) व्रत.काले.तु.सम्प्राप्त.आग्नेयम्.निर्वपेच्.चरुत्म्.॥

१.१६.(८२ ) अनग्नौ.ध्यात.मात्रो.अग्निर्.व्रत.अन्ते.अस्य.उपतिष्ठति.।
१.१६.(८२ ) दहेयम्.इति.यम्.चेच्छेत्तम्.दहत्य्.एव.पावकः.॥(?)
१.१६.(८३ ) अप्स्व्.अप्य्.अग्निर्.ज्वलत्य्.एव.तद्.व्रतस्य.महात्मनः.।
१.१६.(८३ ) समर्धयति.तम्.च.इष्टैः.कामैर्.वह्निः.प्रयत्नतः.॥

१.१७.(८४ ) अतः.परम्.तृचाः.सप्त.वाय्व्.आद्या.ये.प्रकीर्तिताः.।
१.१७.(८४ ) तान्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥

१.१७.(८५ ) मेधातिथाव्.ऋषौ.पुनः.सदसस्.पतिम्.इत्य्.ऋचम्.।
१.१७.(८५ ) मेधा.कामो.जपेन्.नित्यम्.जुहुयात्.च.आज्यम्.एतया.॥

१.१७.(८६ ) स्योना.इति.पृथिवीम्.नित्यम्.स्नात्वा.विप्रः.शुचिर्.जपेत्.।
१.१७.(८६ ) विन्दते.महतीम्.भूमिम्.असपत्नाम्.अकण्टकाम्.॥

१.१७.(८७ ) इदम्.विष्णुर्.इति.इमाभिः.पञ्चभिः.श्राद्ध.कर्मणि.।
१.१७.(८७ ) अङ्गुष्ठम्.अन्ने.अवगाह्य.तेन.रक्षांसि.बाधते.॥

१.१७.(८८ ) सप्त.जन्म.कृतम्.पापम्.कृत्वा.च.अभक्ष्य.भक्षणम्.।
१.१७.(८८ ) तद्.विष्णोर्.इत्य्.अपाम्.मध्ये.सकृज्.जप्त्वा.विशुध्यति.॥

१.१७.(८९ ) अम्बयो.यन्ति.या.प्रोक्ता.नवर्चस्.त्व्.अभिषेचनीः.।
१.१७.(८९ ) आयुष्यास्.ताः.परिप्रोक्ता.भैषज्याः.पाप.मोचनीः.॥

१.१७.(९० ) शुनह्शेपम्.ऋषिम्.बद्धः.सन्निरुद्धो.अथवा.जपेत्.।
१.१७.(९० ) मुच्यते.सर्व.पाशेभ्यो.गदी.च.अप्य्.अगदी.भवेत्.॥

१.१७.(९१ ) य.इच्छेत्.शाश्वतान्.कामान्.इन्द्रात्.प्राप्तुम्.पुरंदरात्.।
१.१७.(९१ ) स.षोडशभिर्.एव.ऋग्भिर्.इन्द्रम्.स्तूयाद्.दिने.दिने.॥

१.१८.(९२ ) हैरण्यस्तूपम्.इन्द्रस्य.सूक्तम्.कर्म.अभिसंस्तवम्.।
१.१८.(९२ ) तज्.जपन्.प्रयतः.शत्रून्.अयत्नात्.प्रतिबाधते.॥

१.१८.(९३ ) आकृष्णेन.इत्य्.ऋचा.त्व्.एव.यो.नित्यम्.सूर्यम्.अर्चति.।
१.१८.(९३ ) प्रातर्.मध्ये.अस्तगम्.वा.अपि.स.जीवेद्.अगदः.सुखी.॥

१.१८.(९४ ) आकृष्णेन.इत्य्.ऋचम्.त्व्.एकाम्.ध्यायन्.निशि.दिव.ओकसः.।
१.१८.(९४ ) अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥

१.१८.(९५ ) ये.ते.पन्था.इति.इमाम्.तु.सावित्रीम्.अध्वगो.अभ्यसेत्.।
१.१८.(९५ ) स्वस्तिमान्.व्रजते.अध्वानम्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥

१.१८.(९६ ) सम्.पूषन्न्.इति.यत्.सूक्तम्.घौरैः.कण्वो.जगाव्.ऋषिः.।
१.१८.(९६ ) अध्वन्य्.एतद्.विज्ञेयम्.परिपन्थ्य्.अपसेधनम्.॥

१.१८.(९७ ) रौद्रीभिः.षड्भिर्.ईशानम्.तुष्टूयाद्.यो.दिने.दिने.।
१.१८.(९७ ) स.नारी.नर.गो.शान्तिम्.शङ्करात्.प्राप्नुयात्.सदा.॥

१.१८.(९८ ) एतेन.एव.षडर्चेन.जुहुयाद्.आज्यम्.अन्वहम्.।
१.१८.(९८ ) चरुम्.वा.कल्पयेद्.रौद्रम्.भूति.कामो.अथ.पर्वसु.॥

१.१९.(९९ ) उद्.इत्य्.उद्यन्तम्.आदित्यम्.उपतिष्ठेद्.दिने.दिने.।
१.१९.(९९ ) हृद्.रोग.नाशनम्.ह्य्.एतत्.परम.आरोग्य.वर्धनम्.॥

१.१९.(१०० ) द्विषन्तम्.इत्य्.अथ.अर्धर्चम्.यम्.द्विष्यात्.तम्.जपन्त्.स्मरेत्.।
१.१९.(१०० ) आगस्.कृत्.सप्त.रात्रेण.विद्वेषम्.अधिगच्छति.॥

१.१९.(१०१ ) रोगैर्.गृहीतो.अरोगी.च.प्रस्कण्वस्य.उत्त्तमम्.तृचम्.।
१.१९.(१०१ ) आरोग्यम्.एतत्.प्रयतो.जपेन्.नित्यम्.अनेकशः.॥

१.१९.(१०२ ) उत्तमस्.तस्य.च.अर्धर्चो.द्विषद्.द्वेष.इति.स्मृतः.।
१.१९.(१०२ ) यम्.द्विष्यात्.तम्.अभिध्यायेद्.दृष्ट्वा.च.एनम्.जपेद्.इदम्.॥

१.१९.(१०३ ) आगस्.कृच्.चेत्.त्रि.रात्रेण.विद्वेषम्.सन्नियच्छति.।
१.१९.(१०३ ) उदयत्य्.आयुर्.अक्षय्यम्.तेजो.मध्यंदिने.जपन्.॥

१.२०.(१०४ ) अस्तम्.व्रजति.सूर्ये.तु.द्विषन्तम्.प्रतिबाधते.।
१.२०.(१०४ ) ओजस्.तेजस्.तथा.आरोग्यम्.द्विषद्.द्वेषम्.प्रकीर्तितम्.॥

१.२०.(१०५ ) नव.पश्वा.इति.सूक्तानि.यानि.गर्भे.पराशरः.।
१.२०.(१०५ ) अरातीनाम्.हरेत्.प्राणान्.छत्रंश्.चैव.नियच्छति.॥

१.२०.(१०६ ) सौपर्णानि.पवित्राणि.सूक्तान्य्.एकादश.अभ्यसेत्.।
१.२०.(१०६ ) वाञ्छन्.पुत्रान्.पशून्.वित्तम्.स्वर्गम्.आयुर्.अनन्धताम्.॥

१.२०.(१०७ ) आध्यात्मिकीः.क.इत्य्.एता.जपैस्.तु.सुसमाहितः.।
१.२०.(१०७ ) प्राप्नुयात्.स.परम्.धाम.विश्वम्.ज्योतिः.सनातनम्.॥

१.२०.(१०८ ) आनोहद्रीयम्.आयुष्यम्.वैश्वदेवम्.जपन्.मुनिः.।
१.२०.(१०८ ) मुमूर्षुर्.अपि.जप्त्वा.एतत्.सर्वम्.आयुर्.अवाप्नुयात्.॥

१.२१.(१०९ ) पितॄणाम्.श्राद्ध.काले.तु.मध्व्.इत्य्.एतत्.तृचम्.जपेत्.।
१.२१.(१०९ ) अघोराः.पितरस्.तस्य.विशन्ति.ज्योतिर्.उत्तमम्.॥

१.२१.(११० ) त्वम्.सोम.इति.तु.सूक्तेन.पश्येच्.चन्द्रम्.उपोदितम्.।
१.२१.(११० ) उपतिष्ठेत्.समित्.पाणिर्.मासि.मासि.नवम्.नवम्.॥

१.२१.(१११ ) तम्.मासम्.तस्य.दुह्खम्.हि.न.जातु.त्रिविधम्.भवेत्.।
१.२१.(१११ ) गोतमेन.पुरा.दृष्टम्.मृत्योर्.नाशनम्.आत्मनः.॥

१.२१.(११२ ) उद्यन्तम्.उपतिष्ठेत.पूर्णे.च.एतत्.समाहितः.।
१.२१.(११२ ) वासांस्य्.अपि.स.विन्देत.चन्द्रस्य.एति.सलोकताम्.॥

१.२१.(११३ ) धन.कामो.जपेन्.नित्यम्.एता.इति.तु.नित्यशः.।
१.२२.(११३ ) स्नात्वा.शुचिस्.तु.नियत.इष्टम्.धनम्.अवाप्नुयात्.॥

१.२२.(११४ ) आयुर्.ईप्सन्न्.इमम्.इति.कौत्सम्.सूक्तम्.सदा.अभ्यसेत्.।
१.२२.(११४ ) आज्य.आहुतिश्.च.जुहुयात्.प्रत्यृचम्.वाग्.यतः.शुचिः.॥

१.२२.(११५ ) जपेद्.आप्लुत्य.नियतः.स.साक्षाद्.आपदम्.तरेत्.।
१.२२.(११५ ) अप.नः.शोशुचद्.इति.स्नात्वा.मध्यंदिने.रवौ.॥

१.२२.(११६ ) शुद्धि.कामो.यत.आहारः.प्रत्यृचम्.जुहुयाद्.घृतम्.।
१.२२.(११६ ) समिधो.अन्वहम्.अष्टौ.वा.सूक्तम्.एतद्.अघ.अपहम्.॥

१.२२.(११७ ) यथा.मुञ्ज.आदि.वेषीका.तथा.पापात्.प्रमुच्यते.।
१.२२.(११७ ) जातवेदस.इत्य्.आदि.सदा.स्वस्त्ययने.जपेत्.॥

१.२२.(११८ ) दुर्गे.पथि.प्रयातस्य.न.अस्य.अरिभ्यो.भयम्.भवेत्.।
१.२२.(११८ ) राज.कार्ये.अश्व.यूथे.वा.अभिशस्तो.अप्य्.अनेकधा.॥

१.२२.(११९ ) अशक्ये.प्रतिभा.कार्ये.भये.प्राण.अन्तिके.अपि.वा.।(?)
१.२२.(११९ ) जातवेदस.इत्य्.एताम्.जपंस्.तेभ्यः.प्रमुच्यते.॥

१.२२.(१२० ) सिषाधयिषुर्.अर्थम्.च.प्रस्थितो.मनसा.जपेत्.।
१.२२.(१२० ) सिद्ध.अर्थः.स्वस्तिमान्.एति.प्रमीयेत.न.च.अध्वनि.॥

१.२३.(१२१ ) कृत.अर्थः.स्व.गृहान्.गच्छन्न्.एताम्.एव.सदा.अभ्यसेत्.।
१.२३.(१२१ ) उदिते.सवितर्य्.एताम्.जपेद्.अस्तम्.गते.तथा.॥

१.२३.(१२२ ) अहः.स्वस्त्ययनम्.प्राता.रात्रि.स्वस्त्ययनम्.निशि.।
१.२३.(१२२ ) व्युष्टायाम्.च.जपेन्.नित्यम्.एताम्.दुह्स्वप्न.नाशिनीम्.॥

१.२३.(१२३ ) प्रमन्दिन.इति.सूयन्त्याम्.जपेद्.गर्भ.प्रमोचिनीम्.।
१.२३.(१२३ ) इन्द्रम्.च.मनसा.ध्यायेन्.नारी.गर्भम्.प्रमुञ्चति.॥

१.२३.(१२४ ) आपत्सु.सर्व.कामो.वा.त्रितम्.नित्यम्.जपेद्.ऋषिम्.।
१.२३.(१२४ ) जपन्न्.इन्द्र्म.इति.स्नातो.वैश्वदेवम्.तु.सप्तकम्.॥

१.२३.(१२५ ) मुच्यते.जुह्वद्.आज्यम्.तु.विश्वस्माद्.एव.सो.अंहसः.।
१.२३.(१२५ ) शन्तातीयम्.परम्.सूक्तम्.पञ्च.विंशकम्.उत्तमम्.॥

१.२३.(१२६ ) नासत्यौ.तु.नमस्.कृत्वा.परा.म्.ऋद्धिम्.अवाप्नुयात्.।
१.२३.(१२६ ) धर्म.संस्तवम्.सूक्तम्.रपसश्.च.प्रमोचनम्.॥

१.२३.(१२७ ) इमा.इति.जपेत्.शश्वद्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.।
१.२३.(१२७ ) आयुर्.विद्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥

१.२४.(१२८ ) वीरेष्व्.अपत्य.गोष्ठेषु.दुह्स्वप्ने.रिप्रम्.आत्मनः.।
१.२४.(१२८ ) मा.नो.महान्तम्.इत्य्.आभ्याम्.त्रि.रात्र.उपोषितः.शुचिः.॥

१.२४.(१२९ ) औदुम्बरीस्.तु.जुहुयाद्.दधि.मध्व्.आज्य.संस्कृताः.।
१.२४.(१२९ ) सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.कर्मणाम्.॥

१.२४.(१३० ) ऊर्ध्व.बाहुस्.तु.सूक्तेन.तुष्ट्वा.च.शतशो.भवम्.।
१.२४.(१३० ) छित्त्वा.सर्वान्.मृत्यु.पाशान्.जीवेद्.रोगैर्.विवर्जितः.॥

१.२४.(१३१ ) तिष्ठन्न्.उद्यन्तम्.आदित्यम्.समित्.पाणिः.शुचिः.सदा.।
१.२४.(१३१ ) चित्रम्.इत्य्.उपतिष्ठेत.सूक्तेन.अनेन.भास्करम्.॥

१.२४.(१३२ ) अतिस्तवेन.च.एतेन.नित्यम्.मध्यंदिने.रविम्.।
१.२४.(१३२ ) गृणन्न्.अपोहते.रिप्रम्.प्राप्नोति.च.धन.आयुषी.॥

१.२५.(१३३ ) अधः.स्वप्नस्य.इति.जपेत्.प्रातः.प्रातर्.दिने.दिने.।
१.२५.(१३३ ) दुः.स्वप्नम्.नुदते.क्षिप्रम्.न.च.अस्य.अभोजनाद्.भयम्.॥

१.२५.(१३४ ) उभे.पुनामि.इति.परा.रिपुघ्न्यस्.तु.प्रकीर्तिताः.।
१.२५.(१३४ ) ता.जपन्.हन्ति.रक्षांसि.सपत्नांश्.च.नियच्छति.॥

१.२५.(१३५ ) निर्वर्त्य.पञ्च.यज्ञांश्.च.हुत्वा.च.अग्निम्.कृत.आह्निकः.।
१.२५.(१३५ ) ये.देवासो.दिव्य.नया.जपन्.कामान्.अवाप्नुयात्.॥

१.२५.(१३६ ) इन्द्रा.विष्णू.नमस्.कृत्य.विष्णोर्.नु.कम्.इति.त्रिभिः.।
१.२५.(१३६ ) समित्.पाणिः.शुचिर्.भूत्वा.उपतिष्ठेद्.दिने.दिने.॥

१.२५.(१३७ ) धर्मम्.बुद्धिम्.धनम्.पुत्रान्.आरोग्यम्.ब्रह्म.वर्धनम्.।
१.२५.(१३७ ) प्राप्नोति.च.परम्.स्थानम्.ज्योती.रूपम्.सनातनम्.॥

१.२५.(१३८ ) आततायिनम्.आयान्तम्.दृष्ट्वा.व्याघ्रम्.अथो.वृकम्.।
१.२५.(१३८ ) न.मा.गरन्न्.इति.जपंस्.तेभ्य.एव.प्रमुच्यते.॥

१.२५.(१३९ ) त्रि.रात्र.उपोषितो.रात्रौ.जपेद्.आसूर्य.दर्शनात्.।
१.२५.(१३९ ) आप्लुत्य.प्रयतः.सौरीर्.उपतिष्ठेद्.दिवाकरम्.॥

१.२६.(१४० ) न.एनम्.पश्यन्ति.वै.चौरास्.तथा.अन्ये.पाप.वृत्तयः.।
१.२६.(१४० ) एकः.शतानि.त्रायेत.तस्करेभ्यश्.चरन्.पथि.॥

१.२६.(१४१ ) स्तेयम्.कृत्वा.द्विजो.मोहात्.त्रि.रात्र.उपोषितः.शुचिः.।
१.२६.(१४१ ) सूक्तम्.जप्त्वा.अस्य.वामीयम्.क्षिप्रम्.मुच्येत.किल्बिषात्.॥

१.२६.(१४२ ) ज्ञाति.पुत्र.सुहृन्.मित्रैर्.यश्.च.राज्यम्.चिकीर्षति.।
१.२६.(१४२ ) नित्यम्.स.नियतो.भूत्वा.सूक्तम्.तु.मनसा.जपेत्.॥

१.२६.(१४३ ) कया.शुभा.इति.पैशुन्यम्.कृत्वा.आचार्य.नृप.द्विजैः.।
१.२६.(१४३ ) श्रुत्वा.पर.रहस्यम्.तु.गुरोर्.अप्य्.आह.शौनकः.॥

१.२६.(१४४ ) इमम्.नु.सोमम्.इत्य्.एते.द्वे.ऋचौ.प्रयतो.जपेत्.।
१.२६.(१४४ ) सर्वान्.कामान्.अवाप्नोति.न.किंचित्.पातकम्.भवेत्.॥

१.२६.(१४५ ) पितुम्.न्व्.इत्य्.उपतिष्ठेत.नित्यम्.अन्नम्.उपस्थितम्.।
१.२६.(१४५ ) पूजयेद्.अशनम्.नित्यम्.भुञ्जीयाद्.अविकुत्सितम्.॥

१.२७.(१४६ ) न.अस्य.स्याद्.अन्नजो.व्याधिर्.विषम्.अप्य्.अन्नताम्.इयात्.।
१.२७.(१४६ ) विषम्.च.पीत्वा.एतत्.सूक्तम्.जपेत.विष.नाशनम्.॥

१.२७.(१४७ ) न.अवाग्.यतस्.तु.भुञ्जीत.न.अशुचिर्.न.जुगुप्सितम्.।
१.२७.(१४७ ) दद्याच्.च.पूजयेच्.चैव.जुहुयाच्.च.शुचिः.सदा.॥

१.२७.(१४८ ) क्षुद्.भयम्.न.अस्य.किंचित्.स्यान्.न.अन्नजम्.व्याधिम्.आप्नुयात्.।
१.२७.(१४८ ) उत्पथ.प्रतिपन्नो.यो.भ्रष्टो.वा.अपि.पथः.क्वचित्.॥

१.२७.(१४९ ) पन्थानम्.प्रतिपद्येत.कृत्वा.वा.कर्म.गर्हितम्.।
१.२७.(१४९ ) अग्ने.नय.इति.सूक्तेन.प्रत्यृचम्.जुहुयाद्.घृतम्.॥

१.२७.(१५० ) जपंश्.च.प्रयतो.नित्यम्.उपतिष्ठेत.च.अनलम्.।
१.२७.(१५० ) स्नात्वा.जपेद्.अनर्वाणम्.नमस्.कृत्य.बृहस्पतिम्.॥

१.२८.(१५१ ) वीरान्.धनम्.च.प्राप्नोति.सुश्लोक्यम्.च.नियच्छति.।
१.२८.(१५१ ) कङ्कतो.न.इति.सूक्तम्.तु.विष.आर्तः.प्रयतो.जपेत्.॥

१.२८.(१५२ ) विषम्.न.क्रमते.च.अस्य.सर्पाद्.दृष्टि.विषाद्.अपि.।
१.२८.(१५२ ) यत्.कीटलूटासु.विषम्.दंष्ट्रि.वृश्चिकजम्.च.यत्.॥

१.२८.(१५३ ) मौलम्.च.कृत्रिमम्.चैव.जपन्त्.सर्वम्.व्यपोहति.।
१.२८.(१५३ ) धर्मम्.बुद्धिम्.धनम्.पुत्रान्.सौभाग्यम्.ब्रह्म.वर्चसम्.॥
१.२८.(१५४ ) आरोग्यम्.पुष्टिम्.आयुष्यम्.पशून्.विद्याम्.महद्.यशः.।
१.२८.(१५४ ) त्रि.रात्र.उपोषितः.स्नातः.प्रयतः.चरित.व्रतः.॥

१.२८.(१५५ ) प्राण.आयाम.शतम्.कृत्वा.उपतिष्ठेत्.शत.क्रतुम्.।
१.२८.(१५५ ) एक.अहम्.क्षुर.सम्युक्तः.पादौ.संधाय.वाग्.यतः.॥

१.२९.(१५६ ) यो.जात.इति.सूक्तेन.ऋषिम्.गृत्समदम्.स्मरन्.।
१.२९.(१५६ ) शत.कृत्वो.जपेद्.एतद्.इन्द्र.श्रेष्ठ.इति.च.अन्ततः.॥

१.२९.(१५७ ) एक.अहाल्.लभते.वित्तम्.द्व्य्.अहात्.सिद्धिम्.अनुत्तमाम्.।
१.२९.(१५७ ) अहोभिर्.त्रिभिर्.आरोग्यम्.चतुर्भिर्.अशनम्.बहु.॥

१.२९.(१५८ ) पञ्चभिर्.ब्रह्मवर्चस्यम्.षड्भिर्.आयुः.सुख.आवहम्.।
१.२९.(१५८ ) सप्तभिस्.तनयान्.पुष्टिम्.अष्टहिः.प्राप्नुयाद्.यशः.॥

१.२९.(१५९ ) प्रियो.भवति.च.इन्द्रस्य.प्रियम्.धाम.स.गच्छति.।
१.२९.(१५९ ) रिपुघ्नम्.दस्यु.शमनम्.रायस्.प्ष.करम्.परम्.॥

१.२९.(१६० ) गणानाम्.इति.यत्.सूक्तम्.तज्.जपेत्.सुख.वर्धनम्.।
१.२९.(१६० ) संध्ययोः.प्रयतस्.त्व्.एतज्.जपेन्.नित्यम्.बृहस्पतिम्.॥

१.३०.(१६१ ) उपतिष्ठेत.सूक्तेन.सर्व.काम.समृद्धये.।
१.३०.(१६१ ) यो.मे.राजन्न्.इति.इमाम्.तु.दुह्स्वप्न.शमनीम्.ऋचम्.॥

१.३०.(१६२ ) जप्त्वा.नाशयति.क्षिप्रम्.दुह्स्वप्नम्.ब्राह्मणः.शुचिः.।
१.३०.(१६२ ) अहो.रात्रम्.उपोष्य.एकम्.नियतो.ब्रह्मवित्तमः.॥

१.३०.(१६३ ) प्रजा.अर्थम्.जुहुयाद्.आज्यम्.चरुम्.वा.पयसि.श्रितम्.।
१.३०.(१६३ ) राका.महम्.इति.इमाभिः.षष्ठ्याम्.शुक्लस्य.पञ्चभिः.॥

१.३०.(१६४ ) हविः.शेषम्.स्वयम्.प्राश्य.विन्दते.महतीम्.प्रजाम्.।
१.३०.(१६४ ) व्याधिना.यो.अभिभूतः.स्याद्.घोरेण.प्राण.हारिणा.॥

१.३०.(१६५ ) चतुर्दशीम्.उपोष्य.एकाम्.कृष्णस्य.जुहुयाच्.चरुम्.।
१.३०.(१६५ ) आ.ते.सूक्तेन.रौद्रेण.प्रत्यृचम्.वाग्.यतः.शुचिः.॥

१.३१.(१६६ ) पूर्वम्.आज्य.आहुतीर्.हुत्वा.अथ.उपस्थाय.शंकरम्.।
१.३१.(१६६ ) हविः.शेषेण.वर्तेत.एकान्तरम्.अतन्द्रितः.॥

१.३१.(१६७ ) पूर्णे.मासि.जपेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.।
१.३१.(१६७ ) अभिशस्येत.यो.मोहात्.कुर्याद्.वा.कर्म.गर्हितम्.॥

१.३१.(१६८ ) स्नात्वा.भुञ्जन्.जपेद्.अप्सु.अम्बी.इत्य्.ऋचम्.अतन्द्रितः.।
१.३१.(१६८ ) अध्वनि.प्रस्थितो.यस्.तु.पश्येत्.शकुनिम्.उत्थितम्.॥

१.३१.(१६९ ) अप्रशस्तम्.प्रशस्तम्.वा.स्थित्वा.ऐक्ष्य.प्रयतो.जपेत्.।
१.३१.(१६९ ) कनिक्रदद्.इति.सूक्ताभ्याम्.उपतिष्ठेत्.कृत.स्वरम्.॥

१.३१.(१७० ) शकुनिम्.वायसम्.वा.अपि.मृगम्.दंष्ट्रिणम्.एव.च.।
१.३१.(१७० ) अप्य्.अदृष्ट्वा.एव.जप्तव्यम्.एतत्.तस्कर.मोहनम्.।E

२.१.(१ ) कल्याण.वादी.वा.अन्यो.वा.न.वा.रौति.न.दृश्यत्
२.१.(१ ) जपेद्.एव.नमस्.कृत्य.सिद्ध.अर्थः.सन्.निवर्तते.॥

२.१.(२ ) न.तस्य.अस्ति.भयम्.किंचिद्.दस्युभ्यो.अध्वनि.वा.क्वचित्.।
२.१.(२ ) तरत्य्.अपि.च.दुर्गाणि.स्वस्तिमांश्.च.सुखी.भवेत्.॥

२.१.(३ ) यस्य.भुक्तम्.न.जीर्येत.न.तिष्ठेद्.वा.कथंचन.।
२.१.(३ ) ध्यात्वा.सो.अत्तारम्.अन्नस्य.अग्निर्.अस्मि.इत्य्.र्चम्.जपेत्.॥

२.१.(४ ) विश्वामित्रस्य.संवादम्.नद्य्.अतिक्रमणे.जपेत्.।
२.१.(४ ) आप्लुतस्य.आचम्य.विधिवद्.उदकस्य.अञ्जलिम्.क्षिपेत्.॥

२.१.(५ ) नमः.स्रवद्भ्य.इत्य्.एतद्.यो.नित्यम्.हि.समाचरेत्.।
२.१.(५ ) तम्.नद्यः.स्रोतसः.पान्ति.स्वम्.पुत्रम्.इव.मातरः.॥

२.२.(६ ) भयम्.च.अस्य.न.विद्यते.नदी.तीर.चरेष्व्.अपि.।
२.२.(६ ) जल.चरेभ्यो.भूतेभ्यः.शीत.उष्णैर्.न.च.बाध्यते.॥

२.२.(७ ) पूर्णाम्.तितीर्षुः.सरितम्.रमध्वम्.इति.संस्मरेत्.।
२.२.(७ ) ओ.स्व्.इत्य्.ऋचम्.अपाम्.मध्ये.जपेद्.यो.वै.नदीम्.तरन्.॥

२.२.(८ ) स.शीघ्रम्.तीरम्.आप्नोति.गाधम्.वा.विन्दते.द्विजः.।
२.२.(८ ) युक्तेन.एव.रथेन.आशु.यो.अपाम्.पारम्.तितीर्षति.॥

२.२.(९ ) उद्.व.ऊर्मिर्.इति.इमाम्.तु.जपेत.नियतः.स्वयम्.।
२.२.(९ ) अध्वानम्.प्रस्थितश्.चैवम्.आमन्द्रैर्.इति.संस्मरेत्.॥

२.२.(१० ) कार्याण्य्.अशेषतः.कृत्वा.पुनर्.आयाति.वै.गृहम्.।
२.२.(१० ) अदातारम्.सुपुष्ट.अर्थम्.सर्वदा.आविष्ट.चेतनम्.॥

२.२.(११ ) हत्वा.तद्.धनम्.अन्विच्छेत्.किम्.ते.कृण्वन्ति.इति.स्मरन्.।
२.२.(११ ) इन्द्रा.पर्वत.इति.सूक्तम्.आयुष्यम्.द्राविणम्.स्मृतम्.॥

२.३.(१२ ) वाग्.इन्द्रिय.प्रमूढो.यो.न.विद्याम्.प्रतिपद्यते.।
२.३.(१२ ) इन्द्रिय.अर्थान्य्.अथ.अर्थान्.वा.यो.न.वेत्ति.कथंचन.॥

२.३.(१३ ) विद्या.वा.अधिगता.यस्य.प्रणश्येत.पुनः.पुनः.।
२.३.(१३ ) ससर्परीर्.ऋचौ.जपन्.द्वौ.मासौ.प्रतिपद्यते.॥

२.३.(१४ ) अनसा.सम्प्रयातस्.तु.स्थिरौ.गावाव्.इति.स्मरेत्.।
२.३.(१४ ) चतस्रः.कुशलेन.एति.सिद्ध.अर्थः.स्थिरया.अनुगः.॥

२.३.(१५ ) यान.अक्षम्.अपभग्न.अन्तम्.दृष्ट्वा.दुर्गे.अध्वनि.द्विजः.।
२.३.(१५ ) अभि.व्ययस्व.इति.जपेद्.द्वृचम्.अक्ष.बलम्.दधत्.॥

२.३.(१६ ) कृष्ण.पक्षे.चतुर्दश्याम्.त्रि.रात्र.उपोषितः.शुचिः.।
२.३.(१६ ) दक्षिण.प्रवणे.देशे.श्मशानस्थः.समाहितः.॥

२.४.(१७ ) रक्त.उष्णीष्य्.असि.पाणिश्.च.बैल्वक.इध्मो.निल.अशनः.।(?)
२.४.(१७ ) सप्त.अहम्.जुहुयात्.तैलम्.सार्षपम्.लवण.अन्वितम्.॥

२.४.(१८ ) समिधो.राज.वृक्षस्य.वसिष्ठ.द्वेषिणीः.पठन्.।
२.४.(१८ ) यम्.द्विष्यात्.तस्य.कृत्वा.तु.शम्याकेन.आकृतिम्.निशि.॥

२.४.(१९ ) अधिष्ठाय.च.ताम्.कुर्याद्.ऋग्भिश्.चतसृभिर्.द्विजः.।
२.४.(१९ ) उद्दिश्य.नाम.होमो.अयम्.सप्त.रात्रम्.न.जीवति.॥

२.४.(२० ) वसिष्ठान्.अन्ततो.हन्ति.ब्रह्म.एतत्.कुशिक.उदितम्.।
२.४.(२० ) न.अस्य.कश्चिद्.अवध्यो.अस्ति.जपतो.जुह्वतो.अपि.वा.॥

२.४.(२१ ) द्वाविंशकम्.जपेत्.सूक्तम्.आध्यात्मिकम्.अनुत्तमम्.।
२.४.(२१ ) पर्वसु.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥

२.५.(२२ ) बृहस्पतिम्.अज.अश्वम्.च.सवितारम्.बभ्रुम्.एव.च.।
२.५.(२२ ) ऋतावृधौ.दिने.दिने.तृचैः.पञ्चभिर्.अन्वहम्.॥

२.५.(२३ ) बृहस्पत.इति.पञ्च.अहम्.प्रत्यृचम्.जुहुयाद्.घृतम्.।
२.५.(२३ ) हुत्वा.अग्निम्.अर्चयित्वा.तु.गन्ध.माल्यैः.सधूपकैः.॥

२.५.(२४ ) ता.एव.देवताः.पञ्च.कामैर्.अर्चन्ति.पञ्चभिः.।
२.५.(२४ ) रत्नैर्.अपत्यैः.पशुभिर्.मखैर्.दीर्घेण.च.आयुषा.॥

२.६.(२५ ) अथ.वेद.आदि.गीतायाः.प्रसाद.जननम्.विधिम्.।
२.६.(२५ ) गायत्र्याः.सम्प्रवक्ष्यामि.धर्म.काम.अर्थ.मोक्षदम्.॥

२.६.(२६ ) नित्ये.नैमित्तिके.काम्ये.त्रितये.तु.परायणम्.।
२.६.(२६ ) गायत्र्यास्.तु.परम्.न.अस्ति.इह.लोके.परत्र.च.॥

२.६.(२७ ) मेध्य.अन्न.मित.भुग्.मौनी.त्रिः.स्नान.अर्चन.तत्परः.।
२.६.(२७ ) जपेल्.लक्ष.त्रयम्.धीमान्.अनन्य.मानस.क्रियः.॥

२.६.(२८ ) कर्मभिर्.योजयेत्.पश्चात्.क्रमशः.स्व.इच्छया.अपि.वा.।
२.६.(२८ ) यावत्.कार्यम्.स.कुर्वीत.न.लोपेत्.तावत्.तद्.व्रतम्.॥

२.६.(२९ ) आदित्यस्य.उदये.स्नात्वा.सहस्रम्.प्रत्यहम्.जपेत्.।
२.६.(२९ ) आयुर्.आरोग्यम्.ऐश्वर्यम्.धनम्.च.लभते.ध्रुवम्.॥

२.७.(३० ) त्रि.रात्र.उपोषितः.सम्यग्.घृतम्.हुत्वा.सहस्रशः.।
२.७.(३० ) सहस्र.लाभम्.आप्नोति.हुत.अशे.खादिर.इन्धने.॥

२.७.(३१ ) पालाश.समिधाम्.चैव.घृत.अक्तानाम्.हुत.अशने.।
२.७.(३१ ) सहस्र.लाभम्.आप्नोति.राहु.सूर्य.समागमे.॥

२.७.(३२ ) हुत्वा.तु.खादिरे.वह्नौ.सघृतम्.रक्त.चन्दनम्.।
२.७.(३२ ) सहस्रम्.होमम्.आप्नोति.राहु.सूर्य.समागमेत्.॥

२.७.(३३ ) रक्त.चन्दन.मिश्रम्.तु.सघृतम्.हव्य.वाहने.।
२.७.(३३ ) हुत्वा.गोमयम्.आप्नोति.सहस्रम्.गो.धनम्.द्विजः.॥

२.७.(३४ ) यस्यास्.तु.गोर्.गोमयेन.गुटिकानाम्.सहस्रशः.।
२.७.(३४ ) हुत्वा.ताम्.गाम्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥

२.८.(३५ ) यवैर्.अश्वांस्.तिलैर्.हस्तीन्.महिष्यो.यावकैस्.तथा.।
२.८.(३५ ) शाली.ताण्डुल.होमेन.कन्या.लाभम्.अवाप्नुयात्.॥

२.८.(३६ ) जाती.चम्पक.राज.अर्क.कुसुमानाम्.सहस्रशः.।
२.८.(३६ ) हुत्वा.वस्त्राण्य्.अवाप्नोति.घृत.अक्तानाम्.हुत.अशने.॥

२.८.(३७ ) सूर्य.बिम्बे.जल.मध्ये.तोयम्.हुत्वा.सहस्रशः.।
२.८.(३७ ) सहस्रम्.प्राप्नुयाद्द्.हैमम्.रौप्यम्.इन्दुमये.हुते.॥

२.८.(३८ ) अलक्ष्मी.पाप.सम्युक्तो.मल.व्याधि.विनायकैः.।
२.८.(३८ ) मुच्येत्.सहस्र.जप्तेन.स्नायाद्.यस्.तु.जलेन.वै.॥

२.८.(३९ ) याम्.दिशम्.सप्त.जप्तेन.लोष्टेन.सम्प्रचाटयेत्.।
२.८.(३९ ) चौर.अग्नि.मारुत.उत्थानि.भयानि.न.भवन्ति.वै.॥

२.९.(४० ) क्षीर.आहारो.जपेल्.लक्षम्.अपमृत्युम्.व्यपोहति.।
२.१०.(४० ) घृत.आशी.प्राप्नुयान्.मेध्याम्.बहु.विज्ञान.संचयम्.॥

२.१०.(४१ ) हुत्वा.वेतस.पत्राणि.घृत.अक्तानि.हुत.अशने.।
२.१०.(४१ ) लक्षाद्.वर्षापयेद्.देवम्.सार्वभौमम्.न.संशयः.॥

२.१०.(४२ ) लक्षेण.भस्म.होमस्य.कृत्या.ह्य्.उत्तिष्ठते.जलात्.।
२.१०.(४२ ) आदित्य.अभिमुखः.स्थित्वा.न.अभिमात्रे.जले.शुचिः.॥

२.१०.(४३ ) तिलानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
२.१०.(४३ ) सर्व.काम.समृद्ध.आत्मा.पराम्.सिद्धिम्.अवाप्नुयात्.॥

२.१०.(४४ ) यवानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
२.१०.(४४ ) सर्व.काम.समृद्ध.आत्मा.परम्.स्थानम्.अवाप्नुयात्.॥

२.१०.(४५ ) घृतस्य.आहुति.लक्षेण.सर्वान्.कामान्.अवाप्नुयात्.।
२.१०.(४५ ) पञ्च.गव्य.अशनो.लक्षम्.जपेज्.जाति.स्मरो.भवेत्.॥

२.१०.(४६ ) तद्.एव.ह्य्.अनले.हुत्वा.प्राप्नोति.बहुशो.धनम्.।
२.१०.(४६ ) अन्न.अद्य.हवनान्.नित्यम्.अन्न.अद्यम्.च.भवेत्.सदा.॥

२.१०.(४७ ) जुहुयात्.सर्व.साध्यानाम्.आहुत्य्.अयुत.संख्यया.।
२.१०.(४७ ) रक्त.सिद्ध.अर्थकान्.हुत्वा.सर्वान्त्.साधयते.रिपून्.॥

२.१०.(४८ ) लवणम्.मधु.सम्युक्तम्.हुत्वा.सर्वम्.वशो.भवेत्.।
२.१०.(४८ ) हुत्वा.हु.कर.वीराणि.रक्तानि.जनयेज्.ज्वरम्.॥

२.१०.(४९ ) हुत्वा.वैभीतकम्.तैलम्.देशाद्.एव.प्रचाटयेत्.।
२.१०.(४९ ) हुत्वा.तु.निम्ब.पत्राणि.विद्वेषम्.जनयेन्.नृणाम्.॥

२.१०.(५० ) रक्तानाम्.तण्डुलानाम्.तु.घृत.अक्तानाम्.हुत.अशने.।
२.१०.(५० ) हुत्वा.बलम्.अवाप्नोति.शत्रुभिर्.न.जीयते.॥

२.११.(५१ ) प्रत्यानयन.सिद्ध्य्.अर्थम्.मधु.सर्पिः.समन्वितम्.।
२.११.(५१ ) गव्यम्.क्षीरम्.प्रदीप्ते.ग्नौ.जुह्वतस्.तत्.प्रशाम्यति.॥

२.११.(५२ ) ब्रह्म.चारी.मित.आहारो.यः.सहस्र.त्रयम्.जपेत्.।
२.११.(५२ ) संवत्सरेण.लभते.धन.ऐश्वर्यम्.न.संशयः.॥

२.११.(५३ ) शमी.बिल्व.पलाशानाम्.अर्कस्य.तु.विशेषतः.।
२.११.(५३ ) पुष्पाणाम्.समिधाम्.चैव.हुत्वा.हैमम्.अवाप्नुयात्.॥

२.११.(५४ ) अब्रह्म.त्र्यम्बक.आदीनाम्.यस्य.आयतनम्.आश्रितः.।
२.११.(५४ ) जपेल्.लक्षम्.निराहारः.स.तस्य.वरदो.भवेत्.॥

२.११.(५५ ) बिल्वानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
२.११.(५५ ) पराम्.श्रियम्.अवाप्नोति.यदि.न.भ्रूणहा.भवेत्.॥

२.१२.(५६ ) पद्मानाम्.लक्ष.होमेन.घृत.अक्तानाम्.हुत.अशने.।
२.१२.(५६ ) प्राप्नोति.राज्यम्.निखिलम्.असपत्नम्.अकण्टकम्.॥

२.१२.(५७ ) पञ्च.विंशति.लक्षेण.दधि.क्षीर.घृत.अशनः.।
२.१२.(५७ ) स्व.देहे.सिध्यते.जन्तुः.कौशिकस्य.मतम्.यथा.॥

२.१२.(५८ ) एक.अहम्.पञ्च.गव्य.आशी.एक.अहम्.मारुत.अशनः.।
२.१२.(५८ ) एक.अहम्.ब्राह्मण.अन्न.आशी.गायत्री.जप.उच्यते.॥

२.१२.(५९ ) शतेन.गायत्र्या.स्नात्वा.शतम्.अन्तर्.जले.जपेत्.।
२.१२.(५९ ) शतेन.अपस्.ततः.पीत्वा.सर्व.पापैः.प्रमुच्यते.॥

२.१२.(६० ) गोध्नः.पितृघ्नो.मातृघ्नो.ब्रह्महा.गुरु.तल्पणः.।
२.१२.(६० ) सुवर्ण.रत्न.हारी.च.यश्.च.विप्रः.सुराम्.पिबेत्.॥

२.१२.(६१ ) अयाज्य.याजनम्.कृत्वा.कृत्वा.वा.कर्म.गर्हितम्.।
२.१२.(६१ ) न.सीदेत्.प्रतिगृह्णानो.महीम्.अपि.ससागराम्.॥

२.१२.(६२ ) ये.च.अस्य.दुह्स्थिता.लोके.ग्रहाः.सूर्य.आदयो.भुवि.।
२.१२.(६२ ) ते.यान्ति.सौम्यताम्.सर्वे.शिवा.इति.न.संशयः.॥

२.१३.(६३ ) कृणुष्व.इति.जपन्त्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.।
२.१३.(६३ ) अरातीनाम्.हरेत्.प्राणान्.रक्षांस्य्.अपि.न.नाशयेत्.॥

२.१३.(६४ ) उपतिष्ठेत.यो.वह्निम्.परि.इत्य्.ऋचा.दिने.दिने.।
२.१३.(६४ ) तम्.रक्षति.स्वयम्.वह्निर्.विश्वतो.विश्वतो.मुखः.॥

२.१३.(६५ ) को.अद्य.इति.तु.सूक्तेन.यो.नित्यम्.शक्रम्.अर्चति.।
२.१३.(६५ ) जपेद्.वा.अथ.नमस्.कारैः.शक्रतो.लभते.वरान्.॥

२.१३.(६६ ) कया.इति.वामदेव्येन.कुर्यात्.स्वस्त्ययनम्.निशि.।
२.१३.(६६ ) जपेद्.वा.संधि.वेलासु.ब्रह्म.एतत्.कुशिक.उदितम्.॥

२.१३.(६७ ) हंसः.शुचिषद्.इत्य्.ऋचा.शुचिर्.ईक्षेद्.दिवाकरम्.।
२.१३.(६७ ) अन्त.काले.जपन्न्.एति.ब्रह्मणः.सद्म.शाश्वतम्.॥

२.१३.(६८ ) कृषिम्.प्रपद्यमानस्.तु.स्थाली.पाकम्.यथा.विधि.।
२.१३.(६८ ) जुहुयात्.क्षेत्र.मध्ये.तु.शुनम्.वाहास्.तु.पञ्चभिः.॥

२.१३.(६९ ) यथा.लिङ्गम्.तु.विहरेल्.लाङ्गलम्.कृषीवलः.।
२.१३.(६९ ) इन्द्राय.च.मरुद्भ्यश्.च.पर्जन्याय.भगाय.च.॥

२.१४.(७० ) पूष्णे.धान्याय.सीतायै.शुना.सीरम्.अथ.उत्तरम्.।
२.१४.(७० ) हुत्वा.तु.पृथग्.एतासाम्.यजेद्.एताश्.च.देवताः.॥

२.१४.(७१ ) गन्ध.माल्य.उपहारैश्.च.फल.लाजा.सुरा.आसवैः.।
२.१४.(७१ ) प्रवपणे.प्रलवने.खल.सीत.उपहारयोः.॥

२.१४.(७२ ) एता.एव.यजेन्.नित्यम्.देवता.विधिना.शुचिः.।
२.१४.(७२ ) अमोघम्.कर्म.भवति.कृषिर्.वर्धति.सर्वदा.॥

२.१४.(७३ ) क्षेत्रस्य.पतिना.इत्य्.एतत्.क्षैत्रपत्यम्.तृचम्.जपेत्.।
२.१४.(७३ ) ईक्षेत्.सूर्यम्.द्विजो.नित्यम्.विन्दते.क्षेत्रम्.उत्तमम्.॥

२.१४.(७४ ) आखु.उत्करेषु.चरुणा.यजेद्.एतेन.मूषिकान्.।
२.१४.(७४ ) चित्र.इद्.राज.इत्य्.अनया.स्तुत्वा.च.आखु.पतिम्.सदा.॥

२.१५.(७५ ) ब्राह्मणान्.भोजयेद्.अत्र.कीनाशांश्.चैव.भोजयेत्.।
२.१५.(७५ ) अप्रमत्तः.शान्ति.परः.स्वयम्.एव.कृषिम्.व्रजेत्.॥

२.१५.(७६ ) भूमि.भङ्गो.गवाम्.हिंसा.तृण.कीट.आदि.नाशनम्.।
२.१५.(७६ ) एतेषु.यत्.कृतम्.पापम्.खल.दानेन.शुध्यति.॥

२.१५.(७७ ) धान्यानाम्.विंशकम्.भागम्.श्रोत्रियेभ्यो.निवेदयेत्.।
२.१५.(७७ ) विंशकस्य.हि.दानेन.कृषि.दोषात्.प्रमुच्यते.॥

२.१५.(७८ ) समुद्राद्.इति.सूक्तेन.यः.सदा.जुहुयाद्.घृतम्.।
२.१५.(७८ ) पूर्व.उक्तेन.एव.कल्पेन.सम्यत.आत्मा.जित.इन्द्रियः.॥

२.१५.(७९ ) वि.ज्योतिषा.इति.ज्वलयेद्.यत्र.इच्छेज्.जातवेदसि.।
२.१५.(७९ ) तम्.अग्निः.सर्वतः.पाति.भद्रेण.द्रविणेन.च.॥

२.१५.(८० ) विश्वानि.न.इति.द्वाभ्याम्.ऋग्भ्याम्.यो.वह्निम्.अर्चति.।
२.१५.(८० ) स.तरत्य्.आपदः.सर्वा.यशः.प्राप्नोति.च.अक्षयम्.॥

२.१५.(८१ ) हुत्वा.वह्नि.रूप.स्थेयः.प्राण.अर्थम्.हव्य.वाहनः.।
२.१५.(८१ ) अग्ने.त्वम्.इति.सूक्तेन.धनम्.आयुश्.च.वाञ्छता.॥

२.१६.(८२ ) य.इच्.छेद्.विविधम्.वित्तम्.सत्त्वम्.च.अनुपमम्.महत्.।
२.१६.(८२ ) उरो.ष्ट.इति.सूक्तेन.उपतिष्ठेत्.शतक्रतुम्.॥

२.१६.(८३ ) प्रजा.कामो.यजेज्.नित्यम्.चरुणा.देव.पत्नयः.।
२.१६.(८३ ) उपहृत्य.उपहारम्.च.शेषम्.भुञ्जीत.वाग्.यतः.॥

२.१६.(८४ ) उच्छिष्टम्.च.प्रदातव्यम्.भार्यायै.पुत्रम्.इच्छता.।
२.१६.(८४ ) धेन्वाः.सरूप.वत्सायाः.पयसा.साधयेच्.चरुम्.॥

२.१६.(८५ ) अनुरूपाम्.प्रजाम्.आशु.लभते.न.अत्र.संशयः.।
२.१६.(८५ ) स्वस्त्यात्रेयम्.जपेन्.नित्यम्.प्रातः.प्रातर्.द्विजः.शुचिः.॥

२.१६.(८६ ) एतत्.स्वस्त्ययनम्.पुण्यम्.सर्व.कल्मष.नाशनम्.।
२.१६.(८६ ) सुहृदम्.ज्ञातिनम्.चैव.गच्छन्तम्.अनुमन्त्रयेत्.॥

२.१७.(८७ ) स्वस्ति.पन्थाम्.इति.प्रोच्य.स्वस्तिमान्.व्रजते.अध्वनि.।
२.१७.(८७ ) विजिहीष्व.वनस्पते.तद्.इदम्.च्यावनम्.स्मृतम्.॥

२.१७.(८८ ) यम्.च्यावयितु.कामः.स्याच्.च्यावयेत्.तम्.इदम्.जपन्.।
२.१७.(८८ ) द्विषन्तम्.वा.पदा.आक्रम्य.भूमौ.पांसुमयीम्.कृतिम्.॥

२.१७.(८९ ) निष्पेक्ष्यन्न्.इव.संग्रामाच्.च्यवते.न.अत्र.संशयः.।
२.१७.(८९ ) स्त्रियम्.गर्भ.प्रमूढाम्.वा.पाययेद्.अनुमन्त्रितम्.॥

२.१७.(९० ) उदकम्.च्यावनेन.एव.गर्भो.अधः.च्यवते.सुखम्.।
२.१७.(९० ) अच्छा.वद.इति.सूक्तम्.तु.वृष्टि.कामः.प्रयोजयेत्.॥

२.१७.(९१ ) निराहारः.खिन्न.वासा.अचिरेण.प्रवर्षति.।
२.१७.(९१ ) हुत्वा.अयुतम्.वैतसीनाम्.क्षीर.अक्तानाम्.हुत.अशने.॥

२.१७.(९२ ) महद्.वर्षम्.अवाप्नोति.सूक्तेन.आच्छा.वदेन.हि.।
२.१७.(९२ ) य.इच्छेद्.वरदाम्.देवीम्.श्रियम्.नित्यम्.कुले.स्थिताम्.॥

२.१८.(९३ ) स.शुचिः.प्रयतो.भूत्वा.जुहुयाद्.आज्यम्.अन्वहम्.।
२.१८.(९३ ) श्रियः.पञ्च.दश.ऋचम्.च.श्री.कामः.सततम्.जपेत्.॥

२.१८.(९४ ) आवाहयेत्.श्रियम्.पद्मे.पञ्चभिः.कनको.अपि.वा.।
२.१८.(९४ ) उपहारान्.उपहरेत्.शुक्लान्.भक्षान्.पयो.दधि.॥

२.१८.(९५ ) स्थाली.पाकम्.च.शालीनाम्.पयसा.सम्प्रकल्पयेत्.।
२.१८.(९५ ) चान्द्रायण.कृत.आत्मा.तु.प्रपद्येत्.प्रयतः.श्रियै.॥

२.१८.(९६ ) सर्व.औषधीभिः.फाण्टाभिः.स्नात्वा.अद्भिः.पावनैर्.अपि.।
२.१८.(९६ ) उपैतु.माम्.देव.सख.इति.राज्ञो.अभिषेचनी.॥

२.१८.(९७ ) मनसः.कामम्.इत्य्.एषा.पशु.काम.अभिषेचनी.।
२.१८.(९७ ) कदर्मेन.इति.यः.स्नायात्.प्रजा.कामः.शुचि.व्रतः.॥

२.१९.(९८ ) अश्व.पूर्णाम्.इति.स्नायाद्.राज्य.कामः.शुचि.व्रतः.।
२.१९.(९८ ) रोहिते.चर्मणि.स्नायाद्.ब्राह्मणस्.तु.यथा.विधि.॥

२.१९.(९९ ) राजा.चर्मणि.वैयाघ्रे.क्षत्रियस्.त्व्.अथ.रौरवे.।
२.१९.(९९ ) बस्त.चर्मणि.वैश्यस्.तु.होमः.कार्यस्.त्व्.अनन्तरम्.॥

२.१९.(१०० ) चन्द्राम्.इति.तु.पद्मानि.जुहुयात्.सर्पिषा.द्विजः.।
२.१९.(१०० ) आदित्य.वर्ण.इत्य्.अनया.बिल्व.होमो.विधीयते.॥

२.१९.(१०१ ) बिल्व.इध्म.एव.वा.अग्निः.स्यात्.स्थालीश्.च.जुहुयाद्.द्विजः.।
२.१९.(१०१ ) दश.साहस्रिको.होमः.श्री.कामः.प्रथमो.विधिः.॥

२.१९.(१०२ ) हुत्वा.तु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.।
२.१९.(१०२ ) अयुतम्.शतकृत्वस्.तु.हुत्वा.शुक्लानि.सर्पिषा.॥

२.२०.(१०३ ) अनन्ताम्.अव्यवच्छिनाम्.शाश्वतीम्.विन्दते.श्रियम्.।
२.२०.(१०३ ) अशक्तौ.जप.एव.उक्तो.दश.साहस्रिको.वरः.॥

२.२०.(१०४ ) अप्त्वा.नु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्.।
२.२०.(१०४ ) अयुतम्.शतकृत्वस्.तु.जप्त्वा.श्रियम्.उपाश्नुते.॥

२.२०.(१०५ ) अप्स्व्.एव.जुहुयान्.नित्यम्.पद्मान्य्.अयुतशो.निशि.।
२.२०.(१०५ ) दृष्ट्वा.श्रियम्.तु.उपरमेत्.किलासत्वाद्.बिभेत.वै.॥

२.२०.(१०६ ) बिल्व.आशी.बिल्व.निलयो.जुहुयाद्.बिल्वानि.सर्पिषा.।
२.२०.(१०६ ) एक.विंशति.रात्रेण.पराम्.सिद्धिम्.नियच्छति.॥

२.२०.(१०७ ) येन.येन.च.कामेन.जुहोति.प्रयतः.श्रियै.।
२.२०.(१०७ ) पद्मान्य्.अथ.अपि.बिल्वानि.स.स.कामः.समृध्यति.॥

२.२१.(१०८ ) न.जातु.कृपण.अर्थाय.श्रियम्.आवाहयेत्.क्वचित्.।
२.२१.(१०८ ) न.यत्.किंचन.कामेन.होमः.कार्यः.कथंचन.॥

२.२१.(१०९ ) महद्.वा.प्रार्थ्यमानेन.राज्य.कामेन.वा.पुनः.।
२.२१.(१०९ ) वाचः.परम्.प्रार्थयिता.यत्नाद्.युक्तः.श्रियम्.यजेत्.॥

२.२१.(११० ) अग्निर्.एत्व्.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.।
२.२१.(११० ) ओजस्विनीम्.अवाप्नोति.प्रजाम्.धर्मवतीम्.शुभाम्.॥

२.२१.(१११ ) अच्छा.न.इत्य्.ऋचा.दीप्तम्.उपतिष्ठेद्.विभावसुम्.।
२.२१.(१११ ) प्रजाम्.प्राप्य.जयेत्.शत्रूंस्.तरते.दुरितानि.च.॥

२.२१.(११२ ) आ.गाव.इति.सूक्तेन.गोष्ठगा.लोक.मातरः.।
२.२१.(११२ ) उपतिष्ठेद्.व्रजन्तीश्.च.य.इच्छेत्.ताः.सदा.अक्षयाः.॥

२.२१.(११३ ) त्वाम्.इद्धि.इति.प्रगाथेन.उपतिष्ठेत्.शतक्रतुम्.।
२.२१.(११३ ) मध्य.अह्ने.संध्ययोश्.चैव.जपन्.धनम्.अवाप्नुयात्.॥

२.२२.(११४ ) उप.इति.तिसृभी.राज्ञो.दुन्दुभीन्.संस्पृशेद्.रणे.।
२.२२.(११४ ) ओजो.बलम्.अवाप्नोति.शत्रूंश्.चैव.नियच्छति.॥

२.२२.(११५ ) पाणिना.तृणम्.आदाय.यज्ञ.अयज्ञ.इति.यो.अभ्यसेत्.।
२.२२.(११५ ) सो.अधीतस्य.अस्य.सूक्तस्य.फलम्.प्राप्नोति.न.अतृणः.॥

२.२२.(११६ ) सूक्त.अन्ते.च.तृणम्.त्व्.अग्नाव्.इरिणे.वा.उदके.अपि.वा.।
२.२२.(११६ ) निक्षिपेत्.तत्.प्रयत्नेन.त्यक्त्वा.अन्यत्र.भय.आवहम्.॥

२.२२.(११७ ) तृण.पाणिर्.जपन्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः.।
२.२२.(११७ ) न.भयम्.विन्दते.किंचिद्.रक्षोभ्यो.अरिभ्य.एव.च.॥

२.२२.(११८ ) गृहात्.प्रपद्यमानस्.तु.पन्थानम्.धन.काम्यया.।
२.२२.(११८ ) जपेत्.सो.अध्वनि.यत्नेन.अपि.पन्थाम्.इति.व्रजन्.॥

२.२२.(११९ ) ये.के.च.ज्मा.इत्य्.ऋचम्.त्व्.एताम्.ध्यायन्.निशि.दिव.ओकसः.।
२.२२.(११९ ) अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥

२.२३.(१२० ) वयम्.उ.त्वा.इति.सूक्तम्.तु.पौष्णम्.द्रविण.वर्धनम्.।
२.२३.(१२० ) नित्यम्.जपेत्.शुचिर्.भूत्वा.धनम्.विन्दत्य्.अभीप्सितम्.॥

२.२३.(१२१ ) यस्य.नष्टम्.भवेत्.किंचिद्.द्रव्यम्.गौर्.द्विपदम्.धनम्.।
२.२३.(१२१ ) नश्येद्.वा.अध्वनि.यो.मोहात्.सम्पूषन्.स.जपेन्.निशि.॥

२.२३.(१२२ ) इयम्.इत्य्.एतद्.आद्य्.अन्तम्.सूक्तम्.सारस्वतम्.द्विजः.।
२.२३.(१२२ ) नित्यम्.जपेत्.शुचिर्.भूत्वा.वाग्मी.भवति.बुद्धिमान्.॥

२.२३.(१२३ ) सम्.वाम्.इति.तु.यत्.सूक्तम्.अष्ट.ऋचम्.त्रैष्टुभम्.स्मृतम्.।
२.२३.(१२३ ) तज्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥

२.२३.(१२४ ) यो.अद्रि.भित्.तु.यत्.सूक्तम्.तत्.सपत्न.निबर्हणम्.।
२.२३.(१२४ ) बृहस्पतिम्.नमस्.कृत्वा.सपत्नान्त्.स्तृणुते.बहून्.॥

२.२४.(१२५ ) एनस्वी.वा.अभिशस्तो.वा.कृत्वा.वा.कर्म.गर्हितम्.।
२.२४.(१२५ ) सोमा.रौद्रम्.जपेत्.सूक्तम्.कृत्स्नम्.एनो.व्यपोहति.॥

२.२४.(१२६ ) जुहुयाद्.वा.य.एताभिर्.ऋग्भिर्.नित्यम्.घृत.व्रतः.।
२.२४.(१२६ ) वारुणेभ्यो.स.पाशेभ्यो.मुच्यते.शम्.तथा.आप्नुयात्.॥

२.२४.(१२७ ) जीमूत.सूक्तस्य.विधिम्.यथा.लिङ्गम्.अवेक्ष्य.वै.।
२.२४.(१२७ ) ऋग्भिः.कर्माणि.कुर्वीत.रथ.अङ्गानाम्.यथा.विधि.॥

२.२४.(१२८ ) संग्रामम्.तु.प्रयातस्य.राज्ञश्.च.एतत्.प्रयोजयेत्.।
२.२४.(१२८ ) सर्वाण्य्.अङ्गानि.रथ्यांश्.च.सदश्वांश्.च.अनुमन्त्रयेत्.॥

२.२४.(१२९ ) यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.।
२.२४.(१२९ ) न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.॥

२.२५.(१३० ) पुत्रान्.आयुर्.अथ.आरोग्यम्.य.इच्छेद्.अव्ययम्.सुखम्.।
२.२५.(१३० ) सो.अग्निम्.नर.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.॥

२.२५.(१३१ ) प्र.अग्नये.अथ.त्रिभिः.सूक्तैः.संध्ययोर्.जपम्.आरभेत्.।
२.२५.(१३१ ) न.रक्षोभ्यो.भयम्.वेत्ति.धनम्.प्राप्नोति.च.अक्षयम्.॥

२.२५.(१३२ ) अभि.त्वा.यः.प्रगाथेन.नित्यम्.अर्चति.व्रजिणम्.।
२.२५.(१३२ ) स.श्रियम्.विपुलाम्.भुङ्क्ते.प्राप्नोति.च.धन.आयुषी.॥

२.२५.(१३३ ) शंवतीः.शम्.न.इन्द्र.अग्नी.इत्य्.एते.सततम्.जपेत्.।
२.२५.(१३३ ) न.रक्षोभ्यो.न.भूतेभ्यो.व्याधिभ्यो.वा.भयम्.भवेत्.॥

२.२५.(१३४ ) निवेष्टु.कामो.रोग.आर्तो.भग.सूक्तम्.सदा.अभ्यसेत्.।
२.२५.(१३४ ) निवेशम्.विन्दते.क्षिप्रम्.रोगेभ्यश्.च.प्रमुच्यते.॥

२.२६.(१३५ ) इमा.इति.जपेन्.नित्यम्.रौद्रम्.सूक्तम्.द्विजः.शुचिः.।
२.२६.(१३५ ) तज्.जपन्.प्रजया.वित्तैः.स्वयम्.चैव.न.रिष्यति.॥

२.२६.(१३६ ) उत्तितीर्षुर्.अपो.यस्.तु.शङ्केत्.स्रोत्या.समागमे.।(?)
२.२६.(१३६ ) समुद्र.ज्येष्ठा.इति.जपेत्.सूक्तम्.एतद्.भय.अपहम्.॥

२.२६.(१३७ ) आदित्य.दैवते.सूक्ते.रिपुघ्ने.रोग.नाशने.।
२.२६.(१३७ ) जपेत्.प्रातः.शुचिर्.भूत्वा.रिपु.रोगैः.प्रमुच्यते.॥

२.२६.(१३८ ) वास्तोष्पते.प्रति.इत्य्.एतत्.सूक्तम्.वास्तोष्पतम्.जपेत्.।
२.२६.(१३८ ) स्नातः.कृत्वा.वैश्वदेवम्.परम्.ब्रह्म.इदम्.उच्यते.॥
२.२६.(१३९ ) अमीवहा.इति.सूक्तेन.भूतानि.स्वापयेन्.निशि.।
२.२६.(१३९ ) न.हि.प्रस्वापनम्.किंचिद्.ईदृशम्.विद्यते.क्वचित्.॥

२.२७.(१४० ) सम्बाधे.विषमे.दुर्गे.बद्धो.वा.निर्गतः.क्वचित्.।
२.२७.(१४० ) पलायन्.वा.गृहीतो.वा.तस्करैः.स.जपेद्.इदम्.॥

२.२७.(१४१ ) अमीवहा.विश्ववतीम्.उद्धृत्य.अन्याः.प्रयोजयेत्.।
२.२७.(१४१ ) सूक्तम्.एतज्.जपेत्.सर्वम्.इति.मन्येत.शौनकः.॥

२.२७.(१४२ ) त्रि.रात्रिम्.नियतो.अनश्नन्.श्रपयेत्.पायसम्.चरुम्.।
२.२७.(१४२ ) तेन.आहुति.शतम्.पूर्णम्.जुहुयात्.सर्पिषा.द्विजः.॥

२.२७.(१४३ ) समुद्दिश्य.महा.देवम्.त्र्यम्बकम्.त्र्यम्बक.इत्य्.ऋचा.।
२.२७.(१४३ ) एतत्.पर्व.शतम्.कृत्वा.जीवेद्.अब्द.शतम्.सुखी.॥

२.२७.(१४४ ) तत्.चक्शुर्.इत्य्.ऋचा.स्नात.उपतिष्ठेद्.दिवाकरम्.।
२.२७.(१४४ ) उद्यन्तम्.मध्यगम्.चैव.दीर्घम्.आयुर्.जिजीविषुः.॥

२.२७.(१४५ ) रात्र्या.अपर.काले.य.उत्थाय.प्रयतः.शुचिः.।
२.२८.(१४५ ) व्युषा.इत्य्.उपतिष्ठेत.षड्भिः.सूक्तैः.कृत.अञ्जलिः.॥

२.२८.(१४६ ) प्राप्नुयात्.स.हिरण्य.आदि.नाना.रूपम्.धनम्.बहु.।
२.२८.(१४६ ) गा.अश्वान्.पुरुषान्.धान्यम्.स्त्रियो.वासांस्य्.अज.अविकम्.॥

२.२८.(१४७ ) ध्रुवासु.त्व्.आसु.क्षितिषु.जपन्.बद्धः.प्रमुच्यते.।
२.२८.(१४७ ) तिष्ठन्.रात्रौ.जपेद्.एनाम्.विपाशः.सम्प्रपद्यते.॥

२.२८.(१४८ ) अहो.रात्रम्.स्थितश्.चैवम्.अनश्नन्त्.स्याद्.विचेष्टितः.।
२.२८.(१४८ ) अयः.पाशः.स्फुटन्त्य्.अस्य.दारु.पाशास्.तथैव.च.॥

२.२८.(१४९ ) स्योना.इति.पृथिवीम्.देवीम्.प्रपद्येन्.नियतः.सदा.।
२.२८.(१४९ ) जपेद्.एनाम्.च.तत्र.अपि.भूमि.पाशात्.प्रमुच्यते.॥

२.२९.(१५० ) यत्.किंचित्.पातकम्.कुर्यात्.कर्मणा.मनसा.गिरा.।
२.२९.(१५० ) यत्.किंच.इदम्.वरुण.इति.ऋचम्.जप्त्वा.प्रमुच्यते.॥

२.२९.(१५१ ) अगम्या.गमने.च.एतत्.प्रायश्चित्तम्.विधीयते.।
२.२९.(१५१ ) अन्यत्र.गुरु.तल्पाच्.च.तस्मात्.पापात्.प्रमुच्यते.॥

२.२९.(१५२ ) द्वादश.अहम्.अभुञ्जानः.स्व.गोत्र.आगमने.जपेत्.।
२.२९.(१५२ ) अर्ध.मासम्.अभुञ्जानः.सखि.दारेषु.संवसन्.॥

२.२९.(१५३ ) इदम्.आपः.प्रवहत.यत्.किम्.च.इदम्.ऋचम्.पुनः.।
२.२९.(१५३ ) इति.च.एता.जपेद्.अपः.प्रविश्य.एतेषु.कर्मसु.॥

२.२९.(१५४ ) इन्द्रा.विष्णू.नमस्.कृत्य.जुहुयाद्.आज्यम्.अन्वहम्.।
२.२९.(१५४ ) सूक्ताभ्याम्.पर.एताभ्याम्.य.इच्छेद्.भूतिम्.आत्मनः.॥

२.३०.(१५५ ) आस्य.दघ्नम्.विगाह्य.अम्भः.प्रान्.मुखः.प्रयतः.शुचिः.।
२.३०.(१५५ ) सूक्ताभ्याम्.तिस्र.एताभ्याम्.उपतिष्ठेद्.दिवाकरम्.॥

२.३०.(१५६ ) अनश्नता.तु.जप्तव्यम्.वृष्टि.कामेन.यत्नतः.।
२.३०.(१५६ ) पञ्च.रात्रे.व्यतीते.तु.महद्.वर्षम्.अवाप्नुयात्.॥

२.३०.(१५७ ) यो.अरिभिः.प्रतिपद्येत.अभिशस्येत.वा.मृषा.।
२.३०.(१५७ ) उपोष्य.एकम्.त्रि.रात्रम्.स.जुहुयाद्.आज्यम्.अन्वहम्.॥

२.३०.(१५८ ) इन्द्रा.सोम.इति.सूक्तम्.तु.जपेच्.च.एतत्.शत.अवरम्.।
२.३०.(१५८ ) किंचिद्.दद्याद्.द्विजेभ्यो.अन्ते.स्तृणुते.सर्व.शात्रवान्.॥

२.३०.(१५९ ) यस्य.लुप्येद्.व्रतम्.मोहाद्.व्रात्यैर्.वा.संस्पृशेद्.द्विजः.।
२.३०.(१५९ ) उपोष्य.आज्यम्.च.जुहुयात्.त्वम्.अग्ने.व्रतपा.इति.॥

२.३१.(१६० ) प्र.संराजम्.इति.त्व्.एतज्.जपन्न्.ईक्षेद्.दिवाकरम्.।
२.३१.(१६० ) उद्यन्तम्.उपतिष्ठेत.स्नात्वा.स्नात्वा.दिने.दिने.॥

२.३१.(१६१ ) अभियुक्तो.भवेद्.यस्.तु.विवदेद्.वा.अपि.केनचित्.।
२.३१.(१६१ ) निर्जित्य.सगणान्.शत्रून्.क्षिप्रम्.वादम्.पराजयेत्.॥

२.३१.(१६२ ) शम्.अगिर्.अग्निभिश्.च.इति.प्रपद्येद्.वायु.भास्करौ.।
२.३१.(१६२ ) अग्निम्.प्रथमतः.स्तुत्वा.महत्.कृच्छ्रात्.प्रमुच्यते.॥

२.३१.(१६३ ) न.हि.इति.यश्.चतुष्केण.स्नात्वा.वै.प्रातर्.उत्थितः.।
२.३१.(१६३ ) द्वौ.मासाव्.उपतिष्ठेत.स.त्रायति.भयात्.स्वयम्.॥

२.३१.(१६४ ) तृचम्.जप्त्वा.आयद्.इत्य्.एतत्.स्नात्वा.अभ्यर्च्य.पुरंदरम्.।
२.३१.(१६४ ) प्राप्नुयान्.मानसान्.कामान्.सम्पूज्य.वसु.रोचिषः.॥

२.३१.(१६५ ) आद्यानि.त्रीणि.सूक्तानि.पञ्च.च.अग्रे.बृहन्न्.इति.।
२.३१.(१६५ ) षट्.तथा.अन्त्यानि.सूक्तानि.अग्निम्.नर.इतो.इति.च.॥

२.३१.(१६६ ) प्रकृतानि.इति.च.अध्यायम्.भोजनात्.प्राक्.पठेद्.इदम्.।
२.३१.(१६६ ) सर्वान्.कामान्.अवाप्नोति.मुच्येत.सर्व.किल्बिषैः.॥

२.३२.(१६७ ) प्राग्.भोजनम्.इदम्.ब्रह्म.मानवानाम्.महर्षिणाम्.।
२.३२.(१६७ ) पूर्व.अह्णे.जपतो.नित्यम्.अर्थ.सिद्धिः.परा.भवेत्.॥

२.३२.(१६८ ) अग्निना.इत्य्.आश्विनम्.सूक्तम्.चतुर्.विंशकम्.अन्वहम्.।
२.३२.(१६८ ) जपेत्.प्रातः.शुचिर्.भूत्वा.नासत्याव्.अर्च्य.सुव्रतः.॥

२.३२.(१६९ ) स.प्राप्नुयात्.पराम्.ऋद्धिम्.द्रविणम्.च.ऊर्जम्.एव.च.।
२.३२.(१६९ ) समिधा.इति.जुहोत्य्.अग्नौ.सूक्तेन.प्रत्यृचम्.घृतम्.॥

२.३२.(१७० ) स.सिद्धिम्.अतुलाम्.प्राप्य.समानाम्.जीवते.शतम्.।
२.३२.(१७० ) द्वि.चत्वारिंशकेन.इह.सूक्तेन.अघ.इति.वज्रिणम्.॥

२.३२.(१७१ ) सख्यम्.लब्ध्वा.महा.इन्द्रेण.सपत्नान्त्.स्तृणुते.बहून्.।
२.३२.(१७१ ) प्राश्नीयाज्.जपतो.अत्र.अस्ति.प्रश्नम्.कृत्वा.प्रमाणतः.॥

२.३३.(१७२ ) तस्मात्.पूर्व.आह्णिको.अध्यायः.स्मृतो.अयम्.रिपु.नाशनः.।
२.३३.(१७२ ) वाशम्.मही.इति.च.जप्त्वा.प्राप्नोत्य्.आरोग्यम्.एव.च.॥

२.३३.(१७३ ) दुह्स्वप्नघ्नीः.परा.जप्त्वा.प्रातः.पापैः.प्रमुच्यते.।
२.३३.(१७३ ) शम्.नो.भव.इति.द्वाभ्याम्.तु.भुक्त्वा.अन्नम्.प्रयतः.शुचिः.॥

२.३३.(१७४ ) हृदयम्.पाणिना.स्पृष्ट्वा.ज्योग्.जीवेद्.अगदः.सुखी.।
२.३३.(१७४ ) यतो.भयम्.विजानीयात्.तस्याम्.दिशि.यत.व्रतः.॥

२.३३.(१७५ ) शुचौ.देशे.अग्निम्.आधाय.जुहुयाद्.इन्द्रम्.अर्च्य.च.।
२.३३.(१७५ ) यत.इत्य्.आज्यम्.उत्पूतम्.षड्भिर्.गन्धान्.निवेद्य.च.॥

२.३३.(१७६ ) पायसम्.दधि.मन्थम्.वा.अपूपान्.वा.अप्य्.उपहारयेत्.।
२.३३.(१७६ ) अहो.रात्रम्.उपोष्य.एकम्.तिलान्.वा.घृतम्.एव.वा.॥

२.३४.(१७७ ) उत्.त्वा.मन्दन्त्व्.इति.स्नातो.हुत्वा.शत्रून्.प्रमापयेत्.।
२.३४.(१७७ ) बद्धो.वा.अप्य्.अबद्धो.वा.वाग्.यतः.प्रयतो.जपेत्.॥

२.३४.(१७८ ) त्या.न्व्.इत्य्.आदित्य.दैवत्यम्.सद्यो.मुच्येत.बन्धनात्.।
२.३४.(१७८ ) यद्.द्यावा.इति.जपेन्.नित्यम्.प्रगाथम्.नियतः.शुचिः.॥

२.३४.(१७९ ) स.कीर्तिम्.अतुलाम्.प्राप्य.सर्वान्.कामान्त्.समश्नुते.।
२.३४.(१७९ ) त्वम्.नो.अग्न.इति.सूक्तेन.हुत्वा.अर्च्य.अग्निम्.घृतेन.तु.॥

२.३४.(१८० ) पालितो.विश्वतो.दीप्त्या.प्राप्नुयाद्.वह्निना.रयिम्.।
२.३४.(१८० ) आ.तु.सूक्तेन.सततम्.धनम्.यावत्.पुरंदरम्.॥

२.३४.(१८१ ) प्रसमित्.पाणये.तस्मै.धनम्.यच्छति.वृत्रहा.।
२.३५.(१८१ ) कन्या.वार्.इति.सूक्तम्.तु.सततम्.नियतो.जपेत्.॥

२.३५.(१८२ ) त्वग्.दोषिणीम्.तथा.अलोम्नीम्.क्षिप्रम्.तस्मात्.प्रमोचयेत्.।
२.३५.(१८२ ) यद्.अद्य.कच्.च.इत्य्.उदिते.रवौ.स्तुत्वा.पुरंदरम्.॥

२.३५.(१८३ ) गृणन्न्.अपोहते.रिप्रम्.वश्यम्.वा.कुरुते.जगत्.।
२.३५.(१८३ ) यद्.वाग्.इति.द्वृचेन.एत्य.गौरीम्.यो.अर्चति.सुव्रतः.॥

२.३५.(१८४ ) तस्य.न.असंस्कृता.वाणी.मुखाद्.उच्चरते.क्वचित्.।
२.३५.(१८४ ) बण्.महाम्.इति.दृष्ट्वा.अर्कम्.उपतिष्ठेद्.द्वृचम्.पठन्.॥(वण्.महाम्)
२.३५.(१८५ ) ब्रुवन्न्.अप्य्.अनृताम्.वाणीम्.लिप्यते.न.अनृतेन.सः.।
२.३५.(१८५ ) पूर्णे.चन्द्रमसि.ज्योत्स्नाम्.इयम्.या.इत्य्.अनुसेवयेत्.॥

२.३५.(१८६ ) चन्द्र.दृष्टिस्.त्व्.अनिमिषो.वर्चस्वी.दृष्टिमान्.भवेत्.।
२.३५.(१८६ ) प्रजा.ह.इति.जपन्त्.स्नात्वा.न.योनिम्.प्रतिजायते.॥

२.३५.(१८७ ) माता.इति.गाम्.उपस्पृश्य.जपन्.गास्.तु.समश्नुते.।
२.३५.(१८७ ) वचोविदम्.इति.त्व्.एताम्.जपन्.वाचम्.समश्नुते.॥

२.३५.(१८८ ) पावमानम्.परम्.ह्य्.एतन्.नवमम्.मण्डलम्.जपेत्.।
२.३५.(१८८ ) स्नात्वा.शुचिः.शुचौ.देशे.सपवित्रः.सकाञ्चनः.॥E

३.१.(१ ) स्वादिष्ठया.इति.गायत्रीः.पावमानीर्.जपेद्.द्विजः.।
३.१.(१ ) पवित्राणाम्.पवित्रम्.तु.पावमानीर्.ऋचो.जपेत्.॥

३.१.(२ ) प्रयतो.अप्सु.निमज्य.आशु.सर्व.पापैः.प्रमुच्यते.।
३.१.(२ ) एतासाम्.कीर्तनम्.पुण्यम्.स्मरणम्.धारणम्.तथा.॥

३.१.(३ ) याथायथ्येन.च.ज्ञात्वा.ब्रह्म.लोकम्.समश्नुते.।
३.१.(३ ) एतेषाम्.तु.यथा.उक्तानाम्.गुणवद्.यद्.यद्.उत्तरम्.॥

३.१.(४ ) कीर्तनात्.तु.भवेत्.पूतः.स्मरणात्.स्मरते.परम्.।
३.१.(४ ) धारणाद्.ब्रह्मताम्.एति.पूत.आत्मा.विजित.इन्द्रियः.॥

३.१.(५ ) याथातथ्येन.च.ज्ञात्वा.ब्रह्मणो.विन्दते.पदम्.।
३.१.(५ ) श्रावयेद्.देवता.कृत्ये.ब्राह्मणान्.भुञ्जतो.अग्रतः.॥

३.२.(६ ) प्रीणाति.देवताम्.तच्.च.समर्धयति.कर्म.च.।
३.२.(६ ) पित्र्ये.पित्रीन्.प्रीणयन्ति.श्राविताः.प्रयत.आत्मना.॥

३.२.(७ ) कृत्वा.दोषान्त्.सुमहतो.अप्य्.अपेय.आदीन्.प्रपीय.च.।
३.२.(७ ) जप्त्वा.तरत्.समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.॥

३.२.(८ ) अक्षय्यम्.च.भवेद्.दत्तम्.पितृभ्यः.परमम्.मधु.।
३.२.(८ ) यः.पावमानीर्.अध्येति.पूत.आत्मा.विजित.इन्द्रियः.॥

३.२.(९ ) तस्य.काम.दुघा.भूत्वा.उपतिष्ठन्ति.धेनवः.।
३.२.(९ ) आयुर्.बलम्.यशो.वित्तम्.प्रजाम्.कीर्तिम्.अनामयम्.॥

३.२.(१० ) स्वाध्याय.पुण्यम्.अतुलम्.पूतः.प्राप्नोति.च.अक्षयम्.।
३.२.(१० ) अशक्तस्.तु.जपेद्.युक्ताः.पवित्रस्य.च.याः.पराः.॥

३.२.(११ ) सप्त.ऋषिभिश्.च.याः.प्रोक्ताः.पवित्रस्य.च.याः.पराः.।
३.२.(११ ) ऋचाम्.द्विषष्टिः.प्रोक्ता.इयम्.पवस्व.इत्य्.ऋषि.सत्तमैः.॥

३.३.(१२ ) सर्व.कल्मष.नाशाय.पावनाय.शिवाय.च.।
३.३.(१२ ) स्वादिष्ठया.इति.सूक्तानाम्.सप्त.षष्टिर्.इह.उदिता.॥

३.३.(१३ ) दश.उत्तराण्य्.ऋचाम्.चैव.पावमानीः.शतानि.ष].।
३.३.(१३ ) एतज्.जुह्वन्.जपंश्.चैव.घोरम्.मृत्यु.भयम्.जयेत्.॥

३.३.(१४ ) व्याधिभ्यः.परिमोक्षम्.च.लभते.न.अत्र.संशयः.।
३.३.(१४ ) प्रतिगृह्य.अप्रतिग्राह्यम्.भुक्त्वा.च.अन्नम्.विगर्हितम्.॥

३.३.(१५ ) जपंस्.तरत्समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.।
३.३.(१५ ) पावमानम्.परम्.ह्य्.एतद्.रपसाम्.अपनोदनम्.॥

३.३.(१६ ) प्राणान्.आयम्य.च.ध्यायेद्.अन्ते.देवान्.पितॄन्.ऋषीन्.।
३.३.(१६ ) उपोष्य.आज्यम्.च.जुहुयाद्.अग्निम्.सोमम्.च.पूजयेत्.॥

३.३.(१७ ) सरस्वतीम्.च.अर्चयेत.पयो.अम्बु.मधु.सर्पिषा.।
३.३.(१७ ) आध्यात्मिकम्.पवित्रम्.ते.सूक्तम्.जप्त्वा.आप्लुतः.शुचिः.॥

३.४.(१८ ) गतिम्.इष्टाम्.अवाप्नोति.विन्दते.च.इह.वृद्दयः.।
३.४.( ) [.मण्डलम्.पावमानम्.तु.जपेल्.लक्षम्.उपोषितः.।
३.४.( ) नाशयेद्.ब्रह्महत्याम्.वै.वसिष्ठ.वचनम्.यथा.।](नोतिन् Bहत्)
३.४.(१८ ) नानानम्.इति.सूक्तानि.अन्त.काले.जपेत्.सकृत्.॥

३.४.(१९ ) जप्त्वा.चैव.परम्.स्थानम्.अमृतत्वम्.च.गच्छति.।
३.४.(१९ ) आपो.हि.ष्ठ.इति.नियतः.प्रयुञ्जीत.सदा.द्विजः.॥

३.४.(२० ) स्नान.अर्थम्.शुद्धि.कामस्.तु.जपेत.त्रिः.समाहितः.।
३.४.(२० ) अप्सु.चैव.निमज्जित्वा.त्रिः.पठेत्.सुसमाहितः.॥

३.४.(२१ ) ब्रह्महा.तु.कपालेन.खट्व.अङ्गी.चीर.संवृतः.।
३.४.(२१ ) चरेद्.द्वादश.वर्षाणि.स्व.कर्म.परिकीर्तयन्.॥

३.४.(२२ ) अजपन्.मनसा.एव.एतद्.आपो.हि.ष्ठ.इति.संस्मरेत्.।
३.४.(२२ ) ऊर्ध्वम्.तु.पञ्चमाद्.वर्षाज्.जपेद्.एव.सहस्रशः.॥

३.४.(२३ ) अपरस्.तु.त्रि.साहस्रो.जपः.स्यात्.प्रत्यहम्.सदा.।
३.४.(२३ ) पूर्णे.तु.द्वादशे.वर्षे.ब्रह्महा.विप्रमुच्यते.॥

३.४.(२४ ) समेत्य.ब्राह्मणा.ब्रूयुर्.अथ.तम्.चरित.व्रतम्.।
३.५.(२४ ) अचरितम्.भवेत्.किंचिद्.मिथ्या.वादी.पतेः.पुनः.॥

३.५.(२५ ) दश.अवरान्.दश.परान्.हन्यास्.त्वम्.अनृतम्.वदन्.।
३.५.(२५ ) ओम्.भो.इति.वदेद्.विप्रैर्.अनुज्ञातः.शुचिर्.जपेत्.॥

३.५.(२६ ) स्थाली.पाकम्.च.कुर्वीत.सो.अग्नय.व्रत.चारिणे.।
३.५.(२६ ) एवम्.स.मुच्यते.पापात्.सावित्रीम्.प्रतिपद्य.च.॥

३.६.(२७ ) ब्रह्महा.स.पुरा.शक्रस्.त्वाष्ट्रम्.हत्वा.त्व्.ऋषिम्.प्रभम्.।
३.६.(२७ ) सिन्धु.द्वीपस्.तम्.एताभिर्.अभिषिच्य.व्यमोचयत्.॥

३.६.(२८ ) ब्रह्मस्वम्.च.गुरोर्.द्रव्यम्.स्तेयम्.कृत्वा.जपन्न्.इमाः.।
३.६.(२८ ) अनेन.एव.विधानेन.षड्भिर्.वर्षैः.प्रमुच्यते.॥

३.६.(२९ ) ब्रह्महा.च.सुरापश्.च.नियमेन.जपन्न्.इमाः.।
३.६.(२९ ) अनेन.एव.उपचारेण.ब्रह्मघ्न.इव.मुच्यते.॥

३.६.(३० ) ब्राह्मणस्य.रुषा.उद्यम्य.जपेद्.एता.निपात्य.च.।
३.६.(३० ) त्र्यहम्.निपात्य.उपवसेद्.एक.अहम्.अवगूर्य.च.॥

३.६.(३१ ) शोणितम्.तु.प्रहारेण.उत्पाद्य.स.कथंचन.।
३.६.(३१ ) त्रि.रात्रम्.एव.उपवसेज्.जपेद्.एताः.प्रसाद्य.तम्.॥

३.६.(३२ ) प्रातर्.उत्थाय.सततम्.कुर्याद्.मार्जनम्.आत्मनः.।
३.६.(३२ ) रात्रौ.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥

३.६.(३३ ) सायम्.च.नित्यम्.एताभिः.कुर्याद्.मार्जनम्.आत्मनः.।
३.६.(३३ ) दिवा.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥

३.७.(३४ ) उपतिष्ठेत.राजानम्.यमम्.सूक्तेन.वै.द्विजः.।
३.७.(३४ ) स्थाली.पाकम्.च.कुर्वीत.पक्षयोर्.यम.दैवतम्.॥

३.७.(३५ ) अष्टम्याम्.च.चतुर्दश्याम्.यजेत.हविषा.यमम्.।
३.७.(३५ ) परेयिवांसम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥

३.७.(३६ ) पुरा.आयुषः.प्रमीयेत.न.जातु.स.कथंचन.।
३.७.(३६ ) प्रीयते.अस्य.यमो.राजा.स्मृतिम्.च.अन्ते.प्रयच्छति.॥

३.७.(३७ ) धर्म.राजाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.।
३.७.(३७ ) वैशाख्याम्.पौर्णमास्याम्.तु.कर्म.नित्यम्.प्रयोजयेत्.॥

३.७.(३८ ) अनये.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.।
३.७.(३८ ) यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥

३.७.(३९ ) मृत्युम्.एव.प्रपद्येत.परम्.मृत्यो.जपन्.द्विजः.।
३.७.(३९ ) नक्त.भोजी.मित.आहारः.परिसंवत्सरम्.सदा.॥

३.८.(४० ) न.एनम्.पुरा.आयुषो.मृत्युर्.नयते.ससुत.प्रजम्.।
३.८.(४० ) फल.आहारो.जयेन्.मृत्युम्.त्रिभिर्.वर्षैर्.मित.अशनः.॥

३.८.(४१ ) षष्ठे.काले.तु.भुञ्जीत.फलम्.मूलम्.अथ.अपि.वा.।
३.८.(४१ ) स्थान.आसनाभ्याम्.विहरेद्.उदके.शिशिरे.वसेत्.॥

३.८.(४२ ) ग्रीष्मे.पञ्च.तपास्.तु.स्याद्.वर्षास्व्.अभ्र.अवकाशकः.।
३.८.(४२ ) एवम्.युक्तो.जयेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.॥

३.८.(४३ ) भ्रातुर्.भार्याम्.अपुत्रस्य.सन्तान.अर्थम्.मृते.पतौ.।
३.८.(४३ ) देवरो.अन्वारुरुक्षन्तीम्.उदीर्ष्व.इति.निवर्तयेत्.॥

३.८.(४४ ) ऋतु.काले.तु.सम्प्राप्ते.घृत.अभ्यक्तो.अथ.वाग्.यतः.।
३.८.(४४ ) एकम्.उत्पादयेत्.पुत्रम्.न.द्वितीयम्.कथंचन.॥

३.८.(४५ ) दश.अक्षरम्.तु.शान्त्य्.अर्थम्.भद्रम्.न.इति.संस्मरेत्.।
३.८.(४५ ) नित्यम्.जपेत्.शुचिर्.भूत्वा.मानसम्.विन्दते.सुखम्.॥

३.९.(४६ ) फल.आहारो.भवेन्.मासम्.मासम्.च.अपः.पिबेत्.ततः.।
३.९.(४६ ) वायु.भक्षो.भवेन्.मासम्.जपन्न्.एतत्.सहस्रशः.॥

३.९.(४७ ) मनसा.एव.अस्य.सिध्यन्ति.सर्वे.कामाः.समीहिताः.।
३.९.(४७ ) दिव्यान्.पश्यति.गन्धर्वान्त्.सिद्धान्.पश्यति.चारणान्.॥

३.९.(४८ ) अन्तर्धानम्.व्रजत्य्.अस्माल्.लोकाद्.आकाशगो.भवेत्.।
३.९.(४८ ) दूरात्.पश्यति.दूराच्.च.शृणोति.परमेष्ठिवत्.॥

३.९.(४९ ) प्र.देवत्र.इति.नियतो.जपेत.मरु.धन्वसु.।
३.९.(४९ ) प्राण.अन्तिके.भये.प्राप्ते.क्षिप्रम्.अम्भः.स.विन्दति.॥

३.९.(५० ) वैभीतकांस्.तु.त्रीन्.अक्षान्.गन्धैः.समभिवासयेत्.।
३.९.(५० ) पुष्पैर्.अवकिरेच्.च.एनान्त्.स्थापयित्वा.विहायसि.॥

३.१०.(५१ ) संहत्य.पादौ.ताम्.रात्रीम्.तिष्ठन्न्.अक्ष.स्तुतिम्.जपेत्.।
३.१०.(५१ ) प्रा.वेपा.मा.ऋचम्.त्व्.एताम्.मनसा.एव.जपेन्.निशि.॥

३.१०.(५२ ) व्युष्टायाम्.उदिते.सूर्ये.जपन्न्.आदेवनम्.व्रजेत्.।
३.१०.(५२ ) एताम्.एव.जपेन्.नित्यम्.जयत्य्.अन्यैर्.न.जीयते.॥

३.१०.(५३ ) यम्.एव.जेतुम्.इच्छेत.स्पृष्ट्वा.मूर्धनि.तम्.जपेत्.।
३.१०.(५३ ) सूक्त.शेषम्.जयत्य्.अन्यान्.जीयते.न.स.केनचित्.॥

३.१०.(५४ ) अबुध्रम्.उषासा.नक्ता.इत्य्.एते.स्वस्त्ययने.जपेत्.।
३.१०.(५४ ) नमो.मित्रस्य.वरुणस्य.चक्षस.इति.नित्यशः.॥

३.१०.(५५ ) अस्य.एव.च.उत्तम.ऋग्.एका.यया.एनोभ्यः.प्रमुच्यते.।
३.१०.(५५ ) तया.आज्यम्.जुहुयान्.नित्यम्.एनोभ्यो.विप्रमुच्यते.॥

३.११.(५६ ) दिवस्.परि.इति.सूक्तम्.तु.जपेन्.श्रद्धा.समन्वितः.।
३.११.(५६ ) सर्वत्र.लभते.श्रद्धाम्.श्रद्धा.कामः.समाहितः.॥

३.११.(५७ ) मा.प्र.गाम.इति.च.जपेत्.स.मूढो.गहने.पथि.।
३.११.(५७ ) स्वस्तिमान्.एति.पन्थानम्.विन्दते.च.परम्.सुखम्.॥

३.११.(५८ ) क्षीण.आयुर्.इति.मन्येत.यम्.कंचित्.सुहृदम्.प्रियम्.।
३.११.(५८ ) यत्.ते.यमम्.इति.स्नातस्.तस्य.मूर्धानम्.आलभेत्.॥

३.११.(५९ ) सहस्रकृत्वः.पञ्च.अहम्.जपेद्.आयुर्.लभेत.सः.।
३.११.(५९ ) घृतेन.सिन्धु.द्वीपस्य.सूक्तेन.एनम्.प्रलेपयेत्.॥

३.११.(६० ) संविशन्.शयने.नित्यम्.एतम्.मन्त्रम्.जपेत.वै.।
३.११.(६० ) पुत्रान्.भार्याम्.प्रियम्.च.अन्यम्.आत्मानम्.संस्पृशेत्.ततः.॥

३.१२.(६१ ) जीव.आवृत्तिम्.प्रयुञ्जीत.नित्यम्.एताम्.घृतेन.तु.।
३.१२.(६१ ) श्रोतांस्य्.अभ्यज्य.सर्वाणि.सुखी.भवति.विज्वरः.॥

३.१२.(६२ ) इदम्.इत्था.इति.मन्त्रो.अयम्.सहस्र.सनिर्.उच्यते.।
३.१२.(६२ ) अर्ध.मासम्.हविष्य.अन्नम्.अर्ध.मासम्.पयः.पिबेत्.॥

३.१२.(६३ ) उपोष्य.च.अपरम्.पक्षम्.अरण्ये.स्थण्डिले.शुचौ.।
३.१२.(६३ ) औदुम्बर.इध्मम्.प्रज्वाल्य.जुहुयात्.पावके.घृतम्.॥

३.१२.(६४ ) स्रुक्.स्रुवौ.चमसश्.चैव.सर्वम्.औदुम्बरम्.भवेत्.।
३.१२.(६४ ) हुत्वा.आहुति.सहस्रम्.तु.तेन.कामेन.युज्यते.॥

३.१२.(६५ ) अमोघम्.एव.कर्म.एतज्.जानीयात्.सिद्धिम्.एव.तु.।
३.१२.(६५ ) व्यर्थम्.अप्य्.अर्धम्.एव.एतत्.फलस्य.अस्य.प्रयच्छति.॥

३.१३.(६६ ) चतुष्.पथे.च.अन्न.काम.आदित्य.अभिमुखो.घृतम्.।
३.१३.(६६ ) जुहुयाद्.धन.कामस्.तु.सहस्रम्.भोजयेद्.द्विजान्.॥

३.१३.(६७ ) पशु.कामो.जपेद्.गोष्ठे.जुहुयाद्.वा.अप्य्.उपोषितः.।
३.१३.(६७ ) विधिना.अनेन.नियतः.सहस्रम्.विन्दते.पशून्.॥

३.१३.(६८ ) लोह.लोहित.हेमानाम्.कारयेत्.त्रिवृतम्.मणिम्.।
३.१३.(६८ ) सहस्रम्.समिधाम्.चैव.सम्पात.अभिहुत्.तु.भवेत्.॥

३.१३.(६९ ) कृत्वा.सहस्र.सम्पातम्.शिरसा.धारयेत्.तु.तम्.।
३.१३.(६९ ) पाणिना.वा.शुचिर्.भूत्वा.सहस्र.अनुचरो.भवेत्.॥

३.१३.(७० ) परावतः.स्वस्त्ययनम्.स्नातकस्य.विधीयते.।
३.१३.(७० ) स्वर्ग.कामश्.च.तम्.नित्यम्.जपेत.नियत.व्रतः.॥

३.१४.(७१ ) बृहस्पते.प्रथमम्.इति.नित्यम्.ज्ञान.स्तुतिम्.जपेत्.।
३.१४.(७१ ) ज्ञानवान्.भवति.श्रीमान्.अनन्ताम्.विन्दते.श्रियम्.॥

३.१४.(७२ ) अलक्ष्मी.नाशन.अर्थम्.तु.पयो.भक्षो.भवेद्.द्विजः.।
३.१४.(७२ ) वयः.सुपर्णा.इत्य्.एताम्.जपन्.वै.विन्दते.श्रियम्.॥

३.१४.(७३ ) तमसा.प्रावृतो.यस्.तु.मन्येत.आत्मानम्.आत्मनि.।
३.१४.(७३ ) अश्रिया.वा.अप्य्.अथ.आविष्टो.जपन्न्.एताम्.प्रमुच्यते.॥

३.१४.(७४ ) अक्षिणी.प्रातर्.उत्थाय.विमृजीत.एतया.सदा.।
३.१४.(७४ ) चक्षुष्मान्.भवति.श्रीमान्.अलक्ष्मीम्.च.प्रबाधते.॥

३.१४.(७५ ) न.तम्.विदाथ.इत्य्.एताम्.तु.जपन्.विप्रः.समाहितः.।
३.१४.(७५ ) विहाय.कल्मषम्.सर्वम्.ब्रह्म.अभ्येति.सनातनम्.॥

३.१४.(७६ ) अनया.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्.।
३.१४.(७६ ) यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥

३.१४.(७७ ) यस्.ते.मन्यो.इति.सदा.सपत्नघ्ने.त्व्.इमे.जपेत्.।
३.१४.(७७ ) घृतेन.अभिहुतम्.द्वाभ्याम्.धारयेद्.आयसम्.मणिम्.॥

३.१५.(७८ ) जुहुयाद्.आयसम्.शङ्कुम्.आभ्याम्.एव.चतुर्दशीम्.।
३.१५.(७८ ) खादिर.इध्म.समिद्धे.अग्नौ.सपत्नान्.प्रतिबाधते.॥

३.१५.(७९ ) यथा.हि.परमम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.।
३.१५.(७९ ) तथा.संवननम्.हृद्यम्.न.ह्य्.अस्माद्.विद्यते.परम्.॥

३.१५.(८० ) उपोष्य.द्वादश.अहानि.जपन्न्.एतम्.ऋषिम्.सदा.।
३.१५.(८० ) तन्.मनाः.प्रयतः.स.स्यात्.त्रिर्.अह्नो.अभ्युपयन्न्.अपः.॥

३.१५.(८१ ) अन्ते.तु.द्वादश.अहस्य.शुचौ.देशे.समाहितः.।
३.१५.(८१ ) पुंसः.प्रतिकृतिम्.कुर्याद्.भूमौ.पांसुमयीम्.तथा.॥

३.१५.(८२ ) तस्या.हृदय.देशम्.तु.समाक्रम्य.जपेद्.ऋषिम्.।
३.१५.(८२ ) अमोघम्.कर्म.जानीयाद्.अहो.रात्रे.गते.सति.॥

३.१६.(८३ ) त्र्यहेण.धनिनाम्.वैश्यम्.चतू.रात्रेण.क्षत्रियम्.।
३.१६.(८३ ) राजानम्.पञ्च.रात्रेण.षड्.रात्रेण.द्विज.उत्तमम्.॥

३.१६.(८४ ) तपस्विनम्.सप्त.रात्राज्.जयेद्.भुञ्जीत.च.एव.तम्.।
३.१६.(८४ ) अपि.वा.उपोषितः.स्नातो.जपेद्.एतत्.सदा.स्थितः.॥

३.१६.(८५ ) य.इच्छेद्.आत्मनः.कर्तुम्.हीनम्.तु.परिवर्जयेत्.।
३.१६.(८५ ) सहस्र.सम्पात.हुतम्.बिल्वानाम्.चूर्णम्.आवयेत्.॥

३.१६.(८६ ) उद.पाने.वशम्.नेतुम्.तम्.जनम्.क्षिप्रम्.आनयेत्.।
३.१६.(८६ ) मातर्य्.आत्मनि.पुत्रेषु.पितृ.भ्रातृ.सुहृत्सु.च.॥

३.१७.(८७ ) हृद्यम्.एतत्.प्रयुज्ञीत.शिरसा.धारयेद्.गुरुम्.।
३.१७.(८७ ) सुमित्रम्.तु.परिष्वज्य.मूर्धन्य्.आघ्राय.च.आत्मजम्.॥

३.१७.(८८ ) हृद्यम्.एतत्.प्रयुञ्जीत.शान्त्य्.अर्थाय.सुखाय.च.।
३.१७.(८८ ) असंसिद्धे.संवनने.पांसु.प्रतिकृतिम्.पथि.॥

३.१७.(८९ ) प्रज्वाल्य.जुहुयाद्.अग्निम्.घृतेन.ब्राह्मणो.यदि.।
३.१७.(८९ ) क्षत्रियस्य.तु.तैलेन.सार्षपेण.विशाम्.अपि.॥

३.१७.(९० ) आयसीम्.वा.प्रतिकृतिम्.अग्नि.मध्ये.निधापयेत्.।
३.१७.(९० ) ताम्.च.प्रज्वलिताम्.मत्वा.जुहुयात्.तन्मनाः.शुचिः.॥

३.१७.(९१ ) उग्रेण.मनसा.हन्यात्.क्रुद्धश्.च.जुहुयाद्.घृतम्.।
३.१७.(९१ ) यथा.यथा.प्रज्वलिते.हूयते.जात.वेदसि.॥

३.१७.(९२ ) दीप्ता.प्रतिकृति.विप्रस्.तथा.स.वशम्.एष्यति.।
३.१७.(९२ ) श्मशान.दग्ध.पांसूनाम्.कुर्याद्.वेदिम्.विलक्षणाम्.॥

३.१८.(९३ ) वैभीतक.इध्मे.ज्वलिते.लोह.प्रतिकृतिम्.न्यसेत्.।
३.१८.(९३ ) अर्ध.रात्रे.स्थिते.तैले.सार्षपम्.लवण.अन्वितम्.॥

३.१८.(९४ ) तत्र.शरमयम्.कुर्यात्.प्रस्तरम्.प्रतिलोमतः.।
३.१८.(९४ ) त्रिषु.शङ्कुषु.च.आसीनो.जुहुयाद्.उग्र.दर्शनः.॥

३.१८.(९५ ) मुक्त.केशो.वधम्.प्रेप्सुर्.अचिरेण.प्रसाधयेत्.।
३.१८.(९५ ) अथवा.अभिचरेद्.एवम्.जुहुयाद्.आत्म.शोणितम्.॥

३.१८.(९६ ) वशम्.नयति.राजानम्.क्षिप्रम्.जन.पदम्.पुरम्.।
३.१८.(९६ ) पुष्टि.कर्म.अपि.कर्तव्यम्.हृद्येन.उक्तम्.यत.आत्मना.॥

३.१८.(९७ ) अनागसि.न.कुर्वीत.ब्राह्मणो.वध.सम्युतम्.।
३.१८.(९७ ) सरूप.वत्सायाश्.च.गोः.पयसा.साधयेत्.चरुम्.॥

३.१९.(९८ ) सहस्र.सम्पात.हुतम्.पाययेद्.वत्सम्.अग्रजम्.।
३.१९.(९८ ) सहस्र.अनुचरो.वत्सः.स.स्याद्.रागैर्.विवर्जितः.॥

३.१९.(९९ ) गाश्.चैव.पाययेत्.ताश्.च.भवन्ति.विगत.ज्वराः.।
३.१९.(९९ ) पुत्रांश्.च.प्राशयेन्.नित्यम्.प्रियान्.अन्यांश्.च.सज्जनान्.॥

३.१९.(१०० ) निरामयाश्.च.स्निग्धाश्.च.भवन्ति.विगत.ज्वराः.।
३.१९.(१०० ) स्त्रियम्.चेद्.अभिमन्येत.तस्याः.संवननम्.महत्.॥

३.१९.(१०१ ) व्रीहीणाम्.नख.भिन्नानाम्.तण्डुलान्त्.सूक्ष्म.चूर्णितान्.।
३.१९.(१०१ ) सहस्र.सम्पात.हुतान्त्.स्वेदयेत्.कुशलो.अग्निना.॥

३.१९.(१०२ ) तेन.प्रतिकृतिम्.कुर्यात्.ताम्.ध्यात्वा.मनसा.स्त्रियम्.।
३.१९.(१०२ ) अक्ताम्.सर्षप.तैलेन.जुहुयाद्.अङ्गशश्.च.ताम्.॥

३.२०.(१०३ ) पादौ.प्रथमतश्.छिन्द्यात्.फड्.इत्य्.अग्नौ.निधापयेत्.।
३.२०.(१०३ ) अथ.जङ्घे.जानुनि.च.ऊरू.बाहू.ततः.शिरः.॥

३.२०.(१०४ ) छित्त्वा.हृदय.देशम्.तु.हृदये.स्वे.निवेशयेत्.।
३.२०.(१०४ ) जपन्न्.एतम्.ऋषिम्.विप्रः.स्त्री.वशम्.सा.अधिगच्छति.॥

३.२०.(१०५ ) न.एतत्.परिगृहीतासु.न.साध्वीषु.कथंचन.।
३.२०.(१०५ ) न.धर्म.व्रत.शीलासु.कुर्वीत.द्विज.सत्तमः.॥

३.२०.(१०६ ) कामम्.परिगृहीतासु.हीन.वर्णासु.यश्.चरेत्.।
३.२०.(१०६ ) पतिम्.अस्या.गुणी.कुर्यात्.पूर्वम्.पश्चात्.तु.ताम्.स्त्रियम्.॥

३.२०.(१०७ ) भुक्त्वा.वा.पायसम्.सद्यः.छर्दयित्वा.निधापयेत्.।
३.२०.(१०७ ) तत्.चूर्णम्.कृष्ण.जायायै.देयम्.संवननम्.स्मृतम्.॥

३.२१.(१०८ ) महा.वृक्ष.फलान्य्.एवम्.अयुग्मान्य्.अभिमन्त्रयेत्.।
३.२१.(१०८ ) तेषाम्.युग्मानि.भुञ्जीत.स्वयम्.अर्धानि.शेषयेत्.॥

३.२१.(१०९ ) तानि.दद्याद्.यम्.इच्छेत्.तु.वशी.कर्तुम्.जपन्न्.ऋषिम्.।
३.२१.(१०९ ) सुहृद्.भूत्वा.असुहृद्.यस्य.देयम्.संवननम्.स्मृतम्.॥

३.२१.(११० ) एक.एकम्.अभिरूपम्.तु.हृद्य.सूक्त.आद्य्.अतः.पुनः.।
३.२१.(११० ) कर्माणि.त्व्.अभिरूपाणि.कुर्याद्.यस्.तु.यथा.इच्छति.॥

३.२१.(१११ ) पराक.दासस्य.विधिम्.हृद्येन.उक्तम्.विदुर्.बुधाः.।
३.२१.(१११ ) स्त्रीणाम्.संवननम्.च.एतत्.पुंसाम्.अपि.विधीयते.॥

३.२१.(११२ ) द्वेष्यम्.तु.ज्ञातिनाम्.एव.जपेच्.चैव.सदा.युधि.।
३.२१.(११२ ) खादिरम्.कारयेत्.शङ्कुम्.हृदि.तम्.सन्निवेशयेत्.॥

३.२२.(११३ ) कृत्वा.प्रतिकृतिम्.पूर्वम्.पांसुभिर्.वा.अथवा.तुषैः.।
३.२२.(११३ ) इषुम्.अप्य्.अनुमन्त्र्य.एव.संग्रामम्.सम्प्रकल्पयेत्.॥

३.२२.(११४ ) रिपुघ्नम्.एतज्.जानीयात्.प्रयुक्तम्.अपराजितम्.।
३.२२.(११४ ) पराक.दास.द्वेष्य.अर्थम्.हृद्यम्.संवननम्.स्मृतम्.॥

३.२२.(११५ ) चिन्तयन्न्.मनसा.अप्य्.एते.सूक्ते.सिद्धिम्.नियच्छति.।
३.२२.(११५ ) सूर्यायै.भाव.वृत्तम्.तु.श्रावयेत्.कन्यकाम्.पिता.॥

३.२२.(११६ ) अनुरूपम्.सुसदृशम्.भर्तारम्.तेन.विन्दति.।
३.२२.(११६ ) इमाम्.इति.जपेत्.कन्या.नाभिम्.आलभ्य.नित्यशः.॥

३.२२.(११७ ) एवम्.एव.जपेद्.भर्ता.ततो.दीर्घ.आयुषौ.तु.तौ.।
३.२२.(११७ ) स्नापयेद्.अभिरूपैश्.च.भ्राता.कन्याम्.पिता.अपि.वा.॥

३.२३.(११८ ) दश.पुत्रवती.भवेन्.न.च.भर्त्रा.वियुज्यते.।
३.२३.(११८ ) संराज्ञी.इति.जपेन्.मूर्ध्नि.कन्याम्.आलभ्य.नित्यशः.॥

३.२३.(११९ ) श्वश्रू.श्वशुर.देवरैर्.ननान्द्रा.च.अपि.पूज्यते.।(?)
३.२३.(११९ ) इन्द्राण्या.कृत.संवादम्.स्नाने.सूक्तम्.प्रयोजयेत्.॥

३.२३.(१२० ) नव.वर्ग.उत्तम.युतम्.पति.सौभाग्य.पुत्रदम्.।
३.२३.(१२० ) जल.पुष्प.उत्कर.युते.चित्र.कुम्भ.समावृते.॥

३.२३.(१२१ ) कर्तव्यो.अत्र.तथा.यागः.सोम.गन्धर्व.वह्निनाम्.।
३.२३.(१२१ ) भगाय.अप्सरसाम्.चैव.यक्ष.अधिपतये.अपि.च.॥

३.२३.(१२२ ) इन्द्राण्यै.देव.पत्नीनाम्.रति.प्रद्युम्नयोस्.तथा.।
३.२३.(१२२ ) नदी.सलिक.सम्पूर्णैः.पञ्च.गव्य.समावृतैः.॥

३.२४.(१२३ ) हुत्वा.अग्निम्.स्नापयेत्.कन्याम्.स्थिताम्.देशे.तु.दक्षिणे.।
३.२४.(१२३ ) प्रियङ्गु.वट.नागानाम्.कषाय.उद्घृष्ट.केसरम्.॥

३.२४.(१२४ ) सम्पात.अभिहुतम्.कृत्वा.सर्व.ओषधि.समन्वितम्.।
३.२४.(१२४ ) अभिमन्त्र्य.हि.सूक्त.अन्ते.नवभिस्.तु.वि.हि.इति.वै.॥

३.२४.(१२५ ) स्थेयाभिर्.अद्भिः.पूर्णेन.अभिषिञ्चेद्.उपोषिताम्.।
३.२४.(१२५ ) यः.पतिघ्न्यः.स्त्रियस्.तन्वः.शाम्यन्ते.तास्.त्व्.अनेन.वै.॥

३.२४.(१२६ ) स्नापयेद्.आहनस्याभिर्.विद्याद्.याम्.विप्रव्राजिनीम्.।
३.२४.(१२६ ) सूक्ताद्.उपोद्धरेद्.एनम्.न.सेश.इति.तु.द्वृचम्.॥

३.२४.(१२७ ) उपदिष्टो.अयम्.एकेषाम्.पुंसः.कर्मणि.पौरुषे.।
३.२४.(१२७ ) रक्षोहणम्.वाजिनम्.इत्य्.एतद्.रक्षोहणम्.जपेत्.॥

३.२५.(१२८ ) अग्निम्.प्रज्वाल्य.च.एतेन.उपतिष्ठेत.नित्यशः.।
३.२५.(१२८ ) आज्य.आहुतीश्.च.जुहुयात्.तेन.रक्षांसि.बाधते.॥

३.२५.(१२९ ) एतद्.रक्षोहणम्.शान्तिः.परमा.एषा.प्रकीर्तिता.।
३.२५.(१२९ ) हविष्पान्तीयम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥

३.२५.(१३० ) गर्हित.अन्न.अघ.योगे.च.हविष्पान्तीयम्.अभ्यसेत्.।
३.२५.(१३० ) पवित्रम्.परमम्.ह्य्.एतद्.ध्यातव्यम्.च.अभीक्ष्णशः.॥

३.२५.(१३१ ) आदित्ये.दृष्टिम्.आस्थाय.षण्.मासान्.नियतो.अभ्यसेत्.।
३.२५.(१३१ ) देव.यानम्.स.पन्थानम्.पश्यत्य्.आदित्य.मण्डले.॥

३.२५.(१३२ ) विद्या.वैश्वानरी.च.अस्य.स्व.कायस्था.प्रकाशते.।
३.२५.(१३२ ) हविष्पान्तीयम्.अभ्यस्य.सर्व.पापैः.प्रमुच्यते.॥

३.२५.(१३३ ) इन्द्रम्.स्तव.इति.सूक्तम्.तु.जपेत्.शत्रु.निबर्हणम्.।
३.२५.(१३३ ) पवित्राणाम्.पवित्रम्.तु.गुह्यम्.पावनम्.अद्भुतम्.॥

३.२६.(१३४ ) शुक्ल.पक्षे.शुभे.वारे.सुनक्षत्रे.सुगोचरे.।
३.२६.(१३४ ) द्वादश्याम्.पुत्र.कामाय.चरुम्.कुर्वीत.वैष्णवम्.॥

३.२६.(१३५ ) दम्पत्योर्.उपवासः.स्याद्.एकादश्याम्.सुल.आलये.।
३.२६.(१३५ ) ऋग्भिः.षोडशभिः.सम्यग्.अर्चयित्वा.जनार्दनम्.॥

३.२६.(१३६ ) चरुम्.पुरुष.सूक्तेन.श्रपयेत्.पुत्र.काम्यया.।
३.२६.(१३६ ) प्राप्नुयाद्.वैष्णवम्.पुत्रम्.अचिरात्.सन्तति.क्षमम्.॥

३.२६.(१३७ ) द्वादश.द्वादशीः.सम्यक्.पयसा.निर्वपेत्.चरुम्.।
३.२६.(१३७ ) यः.करोति.सहस्रम्.स्याद्.याति.विष्णोः.परम्.पदम्.॥

३.२६.(१३८ ) हुत्वा.अग्निम्.विधिवत्.सम्यग्.ऋग्भिः.षोडशभिर्.बुधः.।
३.२६.(१३८ ) कृत.अञ्जलिपुटो.भूत्वा.स्तवम्.ताभिः.प्रयोजयेत्.॥

३.२७.(१३९ ) केशवम्.मार्गशीर्षे.तु.पौषे.नारायणम्.स्मृतम्.।
३.२७.(१३९ ) माधवम्.माघमासे.तु.गोविन्दम्.फाल्गुने.तथा.॥

३.२७.(१४० ) चैत्रे.चैव.तथा.विष्णुम्.वैशाखे.मधु.सूदनम्.।
३.२७.(१४० ) ज्येष्ठे.त्रिविक्रमम्.विद्याद्.आषाढे.वामनम्.विदुः.॥

३.२७.(१४१ ) श्रावणे.श्रीधरम्.विद्याद्द्.हृषीकेशम्.ततः.परे.।
३.२७.(१४१ ) आश्विने.पद्मनाभम्.तु.दामोदरम्.च.कार्त्तिके.॥

३.२७.(१४२ ) द्वादश.एतानि.नामानि.ऋष्यशृङ्गो.अब्रवीन्.मुनिः.।
३.२७.(१४२ ) पूजयेन्.मास.नामभिः.सर्वान्.कामान्त्.समश्नुते.॥

३.२७.(१४३ ) आयुष्मन्तम्.सुतम्.सूते.यशो.मेधा.समन्वितम्.।
३.२७.(१४३ ) धनवन्तम्.प्रजावन्तम्.धार्मिकम्.सात्त्विकम्.तथा.॥

३.२८.(१४४ ) समिधो.अश्वत्थ.वृक्षस्य.हुत्वा.अग्निम्.जुहुयात्.पुनः.।
३.२८.(१४४ ) उपस्थानम्.हुताशस्य.ध्यात्वा.अर्च्य.मधु.सूदनम्.॥

३.२८.(१४५ ) हविर्.होअम्.ततः.कुर्यात्.प्रत्यृचम्.वाग्.यतः.शुचिः.।
३.२८.(१४५ ) सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.पूर्ववत्.॥

३.२८.(१४६ ) हविः.शेषम्.नमस्.कृत्वा.नारी.नारायणम्.पतिम्.।
३.२८.(१४६ ) भक्षयित्वा.हविः.शेषम्.लब्ध.आशीः.संविशेत्.क्षपाम्.॥

३.२८.(१४७ ) ततस्.तु.कर्म.कृत्वा.इदम्.कर्तव्यम्.द्विज.तर्पणम्.।
३.२८.(१४७ ) द्वितीयाम्.स्त्रियाम्.निवर्तेत.यावद्.गर्भम्.न.विन्दति.॥

३.२८.(१४८ ) अपुत्रा.मृत.पुत्रा.वा.या.च.कन्याम्.प्रसूयते.।
३.२९.(१४८ ) क्षिप्रम्.सा.जनयेत्.पुत्रम्.ऋष्यशृङ्गो.यथा.अब्रवीत्.॥

३.२९.(१४९ ) अर्चाम्.सम्प्रवक्ष्यामि.विष्णोर्.अमित.तेजसः.।
३.२९.(१४९ ) यत्.कृत्वा.मुनयः.सर्वे.ब्रह्म.निर्वाणम्.आप्नुयुः.॥

३.२९.(१५० ) अप्स्व्.अग्नौ.हृदये.सूर्ये.स्थण्डिले.प्रतिमासु.च.।
३.२९.(१५० ) षट्स्व्.एतेषु.हरेः.सम्यग्.अर्चनम्.मुनिभिः.स्मृतम्.॥

३.२९.(१५१ ) अग्नौ.क्रियावताम्.देवो.दिवि.देवो.मनीषिणाम्.।
३.२९.(१५१ ) प्रतिमास्व्.अल्प.बुद्धीनाम्.योगिनाम्.हृदये.हरिः.॥

३.२९.(१५२ ) आपो.ह्य्.आयतनम्.तस्य.तस्मात्.तासु.सदा.हरिः.।
३.२९.(१५२ ) तस्य.सर्व.गतत्वाच्.च.स्थण्डिले.भावित.आत्मनाम्.॥

३.२९.(१५३ ) दद्यात्.पुरुष.सूक्तेन.यः.पुष्पाण्य्.अप.एव.वा.।
३.२९.(१५३ ) अर्चितम्.स्यात्.जगद्.इदम्.तेन.सर्वम्.चर.अचरम्.॥

३.२९.(१५४ ) आनुष्टुभस्य.सूक्तस्य.त्रिष्टुब्.अन्तस्य.देवता.।
३.२९.(१५४ ) पुरुषो.यो.जगद्.बीजम्.ऋषिर्.नारायणः.स्मृतः.॥

३.३०.(१५५ ) नारायण.महा.बाहो.शृणुष्व.एक.मनाः.प्रभो.।
३.३०.(१५५ ) वक्ष्ये.पुरुष.सूक्तस्य.विधानम्.त्व्.अर्चनम्.प्रति.॥

३.३०.(१५६ ) अग्नि.कार्यम्.जप.विधिम्.स्तोत्रम्.चैव.सदात्मकम्.।
३.३०.(१५६ ) स्नात्वा.यथा.उक्त.विधिना.प्रान्.मुखः.शुद्ध.मानसः.॥

३.३०.(१५७ ) प्रथमाम्.विन्यसेद्.वामे.द्वितीयाम्.दक्षिणे.करे.।
३.३०.(१५७ ) तृतीयाम्.वाम.पादे.तु.चतुर्थीम्.दक्षिणे.न्यसेत्.॥

३.३०.(१५८ ) पञ्चमी.वाम.जानुनि.षष्ठिम्.वै.दक्षिणे.न्यसेत्.।
३.३०.(१५८ ) सप्तमीम्.वाम.कट्याम्.तु.अष्टमीम्.दक्षिणे.कटौ.॥

३.३०.(१५९ ) नवमीम्.नाभि.मध्ये.तु.दशमीम्.हृदये.न्यसेत्.।
३.३०.(१५९ ) एकादशीम्.कण्ठ.देशे.द्वादशीम्.वाम.बाहुके.॥

३.३०.(१६० ) त्रयोदशीम्.दक्षिणे.च.आस्ये.चैव.चतुर्दशीम्.।
३.३०.(१६० ) अक्ष्णोः.पञ्चदशीम्.चैव.षोडशीम्.मूर्ध्नि.विन्यसेत्.॥

३.३१.(१६१ ) एवम्.न्यास.विधिम्.कृत्वा.पश्चात्.पूजाम्.समारभेत्.।
३.३१.(१६१ ) यथा.देहे.तथा.देवे.न्यासम्.कृत्वा.विधानतः.॥

३.३१.(१६२ ) आद्यया.आवाहयेद्.देवम्.ऋचा.तु.पुरुष.उत्तमम्.।
३.३१.(१६२ ) द्वितीयया.आसनम्.दद्यात्.पाद्यम्.चैव.तृतीयया.॥

३.३१.(१६३ ) अर्घ्यम्.चतुर्थ्या.दातव्यम्.पञ्चम्या.आचमनीयकम्.।
३.३१.(१६३ ) षष्ठ्या.स्नानम्.प्रकुर्वीत.सप्तम्या.वस्त्रम्.एव.च.॥

३.३१.(१६४ ) यज्ञ.उपवीतम्.अष्टम्या.नवम्या.च.अनुलेपनम्.।
३.३१.(१६४ ) पुष्पम्.दशम्या.दातव्यम्.एकादश्या.तु.धूपकम्.॥

३.३१.(१६५ ) द्वादश्या.दीपकम्.दद्यात्.त्रयोदश्या.निवेदनम्.।
३.३१.(१६५ ) चतुर्दश्या.नमस्कारम्.पञ्चदश्या.प्रदक्षिणम्.॥

३.३१.(१६६ ) स्नाने.वस्त्रे.च.नैवेद्ये.दद्याद्.आचमनीयकम्.।
३.३१.(१६६ ) दक्षिणाम्.तु.यथा.शक्त्या.षोडश्या.तु.प्रदापयेत्.॥

३.३२.(१६७ ) ततः.प्रदक्षिणाम्.कृत्वा.जपम्.कुर्यात्.समाहितः.।
३.३२.(१६७ ) यथा.शक्ति.जपित्वा.तु.सूक्तम्.तस्य.निवेदयेत्.॥

३.३२.(१६८ ) देवस्य.दक्षिणे.पार्श्वे.कुण्डम्.स्थण्डिलम्.एव.वा.।
३.३२.(१६८ ) कारयेत्.प्रथमेन.एव.द्वितीयेन.तु.प्रोक्षणम्.॥

३.३२.(१६९ ) तृतीयेन.अग्निम्.आदध्याच्.चतुर्थेन.समिन्धनम्.।
३.३२.(१६९ ) पञ्चमेन.आज्य.श्रपणम्.चरोश्.च.श्रपणम्.तथा.॥

३.३२.(१७० ) षष्ठेन.एव.अग्नि.मध्ये.तु.कल्पयेत्.पद्मम्.आसनम्.।
३.३२.(१७० ) चिन्तयेद्.देव.देव.ईशम्.काल.अनल.सम.प्रभम्.॥

३.३२.(१७१ ) ततो.गन्धम्.च.पुष्पम्.च.धूप.दीप.निवेदनम्.।
३.३२.(१७१ ) अनुज्ञाप्य.ततः.कुर्यात्.सप्तम्य्.आदि.यथा.क्रमम्.॥

३.३२.(१७२ ) समिधस्.तावतीः.पूर्वम्.जुहुयाद्.अभिधारिताः.।(?)
३.३२.(१७२ ) ततो.घृतेन.जुहुयाच्.चरुणा.च.ततः.पुनः.।
३.३२.(१७३ ) एवम्.हुत्वा.ततश्.चैव.अनुज्ञाप्य.यथा.क्रमम्.॥

३.३२.(१७३ ) अग्नेर्.भगवतस्.तस्य.समीपे.स्तोत्रम्.उच्चरेत्.।
३.३३.(१७४ ) जितम्.ते.पुण्डरीक.अक्ष.नमस्.ते.विश्व.भावन.।
३.३३.(१७४ ) नमस्.ते.अस्तु.हृषीकेश.महा.पुरुष.पूर्वज.॥

३.३३.(१७५ ) देवानाम्.दानवानाम्.च.सामान्यम्.अधिदैवतम्.।
३.३३.(१७५ ) सर्वदा.चरण.द्वन्द्वम्.व्रजामि.शरणम्.तव.॥

३.३३.(१७६ ) एकस्.त्वम्.असि.लोकस्य.स्रष्टा.संहारकस्.तथा.।
३.३३.(१७६ ) अव्यक्तश्.च.अनुमन्ता.च.गुण.माया.समावृतः.॥

३.३३.(१७७ ) संसार.सागरम्.घोरम्.अनन्तम्.क्लेश.भाजनम्.।
३.३३.(१७७ ) त्वाम्.एव.शरणम्.प्राप्य.निस्तरन्ति.मनीषिणः.॥

३.३३.(१७८ ) न.ते.रूपम्.न.च.आकारो.न.आयुधानि.न.च.आस्पदम्.।
३.३३.(१७८ ) तथा.अपि.पुरुष.आकारो.भक्तानाम्.त्वम्.प्रकाशसे.॥

३.३३.(१७९ ) न.एव.किंचित्.परोक्षम्.ते.प्रत्यक्षो.असि.न.कस्यचित्.।
३.३३.(१७९ ) न.एव.किंचिद्.असाध्यम्.ते.न.च.साध्यो.असि.कस्यचित्.॥

३.३४.(१८० ) कार्याणाम्.कारणम्.पूर्वम्.वचसाम्.वायम्.उत्तमम्.।
३.३४.(१८० ) योगिनाम्.परम.ऐद्धिः.परमम्.ते.पदम्.विदुः.॥

३.३४.(१८१ ) अहम्.भीतो.अस्मि.देव.ईश.संसारे.अस्मिन्.महा.भये.।
३.३४.(१८१ ) त्राहि.माम्.पुण्डरीक.अक्ष.न.जाने.परमम्.पदम्.॥

३.३४.(१८२ ) कालेष्व्.अपि.च.सर्वेषु.दिष्कु.सर्वाषु.च.अच्युत.।
३.३४.(१८२ ) शरीरे.च.गतश्.च.असि.वर्तते.मे.महद्.भयम्.॥

३.३४.(१८३ ) त्वत्.पाद.कमलाद्.अन्यन्.न.मे.जन्म.अन्तरेष्व्.अपि.।
३.३४.(१८३ ) विज्ञानम्.यद्.इदम्.प्राप्य.यद्.इदम्.स्थानम्.अर्जितम्.॥

३.३४.(१८४ ) जन्म.अन्तरे.अपि.मे.देव.मा.भूद्.अस्य.परिक्षयः.।
३.३४.(१८४ ) दुर्गताव्.अपि.जातव्य.त्वद्.गतो.मे.मनो.रथः.॥

३.३४.(१८५ ) यदि.नाशम्.न.विन्देत.तावता.अस्मि.कृती.सदा.।
३.३४.(१८५ ) कामये.विष्णु.पादौ.तु.सर्व.जन्मसु.केवलम्.॥

३.३५.(१८६ ) पुरुषस्य.हरेः.सूक्तम्.स्वर्ग्यम्.धन्यम्.यशस्करम्.।
३.३५.(१८६ ) आत्म.ज्ञानम्.इदम्.पुण्यम्.योग.ज्ञानम्.इदम्.परम्.॥

३.३५.(१८७ ) फल.आहारो.भवेन्.मासम्.पश्यत्य्.आत्मानम्.आत्मनि.।
३.३५.(१८७ ) फलानि.भुक्त्वा.उपवसेन्.मासम्.अद्भिश्.च.वर्तयेत्.॥

३.३५.(१८८ ) अरण्ये.निवसेन्.नित्यम्.जपन्न्.एतम्.ऋषिम्.सदा.।
३.३५.(१८८ ) त्रिस्.त्रिषवण.कालेषु.स्नायाद्.अप्सु.समाहितः.॥

३.३५.(१८९ ) आदित्यम्.उपतिष्ठेत.सूक्तेन.अनेन.नित्यशः.।
३.३५.(१८९ ) आज्य.आहुतोर्.अनेन.एव.हुत्वा.एतम्.चिन्तयेद्.ऋषिम्.॥

३.३५.(१९० ) ऊर्ध्वम्.मासात्.फल.आहारस्.त्रिभिर्.वर्षैर्.जयेद्.दिवम्.।
३.३५.(१९० ) तद्भक्तस्.तन्मना.युक्तो.दश.वर्षाण्य्.अनन्य.भाक्.॥

३.३५.(१९१ ) साक्षात्.पश्यति.तम्.देवम्.नारायणम्.अनामयम्.।
३.३५.(१९१ ) ग्राह्यम्.अत्यन्त.यत्नेन.स्रष्टारम्.जगतो.अव्ययम्.॥

३.३६.(१९२ ) गृहस्थ.धर्मे.वर्तेत.न्याय.क्लृप्तः.शुचि.व्रतः.।
३.३६.(१९२ ) एतम्.देवम्.चिन्तयेत.नारायणम्.अनामयम्.॥

३.३६.(१९३ ) अर्ध.रात्रे.त्यक्त.निद्र.उत्थाय.शुचि.वाग्.यतः.।
३.३६.(१९३ ) सम्प्रसुप्तेषु.भूतेषु.योगम्.युञ्जीत.योगवित्.॥

३.३६.(१९४ ) ऋज्व्.आसीनः.समे.देशे.निवाते.शब्द.वर्जिते.।
३.३६.(१९४ ) सव्यम्.पादम्.दक्षिणस्य.जानुनि.श्लेषयेत्.ततः.॥

३.३६.(१९५ ) संहृत्य.दक्षिणम्.पादम्.सव्ये.जानुनि.यच्छति.।
३.३६.(१९५ ) ब्रह्म.अञ्जलि.कृतः.स्वस्थो.योग.सम्मीलित.ईक्षणः.॥

३.३६.(१९६ ) ओम्.इत्य्.उक्त्वा.स्वम्.हृदयम्.चिन्तयेद्.अविशङ्कितः.।
३.३६.(१९६ ) तत्र.आत्मानम्.समादध्याद्.इन्द्रियाणि.मनस्.तथा.॥

३.३७.(१९७ ) न.चेद्.बुध्येत.किंच.अन्यन्.न.पश्येच्.शृणुयान्.न.च.।
३.३७.(१९७ ) न.मनस्येद्.यदा.योगम्.तदा.प्राप्तः.स.उच्यते.॥

३.३७.(१९८ ) हृद्यम्.एतम्.ऋषिम्.अभ्यस्येत्.पश्यन्न्.इव.यथा.श्रुति.।
३.३७.(१९८ ) प्राणान्.आयम्य.च.आसीनो.यावत्.तम्.चिन्तयेद्.ऋषिम्.॥

३.३७.(१९९ ) उच्छ्वसिष्यन्न्.अधो.नाभि.गमयित्वा.मनस्.तथा.।
३.३७.(१९९ ) उच्छ्वसेद्.एवम्.असकृत्.तन्मना.योगम्.उन्नयेत्.॥

३.३७.(२०० ) एवम्.हि.युञ्जन्त्.सामान्यम्.न.पश्येत्.शृणुयान्.न.च.।
३.३७.(२०० ) तदा.शनैर्.नयेच्.चेतो.हृदयाद्.ऊर्ध्वम्.एव.तु.॥

३.३७.(२०१ ) समौ.तु.जत्रू.च.आस्यम्.च.नासिका.नयने.भ्रुवौ.।
३.३७.(२०१ ) भ्रुवोर्.मध्ये.परम्.स्थानम्.तत्र.एतद्.धारयेत्.स्थिरम्.॥

३.३८.(२०२ ) ललाट.देशे.धार्य.अथ.मूर्धानम्.गमयेत्.ततः.।
३.३८.(२०२ ) उच्छ्वसंश्.च.यथा.कालम्.नाभिम्.गत्वा.उच्छ्वसेत्.पुनः.॥

३.३८.(२०३ ) एतत्.परम्.स्थानम्.उक्तम्.ब्रह्मणः.परमात्मनः.।
३.३८.(२०३ ) एवम्.युक्तो.महात्मानम्.आत्मानम्.प्रतिपद्यते.॥

३.३८.(२०४ ) यदि.स्यात्.सुकृती.शुद्धो.यदि.वा.पापकृत्तमः.।
३.३८.(२०४ ) उपलभ्य.परम्.ब्रह्म.गतिम्.ज्ञात्वा.भवेत्.शुचिः.॥

३.३८.(२०५ ) सर्व.पाप.अनुबद्धश्.चेद्.बुद्ध्वा.एतत्.प्रयतो.जपेत्.।
३.३८.(२०५ ) अपि.जिज्ञासनाद्.एव.गच्छेत.परमाम्.गतिम्.॥

३.३८.(२०६ ) धारणा.तु.पृथक्.कार्या.धर्मेण.अनेन.नित्यशः.।
३.३८.(२०६ ) आदित्ये.अग्नौ.चन्द्रमसि.वृक्ष.अग्रेषु.च.धारयेत्.॥

३.३९.(२०७ ) पर्वत.अग्रे.समुद्रे.वा.यत्र.वा.अपि.मनो.रमे.।
३.३९.(२०७ ) न.त्व्.एव.विषयान्.प्राप्य.धारयीत.कथंचन.॥

३.३९.(२०८ ) बह्व्.अत्र.दुह्खम्.जानीयात्.प्रध्वंसे.धारणा.कृते.।
३.३९.(२०८ ) धार्मिकाणाम्.कुले.शुद्धे.योग.भ्रष्टो.अभिजायते.॥

३.३९.(२०९ ) मूर्ध्नि.ब्रह्म.यदा.विन्देत्.तम्.एव.ऋषि.सत्तमम्.।
३.३९.(२०९ ) तदा.मूर्ध्नः.परम्.ज्योतिर्.नक्षत्र.पथम्.उन्नयेत्.॥

३.३९.(२१० ) योगी.योग.ईश्वरम्.प्राप्य.निर्द्वन्द्वः.परम.आत्मवित्.।
३.३९.(२१० ) सर्वत्र.एव.आत्मना.आत्मानम्.पश्येद्.ऋषि.परायणः.॥

३.३९.(२११ ) जपेच्.चैव.सदा.स्नातः.पवित्रम्.इदम्.उत्तमम्.।
३.३९.(२११ ) अपि.पातक.सम्युक्तः.कालेन.सुकृती.भवेत्.॥

३.४०.(२१२ ) तपः.परायणो.नित्यम्.सत्य.वाग्.अनसूयकः.।
३.४०.(२१२ ) जपन्न्.एतम्.ऋषिम्.विप्रः.कालेन.स.वनी.भवेत्.॥

३.४०.(२१३ ) येन.येन.च.कामेन.जपेद्.इमम्.ऋषिम्.सदा.।
३.४०.(२१३ ) स.स.कामः.समृद्धः.स्यात्.श्रद्दधानस्य.कुर्वतः.॥

३.४०.(२१४ ) होमम्.वा.अप्य्.अथवा.जाप्यम्.उपहारम्.अथो.चरुम्.।
३.४०.(२१४ ) कुर्वीत.येन.कामेन.तत्.सिद्धिम्.अवधारयेत्.॥

३.४०.(२१५ ) ज्ञाति.श्रैष्ठ्यम्.महद्.वित्तम्.यशो.लोके.पराम्.गतिम्.।
३.४०.(२१५ ) पापेन.विप्रमोक्षस्.तु.तत्.सिद्धिम्.अवधारयेत्.॥

३.४०.(२१६ ) ज्ञान.गम्यम्.परम्.सूक्ष्मम्.व्याप्य.सर्वम्.अवस्थितम्.।
३.४०.(२१६ ) ग्राह्यम्.अत्यन्त.यत्नेन.ब्रह्म.अभ्येत्य्.सनातनम्.॥

३.४०.(२१७ ) सहस्र.शीर्षा.इति.सूक्तम्.सर्व.काम.फल.प्रदम्.।
३.४०.(२१७ ) वेद.गर्भ.शरीरेण.स.वै.नारायणः.स्मृतः.॥

३.४०.(२१८ ) ब्रह्म.इन्दु.रुद्र.पर्जन्या.अत्र.सूक्ते.व्यवस्थिताः.।
३.४०.(२१८ ) अत्रस्थम्.एतद्.द्रष्टव्यम्.जगत्.स्थावर.जङ्गमम्.॥

३.४१.(२१९ ) अनासादयामो.अपि.भक्तिम्.न.परिहापयेत्.।
३.४१.(२१९ ) भक्त.अनुकम्पी.भगवान्.श्रूयते.पुरुष.उत्तमः.॥

३.४१.(२२० ) पूजा.अर्थम्.तस्य.देवस्य.वन्यान्त्.स्वयम्.उपार्जितान्.।
३.४१.(२२० ) आरण्यक.विधानेन.निर्वपेत्.प्रत्यहम्.चरुम्.।
३.४१.(२२१ ) नारायणाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.॥

३.४१.(२२१ ) आसहस्रात्.ततश्.चक्षुर्.दिव्यम्.होतुर्.ददाति.सः.।
३.४१.(२२२ ) अपि.वा.चरु.सहस्रम्.तन्त्रेण.एकेन.निर्वपेत्.॥

३.४१.(२२२ ) यावन्तो.वा.अपि.शक्यन्ते.अह्ना.सर्वान्त्.समापयेत्.।
३.४१.(२२३ ) सहस्रस्य.ईप्सितानाम्.च.कामानाम्.लभते.फलम्.॥

३.४१.(२२३ ) पुरुष.आयुः.समायुक्तः.सिद्धो.वा.अपि.चरेन्.महीम्.।
३.४२.(२२४ ) ध्येयः.सदा.सवितृ.मण्डल.मध्य.वर्ती.नारायणः.सरसिज.आसन.सन्निविष्टः.।
३.४२.(२२४ ) केयूरवान्.मकर.कुण्डलवान्.किरीटी.हारी.हिरण्मय.वपुर्.धृत.शङ्ख.चक्रः.॥

३.४२.(२२५ ) एतत्.तु.यः.पठति.केवलम्.एव.सूक्तम्.नारायणस्य.चरणाव्.अभिवन्द्य.वन्द्यौ.।
३.४२.(२२५ ) पाठेन.तेन.परमेन.सनातनस्य.स्थानम्.जरा.मरण.वर्जितम्.एति.विष्णोः.॥

३.४२.(२२६ ) हविषा.अग्नौ.जले.पुष्पैर्.ध्यानेन.हृदय्.हरिम्.।
३.४२.(२२६ ) यजन्ति.सूरयो.नित्यम्.जपेन.रवि.मण्डले.॥

३.४३.(२२७ ) बिल्व.पत्रम्.शमी.पत्रम्.पत्रम्.भृङ्गारकस्य.च.।
३.४३.(२२७ ) मालती.कुश.पद्मम्.च.सद्यस्.तुष्टि.करम्.हरेः.॥

३.४३.(२२८ ) यन्.न.उपपद्यते.किंचित्.तम्.ध्यायेन्.मनसा.एव.तु.।
३.४३.(२२८ ) सम्पद्यते.प्रसादात्.तु.देव.देवस्य.चक्रिणः.॥

३.४३.(२२९ ) पत्रैश्.च.पुष्पैश्.च.तोयैर्.अक्रीत.लब्धैर्श्.च.सदा.एव.सत्सु.।
३.४३.(२२९ ) भक्त्या.एक.लभ्ये.पुरुषे.पुराणे.मुक्त्यै.किम्.अर्थम्.क्रियते.न.यत्नः.॥

३.४३.(२३० ) इत्य्.एवम्.उक्तः.पुरुषस्य.विष्णोर्.अर्चा.विधिर्.विष्णु.कुमार.नाम्ना.।
३.४३.(२३० ) मुक्त्या.एक.मार्ग.प्रतिबोधनाय.दृष्ट्वा.विधानम्.त्व्.इह.नारद.उक्तम्.॥

३.४३.(२३१ ) या.ओषधीः.स्वस्त्ययनम्.जपेत.नित्य.व्रतः.।
३.४३.(२३१ ) ओषधीश्.च.जयेन्.नित्यम्.षण्.मासान्.एव.नित्यशः.॥E

४.१.(१ ) इष्ट्वा.शरदि.वै.रुद्रम्.ओषधीश्.च.यजेत्.तथा.।
४.१.(१ ) तस्य.आमया.न.भवन्ति.तथा.जीर्णानि.यानि.च.॥

४.१.(२ ) क्रियाम्.तु.सप्त.रात्रेण.सप्तकृत्वो.अभ्यसेत्.ततः.।
४.१.(२ ) प्रपद्येत.ओषधीम्.विप्रः.सूक्तम्.एतज्.जपन्त्.सदा.॥

४.१.(३ ) द्विषत्.क्षेत्राद्.इह.आयध्वम्.इति.विज्ञापयेत.च.।
४.१.(३ ) स्व.क्षेत्रे.वरुणम्.इष्ट्वा.विन्दते.द्विषद्.ओषधीः.॥

४.१.(४ ) वृष्टि.कामो.यत.आहारः.प्रपद्येत.बृहस्पतिम्.।
४.१.(४ ) पायसेन.उपहारेण.होमेन.च.समन्वितः.॥

४.१.(५ ) बृहस्पते.पति.इत्य्.एतद्.वृष्टि.कामः.प्रयोजयेत्.।
४.१.(५ ) पर्जन्यम्.च.नमस्.कृत्वा.वृष्टिम्.विन्दति.शोभनाम्.॥

४.२.(६ ) सर्वत्र.तु.परा.शान्तिर्.ज्ञेयो.अप्रतिरथस्.त्व्.ऋषिः.।
४.२.(६ ) यम्.एव.देशम्.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.॥

४.२.(७ ) न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.।
४.२.(७ ) सर्व.कामैर्.जपेद्.एतत्.सर्व.काम.समृद्धये.॥

४.२.(८ ) संग्रामम्.अभ्युद्यताय.राज्ञे.च.एतत्.प्रयोजयेत्.।
४.२.(८ ) सर्वान्.विजयते.शत्रून्.न.पराजीयते.परैः.॥

४.२.(९ ) पथि.स्वस्त्ययनम्.च.एतत्.तस्करेभ्यश्.चरन्.पथि.।
४.२.(९ ) भूत.उरग.पिशाचेभ्यः.सर्वेभ्यः.परिरक्षति.॥

४.२.(१० ) भूतांशम्.काश्यपम्.सूक्तम्.प्रजा.कामः.शुचिर्.जपन्.।
४.२.(१० ) अनुरूपाम्.प्रजाम्.आशु.लभते.न.अत्र.संशयः.॥

४.३.(११ ) स्थाली.पाकेन.नासत्याव्.अश्विनौ.तु.जयेद्.द्विजः.।
४.३.(११ ) अनेन.एव.तु.सूक्तेन.हुत्वा.अश्वान्.अनुमन्त्रयेत्.॥

४.३.(१२ ) पायसम्.कृसरम्.मांसम्.ओदनम्.दधि.सक्तुकान्.।
४.३.(१२ ) कुल्माषांश्.च.करम्भांश्.च.फलानि.विविधानि.च.॥

४.३.(१३ ) चित्रम्.मात्र्यम्.शुभान्.गन्धान्.अन्न.पानानि.यानि.च.।
४.३.(१३ ) भक्ष्यम्.भोज्यम्.च.पेयम्.च.समाहृत्य.उदिते.रवौ.॥

४.३.(१४ ) भूतांशम्.अभ्यसेत्.तावद्.यावद्.अस्तमितो.रविः.।
४.३.(१४ ) अर्ध.रात्रे.त्व्.अतिक्रान्ते.ततो.अश्विभ्याम्.निवेदयेत्.॥

४.३.(१५ ) दीर्घ.आयुषम्.सुरूपम्.च.लभेत्.पुत्रम्.सुवर्चसम्.।
४.३.(१५ ) रूपवांश्.च.भवेन्.नित्यम्.भूतांशम्.यो.अभ्यसेत्.सदा.॥

४.४.(१६ ) सार्वकामिम्.इत्य्.एतम्.ऋषिम्.विद्याद्.विचक्षणः.।
४.४.(१६ ) न.वा.उ.देवा.इत्य्.एतज्.जपेत.नियत.व्रतः.॥

४.४.(१७ ) अन्नम्.विन्दति.सर्वत्र.यत्र.यत्र.उपतिष्]हति.।
४.४.(१७ ) पाप्मा.उपहतम्.आत्मानम्.यो.मन्येत.विचक्षणः.॥

४.४.(१८ ) स.जपेन्.नियतो.भूत्वा.लघु.मन्येत.पाप्मना.।
४.४.(१८ ) वाचम्.प्रपद्येद्.वाक्.कामो.जुह्वद्.आशु.जपन्न्.इमाः.॥

४.४.(१९ ) अहम्.रुद्रेभिर्.इत्य्.एतद्.वाग्मी.भवति.पूजितः.।
४.४.(१९ ) नतम्.इत्य्.अष्टकम्.सूक्तम्.वैश्वदेवम्.जपन्.मुनिः.॥

४.४.(२० ) कृत्स्नम्.तु.कल्मषम्.हत्वा.विश्वैर्.देवैः.सह.आसते.।
४.४.(२० ) रात्रीम्.प्रपद्येत.सदा.शुचिश्.चीर्ण.व्रतो.निशि.॥

४.४.(२१ ) यः.कामयेत.न.पुनर्.जायेयम्.इति.योनिषु.।
४.४.(२१ ) सहस्रकृत्वो.मनसा.जपेद्.रात्री.इति.रात्रि.सु.॥

४.४.(२२ ) स्थाली.पाकेन.रात्रीम्.च.यजेत.अहर्.अहर्.निशि.।
४.४.(२२ ) तन्मना.निशि.च.आसीनस्.तिष्ठेद्.अहनि.धार्मिकः.॥

४.५.(२३ ) ऊर्ध्वम्.संवत्सराच्.चैव.चरुम्.पयसि.संस्कृतम्.।
४.५.(२३ ) सहस्रकृत्वस्.त्व्.एतेन.दिवा.होमो.विधीयते.॥

४.५.(२४ ) जुहुयान्.निशि.पूर्वस्मिन्.भागे.रात्रि.समाहितः.।
४.५.(२४ ) दिवा.च.आवश्यकम्.कार्यम्.छायायाम्.अंशु.तेजसा.॥

४.५.(२५ ) इति.प्रयत.आत्मवान्त्.सूक्तम्.तु.मनसा.जपेत्.।
४.५.(२५ ) संवत्सरे.तृतीये.तु.सर्पिषा.साधयेत्.चरुम्.॥

४.५.(२६ ) अथ.अस्य.वरदा.देवी.रात्रिर्.भवति.शर्वरी.।
४.५.(२६ ) विज्ञापयति.ताम्.देवीम्.वरदाम्.स्वयम्.आगताम्.॥

४.५.(२७ ) संवत्सर.ऋतौ.मासि.दिवसे.अस्मिन्.क्षणे.अपि.वा.।
४.५.(२७ ) प्रयाण.कालो.भविता.तव.वत्स.इति.वत्सला.॥

४.६.(२८ ) रात्री.सूक्तम्.जपन्न्.एव.तम्.कालम्.प्रतिपद्यते.।
४.६.(२८ ) न.योनिम्.पुनर्.आयाति.सर्व.पापैः.प्रमुच्यते.॥

४.६.(२९ ) मम.अग्ने.वर्च.इत्य्.एतत्.सर्व.कामैर्.जपेद्.द्विजः.।
४.६.(२९ ) जुह्वद्.आज्यम्.अनेन.एव.सर्वान्.कामान्.अवाप्नुयात्.॥
४.६.(३० ) याम्.कल्पयन्ति.इति.सदा.जपेत.नियत.व्रतः.।
४.६.(३० ) न.एनम्.कृत्या.निहिंसन्ति.क्रुद्ध.अभिचरितानि.च.॥

४.६.(३१ ) यम्म्.अङ्गिरस.कल्पैस्.तु.तद्विदो.अभिचरन्ति.सः.।
४.६.(३१ ) प्रत्यङ्गिरस.कल्पेन.सर्वांस्.तान्.प्रतिबाधते.॥

४.६.(३२ ) प्रत्यङ्गिरस.विद्वांस्.तु.न.रिष्येत.कदाचन.।
४.६.(३२ ) न.एनम्.कृत्या.निहिंसन्ति.ज्ञात.अज्ञातानि.वा.क्वचित्.॥

४.७.(३३ ) अजानता.जानता.वा.क्रुद्धेन.अमर्षितेन.वा.।
४.७.(३३ ) आक्रुष्टम्.वा.दुरुक्तम्.वा.न.एनो.लिण्पति.तद्विदम्.॥

४.७.(३४ ) एवम्.एव.जपेन्.नित्यम्.ऋषिम्.स्वस्त्ययनाय.वै.।
४.७.(३४ ) सर्व.प्रायश्चित्तम्.एतद्.अभाषत.ऋषिः.स्वयम्.॥

४.७.(३५ ) स्थावराणाम्.निवेशे.तु.नगराणाम्.तथैव.च.।
४.७.(३५ ) ग्रामाणाम्.च.गृहाणाम्.च.जपेद्.इमम्.ऋषिम्.सदा.॥

४.७.(३६ ) जात.रूपमयम्.विद्वान्.कारयेत्.त्रिवृतम्.मणिम्.।
४.७.(३६ ) सहस्र.सम्पात.हुतम्.ऋषिणा.तेन.तम्.ततः.॥

४.७.(३७ ) प्रतिमुञ्चेत.शिरसि.ग्रीवायाम्.अथवा.उरसि.।
४.७.(३७ ) न.एनम्.कृत्या.निहिंसन्ति.ज्ञात.अज्ञातानि.यानि.च.॥

४.८.(३८ ) अनेन.एव.तु.सूक्तेन.राज्ञाम्.च.समलोहितम्.।
४.८.(३८ ) कारयेत.मणिम्.विद्वांस्.तावद्.एव.अनुमन्त्रणम्.॥

४.८.(३९ ) संग्रामेषु.ध्वज.अग्राणि.वादित्राण्य्.अनुमन्त्रयेत्.।
४.८.(३९ ) आसनानि.च.शय्याश्.च.यानानि.विविधानि.च.॥

४.८.(४० ) तस्य.अभिचरतः.साक्षाद्.आङ्गिरस.ऋषेः.स्वयम्.।
४.८.(४० ) प्रत्यङ्गिरस.कल्पेन.सर्वम्.तत्.प्रतिबाधते.॥

४.८.(४१ ) अमानुषीर्.अभिचरेत्.कृत्या.सूक्तम्.जपन्न्.इदम्.।
४.८.(४१ ) मुच्यते.सर्वतो.अनिष्टात्.किम्.पुनर्.मानुषाद्.भयम्.॥

४.८.(४२ ) तपस्वी.नियतो.दान्तः.प्रयोक्ता.चेद्.भवेद्.ऋषिः.।
४.८.(४२ ) सर्वम्.तरति.शान्त.आत्मा.तपो.हि.सुमहद्.बलम्.॥

४.९.(४३ ) आयुष्यम्.आयुर्.वर्चस्यम्.सूक्तम्.दाक्षायणम्.महत्.।
४.९.(४३ ) अलंकारम्.हिरण्यम्.वा.प्राप्य.दाक्षायणम्.जपेत्.॥

४.९.(४४ ) प्राप्तम्.च.श्रियम्.आदत्ते.बहु.च.अन्नम्.समश्नुते.।
४.९.(४४ ) न.असद्.आसीद्.इति.जपेज्.जुहुयाद्.योग.तत्परः.॥

४.९.(४५ ) प्रजापतेस्.तु.सायोज्यम्.द्वादश.अब्दैः.समश्नुते.।
४.९.(४५ ) उत.देवा.इति.जपेद्.आमयावी.यत.व्रतः.॥

४.९.(४६ ) घृत.कुम्भम्.निधाय.अथ.जुहुयाज्.जात.वेदसि.।
४.९.(४६ ) कुम्भात्.सम्पातम्.अन्यस्मिन्.कांस्य.पात्रे.निधापयेत्.॥

४.९.(४७ ) यो.अन्नाय.अलम्.न.च.अन्नम्.स्यात्.स.इदम्.सम्प्रकल्पयेत्.।
४.९.(४७ ) तेन.आज्येन.अङ्गम्.अभ्यज्य.शनकैर्.अन्न.भाग्.भवेत्.॥

४.९.(४८ ) रोग.आर्तस्य.अप्य्.अनेन.एव.गात्रम्.अङ्क्त्वा.जपेद्.इदम्.।
४.९.(४८ ) अजीर्णान्.नो.अप्य्.अञ्जयीत.सुखम्.भवति.तेन.ह.॥

४.१०.(४९ ) अग्ने.अच्छा.वद.इत्य्.एतद्.धन.कामः.प्रयोजयेत्.।
४.१०.(४९ ) नियतः.सर्पिषा.हुत्वा.जपेद्.अयुतशः.पुनः.॥

४.१०.(५० ) खादिरीणाम्.हि.समिधाम्.जुहुयाद्.दशतीर्.दश.।
४.१०.(५० ) दशकृत्वः.सदारेण.रायस्.पोषेण.पुष्यति.॥

४.१०.(५१ ) बिल्व.उदुम्बर.पालाशीस्.तथा.रौहीतकीश्.च.याः.।
४.१०.(५१ ) जुहुयाद्.धन.कामस्.तु.रायस्.पोषेण.पुष्यति.॥

४.१०.(५२ ) वैभीतक.इध्मो.बैल्वकीर्.जुहुयाद्.अर्ध.मासभुक्.।
४.१०.(५२ ) द्विषद्.द्वेषेण.तस्य.अन्ते.सूक्तम्.एतत्.प्रयोजयेत्.॥

४.१०.(५३ ) द्विषन्तम्.धनिनम्.हत्वा.द्विषतो.विन्दते.धनम्.।
४.१०.(५३ ) अथवा.जप्यम्.एव.स्याद्.रायस्.पोष.धन.अर्थिना.॥

४.११.(५४ ) अयम्.अग्ने.जरिता.इति.जपेद्.अग्नि.भये.सति.।
४.११.(५४ ) विधिना.तर्पयित्वा.अग्निम्.पयो.दधि.घृत.आदिभिः.॥

४.११.(५५ ) स्वयम्.पातुम्.यावद्.इच्छेत्.तावद्.गत्वा.चतुर्.दिशम्.।
४.११.(५५ ) अपाम्.इदम्.परिणयेत्.संतत.उदक.धारया.॥

४.११.(५६ ) उद.ह्रद.इव.भूत्वा.अग्नेर्.भेषजम्.अन्तिकात्.।
४.११.(५६ ) अरण्यम्.एत्य.पाठाम्.तु.क्रीणीयाद्.यव.मुष्टिना.॥

४.११.(५७ ) यदि.सौम्य्.असि.सोमाय.त्वा.परिक्रीणाम्य्.ओषधिम्.।
४.११.(५७ ) यदि.वारुण्य्.अस्य्.वरुणाय.त्वा.परिक्रीणाम्य्.अहम्.ततः.॥

४.११.(५८ ) वसुभ्यो.अथवा.रुद्रेभ्य.आदित्येभ्यो.अथवा.पुनः.।
४.११.(५८ ) वैश्वदेव्य्.असि.विश्वेभ्यः.परिक्रीणाम्य्.अहम्.ततः.॥

४.११.(५९ ) क्षिप्त्वा.सुमनसः.पूर्वम्.ओषध्या.सह.वीरुधि.।
४.११.(५९ ) तस्या.वीर्यम्.समादत्ते.कर्म.यत्र.करिष्यति.॥

४.११.(६० ) ताम्.तु.मध्ये.निदधीत.ओषधीनाम्.विहायसि.।
४.११.(६० ) ग्रहणे.त्व्.ओषधीनाम्.तु.सर्वत्र.एष.विधिर्.भवेत्.॥

४.१२.(६१ ) उत्खापयीत.ताम्.पाठाम्.इमाम्.इति.जपन्न्.इह.।
४.१२.(६१ ) प्रातश्.च.पेषयेद्.एनाम्.संसदि.ब्रह्म.चारिणा.॥

४.१२.(६२ ) तद्.अलाभे.व्रतवता.कन्यया.ब्राह्मणेन.वा.।
४.१२.(६२ ) प्रातः.शुचिस्.ताम्.घृतेन.त्रिः.पिबेद्.अनुमन्त्रिताम्.॥

४.१२.(६३ ) इमाम्.इति.तु.सूक्तेन.शतकृत्वो.दश.अवरम्.।
४.१२.(६३ ) सपत्नीम्.बाधते.तेन.पतिश्.च.अतीव.मन्यते.॥

४.१२.(६४ ) पतिस्.तु.परिजप्य.एनाम्.पाठाम्.एतेन.वै.पिबेत्.।
४.१२.(६४ ) पयसा.सप्त.रात्रम्.तु.सपत्नान्.प्रतिबाधते.॥

४.१२.(६५ ) मूल.मन्त्र.जपैर्.अन्यैर्.या.पतिम्.जेतुम्.इच्छति.।
४.१२.(६५ ) अलोका.यम.लोकस्था.मज्जते.नरके.हि.सा.॥

४.१३.(६६ ) अन्यथा.च.उपनीतानि.चूर्ण.मूल.औषधान्य्.अपि.।
४.१३.(६६ ) विनाशयेयुः.पुरुषम्.तस्मान्.न.अन्यत्.समाचरेत्.॥

४.१३.(६७ ) प्रियम्.वदा.भर्तरि.या.भर्ता.यस्याः.परायणम्.।
४.१३.(६७ ) वाक्.चैव.मधुरा.यस्याः.पत्युः.संवननम्.महत्.॥

४.१३.(६८ ) प्रियम्.भर्तारम्.आसाद्य.पिबेद्.एव.ओषधीम्.इमाम्.।
४.१३.(६८ ) प्रियंवदाम्.धर्म.पराम्.धर्म.पत्नीम्.अनिन्दिताम्.॥

४.१३.(६९ ) अवमन्येत.यो.मोहात्.तम्.आहुः.पुरुष.अधमम्.।
४.१३.(६९ ) अरण्यानी.इत्य्.अरण्येषु.जपेत्.सूक्तम्.अनेकशः.॥

४.१३.(७० ) अरण्यानीम्.नमस्.कृत्वा.सो.अरण्यात्.प्रमुच्यते.।
४.१३.(७० ) श्रद्धा.सूक्तम्.जपेन्.नित्यम्.श्रद्धा.कामः.समाहितः.॥

४.१४.(७१ ) सर्वत्र.लभते.श्रद्धाम्.मेधा.सूक्तम्.तथैव.च.।
४.१४.(७१ ) ब्राह्मीम्.आसाद्य.सूक्ते.द्वे.जपेत.नियत.व्रतः.॥

४.१४.(७२ ) ताम्.पिबेत्.तु.यथा.शक्त्या.त्र्यहात्.सिद्धिम्.नियच्छति.।
४.१४.(७२ ) शङ्ख.पुष्पीम्.तु.पयसा.ब्राह्मी.पुष्पाणि.सर्पिषा.॥

४.१४.(७३ ) शत.अवरीम्.तु.पयसा.वर्चाम्.अद्भिर्.घृतेन.वा.।(?)
४.१४.(७३ ) सूक्ताभ्याम्.अनुमन्त्र्य.आभ्याम्.एक.एकाम्.त्र्यहम्.पिबेत्.॥

४.१४.(७४ ) श्रद्धाम्.मेधाम्.स्मृतिम्.पुष्टिम्.बलम्.लक्ष्मीम्.च.विन्दति.।
४.१४.(७४ ) सिद्धिम्.प्राप्नोति.च.पराम्.दीर्घम्.च.आयुः.समश्नुते.॥

४.१४.(७५ ) अथवा.मनसा.ध्यायेत्.सूक्ते.सिद्धिम्.नियच्छति.।
४.१४.(७५ ) शाम.इत्था.सपत्नघ्नम्.संग्रामम्.विजिगीषतः.॥

४.१५.(७६ ) प्रयोक्तव्यम्.तु.शुचिना.जुहुयात्.तत्र.सिद्धये.।
४.१५.(७६ ) अथवा.जप्यम्.एव.स्यात्.संग्रामम्.अभिगच्छतः.॥

४.१५.(७७ ) शाम.इत्था.इति.यो.हन्तुम्.शत्रून्त्.सर्वान्.निवारयेत्.।
४.१५.(७७ ) अलक्ष्मी.नाशन.अर्थम्.तु.जपेन्.नित्यम्.शिरिम्बिटम्.॥

४.१५.(७८ ) अपामार्गमयीम्.शाखाम्.सदर्भाम्.सह.वीरुधाम्.।
४.१५.(७८ ) गृहीत्वा.आत्मानम्.पावयेद्.अधश्.च.ऊर्ध्वम्.च.नित्यशः.॥

४.१५.(७९ ) आज्यम्.च.अनेन.जुहुयात्.सहस्रम्.दशतीर्.दश.।
४.१५.(७९ ) त्र्यहेण.नुदते.देहाद्.अलक्ष्मीम्.शतवार्षिकीम्.॥

४.१५.(८० ) चान्द्रायणम्.चरन्न्.एतत्.सूक्तम्.सिद्धिकरम्.जपेत्.।
४.१५.(८० ) अलक्ष्मीम्.नुदते.देहाद्.अपि.वर्ष.सहस्रकीम्.॥

४.१६.(८१ ) गृहीतम्.यक्ष्मणा.दर्भान्.गृहीत्वा.संस्पृशन्.जपेत्.।
४.१६.(८१ ) मुञ्चामि.त्वा.हविषा.इति.यक्ष्माणम्.अपकर्षति.॥

४.१६.(८२ ) समिद्धम्.अगिम्.जुहुयाद्.आज्येन.एव.यथा.विधि.।
४.१६.(८२ ) सम्पातम्.आज्ये.निनयेत्.सम्पातैश्.च.पयः.पिबेत्.॥

४.१६.(८३ ) सम्पात.भाजने.सर्पिश्.चूर्णम्.तत्र.निधापयेत्.।
४.१६.(८३ ) तत्र.अस्य.भोजनीयम्.स्यात्.पानीयम्.च.अनुमन्त्रितम्.॥

४.१६.(८४ ) खादिराणि.च.काष्ठानि.चूर्णम्.कृत्वा.सह.अम्बुभिः.।
४.१६.(८४ ) शोधयीत.रसम्.च.इषाम्.मध्व्.आज्याभ्याम्.पिबेत्.सह.॥

४.१६.(८५ ) मुञ्चामि.त्वा.हविषा.इति.तत्र.तत्र.प्रयोजयेत्.।
४.१६.(८५ ) यक्ष्माणम्.अपकर्षन्ति.शरीरात्.तेन.कर्मणा.॥

४.१७.(८६ ) यस्याः.गर्भः.प्रमीयेत.तत्र.अग्नौ.जुहुयाद्द्.हविः.।
४.१७.(८६ ) ब्रह्मणा.अग्निः.संविदान.इत्य्.आज्येन.यथा.विधि.॥

४.१७.(८७ ) आज्य.शेषेण.च.अभ्यज्य.गर्भिणी.प्रसवेत्.ततः.।
४.१७.(८७ ) पिबेद्.एव.आज्य.शेषम्.तु.जीवंस्.तस्याः.प्रजायते.॥

४.१७.(८८ ) जातानि.चेत्.प्रमीयेरन्न्.आज्यम्.कृत्वा.अनुमन्त्रितम्.।
४.१७.(८८ ) जुहुयाद्.ब्रह्मणा.अग्निर्.इति.सम्पातान्.निनयेन्.मणौ.॥

४.१७.(८९ ) मणिम्.तु.त्रिवृति.सूत्रे.वासयेद्.वाससा.सह.।
४.१७.(८९ ) न्यग्रोध.शुङ्गया.तत्र.शुक्ल.लोहित.वेष्टितम्.॥

४.१७.(९० ) तम्.सावित्र्य्.अयुतेन.एव.अनुमन्त्र्य.यथा.विधि.।
४.१७.(९० ) सम्पातैर्.अयुतेन.एव.ब्रह्मणा.इति.च.संस्तुतम्.॥

४.१८.(९१ ) उपरिष्टाच्.च.सावित्र्या.तावद्.एव.अनुमन्त्रणम्.।
४.१८.(९१ ) सर्वैः.स्वस्त्ययनैश्.च.एतज्.जपेद्.अभिहुतम्.मणिम्.॥

४.१८.(९२ ) शिरसा.धारयेन्.नारी.प्रयता.गर्भिणी.सती.।
४.१८.(९२ ) तृतीये.गर्भ.मासे.तु.मणिम्.एतम्.समासजेत्.॥

४.१८.(९३ ) पुष्पवती.शरदम्.नारी.गौः.सवत्सा.वसेद्.यथा.।
४.१८.(९३ ) बहु.पानीय.यवसा.वत्सेन.पिबता.सह.॥

४.१८.(९४ ) जातस्य.तु.कुमारस्य.कण्ठे.तम्.मणिम्.आसजेत्.।
४.१८.(९४ ) आज्य.शेषम्.पुरस्कृत्य.तम्.अभ्यज्य.कुमारकम्.॥

४.१८.(९५ ) हुत्वा.स्वस्त्ययनैर्.एव.स्त्री.पुमांसम्.प्रसूयते.।
४.१८.(९५ ) ऊर्ध्वम्.वर्षात्.स्वस्त्ययनम्.पुनर्.एव.विधीयते.॥

४.१९.(९६ ) पुरः.स्तन.प्रदानात्.तम्.श्रद्धा.सूक्तेन.पाययेत्.।
४.१९.(९६ ) मेधा.सूक्तेन.चैव.एनम्.पिष्टम्.व्रीहिमयम्.चरुम्.॥

४.१९.(९७ ) मधु.मिश्रम्.जात.रूपम्.मेधावी.तेन.जायते.।
४.१९.(९७ ) शतम्.वर्षाणि.जीवेत्.ंरियते.न.पुरा.आयुषः.॥

४.१९.(९८ ) स्मृतम्.एव.तस्य.स्यात्.षण्.मासाच्.च.ततः.परम्.।
४.१९.(९८ ) आज्यम्.संस्कृत्य.जुहुयाद्.अक्षिभ्याम्.त.इति.द्विजः.॥

४.१९.(९९ ) पाणिना.तु.घृत.अक्तेन.मूर्धानम्.संस्पृशेत्.ततः.।
४.१९.(९९ ) कर्णौ.नेत्रे.च.छुबुकम्.नासिके.चैव.संस्पृशेत्.॥

४.१९.(१०० ) एवम्.एव.जपेन्.नित्यम्.यक्ष्मणो.विप्रमुच्यते.।
४.१९.(१०० ) पूर्व.उक्तेन.एव.कल्पेन.यक्ष्म.नाशनम्.आचरेत्.॥

४.२०.(१०१ ) होमेन.च.जपैश्.चैव.यक्षम्.नाशनम्.आचरेत्.।
४.२०.(१०१ ) अपेहि.इति.च.जपेत्.सूक्तम्.शुचिर्.दुह्स्वप्न.नाशनम्.॥

४.२०.(१०२ ) देवाः.कपोत.इति.तु.कपोतस्य.उपवेशने.।
४.२०.(१०२ ) सूक्तेन.जुहुयाद्.आज्यम्.यम.दूतम्.हि.तम्.विदुः.॥

४.२०.(१०३ ) सपत्नघ्नम्.प्रयुञ्जीत.ऋषभम्.जप.होमयोः.।
४.२०.(१०३ ) येन.इदम्.इति.वै.नित्यम्.जपेत.नियत.व्रतः.॥

४.२०.(१०४ ) समाधिम्.मनसस्.तेन.विन्दते.न.एव.मुह्यति.।
४.२०.(१०४ ) मयो.भूर्.वात.इति.तु.गवाम्.स्वस्त्ययने.जपेत्.॥

४.२०.(१०५ ) यवानाम्.तु.घृत.अक्तानाम्.कारीषे.अग्नौ.समाहितः.।
४.२०.(१०५ ) जुहुयाद्.गोष्ठ.मध्ये.तु.दधि.मध्व्.आज्य.संस्कृतान्.॥

४.२१.(१०६ ) राजानम्.अभिषिञ्चेत.तिष्येण.श्रवणेन.वा.।
४.२१.(१०६ ) पौष्ण.सावित्र.सौम्य.अश्वि.रोहिणीषु.उत्तरासु.च.॥

४.२१.(१०७ ) हुत्वा.अग्निम्.राज.लिङ्गाभिः.सावित्र्या.प्रयतः.शुचिः.।
४.२१.(१०७ ) महा.व्याहृतिभिश्.चैव.सम्पात.अभिहुतो.भवेत्.॥

४.२१.(१०८ ) सर्व.ओषधि.रसैः.श्लक्ष्णैर्.नदीनाम्.सलिलेन.च.।
४.२१.(१०८ ) व्याघ्र.चर्मण्य्.अथ.आसीनम्.आसन्द्याम्.अभिषिच्य.च.॥

४.२१.(१०९ ) तिष्ठन्.प्रत्यन्.मुखो.ब्रूयाज्.जय.त्वम्.पृथिवीम्.इमाम्.।
४.२१.(१०९ ) धर्मस्.ते.निखिलो.राजन्.वर्धताम्.पालयन्.प्रजाः.॥

४.२१.(११० ) वर्धस्व.त्वम्.श्रियै.पुष्ट्यै.जयाय.अभ्युदयाय.च.।
४.२१.(११० ) राजानः.सन्तु.ते.गोत्रे.ततो.अप्रतिरथम्.जपेत्.॥

४.२२.(१११ ) वैयाघ्रम्.तु.भवेत्.चर्म.समिद्.औदुम्बरी.भवेत्.।
४.२२.(१११ ) तिर्.एनम्.अभिषिच्य.एवम्.दुन्दुभीन्.अभिमन्त्रयेत्.॥

४.२२.(११२ ) प्राच्याम्.त्वा.दिशि.वसवो.अभिषिञ्चन्तु.तेजसे.।
४.२२.(११२ ) दक्षिणस्याम्.त्वा.दिशि.रुद्रा.अभिषिञ्चन्तु.वृद्धये.॥

४.२२.(११३ ) प्रतीच्याम्.त्वा.दिश्य्.आदित्या.अभिषिञ्चन्तु.पुष्टये.।
४.२२.(११३ ) विश्वेदेवा.उदीच्याम्.तु.अभिषिञ्चन्तु.श्रेयसे.॥

४.२२.(११४ ) अभिषिच्य.च.राजानम्.आशीर्भिर्.अभिनन्द्य.च.।
४.२२.(११४ ) आ.त्वा.अहार्षम्.अन्तरेधी.इत्य्.अथ.एनम्.अभिमन्त्रयेत्.॥

४.२२.(११५ ) पतङ्गम्.इति.नित्यम्.तु.जपेद्.अज्ञान.भेदनम्.।
४.२२.(११५ ) माया.भेदनम्.एतद्द्.हि.सर्व.मायाः.प्रबाधते.॥

४.२३.(११६ ) शाम्बरीम्.इन्द्र.जालाम्.वा.मायाम्.एतेन.वारयेत्.।
४.२३.(११६ ) अदृष्टानाम्.च.सत्त्वानाम्.मायाम्.एतेन.बाधते.॥

४.२३.(११७ ) त्यमूष्व्.इति.स्वस्त्ययनम्.जपेत.नियत.व्रतः.।
४.२३.(११७ ) पुष्पम्.दृष्ट्वा.तु.या.गर्भम्.न.गृह्णीयाद्.वयो.अन्विता.॥

४.२३.(११८ ) विष्णुर्.योनिम्.नेजमेष.योनिम्.स्पृष्ट्वा.ततो.जपेत्.।
४.२३.(११८ ) महि.त्रीणाम्.अवो.अस्त्व्.इति.पथि.स्वस्त्ययने.जपेत्.॥

४.२३.(११९ ) प्र.अग्नये.अथ.द्विषद्.द्वेष्यम्.जपेद्.द्वेषस्य.निष्कृतिम्.।
४.२३.(११९ ) आयम्.गौः.सार्पराज्ञीस्.तु.सर्वान्.एतेन.बाधते.॥

४.२३.(१२० ) पवित्राणाम्.पवित्रम्.तु.जपेद्.एव.अघमर्षणम्.।
४.२३.(१२० ) अपः.प्रविश्य.यश्.च.एतत्.त्रिः.पठेत्.सुसमाहितः.॥

४.२४.(१२१ ) यथा.अश्व.मेध.अवभृथस्.तादृशम्.मनुर्.अब्रवीत्.।
४.२४.(१२१ ) यथा.अश्व.मेधः.क्रतु.राट्.सर्व.पाप.प्रणोदनः.॥

४.२४.(१२२ ) तथा.अघमर्षणम्.सूक्तम्.सर्व.पाप.प्रणोदनम्.।
४.२४.(१२२ ) सेना.दारणम्.एतत्.स्यान्.नैर्हस्त्यम्.इति.शौनकः.॥

४.२४.(१२३ ) मनसाध्येयम्.एतत्.तु.मन्यते.शौनकस्.त्व्.ऋषिः.।
४.२४.(१२३ ) सम्.समिद्.युवसे.वृषन्.सौभ्रातृ.करणम्.महत्.॥

४.२४.(१२४ ) ज्ञाति.भेदे.प्रयुञ्जीत.न.भिद्यन्ते.कदाचन.।
४.२४.(१२४ ) कृते.भेदे.तु.संज्ञानम्.एतत्.संधि.करम्.जपेत्.॥

४.२४.(१२५ ) न.तत्र.भेदो.भूयः.स्याद्.यत्र.एतत्.सततम्.जपेत्.।
४.२४.(१२५ ) तच्.शम्योर्.आ.वृणीमह.इति.स्वस्त्ययने.जपेत्.॥

४.२५.(१२६ ) महानाम्न्यः.परम्.ब्रह्म.शुक्रम्.ज्योतिः.सनातनम्.।
४.२५.(१२६ ) सपत्नघ्न्यश्.च.पुण्याश्.च.पावमान्यः.पराः.स्मृताः.॥

४.२५.(१२७ ) वृष्टि.कामो.जपेच्.च.एता.आपो.हि.ष्ठाः.सनातनाः.।
४.२५.(१२७ ) ओम्.कार.पूर्वा.व्याहृतयो.मधुच्छन्दस.आदितः.॥

४.२५.(१२८ ) सूक्तान्य्.अन्ते.महानाम्न्यः.संहिता.सा.अमृता.स्मृता.।
४.२५.(१२८ ) अमृतत्वम्.ययुर्.देवाः.पूर्वम्.सहितया.अनया.॥

४.२५.(१२९ ) जपेद्.एताम्.शुचिर्.नित्यम्.अमृतत्वम्.स.गच्छति.।
४.२५.(१२९ ) अत्र.एव.त्व्.आवपेन्.मध्ये.पितृ.सूक्तान्य्.अनेकशः.॥

४.२५.(१३० ) पित्र्याम्.ताम्.संहिताम्.विद्यात्.पितॄन्.प्रीणाति.च.एतया.।
४.२५.(१३० ) एवम्.एव.समाहृत्य.वासवी.संहिता.भवेत्.॥

४.२५.(१३१ ) रौद्र.आदित्या.वैश्वदेवी.यद्.देवत्याम्.च.कामयेत्.।
४.२५.(१३१ ) कुर्वीत.वास्तु.शमनम्.मध्ये.गोष्ठस्य.धर्मवित्.॥

४.२६.(१३२ ) पुष्पैर्.गन्धैर्श्.च.माल्यैश्.च.वानस्पत्यैस्.तथा.औषधैः.।
४.२६.(१३२ ) वास्तु.सर्वम्.प्रतिकिरेत्.सप्त.धान्यैस्.तथैव.च.॥

४.२६.(१३३ ) वास्तोष्पतिम्.यजेच्.च.अत्र.पायसेन.बृहस्पतिम्.।
४.२६.(१३३ ) औदुम्बर.पलाशैश्.च.बलिम्.प्रतिदिशम्.हरेत्.॥

४.२६.(१३४ ) सूर्यो.वायुर्.यमः.पितरो.वरुणो.निरृतिस्.तथा.।
४.२६.(१३४ ) सोमो.महा.इन्द्र.इत्य्.एता.दिक्षु.वै.देवताः.स्मृताः.॥

४.२६.(१३५ ) दद्याद्.दानम्.ब्राह्मणेभ्यः.शिवम्.भवति.वास्तुनि.।
४.२६.(१३५ ) प्रतिसंवत्सरम्.कार्यम्.गृहे.वै.गृहमेधिना.॥

४.२६.(१३६ ) यद्य्.एवम्.सविधम्.च.अन्यद्.अनुक्तम्.अपि.किंचन.।
४.२६.(१३६ ) अग्निम्.इन्द्रम्.अथो.वायुम्.सूर्यम्.अन्याश्.च.देवताः.॥

४.२७.(१३७ ) आरिराधायषुर्.याम्.याम्.अभिधावेत.देवताम्.।
४.२७.(१३७ ) अभिरूपेण.सूक्तेन.यथा.आदिष्टम्.प्रयोजनम्.॥

४.२७.(१३८ ) ऋषीणाम्.मन्त्र.दृष्टेन.प्रत्यक्षा.सिद्धिर्.इष्यते.।
४.२७.(१३८ ) सर्वत्र.दक्षिणाम्.दद्याद्.धनम्.वा.कर्म.सिद्धये.॥

४.२७.(१३९ ) न.त्व्.एव.अदक्षिणम्.कर्म.किंचिद्.अस्ति.इति.शौनकः.।
४.२७.(१३९ ) शक्त्या.हि.पूर्ण.पात्रेण.सम्मिता.अप्य्.अन्ततो.भवेत्.॥

४.२७.(१४० ) तस्मात्.स्वल्पा.अपि.दातव्या.दक्षिणा.कर्म.सिद्धये.।
४.२७.(१४० ) ऋषभ.एकादशा.दद्याद्.येन.वा.तुष्यते.गुरुः.।
४.२७.(१४१ ) धर्मज्ञे.सत्य.वादिनि.ब्रह्म.दानम्.च.दीयते.॥

४.२७.(१४१ ) तद्.इदम्.परम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्.।
४.२७.(१४२ ) न.अप्रशान्ताय.दातव्यम्.न.अपुत्राय.अतपस्विने.।
४.२७.(१४२ ) न.असंवत्सर.उषिताय.न.अशिष्याय.अहिताय.च.॥

५.१.१ नराणाम्.भाग्य.हीनानाम्.ऋग्विधानम्.अजानताम्.।
५.१.१ ऋग्वेदः.कल्प.वृक्षो.अयम्.फलम्.नैव.प्रयच्छति.॥

५.१.२ रत्न.गर्भ॑िव.आवास॑ृग्वेदः.प्रतिभाति.मे.।
५.१.२ ऋग्विधान.पर्दीपेन.विना.नैव.प्रकाशते.॥

५.१.३ रत्नाकर॑िव.उदार॑ृग्वेदो.अत्यन्त.दुष्टरः.।
५.१.३ ऋग्विधान.महा.पोतम्.विना.नैव.फल.प्रदः.॥

५.१.४ निधानम्.सर्व.रत्नानाम्.ऋग्वेदो..ब्रह्म.मन्दिरम्.।
५.१.५ ऋग्वेदः.पथितो.ह्य्.एष.नृणाम्.भवति.निह्फलः.।
५.१.५ ऋग्विधानम्.विना.तस्माद्.अध्येयम्.तत्.प्रयत्नतः.॥

५.२.१ सूक्त.तत्त्व.अर्थ.कथनम्.ऋग्विधानम्.अवैति.यः.।
५.२.१ ऋग्वेदो.जायते.तस्य.प्रसादात्.फुल्ल.मानसः.॥

५.२.२ आयुष्यम्.सम्पदो.मूलम्.सर्व.कल्मष.नाशनम्.।
५.२.२ ऋग्विधान.अभ्यनुष्ठानम्.शुभ्र.कीर्ति.करम्.परम्.॥

५.२.३ ऋग्विधानेन.सम्युक्तम्.ऋग्वेदम्.वेत्ति.यो.द्विजः.।
५.२.३ धर्म.अर्थ.काम.मोक्षाणाम्.आश्रयः.स.भवेद्.ध्रुवम्.॥

५.२.४ वेदेषु.प्रथमो.वेद॑ायुर्वेद.निधिः.प्रभुः.।
५.२.४ ऋग्विधान.सदाभ्यासादतीव.परितु॑स्यति.॥

५.२.५ शत्रु.नाशम्.मनस्.तुष्टिम्.सुहृज्.जन.समागमान्.।
५.२.५ ऋग्वेदः.प्रयन्ता.नित्यम्.ऋग्विधानेन.तोषितः.॥

५.३.१ ऋग्वेदम्.वेत्ति.यः.साङ्गम्.ऋग्विधान.रतः.सदा.।
५.३.१ मनो.रथाद्.अप्य्.अधिकम्.भवेत्.तस्य.समीहितम्.॥

५.३.२ कुले.जन्मनि.शीले.वा.प्रज्ञायाम्.उद्यमे.अपि.च.।
५.३.२ ऋग्विधान.परिज्ञानाद्.उशन्ति.चरित.अर्थताम्.॥

५.३.३ तुष्यन्ति.देवताः.सर्वाः.सम्पद्यन्ते.विभूतयः.।
५.३.३ दुराधयः.प्रणश्यन्ति.नित्यम्.ऋग्.विधि.पाठिनाम्.॥


यादृशम्.पुस्तकम्.दृष्ट्वा.तादृशम्.लिखितम्.मया.।
यदि.शुद्धम्.अशुद्धम्.वा.मम.दोषो.न.दीयते.।
आर्षम्.यो.विलिखित्वा.तु.ब्राह्मणेभ्यः.प्रयच्छति.।
पितरस्.तस्य.वैकुण्ठे.वसन्त्य्.अक्षर.संख्यया.।
भग्न.पृष्टि.कटि.ग्रीवा.बद्ध.मुष्टिर्.अधो.मुखम्.।
कष्टेन.लिखितम्.चेदम्.यत्नेन.परिपालयेत्.।
तैलाद्.रक्षेज्.जलाद्.रक्षेद्.रक्षेत्.शिथिल.बन्धनात्.।
पर.हस्ते.गताम्.रक्षेद्.एवम्.वदति.पुस्तिका.।

"https://sa.wikisource.org/w/index.php?title=ऋग्विधानम्&oldid=404292" इत्यस्माद् प्रतिप्राप्तम्