ऊड्डामरेश्वरतन्त्रम्

विकिस्रोतः तः
ऊड्डामरेश्वरतन्त्रम्
[[लेखकः :|]]

प्रथमः पटलः[सम्पाद्यताम्]

उड्डीशेन समाकीर्णा योगिवृन्दसमाकुला ।
प्रणम्य शिरसा देवी गौरी पृच्छति शंकरम् ॥ १.१
ईश्वर श्रोतुमिच्छामि लोकनाथ जगत्प्रभो ।
प्रसादं कुरु देवेश ब्रूहि धर्मार्थसाधकम् ॥ १.२
वशीकरणमुच्चाटं मोहनं स्तम्भनं तथा ।
शान्तिकं पौष्टिकं वाथ करणानि बहूनि च ॥ १.३
चक्षुर्हानिं महेशान श्रुतिहानिं तथैव च ।
ज्ञानहानिं क्रियाहानिं कीलकं च तथापरम् ॥ १.४
कार्यस्तम्भं सुरेशान शोषणं पूरणं तथा ।
मन्त्रध्यानं विशेषेण तत्सर्वं वद मे प्रभो ॥ १.५
अन्यच्च विविधं कार्यं प्रसादाद्ब्रूहि भैरव ।
यस्य विज्ञानमात्रेण मनुष्यो भुवि दुर्लभः ॥ १.६
श्रीरीश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं यदि पृच्छसि ।
तद्वदिष्यामि ते देवि तत्सर्वं समुदाहृतम् ॥ १.७
औषधैर्मन्त्रजापैश्च रिपुं हन्यान्न संशयः ।
उड्डीशात्सारमाकृष्य मयोक्तं तव भक्तितः ॥ १.८
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्लभम् ।
कपर्दिनं विरूपाक्षं सर्वभूतभयापहम् ॥ १.९
वक्ष्ये रुद्रोद्भवान् योगान् सर्वशत्रुविनाशकान् ।
तैस्तु प्रयोजितैः सः प्राणान् हन्ति न संशयः ॥ १.१०
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चाथ तुर्यमुच्चाटनं तथा ॥ १.११
ग्रामोच्चाटं पञ्चमं च जलस्तम्भं च षष्ठकम् ।
वह्नेः स्तम्भकरं चाथ वशीकरणमुत्तमम् ॥ १.१२
अन्यानपि प्रयोगांश्च बहून् शृणु वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥ १.१३
अन्धीकरणं मूकीकरणं बधिरीकरणं तथा ।
भूतज्वरस्य करणमस्त्रशस्त्रस्य दूषणम् ॥ १.१४
जलदोषप्रशमनं दध्नो मधुविनाशनम् ।
विनाशं मत्तकरणं गजवाजिप्रकोपनम् ॥ १.१५
आकर्षणं भुजंगानां मानवानां तथा ध्रुवम् ।
वह्नेर्विनाशनं कुर्यात्पर्णानां हि विनाशनम् ॥ १.१६
गर्दभस्यात्मकरणं परकायप्रवेशनम् ।
वेतालपादुकासिद्धिमुल्वकाज्ज्वलनं तथा ॥ १.१७
अन्यान् बहुप्रयोगांश्च रौद्रान् रोमप्रहर्षणान् ।
विद्यामन्त्रप्रयोगादीनौषधांश्चाभिचारिकान् ॥ १.१८
गुप्तागुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
उड्डीशं यो न जानाति स रुष्टः किं करिष्यति ॥ १.१९
सुमेरुं चालयेत्स्थानात्सागरैः प्लावयेन्महीम् ।
सूर्यं च पातयेद्भूमौ नेदं मिथ्या भविष्यति ॥ १.२०
यथैवेन्द्रस्य वज्रं च पाशं हि वरुणस्य च ।
यमस्य च यथा दण्डं कुबेरस्य गदा यथा ॥ १.२१
वह्नेः शक्तिर्यथा प्रोक्ता खड्गस्तु निरृतेर्यथा ।
यथा वायोश्चाङ्कुशं हि त्रिशूलं शूलपाणिनः ॥ १.२२
स्कन्दस्य च यथा शक्तिर्विष्णोश्चक्रं सुदर्शनम् ।
तथैते च महायोगाः प्रयुक्ताः शत्रुकारणे ॥ १.२३
अनिवृत्ते निवर्तन्ते अमोघा नात्र संशयः ।
संतुष्टेन प्रयुक्तेन सिध्यन्ति सुविचारतः ॥ १.२४
रतानां करणं वक्ष्ये शत्रुसाधनमुत्तमम् ।
येनैव कृतमात्रेण भूतो गृह्णाति मानवम् ॥ १.२५
निम्बकाष्ठं समादाय चतुरङ्गुलमानतः ।
शत्रुविष्टासमालिप्तं तथा नाम समालिखेत् ॥ १.२६
चिताङ्गारेण तन्नाम्ना धूपं दद्यान्महेश्वरि ।
चितान्तः संस्थितो भूत्वा यस्य गात्रमृदाहरेत् ॥ १.२७
कृष्णाष्टम्यां चतुर्दश्यामष्टोत्तरशतं जपेत् ।
भूतो गृह्णाति तं शीघ्रं मन्त्रेणानेन मन्त्रितः ॥ १.२८
उओं नमो भगवते सर्वभूताधिपतये विरूपाक्षाय नित्यं क्रूराय दंष्ट्रिणे विकरालिने ग्रहयक्षभूतवेतालेन सह शंकर मनुष्यं दह दह पच पच गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ।
दापयेद्देवमीशानं घृतेन वचया सह ॥ १.२९
गुग्गुलं प्रददेद्धूपं घृतमिश्रं समन्ततः ।
मन्त्रेण मन्त्रयित्वा तु ततः स्वास्थ्यं भवेत्किल ॥ १.३०
मन्त्रः उओं नमः शिवाय शान्ताय प्रभाय मुक्ताय देवाधिदेवाय शुभ्रबाहवे व्याधिं शमय शमय अमुकः स्वस्थो भवतु नमोऽस्तु ते ।
इति स्वास्थ्यमन्त्रः ।
अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ।
येनैव कृतमात्रेण ज्वरो गृह्णाति मानवम् ॥ १.३१
निम्बकाष्ठाकृतिं कृत्वा चतुरङ्गुलमानतः ।
तस्या हृदि विषोन्मत्तराजिकालवणैस्तथा ॥ १.३२
नाम संलिख्य प्रकृतौ पाच्यमानायां ततः परम् ।
ततस्तु शत्रुनाम्ना च अष्टोत्तरशतं जपेत् ॥ १.३३
ततः स प्रहरार्धेन ज्वरभूतेन गृह्यते ।
अथ जपमन्त्रः उओं बकामुखा चामुण्डा अमुकस्य क्षीरमांसशोणितभोजिनी अमुकं खः खः ज्वरेण गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ॥ १.३४
दुग्धस्नातनामाक्षराणि तदा स्वस्थो भवेदिति ।
अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ॥ १.३५
येन विज्ञानमात्रेण शत्रोरुच्चाटनं भवेत् ।
ब्रह्मदण्डी चिताभस्म गोमयस्य तथैव च ॥ १.३६
क्षारं चापि समादाय काकजङ्गासमन्वितम् ।
क्षिपेच्छिरसि शत्रूणां तूर्णमुच्चाटयेद्रिपुम् ॥ १.३७
ततः संस्नापयेदेनं गोक्षीरेण समन्वितम् ।
मुण्डनं चाथ केशानां ततः स्वस्थो भवेद्ध्रुवम् ॥ १.३८
अथान्यत्सम्प्रवक्ष्यामि शत्रोरुच्चाटनं वरम् ।
धूपं निर्भेदकं नाम स्वयं रुद्रेण भाषितम् ॥ १.३९
ब्रह्मदण्डी समूला च काकजङ्गा समन्विता ।
निर्मोकं सर्पराजस्य धूपमुच्चाटयेद्रिपून् ॥ १.४०
सर्पकञ्चुकमादाय कृष्णोरगशिरस्तथा ।
निखनेद्यस्य च द्वारे तमुच्चाटयते हठात् ॥ १.४१
ब्रह्मदण्डी सुरामांसी कच्छपस्य शिरस्तथा ।
श्मशानभस्मसंयुक्तं कपाले मानुषे न्यसेत् ॥ १.४२
शत्रोर्द्वारे निखातेन तूर्णमुच्चाटयेद्रिपून् ।
सप्तरात्रौ देवेशि समूलं नश्यते गृहम् ॥ १.४३
अथ विद्वेषणं वक्ष्ये शत्रूणां शृणु शंकरि ।
येनैव कृतमात्रेण विद्वेषो जायते नृणाम् ॥ १.४४
ब्रह्मदण्डी समूला च काकमांसेन संयुता ।
जातीपुष्परसैर्भाव्या सप्तरात्रं पुनः पुनः ॥ १.४५
ततो मार्जारमूत्रेण सप्ताहं भावयेत्ततः ।
एष धूपः प्रदातव्यः शत्रुगोत्रस्य मध्यतः ॥ १.४६
यथा गन्धं समाघ्राति पिता पुत्रैः समं कलिः ।
विद्वेषणं परं तेषां सुहृद्भिर्बान्धवैः सह ॥ १.४७
स्वस्थीकरणकं प्रोक्तं घृतगुग्गुलधूपतः ।
अथ मारणम् ।
सुरां मानुषमांसं च समादाय विचक्षणः ॥ १.४८
गृध्रास्थि शत्रुविष्ठां च द्वारमध्ये निखातयेत् ।
सप्ताहेन भवेन्मारो यथा रुद्रेण भाषितम् ॥ १.४९
ब्रह्मदण्डी चिताभस्म सुरामांसीसमायुतम् ।
अरिष्टस्य च पत्त्राणि विषं रुधिरमेव च ॥ १.५०
मोहाय च प्रयोक्तव्यः शत्रूणां नामयोगतः ।
सप्तरात्रप्रयोगेन सर्वशत्रुप्रणाशनम् ॥ १.५१
एतेषां दुष्टयोगानां शत्रवे तदुदाहृतम् ।
शतमष्टोत्तरेणैव मन्त्रयित्वा विचक्षणः ॥ १.५२
उओं नमो भगवते श्रीउड्डामरेश्वराय अमुकमुच्चाटय उच्चाटय विद्वेषय विद्वेषय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ।
देवमभ्यर्च्य चेशानं शतमष्टाधिकं जपेत् ॥ १.५३
मन्त्रमेतत्प्रयोक्तव्यं सिद्धये सिद्धिकाम्यया ।
शत्रुसैन्ये प्रयोक्तव्यं राज्ञश्च विजयार्थिनः ॥ १.५४
लाङ्गूलं गृहगोधायाः कृकलासस्य मस्तकम् ।
इन्द्रगोपकसंयुक्तं जम्बूकस्य शिरस्तथा ॥ १.५५
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
अमुक्ते हि प्रयोक्तव्यं सर्वं जनशतं हरेत् ॥ १.५६
नृकपालं समूत्रं च पेचकस्य शिरस्तथा ।
वृश्चिकस्य तु लाङ्गूलं हालाहलकमेव च ॥ १.५७
श्वेतमण्डूकमांसं च मूत्रं चैव गजोष्ट्रयोः ।
गृहीत्वा समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ १.५८
एतानि शोषयित्वा तु कल्कं कृत्वा पुनः पुनः ।
उओं हीं यमाय शत्रुनाशनाय स्वाहा ।
अन्ने पाने प्रदातव्यं रिपुसैन्यविनाशनम् ॥ १.५९
स्पृष्टमात्रेण तेनैव विस्फोटास्तु समन्ततः ।
तस्य देहे ज्वरस्तीव्रो भवेत्तीव्रा च वेदना ॥ १.६०
म्रियते सप्तरात्रौ प्रत्यानयनवर्जितः ।
अथान्यत्सम्प्रवक्ष्यामि यस्य ध्यानेन साधनम् ॥ १.६१
कथितं चैव रुद्रेण त्रिदशेभ्यः प्रसादतः ।
रुधिरं कृष्णसर्पस्य कुक्कुटस्य तु कस्यचित् ॥ १.६२
कच्छपस्य मयूराणां रोचनं जात्यञ्जनं तथा ।
कुङ्कुमं भद्रमुस्तं च तगरं कृष्णमेव च ॥ १.६३
एतानि समभागानि पुष्यार्के च समाहरेत् ।
अश्लेषायां तु पिष्टानि कृत्वा पात्रे च राजते ॥ १.६४
दशाहं स्थापयेद्भूम्यां पश्चादुद्धृत्य लेपयेत् ।
असिधाराङ्गदा नाम स्वयं रुद्रेण भाषिता ॥ १.६५
अथालिपेत्तु गात्राणि स कृत्वास्थीन्यथापि वा ।
फलपुष्पे तथा पत्त्रे धूपसत्तैस्तथैव च ॥ १.६६
अगदोऽयं महामन्त्रो भूतानां च भयावहः ।
अन्ने पाने मन्त्रयित्वा प्रयुञ्जीत विधानतः ॥ १.६७
उओं नमो भगवते रुद्राय शान्ताय दिव्ययोगाय दिव्यरूपाय जटिलब्रह्मचारिणे अगदोक्षित्रिदशैव महाबलशतं मनोहं ठः ठः स्वाहा ।
पीड्यमानं जपेन्मन्त्रं शुचिर्भूत्वा समाहितः ।
अष्टोत्तरसहस्रं तु ततो मन्त्रमिमं जपेत् ॥ १.६८
कन्यया पेषयच्चैव गोष्ठमध्ये प्रयत्नतः ।
तदशक्तौ चितायां तु यथाशक्ति पुनः पुनः ॥ १.६९
स्वयं रुद्रेण सम्प्रोक्तं सर्वकार्यप्रसाधकम् ।
सर्वे चैव प्रयोक्तव्याः सर्वशत्रुविनाशकाः ॥ १.७०
तस्मात्सर्वप्रयत्नेन रक्षितव्याः प्रयोगवान् ।
अभुक्ते नैव प्रोक्त यं क्रूरे पापजने तथा ॥ १.७१
दातव्यं भक्तियुक्ताय शास्त्रज्ञायामरेश्वरि ।
इति पार्वतीशिवसंवादे वीरभद्रेश्वरतन्त्रोद्धृते उड्डामरेश्वरमहातन्त्रे प्रथमः पटलः ॥ १.७२

द्वितीयः पटलः[सम्पाद्यताम्]

अथान्यत्सम्प्रवक्ष्यामि जलस्तम्भनमुत्तमम् ।
कुम्भीरवेल्वदंष्ट्रानि रुधिरं मांसमेव च ॥ २.१
हृदयं कच्छपस्यैव शिशुमारं पुनः पुनः ।
विभीतकस्य तैलेन सर्वानेकत्र कारयेत् ॥ २.२
न्यासकर्म ततः कृत्वा जले तिष्ठेद्यथासुखम् ।
मद्रकस्य रसं ग्राह्यं लक्षणस्य मकरस्य च ॥ २.३
डुण्डुभस्य शिरो ग्राह्यं सर्वानेकत्र कारयेत् ।
विभीतकस्य तैले तु पच्यमाने च दापयेत् ॥ २.४
न्यासकर्म प्रकुर्वीत सप्ताहं तिष्ठते जले ।
तत्तैलं पाचयेत्लौहे कृष्णाष्टम्यां समाहितः ॥ २.५
चतुर्मासोषितो भूत्वा देवमभ्यर्च्य शंकरम् ।
अभिमन्त्र्य च मन्त्रेण मृत्तिकास्नानदक्षिणम् ॥ २.६
अष्टाधिकसहस्रं तु जपित्वा होममाचरेत् ।
अनेन मन्त्रयित्वा तु ततः सिध्यति नान्यथा ॥ २.७
उओं नमो भगवते उड्डामरेश्वराय जलं स्तम्भय स्तम्भय हुं फट्स्वाहा ।
वक्ष्येऽथ लूताकरणं तं शृणुष्व समासतः ।
भल्लातकरसं गुञ्जा विषं चित्रकमेव च ॥ २.८
कपिकच्छपरोमाणि चूर्णां कृत्वा प्रदापयेत् ।
एतत्सर्वसमायुक्तो लूताकरणमुत्तमम् ॥ २.९
तस्य रूपं प्रवक्ष्यामि जायते यस्तु लक्षणैः ।
अङ्गानि धूममायान्ति मूर्छयन्ति मुहुर्मुहुः ॥ २.१०
एतद्रूपं भवेत्तस्य लूताविकृतलक्षणम् ।
चिकित्सां तस्य वक्ष्यामि येन सम्पद्यते सुखम् ॥ २.११
उशीरं चन्दनं चैव प्रियङ्गुतगरं तथा ।
रक्तचन्दनकुष्ठं च लेपो लूताविनाशनः ॥ २.१२
उओं नमो भगवते उड्डामरेश्वराय कुहलीकुर्वनी स्वाहा ।
मन्त्राभिमन्त्रितं कृत्वा ततः स्वस्थो भविष्यति ।
कृष्णसर्पशिरो ग्राह्यं मुखे निःक्षिप्य सर्षपान् ॥ २.१३
भल्लातकेन संयुक्तं कृष्णसूत्रेण वेष्टयेत् ।
वल्मीकस्य मृदः कोशे अन्तर्धूमेन पाचयेत् ॥ २.१४
कपिकच्छपरोमाणि संयुक्तं षोडशांशकैः ।
विषस्य चूर्णं कृत्वा तु शत्रूणां मूर्ध्नि निःक्षिपेत् ॥ २.१५
शरद्ग्रीष्मवसन्तेषु लूताकरणमुत्तमम् ।
प्रस्विन्ने च ततो गात्रे लग्नास्तस्मिंस्तु सर्षपाः ॥ २.१६
लूतां च सविषां कुर्यान्नात्र कार्या विचारणा ।
वेदनाजातमात्रेण मन्त्रजापं तु पूर्ववत् ॥ २.१७
पूर्वो विधानेन स्वस्थो भवति पूर्ववत् ।
अथ शस्यविनाशं च कथयामि समासतः ॥ २.१८
येनैव कृतमात्रेण वज्रं कृत्वा विचक्षणः ।
क्षेत्रे सम्पातयेद्यस्मिंस्तस्मिञ्शस्यविनाशनम् ॥ २.१९
माहेन्द्रेण क्षिपेत्तत्र प्रयोगेण तु मन्त्रवित् ।
अथ मन्त्रं पुनर्वक्ष्ये प्रयोगेषु प्रयोजकम् ॥ २.२०
अष्टोत्तरशतेनैव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवते उड्डामरेश्वराय वज्रं विनाशय वज्रं सुरपतिराज्ञापय हुं फट्स्वाहा ।
इमं योगं प्रयुञ्जानो विधिपूर्वेण कर्मणा ।
पर्णानां चैव योगेन क्षिपेत्पर्णं विनश्यति ॥ २.२१
पुनरुच्चाटनं वक्ष्ये शृणु पुत्र यथातथा ।
येनैव कृतमात्रेण ग्रामस्योच्चाटनं भवेत् ॥ २.२२
ग्रामे चतुर्णां च पथां मृदमादाय बुद्धिमान् ।
गोमयेनाकृतिं कृत्वा ग्रामस्य च चतुर्दिशः ॥ २.२३
चिताकाष्ठानलं कृत्वा कोकिलाकाकपक्षकैः ।
हुत्वा चाहुतिसाहस्रं ततो भस्म समाहरेत् ॥ २.२४
अभेदेन समुत्सार्य कृत्वा मुष्टिं सभस्मकम् ।
शतवाराभिजप्तेन अनेनैव तु मन्त्रितः ॥ २.२५
उओं नमो भगवते महाकालरुद्राय त्रिपुरविनाशनकारणाय दह दह धम धम पच पच मथ मथ मोहय मोहय उन्मादय उन्मादय उच्छेदय उच्छेदय श्रीमहारुद्र आज्ञापयति शब्दकरी मोहिनी भगवती खें खें हुं फट्स्वाहा ।
ग्रामे वा नगरे वापि भस्मप्रक्षेपणेन च ।
उच्छेदनं भवत्येव रिपूणां नात्र संशयः ॥ २.२६
दूरीकृतं पुनर्भस्म नगरे वसते पुनः ।
कुल्वीकारं प्रवक्ष्यामि शृणु योगं समासतः ॥ २.२७
येन योजितमात्रेण पुनः कुल्वो भविष्यति ।
पादपांशुसमायुक्तैरन्तरा घृतगोमयैः ॥ २.२८
वृषभस्य पुनः शत्रोः कृत्वा चैवाकृतिं बुधः ।
एकविंशतिवारं हि मन्त्रेणानेन मन्त्रिताम् ॥ २.२९
छेदयेत्तीव्रशस्त्रेण ततः कुल्वो भविष्यति ।
उओं नमो भगवते उड्डामरेश्वराय कामप्रभञ्जनाय अमुकं च्छः च्छः स्वाहा ।
प्रस्थितानां च करणे मन्त्रेणानेन मन्त्रवित् ॥ २.३०
कृत्वा मधु घृताक्तं च स्थाने ह्यत्र प्रयोजयेत् ।
स्नात्वा च गव्यदुग्धेन ततः स्वस्थो भविष्यति ॥ २.३१
अथ उन्मत्तीकरणम् ।
मूलं कनकबीजस्य घृतचूर्णं समन्ततः ।
गृहचटकस्य विष्टा च तथा करञ्जबीजकम् ॥ २.३२
एतदुन्मत्तकरं चूर्णं भक्षणात्तत्करं व्रजेत् ।
एकविंशतिवारं च मन्त्रेणानेन मन्त्रितम् ॥ २.३३
खाने पाने प्रदातव्यमुन्मत्तः स्यान्न संशयः ।
उओं नमो भगवते उड्डामरेश्वराय अमुकमुन्मादय उन्मादय च्छः च्छः स्वाहा ।
अजक्षीरेण शोणितेन पिबेत्तु शतपुष्पिकाम् ॥ २.३४
घृतेन सह वा पीत्वा ततः सम्पद्यते सुखम् ।
इत्युन्मत्तीकरणम् ।
एकविंशतिवारं हि मन्त्रितं लवणं खरम् ॥ २.३५
करवीरककाष्ठाग्नौ मन्त्रैर्धूमेन पाचयेत् ।
लवणं तन्तु संगृह्य चूर्णं कृत्वा विचक्षणः ॥ २.३६
खाने पाने प्रदातव्यं मन्त्रेणानेन मन्त्रितम् ।
मन्त्रितं शतवारं च शत्रोर्वा यस्य कस्यचित् ॥ २.३७
भक्षणाच्च भवेदन्धो नात्र कार्या विचारणा ।
उओं नम उड्डामरेश्वराय शरीरमन्धं कुरु ठः ठः स्वाहा ।
अथान्यत्सम्प्रवक्ष्यामि कुष्ठीकरणमुत्तमम् ॥ २.३८
येन सम्पीतमात्रेण कुष्ठी भवति मानवः ।
भल्लातकरसं गुञ्जा तथा मण्डलकारिका ॥ २.३९
गृहगोधासमायुक्ता भक्षे पाने प्रदापयेत् ।
सप्ताहाज्जायते कुष्ठं तत्पीतं च समेधितम् ॥ २.४०
एतस्य शमनं कुर्याद्यथा रुद्रेण भाषितम् ।
धत्रीखदिरनिम्बानि शर्करासहितानि च ॥ २.४१
विचूर्ण्य मधुसर्पिर्भ्यां जीर्णानि दापयेद्भिषक् ।
शालिभक्तं पटोलं च घृतयुक्तं तु पायसम् ॥ २.४२
सोष्णं वा मुद्गचूर्णं तु शालियुक्तमथापि वा ।
एतेन दत्तमात्रेण नरः सम्पद्यते सुखम् ॥ २.४३
जलजीवं तु संगृह्य शोषयेदातपे नरः ।
तस्य संदापयेद्धीमान् यस्य इच्छेत्तु जीवितम् ॥ २.४४
अङ्गदाहेन तीव्रेण धमेत्तं नष्टचेतसम् ।
यदीच्छेज्जीवितं तस्य अङ्गं प्रक्षालयेद्ध्रुवम् ॥ २.४५
पदमूलस्य चूर्णं तु क्षालयेत्काञ्जिकेन तु ।
तैलेनोद्वर्तयेल्लिङ्गं क्षालयेत्शीतवारिणा ॥ २.४६
अनेन क्रियमाणेन नरः सम्पद्यते सुखम् ।
अथान्यत्सम्प्रवक्ष्यामि वश्यादिकरणं परम् ॥ २.४७
येन विज्ञानमात्रेण लोको भवति किंकरः ।
पुराणिकस्य हृदयं तथा कुष्ठेन भावितम् ॥ २.४८
शिवनिर्माल्यं संचूर्णं यस्य मूर्ध्नि विनिक्षिपेत् ।
नियतं किंकरो भूत्वा यावज्जीवं स तिष्ठति ॥ २.४९
सप्तवारं मन्त्रयित्वा मन्त्रेणानेन मन्त्रवित् ।
उओं नमो भगवते उड्डामरेश्वराय स्वाधिकारं साधय साधय स्वाहा ।
चन्दनं तगरं कुष्ठं प्रियङ्गुनागकेसरम् ॥ २.५०
कृष्णधत्तूरपञ्चाङ्गं समभागं तु कारयेत् ।
छायायां वटिका कार्या प्रदेया खानपानतः ॥ २.५१
पुरुषं चाथ वा नरीं यावज्जीवं वशं नयेत् ।
सप्ताहं मन्त्रितं कृत्वा मन्त्रेणानेन मन्त्रवित् ॥ २.५२
उओं नमो भगवते मोहमालिने ठः ठः स्वाहा ।
शङ्खपुष्पी ह्यधःपुष्पी तथा संकोचपुष्पिका ।
श्वेता च गिरिकर्णी च समं सप्ताहभाविताः ॥ २.५३
स्वशुक्रेण समायुक्ता खाने पाने प्रदापयेत् ।
तं वशीकरणं प्रोक्तं यावज्जीवं न संशयः ॥ २.५४
वज्रं वाथाभया लोध्रं मञ्जिष्ठा हिङ्गुपत्त्रिका ।
दिव्यं वचा विशालाक्षा कम्बुग्रीवा सुशोभना ॥ २.५५
कुमारीत्वचाङ्गलेपेन सप्तहस्तप्रमाणतः ।
ददाति दशमीना च मन्त्रः कश्चित्प्रगृह्यते ॥ २.५६
विषसुप्तपतित्वेन नात्र कार्या विचारणा ।
जलमध्ये सहा चौरं कुरुते वर्तिको मम ॥ २.५७
दधि मधु नवनीतं पिप्पली शृङ्गवेरं मरिचमपि तु दद्यात्सप्तमं सैन्धवेन ।
यदि भवति सरोषं तक्षकेणापि दष्टं गदमिह खलु पीत्वा निर्विषं तत्क्षणं स्यात् ॥ २.५८
कुष्ठामृता चातिविषा हरिद्राया विलेपनम् ।
गरुडोक्तं विषहरमौषधं प्राणिजीवनम् ॥ २.५९
उलूकस्य जम्बुकस्य गृध्रस्य महिषस्य च ।
बिडालस्य वराहस्य काकभेकस्य च त्वचः ॥ २.६०
मूषकस्य तु नेत्रं च सूक्ष्मचूर्णानि कारयेत् ।
अनेनाञ्जितनेत्रो हि रात्रौ पश्येद्यथा दिवा ॥ २.६१
एतेषां योगमन्त्रोऽयं मनुहीनो न सिध्यति ।
उओं नमो भगवते रुद्राय शिवाय ज्योतिषां पतये देहि ज्योतींषि मतिवीर्यकरणाय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ॥ २.६२
लिङ्गसम्पूजनं कृत्वा जलं चैवाभिमन्त्रयेत् ।
दक्षिणस्यां दिशि स्थित्वा शतमष्टोत्तरं जपेत् ॥ २.६३
ततः सिध्यन्ति मन्त्राणि चाञ्जनानि समन्ततः ।
उओं नमो भगवते उड्डामरेश्वराय अञ्जनमन्त्रसिद्धिं देहि मे स्वाहा इत्यञ्जनाधिकारः ।
अथ पिशाचीकरणम् ।
कनकस्य च बीजानि प्रियङ्गु गुग्गुलस्तथा ॥ २.६४
आत्मानं धूपयित्वा तु योजयेद्राजसंसदि ।
योगमिमं समाघ्राति स वश्यो जायते भृशम् ॥ २.६५
कनकस्य तु बीजानि श्वेतार्कचन्द्रकेसरम् ।
कुष्ठं च देवदारुं च सर्वमेकीकृतं तथा ॥ २.६६
पिष्ट्वा तेन लिप्तगात्रो योगशक्त्या बलिष्ठया ।
यत्र यत्र प्रविष्टस्तु तत्र तत्र जयी भवेत् ॥ २.६७

तृतीयः पटलः[सम्पाद्यताम्]


काकस्य पक्षौ संगृह्य सर्पकञ्चुकमेव च ।
श्मशानभस्मसंयुक्तं शत्रोरुच्चाटनं भवेत् ॥ ३.१
इत्युच्चाटनाधिकारः ।
भूतवादं प्रवक्ष्यामि यथा गरुडभाषितम् ।
येनैव ज्ञातमात्रेण शत्रवो यान्ति वश्यताम् ॥ ३.२
शत्रुनिर्यासं संगृह्य चूर्णं सत्त्वं च तस्य वै ।
भावयेत्सप्तरात्रं तु भोजनैः सह दापयेत् ॥ ३.३
दत्तमात्रेण तेनैव पिशाचैर्गृह्यते तु सः ।
स्वस्थीकारे प्रदातव्या जया तु मधुयष्टिका ॥ ३.४
निर्यासैः शालसम्भूतैर्बीजानि कतकस्य च ।
भावयेत्सप्तरात्रं तु भोजनैः सह दीयते ॥ ३.५
तस्य भक्षणमात्रेण ग्रहैः संगृह्यते नरः ।
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ॥ ३.६
वास्तुकस्य तु निर्यासं बीजानि कतकस्य च ।
मर्दित्वा यातयामाभ्यां गृह्यते ब्रह्मराक्षसैः ॥ ३.७
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ।
कपिकच्छुकनिर्यासैर्मातुलुङ्गस्य बीजकम् ॥ ३.८
भावयेत्सप्तरात्रं तु भक्ष्ये पाने प्रदापयेत् ।
उओं नमो भगवते उड्डामरेश्वराय महेश्वरो नाम स्वाहा ।
आमलक्याश्च चूर्णेन स्त्रीदुग्धसहितेन च ॥ ३.९
पाययित्वा विष्कृतं तु स्वास्थ्यं संजायते ध्रुवम् ।
शर्करापद्मकिञ्जल्कपद्मकेसरकल्ककैः ॥ ३.१०
चूर्णीकृतैस्तच्चूर्णं तु दुग्धेन सह दापयेत् ।
तदा दुष्टग्रहैर्मुक्तः स्वस्थश्च जायते नरः ॥ ३.११

चतुर्थः पटलः[सम्पाद्यताम्]


अथातः सम्प्रवक्ष्यामि भूतवादे सुदुर्लभम् ।
येन विज्ञानमात्रेण सर्वसिद्धिः प्रजायते ॥ ४.१
उओं ह्रीं काली कङ्काली किल किल स्वाहा ।
इदं मन्त्रं पूर्वं सहस्रदशकं जपेत् ।
ततः सहस्रं जुहुयात्कङ्काली वरदा भवति सुवर्णमाषचतुष्टयं प्रत्यहं ददाति ।
अथ सर्वजनमुखस्तम्भनमन्तः उओं ह्रीं नमो भगवती दुर्वचती किलि वाचाभञ्जनी सर्वजनमुखस्तम्भिनी ह्रां ह्रीं ह्रैं ह्रौं ह्रः स्वाहा ।
अनेन मन्त्रेण बिल्वमरिचं घृताक्तं सहस्रहवनं कुर्यात्समस्तजनपदाः किंकरा भवन्ति ।
एतन्मन्त्रेण यदि न्यग्रोधसमिधं घृताक्तां सहस्रैकं होमयेत्तदा स्त्रीवश्यं भवति ।
उओं रौं ह्रीं हूं हूमें वद वद वाग्वादिनी वागीश्वरी नमः स्वाहा ।
अनेन मन्त्रेण सहस्रजप्तेन कवित्वं करोति नात्र संदेहः ।
उओमुओमुओमीमीमीमैमैमैं नमः स्वाहा ।
अनेन मन्त्रेण दशसहस्रजप्तेन कवित्वं करोति ॥ ४.२

पञ्चमः पटलः[सम्पाद्यताम्]


शृणु पुत्र प्रवक्ष्यामि यथा त्रैलोक्यमोहनम् ।
परपुरुषा वशं यान्ति यथावत्कथयामि ते ॥ ५.१
एला कुष्ठं च लोध्रं च वचा च रक्तचन्दनम् ।
श्मशानभस्मसंयुक्तं प्रयोगं मारणान्तकम् ॥ ५.२
मारणं संकोचकरणम् ।
कुलत्थं बिल्वपत्त्रं च रोचना च मनःशिला ।
एतानि समभागानि स्थापयेत्ताम्रभाजने ॥ ५.३
सप्तरात्रे स्थिते पात्रे तैलमेभिः पचेद्बुधः ।
तैलेन भगमालिप्य भर्तारमुपगच्छति ॥ ५.४
सम्प्राप्य मैथुनं भर्ता दासो भवति नान्यथा ।
नागरैः मधुसंयुक्तैर्गुटिकां कारयेद्बुधः ॥ ५.५
अश्वमूत्रेण संयुज्य पुरुषाणां वशंकरम् ।
कुङ्कुमं शतपुष्पं च प्रियङ्गु रोचनं ततः ॥ ५.६
अजाक्षीरेण दातव्यं या भार्या दुर्भगा भवेत् ।
ततः सा सुभगा नित्यं पतिदासत्वमाप्नुयात् ॥ ५.७
मातुलुङ्गस्य बीजानि पङ्कजस्य फलानि च ।
समुद्रजं रक्तचूर्णं मधुना सह लेपयेत् ॥ ५.८
तैलयोजितमात्रेण पतिर्दासो भवेद्ध्रुवम् ।
अधुना सम्प्रवक्ष्यामि योगानां सारमुत्तमम् ॥ ५.९
येन विज्ञातमात्रेण नरी भवति किंकरी ।
उशीरं चन्दनं चैव मधुना सह संयुतम् ॥ ५.१०
गजहस्तप्रयोगोऽयं सर्वनरीप्रयोजकः ।
केवलं शशिना युक्तं कुङ्कुमं लेपयेद्भगे ॥ ५.११
निजवज्जायते साङ्गं जायते योनिसंचयम् ।
लवंगं सैन्धवं क्षौद्रं पिप्पली मरिचानि च ॥ ५.१२
नरस्य लेपयेद्गात्रं स भवेद्गजहस्तवत् ।
वरटावेश्मसम्बानं शीततोयेन पेषयेत् ॥ ५.१३
तेनैव लिप्तमात्रेण भगे रन्ध्रो न जायते ।
तत्र प्रक्षालितेनाथ प्रसवत्वं भविष्यति ॥ ५.१४
यः स्वरेतः समादाय रत्यन्ते सव्यपाणिना ।
वामपादं स्त्रियो लिम्पेत्सा तस्य वशगा भवेत् ॥ ५.१५
या भोगशेषे कान्तस्य लिङ्गं वामाङ्घ्रिणा स्पृशेत् ।
यावदायुर्भवेद्दासः स तस्या नात्र संशयः ॥ ५.१६
कपोतविष्ठा सिन्धूत्थमधुकैः समभागिकैः ।
लिप्त्वा लिङ्गं भजेद्यां तु सा वश्या स्याद्वराङ्गना ॥ ५.१७
घनसारं सतल्लव्यं मेढ्रं च मधुना सह ।
पिष्ट्वा लिप्त्वा रजो यां च भजेत्सा वश्यगा भवेत् ॥ ५.१८
रोचना कनकं शम्भुबीजं कर्पूरचन्दनम् ।
एभिर्विलिप्तलिङ्गो यां भजते सा वशा भवेत् ॥ ५.१९

षष्ठः पटलः[सम्पाद्यताम्]

कृष्णच्छागरोमकृष्णमार्जाररोमकृष्णकाकरोमाणि कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा शनिभौमयोर्वारेऽश्लेषानक्षत्रे आर्द्रानक्षत्रे वा समभागानि कृत्वा कूपतडागनदीपयसा पेषयित्वा गुटिकां कृत्वा संग्रामे चोपविशेत् ।
रणपांशुना तिलकं कुर्यात् ।
अथानन्तरं येऽन्ये पुरुषा दर्शनं कुर्वन्ति ते कम्पयन्ति मूर्छयन्ति उत्पतन्ति पलायन्ते ।
ये पिष्ट्वा लेपं कुर्वन्ति तेषां शुचि कापि पतति न मुञ्चति ।
एष योगो मया प्रोक्तो देवानामपि दुर्लभः ।
निवेदनीयः कस्यापि न कदाचिदिति ब्रुवे ॥ ६.१
अथातः सम्प्रवक्ष्यामि शरीरज्ञानमुत्तमम् ।
येन विज्ञानमात्रेण जायते च शुभाशुभम् ॥ ६.२
जीवितं मरणं चैव लाभालाभं जयाजयम् ।
सुखदुःखं भवाभावौ गमनागमनं तथा ॥ ६.३
हिमालयसुता वै हि पृष्टवती वृषध्वजम् ।
अथ पृथिव्यप्तेजोवाय्वाकाशानि तत्त्वानि तत्र गुरोर्बृहत्प्रसादेन शास्त्राणि च येन योगेनातीतेन त्रैलोक्यं सचराचरं जातमेव ।
येषां समयोगानि स्थूलसूक्ष्माणि कथ्यन्ते ।
स च सम्प्रेत्य चेष्टायां लक्ष्यते तस्याः किं नाम तस्य च का जिज्ञासा यथापदुच्यते चाहुस्ततः पञ्चतत्त्वानि पठ्यन्ते ।
सम्प्रति दूतो यदागत्य वदति तस्य वागुदेति पञ्चतत्त्वाक्षराणि ज्ञात्वा यस्य तत्त्वाक्षरस्य वक्त्रे तत्त्वाक्षराणि भवन्ति प्रश्नचिन्तायां स तत्त्वं जपति ।
यदि प्रश्नचिन्तायां पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
यद्येषामधिका भवन्ति तदा पानीयतत्त्वानि भवन्ति तत्त्वाक्षराणीत्यर्थः ।
अआइईउऊऋॠळॣ एतानि पृथ्वीतत्त्वाक्षराणि ।
एऐओऔअंः एतानि जलतत्त्वाक्षराणि ।
कखगघङचछजझञ एतानि तेजस्तत्त्वाक्षराणि ।
टठडढणतथदधनपफबभम एतानि वायुतत्त्वाक्षराणि ।
यरलवशषसह तान्याकाशतत्त्वाक्षराणि ।
एतानि वर्धितवाक्येनाधिकाक्षराणि भवन्ति ।
विविधप्रकारचिन्ताः समविषमाक्षराणि पृथ्वीतत्त्वानि ज्ञातव्यानीति ।
जीवितमरणलाभालाभजयपराजयसुखदुःखगमनागमनानि च यानि समानि विषमाणि अप्तत्त्वानि निर्वाचितव्यानि ।
यदा चित्तं भवति कृतस्य वाक्यविषये पृथिवीविषये तदा सलिलतत्त्वाक्षराणि भवन्ति तदा स जप्तं जपति ।
अप्चिन्तायां यदा पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
एवमन्येष्वपि बोद्धव्यम् ।
अक्षराणि येन कथयति ।
लाभचिन्तायां तेजाकाशाक्षराणि अधिकानि भवन्ति तदा तेऽशुभोऽधिकतरो भविता ।
यदा देशात्तत्त्वाद्वा गमनादिकं तेजसः ग्रामचलिते संग्रामगमने अहेतु अके डके तैजसाक्षराण्यधिकानि भवन्ति ।
पृथिव्यप्तेजोवाय्वाकाशा एतेषामक्षराणि विवाहकाले एतेषु तेजोऽक्षराणि शुभहारकाणि भवन्ति ॥ ६.४

सप्तमः पटलः[सम्पाद्यताम्]

अथौषधीकरणं निरूप्यते ।
ओषधी परमा श्रेष्ठा गोपितव्या प्रयत्नतः ।
यस्याः प्रयोगमात्रेण देवता यान्ति वश्यताम् ॥ ७.१
ओषधी सा बुधैः प्रोक्ता चाण्डाली लोकविश्रुता ।
सुरासुरगणैः पूज्या सर्वकार्यार्थसाधिनी ॥ ७.२
एकपत्त्री द्विपत्त्री च त्रिपत्त्री तुर्यपत्त्रिका ।
अनेन विधिना देवि चतुश्चरणगामिनी ॥ ७.३
मानुषाणां विशेषेण वश्यकर्मणि योजिता ।
एकपत्त्री तु स्वाङ्गमलसंयुक्ता स्त्रियं वशमानयति द्विपत्त्री राज्ञो राजपुरुषान् ।
त्रिपत्त्री श्रीशाकमरिचसहिता दुष्टां चमूं वशमानयति चतुष्पत्त्री च कन्दुसहिता मत्तदुष्टगजं वशमानयति ।
अथोत्पाटनविधिः कथ्यते शनिवारे शुचिर्भूत्वा सायं संध्यादिकं विधाय गन्धपुष्पधूपदीपनैवेद्यादिभिः पञ्चोपचारैः पूजादिकं विधाय अक्षतं फलं हस्ते गृहीत्वा ओषधिसमीपे स्थित्वाभिमन्त्रणं कुर्यात् ।
ततोऽनुदिते भानौ खदिरकाष्ठकलिकेन खनयेत् ।
तत्र मन्त्रः येन त्वां खनते ब्रह्मा हृषीकेशो महेश्वरः ।
शचीपतिः पितृपतिर्जलेशश्च धनाधिपः ।
तेन त्वां खनयिष्यामि तिष्ठ तिष्ठ महौषधि ।
इति पठित्वा खनयेत् ।
शुचिरारभ्य एकान्ते प्रभाते मन्त्रमुक्तितः ॥ ७.४
संग्राह्यमौषधं सिद्ध्यै न भवन्ति हि काष्ठवत् ।
नमोऽस्त्वमृतसम्भूते बलवीर्यविवर्धिनि ॥ ७.५
बलमायुश्च मे देहि पापं मे नय दूरतः ।
येन चानेन मन्त्रेण खनित्वोत्पाट्यमानं कृत्वा यः पूर्वमानीतो योऽन्यथा भवेत् ।
अत्रैव तिष्ठ कल्याणि मम कार्श्यकरी भव ॥ ७.६
मम कार्ये कृते सिद्धे इतस्त्वं हि गमिष्यसि ।
उओं हीं रक्तचामुण्डे हूं फट्स्वाहा ।
अनेन मन्त्रेण पुष्यर्क्षे हस्तर्क्षे वा नक्षत्रे सर्वाश्चौषध्य उत्पाटनीया यैर्नरैश्च उदिते भानौ ओषध्यः खन्यन्ते उत्पाट्यन्ते उत्पद्यन्ते वा तासां रविकिरणपीतप्रभावेनावीर्यप्रभावो भवति ।
सिद्धिकारिका न भवन्ति ।
यद्युदिते भास्करे उत्पाट्यन्ते तदा तासां पूजा कर्तव्या ।
जपारक्तोत्पलरक्तकरवीररक्तचन्दनकुङ्कुमेन गव्यगोमयेन सपादहस्तभूमिं संलिप्य तन्मध्ये चतुरस्रं कारयेत् ।
रक्तचन्दनकुङ्कुमाभ्यां तन्मध्ये वर्तुलं वितस्तिमात्रं भानुं पूजयेत् ।
पार्श्वे चन्द्रादिग्रहान् पूजयेत् ।
ततो रक्तभक्तपुष्परक्तैर्वक्ष्यमाणमन्त्रेण बलिं दद्यात् ।
उओं द्रां द्रीं द्रूं द्रैं द्रौं द्रः सः स्वाहा ।
अनेन मन्त्रेण पूजां कृत्वोत्पाटयेद्वीर्ययुक्ता भवति सर्वकार्यक्षमा भवति ॥ ७.७

अष्टमः पटलः[सम्पाद्यताम्]

अथान्यत्सम्प्रवक्ष्यामि नारीणां गर्भधारणम् ।
पद्मबीजं गव्यपयसा सह या नरी पिबति सा गर्भवती भवति सत्यमेव आदित्यवारे निमन्त्रयेत्चन्द्रवारे भक्षयेत् ।
पूर्वदिग्भागस्थितं शरीषमूलं गव्यघृतेन सह ऋतुसमये भक्षयेत्सा संवत्सरेण गर्भवती भवति ।
अनपत्या च या नरी कपित्थं भक्षयेत्सदा ।
अभिमन्त्र्य तु मन्त्रेण सापि पुत्रवती भवेत् ॥ ८.१
एकवृक्षतटे नारी स्नानं कृत्वाभिमन्त्रयेत् ।
आदिवन्ध्यापि देवेशि भवेद्गर्भवती हि सा ॥ ८.२
देवः शिवो भवेद्यत्र नदीसङ्गमसंनिधौ ।
तस्यां नद्यां दिशि स्वाहा वन्ध्या पुत्रवती भवेत् ॥ ८.३
विधिरत्रोच्यते कपिलागोमयेनाथ भूमिं संलिप्य यत्नतः ।
स्नात्वा विधिप्रकारेण मण्डलं कारयेत्ततः ॥ ८.४
चतुरस्रं चतुष्कोणं तन्मध्ये वर्तुलं स्मृतम् ।
तन्मध्ये विलिखेत्पश्चादष्टपत्त्रं सकर्णिकम् ॥ ८.५
मध्ये तु पूजयेद्देवं पत्त्रे शक्तिं प्रपूजयेत् ।
निर्व्रणमण्डलस्याग्रे कमलं स्थापयेद्बुधः ॥ ८.६
शिखिपत्त्रनखवर्णेन लिखेत् ।
भृङ्गता कुलसप्तपर्वतमृत्तिका [... औ५ Zएइछेन्झ्] स्वमलामृत्तिकावल्मीकमृत्तिकानिम्बमूलमृत्तिका सुवर्णरजतताम्रकांस्यसहस्रमूलसर्वतीर्थानि समुद्राः सरितः सर्वाः सर्वौषधयः सर्वदेवताः सर्वसिद्धयः सर्वयोगिन्यः सर्वे गिरयः सर्वे नागाः पञ्चजात्यानि फलानि पञ्चप्रकाराक्षतानि पञ्च सुवर्णपुष्पाणि स्थिरचित्तेन मन्त्रितकलशे परिकल्पयेत् ।
अथ मन्त्रः क्षं क्षीं क्षूं क्षैं क्षौं क्षः ।
अनेन मन्त्रेण या नरी विधानेन निरतवर्जिता अब्रह्मचारिणी देवी वन्ध्या पञ्चपतिवर्जिता ।
अपुत्रा लभते पुत्रान् दुर्भगा सुभगा भवेत् ।
अनेनैव विधानेन कन्या प्राप्नोति सत्पतिम् ॥ ८.७
मन्त्रौषधीप्रयोगाश्च ये चान्ये चूर्णकीर्णकाः ।
नवाभिचारिताः कूराः शुद्धदेहा भवन्ति ते ॥ ८.८
ये चान्ये विघ्नकर्तारश्चरन्ति भुवि राक्षसाः ।
ते सर्वे प्रलयं यान्ति सत्यं देवि मयोदितम् ॥ ८.९
सकृदुच्चरिते मन्त्रे महापुण्यं प्रजायते ।
ब्रह्महत्यादयो दोषाः क्षयं यान्ति न संशयः ॥ ८.१०
अथ प्रथमोपाय उच्यते नागकेसर १० माषकं गव्यघृतेन सहर्तुस्नानदिवसे पिबेत् ।
तदनन्तरं भर्त्रा सह रात्रौ संयोगं कुर्यात् ।
सा अवश्यमेव गर्भवती भवति ।
अथ द्वितीयोपायः श्वेतजीरकम् १७ माषमात्रकं रात्रौ मृन्मयपात्रे जलेन सह निरावरणस्थाने समग्ररात्रौ स्थापयेत् ।
अग्निमदिवसे शिलायां पिष्ट्वा पर्युषितजलेन या स्त्री ऋतुस्नानदिने पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यादवश्यं सा गर्भवती भवति ।
अथ तृतीयोपाय दकाल्वद्मदीपि १० माषकं गव्यदुग्धेन सह या ऋतुस्नानदिवसे पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यात्सा अवश्यमेव गर्भवती भवति ।
इति तृतीयोपायः ।
उओं घण्टाकर्णाय स्वाहा इमं सप्तधा जप्त्वा ग्रामे नगरे वा प्रविशेत्तत्र विशिष्टं भोजनं प्राप्नोति ।
अन्यच्च भो अल्ल मे सिद्धा अनेनाष्टोत्तरशतं जपेत् ।
शिरीषमूलमृदः क्षेत्रस्य चतुष्कोणेषु मोक्षयेत्तदा शशकमूषकवराहचतुष्पादप्रभृतीनां मुखबन्धनं भवति ।
अधुना सम्प्रवक्ष्यामि मन्त्रान्मे फलदायकाः ।
ये सिध्यति दशान्यूनं मन्त्रसाधनमुक्तिदाः ॥ ८.११
शत्रुमित्रोदासीनसाध्यसिद्धस्य लक्षणम् ।
मन्त्राक्षराणि लिखित्वा साधकस्य तस्य यदापि च प्रथमवर्गाक्षरो भवति तदा मित्रं द्वितीयवर्गाक्षरो भवति तदा सिद्धः ।
तृतीयवर्गस्य यदा भवति तदा साध्यः चतुर्थवर्गाक्षरो भवति तदोदासीनः पञ्चमवर्गाक्षरो यदा भवति तदा शत्रुर्ज्ञातव्यः ।
एतान् भेदान् ज्ञात्वा मन्त्रशोधनमारभेत्तदा साधकानां सुखावहो भवति अथ कल्पवृक्षषण्डमूलानि यानि प्रक्षालितानि गव्यदधिमिश्रितायां राजिकायां संस्कार्याणि ।
ततो नियमपूर्वकं भक्षयेत् ।
निर्व्याधियोगेष्वमुं स्वमुखे नियोजयेत् ।
विधानमस्या ब्रवीमीति देवी ।
अथ मन्त्रः उओं नमः षण्मुखाय शक्तिहस्ताय मयूरवाहनाय औषधीकेन देहि मे भव स्वाहा ।
अनेन मन्त्रेण चतुर्दश्यां शुचिर्भूत्वा मयूरशिखामुत्पाटयेत्तदा महाप्रभावयुक्ता भवति ।
गव्यघृतेन सह संगृह्येत तदा इन्द्रियबलो भवति ।
पञ्चमलेन स्वर्णकारो भवति ।
अन्यच्च श्वेतकरवीरमूलश्वेतगिरिकर्णिकामूलहेवचनाङ्भीकृतजाताञ्जली पञ्चमलसमायुक्ता खाने पाने प्रदातव्या मरणान्तं वशीकरणम् ॥ ८.१२
अन्यच्च श्वेतगिरिकर्णिकामूलं स्ववीर्येण सह स्वकीयपञ्चमलहरवीर्यश्वेतार्कमूलमेतानि हस्तर्क्षे पुष्यर्क्षे वा एकीकृत्य कुमारिकाहस्ताभ्यां मर्दयित्वा अष्टम्यां चतुर्दश्यां वा गजमदेन सह हस्ते गुटिकां कारयेत् ।
यस्यै एकापि दीयते सा वश्या भवति नान्यथा ।
शुक्लपक्षेऽपि सर्पाणां दीयते ते सर्पा अपि वश्या भवन्ति श्रीमहाभैरवस्य वचो यथा कुङ्कुमेन सह दीयते तदा वै गजो वशीभवति ।
रोचनया कुङ्कुमेन सह यदा तिलकं क्रियते तदा सा स्त्री पृष्ठलग्ना भ्रमति ।
गुरुदारेभ्यः तिलको न दर्शयितव्यः ।
राजद्वारे तथा न्याये विवाहे युद्धे जयावहे त्रैलोक्यमोहनमेतत् ।
त्रिफला ५ माषाः निम्ब १ माष कदम्ब २ माष नीप ३ माष तिराइता ४ माष करञ्ज ५ माष भृङ्गराज ६ माष मयूरशिखा ७ माषाः एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
तदनन्तरं मधुना सह पेषयेत् ।
भोजनं च यथाहारं कुरुते नात्र संशयः ।
एतच्चूर्णं सुरेभ्योऽपि दुर्लभम् ।
रात्रिचूर्णं शिरीषवल्कलचूर्णं च गव्यघृतेन सह यस्यै वनितायै ऋतुस्नानदिवसे पानार्थं दीयते सा स्त्री वन्ध्यापि गर्भवती भवति नात्र संशयः ।
एतच्चूर्णं कपित्थफलेन सह ऋतुसमये अपुत्रवती भक्षयति सा स्त्री पुत्रमाप्नोति ।
एतच्चूर्णं श्वेतकङ्कोलीमूलं लक्ष्मणाचूर्णं च समं कृत्वा कुङ्कुमक्वाथेन सहर्तुसमये सदा भक्षणार्थं दीयते तदा तस्याः शरीरशुद्धिर्भवति ।
पश्चादृतुसमयोपरि पञ्च दिनानि भक्षयेत्तदा सा गर्भधारणक्षमा भवति नात्र संशयः ॥ ८.१३

नवमः पटलः[सम्पाद्यताम्]


अथान्यत्सम्प्रवक्ष्यामि औषधं परमदुर्लभम् ।
आस्फोटी नाम विख्याता नागदमनीति विश्रुता ॥ ९.१
अस्या विधानं वक्ष्यामि दुर्लभं त्रिदिवौकसाम् ।
विषाः सर्वे विनश्यन्ति लेपनाद्भक्षणात्क्षणात् ॥ ९.२
पत्त्रहस्ते तां प्रलिप्य सर्पो ध्रियते धृतमात्रे सर्पो न नश्यति नैव क्षतानि प्रलिप्य नागपूजितमन्त्रेण सर्पो विनश्यति ।
नागदमनीमूलं खननान्नाडीललाटलेपनान्नाशयति समन्ततः आमवातं पित्तवातं श्लेष्मवातमेते वाता विनश्यन्ति भक्षणान्नात्र संशयः ।
अथ कथयाम्योषधीकरणे करणकारणानि ।
पुत्रमय वशीकरणकारकपुत्रपुत्रं कंसं कातरापि वशं परं महिलाजनस्यैकश अप्यस्य दीयते सा पतिं परित्यज्य पश्यतां लोकानां नग्ना भूत्वा भ्रमति ।
अथ कथयामि तान्त्रिकविधिम् ।
ताम्रवेदीपरोर इति लोकैरुच्यते शनिवारे तामभिमन्त्र्य दिगम्बरो मुक्तकेशो भूत्वानुदिते भानौ ग्रहणं कुर्यात् ।
पिष्ट्वा सम्यक्प्रकारेण स्त्रीपञ्चमलेन च कामातुरेण कृत्वा ताम्बूलेन सह भगिनीकृत्वा दीयते सा वश्या भवति नान्यथा ।
मातापि पुत्रं परित्यज्य तत्परा भूत्वा पृष्ठतो नग्ना भवति यत्र कुत्रापि तथा तमनुयाति न संशयः ।
काकजङ्घेति विख्याता महौषधिर्ग्रामे सर्वत्र तिष्ठति शनिवारे संध्यासमये तस्या अभिमन्त्रणं कुर्यात्तदन्तरं ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ पुष्यर्क्षे हस्तर्क्षे वा योगे खदिरकीलकेन तां समूलामुत्पाटयेत् ।
पुनस्तां सप्तम्यामष्टम्यां नवम्यां वा एतासु तिथिषु पुनर्वसुपुष्यहस्तर्क्षयुक्तासु स्वपञ्चमलेन सह पिष्ट्वा स्ववीर्यं स्वरक्तमपि तस्मिन् दत्त्वा यस्यै वनितायै दीयते सा स्त्री वश्या भवति सत्यमेव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवति त्रिपुरे त्रैलोक्यमोहिनि ऐं द्रां श्रीं क्लीं सौममुकनाम्नीं शीघ्रं मे वशमानय स्वाहा ।
इति मन्त्रः ।
अथ गुञ्जाकल्पो लिख्यते श्वेतगुञ्जां शनिवारे संध्यासमयेऽभिमन्त्रितां कृत्वा ततो ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ खदिरकीलकेन दिगम्बरो भूत्वा समूलामुत्पाटयेत् ।
पुष्यर्क्षे हस्तर्क्षे वा स्त्रीपुष्पेण सह गोरोचनकश्मीरकुङ्कुमश्वेतचन्दनरक्तचन्दनकस्तूरीकर्पूरहस्तिमदेन सहाभिमन्त्र्य तिलकं कुर्यात्तदा स्त्री कामबाणविमोहिता विह्वला भवति ।
मन्त्रेणानेन मन्त्रयेतुओमैं ह्रीं श्रीं क्लीं हूं फट्स्वाहा ।
इति कामबाणतिलकम् ।
अथान्यतन्त्रोक्तं वशीकरणादिकं लिख्यते सारमुद्धृत्य संक्षेपाद्वशीकरणमोहने ।
कामिनां प्रीतिजनकं किंचित्तदपि गद्यते ॥ ९.३
तत्रादौ तिलकविधिः ।
लज्जां मधूकं कव्यं च नलिनीमूलमेव च ।
एतान् पिष्ट्वा स्ववीर्येण यः कुर्यात्तिलकं पुमान् ॥ ९.४
तत्क्षणादेव नयति वश्यतां भुवनत्रयम् ।
वात्स्यायनेन मुनिना प्रोक्तं योगमनुत्तमम् ॥ ९.५
सिताष्टमूलमञ्जिष्ठा वचा मुस्ता सकुष्ठका ।
स्त्रीयोनिशोणिते चैतदेकीकृत्य ललाटके ॥ ९.६
शुभं तिलकमाधत्ते यः स लोकत्रयं क्रमात् ।
कृतज्ञः स्ववशं कुर्यान्मोदते च चिरं भुवि ॥ ९.७
तगरं पिप्पलीमूलं मेषशृङ्गी कणा जटा ।
एतत्समं स्वपञ्चाङ्गमले नीत्वैकतां सुधीः ॥ ९.८
मधुना तिलकं कुर्याद्यः क्षोणीसुतवासरे ।
जगत्सर्वं वशीकुर्यात्स पुमान्नात्र संशयः ॥ ९.९
गोरोचनं च संभाव्य स्वपुंसो रुधिरेण या ।
कुर्यात्सा तिलकं भाले पतिं च मोहयेद्भृशम् ॥ ९.१०
अथाञ्जनविधिः ।
महाष्टमीदिने यस्तु श्मशाने नरमस्तके ।
पातितं कज्जलं विश्वं मोहयेन्नयनाञ्जनात् ॥ ९.११
रोचनां केसरं कन्यां शिलां चेति विशोधयन् ।
याजयेद्दृष्टिपथगं सर्वमेव विमोहयेत् ॥ ९.१२
तालीशकुष्ठनागरैः कृत्वा क्षोणीशवर्तिकाम् ।
सिद्धार्थतैले निःक्षिप्य कज्जलं नरमस्तके ॥ ९.१३
पातयेदञ्जनं तस्य सर्वदा भुवनत्रये ।
दृष्टिगोचरमायातः सर्वो भवति दासवत् ॥ ९.१४
शिलाकिञ्जल्कफलिनी रोचनानां तथाञ्जनम् ।
पुष्यर्क्षयोगे विहितं दम्पत्योर्मोहनं परम् ॥ ९.१५
इति अथ चूर्णविधिः ।
काकजङ्घा शिला पक्षौ भ्रामरौ कृष्णमुत्पलम् ।
तगरजं चैषां चूर्णं क्षिप्तं विमोहने ॥ ९.१६
वातपैत्तिकदलं पुंसो मलं मालासवस्य च ।
पक्षावलेरिदं चूर्णं क्षिप्तं शिरसि मोहनम् ॥ ९.१७
अथ भक्षणविधिः ।
अन्त्रादि सर्वं निष्कास्य खञ्जरीटोदरं कुलैः ।
पूरयित्वा स्ववीर्येण सारमेयगले क्षिपेत् ॥ ९.१८
मुद्रां कृत्वा तदेकान्ते सप्ताहं धारयेत्सुधीः ।
पश्चान्निष्कास्य संशोध्य वटीं कुर्याद्विशोषयेत् ॥ ९.१९
सा भक्षणविधानेन दीपमाला परस्परम् ।
दम्पत्योः प्रीतिजननी कीर्तिता नियमोत्तमा ॥ ९.२०
अन्यत्सुमतम् ।
अथान्यत्सम्प्रवक्ष्यामि तिलकं सर्वकामिकम् ।
गोरोचनं वंशलोचनं मत्स्यपित्तं कश्मीरकुङ्कुमकेसरस्वयम्भूकुसुमस्ववीर्यश्रीखण्डरक्तचन्दनकस्तूरीकर्पूरकाकजङ्घामूलानि समभागानि कृत्वा कूपतडागनदीजलेन मर्दयित्वा कुमारिकापार्श्वकां गुटिकां कृत्वा छायां गुटिकां कारयेत् ।
तया ललाटे तिलकं कृत्वा यां यां स्त्रियं पश्यति सा सा वश्या भवति ।
द्रौं वां धां क्षौमं कं छः इत्यनेन मन्त्रेण महिषास्थिमयं कीलकमेकोनविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना कूपतटे निखनेत्स महिषेण वध्यते ।
उओं च्छः च्छः ॡममुकं हुमीं च्छः च्छः उओमिति ।
अनेन मन्त्रेण मयूरास्थिमयं कीलकं त्र्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना चतुष्पथे निखनेत्स तत्र भ्रमति ।
तत्रानेनावतिष्ठति पर्यटति क्षणमात्रेण उत्तोलनेन शान्तिर्भवति ।
उओं श्रीं श्रीं व्रां व्रीमीमीं च्छः च्छः स्वाहा ।
अनेन मन्त्रेण मेषास्थिमयं कीलकं द्वादशाङ्गुलं सहस्रेणाभिमन्त्रितं कृत्वा यस्य गृहे निखनेत्सर्वसिद्धिरसिद्धा तस्य भवति ।
द्रीं बन्धूकपुष्पसंकाशं ध्यातव्यं मन्त्रदीपके ।
कुम्भकेन वरारोहे शृणु वक्ष्यामि षड्गुणम् ॥ ९.२१
ध्यात्वा तु मासमेकं तु महास्त्रीमानयेद्ध्रुवम् ।
मासेनैकेन मनुना आनयेन्नागकन्यकाम् ॥ ९.२२
देवकन्यां त्रिभिर्मासैः सायाह्ने नान्यथा भवेत् ।
उओं हं हः इति ।
अनेनैव तु मन्त्रेण ध्यातव्याः क्रोधयाजकाः ॥ ९.२३
याज्यस्य रुद्रसंकाशं रुद्रहस्तं सुरासुरैः ।
मासेन मानुषं लोकं नागलोकं द्विमासतः ॥ ९.२४
त्रिभिर्मासैस्तु देवेशि स्वर्गलोकं न संशयः ।
षण्मासाभ्यासयोगेन त्रैलोक्यं निश्चलं कुरु ॥ ९.२५
उओं रक्तहटा रक्तगटा मुकुटधारिणी एधति स्वाहा ।
मन्त्रराज उल्टा वेधा ।
उओं ह्रीं श्रीं ध्रीं विकृतानना बाह्ये फट्स्वाहा ।
मन्त्रमिमं यन्त्रे लिखित्वा यस्य ईक्षितं दीयते स ऐकाहिकद्व्याहिकत्र्याहिकविषमज्वरेण गृह्यते तत्क्षणादेव नश्यति नात्र संशयः ।
उओं बन्धुन क्षयं द्रीं द्रीममुकस्यात्मानं नित्यज्वरेण पत्त्रीबन्धनमात्रस्य स्फुर स्वाहा ।
इति नित्यज्वरशोधनपत्त्रिका ।
उओं क्षः स्वाहा ।
अनेन मन्त्रेण मन्त्रितं जलं भृशं कृत्वा ज्वरिताङ्गं सेचयेत्तेन ज्वरविमुक्तिर्भवति निश्चितम् ।
खरवाहनसिंहस्य क्रमादेवानुशासनम् ।
ऋक्षतुरगगतो वायुर्जीमूत इव गर्जितः ॥ ९.२६
रविवारे श्लोकमिमं लिखित्वा शिरसि न्यसेत् ।
तेन स्थापितमात्रेण त्रैमासिकज्वरं हरेत् ॥ ९.२७
वानेयस्य बिडालस्य गृहीत्वा रुधिरं ततः ।
पद्मसूत्रोत्थवर्तिं च भावयेत्सप्तवारकम् ॥ ९.२८
शिवाग्रे तज्जतैलेन पातयेत्कज्जलं ततः ।
तेनाञ्जितलोचनस्तु अदृश्यो भवति ध्रुवम् ॥ ९.२९
हेभिरिहेभेरिहे ।
अनेनोदकमादायालोक्य सहस्रवारं परिजप्य अनेनैवाञ्जनेन त्रिरात्रेण सिद्धिः ।
पद्मसूत्रवर्तिकस्य तैलेन कज्जलं पातयेत्तेनाञ्जितनेत्रस्तु अदृश्यो भवति ।
ततो गोमूत्रेण चक्षुषी प्रक्षाल्य पुनः प्रत्यक्षो भवति ॥ ९.३०
अथ डाकिनीदमनमन्त्रः अक्षः क्षां क्षौकाजसिनौ देवता तत्त्वधूलिनी घोनाशालिनी भमन्त्रि बन्धुशनादैवतं लघुकण्टकेन पुरुमभिशासनो देवतां महाभैरव मण्डलमचल उओं च्छः च्छः च्छः डाकिनीमतबन्धु नमः ।
उओं नमो भगवते वज्राय चण्डेश्वराय ईमीं फट्स्वाहा ।
इति सर्वभूतडाकिनीदमनमन्त्रः ।
दमन सर्पलङ्ग एभलिसिमजबन्धनिशि नागपाशमचलः इति दमनमन्त्रं बन्धनं च ।
उओं रंस्त्रीं शीघ्रं ह स्वाहा ।
त्रिपुरां सिन्दूरशङ्खचूर्णाभ्यामुदनालपत्त्रे लिखित्वा शोधयितव्यः स दिवसत्रयेण ज्वरेणागत्य मिलति ।
उओमहोहः अमुकनम्नीं शीघ्रमानय स्वाहा इत्याकर्षणम् ॥ ९.३१
उओं स्त्रीं स्त्रीं वलीं वलीमीमहः फट्स्वाहा ।
मज्जनस्वस्थो भवति ।
अप्सरणीममुकीं जीव ।
तेन अनेन मन्त्रेण सप्तवारं जलं प्रजप्य कामिन्यै पानार्थं दातव्यम् ।
उओं नमो जले मोहे कुले फलानि संकुले स्वाहा ।
अनेन मन्त्रेण सप्तवाराभिमन्त्रितं यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे द्रामब्जिनि फट्स्वाहा ।
अनेन मन्त्रेण प्रत्यूषे पानीयेन मुखं प्रक्षालयेत्सर्वजनप्रियो भवति सर्वसिद्धीश्वरो भवति ॥ ९.३२
उओं भूर्भुवः स्वः स्वाहा ।
ताम्बूलं मन्त्रयित्वा यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे हन हन दह दह पच पच मथ मथ अमुकं मे वशमानय स्वाहा ।
अथ यक्षिणीमन्त्रसाधनं सुरसुन्दरीमनोहारिणीकनकावतीरतिकरीकामेश्वरीनट्यनुरागिणीपद्मिनी एता अष्टौ यक्षिण्यः कामनायां साधनम् ।
अथ सुरसुन्दरीसाधनमुओं ह्रीमागच्छ आगच्छ सुरसुन्दरि स्वाहा ।
वज्रपाणिगृहं गत्वा गुग्गुलधूपं दत्त्वा त्रिसंध्यं पूजयेत्सहस्रं त्रिसंध्यं मासपर्यन्तं जपेत्ततो मासाभ्यन्तरे प्रत्यक्षा भवति अन्तिमदिने रक्तचन्दनेनार्घ्यं दद्यात् ।
तत आगत्य माता भगिनी भार्या वा भवति तासां यानि कर्माणि तान्येव करोति ।
यदि माता भवति तदा सिद्धद्रव्याणि रसायनानि ददाति ।
यदि भगिनी भवति तदा पूर्ववदमूल्यं वस्त्रं ददाति ।
यदि भार्या भवति तदा सर्वमैश्वर्यं परिपूरयति ।
परं तु वर्जनीयमिहान्यया सह शयनं सा च मैथुनप्रिया भवति अन्यथा नश्यति ॥ ९.३३
अथ मनोहारिणीसाधनमुओं हीमागच्छ आगच्छ मनोहरि स्वाहा ।
इह नदीसंगमे गत्वा चन्दनेन मण्डलं कृत्वा अगुरुधूपं दत्त्वा सहस्रैकं मन्त्रं मासपर्यन्तं प्रत्यहं जपेत् ।
ततो मासान्ते चन्दनोदकेनार्घ्यं दद्यात्पुष्पफलेनैकचित्तेन तस्या अर्चनं कर्तव्यं ततोऽर्धरात्रसमये नियतमागच्छति आगता सती तदाज्ञां करोति सुवर्णशतं तस्मै साधकाय प्रत्यहं ददाति ॥ ९.३४
अथ कनकावतीसाधनमुओं ह्रीं कनकावति मैथुनप्रिये आगच्छ आगच्छ स्वाहा ।
वटवृक्षसमीपे स्थित्वा मद्यमांसादिनैवेद्यं तस्यै मूलमन्त्रेण दत्त्वा शेषं स्वयमप्यङ्गीकृत्य सहस्रमेकं मूलमन्त्रं जपेत् ।
एवं सप्तदिनपर्यन्तं कुर्यात् ।
अष्टम्यां रात्रावर्धरात्रसमये वस्त्रालंकारभूषिता अष्टौ परिवारानादायोपगच्छति ।
आगता सा कामयितव्या भार्या वा भवति द्वादशजनानां वस्त्रालंकारभोजनं च ददाति अष्टौ कला नित्यं साधकाय प्रयच्छति ॥ ९.३५
अथ कामेश्वरीसाधनमुओं हीमागच्छ आगच्छ कामेश्वरि स्वाहा ।
इह गोरोचनया भूर्जपत्त्रोपरि स्त्रीरूपां प्रतिमां संलिख्य षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य ततः शय्यायामेकाकी एकान्ते उपविश्य तन्मना भूत्वा सहस्रं जपेत्ततो मासान्ते तद्बुद्ध्या स्वकीयां भार्यां पूजयेत् ।
ततो मधुसर्पिर्भ्यां प्रतिरात्रं दीपं प्रज्वाल्य पश्चान्मौनं कृत्वा मूलमन्त्रं सहस्रसंख्यं जपेत् ।
ततोऽर्धरात्रसमये नियतमागच्छति परं त्वन्याः स्त्रियो वर्जनीयाः ॥ ९.३६
अथ रतिप्रियासाधनमुओं हीमागच्छ आगच्छ रतिकरि स्वाहा ।
अत्र पटे चित्ररूपिणी लेख्या वस्त्रकनकालङ्कारभूषिता उत्पलहस्ता कुमरी जातीपुष्पैः प्रपूजनं कुर्यात्गुग्गुलेन धूपं दद्यात्ततोऽष्टसहस्रं प्रत्यहं जपेत् ।
मासान्ते तु विधिवत्पूजनं कुर्यात् ।
धूपदीपौ प्रज्वालनीयौ ततोऽर्धरात्रसमयेऽवश्यमागच्छति आगता सा स्त्रीभावेन कामयितव्या भार्या भवति साधकस्य परिवारं पालयति दिव्यं कामिकं भोजनं च ददाति ॥ ९.३७
अथ पद्मिनीसाधनमुओं हीमागच्छ आगच्छ पद्मिनि स्वाहा ।
स्वगृहे चन्दनेन मण्डलं कृत्वा शिरःस्थं कारयेत्गुग्गुलेन धूपं दत्त्वा सहस्रमेकं प्रत्यहं जपेत्ततो मासान्ते पौर्णमास्यां रात्रौ विधिवत्पूजां कृत्वा जपेत् ।
जपान्तेऽर्धरात्रसमये नियतमागच्छति आगता सा कामयितव्या भार्या भूत्वा सर्वकामप्रदा भवति रसं रसायनं सिद्धद्रव्यं प्रत्यहं साधकाय प्रयच्छति ॥ ९.३८
अथ नटीसाधनमुओं ह्रीमागच्छ आगच्छ नटि स्वाहा ।
अत्राशोकतले गत्वा मत्स्यमांसाद्याहारगन्धपुष्पादिधूपदीपबलिं दत्त्वा सहस्रं प्रत्यहं जपेत्ततः सा मासान्ते नियतमागच्छति आगता सा माता भगिनी भार्या वा भवति ।
यदि माता भवति तदा दिव्यं कामिकं भोजनं ददाति वस्त्रसुगन्धिसुवर्णशतं ददाति च ।
यदि भगिनी भवति तदा शतयोजनादुत्तमां स्त्रियमानीय ददाति ।
यदि भार्या भवति तदा दिव्यं वस्त्रं रसायनमष्टदिनान्तरेण ददाति ॥ ९.३९
अथानुरागिणीसाधनमुओं ह्रीमनुरागिणि आगच्छ आगच्छ स्वाहा ।
इह कश्मीरकुङ्कुमेन भूर्जपत्त्रे स्त्रीसदृशीं प्रतिमां विलिख्यावाहनादिकं कृत्वा गन्धपुष्पधूपदीपादिकं दत्त्वा ताम्बूलानि निवेद्य सहस्रं प्रत्यहं जपेत् ।
मासमेकं त्रिसंध्यं जपेत्मासान्ते पौर्णमास्यां विधिवत्पूजां कृत्वा घृतदीपं प्रज्वाल्य समग्ररात्रौ मन्त्रं प्रजपेत् ।
ततः प्रभातसमये नियतमागच्छति आगता सा सर्वकामप्रदा भवति दिव्यरसायनानि ददाति प्रत्यहं च दीनाराणां सहस्रं ददाति ।
तस्याः प्रसादेन वर्षसहस्राण्यायुश्च भवति ॥ ९.४०
अथ षट्त्रिंशद्यक्षिण्यः ।
विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिनी ।
विशाला मदना घण्टा कालकर्णी महाभया ॥ ९.४१
माहेन्द्री शङ्खिनी चान्द्री श्मशाना वटयक्षिणी ।
मेखला विकला लक्ष्मीर्मालिनी शतपत्त्रिका ॥ ९.४२
सुलोचना सुशोभाढ्या कपालिनी विशालिनी ।
नटी कामेश्वरी स्वर्णरेखा च सुरसुन्दरी ॥ ९.४३
मनोहरा प्रमोदानुरागिणी नखकेशिका ।
भामिनी पद्मिनी चैव स्वर्णावती रतिप्रिया ॥ ९.४४
षट्त्रिंशदेता यक्षिण्यः कथिताः सिद्धिकामदाः ।
करङ्किणीमते तन्त्रे महादेवेन विस्तरात् ॥ ९.४५
आराधनं महत्तासां प्रवक्ष्यामि समासतः ।
फलं चैव यथा तुष्टाः प्रयच्छन्ति समाहितम् ॥ ९.४६
लक्षद्वयं जपेन्मन्त्रं वटवृक्षतले शुचिः ।
पश्चाच्चम्पकपुष्पैश्च होमं मधुघृतान्वितम् ॥ ९.४७
कुर्याद्दशांशतो मन्त्री शंकरेणोदितं यथा ।
ततः सिद्धा भवेद्देवि विचित्रा वाञ्छितप्रदा ॥ ९.४८
उओं विचित्रे चित्ररूपिणि मे सिद्धिं कुरु २ स्वाहा ।
इति मन्त्रः ।
लक्षद्वयं जपेन्मन्त्रं श्मशाने निभृते निशि ।
घृताक्तैर्गुग्गुलैर्होमे दशांशेन कृते सति ॥ ९.४९
विभ्रमा तोषमायाति पञ्चाशन्मानुषैः समम् ।
ददाति भोजनं द्रव्यं प्रत्यहं शंकरोऽब्रवीत् ॥ ९.५०
उओं ह्रीं विभ्रमे विभ्रमङ्गरूपे विभ्रमं कुरु २ भगवति स्वाहा ।
प्रदेशे नगरस्याथ लक्षसंख्यं जपेन्मनुम् ।
पद्मपत्त्रैर्घृतोपेतैः कृते होमे दशांशतः ॥ ९.५१
प्रयच्छत्यञ्जनं हंसी येन पश्यति भूनिधिम् ।
सुखेन तं च गृह्णाति न विघ्नैः परिभूयते ॥ ९.५२
उओं द्रीं नमो हंसि हंसवाहिनी क्लीं क्लीं स्वाहा ।
त्रिपथस्थो जपेन्मन्त्रं लक्षसंख्यं दशांशतः ।
उओं श्रीं द्रीं वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्येहि स्वाहा ।
मधूकवृक्षतले मन्त्रं चतुर्दशदिनावधि ।
प्रजपेन्मेखला तुष्टा ददात्यञ्जनमुत्तमम् ॥ ९.५३
उओं द्रीं हुं मदनमेखलायै मदनविडम्बनायै नमः स्वाहा ।
गुहान्तःस्थोऽधरे मासत्रयं मन्त्रं जपेन्नरः ।
ततः सिद्धा भवेद्देवि विकला वाञ्छितप्रदा ॥ ९.५४
ओं विकले ऐं ह्रीं श्रीं क्लीं स्वाहा ।
स्वगृहावस्थितो रक्तैः प्रसूनैः करवीरजैः ।
लक्षमावर्तयेन्मन्त्री दूर्वाज्याभ्यां दशांशतः ॥ ९.५५
होमे कृते भवेत्सिद्धा लक्ष्मीनम्नी च यक्षिणी ।
रसं रसायनं दिव्यं निधानं च प्रयच्छति ॥ ९.५६
उओमैं ह्रीं श्रीं लक्ष्मि कमलधारिणि हंसः सोऽहं स्वाहा ।
चतुष्पथस्थितो लक्षमापदि प्रजपेन्मनुम् ।
मालिनी जायते सिद्धा दिव्यं खङ्गं प्रयच्छति ॥ ९.५७
यत्प्रभावेन लोकेऽस्मिन् दुर्लभं राज्यमाप्नुयात् ।
उओं द्रीमुओं नमो मालिनी स्त्रि एह्येहि सुन्दरि हंसहंसि समीहां मे सङ्गभय स्वाहा ।
शतपत्त्रवने यस्तु मन्त्रलक्षं जपेन्मुनिः ।
क्षीराज्यहोमैः संसिद्धा सिद्धिं यच्छति भूनिधिम् ॥ ९.५८
उओं द्रीं शतपत्त्रिके द्रीं द्रीं श्रीं स्वाहा ।
नदीतीरस्थितो लक्षत्रयं मन्त्री जपेन्मनुम् ।
घृतहोमे दशांशेन कृते देवी प्रसीदति ॥ ९.५९
ददाति पादुकां तस्मै यथारुचि नभस्तले ।
मनःपवनवेगेन याति चायाति साधकः ॥ ९.६०
उओं द्रीं क्लीं सुलोचने सिद्धिं मे देहि देहि स्वाहा ।
रक्ताम्बरधरो मन्त्री चतुर्दशदिनावधि ।
जपेत्सिद्धा भवेद्देवी शोभना भोगदायिनी ॥ ९.६१
उओं द्रीमशोकपल्लवकरतले शोभने श्रीं क्षः स्वाहा ।
महाव्रतधरो मन्त्री यः शाल्योदनभोजनैः ।
लक्षद्वयं जपेन्मन्त्रं कपालं लभते मुनिः ॥ ९.६२
आकाशगमनं दूरात्स्वप्नरूपसमागमः ।
दूराद्दर्शनमित्यादि साधकाय प्रयच्छति ॥ ९.६३
उओमैं कपालिनी द्रां द्रीं क्लां क्लीं क्लूं क्लैं क्लौं क्लः हंसः सोऽहं सकलह्रीं फट्स्वाहा ।
सरित्तीरे जपेन्मन्त्रमर्धं लक्षस्य देशिकः ।
घृताक्तगुग्गुलैर्होमे देवी सौभाग्यदा भवेत् ॥ ९.६४
ओं वरयक्षिणी वरयक्षविशालिनि आगच्छ २ प्रियं मे भवतु हैमे भव स्वाहा ।
पुण्याशोकतलं गत्वा चन्दनेन सुमण्डलम् ।
कृत्वा चाभ्यर्चयेद्देवीं धूपं दत्त्वा सहस्रकम् ॥ ९.६५
मन्त्रमाराधयेन्मासं नक्तंभोजी रसः सदा ।
रात्रौ पूजां शुभां कृत्वा जपेन्मन्त्रं मुनिव्रतः ॥ ९.६६
नटी देवी समागत्य निधानं रसमञ्जनम् ।
ददाति मन्त्रिणे मन्त्रं दिव्ययोगं च सिद्धिदम् ॥ ९.६७
उओं द्रीं नटि महानटि रूपवति द्रीं स्वाहा ।
एकासने शुचौ देशे त्रिसंध्यं त्रिसहस्रकम् ।
मासमेकं जपेन्मन्त्रं तदा पूजां समारभेत् ॥ ९.६८
पुष्पैर्धूपैश्च नैवेद्यैः प्रदीपैर्घृतपूरितैः ।
रात्रौ देवीं समभ्यर्च्य जपेन्मन्त्रं प्रसन्नधीः ॥ ९.६९
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
रसं रसायनं दिव्यं वस्त्रालंकरणानि च ॥ ९.७०
उओं ह्रीमागच्छ आगच्छ कामेश्वरि स्वाहा ।
नदीतीरे शुभे रम्ये चन्दनेन सुमण्डलम् ।
विधाय पूजयेद्देवीं ततो मन्त्रायुतं जपेत् ॥ ९.७१
एकविंशतिघस्रान्तं प्रसन्ना वितरेत्सदा ।
अर्धरात्रे गते देवी दीनाराणां सहस्रकम् ॥ ९.७२
ददाति प्रत्यहं तस्मै व्ययं कुर्याद्दिने दिने ।
तद्व्ययाभावतो भूयो न ददाति प्रकुप्यति ॥ ९.७३
उओं हीं सर्वकामदे मनोहरे स्वाहा ।
अर्धरात्रे समुत्थाय सहस्रं प्रजपेन्मनुम् ।
मासमेकं ततो देवी निधिं दर्शयति ध्रुवम् ॥ ९.७४
ओं ह्रीं प्रमोदायै स्वाहा ।
कुङ्कुमेन समालिख्य भूर्जे देवीं सुलक्षणाम् ।
प्रतिपत्तिथिमारभ्य धूपदीपादिभिर्वराम् ॥ ९.७५
कृत्वा देवीं सहस्रं च त्रिसंध्यं परिवर्तयेत् ।
मासमेकं ततः पूजां रात्रौ कृत्वा पुनर्जपेत् ॥ ९.७६
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
दीनाराणां सहस्रैकं प्रत्यहं परितोषिता ॥ ९.७७
उओमनुरागिणि मैथुनप्रिये यक्षकुलप्रसूते स्वाहा ।
गत्वा पक्षिगृहं मन्त्री नखकेशैः प्रपूजयेत् ॥ ९.७८
दिनैकविंशतिर्यावत्पूजां कृत्वा ततो निशि ।
आवर्तयेदेकचित्तो मन्त्री मन्त्रं सुसंयतः ॥ ९.७९
निशार्धे वाञ्छितं कार्यं देव्यागत्य प्रयच्छति ।
उओं हीं नखकेशिके स्वाहा ।
दिनत्रयमनाहरी सोमसूर्यग्रहे सति ॥ ९.८०
स्पर्शाद्विमुक्तिपर्यन्तं जपेत्तद्गतमानसः ।
ततः प्रसन्ना सा देवी यच्छत्यञ्जनमुत्तमम् ॥ ९.८१
तेनाञ्जितो नरोऽदृश्यं निधिं पश्यति भूगतम् ।
उओं हीं यक्षिणि भामिनि रतिप्रिये स्वाहा ।
वटवृक्षतले कृत्वा चन्दनेन सुमण्डलम् ॥ ९.८२
यक्षिणीं पूजयित्वा तु नैवेद्यमुपदर्शयेत् ।
शशमांसं घृतं चीरं मन्त्रमावर्तयेत्ततः ॥ ९.८३
दिने दिने सहस्रैकं यावत्सप्तदिनं भवेत् ।
अथागत्य सदा तस्मै मन्त्रमञ्जनमुत्तमम् ॥ ९.८४
यत्प्रभावान्तरे सर्वं पश्येन्निधिमशङ्कितः ।
उओं ह्रीमागच्छ २ स्वर्णावति स्वाहा ।
शङ्खलिप्तपटे यस्माद्देवीं गौरीं धृतोत्पलाम् ॥ ९.८५
सर्वालंकारिणीं दिव्यां समालिख्यार्चयेन्नरः ।
जातीपुष्पैः प्रपूज्याथ सहस्रं परिवर्तयेत् ॥ ९.८६
सप्ताहं मन्त्रवित्तस्याः कुर्यादर्चां शुभां ततः ।
अर्धरात्रे गते देवी समागत्य प्रयच्छति ॥ ९.८७
पञ्चविंशतिदीनारान् प्रत्यहं परितोषिता ।
वाञ्छितं मनसस्तस्मै मन्त्रज्ञाय न संशयः ॥ ९.८८
उओमुओं हीं रतिप्रिये स्वाहा ।

दशमः पटलः[सम्पाद्यताम्]

तत्र चेटकसाधनम् ।
अथ चेटका लिख्यन्ते ।
कामातुरेण चित्तेन निशि मन्त्रं जपेत्सदा ।
जप्तोऽवश्यं वश्यकरो मन्त्रोऽयं नात्र संशयः ॥ १०.१
ओमैं स्कीं क्लीं क्लीं सहवल्लरि क्लीं कामपिशाच क्लीं ह्रीं कामपिशाच अमुकीं कामिनीं कामयाम्यहं तां कामेन ग्राहय २ स्वप्ने मम रूपे नखैर्विदारय २ द्रावय २ अस्त्रेण बन्धय २ श्रीं फट्स्वाहा ।
जपेन्मासत्रयं मन्त्रं कम्बलः सुप्रसन्नधीः ।
मृतकोत्थापनं कुर्यात्प्रतिमां चालयेत्तथा ॥ १०.२
सदारक्तकम्बल महादेवदूत मृतकमुत्थापय २ प्रतिमां चालय २ पर्वतान् कम्पय २ लीलया विलसय २ ईमीं फट्स्वाहा ।
चतुर्लक्षं जपेन्मन्त्रं सागरस्य तटे शुचिः ।
पत्त्रपुष्पफलादीनि करोत्याकर्षणं ध्रुवम् ॥ १०.३
अभय घुद्घुताकर्ष कर्मकर्ता सृष्टिपुत्र अमुकमाकर्षय द्रीम् ।
सहस्राष्टमिमं मन्त्रं जपेत्सप्तदिनावधि ।
प्रत्यहं मणिभद्राख्यः प्रयच्छत्येकरूप्यकम् ॥ १०.४
ओं नमो मणिभद्राय नमः पूर्णभद्राय नमो महायक्षाय सेनाधिपतये मौद्धमौद्धधराय सुघटमुद्रावहे स्वाहा ।
त्रिसंध्यं बलिदानं च निशायां प्रजपेन्मनुम् ।
सहस्रं हि जपेन्नित्यं यावत्स्वप्नं प्रजायते ॥ १०.५
प्राणिनां मृत्युसमयं वदत्येव न संशयः ।
ओं नमो भगवते रुद्राय देहि मे वचनसिद्धिविधानं पार्वतीपते ह्रां ह्रीं हूं ह्रें ह्रौं ह्रः ।
रात्रौ रात्रौ जपेन्मन्त्रं सागरस्य तटे शुचिः ।
लक्षजापे कृते सिद्धो दत्ते सागरचेटकः ॥ १०.६
रत्नत्रयं तदा मौन्यं यस्मिन्मन्त्री सुखी भवेत् ।
सहस्रदशकं नित्यं रात्रौ मन्त्रं जपेत्सुधीः ॥ १०.७
तद्दशांशं मधुपयोमिश्रैः पद्मैश्च होमयेत् ।
ओं नमो भगवते रुद्र देहि मे निजराशिं श्रीं नमोऽस्तु ते स्वाहा ।
ओं ह्रीममुकं रञ्जय स्वाहा ।
अनेन मन्त्रेण सर्वजनास्तस्मात्तु रञ्जका भवन्ति निशाचरं ध्यात्वा आत्मपाणिना जपनाददृश्यकारिणीं विद्यामाप्नोति ॥ १०.८
ओं नमो रसाचारिणे महेश्वराय मम पर्यटने सर्वलोकलोचनानि बन्धय २ देव्याज्ञापयति स्वाहा ।
सकृदुच्चारमात्रेण नृसिंहचेटकाख्यो मन्त्रो डाकिन्यादिदोषं नाशयति ।
ओं नमो भगवते हिरण्यकशिपुबलविदारणाय त्रिभुवनव्यापकाय भूतप्रेतपिशाचकूष्माण्डब्रह्मराक्षसयोगिनीडाकिनीकुलोन्मूलनाय स्तम्भोद्भवाय समस्तदोषान्नाशय २ विसर २ कम्पय २ मथ २ हूं हृं स्वाहा एह्येहि रुद्र आज्ञापयति स्वाहा ।
प्रेरकः सहस्रपादः अनिद्रामाकर्षयति ।
ओं प्रेरक अमुकीं तव मण्डलं समावर्तय द्रावय दाहय संतापय हौम् ॥ १०.९

एकादशः पटलः[सम्पाद्यताम्]

अथ दिग्बन्धनमन्त्रः ।
वज्रक्रोधाय महादन्ताय दशदिशो बन्ध बन्ध हं फट्स्वाहा ।
अथ योनिसंकोचनम् ।
कुमुदं हरितालं च पिष्ट्वा योनिं प्रलेपयेत् ।
त्रिरात्रं पञ्चरात्रं च योनिर्भवति संयुता ॥ ११.१
मांसी चन्दनमुस्ता च तगरं नागकेसरम् ।
एभिर्मासप्रयोगं च भगलेपनमुत्तमम् ॥ ११.२
मालतीकुसुमैस्तैलैर्वल्कैर्वराङ्गलेपनम् ।
ऋतुकालेऽथवा कुर्यात्तदा तत्तुल्यता भवेत् ॥ ११.३
डिम्बस्यानीय पञ्चाङ्गं सर्षपतैलपाचितम् ।
सततमभिलेपेन सा भर्तारं वशं नयेत् ॥ ११.४
मूलं तु वानरीशृङ्गं छागीमूत्रेण लेपयेत् ।
लेपनात्तु ततः शिश्नं यथेच्छं कामयेद्बलात् ॥ ११.५
सौभाग्यपिप्पली लाक्षा विषं च क्रमवर्धितम् ।
लेपं प्रक्षालितं लिङ्गं नारी कामयते चिरात् ॥ ११.६
पारावतं तथा गुञ्जा श्वेतोत्पलं समक्षिकम् ।
नाभिलेपनमित्युक्तं वीर्यस्तम्भकरं परम् ॥ ११.७
द्वादशारं लिखेच्चक्रं कुङ्कुमेन समन्वितम् ।
भूर्जपत्त्रेऽथवा वस्त्रे नेत्रे बद्धफलादिके ॥ ११.८
पत्त्रे पत्त्रे लिखेद्बीजं ह्रींकारं परमोज्ज्वलम् ।
साध्यनाम तथा मध्ये कर्णिकायां विशेषतः ॥ ११.९
विदर्भमन्त्रमुख्येन तत्कूटं परिमण्डले ।
मृत्तिकाभिः समस्ताभिः प्रतिमां कारयेद्दृढम् ॥ ११.१०
कर्षयेत्प्रमदां नॄणां गर्वितां तु न संशयः ।
वैराग्यं न पुनर्याति दासीभावेन तिष्ठति ॥ ११.११
दाडिमं पञ्चकोलं च लोहं वज्रोरसं घृतम् ।
चूर्णं भूमन्दरा शाखा दन्तनखं करोति वै ॥ ११.१२
मनःशिला प्रयङ्गुश्च रोचना नागकेसरम् ।
नेत्राञ्जनसमायुक्तं सर्वसत्त्ववशंकरम् ॥ ११.१३

द्वादशः पटलः[सम्पाद्यताम्]

ओं ह्रीं श्रीं क्लीं द्रं चण्डोग्रे त्रिनेत्रे चामुण्डे अरिष्टे हूं फट्स्वाहा ।
ह्रीं नमाम्यहं महादेवं नृसिंहं भीमरूपिणमों नमस्तस्मै ।
श्रीपार्वत्युवाच ।
उड्डीशेन समाकीर्णे योगिवृन्दसमाकुले ।
प्रणम्य शिरसा गौरी परिपृच्छति शंकरम् ॥ १२.१
श्रीश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं प्रतिवाससे ।
तं वदिष्यामि ते देवि सर्वं तत्समुपाहृतम् ॥ १२.२
देवि यो द्विजो मन्त्रैस्तु विप्रहन्यान्न संशयः ।
पूर्वोदितं मयोड्डीशं कथ्यते तव भक्तितः ॥ १२.३
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्जयम् ।
कपर्दिनं विरूपाक्षं सर्वभूतभयावहम् ॥ १२.४
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चैव तुर्यमुच्चाटनं तथा ॥ १२.५
ग्रामोच्चाटं पञ्चमं च षष्ठं च जलस्तम्भनम् ।
सप्तममग्निस्तम्भं च वशीकरणमष्टमम् ॥ १२.६
अन्यानपि प्रयोगांश्च शृणुष्व वै वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥ १२.७
अन्धी च वन्धीकरणं मूकीकारस्तथैव च ।
गात्रसंकोचनं चैव भूतज्वरकरस्तथा ॥ १२.८
अस्त्रशस्त्रस्य त्रुटितं पानीयस्य विनाशनम् ।
दधिमधुनाशनं च नखकरणं तथैव च ॥ १२.९
गजानां वाजिनां चैव प्रकोपनं परस्परम् ।
आकर्षणं भुजंगानां मानवानां तथा ध्रुवम् ॥ १२.१०
सस्यविनाशनं चैव गर्भस्यान्तर्धिकारणम् ।
वेतालाञ्जनसिद्धिश्च उलूकसिद्धिरपि हि ॥ १२.११
अन्यानपि महारौद्रान् प्रयोगान् शृणु साम्प्रतम् ।
विद्यामन्त्रप्रयोगांश्च औषधं चाभिचारिकम् ॥ १२.१२
गुप्ता गुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
अकुलीनाधमबुद्धेर्भक्तिहीनस्य वै तथा ॥ १२.१३
हिंसकस्य च क्षुद्रस्य निन्दकस्य विशेषतः ।
स्वार्थं फलादिलुब्धस्य उपदेशममन्यतः ॥ १२.१४
अस्मिन् शापे पूरुषास्ते वर्जनीयाः प्रयत्नतः ।
एतैश्च सह संयोगो न कार्यः सर्वदा बुधैः ॥ १२.१५
य उड्डीशक्रियाशक्तिभेदं कुर्वन्ति मोहिताः ।
ते दुष्टा दुर्जयाश्चैव किमत्र बहुभाषितैः ॥ १२.१६
यदीच्छासिद्धिमात्मानमात्मार्थं हि तथैव च ।
सत्पूरुषाय दातव्यं देवगुरुरताय च ॥ १२.१७
प्रयोगास्तु प्रयोक्तव्याः साधकैः शत्रुकारणे ।
अनिमित्ता निवर्तन्ते स्वात्मग्राहे न संशयः ॥ १२.१८
असंतुष्टो ह्ययुक्तश्च प्रयोगानिति नाचरेत् ।
शास्त्रसिद्धविचारास्तु सामन्तकोषकाः शुभाः ॥ १२.१९
ओं ग्लौं गं गणेशाय नमः ।
मन्त्रेणानेन मन्त्रज्ञः कुम्भकारमृदा तथा ।
लम्बोदरं प्रकुर्वीत पूजयेदुपचारकैः ॥ १२.२०
साप्ताहिकं त्रिसंध्यायां जप्तव्यं सावधानतः ।
सहस्रैकप्रमाणेन जपाच्छान्तिर्भविष्यति ॥ १२.२१
प्रातरष्टोत्तरं जप्त्वा लभेद्बुद्धिं शुभां नरः ।
मासेनैकेन देवेशि श्रीलाभश्च भवेद्ध्रुवम् ॥ १२.२२
षण्मासेन वरारोहे महाधनपतिर्भवेत् ।
त्रिकालज्ञानवेत्ता च वर्षैकेन न संशयः ॥ १२.२३
ऐं नमः स्वाहा ।
प्रातः सहस्रवारं तु प्रजप्तेन प्रपूजयेत् ।
वरदां तु महादेवीं श्वेतगन्धानुलेपनैः ॥ १२.२४
पुष्पैर्जापैर्दक्षिणादिसोपचारैस्तु प्रत्यहम् ।
सप्तमे दिवसे ह्येवं वागैश्वर्यं प्रजायते ॥ १२.२५
भवेत्सद्यः प्रवक्ता च श्रुतिस्मृतिधरोऽपि च ।
बान्धवः सर्वभूतानां चिरायुः सुखमेधते ॥ १२.२६
ओं क्लीं मन्त्रेणानेन देवेशि साधकः जपमारभेत् ।
रक्तवस्त्रावृतो नित्यं तथा कुङ्कुमजाङ्गले ॥ १२.२७
सप्ताहजपमात्रेण ह्यानयेत्त्रिदशाङ्गनाम् ।
ओं द्रीं द्रीं द्रीं द्रीं स्वाहा ।
पूर्वविधानो हि जपेदेकान्तसंस्थितः ॥ १२.२८
आकर्षेति स्त्रियं शस्तां सालंकारां सुवाससम् ।
ओं हैं हः हुम् ।
ऊर्ध्वदृष्टिप्रयोगेण जपेल्लक्षत्रयं प्रिये ॥ १२.२९
सर्वपापविनिर्मुक्तो जायते खेचरे पदे ।
ओं द्रीं कारीण्डः क्षः क्षीं फट्स्वाहा ।
एकपादस्थितो भद्रे जपेदष्टोत्तरं शतम् ॥ १२.३०
यद्यत्प्रार्थयते वस्तु तद्ददाति दिने दिने ।
यजेन्नरविशेषं च देवाग्निगुरुब्राह्मणैः ॥ १२.३१
ओं श्रीं क्षीं लोहं मुञ्च किलि किलि अमुकं काटय काटय मातंगिनि स्वाहा ।
मन्त्रेणानेन पूर्वाह्णे पूजयन्नुपचारकैः ।
शरावं पूरयित्वा तु चतुष्पथे बलिं हरेत् ॥ १२.३२
समन्त्रं क्षिप्यति पुमान् पुरुषं यदि पश्यति ।
आत्मचिन्तितकार्याणि साधयत्येव नान्यथा ॥ १२.३३
ओं स्तम्भिनि स्वाहा कपालिनि स्वाहा द्रीं द्रीं वैषादार्थिनि स्वाहा छः छः ।
मन्त्रेण मृत्तिकां जप्त्वा प्रतार्य सप्तधा जले ।
संमुखीभूय क्षिप्त्वा च जप्त्वा चायुतं वासरे ॥ १२.३४
तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः ।
ओं श्रीं क्षां क्षीं क्षूं क्षैं क्षौं क्षः ।
मध्याह्नसमये सूर्यसम्मुखे जपमाचरेत् ॥ १२.३५
अयुतं जप्तमात्रेण स्वसामर्थ्यं प्रपश्यति ।
तस्य दृष्टिनिपातेन द्विपदश्च चतुष्पदः ॥ १२.३६
ज्वराभिभूता जायन्ते अपूर्वा मन्त्रसम्पदः ।
ओं हंसः हंसं सोऽहं स्वाहा ।
एकविंशतिजप्तेन जलेन ज्वरपीडितः ॥ १२.३७
विमुच्यते पानमात्रात्सद्यः स्वस्थश्च जायते ।
ओं द्रीं नमो घोरेश्वरि घोरमुखि चामुण्डे ऊर्ध्वकेशि विकृतानने द्रीं द्रीं हुं फठुं स्वाहा ।
अयं सर्वदलनमन्त्रः ॥ १२.३८
ओं द्रीं द्रीं द्रीं फट्फट्फट्स्वाहा सर्वग्रहाणां त्रासनं कुरु कुरु अङ्गुलिप्रहारेण ।
ओं स्रं स्रां स्रिं स्रीं स्रुं स्रूं स्रें स्रैं स्रों स्रौं स्रं स्रः ह रं रौं रीं रूं रैं रेविः छुं छुं हंसः अमृतवर्चसे स्वाहा ।
अनेन मन्त्रेणोदकं शरावं संक्षिप्याष्टोत्तरशतेनाभिमन्त्रितं कृत्वा पिबेत्प्रातरुत्थाय संवत्सरेण वल्लीपलितवर्जितो भवति ।
वृक्षस्थावरजङ्गमाकृतिं समाङ्गीकाराच्च व्याघ्रलोमादिकं पूर्वोदर्यां भस्मीकरोति सर्वजनप्रियो भवति चिरायुर्भवति ।
ओं नमो भगवते रुद्राय चण्डेश्वराय हुं हुं हुं फट्स्वाहा ।
अनेन मन्त्रेण जपं कृत्वा शीघ्रमीप्सितं लभेत् ॥ १२.३९
ओं हूं द्रीं क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः हूं फट्स्वाहा ।
इमं मन्त्रं पूर्वं लक्षमेकं जपेत्तद्दशांशमयुतं हवनं कुर्यात् ।
एकैकं समिधं घृताक्तां जुहुयात्सिद्धो भवति गङ्गागोलोके न ते मेघाः प्रणश्यन्ति न च वर्षन्ति वासवो नदसमुद्रं शोषयति मेघस्तम्भो भवति ।
उदकमध्ये स्थित्वा जपं करोत्यनावृष्टिकालेऽतिवृष्टिं करोति ।
ओं द्रीं प्रचलिते कुबेरे हूं हूं किलि किलि स्वाहा ।
पूर्ववेलायामादर्शदीपसमीपे षडङ्गुलेन भाजने सूर्यमण्डले कुमारं वामे वेशयति पूर्वमयुतजपः कर्तव्यः पञ्चोपचारेण पूजा च कर्तव्या पूर्वाभिश्च स्वराज्ये ।
ओं श्रीं हिमजाते प्रयच्छ मे धनं स्वाहा ।
अनेन मन्त्रेण सिद्धार्थकं घृतमिश्रितं हुनेतष्टोत्तरशते न अन्नपानविमिश्रितं सहस्रेण हुनेत्मनसः प्रार्थितं लभेतयुतं हुनेच्छ्रीसुमना भवेत्लक्षं हुनेद्ग्रामशतं लभेत् ॥ १२.४०
ओं नमो नमः ।
इमं मन्त्रं शतं जपेत्सर्वकामप्रदोऽयं मन्त्रः ॥ १२.४१
ओं द्रीं श्रीं सारसे सिद्धिकरि क्रीं नमः स्वाहा ।
इमं मन्त्रं लक्षमेकं जपेद्रक्तकरवीरैश्च पूजयेत्सततं सर्वकामदोऽयं मन्त्रः ॥ १२.४२
ओं द्रुं क्षें क्षें हुं क्षः अमुकं क्षः स्वाहा ।
अनेन मन्त्रेण राजिकालवणतुषकण्टकशिवनिर्माल्यं तैलेन युतं हुनेत्समस्तश्रीभाजनं भवति ॥ १२.४३
ओं हुं हुं हुं लूं लं लौं हुं लः अमुकं छः छः स्वाहा ।
अनेन मन्त्रेण सिद्धार्थं भस्मना सह मन्त्रितं कर्तव्यं यस्य गृहे प्रक्षिप्य मन्त्रबलिपांश्वैराक्षिपेत्तस्य बाहुस्तम्भो भवति ।
रिपुसैन्याग्रे क्षिपेत्शत्रुसैन्यस्तम्भो भवति अश्वगजनरा निश्चेष्टा भवन्ति विकला भवन्ति समन्तादेवाकुला भवन्ति ॥ १२.४४
ओं रुं रुं मुखे स्वाहा ।
अनेन मन्त्रेण जप्ततैलेन मुखं प्रक्षाल्य तिलतैलेन गात्राभ्यङ्गं वा विधाय वातादिकं दिनसप्तकेन नश्यति ।
ऐं मातंगि विमलावति विकराले द्रीं छः छः स्वाहा ।
अनेन मन्त्रेण जपापुष्पं परिजप्य वारीणि नद्यादौ होमयेत्सप्ताहेन ईप्सितं फलं लभेत् ।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।
तन्नामकीर्तनादेव हृतं नष्टं च लभ्यते ॥ १२.४५
नित्यं नित्यं जपेत्किंचिद्विद्यां वित्तस्य प्राप्तये ।
ओं मं किणि स्वाहा ।
इति वृश्चिकमन्त्रः ।
ओं हुं हुं हंसः हंसं सोऽहं सोऽहं स्वाहा ।
इति सर्वविषापहरणमन्त्रः ।
मयूरपिच्छेन कुशेन शरेण शरदण्डेन वा तद्देहे सम्मार्जनं कुर्यात् ।
हं हां हिं हीं हुं हूं हें हैं हों हौं हं हः छः छः स्वाहा ।
इमं गोक्षीरसदृशं वारं वारं विचिन्तयेद्वा वराननमुखे शिरसि शरीरे ततः कण्ठे ततो हृदि नाभिमण्डले गुह्ये तथा सर्वाङ्गे चिन्तयेत्तथा पूरकेण वरारोहे कण्ठदष्टोऽपि जीवति ।
ओं गं गणपतये महागणपतये विघ्नहराय मतंगसम्भवाय लम्बोदराय गौरीप्रियपुत्राय ह्रीं गां नमः रं हं क्षः स्वाहा ।
गोरोचनाविषराजिकापिप्पलीनीचयवैर्महातैलेन सह देवदत्तैश्च लक्षितानालिखेत्निम्बकाष्ठेन प्रतिकृतिं हुत्वा पृष्ठतो लिखेत्सद्यो ज्वरविलोपो भवति शान्तिर्भवति ॥ १२.४६

त्रयोदशः पटलः[सम्पाद्यताम्]

ओं द्रीं विद्यास्तम्भिनि स्तम्भिनि छः छः स्वाहा ।
इमं मन्त्रं प्रथममयुतमेकं जपेत्पश्चान्मनसा संस्मरेत् ।
वनमध्येऽपि भोजनं प्राप्नोति ।
ओं हौं नमो भगवते महारुद्राय उड्डामरेश्वराय हुं हुं छं छं द्रीं द्रीं स्वाहा ।
अनेन मन्त्रेणाभिषेकार्थं सहस्रवारजप्तं कलशं कारयेत्तन्मध्ये पञ्चरत्नं निधाय श्वेतवस्त्रेण वेष्टयेत्नानाफलसुसंचूर्णं नानारत्नोपशोभितं तद्द्वारकगृहवासं कलशं धृत्वा रात्रौ स्त्रिया सह श्मशाने वनस्पतौ वा एकवृक्षे वा सरित्तटे समुद्रगामिन्यां नद्यां वा चतुष्पथे वा गच्छेत् ।
ततश्च कलशं नीत्वा स्त्री वन्ध्या वा मृतवत्सा वा दुर्भगा वा काकवन्ध्या वा भङ्गा सर्वजनप्रिया भवति पीडिता उद्वर्तयेत् ।
प्रियङ्गुः कुङ्कुमं गोरोचना नागकेसरो दूर्वा हरिद्रे द्वे सिद्धार्थकद्वयं वचा पुनर्नवापामार्गोऽर्कश्चित्रकं शाल्मली लक्ष्मणा तालमूली शतावरी वन्ध्या कर्कटी बला क्षीरिणी मृगपिप्पली तथा चिराणि सुपत्त्राण्युशीरं घृतं मधु तथा पलाशपुष्पपत्त्राणि अम्बरबिल्वपत्त्राण्यश्वगन्धादीनि सुगन्धद्रव्याणि सर्वाणि सर्वे साध्यविशेषतः अन्यदुद्वर्तयेद्गात्रं शिरोलेपनो यः पुनः कलशं प्रक्षिप्य स्नापयेत्लभते स्त्रियं सदा उद्वर्तनवस्त्रं त्यक्त्वा परवस्त्रपरिधानं कुर्यात् ।
भद्रासने व्यवस्थिता [... औ४ Zएइछेन्झ्] कुर्याद्वारि निःक्षिप्य कुम्भस्थितं या स्त्रीणां मध्ये समाकर्षयति यन्त्रं ततस्तां सम्मुखस्त्रियमर्चयेत् ।
वस्त्रालंकारसिन्दूरसुगन्धिकुसुमादिभिः ।
गृहार्चां कारयेद्देवं शिवं देव्या सहार्चयेत् ॥ १३.१
दक्षिणां स पुमान् दद्यात्श्वेतां गां वत्ससंयुताम् ।
अथ स्नानफलं वक्ष्ये यथोक्तं त्रिपुरारिणा ॥ १३.२
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
शान्त्यर्थी शान्तिमाप्नोति दुर्भगा सुभगा भवेत् ॥ १३.३
भ्रष्टराज्यस्तथा राजा राज्यं प्राप्नोति निश्चितम् ।
अभार्यो लभते भार्यां सुखार्थी सुखमाप्नुयात् ॥ १३.४
इति स्त्रीपुरुषयोः स्नानफलम् ॥ १३.५
हुममुकं हुं फट्स्वाहा ।
श्मशाने गत्वा उलूककपोतकाञ्जीराणामतिसत्वरं स्तन्यं गृहीत्वा जपेत्सप्ताहेन ॥ १३.६
हुममुकं फट्फट्स्वाहा अनेन मन्त्रेण भानुवृक्षसमीपे स्थित्वायुतैकं जपेत्ततः कटुतैलेन दशांशेन हवनं कुर्यात्निपातीकरणं भवति ॥ १३.७
ओमोमोमिति मन्त्रं पूर्वमयुतं जप्त्वानावृष्टिकाले जपेन्महावृष्टिर्भवति ।
ओं ह्रीं वरदे स्वाहा ।
इमं मन्त्रं पूर्वमयुतं जप्त्वा तद्दशांशं पलाशसमिद्भिर्हवनं कुर्यात्घृतं हुनेत्ततः सार्वकालिकं फलं लभेत् ।
हुं हुं हुं नं नं नममुकं हुं फट्स्वाहा ।
इमं मन्त्रं पूर्वमयुतं जप्त्वा खादिरसमिधो रुधिरेण लिप्त्वा तद्दशांशं हुनेत्यस्य नाम्ना स सहस्रैकेन महेन्द्रज्वरेण गृह्यते अयुतहवनेन निपातनं तथानेनैव मन्त्रेणापामार्गसमिधो हुनेतयुतसंख्यकाः त्रिमधुयुताः ततो विभीषणादयो राक्षसा वरदा भवन्ति ॥ १३.८
ओं हूं वां वीं वूं वैं वौं वं वः ओं हुं फट्स्वाहा ।
अयं ज्वरग्रहणमन्त्रः ॥ १३.९
ओमैं क्षिलि किलि फट्स्वाहा ।
अनेन मन्त्रेण त्रिमधुयुक्तमुडुम्बरं पूर्वमयुतं जप्त्वा सहस्रैकं होमयेदनावृष्टिकाले महावृष्टिं करोति ।
ओं द्रां द्रीं द्रूं द्रैं द्रौं हः ओं स्वाहा ।
इमं मन्त्रं पूर्वमयुतं जप्त्वा त्रिमधुयुता बिल्वसमिधो हुनेत्ततः समस्तजनपदाः किंकरा भवन्ति ॥ १३.१०
ओं द्रीमों द्रीं हुमों स्वाहा ।
इमं मन्त्रं पूर्वमयुतं जप्त्वा तद्दशांशं दर्भसमिधो घृतक्षीरयुता हुनेदयुतहोमतः सर्वरोगप्रशान्तिर्भवति ।
ओं क्लीममुकीं खे खे स्वाहा ।
इमं मन्त्रं पूर्वमयुतं तु जुहुयात्तद्दशांशं न्यग्रोधसमिधो मधुयुक्ता हुनेत्सहस्रमात्रहोमेन महाराजपत्नी वशगा भवति अन्यलोकस्त्रीणां तु का कथा ॥ १३.११
ओं द्रीं गोमुखि गोमुखि सहस्रसुताला भीमभोगपिशितभूमौ आगच्छतु स्वाहा ॥ १३.१२
अनेन मन्त्रेण रक्तकरवीरं क्षौद्रेण संयुक्तं हुनेत्वशकामो लवणं हुनेत्स्त्रियमाकर्षयति पूर्वसंयुक्तं प्रेमकामः सिन्दूरं हुनेत्पुरक्षोभो भवति तुषकरटं हुनेदभिचारकर्म भवति महामांसं घृतसंयुक्तं हुनेत्महाधनपतिर्भवेत् ॥ १३.१३
ओं नमो भगवते रुद्राय उड्डामरेश्वराय हुं फट्स्वाहा ।
अनेन मन्त्रेण श्रीफलसंयुक्तं घृतं हुनेत्शतहोमेन प्रज्ञा भवति सहस्रेण गोलाभो भवति लक्षेण ग्रामसहस्रलाभो भवति सपादलक्षेण भ्रष्टराज्यं राजा प्राप्नोति ॥ १३.१४
ओमैं द्रीं हुं फट्स्वाहा ।
अनेन मन्त्रेण काकमांसं कुक्कुटबीजं कटुतैलेन हुनेत्सहस्रैकेन द्रींकारान्तं नाम संजप्य यस्य नाम्ना जपेत्स चोन्मत्तो भवति सहस्रैकेन तण्डुलहोमेन सुस्थो भवति ॥ १३.१५
ओमैं श्रीं क्षं क्लीं स्वाहा ।
अनेन मन्त्रेण जपः कार्यः सप्तवारजप्तेन देहशुद्धिर्भवति शतजप्तेन सर्वतीर्थस्नानफलं भवति सहस्रेण धीवृद्धिः अयुतेन सहस्रग्रन्थकर्ता महान् कविर्भवति एकलक्षेण श्रुतिधरो भवति द्विलक्षेण समस्तशास्त्रज्ञो भवति त्रिलक्षेणातीतानागतवर्तमानज्ञो भवति चतुर्लक्षेण ग्रहपतिर्भवति पञ्चलक्षेण वेदवेदान्तपुराणस्मृतिविशेषज्ञो भवति षड्लक्षैर्वज्रतन्तुर्भवति सप्तलक्षैर्नदीं शोषयति हरिहरब्रह्मादिषु सख्यं भवति नोचेत्वज्रोक्तेन विधिना जपेत्तदा संस्कृतोऽयं दर्शकेन वा महर्षिणा शतेन समो भवति सहस्रेण संतापरहितो भवति पुनरप्ययुतेन पुरक्षोभको भवति षड्गुणेन त्रैलोक्यं क्षोभयति तृतीयेन सप्तपातालं क्षोभयति चतुर्थेन स्वर्गं क्षोभयति पञ्चमेनोर्ध्वगान् सप्तलोकान् क्षोभयति षड्गुणेन त्रैलोक्यं क्षोभयति सप्तमेन द्विपदचतुष्पदादिप्राणिमात्रं क्षोभयति अष्टमेन स्थावरजङ्गममाकर्षयति नवमेन स्वयमेव सर्वलोकेषु नारदवदनावृतगतिर्भवति दशलक्षेण कर्तुमकर्तुमन्यथा कर्तुं क्षमो भवति ।
पुनरप्यमृतक्षेपणविधिना जपेत्सकृदपि नरः श्वेतकरवीरकुसुमत्रिमधुयुक्तामाहुतिं दद्यात्सर्वजनप्रियो भवति अशोकपुष्पाणि सघृतं हुनेत्शोकरहितो भवति भ्रष्टराज्यप्राप्तिकामः श्रीफलहोमं कुर्यात्भ्रष्टराज्यं प्राप्नोति आज्ययुक्तपद्मपुष्पाणि अथवा कुमुदिनीपुष्पाणि होमयेत् ।
निपातकामः कटुतैलयुक्तं मयूरमांसं हुनेत्कूटेन मरणं भवति ।
पूगीफलं कटुतैलं लोहचूर्णं च हुनेत्समस्तदेहे विस्फोटका भवन्ति ।
क्षीरिपत्त्रबिल्वपत्त्रहोमेन शान्तिर्भवति ।
तिलसमिधः सकटुतैला हुनेत्तेन विद्वेषणं भवति ।
धत्तूरचूर्णे सास्थिचूर्णे सकटुतैललोहचूर्णे च हुते शीघ्रं शत्रुनाशो भवति ।
महामांसं सघृतं हुनेत्मनोऽभीष्टं सर्वं भवति ॥ १३.१६

चतुर्दशः पटलः[सम्पाद्यताम्]


क्लीं कामातुरे काममेखले विषयिणि वररति भगवति अमुकं मे वशं कुरु वशं कुरु क्लीं नमः स्वाहा ।
अनेन मन्त्रेण भोजनकाले सप्तग्रासान् सप्तवाराभिमन्त्रितान् भुञ्जीत ।
सप्तमे दिवसे स्त्री वा पुरुषो वा वशीभवति स्वं च ददाति ।
ओं हुं स्वाहा ।
इमं मन्त्रं त्रिसंध्यं जपेत्शत्रुनाशो भवति ।
क्लीं कालि कालि महाकालि कोले किन्या स्वाहा ।
इमं मन्त्रं पूर्वमयुतं जप्त्वा संध्याकाले सहस्रैकं होमयेत्ततः कङ्काली वरदा भवति सुवर्णचतुष्टयं प्रत्यहं ददाति ॥ १४.१
ओं द्रीं द्रीं द्रं द्रैं द्रौं द्रः हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वमेवायुतं जप्त्वा केवलमाज्यं हुनेतस्मादाकर्षणं भवति ॥ १४.२
ओं द्रौं द्रौं हीं हीं हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वविधिना जप्त्वार्धमासादाकर्षणं भवति ॥ १४.३
ओं हमों हूं हूं हीं स्वाहा ।
इति पूर्वखङ्गभेदः ॥ १४.४
सर्वसंजीवनीमन्त्रः ओं हुं द्रीं द्रं द्रौं द्रः हुं हुम् ।
अनेन मन्त्रेण सर्वज्वरनाशनं भवति ॥ १४.५
दीं हं सिनि स्वाहा ।
अनेन मन्त्रेण सर्वजनवशीकरणम् ॥ १४.६
ओं हीं नमः हीं फट्स्वाहा ।
इमं मन्त्रं साध्यनाम्नायुतं जपेत्शवासनस्थितो हृदयं न प्रकाशयेत्[... औ४ Zएइछेन्झ्] अमुकीं तां [... औ४ Zएइछेन्झ्] संगृह्य गुटिकां कृत्वा मुखे प्रक्षिप्य विद्याधरत्वं भवति ॥ १४.७
ओं हीं हुं नमः ।
इमं मन्त्रं पूर्वविधिना जपेत्पादुकासिद्धिर्भवति ॥ १४.८
ओं क्षं क्षं ह्रीं हुं फट्स्वाहा ।
इमं मन्त्रं पूर्वक्रमेण जपेद्वेतालसिद्धिर्भवति ॥ १४.९
ओं ह्रीं स्वाहा ।
अनेन मन्त्रेण नरकपालं गृहीत्वा तस्मिन्नरतैलं दत्त्वा तस्मिन् वायसचक्षुःसंवर्धिनीं वर्तिकां प्रज्वालयेत्कृष्णपक्षामावास्यायां शनिवारे अन्धकूपे श्मशाने वा शून्यायतने वा कज्जलं पातयितव्यं तावत्कालं पूर्वोक्तं मन्त्रं जपेत्यावता कालेन वर्तिशेषं प्रज्वलति अवसाने प्रभूतबलिदानं कर्तव्यं तत्र बलिस्तम्भमादाय तेन सिद्धाञ्जनेनाञ्जितनयनः सुरासुरैरपि न दृश्यतेऽन्यलोकस्य का कथा ॥ १४.१०
ओं ह्रं ह्रीं हूं ह्रैं ह्रौं ह्रः ह्रीं ह्रीमिति शङ्खिनीविद्या ।
ओं हीं हुमिति पुष्पाञ्जलिवेधः ।
हुं हुमिति हुंकारवेधः ।
ओं ह्रीं हुमित्यालयवेधः ।
ह्रां शिवावेधमन्त्रः ।
ह्रीमिति भ्रमरावर्तसंघट्टवेधः ।
ओं द्रीं हुं छः छः स्वाहा ।
लोहत्रिशूलं कृत्वा रुधिरेण विषं पिष्ट्वा तेन त्रिशूलं लिप्त्वायुतेनाभिमन्त्रितं कृत्वा यस्य नाम्ना भूमौ निखनेत्तस्य शीघ्रं मृत्युर्भवति ॥ १४.११
ओं ह्रींकारि हूंकारि कपालि समावेधं बन्धुं नपुंसकं महाशये अभयंकरि अमराख्यं कुरु कुरु ज्वरं हन हन आक्रोशात्कोलाहलं परां शक्त्याकर्षिणीं सर्वशक्तिप्रसङ्गिनीं शान्तिके हुं फट्स्वाहा ।
इमां महाविद्यां शत्रुवशंकरीं मनसा स्मरेत्स सर्वत्र निर्भयो भवति ॥ १४.१२
ओमोमों हं हं हं हं सां सां सां सामिमं मन्त्रं जपित्वा स्थावरजङ्गमविषनाशनं भवति ॥ १४.१३
ओमस्थि यंस्थि विद्रानिद्रा संनिविद्या रा टं टीं द्रीं समासं मटंटीं छं छम् ।
अनेन मन्त्रेण काकपक्षं सहस्रैकं हुनेत्यस्य नाम्ना तमुच्चाटयति ॥ १४.१४
स्त्रीं हमनेन मन्त्रेणायुते जप्ते सति कवित्वविद्या भवति स्त्रीमणिशकुनविद्यां हि संजपेत्झटिति कवित्वं करोति ॥ १४.१५
हमैं हं हमैं वद वद वाग्वादिनि स्वाहा ।
इमं मन्त्रं सप्तवारं जप्त्वाधिकाधिकं कवित्वं च करोति ॥ १४.१६
ओं हं छं छं छमैं नमः स्वाहा ।
सहस्रजपादधिकाधिकं कवित्वदोऽयं मन्त्रः ।
ओं कं खं गं घं चं छं छमविलम्बं वक्तुः स्तम्भयति वाचमालोकनात् ।
हुं हुं हुं हुं खं खं खं खं छं छं वाचां स्तम्भिनी वायुसंजीवनी विद्या ।
द्रीमालोकवेधः परोक्षवेधः ।
ह्रीं सर्ववेधनमन्त्रः ।
द्रं द्रौं द्रौं द्रौं द्रममुकं भेजि भेजि ह्रीं छं छं छमिति विस्फोटकसंजीविनी अवलोकनात्कार्यसिद्धिकरी ॥ १४.१७
ओं द्रां द्रीं पूर्वराक्षसान्नाशय सर्वाणि भञ्जय संतुष्टा मोहय महास्वने हुं हुं फट्स्वाहा इति सर्वभूतमारणमन्त्रः ।
ओं ह्रीं सः द्रां छः छः छः दूर्वाक्षीरहोमेन सर्वशान्तिकरी विद्या ॥ १४.१८
हुं पञ्चाण्डं चाण्डं द्रीं फट्स्वाहा अनेन मन्त्रेण मनुष्यास्थिकीलकं सप्ताङ्गुलं सहस्रधाभिमन्त्रितं यस्य गेहे निखनेत्तस्य कूटमुत्सादिनं भवति उद्धृते सति पुनः स्वास्थ्यं भवति ।
हुं क्षममुकं फट्स्वाहा अनेन मन्त्रेण पेचकपक्षिमांसं कटुतैलेन संयुतं होमयेत्सहस्रहोमेन शत्रुं निपातयति ॥ १४.१९
ओं श्रीं श्रीं ह्रीं ह्रीं धुं धुं हं हः स्वाहा ।
इयं हि त्रैलोक्यविजयानम्नी विद्या ।
मनसा स्मरेत्सर्वकामप्रदोऽयं मन्त्रः ॥ १४.२०
ओमैं ह्रीं श्रीं क्लीं विश्वरूपिणि पिशाचिनि भूतभविष्यादिकं वद वद मे कर्णे कथय कथय हुं फट्स्वाहा ।
इमं मन्त्रं शुक्लप्रतिपदमारभ्य पूर्णिमापर्यन्तं सहस्रैकं त्रिसंध्यं जपेत्प्रत्यहं पूतं जलं सघृतं भक्तपिण्डं हर्म्योपरि रात्रौ दद्यात्त्रैलोक्ये यादृशी तादृशी वार्त्ता साधकस्य कर्णे भूतभविष्यादिकं च कथयति ॥ १४.२१
ओं रं रां सं सां लं लां हं हः सं सः खं खः तं तः धं सं स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्षौं सौं सः छं छः धं सः स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्षौं सं फं फः हुं फट्स्वाहा ।
अयं समस्तविषनाशनमन्त्रः ।
सचराचरे ओं सचराचरे ओं हुं हुं हं हं हं हं हं हं हं हं हं हं क्षक्षक्षः हसः ओं सं हुं ह्रीं सर्वेश विष्णुबलेन शंकरदर्पेण वायुवेगेन रवितेजसा चन्द्रकान्त्या वैरं बाणशूर्पणं सर्वं विषहरं वद सर्वरक्षांसि हि नाशय २ भञ्जय २ सर्वदुष्टान्मोहय २ देव हुं फट्स्वाहा हुं फट्स्वाहा ।
इमं मन्त्रमष्टोत्तरसहस्रं शतं वा जप्त्वा सप्तमे दिवसे सिद्धिः समाकर्षणं भवति ॥ १४.२२
ओं ह्रीममुकं छः छः अनेन मन्त्रेण मानुष्यास्थिमयं कीलकमेकादशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्तस्य कूटं चोत्सादनं भवति उद्धृते पुनः स्वास्थ्यं भवति ॥ १४.२३
ओं ह्रीं काल कङ्काल महाकाल करालवदन अमुकं गृह्ण त्रिशूलेन भिन्द्धि २ खड्गेन छिन्द्धि २ हुं फट्छः छः स्वाहा ।
अनेन मन्त्रेण विभीतककाष्ठकीलकमेकविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहद्वारे निखन्यते तस्य सद्यो देहनिपातनं भवति ॥ १४.२४
ओं ह्रीं क्लीं श्रीं हुममुकं छः छः ।
अनेन मन्त्रेण सिद्धिकाष्ठमयं कीलकं नवाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखन्यते स वश्यो भवति ।
ओं ह्रीं श्रीं क्लीं मातंगिनि ऐं ह्रीं श्रीं क्लीं स्वाहा ।
अनेन मन्त्रेण राजिकां लवणघृतमिश्रितां यस्य नाम्ना सह होमयेत्तां स्त्रियं पुरुषं वा वशयत्याकर्षणं च करोति ॥ १४.२५
ओं ह्रीं हूं छः छः ।
अनेन मन्त्रेण वाडवकाष्ठमयं कीलकं त्रयोदशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्स चक्षुर्भ्यामन्धो भवति ॥ १४.२६
ओं छः ओं छः छः ।
अनेन मन्त्रेण बिल्वकाष्ठस्य कीलकं दशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्सपरिवारस्य तस्य प्रेतत्वं भवति ॥ १४.२७
ओं ह्रीममुकीं मे प्रयच्छ स्वाहा ।
अनेन मन्त्रेण पाटलाकाष्ठमयं पञ्चाङ्गुलं कीलकं सहस्रेणाभिमन्त्रितं यस्य नाम्ना देवतायतने निखनेत्स शीघ्रं कन्यां लभते ॥ १४.२८

पञ्चदशः पटलः[सम्पाद्यताम्]


षट्कोणं यन्त्रं लिखित्वा तत्र षट्कोणे ओं कुरुकुल्ले स्वाहा इति मन्त्रं पूर्वकोणे लिखेत् ।
कुरु इत्यक्षरद्वयमपरकोणे लिखेत् ।
अक्षरैकं पूर्वावर्तक्रमेण लेखितव्यम् ।
ततो भूर्जपत्त्रे इमं मन्त्रं लिखित्वा गृहद्वारे देहल्या एकदेशे धृते सति गृहसर्पमुच्चाटयति विवरद्वारि धृते विवरस्थो नश्यत्येव ॥ १५.१
रक्तकरवीरपुष्पमाम्रपत्त्रभस्मना लिप्तं तत्क्षणादेव शुभ्रं भवति तथा गन्धकधूपेनापि भावितेन शुक्तिर्भवति ।
लोके हयमार इत्याख्यस्य रक्तकरवीरस्य पुष्पं तूलवर्तिकागन्धकेन सह संयोज्य तत्क्षणादेव ज्वलति ।
तथा टङ्कनहरिद्राभ्यां कृते लेपे कुङ्कुमकान्तिर्भवति ॥ १५.२
पुराणशुष्कगोमयं यदा जले पातयेत्तदा भीमोष्मणा तस्माद्बुद्बुदमुत्पद्यते ।
एवं गौरं तु भूम्युपरि भूतलं स्पृष्ट्वा रक्तकरवीरवृक्षो जायते इति ।
रूपके ताम्रे भ्रमर इव कुम्भे समर्पयेत्किंचिदनुयोगित्वेन मनोऽनुरागो भवति ताम्बूलरागतः नश्यति हरिद्रारागो रविकिरणात् ॥ १५.३
ओं हुं सति कुरुरुपक्षिशब्दतः कुरलकुङ्कुमेन इति प्रसिद्धिः क्रोञ्च इत्यपि तस्य नाम जिह्वाक्रींकृतं वामकरतलमध्यलग्नपरिलेपं दर्शयित्वा उदितविश्वधाराभस्मना पुनरपि करतललग्नात्प्रदर्श्य गत्याश्चर्यमते शिशुदुग्धभावितात्शोधयित्वा गवादिदुग्धं चोष्णं कांस्यपात्रे कृत्वा तीक्ष्णतरं धृत्वा तण्डुलनिक्षेपणेन क्षीरं भवति ॥ १५.४
भूर्जपत्त्रपुटकं तिलतैलेन दीपयित्वा विविधभक्ष्यान्नं साधयेत्यथा लौहभाजने साध्यते ।
वार्ताकरञ्जिकापलमिति तत्सूत्रेण वेष्टयित्वा दीपयित्वा च ज्वालयेत्तेनाविसूत्रेण वेष्टिते च सूत्रं संदह्यते वार्ताकश्च पच्यते ॥ १५.५
आदिपङ्क्तौ सप्त स्वरान् संलिख्य तदधःपङ्क्तौ कादिसप्तवर्गात्संलिख्य तदधःपङ्क्तौ हरिद्रादिक्रमेणालेखनीया तत्र स्वरवर्णयोजनेन संकोचनादक्षरकोष्ठादिसंस्पर्शनात्संजायते ।
बहुषु मध्येषु दत्तसंज्ञाकृतसंकेतश्चौरः स्वदृष्टिमपि सप्तसप्तस्वरादौ जानाति ।
व्यापारमध्ये क्षणरसिकश्चौरो ज्ञायते कृतो भद्रद्रव्ये ॥ १५.६
कुत्रापि धत्तूरकबीजं क्षिप्त्वा तद्वा भक्षति तदा तद्गुणादिफलं लभ्यते असौ चौरः इति ।
स्वल्पचरचौरास्तु वस्तुलाभे प्रदातारः ।
क्षीर्यर्कादिवृक्षदुग्धेन संलिखितं चौरनामाक्षरं करतलेऽपि लिखितमनन्तरं भूर्जपत्त्रे कृतमपि मर्दने स्पर्शयित्वा भक्षितुं ततो ददाति अपरिलिखितं चौरनाम पत्त्रयुक्तं च अरिगृहगर्भमृत्तिकाकाण्डकं भवति ।
जले साधुनाम पत्त्रयुक्तमृत्तिका च जले मज्जति ततः स्पृष्ट्वा क्रियते असौ चौरः इति ।
क्षीरितरुदुग्धलिखितक्षुद्रलेखे अङ्गारचूर्णेन मर्दिताः स्पष्टा भवन्ति ।
कूटोऽपि विपरीतलिखितवर्ण आदर्शादौ प्रतिकृतिभावापन्नो वर्णवैपरीत्यात्प्रतिविवर्धितन्यासः अतिदृढा मसी भवति ॥ १५.७
निम्बतालके समताम्रभाजने याममात्रमर्दितेन विधिरस्तु समभागता यथा आमलकीहरीतकीविभीतकनिम्बखादिराणां नीराख्याराजकरवीररसैः समस्तरसकज्जलमुक्तमर्दनप्रकारेण याममात्रेण प्रत्येकं येन प्रकारेण मसिद्रव्यं जायते ।
शिरीषवृक्षत्वक्चूर्णं खदिरं विना ताम्बूलरागं जनयति ।
तिर्यक भूमौ नारिकेलफलमस्थिसहितं मुखेन कर्णिकायामेकेन प्रहारेण द्विधा भवति ।
लघुकाष्ठसूक्ष्मरचितपाकां विना पादैकं वा भ्रमति ।
गुञ्जाफलास्थिलिप्तं स्तम्भितं तदुत्तरपादं प्रयोज्य प्रपदात्यन्तं भ्रमति तदा पादतले तालकारलग्ना उत्तिष्ठति ।
एवं लघुकाष्ठनिर्मितासमकः पापपुरहासार्थं दत्तमुखवेष्टं किंचित्यस्तेन सितवस्त्रादौ कट्यां लग्नमुपतिष्ठमानास्तिष्ठति ॥ १५.८
एवं निविडाम्बरपिहितजम्बादौ अधोमुखकांस्यभाजननिहितमङ्गारं न दहति वस्त्रं दहति चापि शिशिरजलमिश्रितमपि आनतफलचूर्णभावितकलशः तीक्ष्णश्च कांस्यभाजननिहितं गुरुड्डनाप्यशक्तं न भवति तदानीं तिक्तं याति यच्छुक्तं मिष्टमेति कज्जलचविकाचूर्णाभ्यां क्रमसंलिखितपुस्तकमध्यकारणेऽपि यथेष्टया पच्यते यथा कटाहे रम्यतरे मधुनाग्निप्रज्वलिते सकुण्डादौ जलपूर्णे अधोमुखे उज्ज्वलं स्वयमेति धूमाभ्यां स्वयमुद्गिरति वर्तिद्वये शशविष्ठापूर्णगर्भे कमठैरधोवर्तिविष्ठायितापि उपरि ज्वलज्ज्वालाज्वलितवर्तिज्वालामपि ज्वलितधूममङ्गारतीक्ष्णशिखया नाडिकादौ ।
वालिवातेऽयं प्रयोगः कार्यः ।
वामकराङ्गुलिपर्यन्तं गोपितं सूत्रचिह्नमप्यचिह्नं च दृश्यते जनस्य विषमसमाक्षरेण वीक्षिते कालः असममपि पुरुषं जानीयात् ।
पञ्चदाडिमे शिखरे मसिगुणिते यद्धि भवति तावत्गुटिके विजानीयात् ।
अकालवक्रे सति कालमथ फलचूर्णेन मिलित्वा भस्मना सह घृतेन काकञ्जिका सहसा भवति ॥ १५.९
अगाधस्थिरजले धूमचूर्णेन लिखितचिन्तादि भीतवद्भाषते न निमज्जतीति ।
समदशघृतजधृतसमावेशार्धं धृतमूषलं तिष्ठति ॥ १५.१०
पुष्यनक्षत्रे कुङ्कुमावर्तितेन बाणेन दूरस्थमपि लक्ष्यं बालोऽपि विध्यते ।
षण्डं गोमयानां वर्तिदीपकान्त्या दग्धं मध्ये हतशशरुधिरं दृश्यते तत्रापि तैलं यत्किंचिदिति ।
श्वेतार्कफले तूलकं सर्षपसमं तैलेनैकीकृतवर्तिकदीपज्वालायां गृहोपरिवंशादिदारु सर्वं सर्प इव दृश्यते ।
भुजगतैले सच्छिद्रभाण्डे भुजंगं क्षिप्त्वा अच्छिद्रभाण्डान्तरे व्यवस्थितमग्निपातेन जलं ज्वलति ।
तदैव तैलं पूर्वप्रकारेण कृष्णाष्टम्यां मण्डूकतैलाङ्कितेन सर्वं शात्रव सर्वं भवति ।
दीपकान्त्या दीपयित्वा यत्किंचिच्च कुक्कुटपक्षिचञ्च्वादिविदग्धनाललक्षिता सती हृता लेखा यदायाति हरिकपालं धृत्वा भवति तदा तज्जलपूर्णां च कलशं रिक्तकं भवति तथा मरिचशुण्ठी पिप्पलीचूर्णेनोभाभ्यां वामचरणतलं लिप्त्वा तेनाहतो वृक्षः कल्पवृक्षश्च नमेरुफलं प्रसूयते ॥ १५.११
कृष्णा गौः प्रसवकाले तद्वत्समानवर्णं जरायुरागतत्वेन प्रजारेण्डला फलं दृष्ट्वा मुष्टिगृहीते उच्चैस्तमसि फलं प्रायेण कृत्वा प्रदास्यति तथा कालायितमुद्रिका वरगोस्तनी स्यादापतिता गृहीता निक्षिप्ता तु अष्टौ पूर्वफलानि जनयति ।
समुस्ताहरितालमनःशिलाभ्यां नवनीतादियोगेन कारिताञ्जने मयूरस्य विष्ठया कृत्वा हस्तं लिम्पेत्तत्र स्थितं द्रव्यं ब्रह्मापि न पश्यति ।
समुखं फलचूर्णं मिश्रोद्वर्तनकाजले क्षिप्त्वा क्रिमिसहस्रतुल्यं दृश्यते ।
हयकालीयकस्य शोषितस्य चूर्णं गवशीर्षकेण समुद्वर्तनेन तात्कालिकं सूक्ष्मजले निःक्षिप्य सबीजं कृषिरुच्चलति ॥ १५.१२
अधःपटेनाशस्यावश्यादि दृष्ट्वा पादाग्रस्थितं द्रव्यं दृश्यते ।
जपाकुसुमोद्वर्तिताङ्गं छुरिकादौ कणाचितैककीटकाफलाख्या यन्त्रिते रुधिरवज्जडितं क्षीरिवृक्षत्वगवभाविता तैलाक्ता वस्त्रवर्तिर्जलैर्ज्वलति ।
एवं समुद्रतैलयुक्तापि वर्तिका ज्वलति ।
द्रोणकपुष्पादीनि क्षुद्रपुष्पाणि चूर्णाग्रे विनिष्क्षिप्य धत्तूरबीजानि जलसिक्तानि सजीववत्फलन्ति ।
इक्षुः कुक्कुटीबीजचूर्णेन सुदर्शनपत्त्रमिव तत्क्षणात्जायते ।
मसृणकर्पटं निर्मलकांस्यभाजनेऽर्कसम्मुखं स्थापनेन वर्तुलकयोगादग्निरुत्तरति ॥ १५.१३