उमासहस्रनामस्तोत्रम्/प्रथमशतकम्/तृतीयस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

तृतीयः स्तबकः
सशरीरायाश्च साधनम् (तनुमध्यावृत्तम्)

शुभ्रस्मितलेशो मातुर्मरुतान्नः ।
अन्तस्तिमिराणामन्तं विदधातु ॥ ३.१॥

आद्यौ भुवनानां मातापितरौ तौ ।
देवासुरमर्त्यैर्वन्द्यावविनिन्द्यौ ॥ ३.२॥

ब्रूते पृथगेकस्तौ विग्रहवन्तौ ।
आहैकशरीरं द्वन्द्वं कविरन्यः ॥ ३.३॥

शक्तिं तनुशून्यामीशं च पुमांसम् ।
वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥ ३.४॥

ईशं च तमेके सन्मात्रमुशन्ति ।
ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥ ३.५॥

केचित्तनुहीनं प्रज्ञायुतमीशम् ।
शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ॥ ३.६॥

उक्तं दधतस्तैः केचित् पुनराहुः ।
मायातनुबन्धं नाथस्य न शक्तेः ॥ ३.७॥

नित्यं सशरीरौ येषां पितरौ तौ ।
एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥ ३.८॥

मातापितरौ यत् तावेकशरीरौ ।
चित्रप्रथनार्था सा काचन लीला ॥ ३.९॥

सन्मात्रकथानां कार्ये मनुजादौ
धीस्वान्तविकासः स्यात्कारणहीनः ॥ ३.१०॥

अद्वैतिभिरन्या मायाऽऽश्रयणीया ।
शक्तेरतिरिक्ता सा किं किमु वादैः ॥ ३.११॥

न स्यात् पृथगात्मा शक्तेः किमुपाधेः ।
चक्षुः श्रितचित्तेर्विश्वाकृतिता वा ॥ ३.१२॥

एकान्तविदेहौ तौ चेदतिसूक्ष्मौ ।
लीलातनुबन्धाशक्तावभिधेयौ ॥ ३.१३॥

भक्ताननुगृह्णन् दिव्याद्भुतलीलः ।
तद्विग्रहबन्धो बोध्यो लसदर्थः ॥ ३.१४॥

स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् ।
ना वा किमु नारी न स्यादनुमेया ॥ ३.१५॥

तस्मात् पितरौ तौ वाच्यौ मतिमन्तौ ।
सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥ ३.१६॥

नास्मत्तनुवत्ते शक्तीश्वरमूर्ती ।
एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥ ३.१७॥

दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः ।
सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥ ३.१८॥

दिव्यो घनसोमः स्यन्दन् रसमन्तः ।
भुञ्जन् भुवनौघं पीयूषशरीरम् ॥ ३.१९॥

बोधोऽनवलम्बो दिव्यं खलु तेजः ।
मोदः परिशुद्धो दिव्यः खलु सोमः ॥ ३.२०॥

सोमांशमहोंशौ यातो घनभावम् ।
पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥ ३.२१॥

आराधयसीशं तं चिन्मयकायम् ।
आनन्दमयाङ्गी त्वम् देवि किलेयम् ॥ ३.२२॥

दिव्यं तव कायं दिव्ये तव वस्त्रे ।
दिव्यानि तवाम्ब स्वर्णाभरणानि ॥ ३.२३॥

यद्देवि विलोक्याऽस्यप्राकृतकाया ।
युक्तीः समतीता सेयं तव माया ॥ ३.२४॥

नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् ।
विद्वत्सदसीमाः सम्यक्प्रथयन्तु ॥ ३.२५॥