उमासहस्रनामस्तोत्रम्/दशमशतकम्/एकोनचत्वारिंशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

प्रायो व्योमशरीरा (इन्द्रवज्रावृत्तम्)

व्याप्येदमिन्दोर्भुवनं य येव
प्रायेण तस्यामलचन्द्रिकाऽभूत् ।
मन्दस्तवार्तिं स धुनोतु हासो
निःशेषलोकेश्वरवल्लभायाः ॥ ३९.१॥

पूर्णे वियत्येकतटिज्ज्वलन्ती
लोकानशेषाननिशं पचन्ती ।
मेघे कदाचिन्महसा स्फुरन्ती
चण्डी प्रचण्डा हरतादघं नः ॥ ३९.२॥

गोलानि कान्यप्यधुनोद्भवन्ति
जीर्यन्ति कान्यप्यखिलेशकान्ते
यान्त्यम्बिके कान्यपि वृद्धिमत्र
पाके भवत्याः परितः प्रवृत्ते ॥ ३९.३॥

भासां विनेत्रा महता ग्रहैश्च
भूरिप्रमाणैर्युतमीशकान्ते ।
एकैकमण्डं तव लोमवच्चेत्
कस्ते महद्भाग्यमिह ब्रवीतु ॥ ३९.४॥

नाथस्य ते रूपमणोरणीयो
मातस्त्वदीयं महतो महीयः ।
जनाति यो देवि रहस्यमेतद्
व्याख्यातुमेष प्रभवत्यशेषम् ॥ ३९.५॥

यद् गर्जितं वारिदघर्षणेषु
शब्दस्तवायं सुगभीरघोषः ।
यल्लोकराज्ञि स्फुरितं तदेत-
दुज्जृम्भितं किञ्चन कान्तिवीचेः ॥ ३९.६॥

इन्द्रस्य वज्रं ज्वलितं कृशानोर्-
ज्योतिस्सहस्रच्छदबान्धवस्य ।
पीयूषभानोर्हसितं विसारि
जीवस्य चक्षुर्मम तात दैवम् ॥ ३९.७॥

यस्यैव तेजः प्रविभक्तमर्क-
विद्युच्छशाङ्कानललोचनेषु ।
गूढं तदाकाशगृहे समन्ता-
दन्तानभिज्ञं प्रणमामि दैवम् ॥ ३९.८॥

जाग्रत्सु बुद्धिर्निमिषत्सु निद्रा
शुष्केषु पक्तिस्तरुणेषु वृद्धिः ।
धीरेषु निष्ठा चपलेषु चेष्टा
देवी ममापत्तिमपाकरोतु ॥ ३९.९॥

विद्यावतो वादविधानशक्तिर्-
वीरस्य सङ्ग्रामविधानशक्तिः ।
नारीमणेर्मोहविधानशक्तिर्-
लेशत्रयं किञ्चिदापारशक्तेः ॥ ३९.१०॥

उत्साहयन्ती तपतां मनांसि
सञ्चोदयन्ती च महाक्रियासु ।
सङ्क्षोभयन्ती हृदयं खलानां
सम्मोहयन्ती च पराऽवतान्नः ॥ ३९.११॥

सञ्चालयन्ती सकलस्य देहं
व्यानस्य शक्त्या परितो लसन्त्या ।
जेतुः प्रतापेऽस्ति पलायनेऽस्ति
भीतस्य चेयं निखिलेशशक्तिः ॥ ३९.१२॥

एकं स्वरूपं बहुचित्रयोगात्
सन्दर्शयन्ती विविधं जनेभ्यः ।
सम्यग्दृशे स्वं विभुमर्पयन्ती
सर्वादिमायैव महेशजाया ॥ ३९.१३॥

यस्संश्रयेताखिलसङ्गतिस्त्वां
ध्यानेन मन्त्रेण गुणस्तवैर्वा ।
त्रैलोक्यसाम्राज्यधुरन्धरस्य
शुद्धान्तकान्ते स कृती मनुष्यः ॥ ३९.१४॥

मूलाग्निमुद्दीप्य शिरश्शशाङ्कं
सन्द्राव्य यस्तर्पयते कृती त्वाम् ।
तस्मिन्नगाधीश्वरकन्यके त्वं
प्रादुर्भवन्ती न किमादधासि ॥ ३९.१५॥

यस्त्वां सहस्रारसरोजमध्ये
सोमस्वरूपां भजतेऽम्ब योगी ।
तस्यान्तरः शान्तिमुपैति तापो
बाह्यस्य का नाम कथाऽल्पकस्य ॥ ३९.१६॥

दण्डेन योऽन्तर्दहरेऽवतीर्णः
प्राणेन वाचा महसा धिया वा ।
प्राप्नोति सोऽयं पुरमद्वितीयं
यत्र त्वमीशा सह चित्रलीला ॥ ३९.१७॥

तन्त्रोदितं विश्वविनेत्रि मन्त्रं
यस्ते नरः संयमवानुपास्ते ।
रुद्राणि सान्द्राम्बुदकेशपाशे
पाशैर्विमुक्तः स जयत्यशेषम् ॥ ३९.१८॥

पद्मासनो द्वादशवर्णशान्ती
दम्भोलिपाणिर्भुवनाधिनाथा ।
गीर्वाणमार्गो भृगुरब्जयोनिर्-
अन्ते तथाग्रे च हलां विराजी ॥ ३९.१९॥

जम्भस्य हन्ताऽनलशान्तिचन्द्रैः
संयुक्त ऊष्मा गलदेशजन्मा ।
दन्तस्थलीसम्भव ऊष्मवर्णो
वाणीपतिर्वज्रधरश्च लज्जा ॥ ३९.२०॥

विद्या त्वियं पञ्चदशाक्षराढ्या
साक्षान्महामौनगुरूपदिष्टा ।
गोप्यासु गोप्या सुकृतैरवाप्या
श्रेष्ठा विनुत्या परमेष्ठिनाऽपि ॥ ३९.२१॥

देहेष्वियं कुण्डलिनी न्यगादि
भूतेषु विद्युद् भुवनेषु चाभ्रम् ।
देवाङ्गनामस्तकलालिताङ्घ्रिर्-
देवी भवानी खलु देवतासु ॥ ३९.२२॥

चक्षुर्विधायाचलमन्तरेण
प्राणं प्रपश्यन् मनुवर्णरूपम् ।
संसेवते चेत्सकलस्य धात्रीं
सर्वेष्टलाभो विदुषः करस्थः ॥ ३९.२३॥

एकाक्षरीः पञ्चदशाक्षरीं वा
विद्याः प्रकृष्टाः सकलेशशक्तेः ।
यो भक्तियुक्तः प्रजपेदमुष्य
प्राणो वशे निस्तुलसिद्धियोनिः ॥ ३९.२४॥

एताः कवीनां पदकिङ्करस्य
पूताः प्रमोदं परमावहन्तु ।
गीतास्सभक्तिद्रवमिन्द्रवज्राः
श्वेताचलाधीश्वरवल्लभायाः ॥ ३९.२५॥