उमासहस्रनामस्तोत्रम्/नवमशतकम्/पञ्चत्रिंशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

प्रार्थना (इन्दुवदनावृत्तम्)

अन्धतमसं शशिविभामभिदधाना
कान्तिमलमास्यकमलस्य विदधाना ।
अन्धकविरोधिदयितास्मितलवश्रीर्-
भातु भुवनस्य सकलस्य कुशलाय ॥ ३५.१॥

भाहि विविधा कृतिमती द्विजसमूहे
पाहि गतिहीनमखिलेश्वरि कुलं नः ।
देहि बहुकालभजकाय वरमेतं
याहि नगनन्दिनि यशः शशिवलक्षम् ॥ ३५.२॥

वारयति घोरतरपातकसमूहं
वर्धयति धर्ममपि शर्मकरमन्ते ।
किङ्करजनस्य न किमावहति भव्यं
शङ्करपुरन्ध्रि तव पादपरिचर्या ॥ ३५.३॥

यस्य मनुजस्य हृदयेऽस्ति सदये ते
नाकचरसेव्यमयि पादसरसीजम् ।
तं भजति पद्ममुखि पद्मवनवासा
लाभभवने भवतु नामरपुरोधाः ॥ ३५.४॥

यद्यखिलमौनिगणगीतगुणजालं
कालभयहारिकरुणारसमरन्दम् ।
अद्रितनयाङ्घ्रिजलजन्म हृदये स्या-
दष्टमगतोऽपि विदधातु रविजः किम् ॥ ३५.५॥

लेखललनाकचसुमैः कृतबलिं ते
यो भजति पादघृणिमालिनमनन्ते ।
निस्तरति नूनमयमस्तमितमोहः
शोकतिमिरं सकललोकगणमातः ॥ ३५.६॥

शीतकरदर्पहरवक्त्रजलजाते
शीतगिरिनन्दिनि तवाङ्घ्रिजलजातम् ।
यः स्मरति देवि हृदि विस्मरति सोऽयं
विष्टपमशेषमपि कष्टततिमुक्तः ॥ ३५.७॥

सक्तिरयि यस्य तव पादसरसीजे
शक्तिधरमातरनलाक्षगृहनाथे ।
पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौ
स्वर्णशिखरीव बुधलोकशरणं स्यात् ॥ ३५.८॥

वैरिगणनिर्दलनखड्गवरपाणे
वाससि पदोर्दशनवाससि च शोणे ।
नेत्रमिषपावकविशेषितललाटे
पापमखिलं जहि मृगाधिपतिघोटे ॥ ३५.९॥

वेदचयवेदिजनवादविषयस्य
प्रतियुतलोकततिशोकशमनस्य ।
वेतनविवर्जितभटोऽयमहमङ्घ्रेः
शीतकरपोतधरपुण्यवनिते ते ॥ ३५.१०॥

कार्यमयि मे किमपि कार्यपटुबुद्धेः
पादसरसीजयुगलीपरिजनस्य ।
अम्ब वद जम्भरिपुगीतगुणजाले
शुम्भकुलनाशकरि शम्भुकुलयोषे ॥ ३५.११॥

त्वं यदि शिलावदयि नो वदसि कृत्यं
नास्ति तव राज्यपटुबुद्धिरिति सत्यम् ।
आदिश यथार्हकरणीयकृतिनित्यं
राज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥ ३५.१२॥

पञ्चसु विहाय मनसः कमपि सङ्गं
पुत्रधनमित्रजनबान्धववधूषु ।
एष भजते जननि पादजलजं ते
पालय नु मुञ्च नु तवोपरि स भारः ॥ ३५.१३॥

वज्रधरमुख्यसुरसञ्चयकिरीट-
स्थापितमहार्घमणिरञ्जितनखाय ।
जीवितमदायि जगदीश्वरि मदीयं
पादजलजाय तव पालय नु मा वा ॥ ३५.१४॥

देहि जगदीश्वरि न वा मदभिलाषं
पाहि करुणावति न वा कुलमिदं नः ।
शूलधरकामिनि सुरासुरनिषेव्यं
पादकमलं तव परे न विजहामि ॥ ३५.१५॥

पासि किल पादयुगकिङ्करसमूहं
हंसि किल पापततिमापदि नुता त्वम् ।
दन्तिवदनप्रसु वदन्ति मतिमन्तो
नानृतमिदं भवतु नाकिजनवर्ण्ये ॥ ३५.१६॥

शक्रमुखदेवततिवन्दितविसृष्टे
वक्रघनकेशि चरणे तव लुठन्तम् ।
आपदि निमग्नमिममाश्रितमनाथं
नन्दिहयसुन्दरि न पालयसि केन ॥ ३५.१७॥

घोषमयमम्ब विदधाति पदलग्नो
नावसि पुराणि किमु नारि बधिराऽसि ।
वन्दिसुरबृन्दनुतिभाषितहृतं वा
कर्णयुगलं तव कपालिकुलयोषे ॥ ३५.१८॥

अम्ब भव बिम्बफलकल्परदचेले
शम्बरसपत्नबलकारिबहुलीले ।
प्रागमृतभानुमुकुटस्य मदयित्री
तं कुरु ततः परमुरीकृतमदर्थम् ॥ ३५.१९॥

निर्मलसुधाकरकलाकलितमस्ते
धर्मरतपालिनि दयावति नमस्ते ।
एतमव देवि चरणाम्बुरुहबन्धुं
शीतधरणीधरसुते गमय नान्धुम् ॥ ३५.२०॥

अद्रिकुलपालककुलध्वजपताके
भद्रगजगामिनि दरिद्रमयि मत्या ।
क्षुद्रमिव शोच्यमिममङ्घ्रिजलजाप्तं
रुद्रदयिते जननि पाहि न जहीहि ॥ ३५.२१॥

अस्तु तव पादकमले स्थितिरजस्रं
नास्ति परदुःखविवशे हृदि तु शान्तिः ।
अस्तु करुणेऽयमस्तु मतिलोपः
कष्टमिदमम्ब मम भूरि परिशिष्टम् ॥ ३५.२२॥

दुःखसुखभेदरहिता न मतिरासीत्
साधुखलभेदरहिता न मतिरासीत् ।
भाग्यमितिमान्यमथवा मम तदेतन्-
मातरिह सङ्घभजने यदवकाशः ॥ ३५.२३॥

अस्तु मम भेदमतिरस्तु मम पक्षो
यत्नपरताऽस्तु मम मास्तु च विमोक्षः ।
मोक्षमयि वेद्मि कुलकष्टततिमोक्षं
प्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥ ३५.२४॥

शाक्वरगणेन मुखरेऽत्र गणनाथे
विष्णुयशसीशवधु जिष्णुमुखवन्द्ये ।
अम्ब करुणां कुरु शिवङ्करि निरङ्क-
स्वच्छकिरणार्भकविभूषितललाटे ॥ ३५.२५॥