सामग्री पर जाएँ

उमासहस्रनामस्तोत्रम्/चतुर्थशतकम्/षोडशस्तबकः

विकिस्रोतः तः

अध्यात्मं शक्तिवैभवम् (कुमारललितावृत्तम्)

महोविहतमोहं महेशमहिलायाः ।
स्मितं वितनुतान्मे गृहेषु महमग्र्यम् ॥ १६.१॥

इयद्बहुलगोलं जगल्लघु दधाना ।
पितामहमुखैरप्यखण्डितविधाना ॥ १६.२॥

अदुष्टचरितेभ्यः शुभान्यभिदधाना ।
कुलानि मलिनानां हतानि विदधाना ॥ १६.३॥

दुकूलमरुणांशुप्रभं परिदधाना
हरस्य रजताद्रिक्षितीशितुरधीना ॥ १६.४॥

मुनीन्द्रकृततन्त्रप्रसिद्धबहुदाना
उमा बलमलं नस्तनोत्वतुलमाना ॥ १६.५॥

निरस्तविषयां यद् दधाति मतिकीलाम् ।
समस्तजगदीशे धृतिस्तव मतेयम् ॥ १६.६॥

श्रुता प्रवणचित्तं स्मृता नरमपापम् ।
धृता हृदि विधत्से गतस्वपरभावम् ॥ १६.७॥

अहंमतितटिन्याः सतामवनिमूलम् ।
त्वमेव किल सेयं महर्षिरमणोक्तिः ॥ १६.८॥

अहंमतिलतायास्त्वयीशवधु कन्दे ।
स्थितोऽम्ब भुवनस्य प्रविन्दति रहस्यम् ॥ १६.९॥

यदेतदखिलाम्ब प्रसिद्धमिव दृश्यम् ।
तवैव किल जालं गतो भणति मूलम् ॥ १६.१०॥

प्रपश्यसि पराची जगद्विविधभेदम् ।
स्वतः किमपि नान्यत्प्रतीचि पुरतस्ते ॥ १६.११॥

स्तुता भवसि शश्वत् स्मृता च भजने त्वम् ।
धृता भवसि योगे तता भवसि बोधे ॥ १६.१२॥

स्तुता दिशसि कामं स्मृता हरसि पापम् ।
धृताऽस्यधिकशक्त्यै तता भवसि मुक्त्यै ॥ १६.१३॥

विशुध्यति यताशी प्रमाद्यति न शुद्धः ।
प्रमादरहितस्य स्फुटे लससि कञ्जे ॥ १६.१४॥

स्फुटं यदि सरोजं नटीव पटु नाट्यम् ।
करोषि यतबुद्धेर्जगज्जननि शीर्षे ॥ १६.१५॥

शिरोगतमिदं नः प्रफुल्लमयि पद्मम् ।
अनल्पमकरन्दं त्वमम्ब भव भृङ्गी ॥ १६.१६॥

सरोजमतुदन्ती पिबाम्ब मकरन्दम् ।
महामधुकरि त्वं भजेर्मदममन्दम् ॥ १६.१७॥

अमङ्गलमितः प्राङ् मयेशवधु भुक्तम् ।
इतः परममेये सुखान्यनुभव त्वम् ॥ १६.१८॥

अहङ्कृतिवशान्मे चिदीश्वरि पुराऽभूत् ।
तवाभवदिदानीं ममास्ति न विभुत्वम् ॥ १६.१९॥

यदाऽभवदियं मे तदाऽन्वभवदार्तिम् ।
तवेश्वरि भवन्ती भुनक्तु शमिदानीम् ॥ १६.२०॥

करोत्वियमहन्ता विवादमधुनाऽपि ।
तथाऽपि पुरतस्ते महेश्वरि विवीर्या ॥ १६.२१॥

इयं च तव बुद्धेर्यतो भवति वृत्तिः
इमामपि कुरु स्वां क्षमावति विरोषा ॥ १६.२२॥

सुधाब्धिरिह मातस्तरङ्गशतमाली ।
चिदभ्रपुरमत्र प्रभापदमदभ्रम् ॥ १६.२३॥

कुरु त्वमिदमेकं निजालयशतेषु ।
सवित्रि विहरास्मिन् यथेष्टमयि देहे ॥ १६.२४॥

कुमारललितानां कृतिर्गणपतीया ।
करोतु मुदमेषा कपर्दिदयितायाः ॥ १६.२५॥