उमासहस्रनामस्तोत्रम्/अष्टमशतकम्/एकत्रिंशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

नामवैभवम् (उपजातिवृत्तम्)

दरस्मितश्रीकपटा सुपर्व-
स्रोतस्विनी पर्वतजास्यजाता ।
पङ्कं मम क्षालयतादशेषं
संसारमग्ने हृदये विलग्नम् ॥ ३१.१॥

हराट्टहासेन समं मिलित्वा
पित्रेव पुत्रो गुरुणेव शिष्यः ।
विभ्राजमानो मम शं करोतु
हासाङ्कुरः केसरिवाहनायाः ॥ ३१.२॥

नमश्शिवायै भणत द्विपादो
युष्माकमग्र्यां धिषणां दधत्यै ।
आधारचक्रेशितुरम्बिकायै
ब्रह्माण्डचक्रस्य विधायिकायै ॥ ३१.३॥

नदन्ति गावोऽपि विशिष्टकाले-
ष्वम्बेति यो नाह्वयते स किं ना ।
लक्ष्यं पुनः प्राणवदस्तु सर्वं
सर्वस्य चान्तर्हि पराऽस्ति शक्तिः ॥ ३१.४॥

आत्मन्युतान्यत्र विधाय लक्ष्यं
तां शक्तिमाद्यामखिलेषु सुप्ताम् ।
यावत्प्रबोधं मुहुराह्वयस्व
प्रबुध्यते सा यदि किन्न्वसाध्यम् ॥ ३१.५॥

ये नाम शान्तिं परमां वहन्तो
नामानि शीताचलपुत्रिकायाः ।
सङ्कीर्तयन्तो विजने वसन्ति
जयन्ततातादपि ते जयन्ति ॥ ३१.६॥

नामानि सङ्कीर्तयतां जनानां
कारुण्यवत्याः करिवक्त्रमातुः ।
पुनर्जनन्या जठरे निवासा-
दायासवत्ता भवतीति मिथ्या ॥ ३१.७॥

पापैस्समन्तात्समभिद्रुतोऽपि
विश्वस्य ते विक्रममस्मि धीरः ।
न चेद्रसज्ञे भवती ब्रवीति
नामानि शीतांशुभृतो हतोऽहम् ॥ ३१.८॥

देहीति सम्पल्लवदर्पितानां
द्वारेषु घोषं कुरुषे परेषाम् ।
भवानि भद्रे भुवनाम्ब दुर्गे
पाहीति नायाति किमम्ब जिह्वे ॥ ३१.९॥

वाक्यानि वक्तुं यदि ते रसज्ञे
रसोज्ज्वलानि व्यसनं गरीयः ।
किं वा नमोन्तानि सुधां किरन्ति
नामानि नो सन्ति कुमारमातुः ॥ ३१.१०॥

यद् गीयते शैलसुताभिधानं
तदेव बोध्यं सुकृतं प्रधानम् ।
अज्ञानिलोकस्य कृते भणन्ति
यज्ञादिपुण्यानि पराणि विज्ञाः ॥ ३१.११॥

साम्ना प्रयुक्तेन जगद्वशे स्यात्
नाम्ना सदोक्तेन जगद्विनेत्री ।
वेदोभयं सम्यगिदं कृती यो
भवे भयं तस्य कुतोऽपि न स्यात् ॥ ३१.१२॥

सङ्कीर्तनात्तुष्यति शर्वयोषा
तुष्टा त्वभीष्टं न ददाति नैषा ।
इमं त्वविज्ञाय जगत्युपायं
ब्रजन्त्यपायं बहुधा मनुष्याः ॥ ३१.१३॥

भाषे भुजङ्गाभरणप्रियाया
नामानि कामानितरान् विहाय ।
अपि प्रपञ्चातिगघोरकृत्यं
करोतु किं मां तरणेरपत्यम् ॥ ३१.१४॥

यज्ञेन दानैः कठिनव्रतैर्वा
सिद्धिं य इच्छेत्स ग्रहीतुमिच्छेत् ।
मातुः शयानोऽङ्कतले शशाङ्कं
महेश्वरीं कीर्तयतस्तु सिद्धिः ॥ ३१.१५॥

रहस्यतन्त्राणि विविच्य दूरं
व्याजं विमुच्य प्रवदामि सारम् ।
नामैव कामारिपुरन्ध्रिकायाः
सिद्धेर्निदानं न मखो न दानम् ॥ ३१.१६॥

पीयूषमीषन्मधुरं भणन्ति
ये नाम रामाधरपानलोलाः ।
कामारिरामाह्वयगानलोलाः
कवीश्वराः काञ्जिकमालपन्ति ॥ ३१.१७॥

सुधाघटः कोऽप्यधरो वधूनां
कविस्सुधातोयधरोऽभिधेयः ।
अयं सुधावीचिवितानमाली
नामप्रणादो नगकन्यकायाः ॥ ३१.१८॥

सुरालये भातितरां सुधैका
सुधा परा वाचि महाकवीनाम् ।
बिम्बाधरे कञ्जदृशां सुधाऽन्या
सुधेतरा नामनि लोकमातुः ॥ ३१.१९॥

माधुर्यमाभात्यधरे वधूनां
चकोरबन्धोः शकले प्रसादः ।
त्रिस्रोतसो वारिणि पावनत्वं
त्रयं च नाम्नि त्रिपुराम्बिकायाः ॥ ३१.२०॥

या माधुरी प्रेमभरेण दष्टे
जागर्ति कान्तावरदन्तचेले ।
सा दृश्यते भक्तिभरेण गीते
धराधराधीशसुताभिधाने ॥ ३१.२१॥

यत्ते जगल्लम्पटकेऽपि वर्णा-
स्तन्मेऽमृतं नाम नगात्मजायाः ।
लालामयो यो मम तं ब्रवीषि
सुधामयं स्त्रीदशनच्छदं त्वम् ॥ ३१.२२॥

उच्चारयोच्चाटितपातकानि
नामानि जिह्वे भुवनस्य मातुः ।
तदा वदामो मधुचूतरम्भा-
रामाधरास्ते रुचये यदि स्युः ॥ ३१.२३॥ ᳚ ᳚ @@773 ᳚ ᳚

आक्षेपमिक्षोरधिकं विधत्ते
पीयूषदोषानभितोऽभिधत्ते ।
कान्ताधरारब्धदुरन्तवादः
कपर्दिकान्तावरनामनादः ॥ ३१.२४॥

विश्वासहीनैः सुतरामबोध्यं
नामानुभावं नगकन्यकायाः ।
जयन्तु सिद्धैरपि गीयमानं
गायन्त्य एता उपजातयो नः ॥ ३१.२५॥