उदार जगदाधार

विकिस्रोतः तः
Jump to navigation Jump to search

उदार जगदाधार देहि मे वरमीदृशम्। स्वस्वरूपानुसन्धाने रतं भवतु मेऽन्तरम्॥१॥

कामक्रोधादिसंवास: कदा न स्यान्मदन्तरे। अखण्डितं वसेन्मूर्ति: सुन्दरी तव हे हरे॥२॥

शरीरेऽपि गृहे द्वारे स्त्रीपुत्रादिपरिग्रहे। अनासक्तं भवेच्चित्तमासक्तं त्वदनुग्रहे॥३॥

न धनं न च वा मानो न वा कीर्तिर्भवेन्मम। मोहरूपात् परं पाशात् कण्ठं मोचय रे मम॥४॥

न भोगो न च वा त्यागो न विद्या न च वा कला। अनुद्वेगे पादपद्मे भक्तिर्मेऽस्तु सदामला॥५॥

हरिरूपा नरा नार्यो बहिरन्तर्भवन्तु मे। ‘राम कृष्ण हरे’ मन्त्रं व्याहरेद् वैखरी मम॥६॥

अहं ममेति लीनं स्यात् त्वं तव भवतूदितम्। अहं-त्वं-ता जगन्नाथ तत्त्वं भवतु चैककम्॥७॥

देवभक्तमयं द्वैतमद्वैतेऽखण्डिते सति। दर्शय देवदेवेश प्रार्थनैषा हि त्वां प्रति॥८॥

वर्ग:स्वरूपानन्दस्वामिकृतय: कविता:
"https://sa.wikisource.org/w/index.php?title=उदार_जगदाधार&oldid=41013" इत्यस्माद् पुनः प्राप्तिः