उमासहस्रनामस्तोत्रम्/तृतीयशतकम्/दशमस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

केशादिपादान्तवर्णनम् (ललितावृत्तम्)

सङ्क्षालनाय हरितां विभूतये
लोकत्रयस्य मदनाय धूर्जटेः ।
कात्यायनीवदनतः शनैः शनैर्-
निर्यन्ति शुभ्रहसितानि पान्तु नः ॥ १०.१॥

स्वल्पोऽपि दिक्षु किरणान् प्रसारयन्
मन्दोऽपि बोधममलं दधत्सताम् ।
शुभ्रोऽपि रागकृदनङ्गवैरिणो
हासः पुराणसुदृशः पुनातु नः ॥ १०.२॥

चेतोहरोऽप्यतिजुगुप्सितो भवेत्
सर्वोऽपि जीवकलया यया विना ।
सा वर्ण्यतां कथमपारचारुता
पीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥ १०.३॥

अत्यल्पदेववनितां च पार्थिवैर्-
भावैर्वयं तुलयितुं न शक्नुमः
तां किं पुनः सकलदेवसुन्दरी ।
लोकाक्षिपारणतनुप्रभामुमाम् ॥ १०.४॥

वर्षापयोदपटलस्य सान्द्रता
सूर्यात्मजोर्मिचयनिम्नतुङ्गता ।
कालाहिभूमिपतिदीर्घता च ते
केशेषु भर्गभवनेश्वरि त्रयम् ॥ १०.५॥

ईशानसुन्दरि तवास्यमण्डला-
न्नीचैर्नितान्तममृतांशुमण्डलम् ।
को वा न कीर्तयति लोष्टपिण्डकं
लोके निकृष्टमिह मानवीमुखात् ॥ १०.६॥

बिभ्रत्यमर्त्यभुवनस्थदीर्घिका
पङ्केरुहाणि वदनाय ते बलिम् ।
नो चेत् कथं भवति सौरभं मह-
द्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥ १०.७॥

गीर्वाणलोकतटिनीजलेरुहां
गन्धे शुभे भवतु ते मनोरतिः ।
लोकाधिराज्ञि तव वक्त्रसौरभे
लोकाधिराजमनसस्तु सम्मदः ॥ १०.८॥

को भाषतां तव सवित्रि चारुतां
यस्याः स्मितस्य धवलद्युतिर्लवः ।
यस्याः शरीररुचिसिन्धुवीचयः
शम्पालताः पृथुलदीप्तिभूमयः ॥ १०.९॥

लोकाम्बिके न विलसन्ति के पुरो
मन्दस्मितस्य तव रोचिषां निधेः ।
ये तु व्यधायिषत तेन पृष्ठतो
हन्तैषु काऽपि तिमिरच्छटा भवेत् ॥ १०.१०॥

किं वा रदावलिरुचिर्मुखस्य किं
सम्फुल्लता वरधियः किमूर्मिका ।
सन्तोषपादपसुमं नु शङ्कर-
प्रेमस्वरूपमुत देवि ते स्मितम् ॥ १०.११॥

दिक्षु प्रकाशपटलं वितन्वता
कोटिप्रभाकरविभक्ततेजसा ।
नेत्रेण ते विषमनेत्रवल्लभे
पङ्केरुहं क उपमाति पण्डितः ॥ १०.१२॥

श्रीकर्ण एष तव लोचनाञ्चले
भान्त्या दयादयितया प्रबोधितः ।
एतं सवित्रि मम कञ्चन स्तवं
श्रुत्वा तनोतु भरतावनेः श्रियम् ॥ १०.१३॥

स्वा नासिका भवति युञ्जतां सतां
संस्तम्भिनी चलतमस्य चक्षुषः ।
त्वन्नासिका पुरहरस्य चक्षुषः
संस्तम्भिनी भवति चित्रमम्बिके ॥ १०.१४॥

बिम्बप्रवालनवपल्लवादितः
पीयूषसारभरणाद् गुणाधिकः ।
गोत्रस्य पुत्रि शिवचित्तरञ्जकः
श्रेष्ठो नितान्तमधराधरोऽपि ते ॥ १०.१५॥

दोर्वल्लिके जननि ते तटित्प्रभा-
मन्दारमाल्यमृदुतापहारिके ।
निश्शेषबन्धदमनस्य धूर्जटेर्-
बन्धाय भद्रचरिते बभूवतुः ॥ १०.१६॥

हस्ताब्जयोस्तव मृदुत्वमद्भुतं
गृह्णाति ये सदयमेव धूर्जटिः
अत्यद्भुतं जननि दाढर्यमेतयोः
शुम्भादिदर्पविलयो ययोरभूत् ॥ १०.१७॥

राजन्तु ते कुचसुधाप्रपायिनो
लोकस्य मातरनघाः सहस्रशः ।
एतेषु कश्चन गजाननः कृती
गायन्ति यं सकलदायिसत्करम् ॥ १०.१८॥

त्वन्नाभिकूपपतितां दृशं प्रभोर्-
नेतुं विनिर्मलगुणे पुनस्तटम् ।
सौम्यत्वदीयहृदयप्रसारितः
पाशः सवित्रि तव रोमराजिका ॥ १०.१९॥

त्वन्मध्यमो गगनलोक एव चेत्
त्वद्दिव्यवैभवविदो न विस्मयः ।
प्राज्ञैर्हि सुन्दरि पुरत्रयद्विष-
स्त्वं देहिनी त्रिभुवनेन गीयसे ॥ १०.२०॥

नाभिहृदाद्विगलितः कटीशिला-
भङ्गात् पुनः पतति किं द्विधाकृतः ।
कान्तोरुयुग्ममिषतः सवित्रि ते
भावारिपूर इभशुण्डयोः समः ॥ १०.२१॥

जङ्घायुगं तव महेशनायिके
लावण्यनिर्झरि जगद्विधायिके ।
अन्तःपरिस्फुरदगुप्तसुप्रभा-
बाणाढ्यतूणयुगलं रतीशितुः ॥ १०.२२॥

पुष्पास्त्रशासननिशान्तराज्ञि ते
लोकत्रयस्थखलकम्पनं बलम् ।
श्रोणीभरेण गमने किल श्रमं
प्राप्नोषि केन तव तत्त्वमुच्यताम् ॥ १०.२३॥

यत्रैव नित्यविहृतेरभूद्रमा
राजीवमन्दिरचरीति नामतः ।
तन्मे सदा भणतु मङ्गलं शिवा
पादाम्बुसम्भवममेयवैभवम् ॥ १०.२४॥

केशादिपादकमलान्तगायिनीः
कन्तुप्रशासननिशान्तनायिका ।
अङ्गीकरोतु ललिता इमाः कृतीर्-
गौरी कवेश्चरणकञ्जसेविनः ॥ १०.२५॥