उमासहस्रनामस्तोत्रम्/दशमशतकम्/चत्वारिंशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

दैवगीतम् (पादाकुलकवृत्तम्)

शमयतु पापं दमयतु दुःखं हरतु विमोहं स्फुटयतु बोधम् ।
प्रथयतु शक्तिं मन्दं हसितं मनसिजशासनकुलसुदृशो नः ॥ ४०.१॥

आर्द्रा दयया पूर्णा शक्त्या दृष्टिवशंवदविष्टपराजा ।
अखिलपुरन्ध्रीपूज्या नारी मम निश्शेषां विपदं हरतु ॥ ४०.२॥

शुद्धब्रह्मणि मोदो दैवं तत्र सिसृक्षति कामो दैवम् ।
सृजति पदार्थान् दृष्टिर्दैवं तान् बिभ्राणे महिमा दैवम् ॥ ४०.३॥

विकृतौ विकृतौ प्रकृतिर्दैवं विषये विषये सत्ता दैवम् ।
दृष्टौ दृष्टौ प्रमितिर्दैवं ध्याने ध्याने निष्ठा दैवम् ॥ ४०.४॥

स्फूर्तौ स्फूर्तौ माया दैवं चलने चलने शक्तिर्दैवम् ।
तेजसि तेजसि लक्ष्मीर्दैवं शब्दे शब्दे वाणी दैवम् ॥ ४०.५॥

हृदये हृदये जीवद्दैवं शीर्षे शीर्षे ध्यायद्दैवम् ।
चक्षुषि चक्षुषि राजद्दैवं मूले मूले प्रतपद्दैवम् ॥ ४०.६॥

अभितो गगने प्रसरद्दैवं पृथिवीलोके रोहद्दैवम् ।
दिनकरबिम्बे दीप्यद्दैवं सितकरबिम्बे सिञ्चद्दैवम् ॥ ४०.७॥

श्रावं श्रावं वेद्यं दैवं नामं नामं राध्यं दैवम् ।
स्मारं स्मारं धार्यं दैवं वारं वारं स्तुत्यं दैवम् ॥ ४०.८॥

श्रुतिषु वटूनां ग्राह्यं दैवं गृहिणामग्नौ तर्प्यं दैवम् ।
तपतां शीर्षे पुष्टं दैवं यतिनां हृदये शिष्टं दैवम् ॥ ४०.९॥

नमता पुष्पैः पूज्यं दैवं कविना पद्याराध्यं दैवम् ।
मुनिना मनसा ध्येयं दैवं यतिना स्वात्मनि शोध्यं दैवम् ॥ ४०.१०॥

स्तुवतां वाचो विदधद्दैवं स्मरतां चेतः स्फुटयद्दैवम् ।
जपतां शक्तिं प्रथयद्दैवं नमतां दुरितं दमयद्दैवम् ॥ ४०.११॥

वाचो विनयद्वह्नौ दैवं प्राणान् विनयद्विद्युति दैवम् ।
कामान् विनयच्चन्द्रे दैवं बुद्धीर्विनयत्सूर्ये दैवम् ॥ ४०.१२॥

हृदये निवसद् गृह्णद्दैवं वस्तौ निवसद्विसृजद्दैवम् ।
कण्ठे निवसत्प्रवदद्दैवं कुक्षौ निवसत्प्रपचद्दैवम् ॥ ४०.१३॥

देहे निवसद्विलचद्दैवं पञ्चप्राणाकारं दैवम् ।
भागि समस्तस्यान्ने दैवं स्वाहाकारे तृप्यद्दैवम् ॥ ४०.१४॥

बिभ्रन्नारीवेषं दैवं शुभ्रदरस्मितविभ्राड् दैवम् ।
अभ्रमदापहचिकुरं दैवं विभ्रमवासस्थानं दैवम् ॥ ४०.१५॥

शीतज्योतिर्वदनं दैवं रुचिबिन्दूपमरदनं दैवम् ।
लावण्यामृतसदनं दैवं स्मररिपुलोचनमदनं दैवम् ॥ ४०.१६॥

लक्ष्मीवीचिमदलिकं दैवं प्रज्ञावीचिमदीक्षं दैवम् ।
तेजोवीचिमदधरं दैवं सम्मदवीचिमदास्यं दैवम् ॥ ४०.१७॥

करुणोल्लोलितनेत्रं दैवं श्रीकाराभश्रोत्रं दैवम् ।
कुसुमसुकोमलगात्रं दैवं कविवाग्वैभवपात्रं दैवम् ॥ ४०.१८॥

हिमवति शैले व्यक्तं दैवं सितगिरिशिखरे क्रीडद्दैवम् ।
तुम्बुरुनारदगीतं दैवं सुरमुनिसिद्धध्यातं दैवम् ॥ ४०.१९॥

क्वचिदपि रतिशतललितं दैवं क्वचिदपि सुतरां चण्डं दैवम् ।
भक्तमनोनुगवेषं दैवं योगिमनोनुगविभवं दैवम् ॥ ४०.२०॥

चरिते मधुरं स्तुवतां दैवं चरणे मधुरं नमतां दैवम् ।
अधरे मधुरं शम्भोर्दैवं मम तु स्तन्ये मधुरं दैवम् ॥ ४०.२१॥

भुजभृतविष्टपभारं दैवं पदधृतसम्पत्सारं दैवम् ।
लालितनिर्जरवीरं दैवं रक्षितसात्त्विकधीरं दैवम् ॥ ४०.२२॥

चिच्छक्त्यात्मकमधितनु दैवं तटिदाकृत्यधिभूतं दैवम् ।
श्रुतिषु शिवेति प्रथितं दैवं जयति जगत्त्रयविनुतं दैवम् ॥ ४०.२३॥

रमणमहर्षेरन्तेवासी मध्यमपुत्रो नरसिंहस्य ।
वासिष्ठोऽयं मरुतां मातुर्गणपतिरङ्घ्रिं शरणमुपैति ॥ ४०.२४॥

त्रिभुवनभर्तुः परमा शक्तिस्सकलसवित्री गौरी जयति ।
तन्नुतिरेषा गणपतिरचिता पादाकुलकप्रान्ता जयति ॥ ४०.२५॥ 1000

॥ समाप्तं च दशमं शतकम् ॥

॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः ॥

गणपतेः कृतिः उमासहस्रं समाप्तम् ॥