उपदेशसाहस्री (गद्यप्रबन्धः)

विकिस्रोतः तः
Jump to navigation Jump to search


।।श्रीः।।

।।उपदेशसाहस्री।।

गद्यप्रबन्धः।

शिष्यानुशासनप्रकरणम्।

 

।।श्रीः।।

 

।।उपदेशपञ्चकम्।।

 

।। 1।।अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानामर्थिनामर्थाय।

 

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां

तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्।

पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता-

 

मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्।। 1।।

 

।। 2।।तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात्सर्वस्माद्विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसंपन्नाय शुचये ब्राहृणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्राूयात्पुनः पुनः यावद्ग्रहणं दृढीभवति।

 

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां

शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम्।

सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां

 

ब्राहृैकाक्षरमथ्र्यतां श्रुतिशिरोवाक्यं समाकण्र्यताम्।। 2।।

 

।। 3।।श्रुतिश्च -- 'परीक्ष्य..........तत्त्वतो ब्राहृविद्याम् ' इति। दृढगृहीता हि विद्या आत्मनः श्रेयसे संतत्यै च भवति। विद्यासंततिश्च प्राण्यनुग्रहाय भवति, नौरिव नदीं तितीर्षोः। शास्त्रं च -- 'यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूयः ' इति। अन्यथा च ज्ञानप्राप्त्यभावात् 'आचार्यवान् पुरुषो वेद ' 'आचार्याद्धैव विद्या विदिता ' 'आचार्यः प्लावयिता तस्य सम्यग्ज्ञानं प्लव इहोच्यते ' इत्यादिश्रुतिभ्यः, 'उपदेक्ष्यन्ति ते ज्ञानम् ' इत्यादिस्मृतिभ्यश्च।

 

वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां

दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम्।

ब्राहृास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां

 

देहेऽहंमतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम्।। 3।।

 

।। 4।।शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर्बुद्ध्वा तदग्रहणहेतून् अधर्मलौकिकप्रमादनित्यानित्यवस्तुविवेकविषयासंजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षणजात्याद्यभिमानादीन् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैः अपनयेत् अक्रोधादिभिः अहिंसादिभिश्च यमैः, ज्ञानाविरुद्धैश्च नियमैः।

 

क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां

स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम्।

शीतोष्णादि विषह्रतां न तु वृथा वाक्यं समुच्चार्यता-

 

मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम्।। 4।।

 

।। 5।।अमानित्वादिगुणं च ज्ञानोपायं सम्यग्ग्राहयेत्।

 

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां

पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम्।

प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां

 

प्रारब्धं त्विह भुज्यतामथ परब्राहृात्मना स्थीयताम्।। 5।।

 

।। 6।।आचार्यस्तु ऊहापोहग्रहणधारणशमदमदयानुग्रहादिसंपन्नो लब्धागमो दृष्टादृष्टभोगेष्वनासक्तः त्यक्तसर्वकर्मसाधनो ब्राहृवित् ब्राहृणि स्थितः अभिन्नवृत्तो दम्भदर्पकुहकशाठ¬मायामात्सर्यानृताहंकारममत्वादिदोषविवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिशेत् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' 'यत्र नान्यत्पश्यति ' 'आत्मैवेदं ' सर्वम् ' 'आत्मा वा इदमेक एवाग्र आसीत् ' 'सर्वं खल्विदं ब्राहृ ' इत्याद्याः आत्मैक्यप्रतिपादनपराः श्रुतीः।

 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-

वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ

उपदेशपञ्चकं संपूर्णम्।।

 

।। 7।।उपदिश्य च ग्राहयेत् ब्राहृणो लक्षणम् 'य आत्मापहतपाप्मा ' 'यत्साक्षादपरोक्षाद्ब्राहृ '

'योऽशनायापिपासे ' 'नेति नेति ' 'अस्थूलमनणु ' 'स एष नेति नेति ' 'अदृष्टं द्रष्टृ '

'विज्ञानमानन्दं ब्राहृ ' 'सत्यं ज्ञानमनन्तं ब्राहृ ' 'अदृश्येऽनात्म्येऽनिरुक्ते ' 'स वा एष महानज आत्मा ' 'अप्राणो ह्रमनाः ' 'सबाह्राभ्यन्तरो ह्रजः ' 'विज्ञानघन एव ' 'अनन्तरमबाह्रम् '

'अन्यदेव तद्विदितादथो अविदितादधि ' 'आकाशो वै नाम ' इत्यादिश्रुतिभिः।

 

 

 

।। 8।।स्मृतिभिश्च -- 'न जायते म्रियते ' 'नादत्ते कस्यचित्पापम् ' 'यथाकाशस्थितो नित्यम् '

'क्षेत्रज्ञं चापि मां विद्धि ' 'न सत्तन्नासदुच्यते ' 'अनादित्वान्निर्गुणत्वात् ' 'समं सर्वेषु भूतेषु '

'उत्तमः पुरुषस्त्वन्यः ' इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च।

 

।। 9।।एवं श्रुतिस्मृतिभिः गृहीतपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीर्षुं पृच्छेत् -- कस्त्वमसि सोम्य इति।

 

।। 10।।स यदि ब्राूयात् -- ब्रााहृणपुत्रः अदोन्वयः ब्राहृचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राट् संसारसागरात् जन्ममृत्युमहाग्राहात् उत्तितीर्षुरिति।

 

।। 11।।आचार्यो ब्राूयात् -- इहैव तव सोम्य मृतस्य शरीरं वयोभिरद्यते मृद्भावं वापद्यते। तत्र कथं संसारसागरादुद्धर्तुमिच्छसीति। न हि नद्याः अवरे कूले भस्मीभूते नद्याः पारं तरिष्यसीति।

 

।। 12।।स यदि ब्राूयात् -- -अन्योऽहं शरीरात्। शरीरं तु जायते म्रियते वयोभिरद्यते मृद्भावमापद्यते शस्त्राग्न्यादिभिश्च विनाश्यते व्याध्यादिभिश्च प्रयुज्यते। तस्मिन् अहं स्वकृतधर्माधर्मवशात् पक्षी नीडमिव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशात् शरीरान्तरं यास्यामि पूर्वनीडविनाशे पक्षीव नीडान्तरम्। एवमेवाहमनादौ संसारे देवमनुष्यतिर्यङ्निरयस्थानेषु स्वकर्मवशादुपात्तमुपात्तं शरीरं त्यजन् नवं नवं चान्यदुपाददानो जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणादस्मान्निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारचक्रभ्रमणप्रशमनाय।तस्मान्नित्य एवाहं शरीरादन्यः। शरीराणि आगच्छन्त्यपगच्छन्ति च वासांसीव पुरुषस्येति।

 

।। 13।।आचार्यो ब्राूयात् -- साध्ववादीः, सम्यक्पश्यसि। कथं मृषा अवादीः ब्रााहृणपुत्रोऽदोन्वयो ब्राहृचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राडिति।

 

।। 14।।स यदि ब्राूयात् -- भगवन् कथमहं मृषावादिषम् इति।

 

।। 15।।तं प्रति ब्राूयादाचार्यः -- -यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयसंस्कारवर्जितस्यात्मनः प्रत्यभ्यज्ञासीः ब्रााहृणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति।

 

।। 16।।स यदि पृच्छेत् -- -कथं भिन्नजात्यन्वयसंस्कारं शरीरम्, कथं वा अहं जात्यन्वयसंस्कारवर्जितः इति।

 

।। 17।।आचार्यो ब्राूयात् -- -श्रृणु सोम्य तदेव यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारम्, त्वं च जात्यन्वयसंस्कारवर्जितः इत्युक्त्वा तं स्मारयेत् -- स्मर्तुमर्हसि सोम्य परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितोऽसि 'सदेव सोम्येदम् ' इत्यादिभिः श्रुतिभिः स्मृतिभिश्च, लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च।

 

।। 18।।लब्धपरमात्मलक्षणस्मृतये ब्राूयात् -- योऽसावाकाशनामा नामरूपाभ्यामर्थान्तरभूतः अशरीरः अस्थूलादिलक्षणः अपहतपाप्मत्वादिलक्षणश्च सर्वैः संसारधर्मैरनागन्धितः यत्साक्षादपरोक्षाद्ब्राहृ एष त आत्मा सर्वान्तरः अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नित्यविज्ञानस्वरूपः अनन्तरः अबाह्रः विज्ञानघन एव परिपूर्णः आकाशवत् अनन्तशक्तिः आत्मा सर्वस्य अशनायादिवर्जितः आविर्भावतिरोभाववर्जितश्च स्वात्मविलक्षणयोः नामरूपयोः जगद्बीजभूतयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वसंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद्व्याकर्ता अव्याकृतयोः।

 

।। 19।।ते नामरूपे अव्याकृते सती व्याक्रियमाणे तस्मादेतस्मादात्मन आकाशनामाकृती संवृत्ते। तच्चाकाशाख्यं भूतमनेन प्रकारेण परमात्मनः संभूतं प्रसन्नादिव सलिलान्मलमिव फेनम्। न सलिलं न च सलिलादत्यन्तं भिन्नं फेनम्, सलिलव्यतिरेकेणादर्शनात्; सलिलं तु स्वच्छम् अन्यत् फेनान्मलरूपात्। एवं परमात्मा नामरूपाभ्यामन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नस्तद्विलक्षणः। ते नामरूपे अव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते।

 

।। 20।।ततोऽपि स्थूलभावमापद्यमाने नामरूपे व्याक्रियमाणे वायुभावमापद्येते, ततोऽप्यग्निभावम्, अग्नेरब्भावम्, ततः पृथिवीभावम्, इत्येवंक्रमेण पूर्वपूर्वभवस्योत्तरोत्तरानुप्रवेशेन पञ्च महाभूतानि पृथिव्यान्तान्युत्पन्नानि। ततः

पञ्चगुणविशिष्टा पृथिवी। पृथिव्याश्च पञ्चात्मिका ब्राीहियवाद्या ओषधयः जायन्ते। ताभ्यो भक्षिताभ्यो लोहितं श्रुक्लं च स्त्रीपुंसशरीरसंबन्धि जायते। तदुभयम् ऋतुकाले अविद्याप्रयुक्तकामखजनिर्मथनोद्भूतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते। तत्स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं नवमे दशमे वा मासि जायते।

 

।। 21।।तज्जातं लब्धनामाकृतिकं जातकर्मादिभिः मन्त्रसंस्कृतं पुनः उपनयनसंस्कारयोगेण ब्राहृचारिसंज्ञं भवति। तदेव शरीरं पत्नीयोगसंस्कारयोगेण गृहस्थसंज्ञं भवति। तदेव वनस्थसंस्कारेण तापससंज्ञं भवति। तदेव क्रियानिवृत्तिनिमित्तेन संस्कारेण परिव्राट्संज्ञं भवति। इत्येवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम्।

 

।। 22।।मनश्चेन्द्रियाणि च नामरूपात्मकान्येव, 'अन्नमयं हि सोम्य मनः ' इत्यादिश्रुतिभ्यः।

 

।। 23।।कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जितः इत्येतच्छृणु -- योऽसौ नामरूपयोव्र्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूपे इह प्रविष्टः अन्यैरदृष्टः स्वयं पश्यन् तथा अश्रुतः श्रृण्वन् अमतो मन्वानः अविज्ञातो विजानन् सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इति। अस्मिन्नर्थे श्रुतयः सहरुाशः -- - 'तत्सृष्ट्वा। तदेवानुप्राविशत् ' 'अन्तः प्रविष्टः शास्ता जनानाम् ' 'स एष इह प्रविष्टः ' 'एष त आत्मा ' 'स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' 'एष सर्वेषु भूतेषु गूढोऽत्मा ' 'सेयं देवतैक्षत हन्ताहमिमास्तिरुाो देवताः ' इत्याद्याः श्रुतयः।

 

।। 24।।स्मृतयोऽपि -- - 'आत्मैव देवताः सर्वाः ' 'नवद्वारे पुरे देही ' 'श्रेत्रज्ञं चापि मां विद्धि ' 'समं सर्वेषु भूतेषु ' 'उपद्रष्टानुमन्ता च ' 'उत्तमः पुरुषस्त्वन्यः ' 'अशरीरं शरीरेषु ' इत्याद्याः। तस्मात् जात्यन्वयसंस्कारवर्जितस्त्वमिति सिद्धम्।

 

।। 25।।स यदि ब्राूयात् -- -अन्य एवाहमज्ञः सुखी दुःखी बद्धः संसारी, अन्योऽसौ मद्विलक्षणः असंसारी देवः, तमहं बल्युपहारनमस्कारादिभिः वर्णाश्रमकर्मभिश्चाराध्यं संसारसागरादुत्तितीर्षुरस्मि। कथमहं स एवेति।

 

।। 26।।आचार्यो ब्राूयात् -- नैवं सोम्य प्रतिपत्तुमर्हसि, प्रतिषिद्धत्वाद्भेदप्रतिपत्तेः। कथं प्रदिषिद्धा भेदप्रतिपत्तिरित्यत आह -- 'अन्योऽसावन्योऽहमस्मीति न स वेद ' 'ब्राहृ तं परादाद्योऽन्यत्रात्मनो ब्राहृ वेद ' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' इत्येवमाद्याः।

 

।। 27।।एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति।

 

।। 28।।अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहरुाशः। 'स आत्मा तत्त्वमसि ' इति परमात्मभावं विधाय

ठआचार्यवान्पुरुषो वेद ' इत्युक्त्वा 'तस्य तावदेव चिरम् ' इति मोक्षं दर्शयन्त्यभेदविज्ञानादेव। सत्याभिसंधस्यातस्करस्येव दाहाद्यभावदृष्टान्तेन संसाराभावं दर्शयन्ति। भेददर्शनादसत्याभिसंधस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन।

 

।। 29।। 'त इह व्याघ्रो वा ' इत्यादिना च अभेददर्शनात् 'स स्वराड् भवति ' इत्युक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति 'अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति ' इति प्रतिशाखम्। तस्मात् मृषैवैवमवादीः ब्रााहृणपुत्रोऽदोन्वयः संसारी परमात्मविलक्षण इति।

 

।। 30।।तस्मात्प्रतिषिद्धत्वाद्भेददर्शनस्य, भेदविषयत्वाच्च कर्मोपादानस्य, कर्मसाधनत्वाच्च यज्ञोपवीतादेः, कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्या प्रतिषेधः कृतो वेदितव्यः; कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात्। संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि; न परमात्मनोऽभेददर्शिनः। भेददर्शनमात्रेण च ततोऽन्यत्वम्।

 

।। 31।।यदि कर्माणि कर्तव्यानि न निविवर्तयिषितानि कर्मसाधनासंबन्धिनः कर्मनिमित्तजात्याश्रमाद्यसंबन्धिनश्च, परमात्मनश्च आत्मनैवाभेदप्रतिपतिं्त नावक्ष्यत् 'स आत्मा तत्त्वमसि ' इत्येवमादिभिर्निश्चितरूपैर्वाक्यैः; भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् 'एष नित्यो महिमा ब्रााहृणस्य ' 'अनन्वागतं पुण्येनानन्वागतं पापेन ' 'अत्र स्तेनोऽस्तेनः ' इत्यादिना।

 

।। 32।।कर्मासंबन्धिस्वरूपत्वं कर्मनिमित्तवर्णाद्यसंबन्धरूपतां च नाभ्यधास्यत् कर्माणि च कर्मसाधनानि च यज्ञोपवीतादीनि यद्यपरितित्याजयिषितानि। तस्मात्ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा, परमात्माभेददर्शनविरोधात्। आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः।

 

।। 33।।स यदि ब्राूयात् -- भगवन्, दह्रमाने च्छिद्यमाने वा देहे प्रत्यक्षा वेदना; अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम। परश्चायमात्मायमात्मापहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासः सर्वगन्धरसवर्जितः श्रूयते सर्वश्रुतिषु स्मृतिषु च। कथं तद्विलक्षणः अनेकसंसारधर्मसंयुक्तः परमात्मानमात्मत्वेन मां च संसारिणं परमात्मत्वेन अग्निमिव शीतत्वेन प्रतिपद्येय? संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने अधिकृतः अभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयमिति।

 

।। 34।।तं प्रति ब्राूयात् -- यदवोचो दह्रमाने च्छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति, तदसत्। कस्मात्? दह्रमाने च्छिद्यमान इव वृक्षे उपलब्धुरुपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वात् दाहादिसमानाश्रयैव वेदना। यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोकः; न वेदनां दाहाद्युपलब्धरीति। कथम्? क्व ते वेदनेति पृष्टः शिरसि मे वेदना उरसि उदरे इति वा यत्र दाहादिस्तत्रैव व्यपदिशति, न तूपलब्धरीति। यद्युपलब्धरि वेदना स्यात् वेदनानिमित्तं वा दाहच्छेदादि वेदनाश्रयत्वेनोपदिशेद्दाहाद्याश्रयवत्।

 

।। 35।।स्वयं च नोपलभ्येत, चक्षुर्गतरूपवत्। तस्मात् दाहच्छेदादिसमानाश्रयत्वेन उपलभ्यमानत्वाद्दाहादिवत् कर्मभूतैव वेदना। भावरूपत्वाच्च साश्रया तण्डुलपाकवत्। वेदनासमानाश्रय एव तत्संस्कारः स्मृतिसमानकाल एवोपलभ्यमानत्वात् वेदनाविषयः तन्निमित्तविषयश्च द्वेषोऽपि संस्कारसमानाश्रय एव। तथा चोक्तम् -- रूपसंस्कारतुल्याधी रागद्वेषौ भयं च यत्। गृह्रते धीश्रयं तस्माज्ज्ञाता शुद्धोऽभयः सदा।

 

।। 36।।किमाश्रयाः पुनः रूपादिसंस्कारादय इति, उच्यते -- यत्र कामादयः। क्व पुनस्ते कामादयः? 'कामः संकल्पो विचिकित्सा ' इत्यादिश्रुतेः बुद्धावेव। तत्रैव रूपादिसंस्कारादयोऽपि, 'कस्मिन्नु रूपाणि प्रतिष्ठितानीति ह्मदये ' इति श्रुतेः। 'कामा येऽस्य ह्मदि श्रिताः ' 'तीर्णो हि यदा सर्वान् शोकान् ह्मदयस्य ' 'असङ्गो ह्रयम् ' 'तद्वा अस्यैतदतिच्छन्दाः ' इत्यादिश्रुतिशतेभ्यः, 'अविकार्योऽयमुच्यते ' 'अनादित्वान्निर्गुणत्वात् ' इत्यादिभ्यः -- -इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति -- -स्मृतिभ्यश्च कर्मस्थैवाशुद्धिः नात्मस्था इति।

 

।। 37।।अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावात् न परस्मादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावात् युक्तं पर एवात्माहमिति प्रतिपत्तुम्, 'तदात्मानमेवावेदहं ब्राहृास्मीति ' 'एकधैवाऽनुद्रष्टव्यम् ' 'अहमेवाधस्तात् ' 'आत्मैवाधस्तात् ' 'सर्वमात्मानं पश्येत् ' 'यत्र त्वस्य सर्वमात्मैव ' 'इदं सर्वं यदयमात्मा ' 'स एषोऽकलः, 'अनन्तरमबाह्रम् ' 'सबाह्राभ्यन्तरो ह्रजः ' 'ब्राहृैवेदम् 'एतया द्वारा प्रापद्यत ' 'प्रज्ञानस्य नामधेयानि ' 'सत्यं ज्ञानमनन्तं ब्राहृ ' 'तस्माद्वा ' 'तत्सृष्ट्वा तदेवानुप्राविशत् ' 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी ' 'अशरीरं शरीरेषु ' 'न जायते म्रियते ' 'स्वप्नान्तं जागरितान्तम् ' 'स म आत्मेति विद्यात् ' 'यस्तु सर्वाणि भूतानि ' 'तदेजति तन्नैजति ' 'वेनस्तत्पश्यन् ' 'तदेवाग्निः ' 'अहं मनुरभवं सूर्यश्च ' 'अन्तः प्रविष्टः शास्ता जनानाम् ' 'सदेव सोम्य ' 'तत्सत्यं स आत्मा तत्त्वमसि ' इत्यादिश्रुतिभ्यः।

 

।। 38।।स्मृतिभ्यश्च 'पूः प्राणिनः सर्व एव गुहाशयस्य ' 'आत्मैव देवताः ' 'नवद्वारे पुरे ' 'समं सर्वेषु भूतेषु ' 'विद्याविनयसंपन्ने ' 'अविभक्तं विभक्तेषु ' 'वासुदेवः सर्वम् ' इत्यादिभ्यः एक एवात्मा परं ब्राहृ सर्वसंसारधर्मविनिर्मुक्तस्त्वमिति सिद्धम्।

 

।। 39।।स यदि ब्राूयात् -- -यदि भगवन् अनन्तरः अबाह्रः सबाह्राभ्यन्तरो ह्रजः कृत्स्नः प्रज्ञानघन एव सैन्धवघनवदात्मा सर्वमूर्तिभेदवर्जितः आकाशवदेकरसः, किमिदं दृश्यते श्रूयते वा साध्यं साधनं वा साधकश्चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति।

 

।। 40।।आचार्यो ब्राूयात् -- -अविद्याकृतमेतद्यदिदं दृश्यते श्रूयते वा साध्यं साधनं साधकश्चेति। परमार्थतस्त्वेक एवात्मा अविद्यादृष्टेः अनेकवत् आभासते, तिमिरदृष्ट¬ा अनेकचन्द्रवत्। 'यत्र वा अन्यदिव स्यात् ' 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ' 'मृत्योः स मृत्युमाप्नोति ' 'अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् ' 'अथ यदल्पं तन्मत्र्यमिति ' 'वाचारम्भणं विकारो नामधेयम् 'अनृतम् ' 'अन्योऽसावन्योऽहम् ' इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतम्, 'एकमेवाद्वितीयम् ' 'यत्र त्वस्य ' 'को मोहः कः शोकः ' इत्याद्येकत्वविधिश्रुतिभ्यश्चेति।

 

।। 41।।यद्येवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश्चेति?।

 

।। 42।।अत्रोच्यते -- अविद्यावतः उपात्तशरीरादिभेदस्य इष्टानिष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानतः इष्टप्राÏप्त चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयितुं शास्त्रम्, न साध्यसाधनादिभेदं विधत्ते, अनिष्टरूपः संसारो हि स इति। तद्भेददृष्टिमेवाविद्यां संसारमूलमुन्मूलयति उत्प्रत्तिप्रलयाद्येकत्वोपपत्तिप्रदर्शनेन।

 

।। 43।।अविद्यायामुन्मूलितायां श्रुतिस्मृतिन्यायेभ्योऽनन्तरोऽबाह्रः सबाह्राभ्यन्तरो ह्रजः सैन्धवघनवत्प्रज्ञानघन एवैकरस आत्मा आकाशवत्परिपूर्ण इत्यत्रैव एका प्रज्ञा प्रतिष्ठा परमार्थदर्शिनो भवति। न साध्यसाधनोत्पत्तिप्रलयादिभेदेन अशुद्धिगन्धोऽप्युपपद्यते।

 

।। 44।।तच्चैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम्, सम्यक्प्रत्ययविरोधात्तदभिमानस्य। भेददर्शनप्रतिषेधार्थोपपत्तिश्चोपपद्यते।न ह्रेकस्मिन्नात्मन्यसंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर्भवति। न ह्रग्नौ शीतत्वबुद्धिः, शरीरे वा अजरामरणत्वबुद्धिः। तस्मादविद्याकार्यत्वात्सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः।

 

कूटस्थाद्वयात्मबोधप्रकरणम्।

 

।। 45।।सुखमासीनं ब्रााहृणं ब्राहृनिष्ठं कश्चित् ब्राहृचारी जन्मजरामरणलक्षणात् संसारात् निर्विण्णो मुमुक्षुः विधिवदुपसन्नः पप्रच्छ -- भगवन्, कथमहं संसारान्मोक्ष्ये शरीरेन्द्रियविषयवेदनावान्। जागरिते दुःखमनुभवामि; तथा स्वप्नेऽनुभवामि। पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर्दुःखमनुभवामि। किमयमेव मम स्वभावः? किं वा अन्यस्वभावस्य सतो नैमित्तिकः? इति। यदि अयमेव स्वभावः, न मे मोक्षाशाः; स्वभावस्यावर्जनीयत्वात्। अथ नैमित्तिकः, निमित्तपरिहारे स्यान्मोक्षोपपत्तिः।

 

।। 46।।तं गुरुरुवाच -- श्रृणु वत्स, न तवायं स्वभावः, किंतु नैमित्तिकः।

 

।। 47।।इत्युक्तः शिष्य उवाच -- -किं निमित्तम्? किं वा तस्य निवर्तकम्? को वा मम स्वभावः? यस्मिन्निमित्ते निवर्तिते नैमित्तिकाभावः रोगनिमित्तनिवृत्ताविव रोगी स्वभावं प्रतिपद्येयेति।

 

।। 48।।गुरुरुवाच -- -अविद्या निमित्तम्, विद्या तस्या निवर्तिका। अविद्यायां निवृत्तायां तन्निमित्ताभावात् मोक्ष्यसे जन्ममरणलक्षणात्संसारात्। स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति।

 

।। 49।।शिष्य उवाच -- का सा अविद्या? किंविषया वा? विद्या च का अविद्यानिवर्तिका यया स्वभावं प्रतिपद्येय? इति।

 

।। 50।।गुरुरुवाच -- -त्वं परमात्मानं सन्तम् असंसारिणं संसार्यहमस्मीति विपरीतं प्रतिपद्यसे; अकर्तारं सन्तं कर्तेति; अभोक्तारं सन्तं भोक्तेति; विद्यमानं चाविद्यमानमिति। इयमविद्या।

 

।। 51।।शिष्य उवाच -- -यद्यप्यहं विद्यमानः, तथापि न परमात्मा। कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः, प्रत्यक्षादिभिः प्रमाणैः अनुभूयमानत्वात्। न अविद्यानिमित्तः, अविद्यायाश्चात्मविषयत्वानुपपत्तेः। अविद्या नाम अन्यस्मिन् अन्यधर्माध्यारोपणा, यथा प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायाम्, यथा प्रसिद्धं पुरुषं स्थाणावध्यारोपयति, प्रसिद्धं वा स्थाणुं पुरुषे, नाप्रसिद्धं, प्रसिद्धे, प्रसिद्धं वा अप्रसिद्धे। न च आत्मन्यनात्मानमध्यारोपयति, आत्मनः अप्रसिद्धत्वात्; तथा आत्मानम् अनात्मनि, आत्मनोऽप्रसिद्धत्वादेव।

 

।। 52।।तं गुरुरुवाच -- -न, व्यभिचारात्। न हि वत्स, प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम्, आत्मन्यध्यारोपणदर्शनात्, गौरोऽहं कृष्णोऽहमिति देहधर्मस्य अहंप्रत्ययविषये आत्मनि, अहंप्रत्ययविषयस्य च आत्मनः देहे अयमहमस्मीति।

 

।। 53।।शिष्य आह -- प्रसिद्ध एव तह्र्रात्मा अहंप्रत्ययविषयतया, देहश्च अयमिति। तत्रैवं सति, प्रसिद्धयोरेव देहात्मनोरितरेतराध्यारोपणा स्थाणुपुरुषयोः शुक्तिकारजतयोरिव। तत्र कं विशेषमाश्रित्य भगवतोक्तं प्रसिद्धयोरितरेतराध्यारोपणेति नियन्तुं न शक्यते इति?।

 

।। 54।।गुरुराह -- श्रृणु; सत्यं प्रसिद्धौ देहात्मानौ। न तु स्थाणुपुरुषाविव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ। कथं तर्हि? नित्यमेव निरन्तराविविक्तप्रत्ययविषयतया प्रसिद्धौ। न हि अयं देहः, अयमात्मा, इति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यः कश्चित्। अत एव हि मोमुह्रते लोकः आत्मानात्मविषये एवमात्मा, नैवमात्मा इति। इमं विशेषमाश्रित्यावोचं नैवं नियन्तुं शक्यमिति।

 

।। 55।।ननु, अविद्याध्यारोपितं यत्र यत् तदसत् तत्र दृष्टम्, यथा रजतं शुक्तिकायाम्, स्थाणौ पुरुषः, रज्ज्वां सर्पः, आकाशे तलमलिनत्वमित्यादि। तथा देहात्मनोरपि नित्यमेव निरन्तराविविक्तप्रत्ययेन इतरेतराध्यारोपणा कृता स्यात्। तत् इतरेतरयोः नित्यमेव असत्त्वं स्यात्। यथा शुक्तिकादिषु अविद्याध्यारोपितानां रजतादीनां नित्यमेव अत्यन्तासत्त्वम्, तद्विपरीतानां च विपरीतेषु, तद्वत् देहात्मनोरविद्ययैव इतरेतराध्यारोपणा कृता स्यात्। तत्रैवं सति देहात्मनोरसत्त्वं प्रसज्येत। तच्चानिष्टम्, वैनाशिकपक्षत्वात्। अथ तद्विपर्ययेण देहः आत्मन्यविद्यया अध्यारोपितः, देहस्यात्मनि सति असत्त्वं प्रसज्येत। तच्चानिष्टम्, प्रत्यक्षादिविरोधात्। तस्माद्देहात्मानौ नाविद्यया इतरेतरस्मिन् अध्यारोपितौ। कथं तर्हि? वंशस्तम्भवन्नित्यसंयुक्तौ।

 

।। 56।।न, अनित्यत्वपरार्थत्वप्रसङ्गात्। संहतत्वात् परार्थत्वम् अनित्यत्वं च वंशस्तम्भादिवदेव। किंच -- यस्तु परैर्देहेन संहतः कल्पित आत्मा स संहतत्वात् परार्थः। तेन असंहतः परोऽन्यो नित्यः सिद्धस्तावत्।

 

।। 57।।तस्यासंहतस्य देहे देहमात्रतया अध्यारोपितत्वेन असत्त्वानित्यत्वादिदोषप्रसङ्गो भवति। तत्र

निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात्।

 

।। 58।।न, स्वत एवात्मनः आकाशस्येव असंहतत्वाभ्युपगमात् सर्वेण असंहतः स च आत्मेति न निरात्मको देहादिः सर्वः स्यात्। यथा चाकाशं सर्वेणासंहतमिति सर्वं न निराकाशं भवति, एवम्। तस्मान्न वैनाशिकपक्षप्राप्तिदोषः स्यात्।

 

।। 59।।यत्पुनरुक्तम् -- -देहस्यात्मन्यसत्त्वे प्रत्यक्षादिविरोधः स्यादिति, तन्न, प्रत्यक्षादिभिः आत्मनि देहस्य सत्त्वानुपलब्धेः। न ह्रात्मनि -- कुण्डे बदरम्, क्षीरे सर्पिः, तिले तैलम्, भित्तौ चित्रमिव च -- प्रत्यक्षादिभिः देह उपलभ्यते। तस्मान्न प्रत्यक्षादिविरोधः।

 

।। 60।।कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपणा, देहे चात्मारोपणा?।

 

।। 61।।नायं दोषः, स्वभावप्रसिद्धत्वादात्मनः। न हि कादाचित्कसिद्धावेव अध्यारोपणा न नित्यसिद्धौ इति नियन्तुं शक्यम्, आकाशे तलमलाद्यध्यारोपणदर्शनात्।

 

।। 62।।किं भगवन्, देहात्मनोः इतरेतराध्यारोपणा देहादिसंघातकृता, अथवा आत्मकृता?।

 

।। 63।।गुरुरुवाच -- यदि देहादिसंघातकृता, यदि वा आत्मकृता, किं तत्र स्यात्?।

 

।। 64।।इत्युक्तः शिष्य आह -- -यद्यहं देहादिसंघातमात्रः, ततो ममाचेतनत्वात् परार्थत्वमिति न मत्कृता देहात्मनोः इतरेतराध्यारोपणा। अथाहमात्मा परोऽन्यः संघातात्, चितिमत्त्वात् स्वार्थ इति मयैव चितिमता आत्मनि अध्यारोपणा क्रियते सर्वानर्थबीजभूता।

 

।। 65।।इत्युक्तो गुरुरुवाच -- अनर्थबीजभूतां चेन्मिथ्याध्यारोपणां जानीषे, मा कार्षीस्तर्हि।

 

।। 66।।नैव भगवन्, शक्नोमि न कर्तुम्। अन्येन केनचित्प्रयुक्तोऽहं न स्वतन्त्र इति।

 

।। 67।।न तर्हि अचितिमत्त्वात् स्वार्थः त्वम्। येन प्रयुक्तः अस्वतन्त्रः प्रवर्तसे स चितिमान् स्वार्थः। संघात एव त्वम्।

 

।। 68।।यद्यचेतनोऽहम्, कथं सुखदुःखवेदनां भवदुक्तं च जानामि?।

 

।। 69।।गुरुरुवाच -- -किं सुखदुःखवेदनाया मदुक्ताच्चान्यस्त्वम्, किं वा अनन्य एव?।

 

।। 70।।शिष्य उवाच -- -नाहं तावदनन्यः। कस्मात्? यस्मात्तदुभयं कर्मभूतं घटादिकमिव जानामि। यद्यनन्योऽहम्, तेन तदुभयं न जानीयाम्; किंतु जानामि, तस्मादन्यः। सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति, त्वदुक्तं च स्यात्, अनन्यत्वे। न च तयोः स्वार्थता युक्ता। न हि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे, घटोपयोगो वा घटार्थः। तस्मात् तद्विज्ञातुर्मम चन्दनादिकृतः अर्थः। अहं हि ततोऽन्यः समस्तमर्थं जानामि बुद्ध्यारूढम्।

 

।। 71।।तं गुरुरुवाच -- एवं तर्हि स्वार्थस्त्वं चितिमत्त्वान्न परेण प्रयुज्यसे। न हि चितिमान्परतन्त्रः परेण प्रयुज्यते, चितिमतश्चितिमदर्थत्वानुपपत्तेः समत्वात्प्रदीपप्रकाशयोरिव। नापि अचितिमदर्थत्वं चितिमतो भवति, अचितिमतोऽचितिमत्त्वादेव स्वार्थसंबन्धानुपपत्तेः। नापि अचितिमतोः अन्योन्यार्थत्वं दृष्टम्। न हि काष्ठकुड¬े

अन्योन्यार्थं कुर्वाते।

 

।। 72।।ननु चितिमत्त्वे समेऽपि भृत्यस्वामिनोः अन्योन्यार्थत्वं दृष्टम्।

 

।। 73।।नैवम्, अग्नेरुष्णप्रकाशवत्तव चितिमत्त्वस्य विवक्षितत्वात्। प्रदर्शितश्च दृष्टान्तः प्रदीपप्रकाशयोरिति। तत्रैवं सति स्वबुद्ध्यारूढमेव सर्वमुपलभसे अग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचैतन्यस्वरूपेण। यदि चैवमात्मनः सर्वदा निर्विशेषत्वमुपगच्छसि, किमित्यूचिवान् 'सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोः दुःखमनुभवामि, किमयमेव मम स्वभावः किं वा नैमित्तिकः ' इति च। किमसौ व्यामोहोऽपगतः, किं वा न?।

 

।। 74।।इत्युक्तः शिष्य आह -- भगवन्, अपगतः त्वत्प्रसादात्। किंतु मम कूटस्थतायां संशयः। कथम्? शब्दादीनां स्वतःसिद्धिर्नास्ति, अचेतनत्वात्; शब्दाद्याकारप्रत्ययोत्पत्तेस्तु तेषाम्। प्रत्ययानामितरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसिद्ध्यसंभवात्। तस्माद्बाह्राकारनिमित्तत्वं गम्यते इति बाह्राकारवत् शब्दाद्याकारत्वसिद्धिः। तथा प्रत्ययानामपि अहंप्रत्ययालम्बनवस्तुभेदानां संहतत्वात् अचैतन्योपपत्तेः। स्वार्थत्वासंभवात् स्वरूपव्यतिरिक्तग्राहकग्राह्रत्वेन सिद्धिः शब्दादिवदेव। असंहतत्वे सति चैतन्यात्मकत्वात् स्वार्थोऽपि अहंप्रत्ययानां नीलपीताद्याकाराणामुपलब्धेति विक्रियावानेव, कथं कूटस्थ इति संशयः।

 

।। 75।।तं गुरुरुवाच -- न युक्तस्तव संशयः, यतस्तेषां प्रत्ययानां नियमेन अशेषतः उपलब्धेरेव अपरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुमेव अशेषचित्तप्रचारोपलÏब्ध संशयहेतुमात्थ। यदि हि तव परिणामित्वं स्यात्, अशेषस्वविषयचित्तप्रचारोपलब्धिर्न स्यात् चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु। न च तथा आत्मनस्तव स्वविषयैकदेशोपलब्धिः। अतः कूटस्थतैव तवेति।

 

।। 76।।तत्राह -- उपलब्धिर्नाम धात्वर्थो विक्रियैव, उपलब्धुः कूटस्थात्मता चेति विरुद्धम्।

 

।। 77।।न, धात्वर्थविक्रियायाम् उपलब्ध्युपचारात्। यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मकः आत्मनः उपलब्ध्याभासफलावसान इति उपलब्धिशब्देन उपचर्यते, यथा च्छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते तद्वत्।

 

।। 78।।इत्युक्तः शिष्य आह -- ननु भगवन्, मम कूटस्थत्वप्रतिपादनं प्रति असमर्थो दृष्टान्तः। कथम्? छिदिः छेद्यविक्रियावसाना उपचर्यते यथा धात्वर्थत्वेन, तथा उपलब्धिशब्दोपचरितोऽपि धात्वर्थो बौद्धप्रत्ययः आत्मनः उपलब्धिविक्रियावसानश्चेत्, नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः।

 

।। 79।।गुरुरुवाच -- सत्यमेवं स्यात्, यदि उपलब्ध्युपलब्ध्रोः विशेषः। नित्योपलब्धिमात्र एव हि उपलब्धा। न तु तार्किकसमय इव अन्या उपलब्धिः अन्यः उपलब्धा च।

 

।। 80।।ननूपलब्धिफलावसानो धात्वर्थः कथमिति।

 

।। 81।।उच्यते श्रृणु, उपलब्ध्याभासफलावसान इत्युक्तम्। किं न श्रुतं तत् त्वया? न त्वात्मा विक्रियोत्पादनावसान इति मयोक्तम्।

 

।। 82।।शिष्य आह -- -कथं तर्हि कूटस्थे मयि अशेषस्वविषयचित्तप्रचारोपलब्धृत्वमित्यात्थ?।

 

।। 83।।तं गुरुरुवाच -- सत्यमेवावोचम्, तेनैव कूटस्थतामब्रावं तव।

 

।। 84।।यद्येवं भगवन्, कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु च मत्स्वरूपोपलब्ध्याभासफलावसानवत्सु उत्पद्यमानेषु कस्त्वपराधो ममः?।

 

।। 85।।सत्यम्, नास्त्यपराधः; किंतु अविद्यामात्रस्त्वपराध इति प्रागेवावोचम्।

 

।। 86।।यदि भगवन्, सुषुप्त इव मम विक्रिया नास्ति, कथं स्वप्नजागरिते?।

 

।। 87।।तं गुरुरुवाच -- किं त्वनुभूयेते त्वया संततम्।

 

।। 88।।शिष्य उवाच -- बाढमनुभवामि, किंतु विच्छिद्य विच्छिद्य, न तु संततम्।

 

।। 89।।गुरुरुवाच -- तह्र्रागन्तुके त्वेते, न तवात्मभूते। यदि तवात्मभूते चैतन्यस्वरूपवत् स्वतःसिद्धे संतते एव स्याताम्। किंच, स्वप्नजागरिते न तव आत्मभूते, व्यभिचारित्वात् वस्त्रादिवत्। न हि यस्य यत् स्वरूपं तत् तद्व्यभिचारि दृष्टम्। स्वप्नजागरिते तु चैतन्यमात्रत्वात् व्यभिचरतः। सुषुप्ते चेत् स्वरूपं व्यभिचरेत् तत् नष्टं नास्तीति वा बाध्यमेव स्यात्, आगन्तुकानामतद्धर्माणामुभयात्मकत्वदर्शनात्; यथा धनवस्त्रादीनां नाशो दृष्टः, स्वप्नभ्रान्तिलब्धानां तु अभावो दृष्टः।

 

।। 90।।ननु एवं भगवन्, चैतन्यस्वरूपमपि आगन्तुकं प्राप्तम्, स्वप्नजागरितयोरिव सुषुप्ते अनुपलब्धेः। अचैतन्यस्वरूपो वा स्यामहम्।

 

।। 91।।न, पश्य, तदनुपपत्तेः। चैतन्यस्वरूपं चेदागन्तुकं पश्यसि, पश्य, नैतत् वर्षशतेनापि उपपत्त्या कलयितुं शक्नुमो वयम्, अन्यो वाचैतन्योऽपि। तस्य संहतत्वात् पाराथ्र्यम् अनेकत्वं नाशित्वं च न केनचिदुपपत्त्या वारयितुं शक्यम्, अस्वार्थस्य स्वतःसिद्ध्यभावादित्यवोचाम। चैतन्यस्वरूपस्य तु आत्मनः स्वतःसिद्धेः अन्यानपेक्षत्वं न केनचित् वारयितुं शक्यम्, अव्यभिचारात्।

 

।। 92।।ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति।

 

।। 93।।न, व्याहतत्वात्। कथं व्याघातः? पश्यतस्तव न पश्यामीति व्याहतं वचनम्। न हि कदाचित् भगवन्, सुषुप्ते मया चैतन्यमन्यद्वा किंचित् दृष्टम्। पश्यन् तर्हि सुषुप्ते त्वम्; यस्मात् दृष्टमेव प्रतिषेधसि, न दृष्टिम्।या तव दृष्टिः तच्चैतन्यमिति मयोक्तम्। यया त्वं विद्यमानया न किंचित् दृष्टमिति प्रतिषेधसि सा दृष्टिः त्वच्चैतन्यम्। तर्हि सर्वत्र अव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम्। स्वतःसिद्धस्य हि प्रमातुः अन्यस्य प्रमेयस्य परिच्छितिं्त प्रति प्रमाणापेक्षा। या तु अन्या नित्या परिच्छित्तिरपेक्ष्यते अन्यस्य अपरिच्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा। आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात्। यथा प्रकाशनमुष्णत्वं वा लोहोदकादिषु परतः अपेक्ष्यते अग्न्यादित्यादिभ्यः, अतत्स्वभावत्वात्; न अग्न्यादित्यादीनां तदपेक्षा, सदा तत्स्वभावत्वात्।

 

।। 94।।अनित्यत्वे एव प्रमा स्यात्, न नित्यत्वे इति चेत्।

 

।। 95।।न, अवगतेर्नित्यत्वानित्यत्वयोः विशेषानुपपत्तेः। न हि अवगतेः प्रमात्वे अनित्या अवगतिः प्रमा, न नित्या इति विशेषः अवगम्यते।

 

।। 96।।नित्यायां प्रमातुः अपेक्षाभावः, अनित्यायां तु यत्नान्तरितत्वात् अवगतिः अपेक्ष्यत इति विशेषः स्यादिति

चेत्।

 

।। 97।।सिद्धा तर्हि आत्मनः प्रमातुः स्वतःसिद्धिः प्रमाणनिरपेक्षतयैवेति।

 

।। 98।।अभावेऽपि अपेक्षाभावः, नित्यत्वात् इति चेत्।

 

।। 99।।न, अवगतेरेव आत्मनि सद्भावादिति परिह्मतमेतत्। प्रमातुश्चेत् प्रमाणापेक्षा सिद्धिः कस्य प्रमित्सा स्यात्। यस्य प्रमित्सा स एव प्रमाता अभ्युपगम्यते। तदीया च प्रमित्सा प्रमेयविषयैव, न प्रमातृविषया, प्रमातृविषयत्वे अनवस्थाप्रसङ्गात् प्रमातुः तदिच्छायाश्च तस्याप्यन्यः प्रमाता तस्याप्यन्य इति, एवमेव इच्छायाः प्रमातृविषयत्वे। प्रमातुः आत्मनः अव्यवहितत्वाच्च प्रमेयत्वानुपपत्तिः। लोके हि प्रमेयं नाम प्रमातुः इच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिध्यति, नान्यथा; अवगतिः प्रमेयविषया दृष्टा। न च प्रमातुः प्रमाता स्वस्य स्वयमेव केनचित् व्यवहितः कल्पयितुं शक्यः इच्छादीनामन्यतमेनापि। स्मृतिश्च स्मर्तव्यविषया, न स्मर्तृविषया। तथाइच्छायाः इष्टविषयत्वमेव, न इच्छावद्विषयत्वम्। स्मर्त्रिच्छावद्विषयत्वेऽपि हि उभयोः अनवस्था पूर्ववत् अपरिहार्या स्यात्।

 

।। 100।।ननु प्रमातृविषयावगत्यनुत्पत्तौ अनवगत एव प्रमाता स्यादिति चेत्।

 

।। 101।।न, अवगन्तुः अवगतेः अवगन्तव्यविषयत्वात्।अवगन्तृविषयत्वे चानवस्था पूर्ववत्स्यात्।अवगतिश्चात्मनि कूटस्थनित्यात्मज्योतिः अन्यतः अनपेक्षैव सिद्धा, अग्न्यादित्याद्युष्णप्रकाशवदिति पूर्वमेव प्रसाधितम्। अवगतेः चैतन्यात्मज्योतिषः स्वात्मनि अनित्यत्वे आत्मनः स्वार्थतानुपपत्तिः। कार्यकरणसंघातवत् संहतत्वात् पाराथ्र्यं दोषवत्त्वं च अवोचाम। कथम्? चैतन्यात्मज्योतिषः स्वात्मनि अनित्यत्वे स्मृत्यादिव्यवधानात् सान्तरत्वम्। ततश्च तस्य चैतन्यज्योतिषः प्रागुत्पत्तेः प्रध्वंसाच्चोध्र्वमात्मन्येवाभावात् चक्षुरादीनामिव संहतत्वात् पाराथ्र्यं स्यात्। यदा च तत् उत्पन्नम् आत्मनि विद्यते, न तदा आत्मनः स्वार्थत्वम्। तद्भावाभावापेक्षा हि आत्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः। तस्मात् आत्मनः अन्यनिरपेक्षमेव नित्यचैतन्यज्योतिष्ट्वं सिद्धम्।

 

।। 102।।ननु एवं सति असति प्रमाश्रयत्वे, कथं प्रमातुः प्रमातृत्वम्?।

 

।। 103।।उच्यते -- -प्रमायाः नित्यत्वे अनित्यत्वे च रूपविशेषाभावात्। अवगतिर्हि प्रमा। तस्याः स्मृतीच्छादिपूर्विकायाः अनित्यायाः, कूटस्थनित्याया वा, न स्वरूपविशेषो विद्यते, यथा धात्वर्थस्य तिष्ठत्यादेः फलस्य गत्यादिपूर्वकस्य अनित्यस्य अपूर्वस्य नित्यस्य वा रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः 'तिष्ठन्ति मनुष्याः ' 'तिष्ठन्ति पर्वताः ' इत्यादि, तथा नित्यावगतिस्वरूपेऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते फलसामान्यादिति।

 

।। 104।।अत्राह शिष्यः -- नित्यावगतिस्वरूपस्य आत्मनः अविक्रियत्वात् कार्यकारणैः असंहत्य तक्षादीनामिव वास्यादिभिः कर्तृत्वं नोपपद्यते। असंहतस्वभावस्य च कार्यकरणोपादाने अनवस्था प्रसज्येत। तक्षादीनां तु कार्यकरणैः नित्यमेव संहतत्वमिति वास्याद्युपादाने नानवस्था स्यादिति।

 

।। 105।।इह तु असंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति करणमुपादेयम्, तदुपादानमपि विक्रियैवेति तत्कर्तृत्वे करणान्तरमुपादेयम्, तदुपादानेऽपि अन्यदिति प्रमातुः स्वातन्त्र्ये अनवस्था अपरिहार्या स्यादिति। न च क्रियैव आत्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात्। अथ अन्यत् आत्मानमुपेत्य क्रियां कारयतीति चेत्, न; अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः। न हि आत्मनः अन्यत् अचेतनं वस्तु स्वप्रमाणकं दृष्टम्। शब्दादि सर्वमेव अवगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात्। अवगतिश्चेत् आत्मनोऽन्यस्य स्यात् सोऽपि आत्मैव असंहतः स्वार्थः स्यात्, न परार्थः। न च देहेन्द्रियविषयाणां स्वार्थताम् अवगन्तुं शक्नुमः

अवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात्।

 

।। 106।।ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरमपेक्षते।

 

।। 107।।बाढम्, जाग्रति एवं स्यात्। मृतिसुषुप्त्योस्तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षैव सिद्धिः। तथैव इन्द्रियाणाम्। बाह्रा एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षैव हि सिद्धिः। सिद्धिरिति च प्रमाणफलमवगतिमवोचाम; सा च अवगतिः कृटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च।

 

।। 108।।अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिःस्वरूपेति च विप्रतिषिद्धम्।

 

इत्युक्तवन्तमाह -- -न विप्रतिषिद्धम्। कथं तह्र्रवगतेः फलत्वम्? तत्त्वोपचारात्। कूटस्था नित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते तादथ्र्यात्। प्रत्यक्षादिप्रत्ययस्य अनित्यत्वे अनित्येव भवति। तेन प्रमाणानां फलमित्युपचर्यते।

 

।। 109।।यद्येवं भगवन्, कूटस्थनित्यावगतिः आत्मज्योतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात्, ततोऽन्यत अचेतनं संहत्यकारित्वात् परार्थम्। येन च सुखदुःखमोहहेतुप्रत्ययावगतिरूपेण पाराथ्र्यम्, तेनैव स्वरूपेण अनात्मनः अस्तित्वं नान्येन रूपान्तरेण। अतो नास्तित्वमेव परमार्थतः। यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेण अभावो दृष्टः, एवं जाग्रत्स्वप्नद्वैतभावस्यापि तदवगतिव्यतिरेकेण अभावो युक्तः। एवमेव परमार्थतः भगवन्, अवगतेः आत्मज्योतिषः नैरन्तर्यभावात् कूटस्थनित्यता अद्वैतभावश्च, सर्वप्रत्ययभेदेषु अव्यभिचारात्। प्रत्ययभेदाश्च अवगतिं व्यभिचरन्ति। यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययाः तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्युच्यन्ते, एवं जाग्रत्यपि। नीलपीतादिप्रत्ययभेदाः तामेवावगतिं व्यभिचरन्तः असत्यरूपाः भवितुम् अर्हन्ति। तस्याश्च अवगतेरन्यः अवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयमुपादातुं हातुं वा शक्यते, अन्यस्य च अभावात्।

 

।। 110।।तथैवेति। एषा अविद्या यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः। तस्याः अविद्यायाः विद्या निवर्तिका। इत्येवं त्वम् अभयं प्राप्नोषि, नातः परं जाग्रत्स्वप्नदुःखमनुभविष्यसि। संसारदुःखान्मुक्तोऽसीति।

 

।। 111।।ओमिति।

अवगतिः समाप्ता।।

 

परिसंख्यानप्रकरणम्।

 

।। 112।।मुमुक्षूणाम् उपात्तपुण्यापुण्यक्षपणपराणामपूर्वानुपचयार्थिनां परिसंख्यानमिदमुच्यते -- अविद्याहेतवो दोषाः वाङ्मनःकायप्रवृत्तिहेतवः, प्रवृत्तेश्च इष्टानिष्टमिश्रफलानि कर्माणि उपचीयन्ते इति तन्मोक्षार्थम्।

 

।। 113।।तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोत्रादिग्राह्रत्वात् स्वात्मनि परेषु वा विज्ञानाभावः। तेषामेव परिणतानां यथा लोष्टादीनाम्। श्रोत्रादिद्वारैश्च ज्ञायन्ते। येन च ज्ञायन्ते सः ज्ञातृत्वात् अतज्जातीयः। ते हि शब्दादयः अन्योन्यसंसर्गित्वात् जन्मवृद्धिविपरिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेकधर्माणः, सामान्येन च सुखदुःखाद्यनेककर्माणः तद्विज्ञातृत्वादेव तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः।

 

।। 114।।तत्र शब्दादिभिः उपलभ्यमानैः पीड¬मानो विद्वान् एवं परिसंचक्षीत।

 

।। 115।।शब्दस्तु ध्वनिसामान्यमात्रेण वा विशेषधर्मैर्वा षड्जादिभिः प्रियैः स्तुत्यादिभिः इष्टैः अनिष्टैश्च असत्यबीभत्सपरिभवाक्रोशादिभिः वचनैर्वा मां दृक्स्वभावमसंसर्गिणमविक्रियमचलमनिधनमभयमत्यन्तसूक्ष्ममविषयं गोचरीकृत्य स्प्रष्टुं नैवार्हति, असंसर्गित्वादेव माम्। अत एव न शब्दनिमित्ता हानिः वृद्धिर्वा। अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः। अविवेकिनं हि शब्दमात्मत्वेन गतं प्रियः शब्दो वर्धयेत् अप्रियश्च क्षपयेत्, अविवेकित्वात्। न तु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सहते इति। एवमेव स्पर्शसामान्येन तद्विशेषैश्च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश्च अप्रियैः प्रियैश्च कैश्चित् शरीरसमवायिभिः बाह्रागन्तुकनिमित्तैश्च न मम काचित् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते, व्योम्न इव मुष्टिघातादिभिः। तथा रूपसामान्येन तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः अरूपत्वात् न मम काचित् हानिः वृद्धिर्वा क्रियते। तथा रससामान्येन तद्विशेषैश्च प्रियाप्रियैः मधुराम्ललवणकटुतिक्तकषायैः मूढबुद्धिभिः परिगृहीतैः अरसात्मकस्य मम न काचित् हानिः वृद्धिर्वा क्रियते। तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः अगन्धात्मकस्य न मम काचित् हानिः वृद्धिर्वा क्रियते, 'अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ' इति श्रुतेः।

 

।। 116।।किं च -- ये एव बाह्राः शब्दादयः ते शरीराकारेण संस्थिताः, तत्परिमाणरूपैस्तद्ग्राहकैश्च श्रोत्राद्याकारैः, अन्तःकरणद्वयतद्विषयाकारेण च, तेषामन्योन्यसंसर्गित्वात् संहतत्वाच्च सर्वक्रियासु। तत्रैवं सति विदुषो न मम कश्चित् शत्रुः मित्रम् उदासीनो वा अस्ति। तत्र यदि कश्चित् मिथ्याज्ञानाभिमानेन प्रियमप्रियं वा प्रयुयुक्षेत क्रियाफललक्षणं तन्मृषैव प्रयुयुक्षते सः, तस्याविषयत्वान्मम, 'अव्यक्तोऽयमचिन्त्योऽयम् ' इति स्मृतेः। तथा सर्वेषां पञ्चानामपि भूतानामविकार्यः, अविषयत्वात्, 'अच्छेद्योऽयमदाह्रोऽयम् ' इति स्मृतेः। यापि शरीरेन्द्रियसंस्थानमात्रमुपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुक्षा, तज्जा च धर्माधर्मादिप्राप्तिः, सा तेषामेव, न तु मयि अजरे अमृते अभये, 'नैनं कृताकृते तपतः ' 'न वर्धते कर्मणा नो कनीयान् ' 'सबाह्राभ्यन्तरो ह्रजः ' 'न लिप्यते लोकदुःखेन बाह्रः ' इत्यादिश्रुतिभ्यः। अनात्मवस्तुनश्च असत्त्वं परमो हेतुः। आत्मनश्च अद्वयत्वे, द्वयस्य असत्त्वात्, यानि सर्वाणि उपनिषद्वाक्यानि विस्तरशः समीक्षितव्यानि समीक्षितव्यानि।

 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

उपदेशसहरुायां

गद्यप्रबन्धः समाप्तः।।