उमासहस्रनामस्तोत्रम्/सप्तमशतकम्/सप्तविंशस्तबकः

विकिस्रोतः तः

प्रचण्डचण्डी (शिखरिणीवृत्तम्)

विधुन्वन्ध्वान्तानि प्रतिदिशमधर्मं परिहरँ-
च्छ्रियं व्यातन्वानस्सपदि शमयन् दुःखपटलम् ।
सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन्
प्रचण्डायाश्चण्ड्यास्सितहसितलेशो विजयते ॥ २७.१॥

अरीणां शीर्षेषु ज्वलितदवकीलीन्द्रसदृशं
विनम्राणां शीर्षेष्वमृतकरबिम्बेन तुलितम् ।
विरोधिध्वान्तानां तरुणतरणिप्राभवहरं
प्रचण्डायाश्चण्ड्याश्चरणमसतां हन्तु विभवम् ॥ २७.२॥

भजे भासां शालां निखिलधिषणानां जनिभुवं
बलानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् ।
भजन्ते यां गीतैर्मधुसमयमाद्यात्पिकवधू-
कलालापा हृद्यैर्हयवदनपङ्केरुहदृशः ॥ २७.३॥

ज्वलन्ती तेजोभिर्महिषमथने या तव तनुर्-
लसन्ती लावण्यैर्गिरिशरमणे या तव तनुः ।
विना क्रोधप्रीति न किमपि तयोर्भेदकमभूत्
तयोराद्या दुर्गा भवति ललिताऽन्या मुनिनुते ॥ २७.४॥

सहस्रं भानूनां भवति दिवासानामधिपतेः
सहस्रं शीर्षाणां भवति भुजगानामधिपतेः ।
सहस्रं नेत्राणां भवति विबुधानामधिपतेः
सहस्रं बाहूनां भवति समये हैमवति ते ॥ २७.५॥

प्रसन्नो वक्त्रेन्दुर्न च नयनयोः कोऽप्यरुणिमा
न कम्पो बिम्बोष्ठे स्मितमपि लसत्काशविशदम् ।
सरोजाभः पाणिः किणविरहितः कोमलतमो
ज्वलच्छूलं त्वासीज्जननि ताव शुम्भाय भयदम् ॥ २७.६॥

वधे शुम्भस्यासीत्तव जननि या काचन तनुर्-
दधानाऽग्र्याः शक्तीः शशिकिरणसारोपमरुचिः ।
इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं
मनो मे विश्रान्तिं भजति भजतां कल्पलतिके ॥ २७.७॥

यदि त्वं संहारे पटुरसि सवित्रि त्रिजगत-
स्तदेतत्त्वां याचे सरसिरुहगर्भादिविनुते ।
इमे मे पाप्मानो भगवति नदन्तो बहुविधा-
स्तदेषु प्रख्यातं प्रतिभयतमं दर्शय बलम् ॥ २७.८॥

बिभेदोरः क्रोधात्कनककशिपोरब्धितनया-
कुचग्रावोल्लीढैरतिशितशिखैर्यः किल नखैः ।
त्वया दत्ता शक्तिर्नरहरिशरीराय जगतां
विनेत्रे पुंसेऽस्मै जननि रणरङ्गस्थलरमे ॥ २७.९॥

अजेयस्त्रैलोक्यप्रकटितपताकः पलभुजां
बिडौजा यत्कारागृहपरिचयी पङ्क्तिवदनः ।
सहस्रारं साक्षाद्धृतनरशरीरं तमजयत्
तवैवावेशेन प्रियपरशुरम्ब द्विजशिशुः ॥ २७.१०॥

त्वदीया सा शक्तिस्ककलजगदन्तेऽप्यनलसा
पुरा कार्यस्यान्ते तनयमयि हित्वा नृपरिपुम् ।
अविक्षत्काकुत्स्थं दशमुखकुलोन्माथविधये
सहस्रांशुं हित्वा शशिनमिव घस्रे गलति भा ॥ २७.११॥

हृते लोकव्राते भगवति भवत्यैव स पुरा-
मरिः कीर्तिं लब्धुं चतुरमतिरायाति समये ।
त्वया लोकत्राणे जननि रचिते राक्षसबधाद्
यशोऽवाप्तुं विष्णुर्मिलति च कुतोऽप्येष निपुणः ॥ २७.१२॥

स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसा-
मुपाधिस्ते स्तोमो भवति चपला काऽपि तनुभा ।
अरुद्धा ते व्याप्तिर्बलमखिलदत्तं बलनिधेः
सहस्रांशः स्वस्य प्रभवसि समस्तस्य च शिवे ॥ २७.१३॥

यतः कालव्याजात्पचसि भुवनं वैद्युतमहः-
प्रभावात्कालीं त्वामयि विदुरतः पण्डितवराः ।
प्रभोः शस्त्रं भूत्वा दहसि यदरीन्वज्रवपुषा
प्रचण्डां चण्डीं तद्भगवति भणन्त्यक्षयबले ॥ २७.१४॥

अयि त्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे
त्वया शस्त्राढ्यं तं भणति तु परस्तत्त्वविदृषिः ।
युवां मातापुत्रौ भगवति विभाज्यौ न भवतस्-
ततो धीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥ २७.१५॥

विकुर्वाणा विश्वं विविधगुणभेदैः परिणमद्
विधुन्वाना भावान् भुवनगतिरोधाय भवतः ।
वितन्वाना शर्वं चलवदचलं काचिदवितुं
विचिन्वाना जन्तोः कृतलवमपीशा विजयते ॥ २७.१६॥

प्रभा भानोर्यद्वद्भवसि सकलस्यापि तपनी
प्रचण्डा शक्तिः सत्यखिलभुवनेशस्य तपतः ।
सुधांशोर्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतो
भवन्ती भूतादेर्दहरकुहरं मोदलहरी ॥ २७.१७॥

प्रचण्डा गौरी वा त्वमसि वसुरुद्रार्कविनुते
स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् ।
तयोरेकं रूपं तव सहविभोः खेलति मह-
त्यमुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥ २७.१८॥

विभक्ता या द्वेधा त्वमसि गगने शीतमहस-
स्तथा रम्ये बिम्बे ज्वलितललितस्त्रीतनुविधा ।
तयोर्ब्रूहीशाने जननि कतमा मे जननभूः
पुराजन्मन्यासीद्विकटमथवोग्रैव सुषुवे ॥ २७.१९॥

दृशोर्भेदाद् दृष्टेर्न भवति भिदा काऽपि करयोर्-
न भेदाद्भिन्नं स्यात्कृतमभिविमानैक्यवशतः ।
भिदा तन्वोरेवं न भवति भिदायै तव शिवे
वियद्देशे चण्ड्यां सितमहसि गौर्यां च भवति ॥ २७.२०॥

तव च्छिन्नं शीर्षं विदुरखिलधात्र्यागमविदो
मनुष्याणां मस्ते बहुलतपसा यद्विदलिते ।
सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता
बहिश्शक्त्या युक्ता विगतचिरनिद्रा विलससि ॥ २७.२१॥

उताहो तन्वङ्ग्यां भृगुकुलविधात्र्यां पितृगिरा
तनूजेनच्छिन्ने शिरसि भयलोलाक्षि नलिने ।
न्यधास्तेजो भीमं निजमयि यदक्षुद्रमनघं
तदाहुस्त्वामम्ब प्रथितचरिते कृत्तशिरसम् ॥ २७.२२॥

हुतं धाराज्वालाजटिलचटुले शस्त्रदहने
तपस्विन्याः कायं भगवति यदाऽम्ब त्वमविशः ।
तदा तस्याः कण्ठप्रगलदसृजः कृत्तशिरसः
कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥ २७.२३॥

निधेस्त्वत्तो हृत्वा भगवति न लज्जे भुवि सृजन्
रसक्षोणीर्वाणीस्त्वदमलयशस्सौरभजुषः ।
नृपोद्यानात्सूनोत्करमपहरन् भक्तिनटनं
वितन्वानस्तस्मै मुहुरुपहरँत्सेवक इव ॥ २७.२४॥

दधानास्सन्तोषं मनसि सुकवीनामतितरां
ददानाः प्रत्यग्रं विबुधसदसे भावमलघुम् ।
कुलानामुत्साहं सपदि विदधानाश्शिववधू-
पराणां शोभन्तां जगति शिखरिण्यो गणपतेः ॥ २७.२५॥