उमासहस्रनामस्तोत्रम्/द्वितीयशतकम्/पञ्चमस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

परिणयः (उपजातिवृत्तम्)

श्रीखण्डचर्चामिव कल्पयन्त्यो
मुहुः कपोलेषु सखीजनस्य ।
श्रीकण्ठकान्ताहसिताङ्कुराणां
श्रीमन्ति कुर्वन्तु जगन्ति भासः ॥ ५.१॥

कीर्तिर्वलक्षा कुसुमायुधस्य
स्वर्णाद्रिकोदण्डजयोन्नतस्य ।
दरस्मितश्रीर्द्विरदास्यमातुर्-
द्राघीयसीं वो वितनोतु भूतिम् ॥ ५.२॥

प्रमथ्यमानामृतराशिवीचि-
प्रोद्गच्छदच्छाच्छतुषारकल्पाः ।
युष्माकमिच्छां विदधत्वमोघां
विघ्नेशमातुर्दरहासलेशाः ॥ ५.३॥

चन्द्रातपः कश्चन सम्प्रसन्नो
महेशनेत्रातिथितर्पणो नः ।
मनोभिलाषं सफलीकरोतु
महेश्वरीहासलवप्रकाशः ॥ ५.४॥

वलक्षवक्षोजपटाञ्चलेन
चलेन सार्धं कृतकेलयो नः ।
पुरत्रयारातिकलत्रहास-
भासो निरासं विपदां क्रियासुः ॥ ५.५॥

भूयासुरायासहराणि तानि
स्मितानि भूतेशमृगीदृशो नः ।
येषां त्विषो बिभ्रति दिग्वधूटी-
गण्डेषु कर्पूरपरागलीलाम् ॥ ५.६॥

कुर्वन्तु कामं सफलं (त्व) मदीयं
कुलाद्रिकन्याहसितानि तानि ।
येषां मयूखैः क्रियते सिताद्रेर्-
उद्यानवाटीषु नवो वसन्तः ॥ ५.७॥

आम्रेडितं भूषणचन्द्रभासां
नासाविभूषामहसां द्विरुक्तिः ।
पुरारिनारीस्मितकान्तयो मे
पूर्णानि कुर्वन्तु समीहितानि ॥ ५.८॥

निर्माय विश्वालयमम्ब शर्व-
स्त्वया समं शिल्पविदा स शिल्पी ।
विहर्तुमिच्छन्नयि वोढुमैच्छ-
न्नारीं भवन्तीं पुरुषो भवंस्त्वाम् ॥ ५.९॥

दिव्यं दुकूलं धवलं दधाना
वेण्या फणीन्द्रोपमया लसन्ती ।
प्रफुल्लराजीवविलोचना त्वं
प्रपञ्चभर्तुर्नयनान्यहार्षीः ॥ ५.१०॥

प्रत्यङ्गबन्धं ज्वलदुत्तमं ते
भुजङ्गराजोपमवेणिरूपम् ।
आत्मैकनिष्ठस्य च विश्वभर्तुर्-
आराधयामास विलोचनानि ॥ ५.११॥

अभूस्त्वमाद्यस्य मनोमदाय
स चापि ते प्रीतिपदं बभूव ।
न केवलं वां सकलस्य चासी-
द्दाम्पत्यबन्धस्य तदम्ब बीजम् ॥ ५.१२॥

तवातिकान्ता नयानान्तवृत्ति-
र्हासः पुरारेश्च नवेन्दुहारी ।
उभौ विवाहोत्सवपूर्वरङ्गं
निर्वर्तयामासतुरादिरामे ॥ ५.१३॥

दातुं प्रभुः सान्त्वयितुं समर्थः
कर्तुं क्षमस्तर्जयितुं च शक्तः ।
संरक्षतान्मां तव सर्ववन्द्ये
करस्तुषारांशुभृता गृहीतः ॥ ५.१४॥

स्प्रष्टुं न शक्या परमे परैस्त्वं
स चान्यया चिन्तयितुं न शक्यः ।
त्वमेव शर्वस्य स एव तेऽम्ब
दाम्पत्यमेवं युवयोस्तु सत्यम् ॥ ५.१५॥

निजाद्वतंसेन्दुत इन्दुमन्य-
मुत्पाद्य ते शम्भुरदाद्वतंसम् ।
मूर्तामिवासौ शुभगात्रि रात्रिं
प्राप्य त्वदीयां कबरीं चकासे ॥ ५.१६॥

बभूविथागेन्द्रगृहे यदा त्वं
स चेश्वरस्तत्र चकार वासम् ।
विलोकमानस्तव देवि विद्युत्
पाञ्चालिकायाः कमनीयभावम् ॥ ५.१७॥

सिद्धं स वां साधयितुं प्रवृत्तो
योगं प्रदग्धो मदनश्च कल्पे ।
वशीति कीर्तिं गिरिशस्य भर्तुं
तुभ्यं त्वपर्णेति यशश्च कर्तुम् ॥ ५.१८॥

घोरं तपश्चेद्रचितं त्वयाऽपि
प्राग्रूपभर्तुः समनुग्रहाय ।
विहाय यत्नं क इहाखिलाऽम्ब
सम्बद्धमप्यर्थमुपैतु जन्तुः ॥ ५.१९॥

ज्वलत्कपर्दो दहनाङ्कभालः
कपालमाली करिकृत्तिवासाः ।
भुजङ्गभूषो भसिताङ्गरागः
पुष्पेषु वैरी परुषाट्टहासः ॥ ५.२०॥

श्मशानवासी पुरुषस्त्रिशूली
जहार ते चेदनघाङ्गि चेतः ।
दृष्टान्तमर्थोऽयमवाप नैव
प्रीतिर्बहिःकारणमाश्रितेति ॥ ५.२१॥

रूपं पुरारेरथवा तदेतत्
सेयं च चेष्टा समयान्तरेषु ।
कान्तं वपुः कान्ततराश्च लीला-
स्त्वया समं खेलितुमेष धत्ते ॥ ५.२२॥

प्रहृष्टयक्षः समवेतसिद्धो
नृत्यद्गणेन्द्रो विकसन्मुनीन्द्रः ।
भूयोऽपि योगो युवयोर्हिमाद्रौ
बभार मातर्महमद्वितीयम् ॥ ५.२३॥

महेश्वरस्त्वां परिणीय लेभे
यावात्मजौ द्वावनघाङ्गि मुख्यौ ।
एकस्तयोर्भ्राम्यति विश्वमत्तुं
भूभृत्तटीराश्रयते बतान्यः ॥ ५.२४॥

सङ्कीर्तयन्त्यो जगतां जनन्याः
कल्याणवार्ताः कमनीयकीर्तेः ।
इमाः प्रमोदाय सतां भवन्तु
सन्दर्भशुद्धा उपजातयो नः ॥ ५.२५॥