उमासहस्रनामस्तोत्रम्/नवमशतकम्/षड्त्रिंशस्तबकः

विकिस्रोतः तः

प्रकीर्णकम् (तूणकवृत्तम्)

उन्नतस्तनस्थलीविलोलहारमौक्तिक-
व्रातदीधितिप्रतानबद्धसौहृदा सदा ।
अन्धकारिकामिनीदरस्मितद्युतिर्धुनो-
त्वन्धकारमन्तरङ्गवासिनं घनं मम ॥ ३६.१॥

अम्बरस्थले पुरा पुरन्दरो ददर्श यां
यां वदन्ति पर्वतप्रसूतिमैतिहासिकाः ।
सा परा पुरामरेः पुरन्ध्रिकाऽखिलाम्बिका
पुत्रकाय मज्जते ददातु दक्षिणं करम् ॥ ३६.२॥

पादपङ्कजे धृता नरैरबाह्यभक्तिभिः
पाणिपङ्कजे धृता नवेन्दुखण्डधारिणा ।
चारुहेमहंसका मनोज्ञरत्नकङ्कणा
लोकजालपालिनी पुनातु मां विलासिनी ॥ ३६.३॥

उक्षराजवाहनस्य जीविताद् गरीयसी
पक्षिराजवाहनादिवर्ण्यमानवैभवा ।
केकिलोकचक्रवर्तिवाहनेन पुत्त्रिणी
वारणारिसार्वभौमवाहना गतिर्मम ॥ ३६.४॥

बालकुन्दकुट्मलालिकान्तदन्तपङ्क्तिका
कुण्डलानुबिम्बशोभिशुद्धगण्डमण्डला ।
बिभ्रती रतीशवेत्रविभ्रमं भ्रुवोर्युगं
शुभ्रभानुशेखरस्य सुन्दरी प्रणम्यते ॥ ३६.५॥

आजिदक्षवाहवैरियातुधानबाधितं
या ररक्ष देवबृन्दमिन्दिरादिवन्दिता ।
सा कटाक्षपातधूतभक्तलोकपातका
पावकाक्षसुन्दरी परात्परा गतिर्मम ॥ ३६.६॥

तारकाधिनाथचूडचित्तरङ्गनर्तकी
मन्दहाससुन्दरास्यपङ्कजा नगात्मजा ।
दीनपोषकृत्यनित्यबुद्धबुद्धिरव्यया
गृह्यते गणाधिपेन सर्वतो नृणां पदे ॥ ३६.७॥

अष्टमीशशाङ्कखण्डदर्पभञ्जनालिका
विष्टपत्रयाधिनाथमानसस्य डोलिका ।
पापपुञ्जनाशकारिपादकञ्जधूलिका
श्रेयसे ममास्तु शैललोकपालबालिका ॥ ३६.८॥

सानुमत्कुलाधिनाथबालिकालिकुन्तला
जङ्गमेव काऽपि तप्तहेमसालभञ्जिका ।
भक्तियुक्तलोकशोकवारणाय दीक्षिता
शीतशीतवीक्षिता लघु स्यतादघं मम ॥ ३६.९॥

पुण्यनामसंहतिः पुरारिचित्तमोहिनी
पुष्पबाणचापचारुझिल्लिकाऽखिलाम्बिका ।
पुण्यवैरिपुष्टदुष्टदैत्यवंशनाशिनी
पुत्रकस्य रक्षणं पुरातनी करोतु मे ॥ ३६.१०॥

क्षाममध्यमस्थली सुधाघटोपमस्तनी
कृष्णसारलोचना कुमुद्वतीप्रियानना ।
भ्रूविलासधूतधैर्यकाञ्चनाद्रिकार्मुका
काचिदिक्षुकार्मुकस्य जीविका जयत्युमा ॥ ३६.११॥

लोहिताचलेश्वरस्य लोचनत्रयीहिता
लोहितप्रभानिमज्जदब्जजाण्डकन्दरा ।
हासकान्तिवर्ध्यमानसारसारिमण्डला
वासमत्र मे करोतु मानसे महेश्वरी ॥ ३६.१२॥

दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवा
काममित्रवामनेत्रधामतृप्तकैरवा ।
एकतः परः पुमान्परा वराङ्गनाऽन्यतः
शुभ्रकीर्तिरेकमूर्तिरादधातु नश्शिवम् ॥ ३६.१३॥

शुम्भदैत्यमारिणी सुपर्वहर्षकारिणी
शम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी ।
कामितार्थदायिनी करिप्रकाण्डगामिनी
वीतकल्कमादधातु विघ्नराजमम्बिका ॥ ३६.१४॥

देवतासपत्नवंशकाननानलच्छटा
वारणारिसार्वभौमवाहना घनालका ।
नन्दिवाहनस्य काऽपि नेत्रनन्दिनी सुधा
नेत्रलाञ्छितालिका सुतं पुनातु कालिका ॥ ३६.१५॥

राजसुन्दरानना मरालराजगामिनी
राजमौलिवल्लभा मृगाधिराजमध्यमा ।
राजमानविग्रहा विराजमानसद्गुणा
राजते महीधरे मदम्बिका विराजते ॥ ३६.१६॥

पर्वचन्द्रमण्डलप्रभाविडम्बनानना
पर्वताधिनाथवंशपावनी सनातनी ।
गर्वगन्धनाशिनी विभावरीविचारिणां
शर्वचित्तनायिका करोतु मङ्गलं मम ॥ ३६.१७॥

ओजसश्च तेजसश्च जन्मभूमिरच्युता
नीलकञ्जबन्धुबद्धमौलिरागमस्तुता ।
वीतरागपाशजालनाशबद्धकङ्कणा
विश्वपालिनी मया महेश्वरी विचिन्त्यते ॥ ३६.१८॥

अण्डमण्डलं यया निरन्तरं च पच्यते
संस्फुरत्यशेषभूतहार्दपीठिकासु या ।
श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभिर्-
यामुपासते विदो नमामि तां परात्पराम् ॥ ३६.१९॥

पञ्चयुग्मवेषभृत्परात्परा सुरार्चिता
पञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना ।
वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनी
प्रेतमञ्चशायिनी कुलं चिराय पातु मे ॥ ३६.२०॥

कर्मणा यथाविधि द्विजातयो यजन्ति यां
ब्रह्मणा यथाश्रुतं स्तुवन्ति यामधीतिनः ।
चेतसा यथा गुरूक्ति चिन्तयन्ति यां विदः
सा परा जगत्त्रयीजनन्यजा जयत्युमा ॥ ३६.२१॥

वासुदेवजायया विनम्रया निषेविता
वामदेवचाटुचित्रवाक्यबन्धलालिता ।
वासवादिदेवताजयप्रणादहर्षिता
वारयत्वघानि मे वसुन्धराभृतस्सुता ॥ ३६.२२॥

पूर्णिमासुधामरीचिसुन्दरास्यमण्डला
फुल्लपद्मपत्रदीर्घसम्प्रसन्नलोचना ।
पुण्यभूनिषेवणाय पुत्रमेतमुद्यतं
पूर्णकाममादधातु पादलग्नमम्बिका ॥ ३६.२३॥

लालयन्ति बालकं वतंसशीतदीधितिं
शीलयन्ति सूक्ष्मतां मनांसि योगिनामिव ।
कालयन्तु पापिनां कुलानि संहतीस्सतां
पालयन्तु च स्मितानि योषितः पुरद्विषः ॥ ३६.२४॥

पादसेविनः कवेर्मनोहरातिशक्वरी-
वर्ग एष नाट्यकारिनिर्जरीगणो यथा ।
लोकजालचक्रवर्तिपुण्ययोषितो मन-
स्सम्मदाय साधुकष्टवारणाय कल्पताम् ॥ ३६.२५॥