सामग्री पर जाएँ

उमासहस्रनामस्तोत्रम्/तृतीयशतकम्/एकादशस्तबकः

विकिस्रोतः तः

पादादिकेशान्तवर्णनम् (आर्यावृत्तम्)

झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने ।
दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥ ११.१॥

उपजीवद्भिः कान्तेर्लेशांस्ते जगति सुन्दरैर्भावैः ।
उपमितुमङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥ ११.२॥

अवतंसपल्लवतुलां बिभ्राणं श्रुतिनतभ्रुवः शिरसि ।
चरणं व्रजामि शरणं वामं कामारिललनायाः ॥ ११.३॥

शङ्करनयनोन्मादनमतिमधुरं भाति मतिमता वर्ण्ये ।
जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥ ११.४॥

एकैकलोकने द्वयमन्योन्यस्मरणहेतुतामेति ।
देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥ ११.५॥

नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः ।
कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥ ११.६॥

मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य ।
असिधेनुकां विशङ्के निशिततराग्रां तु रोमालिम् ॥ ११.७॥

द्विरदवदनेन पीतं षड्वदनेनाथ सकलभुवनेन ।
अक्षय्यक्षीरामृतमम्बायाः कुचयुगं जयति ॥ ११.८॥

जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्भाति ।
सान्द्रग्रथितमनोज्ञप्रसूनमालेव भुजयुगली ॥ ११.९॥

जानन्ति शक्तिमसुराः सुषमां सख्यो वदान्यतामृषयः ।
मृदुतां तवाम्ब पाणेर्वेद स देवः पुरां भेत्ता ॥ ११.१०॥

कम्बुसदृगम्ब जगतां मणिवेषोडुस्रजाकृताकल्पः ।
कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः ॥ ११.११॥

हरकान्ते वदनं ते दर्शं दर्शं वतंसशीतांशुः ।
पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥ ११.१२॥

चन्द्रं रणाय सकला चपलाक्षीवदनजातिराह्वयताम् ।
तं तु महसा मुखं ते महेशकान्ते जिगायैकम् ॥ ११.१३॥

वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् ।
निर्जित्य कमलजातेरमलं महदाजहार यशः ॥ ११.१४॥

लावण्यमरन्दाशा भ्रमद्भवालोकबम्भरं परितः ।
मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः ॥ ११.१५॥

शुद्धेन्दुसारनिर्मितमास्यार्धं ते भवानि भालमयम् ।
सकलरमणीयसारैर्निर्मितमर्धान्तरं विधिना ॥ ११.१६॥

वदनं तवाद्रिदुहितर्विजिताय नताय शीतकिरणाय ।
द्वारपपदवीं प्रददा वयमिह दरहासनामधरः ॥ ११.१७॥

ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् ।
कवयो वयं वदामः सितमहसं देवि ते हासम् ॥ ११.१८॥

बिम्बाधरस्य शोभामम्बायाः को नु वर्णयितुमीष्टे ।
अन्तरपि या प्रविश्य प्रमथपतेर्वितनुते रागम् ॥ ११.१९॥

गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः ।
अधरपुटे त्रिपुरजिते दधासि पियूषमम्ब त्वम् ॥ ११.२०॥

दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना ।
भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥ ११.२१॥

कमलाविलासभवनं करुणाकेलीगृहं च कमनीये ।
हरदयिते ते विनितहिते नयने ते जननि विजयेते ॥ ११.२२॥

सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते ।
कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥ ११.२३॥

अपि कुटिलमलिनमुग्धस्तव केशः पुत्रि गोत्रसुत्राम्णः ।
बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥ ११.२४॥

चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिनीरेताः ।
अङ्गीकरोतु शम्भोरम्भोजदृगात्मजस्यार्याः ॥ ११.२५॥