उमासहस्रनामस्तोत्रम्/द्वितीयशतकम्/सप्तमस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

व्योमशरीरा, मातृकादिविभूतयश्च (वसन्ततिलकावृत्तम्)

वाणीसरोरुहदृशो हयराजहंसो
वक्त्रारविन्दनिलयाद्बहिरागतायाः ।
आलापकालदरहास इह स्थितानां
क्षेमं करोतु सुतरां हरसुन्दरीयः ॥ ७.१॥

नादोऽसि वागसि विभाऽसि चिदस्यखण्डा
खण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते ।
तत्तादृशीं निखिलशक्तिसमष्टिमीशे
त्वामन्तरिक्षपरिकॢप्ततनुं नमामि ॥ ७.२॥

विश्वप्रसिद्धविभवास्त्रिषु विष्टपेषु
याः शक्तयः प्रविलसन्ति परःसहस्राः ।
तासां समष्टिरतिचित्रनिधानदृष्टिः
सृष्टिस्थितिप्रलयकृद् भुवनेश्वरि त्वम् ॥ ७.३॥

जाने न यत्तव जगज्जनयित्रि रूपं
सङ्कल्प्यते किमपि तन्मनसो बलेन ।
सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रि
विन्यस्यते तव वचोतिगधाम नाम ॥ ७.४॥

कामं वदन्तु वनितामितिहासदक्षा-
स्त्वां सर्वलोकजनयित्रि सदेहबन्धाम् ।
सत्यं च तद्भवतु सा तव काऽपि लीला
दिव्यं रजस्तु तव वास्तविकं शरीरम् ॥ ७.५॥

भूजन्मपांसुभिरगर्हितशुद्धरूपा
या काऽपि पांसुपटली विपुलेऽन्तरिक्षे ।
सा ते तनुः सुमहती वरदे सुसूक्ष्मा
तामेव देवसरणिं कथयन्ति धीराः ॥ ७.६॥

या देवि देवसरणिर्भवमग्नदुर्गा
वैरोचनीति कथिता तपसा ज्वलन्ती ।
राजीवबन्धुमहसा विहिताङ्गरागा
सा ते तनुर्भवति सर्वसुपर्ववर्ण्ये ॥ ७.७॥

प्राणास्तवात्र हृदयं च विराजतेऽत्र
नेत्राणि चात्र शतशः श्रवणानि चात्र ।
घ्राणानि चात्र रसनानि तथा त्वचश्च
वाचोऽत्र देवि चरणानि च पाणयोऽत्र ॥ ७.८॥

सर्वत्र पश्यसि शृणोषि च सर्वतोऽम्ब
सर्वत्र खादसि विजिघ्रसि सर्वतोऽपि ।
सर्वत्र च स्पृशसि मातरभिन्नकाले
कः शक्नुयान्निगदितुं तव देवि भाग्यम् ॥ ७.९॥

सर्वत्र नन्दसि विमुञ्चसि सर्वतोऽम्ब
सर्वत्र संसरसि गर्जसि सर्वतोऽपि ।
सर्वत्रदेवि कुरुषे तव कर्मजाल-
वैचित्र्यमीश्वरि निरूपयितुं क्षमः कः ॥ ७.१०॥

विश्वाम्बिके त्वयि रुचां पतयः कियन्तो
नानाविधाब्धिकलिता क्षितयः कियत्यः ।
बिम्बानि शीतमहसां लसतां कियन्ति
नैतच्च वेद यदि को विबुधो बहुज्ञः ॥ ७.११॥

अव्यक्तशब्दकलयाऽखिलमन्तरिक्षं
त्वं व्याप्य देवि सकलागमसम्प्रगीते ।
नादोऽस्युपाधिवशतोऽथ वचांसि चासि
ब्राह्मीं वदन्ति कवयोऽमुकवैभवां त्वाम् ॥ ७.१२॥

नानाविधैर्भुवनजालसवित्रि रूपैर्-
व्याप्तैकनिष्कलगभीरमहस्तरङ्गैः ।
व्यक्तं विचित्रयसि सर्वमखर्वशक्ते
सा वैष्णवी तव कला कथिता मुनीन्द्रैः ॥ ७.१३॥

व्यक्तित्वमम्ब हृदये हृदये दधासि
येन प्रभिन्न इव बद्ध इवान्तरात्मा ।
सेयं कला भुवननाटकसूत्रभर्त्रि
माहेश्वरीति कथिता तव चिद्विभूतिः ॥ ७.१४॥

आहारशुद्धिवशतः परिशुद्धसत्त्वे
नित्यस्थिरस्मृतिधरे विकसत्सरोजे ।
प्रादुर्भवस्यमलतत्त्वविभासिका या
सा त्वं स्मृता गुरुगुहस्य सवित्रि शक्तिः ॥ ७.१५॥

हव्यं यया दिविषदो मधुरं लभन्ते
कव्यं यया रुचिकरं पितरो भजन्ते ।
अश्नाति चान्नमखिलोऽपि जनो ययैव
सा ते वराहवदनेति कलाऽम्ब गीता ॥ ७.१६॥

दुष्टान्निहंसि जगतामवनाय साक्षा-
दन्यैश्च घातयसि तप्तबलैर्महद्भिः ।
दम्भोलिचेष्टितपरीक्ष्यबला बलारेः
शक्तिर्न्यगादि तव देवि विभूतिरेषा ॥ ७.१७॥

सङ्कल्परक्तकणपानविवृद्धशक्त्या
जाग्रत्समाधिकलयेश्वरि ते विभूत्या ।
मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्या
चामुण्डया तनुषु देवि न किं कृतं स्यात् ॥ ७.१८॥

त्वं लोकराज्ञि परमात्मनि मूलमाया
शक्रे समस्तसुरभर्तरि जालमाया ।
छायेश्वरान्तरपुमात्मनि योगमाया
संसारसक्तहृदयेष्वसि पाशमाया ॥ ७.१९॥

त्वं भूतभर्तरि भवस्यनुभूतिनिद्रा
सोमस्यपातरि बिडौजसि मोदनिद्रा ।
सप्ताश्वबिम्बपुरुषात्मनि योगनिद्रा
संसारमग्नहृदयेष्वसि मोहनिद्रा ॥ ७.२०॥

विष्णुश्चकार मधुकैटभनाशनं यन्-
मुक्तः सहस्रदलसम्भवसंस्तुता सा ।
काली घनाञ्जननिभप्रभदेहशालि-
न्युग्रा तवाम्ब भुवनेश्वरि कोऽपि भागः ॥ ७.२१॥

विद्युत्प्रभामयमधृष्यतमं द्विषद्भि-
श्चण्डप्रचण्डमखिलक्षयकार्यशक्तम् ।
यत्ते सवित्रि महिषस्य वधे स्वरूपं
तच्चिन्तनादिह नरस्य न पापभीतिः ॥ ७.२२॥

शुम्भं निशुम्भमपि या जगदेकवीरौ
शूलाग्रशान्तमहसौ महती चकार ।
सा कौशिकी भवति काशयशाः कृशोद-
र्यात्माङ्गजा तव महेश्वरि कश्चिदंशः ॥ ७.२३॥

माये शिवे श्रितविपद्विनिहन्त्रि मातः
पश्य प्रसादभरशीतलया दृशा माम् ।
एषोऽहमात्मजकलत्रसुहृत्समेतो
देवि त्वदीयचरणं शरणं गतोऽस्मि ॥ ७.२४॥

धिन्वन्तु कोमलपदाः शिववल्लभाया-
श्चेतो वसन्ततिलकाः कविकुञ्जरस्य ।
आनन्दयन्तु च पदाश्रितसाधुसङ्घं
कष्टं विधूय सकलं च विधाय चेष्टम् ॥ ७.२५॥