उमासहस्रनामस्तोत्रम्/पञ्चमशतकम्/सप्तदशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

मदकरीशक्तिः (चम्पकमालावृत्तम्)

पापविधूतौ निर्मलगङ्गा तापनिरासे चन्द्रमरीचिः ।
भर्गपुरन्ध्रीहासकला मे भद्रममिश्रं काऽपि करोतु ॥ १७.१॥

शिष्टकुलानां सम्मदयित्री दुष्टजनानां संशमयित्री ।
कष्टमपारं पादजुषो मे विष्टपराज्ञी सा विधुनोतु ॥ १७.२॥

नूतनभास्वद्बिम्बनिभाङ्घ्रिं शीतलरश्मिद्वेषिमुखाब्जाम् ।
ख्यातविभूतिं पुष्पशरारेः पूतचरित्रां योषितमीडे ॥ १७.३॥

उज्ज्वलतारे व्योम्नि लसन्ती सारसबन्धौ भाति तपन्ती ।
शीतलभासा चिन्तनकर्त्री पातु कुलं मे विष्टपभर्त्री ॥ १७.४॥

प्राणमनोवाग्व्यस्तविभूतिर्लोकविधातुः काचन भूतिः ।
पुष्करपृथ्वीपावकरूपा शुष्कमघं नः सा विदधातु ॥ १७.५॥

इष्टफलानामम्ब समृद्ध्यै कष्टफलानां तत्क्षणधूत्यै ।
चेष्टितलेशोद्दीपितशक्तिं विष्टपभर्त्रि त्वामहमीडे ॥ १७.६॥

भूमिरुहाग्रस्थापितभण्डाद्यो मधु पायं पायमजस्रम् ।
विस्मृतविश्वो नन्दति मातस्तत्र किल त्वं धाम दधासि ॥ १७.७॥

कोऽपि सहस्रैरेष मुखानां शेष इतीड्यः पन्नगराजः ।
उद्गिरतीदं यद्वदनेभ्यो देवि तनौ मे तद्वत पासि ॥ १७.८॥

साकममेये देवि भवत्या प्रातुमहन्ता यावदुदास्या ।
तावदियं तां मूर्छयतीशे पन्नगराजोद्गारजधारा ॥ १७.९॥

शाम्यतिचिन्ताजीवितमस्यामिन्द्रियसत्ताऽप्यस्तमुपैति ।
याति निरुद्धा हा गलदेशे संशयमेषा मातरहन्ता ॥ १७.१०॥

गौरि महेशप्राणसखी मां पाहि विपन्नां मातरहन्ताम् ।
सा यदि जीवेदीश्वरि तुभ्यं दासजनस्तामर्पयतेऽयम् ॥ १७.११॥

त्वत्स्मृतिवीर्याच्छान्तिसमृद्धां मातरहन्तां शुद्धतमां मे ।
आत्मभुजिष्यां कर्तुमिदानीं शान्तधियस्ते कोऽस्ति विकल्पः ॥ १७.१२॥

मन्दरधारी नामृतहेतुर्वासुकिरज्जुर्नामृतहेतुः ।
मन्थनहेतुस्साऽमृतहेतुः सर्वबलात्मा शर्वपुरन्ध्री ॥ १७.१३॥

प्राणिशरीरं मन्दरशैलो मूलसरोजं कच्छपराजः ।
पूर्णमनन्तं क्षीरसमुद्रः पृष्ठगवीणा वासुकिरज्जुः ॥ १७.१४॥

दक्षिणनाडी निर्जरसेना वामगनाडी दानवसेना ।
शक्तिविलासो मन्थनकृत्यं शीर्षजधारा काऽपि सुधोक्ता ॥ १७.१५॥

कण्ठनिरुद्धे भूरिविषाग्नौ तैजसलिङ्गावासिहरेण ।
त्वद्बलजातं स्वाद्वमृत्तं को देवि निपीय प्रेत इह स्यात् ॥ १७.१६॥

येन विभुस्ते माद्यति शर्वो यत्र शिवे त्वं क्रीडसि हृष्टा ।
सम्मदमूलं तं मदमाद्ये वर्धय पुत्रेऽनुग्रहपात्रे ॥ १७.१७॥

यो मदमीदृङ्मार्गमुपेक्ष्य स्वर्विभुपूज्ये गर्वसमेतः ।
आहरति श्रीबाह्यसमृद्ध्या ना सुरया वा सोऽसुर उक्तः ॥ १७.१८॥

ताम्यति तीव्राफेननिषेवी क्लाम्यति संवित्पत्रनिषेवी ।
भ्राम्यति हालाभाण्डनिषेवी शाम्यति शीर्षद्रावनिषेवी ॥ १७.१९॥

अस्तु विरेके पथ्यमफेनं पत्रमजीर्णेष्वस्तु निषेव्यम् ।
अस्तु हितं तद्यक्ष्मणि मद्यं संसृतिहारी देवि रसस्ते ॥ १७.२०॥

नैव महान्तस्सत्त्वसमृद्धाः सर्वमदेष्वप्यम्ब चलन्तु ।
अल्पजनानां मादकवस्तुप्राशनमीशे नाशनमुक्तम् ॥ १७.४२१॥

केऽपि यजन्ते यन्मधुमांसैस्त्वां त्रिपुरारेर्जीवितनाथे ।
अत्र न यागो दूषणभागी द्रव्यससङ्गो दुष्यति यष्टा ॥ १७.२२॥

दक्षिणमार्गे सिद्ध्यति भक्तः सव्यसरण्यां सिद्ध्यति वीरः ।
नेश्वरि सव्ये नाप्यपसव्ये सिद्ध्यति दिव्ये त्वध्वनि मौनी ॥ १७.२३॥

नार्चनभारो नापि जपोऽस्यां दिव्यसरण्यां भव्यतमायाम् ।
केवलमम्बापादसरोजं निश्चलमत्या मृग्यमजस्रम् ॥ १७.२४॥

काचिदमूल्या चम्पकमाला वृत्तनिबद्धा मञ्जुलमाला ।
अस्तु गणेशस्येश्वरकान्ता कण्ठविलोला चम्पकमाला ॥ १७.२५॥