उदानवर्ग

विकिस्रोतः तः

अनित्य.वर्ग[सम्पाद्यताम्]

१.० : सिद्धम्
१.१ स्तीनम्.इद्धम्.विनोद्येह.सम्प्रहर्ष्य.च.मानसम् ।[.स्तीनमिद्धम्.]
१.१ शृणुतेमम्.प्रवक्ष्यामि उदानम्.जिन.भाषितम् ॥
१.२ एवम्.उक्तम्.भगवता.सर्वाभिज्ञेन.तायिना ।
१.२ अनुकम्पकेनर्षिणा शरीरान्तिम.धारिणा ॥
१.३ अनित्या.बत.संस्कारोत्पाद.व्यय.धर्मिणः ।
१.३ उत्पद्य.हि.निरुध्यन्ते.तेषाम्.व्युपशमः.सुखम् ॥
१.४ को.नु.हर्षः.क;आनन्द;एवम्.प्रज्वलिते.सति ।
१.४ अन्ध.कारम्.प्रविष्टाः.स्थ.प्रदीपम्.न.गवेषथ ॥
१.५ यानीमान्य्.अपविद्धानि.विक्षिप्तानि.दिशो.दिशम् ।
१.५ कपोत.वर्णान्य्.अस्थीनि.तानि.द्र्ष्ट्वेह.का.रतिः ॥
१.६ याम्.एव.प्रथमाम्.रात्रिम्.गर्भे.वसति.मानवः ।
१.६ अविष्ठितः.स.व्रजति.गतश्.च.न.निवर्तते ॥
१.७ सायम्.एके.न.दृश्यन्ते.काल्यम्.दृष्टा.महा.जनाः ।
१.७ काल्यम्.चैके.न.दृष्यन्ते.सायम्.दृष्टा.महा.जनाः ॥
१.८ तत्र.को.विश्वसेन्.मर्त्यो.दहरो.अस्मीति.जीविते ।
१.८ दहरापि.ंरियन्ते.हि.नरा.नार्यश्.च.न्.एकशः ॥[.अनेकशः.]
१.९ गर्भ;एके.विनश्यन्ते.तथैके.सूतिका.कुले ।
१.९ परिसृप्तास्.तथा.ह्य्.एके.तथैके.परिधाविनः ॥
१.१० ये.च.वृद्धा.ये.च.दह्रा.ये.च.मध्यम.पुरुषाः ।[.पूरुषाः.]
१.१० अनुपूर्वम्.प्रव्रजन्ति.फलम्.पक्वम्.व.बन्धनात् ॥
१.११ यथा.फलानाम्.पक्वानाम्.नित्यम्.पतनतो.भयम् ।
१.११ एवम्.जातस्य.मर्त्यस्य.नित्यम्.मरणतो.भयम् ॥
१.१२ यथापि.कुम्भ.कारेण.मृत्तिका.भाजनम्.कृतम् ।
१.१२ सर्वम्.भेदन.पर्यन्तम्.एवम्.मर्त्यस्य.जीवितम् ॥
१.१३ यथापि.तन्त्रे.वितते.यद्.यद्.उक्तम्.समुप्यते ।
१.१३ अल्पम्.भवति.वातव्यम्.एवम्.मर्त्यस्य.जीवितम् ॥
१.१४ यथापि.व - - - - - - - - - - - - - - - - - ।
१.१४ - - - घतनो.भवति;एवम्.मर्त्यस्य.जीवितम् ॥
१.१५ यथा.नदी.पार्वतीया.गच्छते.न.निवर्तते ।
१.१५ एवम्.आयुर्.मनुष्याणाम्.गच्छते.न.निवर्तते ॥
१.१६ किसरम्.च.परित्तम्.च.तच्.च.दुह्खेन.सम्युतम् ।
१.१६ उदके.दण्ड.राजीव.क्षिप्रम्.एव.विनश्यति ॥
१.१७ यथा.दण्डेन.गोपालो.गाः.प्रापयति.गोचरम् ।
१.१७ एवम्.रोगैर्.जरा.मृत्युः.आयुः.प्रापयते.नृणाम् ॥
१.१८ अतियान्ति.ह्य्.अहो.रात्रा.जीवितम्.चोपरुध्यते ।
१.१८ आयुः.क्षीयति.मर्त्यानाम्.कुनदीषु.यथौदकम् ॥
१.१८ ........................ जीवितम्.चोपरुध्यते ।
१.१८ ................................................ ॥
१.१९ दीर्घा.जागरतो.रात्रिर्.दीर्घम्.श्रान्तस्य.योजनम् ।
१.१९ दीर्घो.बालस्य.संसारः.सद्धर्मम्.अविजानतः ॥
१.२० पुत्रो.मेऽस्ति.धनम्.मेऽस्तीत्य्.एवम्.बालो.विहन्यते ।
१.२० आत्मैव.ह्य्.आत्मनो.नास्ति.कस्य.पुत्रः.कुतो.धनम् ॥
१.२० मरणे ........................................... ।
१.२० ................................................. ॥
१.२१ अनेकानि.सहस्राणि.नर.नारी.शतानि.च ।
१.२१ भोगान्.वै.समुदानीय.वशम्.गच्छन्ति.मृत्युनः ॥
१.२२ सर्वे.क्षयान्ता.निचयाः.पतनान्ताः.समुच्छ्रयाः ।
१.२२ सम्योगा.विप्रयोगान्ता.मरणान्तम्.हि.जीवितम् ॥
१.२३ सर्वे.सत्त्वा.मरिष्यन्ति.मरणान्तम्.हि.जीवितम् ।[.सत्वा.]
१.२३ यथा.कर्म.गमिष्यन्ति.पुण्य.पाप.फलोपगाः ॥
१.२४ नरकम्.पाप.कर्माणः.कृत.पुण्यास्.तु.सद्.गतिम् ।
१.२४ अन्ये.तु.मार्गम्.भाव्येह.निर्वास्यन्ति.निरास्रवाः ॥[.भाव्येह.]
१.२५ नैवान्तरीक्.से.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
१.२५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.मृत्युह् ॥
१.२६ ये.चेह.भूता.भविष्यन्ति.वा.पुनः.सर्वे.गमिष्यन्ति.प्रहाय.देहम् ।
१.२६ ताम्.सर्व.हानिम्.कुशलो.विदित्वा.धर्मे.स्थितो.ब्रह्मचर्यम्.चरेत ॥
१.२७ जीर्णम्.च.दृष्ट्वेह.तथैव.रोगिणम्.मृतम्.च.दृष्ट्वा.व्यपयात.चेतसम् ।
१.२७ जहौ.स.धीरो.गृह.बन्धनानि.कामा.हि.लोकस्य.न.सुप्रहेयाः ॥
१.२८ जीर्यन्ति.वै.राज.रथाः.सुचित्रा.ह्य्.अथो.शरीरम्.अपि.जराम्.उपैति ।
१.२८ सताम्.तु.धर्मो.न.जराम्.उपैति.सन्तो.हि.तम्.सत्सु.निवेदयन्ति ॥
१.२९ धिक्.त्वाम्.अस्तु.जरे.ग्राम्ये.विरूप.करणी.ह्य्.असि ।
१.२९ तथा.मनो.रमम्.बिम्बम्.जरया.ह्य्.अभिमर्दितम् ॥
१.३० यो.अपि.वर्ष.शतम्.जीवेत्.सो.अपि.मृत्यु.परायणः ।
१.३० अनु.ह्य्.एनम्.जरा.हन्ति.व्याधिर्.वा.यदि.वान्तकः ॥
१.३१ सदा.व्रजन्ति.ह्य्.अनिवर्तमाना.दिवा.च.रात्रौ.च.विलुज्यमानाः ।
१.३१ मत्स्या;इवातीव.हि.तप्यमाना.दुह्खेन.जाति.मरणेन.युक्ताः ॥
१.३१ .......... ।
१.३१ .......... ।
१.३२ आयुर्.दिवा.च.रात्रौ.च.चरतस्.तिष्ठतस्.तथा ।
१.३२ नदीनाम्.वा.यथा.स्रोतो.गच्छते.न.निवर्तते ॥
१.३३ येषाम्.रात्रि.दिवापाये.ह्य्.आयुर्.अल्पतरम्.भवेत् ।
१.३३ अल्पोदके.व.मत्स्यानाम्.का.नु.तेषाम्.रतिर्.भवेत् ॥
१.३४ परिजीर्णम्.इदम्.रूपम्.रोग.नीडम्.प्रभङ्गुरम् ।
१.३४ भेत्स्यते.पूत्य्.असंदेहम्.मरणान्तम्.हि.जीवितम् ॥
१.३५ अचिरम्.बत.कायो.अयम्.पृथिवीम्.अधिशेष्यते ।
१.३५ शुन्यो.व्यपेत.विज्ञानो.निरस्तम्.वा.कडङ्गरम् ॥[.शून्यो.]
१.३६ किम्.अनेन.शरीरेण.स्रवता.पूउतिना.सदा ।
१.३६ नित्यम्.रोगाभिभूतेन.जरा.मरण.भीरुणा ॥
१.३७ अनेन.पूति.कायेन.ह्य्.आतुरेण.प्रभङ्गुणा ।
१.३७ निगच्छथ.पराम्.शान्तिम्.योग.क्षेमम्.अनुत्तरम् ॥
१.३८ इह.वर्षम्.करिष्यामि.हेमन्तम्.ग्रीष्मम्.एव.च ।
१.३८ बालो.विचिन्तयत्य्.एवम्.अन्तरायम्.न.पश्यति ॥
१.३९ तम्.पुत्र.पशु.सम्मत्तम्.व्यासक्त.मनसम्.नरम् ।
१.३९ सुत्पम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥[.महौघैव.]
१.४० न.सन्ति.पुत्रास्.त्राणाय.न.पिता.नापि.बान्धवाः ।
१.४० अन्तकेनाभिभूतस्य.न.हि.त्राणा.भवन्ति.ते ॥
१.४१ इदम्.कृतम्.मे.कर्तव्यम्.इदम्.कृत्वा.भविष्यति ।
१.४१ इत्य्.एवम्.स्पन्दतो.मर्त्यान्.जरा.मृत्युश्.च.मर्दति ॥
१.४२ तस्मात्.सदा.ध्यान.रताः.समाहिता.ह्य्.आतापिनो.जाति.जरान्त.दर्शिनः ।
१.४२ मारम्.ससैन्यम्.ह्य्.अभिभूय.भिक्षवो.भवेत.जाती.मरणस्य.पारगाः ॥


कामवर्ग[सम्पाद्यताम्]

२.१ काम.जानामि.ते.मूलम्.संकल्पात्.काम.जायसे ।
२.१ न.त्वाम्.संकल्पयिष्यामि.ततो.मे.न.भविष्यसि ॥
२.२ कामेभ्यो.जायते.शोकः.कामेभ्यो.जायते.भयम् ।
२.२ कामेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
२.३ रतिभ्यो.जायते.शोको.रतिभ्यो.जायते.भयम् ।
२.३ रतिभ्ह्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
२.४ मधुराग्रा.विपाके.तु.कटुका.ह्य्.अभिनन्दिताः ।
२.४ कामा.दहन्ति.वै.बालान्.उल्केवामुञ्चतः.करम् ॥
२.५ न.तद्.दृढम्.बन्धनम्.आहुर्.आर्या.यद्.आयसम्.दारवम्.बल्बजम्.वा ।
२.५ संरक्त.चित्तस्य.हि.मन्द.बुद्धेः.पुत्रेषु.दारेषु.च.या;अवेक्षा ॥
२.६ एतद्दृढम्.बन्धनम्.आहुर्.आर्याः.समन्ततः.सुस्थिरम्.दुष्प्रमोक्षम् ।
२.६ एतद्.अपि.छित्त्वा.तु.परिव्रजन्ति.ह्य्.अनपेक्षिणः.काम.सुखम्.प्रहाय ॥
२.७ न.ते.कामा.यानि.चित्राणि.लोके.संकल्प.रागः.पुरुषस्य.कामः ।
२.७ तिष्ठन्ति.चित्राणि.तथैव.लोके;अथात्र.धीरा.विनयन्ति.छन्दम् ॥[.च्छन्दम्.]
२.८ न.सन्ति.नित्या.मनुजेषु.कामाः.सन्ति.त्व्.अनित्याः.कामिनो.यत्र.बद्धाः ।
२.८ तांस्.तु.प्रहाय.ह्य्.अपुनर्.भवाय.ह्य्.अनागतम्.मृत्यु.धेयम्.वदामि ॥
२.९ छन्द.जातो.ह्य्.अवस्रावी.मनसानाविलो.भवेत् ।
२.९ कामेषु.त्व्.अप्रतिबद्ध.चित्त;ऊर्ध्व.स्रोतो.निरुच्यते ॥
२.१० अनुपूर्वेण.मेधावी.स्तोकम्.स्तोकम्.क्षणे.क्षणे ।
२.१० कर्मारो.रजतस्यैव.निर्धमेन्.मलम्.आत्मनः ॥
२.११ रथ.कार;इव.चर्मणः.परिकर्तन्न्.उपानहम् ।
२.११ यद्.यज्.जहाति.कामानाम्.तत्.तत्.सम्पद्यते.सुखम् ॥
२.१२ सर्वम्.चेत्.सुखम्.इच्छेत.सर्व.कामान्.परित्यजेत् ।[.कामाम्.]
२.१२ सर्व.काम.परित्यागी.ह्य्.अत्यन्तम्.सुखम्.एधते ॥
२.१३ यावत्.कामान्.अनुसरन्.न.तृप्तिम्.मनसो.अध्यगात् ।
२.१३ ततो.निवृत्तिम्.प्रतिपश्यमानास्.ते.वै.तृप्ताः.प्रज्ञया.ये.सुतृप्ताः ॥
२.१४ श्रेयसी.प्रज्ञया.तृप्तिर्.न.हि.कामैर्.वितृप्यते ।
२.१४ प्रज्ञया.पुरुषम्.तृप्तम्.तृष्णा.न.कुरुते.वशम् ॥
२.१५ गृद्धा.हि.कामेषु.नराः.प्रमत्ता.ह्य्.अधर्मे.बत.ते.रताः ।
२.१५ अन्तरायम्.न.ते.पश्यन्त्य्.अल्पके.जीविते.सति ।
२.१६ दुर्मेधसम्.हन्ति.भोगो.न.त्व्.इहात्म.गवेषिणम् ।
२.१६ दुर्मेधा.भोग.तृष्णाभिर्.हन्त्य्.आत्मानम्.अथो.परान् ॥
२.१७ न.कर्षापण.वर्षेण.तृप्तिः.कामैर्.हि.विद्यते ।
२.१७ अल्पास्वाद.सुखाः.कामा;इति.विज्ञाय.पण्डितः ॥
२.१८ अपि.दिव्येषु.कामेषु.स.रतिम्.नाधिगच्छति ।
२.१८ तृष्णा.क्षय.रतो.भवति.बुद्धानाम्.श्रावकः.सदा ॥
२.१९ पर्वतो.अपि.सुवर्णस्य.समो.हिमवता.भवेत् ।
२.१९ वित्तम्.तम्.नालम्.एकस्यैतज्.ज्ञात्वा.समम्.चरेत् ॥[.वित्तम्.तम्.नालम्.एकस्य.]
२.२० दुह्खम्.हि.यो.वेद.यतो.निदानम्.कामेषु.जन्तु.स.कथम्.रमेत ।
२.२० उपधिम्.हि.लोके.शल्यम्.इति.मत्वा.तस्यैव.धीरो.विनयाय.शिक्षेत् ॥


तृष्णावर्ग[सम्पाद्यताम्]

३.१ वितर्क.प्रमथितस्य.जन्तुनस्.तीव्र.रागस्य.शुभानुदर्शिनः ।
३.१ भूयस्.तृष्णा.प्रवर्धते.गाढम्.ह्य्.एष.करोति.बन्धनम् ॥
३.२ वितर्क.व्युपशमे.तु.यो.रतो.ह्य्.अशुभम्.भावयते.सदा.स्मृतः ।
३.२ तृष्णा.ह्य्.एष.प्रहास्यते.स.तु.खलु.पूति.करोति.बन्धनम् ॥[.एषा.]?
३.३ कामान्ध.जाल.प्रक्षिप्तास्.तृष्णयाच्छादिताः.प्रजाः ।
३.३ प्रमत्ता.बन्धने.बद्धा.मत्स्यवत्.कुपिना.मुखे ।
३.३ f: जरा.मरणम्.आयान्ति.वत्सः.क्षीरपक;इव.मातरम् ॥
३.४ मनुजस्य.प्रमत्त.चारिणस्.तृष्णा.वर्धति.मालुतेव.हि ।[.मालुतेव.हि.]
३.४ स.हि.संसरते.पुनः.पुनः.फलम्.इच्छन्न्.इव.वानरो.वने ॥
३.५ सरितानि.वै.स्नेहितानि.वै.सौमनस्यानि.भवन्ति.जन्तुनः ।
३.५ ये.सातसिताः.सुखैषिणस्.ते.वै.जाति.जरोपगा.नराः ॥
३.६ तृष्णाभिर्.उपस्कृताः.प्रजाः.परिधावन्ति.शशा.व.वागुराम् ।
३.६ सम्योजनैः.सङ्ग.सक्ता.दुह्खम्.यान्ति.पुनः.पुनश्.चिर.रात्रम् ॥
३.७ तृष्णया.ग्रथिताः.सत्त्वा.रक्त.चित्ता.भवा.भवे ।[.सत्वा.]
३.७ ते.योग.युक्त.मारेण.ह्य्.अयोग.क्षेमिणो.जनाः ।
३.७ f: जरा.मरणम्.आयान्ति.योगा.हि.दुरतिक्रमाः ॥
३.८ यस्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे ।
३.८ तृष्णया.विभवद्.भिक्षुर्.अनिच्छुः.परिनिर्वृतः ॥
३.९ य;एताम्.सहते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
३.९ शोकास्.तस्य.प्रवर्धन्ते.ह्य्.अववृष्टा.बीरणा.यथा ॥
३.१० यस्.त्व्.एताम्.त्यजते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् ।
३.१० शोकास्.तस्य.निवर्तन्ते;उद.बिन्दुर्.इव.पुष्करात् ॥
३.११ तद्.वै.वदामि.भद्रम्.वो.यावन्तः.स्थ.समागताः ।
३.११ तृष्णाम्.समूलम्.खनतोशीरार्थीव.बीरणाम् ।
३.११ f: तृष्णायाः.खात.मूलाया.नास्ति.शोकः.कुतो.भयम् ॥
३.१२ तृष्णा.द्वितीयः.पुरुषो.दीर्घम्.अध्वानम्.आशया ।
३.१२ पुनः.पुनः.संसरते.गर्भम्.एति.पुनः.पुनः ।
३.१२ f: इत्थम्.भावान्यथी.भावः.संसारे.त्व्.आगतिम्.गतिम् ॥
३.१३ ताम्.तु.तृष्णाम्.प्रहायेह.वीत.तृष्णो.भवा.भवे ।
३.१३ नासौ.पुनः.संसरते.तृष्णा.ह्य्.अस्य.न.विद्यते ॥
३.१४ यया.देवा.मनुष्याश्.च.सितास्.तिष्ठन्ति.हार्थिकाः ।
३.१४ तरतैताम्.विषक्तिकाम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
३.१४ f: क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
३.१५ तृष्णा.हि.हेतुः.सरिता.विषक्तिका.गण्डस्य.नित्यम्.विसृतेह.जालिनी ।
३.१५ लताम्.पिपासाम्.अपनीय.सर्वशो.निवर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
३.१६ यथापि.मूलैर्.अनुपद्रुतैः.सदा.छिन्नो.अपि.वृक्षः.पुनर्.एव.जायते ।
३.१६ एवम्.हि.तृष्णानुशयैर्.अनुद्धृतैर्.निर्वर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥
३.१७ यथापि.शल्यो.दृढम्.आत्मना.कृतस्.तम्.एव.हन्याद्.बलसा.त्व्.अधिष्ठितः ।
३.१७ तथा.त्व्.इहाध्यात्म.समुत्थिता.लतास्.तृष्णा.वधायोपनयन्ति.प्राणिनाम् ॥
३.१८ एतद्.आदीनवम्.ज्ञात्वा.तृष्णा.दुह्खस्य.सम्भवम् ।
३.१८ वीत.तृष्णो.ह्य्.अनादानः.स्मृतो.भिक्षुः.परिव्रजेत् ॥


अप्रमादवर्ग[सम्पाद्यताम्]

४.१ अप्रमादो.ह्य्.अमृत.पदम्.प्रमादो.मृत्युनः.पदम् ।
४.१ अप्रमत्ता.न.ंरियन्ते.ये.प्रमत्ताः.सदा.मृताः ॥
४.२ एताम्.विशेषताम्.ज्ञात्वा.ह्य्.अप्रमादस्य.पण्डितः ।
४.२ अप्रमादम्.प्रमुद्येत.नित्यम्.आर्यः.स्व.गोचरम् ॥
४.३ अप्रमत्ताः.साततिका.नित्यम्.दृढ.पराक्रमाः ।
४.३ स्पृशन्ति.धीरा.निर्वाणम्.योग.क्षेमम्.अनुत्तरम् ॥
४.४ प्रमादम्.अप्रमादेन.यदा.नुदति.पण्डितः ।
४.४ प्रज्ञा.प्रसादम्.आरुह्य.त्व्.अशोकः.शोकिनीम्.प्रजाम् ।
४.४ f: पर्वतस्थैव.भूमिस्थान्.धीरो.बालान्.अवेक्षते ॥
४.५ उत्तानेनाप्रमादेन.सम्यमेन.दमेन.च ।
४.५ द्वीपम्.करोति.मेधावी.तम्.ओघो.नाभिमर्दति ॥
४.६ उत्थानवतः.स्मृतात्मनः.शुभ.चित्तस्य.निशाम्य.चारिणः ।
४.६ सम्यतस्य.हि.धर्म.जीविनो.ह्य्.अप्रमत्तस्य.यशो.अभिवर्धते ॥
४.७ अधिचेतसि.मा.प्रमद्यत.प्रततम्.मौन.पदेषु.शिक्षत ।
४.७ शोका.न.भवन्ति.तायिनो.ह्य्.उपशान्तस्य.सदा.स्मृतात्मनः ॥
४.८ हीनाम्.धर्माम्.न.सेवेत.प्रमादेन.न.संवसेत् ।
४.८ मिथ्या.दृष्टिम्.न.रोचेत.न.भवेल्.लोक.वर्धनः ॥
४.९ सम्यग्.दृष्टिर्.अधीमात्रा.लौकिकी.यस्य.विद्यते ।
४.९ अपि.जाति.सहस्राणि.नासौ.गच्छति.दुर्गतिम् ॥
४.१० प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
४.१० अप्रमादम्.तु.मेधावी.धनम्.श्रेष्ठीव.रक्षति ॥
४.११ प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः ।
४.११ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.आस्रव.क्षयम् ॥
४.१२ प्रमादम्.नानुयुज्येत.न.काम.रति.संस्तवम् ।
४.१२ अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.अचलम्.सुखम् ॥
४.१३ नायम्.प्रमाद.कालः.स्याद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
४.१३ मारः.प्रमत्तम्.अन्वेति.सिंहम्.वा.मृग.मातृका ॥
४.१४ स्थानानि.चत्वारि.नरः.प्रमत्त;आपद्यते.यः.पर.दार.सेवी ।
४.१४ अपुण्य.लाभम्.ह्य्.अनिकाम.शय्याम्.निन्दाम्.तृतीयम्.नरकम्.चतुर्थम् ॥
४.१५ अपुण्य.लाभम्.च.गतिम्.च.पापिकाम्.भीतस्य.भीताभिर्.अथाल्पिकाम्.रतिम्।
४.१५ निन्दाम्.च.पश्यन्.न्wपतेश्.च.दण्डम्.परस्य.दाराणि.विवर्जयेत ॥
४.१५_ अपुण्य.लाभश्.च.गतिश्.च.पापिका.भीतस्य.भीताभिर्.अथाल्पिका.रतिः ।
४.१५_ राजा.च.दण्डम्.गुरुकम्.ददाति.कायस्य.भेदाद्.नरकेषु.पश्यते ॥
४.१६ प्रतियत्येव.तत्.कुर्याद्.यज्.जानेद्द्.हितम्.आत्मनः ।
४.१६ न.शाकटिक.चिन्ताभिर्.मन्दम्.धीरः.पराक्रमेत् ॥
४.१७ यथा.शाकटिको.मार्गम्.समम्.हित्वा.महा.पथम् ।
४.१७ विषमम्.मार्गम्.आगम्य.छिन्नाक्षः.शोचते.भृशम् ॥
४.१८ एवम्.धर्माद्.अपक्रम्य.ह्य्.अधर्मम्.अनुवर्त्य.च ।
४.१८ बालो.मृत्यु.वशम्.प्राप्तश्.छिन्नाक्ष;इव.शोचते ॥
४.१९ यत्.कृत्यम्.तद्.अपविद्धम्.अकृत्यम्.क्रियते.पुनः ।
४.१९ उद्धतानाम्.प्रमत्तानाम्.तेषाम्.वर्धन्ति;आस्रवाः ।
४.१९ f: आस्रवास्.तेषु.वर्धन्ते;आरात्.ते.ह्य्.आस्रव.क्षयात् ॥
४.२० येषाम्.तु.सुसमारब्धा.नित्यम्.काय.गता.स्मृतिः ।
४.२० अकृत्यम्.ते.न.कुर्वन्ति.कृत्ये.सातत्य.कारिणः ।
४.२० f: स्मृतानाम्.सम्प्रजानानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥
४.२१ न.तावता.धर्म.धरो.यावता.बहु.भाषते ।
४.२१ यस्.त्व्.इहाल्पम्.अपि.श्रुत्वा.धर्मम्.कायेन.वै.स्पृशेत् ।
४.२१ f: स.वै.धर्म.धरो.भवति.यो.धर्मे.न.प्रमाद्यते ॥
४.२२ सुबह्व्.अपीह.सहितम्.भाषमाणो.न.तत्.करो.भवति.नरः.प्रमत्तः ।
४.२२ गोपैव.गाः.संगणयन्.परेषाम्.न.भागवान्.श्रामण्यार्थस्य.भवति ॥[भागवान्.श्रामण्यार्थस्य.]
४.२३ अल्पम्.अपि.चेत्.सहितम्.भाषमाणो.धर्मस्य.भवति.ह्य्.अनुधर्म.चारी ।
४.२३ रागम्.च.दोषम्.च.तथैव.मोहम्.प्रहाय.भागी.श्रामण्यार्थस्य.भवति ॥
४.२४ अप्रमादम्.प्रशंसन्ति.प्रमादो.गर्हितः.सदा ।
४.२४ अप्रमादेन.मघवान्.देवानाम्.श्रेष्ठताम्.गतः ॥
४.२५ अप्रमादम्.प्रशंसन्ति.सदा.कृत्येषु.पण्डिताः ।
४.२५ अप्रमत्तो.ह्य्.उभाव्.अर्थाव्.अतिगृह्णाति.पण्डितः ॥
४.२६ दृष्ट.धार्मिक;एको.अर्थस्.तथान्यः.साम्परायिकः ।
४.२६ अर्थाभिसमयाद्.धीरः.पण्डितो.हि.निरुच्यते ॥
४.२७ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.२७ दुर्गाद्.उद्धरते.त्मानम्.पङ्क.सन्नैव.कुञ्जरः ॥[.आत्मानम्.][.पङ्कसन्नैव.]
४.२८ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.२८ धुनाति.पापकाम्.धर्माम्.पत्त्राणीव.हि.मारुतः ॥
४.२९ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.२९ सम्योजनम्.अणु.स्थूलम्.दहन्न्.अग्निर्.इव.गच्छति ॥
४.३० अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.३० स्पृशति.ह्य्.अनुपूर्वेण.सर्व.सम्योजन.क्षयम् ॥
४.३१ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.३१ प्रतिविध्यते.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥
४.३२ अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः ।
४.३२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
४.३३ उत्तिष्ठत.व्यायमत.दृढम्.शिक्षत शान्तये ।
४.३३ अस्मृतिश्.च.प्रमादश्.चैवानुत्थानम्.असम्यमः ॥
४.३४ निद्रा.तन्द्रीर्.अनायोग;एते.शिक्षान्तरायिकाः ।
४.३४ तद्.अङ्गम्.परिबुध्यध्वम्.स्मृतिर्.मान्तर्.अधीयत ॥
४.३५ उत्तिष्ठेन्.न.प्रमाद्येत.धर्मम्.सुचरितम्.चरेत् ।
४.३५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिंल्.लोके.परत्र.च ।[.अस्मिम्.लोके.]
४.३६ अप्रमाद.रता.भवत.सुशीला.भवत.भिक्षवः ।
४.३६ सुसमाहित.संकल्पाः.स्व.चित्तम्.अनुरक्षत ॥
४.३७ आरभध्वम्.निष्क्रमध्वम्.युज्यध्वम्.बुद्ध.शासने ।
४.३७ धुनिध्वम्.मृत्युनः.सैन्यम्.नडागारम्.इव.कुञ्जरः ॥[.नडागारम्.]
४.३८ यो.ह्य्.अस्मिन्.धर्म.विनये.त्व्.अप्रमत्तो.भविष्यति ।
४.३८ प्रहाय.जाति.संसारम्.दुह्खस्यान्तम्.स.यास्यति ॥


प्रियवर्ग[सम्पाद्यताम्]

५.१ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
५.१ प्रियेभ्यो.विप्रमुक्तानाम्.नास्ति.शोकः.कुतो.भयम् ॥
५.२ प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् ।
५.२ प्रियाणाम्.अन्यथी.भावाद्.उन्मादम्.अपि.गच्छति ॥
५.३ शोका.हि.ये.वै.परिदेवितम्.च.दुह्खम्.च.लोकस्य.हि.नैकरूपम् ।
५.३ प्रियम्.प्रतीत्येह.तद्.अस्ति.सर्वम्.प्रियेऽसति.स्यान्.न.कथंचिद्.एतत् ॥
५.४ तस्माद्द्.हि.ते.सुखिता.वीत.शोका.येषाम्.प्रियम्.नास्ति.कथंचिद्.एव ।
५.४ तस्माद्.अशोकम्.पदम्.एषमाणः.प्रियम्.न.कुर्वीत.हि.जीव.लोके ॥
५.५ मा.प्रियैः.संगमो.जातु.मा.च.स्याद्.अप्रियैः.सदा ।
५.५ प्रियाणाम्.अदर्शनम्.दुह्खम्.अप्रियाणाम्.च.धर्शनम् ॥
५.६ प्रियाणाम्.च.विना.भावाद्.अप्रियाणाम्.च.संगमात् ।
५.६ तीव्र;उत्पद्यते.शोको.जीर्यन्ते.येन.मानवाः ॥
५.७ प्रियम्.मृतम्.काल.गतम्.ज्ञातयः.सहिताः.स्थिताः ।
५.७ शोचन्ति.दीर्घम्.अध्वानम्.दुह्खो.हि.प्रिय.संगमः ॥
५.८ तस्मात्.प्रियम्.न.कुर्वीत.प्रिय.भावो.हि.पापकः ।
५.८ ग्रन्थास्.तेषाम्.न.विद्यन्ते.येषाम्.नास्ति.प्रियाप्रियम् ।
५.९ अयुगे.युज्य.चात्मानम्.युगे.चायुज्य.सर्वदा ।
५.९ अर्थम्.हित्वा.प्रिय.ग्राही.स्पृहयत्य्.अर्थ.योगिने ॥
५.१० प्रिय.रूप.सात.ग्रथिता.देव.कायाः.पृथक्.स्थिताः ।
५.१० आघादिनः.परिद्यूना.मृत्यु.राज.वशम्.गताः ॥
५.११ ये.वै.दिवा.च.रात्रौ.चैव;अप्रमत्ताः.प्रियम्.जहति.नित्यम् ।
५.११ ते.वै.खनन्ति.त्व्.अघ.मूलम्.मृत्यु-र्-आमिषम्.दुरतिवर्त्यम् ॥
५.१२ असाधु.साधु.रूपेण.प्रिय.रूपेण.चाप्रियम् ।
५.१२ दुह्खम्.सुखस्य.रूपेण.प्रमत्तानभिमर्दति ॥
५.१३ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् ।
५.१३ न.ह्य्.एतत्.सुलभम्.भवति.सुखम्.दुष्कृत.कारिणा ॥
५.१४ आत्मानम्.चेत्.प्रियम्.विद्यान्.नैनम्.पापेन.योजयेत् ।
५.१४ एतद्द्.हि.सुलभम्.भवति.सुखम्.सुकृत.कारिणा ॥
५.१५ आत्मानम्.चेत्.प्रियम्.विद्याद्.रक्षेद्.एनम्.सुरक्षितम् ।
५.१५ यथा.प्रत्यन्त.नगरम्.गम्भीर.परिखम्.दृढम् ।
५.१५ f: त्रयाणाम्.अन्यतमम्.यामम्.प्रतिजाग्रेत.पण्डितः ॥
५.१६ आत्मानम्.चेत्.प्रियम्.विद्याद्.गोपयेत्.तम्.सुगोपितम् ।
५.१६ यथा.प्रत्यन्त.नगरम्.गुप्तम्.अन्तर्.बहिस्थिरम् ।[.अन्तर्.बहिः.स्थिरम्.]
५.१७ एवम्.गोपयतात्मानम्.क्षणो.वो.मा.ह्य्.उपत्यगात् ।
५.१७ क्षणातीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥
५.१८ सर्वा.दिशस्.त्व्.अनुपरिगम्य.चेतसा.नैवाध्यगात्.प्रियतरम्.आत्मनः.क्वचित् ।
५.१८ एवम्.प्रियः.पृथग्.आत्मा.परेषाम्.तस्मान्.न.हिंस्यात्.परम्.आत्म.कारणम् ॥
५.१९ सर्वे.दण्डस्य.बिभ्यन्ति.सर्वेषाम्.जीवितम्.प्रियम् ।
५.१९ आत्मानम्.उपमाम्.कृत्वा.नैव.हन्यान्.न.घातयेत् ॥
५.२० चिर.प्रवासिनम्.यद्वद्.दूरतः.स्वस्तिनागतम् ।
५.२० ज्ञातयः.सुहृदो.मित्राश्.चाभिनन्दन्त्यागतम् ॥
५.२१ कृत.पुण्यम्.तथा.मर्त्यम्.अस्मांल्.लोकात्.परम्.गतम् ।[.अस्माल्.लोकात्.]
५.२१ पुण्यान्य्.एवाभिनन्दन्ति.प्रियम्.ज्ञातिम्.इवागतम् ॥
५.२२ तस्मात्.कुरुत.पुण्यानाम्.निचयम्.साम्परायिकम् ।
५.२२ पुण्यानि.पर.लोके.हि.प्रतिष्ठा.प्राणिनाम्.हि.सा ॥
५.२३ पुण्यम्.देवाः.प्रशंसन्ति.सम.चर्याम्.च.यश्.चरेत् ।
५.२३ इह.चानिन्दितो.भवति.प्रेत्य.स्वर्गे.च.मोदते ॥
५.२४ धर्मस्थम्.शील.सम्पन्नम्.ह्रीमन्तम्.सत्य.वादिनम् ।
५.२४ आत्मनः.कारकम्.सन्तम्.तम्.जनः.कुरुते.प्रियम् ॥
५.२५ परेषाम्.च.प्रियो.भवति.ह्य्.आत्मार्थम्.क्रियतेऽपि.च ।
५.२५ दृष्टे.च.धर्मे.प्राशंस्यः.साम्पराये.च.सद्.गतिः ॥
५.२६ अववदेतानुशासीत.चासभ्याच्.च.निवारयेत् ।
५.२६ असताम्.न.प्रियो.भवति.सताम्.भवति.तु.प्रियः ॥
५.२७ असन्तश्.चैव.सन्तश्.च.नाना.यान्ति.त्व्.इतश्.च्युताः ।
५.२७ असन्तो.नरकम्.यान्ति.सन्तः.स्वर्ग.परायणाः ॥


शीलवर्ग[सम्पाद्यताम्]

६.१ शीलम्.रक्षेत.मेधावी.प्रार्थयन्.वै.सुख.त्रयम् ।[.प्रार्थयं.]
६.१ प्रशंसा.वित्त.लाभम्.च.प्रेत्य.स्वर्गे.च.मोदनम् ॥
६.२ स्थानान्य्.एतानि.सम्पश्यन्.शीलम्.रक्षेत.पण्डितः ।
६.२ आर्यो.दर्शन.सम्पन्नः.स.लोके.लभते.शिवम् ॥
६.३ सुखम्.शील.समादानम्.कायो.न.परिदह्यते ।
६.३ सुखम्.च.रात्रौ.स्वपति.प्रतिभुद्धश्.च.नन्दति ॥
६.४ शीलम्.यावज्.जरा.साधु.श्रद्धा.साधु.प्रतिष्ठिता ।
६.४ प्रज्ञा.नराणाम्.रत्नम्.वै.पुण्यम्.चोरैः.सुदुर्हरम् ॥
६.५ कृत्वा.पुण्यानि.सप्रज्ञो.दत्त्वा.दानानि.शीलवान् ।[.दत्वा.]
६.५ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥
६.६ शीले.प्रतिष्ठितो.भिक्षुर्.इन्द्रियैश्.च.सुसंवृतः ।
६.६ भोजने.चापि.मात्रज्ञो.युक्तो.जागरिकासु.च ॥
६.७ विहरन्न्.एवम्.आतापी.ह्य्.अहो.रात्रम्.अतन्द्रितः ।
६.७ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
६.८ शीले.प्रतिष्ठितो.भिक्षुश्.चित्तम्.प्रज्ञाम्.च.भावयेत् ।
६.८ आतापी.निपको.नित्यम्.प्राप्नुयाद्.दुह्ख.संक्षयम् ॥
६.९ तस्मात्.सतत.शीली.स्यात्.समाधेर्.अनुरक्षकः ।
६.९ विपश्यनायाम्.शिक्षेच्.च.सम्प्रजान.प्रतिस्मृतः ॥
६.१० स.तु.विक्षीण.सम्योगः.क्षीण.मानो.निरौपधिः ।
६.१० कायस्य.भेदत्.सप्रज्ञः.संख्यान्.नोपैति.निर्वृतः ॥
६.१११ शीलम्.समाधिः.प्रज्ञा.च.यस्य.ह्य्.एते.सुभाविताः ।
६.११ सो.अत्यन्त.निष्ठो.विमलस्.त्व्.अशोकः.क्षीण.सम्भवः ॥
६.१२ सङ्गात्.प्रमुक्तो.ह्य्.असित;आज्ञातावी.निरौपधिः ।
६.१२ अतिक्रम्य.मार.विषयम्.आदित्यो.वा.विरोचते ॥
६.१३ उद्धतस्य.प्रमत्तस्य.भिक्षुणो.बहिर्.आत्मनः ।
६.१३ शीलम्.समाधिः.प्रज्ञा.च.पारिपूरिम्.न.गच्छति ॥
६.१४ छन्नम्.एवाभिवर्षति.विवृतम्.नाभिवर्षति ।
६.१४ तस्माद्द्.हि.छन्नम्.विवरेद्.एवम्.तम्.नाभिवर्षति ॥[.च्छन्नम्.]
६.१५ एतद्द्.हि.दृष्ट्वा.शिक्षेत.सदा.शीलेषु.पण्डितः ।
६.१५ निर्वाण.गमनम्.मार्गम्.क्षिप्रम्.एव.विशोधयेत् ॥
६.१६ न.पुष्प.गन्धः.प्रतिवातम्.एति.न.वाह्निजात्.तगराच्.चन्दनाद्.वा ।
६.१६ सताम्.तु.गन्धः.प्रतिवातम्.एति.सर्वा.दिशः.सत्.पुरुषः.प्रवाति ॥
६.१७ तगराच्.चन्दनाच्.चापि.वार्षिकायास्.तथोत्पलात् ।
६.१७ एतेभ्यो.गन्ध.जातेभ्यः.शील.गन्धस्.त्व्.अनुत्तरः ॥
६.१८ अल्प.मात्रो.ह्य्.अयम्.गन्धो.यो.अयम्.तगर.चन्दनात् ।
६.१८ यस्.तु.शीलवताम्.गन्धो.वाति.देवेष्व्.अपीह.सः ।
६.१९ तेषाम्.विशुद्ध.शीलानाम्.अप्रमाद.विहारिणाम् ।
६.१९ सम्यग्.आज्ञा.विमुक्तानाम्.मारो.मार्गम्.न.विन्दति ॥
६.२० एष.क्षेम.गमो.मार्ग;एष.मार्गो.विशुद्धये ।
६.२० प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥


सुचरितवर्ग[सम्पाद्यताम्]

७.१ काय.प्रदोषम्.रक्षेत.स्यात्.कायेन.सुसंवृतः ।
७.१ काय.दुश्चरितम्.हित्वा.कायेन.सुकृतम्.चरेत् ॥
७.२ वाचः.प्रदोषम्.रक्षेत.वचसा.संवृतो.भवेत् ।
७.२ वाचो.दुश्चरितम्.हित्वा.वाचा.सुचरितम्.चरेत् ॥
७.३ मनः.प्रदोषम्.रक्षेत.मनसा.संवृतो.भवेत् ।
७.३ मनो.दुश्चरितम्.हित्वा.मनः.सुचरितम्.चरेत् ॥
७.४ काय.दुश्चरितम्.हित्वा.वचो.दुश्चरितानि.च ।
७.४ मनो.दुश्चरितम्.हित्वा.यच्.चान्यद्.दोष.संहितम् ॥
७.५ कायेन.कुशलम्.कुर्याद्.वचसा.कुशलम्.बहु ।
७.५ मनसा.कुशलम्.कुर्याद्.अप्रमाणम्.निरौपधिम् ॥
७.६ कायेन.कुशलम्.कृत्वा.वचसा.चेतसापि.च ।
७.६ इह.चाथ.परत्रासौ.सुखम्.समधिगच्छति ॥
७.७ अहिंसका.वै.मुनयो.नित्यम्.कायेन.संवृताः ।
७.७ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
७.८ अहिंसका.वै.मुनयो.नित्यम्.वाचा.सुसंवृताः ।
७.८ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
७.९ अहिंसका.वै.मुनयो.मनसा.नित्य.संवृताः ।
७.९ ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
७.१० कायेन.संवृता.धीरा.धीरा.वाचा.सुसंवृताः ।
७.१० मनसा.संवृता.धीरा.धीराः.सर्वत्र.संवृताः ।
७.१० f: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥
७.११ कायेन.संवरः.साधु.साधु.वाचा.च.संवरः ।
७.११ मनसा.संवरः.साधु.साधु.सर्वत्र.संवरः ।
७.११ f: सर्वत्र.संवृतो.भिक्षुः.सर्व.दुह्खात्.प्रमुच्यते ॥
७.१२ वाचानुरक्षी.मनसा.सुसंवृतः.कायेन.चैवाकुशलम्.न.कुर्यात् ।
७.१२ एताम्.शुभाम्.कर्म.पथाम्.विशोधयन्न्.आराधयेन्.मार्गम्.ऋषि.प्रवेदितम् ॥


वाचवर्ग[सम्पाद्यताम्]

८.१ अभूत.वादी.नरकान्.उपैति.यश्.चान्यद्.अप्य्.आचरतीह.कर्म ।
८.१ उभौ.हि.तौ.प्रेत्य.समौ.निरुक्तौ.निहीन.धर्मौ.मनुजौ.परत्र ॥
८.२ पुरुषस्य.हि.जातस्य.कुठारी.जायते.मुखे ।
८.२ यया.छिनत्ति.हात्मानम्.वाचा.दुर्भाषितम्.वदन् ॥
८.३ यो.निन्दियाम्.प्रशंसति.तान्.अपि.निन्दति.ये.प्रशंसियाः ।
८.३ स.चिनोति.मुखेन.तम्.कलिम्.कलिना.तेन.सुखम्.न.विन्दति ॥
८.४ अल्प.मात्रो.ह्य्.अयम्.कलिर्.य;इह्हाक्षेण.धनम्.पराजयेत् ।
८.४ अयम्.अत्र.महत्तरः.कलिर्.यः.सुगतेषु.मनः.प्रदूषयेत् ॥
८.५ शतम्.सहस्राणि.निरर्बुदानि.षट्.त्रिंशतिम्.पञ्च.तथार्बुदानि ।
८.५ यान्.आर्य.गर्ही.नरकान्.उपैति.वाचम्.मनश्.च.प्रणिधाय.पापकम् ॥
८.६ असतम्.हि.वदन्ति.पाप.चित्ता.नरकम्.वर्धयते.वधाय.नित्यम् ।
८.६ अनवद्य.बलस्.तितीक्षते.ताम्.मनसो.ह्य्.आविलताम्.विवर्जयित्वा ॥[.तितिक्षते.]
८.७ यः.शासनम्.ह्य्.अर्हताम्.आर्याणाम्.धर्म.जीविनाम् ।
८.७ प्रतिक्रोशति.दुर्मेधा.दृष्टिम्.निह्श्रित्य.पापिकाम् ।
८.८ कल्याणिकाम्.विमुञ्चेत.नैव.मुञ्चेत.पापिकाम् ।
८.८ मुक्ता.कल्याणिकी.श्रेयो.मुक्ता.तपति.पापिका ॥
८.९ न.च.मुक्ते.प्रमुञ्चेत्.ताम्.मुञ्चमानो.हि.बाध्यते ।
८.९ नैवम्.आर्याः.प्रमुञ्चन्ति.मुक्ता.बालैर्.हि.पापिका ॥
८.१० मुखेन.सम्यतो.भिक्षुर्.मन्द.भाषी.ह्य्.अनुद्धतः ।
८.१० अर्थम्.धर्मम्.च.देशयति.मधुरम्.तस्य.भाषितम् ॥
८.११ सुभाषितम्.ह्य्.उत्तमम्.आहुर्.आर्या.धर्मम्.वदेन्.नाधर्मम्.तद्.द्वितीयम् ।
८.११ प्रियम्.वदेन्.नाप्रियम्.तत्.तृतीयम्.सत्यम्.वदेन्.नासत्यम्.तच्.चतुर्थम् ॥
८.१२ ताम्.एव.वाचम्.भाषेत.ययात्मानम्.न.तापयेत् ।
८.१२ परांश्.च.न.विहिंसेत.सा.हि.वाक्.साधु.भाषिता ॥
८.१३ प्रियोद्यम्.एव.भाषेत.या.हि.वाचाभिनन्दिता ।
८.१३ नाददाति.यया.पापम्.भाषमाणः.सदा.प्रियम् ॥
८.१४ सत्या.स्याद्.अमृता.वाचा.सत्य.वाचा.ह्य्.अनुत्तरा ।
८.१४ सत्यम्.अर्थे.च.धर्मे.च.वाचम्.आहुः.प्रतिष्ठिताम् ॥
८.१५ याम्.बुद्धो.भाषते.वाचम्.क्षेमाम्.निर्वाण.प्राप्तये ।
८.१५ दुह्खस्यान्त.क्रिया.युक्ताम्.सा.हि.वाक्.साधु.भाषिता ॥


कर्मवर्ग[सम्पाद्यताम्]

९.१ एक.धर्मम्.अतीतस्य.मृषा.वादस्य.जन्तुनः ।
९.१ वितीर्ण.पर.लोकस्य.नाकार्यम्.पापम्.अस्ति.यत् ॥
९.२ श्रेयो.ह्य्.अयोगुडा.भुक्तास्.तप्ता.ह्य्.अग्नि.शिखोपमाः ।
९.२ न.तु.भुञ्जीइत.दुह्शीलो.राष्ट्र.पिण्डम्.असम्यतः ॥
९.३ स.चेद्.बिभेषि.दुह्खस्य.स.चेत्.ते.दुह्खम्.अप्रियम् ।
९.३ मा.कार्षीः.पापकम्.कर्म.त्व्.आविर्.वा.यदि.वा.रहः ॥
९.४ स.चेत्.पापानि.कर्माणि.करिष्यसि.करोषि.वा ।
९.४ न.ते.दुह्खात्.प्रमोक्षो.अस्ति.ह्य्.उत्प्लुत्यापि.पलायतः ॥
९.५ नैवान्तरीक्षे.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य ।
९.५ न.विद्यतेऽसौ.पृथिवी.प्रदेशो.यत्र.स्थितम्.न.प्रसहेत.कर्म ॥
९.५ कृष्ण.शुक्लानि.कर्माणि.न.प्रणश्यन्ति.देहिनः ।
९.५ कालम्.प्रा - - - इष्यन्ते.कृतान्य्.उप---नानि.च ॥
९.६ यत्.परेषाम्.विगर्हेत.कर्म.दृष्ट्वेह.पापकम् ।
९.६ आत्मना.तन्.न.कुर्वीत.कर्म.बद्धो.हि.पापकः ।
९.७ ये.कूट.मान.योगेन.विषमेण.च.कर्मणा ।
९.७ मनुष्यान्.उपहिंसन्ति.परतो.उपक्रमेण.वा ।[.परतोपक्रमेण.वा.]
९.७ ते.वै.प्रपातम्.प्रपतन्ति.कर्म.बद्धा.हि.ते.जनाः ॥
९.८ यत्.करोति.नरः.कर्म.कल्याणम्.अथ.पापकम् ।
९.८ तस्य.तस्यैव.दायादो.न.हि.कर्म.प्रणश्यति ॥
९.९ विलुम्पते.हि.पुरुषो.यावद्.अस्योपकल्पते ।
९.९ ततो.अन्ये.तम्.विलुम्पन्ति.स.विलोप्ता.विलुप्यते ॥
९.१० कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति ।
९.१० साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ॥
९.११ कुर्वन्.हि.मन्यते.बालो.नैतम्.माम्.आगमिष्यति ।
९.११ पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥
९.१२ स.चेत्.पापानि.कर्माणि.कुर्वन्.बालो.न.बुध्यते ।
९.१२ कर्मभिः.स्वैस्.तु.दुर्मेधा.ह्य्.अग्नि.दग्धैव.तप्यते ॥[.अग्नि.दग्धैव.तप्यते.]
९.१३ चरन्ति.बाला.दुष्प्रज्ञा.ह्य्.अमित्रैर्.इव.चात्मभिः ।
९.१३ कुर्वन्तः.पापकम्.कर्म.यद्.भवति.कटुकम्.फलम् ॥
९.१४ न.तत्.कर्म.कृतम्.साधु.यत्.कृत्वा.ह्य्.अनुतप्यते ।
९.१४ रुदन्न्.अश्रु.मुखो.यस्य.विपाकम्.प्रतिषेवते ॥
९.१५ तत्.तु.कर्म.कृतम्.साधु.यत्.कृत्वा.नानुतप्यते ।
९.१५ यस्य.प्रतीतः.सुमना.विपाकम्.प्रतिषेवते ॥
९.१६ हसन्तः.पापकम्.कर्म.कुर्वन्त्य्.आत्म.सुखैषिणः ।
९.१६ रुदन्तस्.तस्य.वीपाकम्.प्रतिविन्दन्ति.दुह्खिताः ॥[.विपाकम्.]
९.१७ न.हि.पाप.कृतम्.कर्म.सद्यः.क्षीरम्.इव.मूर्छति ।[.मूर्च्छति.]
९.१७ दहन्.तद्.बालम्.अन्वेति.भस्माच्छन्न;इवानलः ॥
९.१८ न.हि.पाप.कृतम्.कर्म.सद्यः.शस्त्रम्.इव.कृन्तति ।
९.१८ साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ।
९.१८ f: पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥
९.१९ अयसो.हि.मलः.समुत्थितः.स.तद्.उत्थाय.तम्.एव.खादति ।
९.१९ एवम्.ह्य्.अनिशाम्य.चारिणम्.स्वानि.कर्माणि.नयन्ति.दुर्गतिम् ॥


श्रद्धावर्ग[सम्पाद्यताम्]

१०.१ श्रद्धाथ.ह्री.शीलम्.अथापि.दानम्.धर्मा;इमे.सत्.पुरुष.प्रशस्ताः ।
१०.१ एतम्.हि.मार्गम्.दिव्यम्.वदन्ति;एतेनासौ.गच्छति.देव.लोकम् ॥
१०.२ न.वै.कदर्या.देव.लोकम्.व्रजन्ति.बाला.हि.ते.न.प्रशंसन्ति.दानम् ।
१०.२ श्राधस्.तु.दानम्.ह्य्.अनुमोदमानो.अप्य्.एवम्.ह्य्.असौ.भवति.सुखी.परत्र ॥
१०.३ श्रद्धा.हि.वित्तम्.पुरुषस्य.श्रेष्ठम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
१०.३ सत्यम्.हि.वै.स्वादुतमम्.रसानाम्.प्रज्ञाजीवी.जीविनाम्.श्रेष्ठ;उक्तः ॥
१०.४ श्रद्धा.धनो.ह्य्.अर्हताम्.धर्मम्.निर्वाण.प्राप्तये ।
१०.४ शुश्रूषुर्.लभते.प्रज्ञाम्.तत्र.तत्र.विचक्षणः ।[.शुश्रुशुर्.]
१०.५ श्रद्धया.तरति.ह्य्.ओघम्.अप्रमादेन.चार्णवम् ।
१०.५ वीर्येण.त्यजते.दुह्खम्.प्रज्ञया.परिशुध्यते ॥
१०.६ श्रद्धा.द्वितीया.पुरुषस्य.भवति.प्रज्ञा.चैनम्.प्रशासति ।
१०.६ निर्वाणाभिरतो.भिक्षुश्.छिनत्ति.भव.बन्धनम् ॥
१०.७ यस्य.श्रद्धा.च.शीलम्.चैवाहिंसा.सम्यमो.दमः ।
१०.७ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
१०.८ श्राद्धः.शीलेन.सम्पन्नस्.त्यागवान्.वीत.मत्सरः ।
१०.८ व्रजते.यत्र.यत्रैव.तत्र.तत्रैव.पूज्यते ॥
१०.९ यो.जीव.लोके.लभते.श्रद्धाम्.प्रज्ञाम्.च.पण्डितः ।
१०.९ तद्द्.हि.तस्य.धनम्.श्रेष्ठम्.हीनम्.अस्येतरद्.धनम् ॥
१०.१० आर्याणाम्.दर्शनः.कामः.सद्.धर्म.श्रवणे.रतः ।
१०.१० विनीत.मात्सर्य.मलः.स.वै.श्राद्धो.निरुच्यते ॥
१०.११ श्राद्धो.गृह्णाति.पाथेयम्.पुण्यम्.चोरैः.सुदुर्हरम् ।
१०.११ चोरम्.हरन्तम्.वारयति.हरन्तः.श्रमणाः.प्रियाः ।
१०.११ f: श्रमणान्.आगतान्.दृष्ट्वा;अभिनन्दन्ति.पण्डिताः ॥
१०.१२ ददन्त्य्.एके.यथा.श्रद्धा.यथा.विभवतो.जनाः ।
१०.१२ तत्र.यो.दुर्मना.भवति.परेषाम्.पान.भोजने ।
१०.१२ f: नासौ.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
१०.१३ यस्य.त्व्.एते.समुच्छिन्नास्.ताल.मस्तकवद्द्.हताः ।[.मस्तकवद्.धताः.]
१०.१३ स.वै.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥
१०.१४ वीत.श्रद्धम्.न.सेवेत.ह्रदम्.यद्वद्द्.हि.निर्जलम् ।
१०.१४ स.चेत्.खनेल्.लभेत्.तत्र.वारि.कर्दम.गन्धिकम् ॥
१०.१५ श्राद्धम्.प्राज्ञम्.तु.सेवेत.ह्रदम्.यद्वज्.जलार्थिकः ।
१०.१५ अच्छोदकम्.विप्रसन्नम्.शीत.तोयम्.अनाविलम् ।[.अच्छोदकम्.]
१०.१६ नानुरक्ता;इति.रज्येत.ह्य्.अत्र.वै.दीर्यते.जनः ।
१०.१६ अप्रसन्नाम्.वर्जयित्वा.प्रसन्नान्.उपसेवते ॥[१० श्रद्धावर्गह्]
१०_उद्दानम्_ अनित्य.काम.तृष्णा.च;अप्रमादस्.तथा.प्रियः ।[प्.१८४]
१०_उद्दानम्_ शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥[प्.१८४]


श्रमणवर्ग[सम्पाद्यताम्]

११.१ छिन्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.सर्वशः ।
११.१ नाप्रहाय.मुनिः.कामान्.एकत्वम्.अधिगच्छति ॥
११.२ कुर्वाणो.हि.सदा.प्राज्ञो.दृढम्.एव.पराक्रमेत् ।
११.२ शिथिला.खलु.प्रव्रज्या.ह्य्.आददाति.पुनो.रजः ॥
११.३ यत्.किंचित्.शिथिलम्.कर्म.संक्लिष्टम्.वापि.यत्.तपः ।
११.३ अपरिशुद्धम्.ब्रह्मचर्यम्.न.तद्.भवति.महा.फलम् ॥
११.४ शरो.यथा.दुर्गृहीतो.हस्तम्.एवापकृन्तति ।
११.४ श्रामण्यम्.दुष्परामृष्टम्.नरकान्.उपकर्षति ॥
११.५ शरो.यथा.सुगृहीतो.न.हस्तम्.अपकृन्तति ।
११.५ श्रामण्यम्.सुपरामृष्टम्.निर्वाणस्यैव.सो.अन्तिके ॥
११.६ दुष्करम्.दुस्तितीक्षम्.च.श्रामण्यम्.मन्द.बुद्धिना ।[.दुस्तितिक्षम्.]
११.६ बहवस्.तत्र.सम्बाधा.यत्र.मन्दो.विषीदति ॥
११.७ श्रामण्ये.चरते.यस्.तु.स्व.चित्तम्.अनिवारयेत् ।
११.७ पुनः.पुनर्.विषीदेत्.स.संकल्पानाम्.वशम्.गतः ॥
११.८ दुष्प्रव्रज्यम्.दुरभिरमम्.दुरध्यावसिता.गृहाः ।
११.८ दुह्खासमान.संवासा.दुह्खाश्.चोपचिता.भवाः ॥[.दुह्खासमान.संवासा.]
११.९ काषाय.कण्ठा.बहवः.पाप.धर्मा.ह्य्.असम्यताः ।
११.९ पापा.हि.कर्मभिः.पापैर्.इतो.गच्छन्ति.दुर्गतिम् ।
११.१० यो.असाव्.अत्यन्त.दुह्शीलः.सालवान्.मालुता.यथा ।
११.१० करोत्य्.असौ.तथात्मानम्.यथैनम्.द्विषद्.इच्छति ॥
११.११ स्थविरो.न.तावता.भवति.यावता.पलितम्.शिरः ।
११.११ परिपक्वम्.वयस्.तस्य.मोह.जीर्णः.स;उच्यते ॥
११.१२ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
११.१२ विश्रेणयित्वा.चरति.स.वै.स्थविर;उच्यते ॥
११.१३ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
११.१३ इच्छा.लोभ.समापन्नः.श्रमणः.किम्.भविष्यति ॥
११.१४ न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् ।
११.१४ शमितम्.येन.पापम्.स्याद्.अणु.स्थूलम्.हि.सर्वशः ।
११.१४ f: शमितत्वात्.तु.पापानाम्.श्रमणो.हि.निरुच्यते ॥
११.१५ ब्राह्मणो.वाहितैः.पापैः.श्रमणः.शमिताशुभः ।
११.१५ प्रव्राजयित्वा.तु.मलान्.उक्तः.प्रव्रजितस्.त्व्.इह ॥


मार्गवर्ग[सम्पाद्यताम्]

१२.१ आर्य.सत्यानि.चत्वारि.प्रज्ञया.पश्यते.यदा ।
१२.१ एष.मार्गम्.प्रजानाति.भव.तृष्णा.प्रदालनम् ॥
१२.२ उद्धतम्.हि.रजो.वातैर्.यथा.वृष्टेन.शाम्यति ।
१२.२ एवम्.शाम्यन्ति.संकल्पाः.प्रज्ञया.पश्यते.यदा ॥
१२.३ श्रेष्ठा.हि.प्रज्ञा.लोकेऽस्मिन्.येयम्.निर्वेद.गामिनी ।
१२.३ यया.सम्यक्.प्रजानाति.जाति.मरण.संक्षयम् ॥
१२.४ मार्गेष्व्.अष्टाङ्गिकः.श्रेष्ठश्.चत्वार्य्.आर्याणि.सत्यतः ।
१२.४ श्रेष्ठो.विरागो.धर्माणाम्.चक्षुष्मान्.द्विपदेषु.च ॥
१२.५ अनित्यान्.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
१२.५ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
१२.६ दुह्खम्.हि.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।
१२.६ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
१२.७ शुन्यतः.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा ।[.शून्यतः.]
१२.७ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
१२.८ सर्व.धर्मा;अनात्मानः.प्रज्ञया.पश्यते.यदा ।
१२.८ अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥
१२.९ आख्यातो.वो.मया.मार्गस्.त्व्.अज्ञायै.शल्य.कृन्तनः ।
१२.९ युष्माभिर्.एव.करणीयम्.आख्यातारस्.तथा.गताः ॥
१२.१० देशितो.वो.मया.मार्गस्.तृष्णा.शल्य.निकृन्तनः ।
१२.१० युष्माभिर्.एव.करणीयम्.देष्टारो.हि.तथा.गताः ॥
१२.११ एषो.हि.मार्गो.नास्त्य्.अन्यो.दर्शनस्य.विशुद्धये ।
१२.११ प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥
१२.१२ एषो.अञ्जसो.ह्य्.एष.च.वै.पराक्रमे.त्व्.एकायनो.हंस.पथो.यथा.ह्रदे ।
१२.१२ यम्.अध्यगात्.शाक्य.मुनिः.समाहितस्.तम्.एव.चाख्याति.गणेष्व्.अभीक्ष्णशः ॥
१२.१३ एकायनम्.जाति.जरान्त.दर्शी.मार्गम्.वदत्य्.एष.हितानुकम्पी ।
१२.१३ एतेन.मार्गेण.हि.तीर्णवन्तस्.तरिष्यते.ये.प्रतरन्ति.चौघम् ॥
१२.१४ अत्यन्त.निष्ठाय.दमाय.शुद्धये.संसार.जाती.मरण.क्षयाय ।
१२.१४ अनेक.धातु.प्रतिषंविधाय.मार्गो.ह्य्.अयम्.लोकविदा.प्रकाशितः ॥
१२.१५ गङ्गा.गतम्.यद्वद्.अपेत.दोषम्.संस्यन्दते.वारि.तु.सागरेण ।
१२.१५ तथैव.मार्गः.सुगत.प्रदेशितः.संस्यन्दतेऽयम्.ह्य्.अमृतस्य.प्राप्तये ॥
१२.१६ यो.धर्म.चक्रम्.ह्य्.अननुश्रुतम्.पुरा.प्रावर्तयत्.सर्व.भूतानुकम्पी ।
१२.१६ तम्.तादृशम्.देव.नराग्र.सत्त्वम्.नित्यम्.नमस्येत.भवस्य.पारगम् ॥[.देवनराग्रसत्वम्.]
१२.१७ सदा.वितर्कान्.कुशलान्.वितर्कयेत्.सदा.पुनश्.चाकुशलान्.विवर्जयेत् ।
१२.१७ ततो.वितर्कांश्.च.विचारितानि.च.प्रहास्यते.वृष्टिर्.इवोद्धतम्.रजः ॥
१२.१८ स.वै.वितर्कोपशमेन.चेतसा.स्पृशेत.सम्बोधि.सुखम्.ह्य्.अनुत्तरम् ।
१२.१८ शुभम्.समाधिम्.मनसा.निबन्धयेद्.विवेकजम्.भावयित्वाप्रमाणम् ।
१२.१८ f: प्रदालयित्वा.त्रिभिर्.आलयांस्.त्रीन्.जहाति.बन्धान्.निपकः.प्रतिस्मृतः ॥
१२.१९ प्रज्ञायुधो.ध्यान.बलोपपेतः.समाहितो.ध्यान.रतः.स्मृतात्मा ।
१२.१९ लोकस्य.बुद्ध्वा.ह्य्.उदय.व्ययम्.च.विमुच्यते.वेदकः.सर्वतो.असौ ॥
१२.२० सुखम्.सुखार्थी.लभते.समाचरन्.कीर्तिम्.समाप्नोति.यशश्.च.सर्वतः ।
१२.२० य;आर्यम्.अष्टाङ्गिकम्.आञ्जसम्.शिवम्.भावयति.मार्गम्.ह्य्.अमृतस्य.प्राप्तये ॥


सत्कारवर्ग[सम्पाद्यताम्]

१३.१ फलम्.वै.कदलिम्.हन्ति.फलम्.वेणुम्.फलम्.नडम् ।
१३.१ सत्कारः.कापुरुषम्.हन्ति.स्व.गर्भो.अश्वतरीम्.यथा ॥
१३.२ यावद्.एव.ह्य्.अनर्थाय.ज्ञातो.भवति.बालिशः ।
१३.२ हन्ति.बालस्य.शुक्लांशम्.मूर्धानम्.चास्य.पातयेत् ॥
१३.३ असन्तो.लाभम्.इच्छन्ति.सत्कारम्.चैव.भिक्षुषु ।
१३.३ आवासेषु.च.मात्सर्यम्.पूजाम्.पर.कुलेषु.च ॥
१३.४ माम्.एव.नित्यम्.जानीयुर्.गृही.प्रव्रजितस्.तथा ।
१३.४ मम.प्रतिवशाश्.च.स्युः.कृत्याकृत्येषु.केषुचित् ॥
१३.५ इति.बालस्य.संकल्पा;इच्छा.मानाभिवर्धकाः ।
१३.५ अन्या.हि.लाभोपनिषद्.अन्या.निर्वाण.गामिनी ॥
१३.६ एतज्.ज्ञात्वा.यथा.भूतम्.बुद्धानाम्.श्रावकः.सदा ।
१३.६ सत्कारम्.नाभिनन्देत.विवेकम्.अनुबृंहयेत् ॥
१३.७ न.व्यायमेत.सर्वत्र.नान्येषाम्.पुरुषो.भवेत् ।
१३.७ नान्याम्.निह्श्रित्य.जीवेत.धर्मेण.न.वणिक्.चरेत् ॥
१३.८ स्व.लाभम्.नावमन्येत.नान्येषाम्.स्पृहको.भवेत् ।
१३.८ अन्येषाम्.स्पृहको.भिक्षुः.समाधिम्.नाधिगच्छति ॥
१३.९ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
१३.९ अहिर्.मूषक.दुर्गम्.वा.सेवेत.शयनासनम् ॥
१३.१० सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
१३.१० इतरेतरेण.संतुष्येद्.एक.धर्मम्.च.भावयेत् ॥
१३.११ सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्यार्थेष्व्.अवेक्षवान् ।
१३.११ सांघिकम्.नावमन्येत.चीवरम्.पान.भोजनम् ॥
१३.१२ अल्प.ज्ञातो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
१३.१२ विद्वांसस्.तम्.प्रशंसन्ति.शुद्धाजीवम्.अतन्द्रितम् ॥[.शुद्धाजीवम्.]
१३.१३ त्रैविद्यः.स्यात्.स.चेद्.भिक्षुर्.मृत्यु.हन्ता.निरास्रवः ।
१३.१३ अल्प.ज्ञातम्.इति.ज्ञात्वा.ह्य्.अवजानन्त्य्.अजानकाः ॥
१३.१३ स.चेद्.भवति.त्रैविद्यो.मृत्यु.हायी.निरास्रवः ।
१३.१३ ज्ञात्वाल्प.ज्ञात;इति.तम्.अवजानन्त्य्.अजानकाः ॥
१३.१४ स.चेत्.त्व्.इहान्न.पानस्य.लाभी.भवति.पुद्गलाः ।
१३.१४ पाप.धर्मापि.चेद्.भवति.स.तेषाम्.भवति.पूजितः ॥
१३.१५ बहून्.अमित्रान्.लभते.संघाटी.प्रावृतः.सदा ।
१३.१५ लाभी.यो.ह्य्.अन्न.पानस्य.वस्त्र.शय्यासनस्य.च ॥
१३.१६ एतद्.आदी.नवम्.ज्ञात्वा.सत्कारेषु.महा.भयम् ।[.आदीनवम्.]
१३.१६ अल्प.ज्ञातो.ह्य्.अनुत्सुकः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
१३.१७ नायम्.अनशनेन.जीवते.नाहारो.हृदयस्य.शान्तये ।
१३.१७ आहारः.स्थितये.तु.विद्यते.तज्.ज्ञात्वा.हि.चरेत;एषणाम् ॥
१३.१८ पङ्कस्.त्व्.इति.यो.हि.विन्दते.नित्यम्.वन्दन.मानना.कुले ।
१३.१८ सूक्ष्मः.शल्यो.दुरुद्धरः.सत्कारः.कापुरुषेण.दुस्त्यजः ॥


द्रोहवर्ग[सम्पाद्यताम्]

१४.१ अक्रुद्धस्य.हि.यः.क्रुध्येत्.कर्म.पापम्.अकुर्वतः ।
१४.१ दुह्खम्.तम्.एव.स्पृशति.लोकेऽस्मिंश्.च.परत्र.च ॥
१४.२ पूर्वम्.क्षिणोति.हात्मानम्.पश्चाद्.बाह्यम्.विहिंसति ।
१४.२ स.हतस्.त्व्.इतरम्.हन्ति.वीतंसेनेव.पक्षिणः ॥
१४.३ हन्तारम्.लभते.हन्ता.वैरी.वैराणि.पश्यति ।
१४.३ अक्रोष्टारम्.तथाक्रोष्टा.रोषितारम्.च.रोषकः ॥[.आक्रोष्टारम्.]
१४.४ अन्यत्राश्रवणाद्.अस्य.सद्धर्मस्याविजानकाः ।
१४.४ आयुष्य्.एवम्.परित्ते.हि.वैरम्.कुर्वन्ति.केनचित् ॥
१४.५ पृथक्.शब्दाः.समुत्पन्नास्.तम्.च.श्रेष्ठम्.इति.मन्यथा ।[.पृथक्.छब्दाः.]
१४.५ संघे.हि.भिद्यमानेऽस्मिन्.श्रेष्ठम्.इत्य्.अभिमन्यथा ॥
१४.६ अस्थि.छिदाम्.प्राण.हृताम्.गवाश्व.धन.हारिणाम् ।[.अस्थिच्छिदाम्.]
१४.६ राष्ट्रम्.विलुम्पताम्.चैव.पुनर्.भवति.संगतम् ।
१४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
१४.६ अस्थि.छिन्नाः.प्राण.हरा.गवाश्व.धन.हारकाः ।[.अस्थिच्छिनाः.]
१४.६ राष्ट्राणाम्.च.विलोप्तारस्.तेषाम्.भवति.संगतम् ।
१४.६ f: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥
१४.७ पण्डिताभा.परामृष्टा.वाग्.या.गोचर.भाषिणी ।
१४.७ व्यायच्छन्ति.मुखम्.वामा.यया.नीता.न.ते.बुधाः ॥
१४.८ परे.हि.न.विजानन्ति.वयम्.अत्रोद्यमामहे ।
१४.८ अत्र.ये.तु.विजानन्ति.तेषाम्.शाम्यन्ति.मेधकाः ॥
१४.९ आक्रोशन्.माम्.अवोचन्.माम्.अयोजन्.माम्.अजापयेत् ।
१४.९ अत्र.ये.ह्य्.उपनह्यन्ति.वैरम्.तेषाम्.न.शाम्यति ॥
१४.१० आक्रोशन्.माम्.अवोचन्.माम्.अजयन्.माम्.अजापयेत् ।
१४.१० अत्र.ये.नोपनह्यन्ति.वैरम्.तेषाम्.प्रशाम्यति ॥
१४.११ न.हि.वैरेण.वैराणि.शाम्यन्तीह.कदाचन ।
१४.११ क्षान्त्या.वैराणि.शाम्यन्त्येष.धर्मः.सनातनः ॥
१४.१२ वैरम्.न.वैरेण.हि.जातु.शाम्येत्.शाम्येद्.अवैरेण.तु.वैर.भावः ।
१४.१२ वैर.प्रसङ्गो.ह्य्.अहिताय.दृष्टस्.तस्माद्द्.हि.वैरम्.न.करोति.विद्वान् ॥
१४.१३ स.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
१४.१३ अभिभूय.सर्वाणि.परिस्रवाणि.चरेत.तेनाप्त.मना.स्मृतात्मा ॥
१४.१४ नो.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव ।
१४.१४ राजेव.राष्ट्रम्.विप्लुअम्.प्रहायैकश्.चरेन्.न.च.पापानि.कुर्यात् ॥
१४.१५ चरंश्.च.नाधिगच्छेत.सहायम्.तुल्यम्.आत्मनः ।
१४.१५ एक.चर्याम्.दृढम्.कुर्यान्.नास्ति.बाले.सहायता ॥
१४.१६ एकस्य.चरितम्.श्रेयो.न.तु.बालः.सहायकः ।
१४.१६ एकश्.चरेन्.न.च.पापानि.कुर्याद्.अल्पोत्सुको.अरण्य.गतैव.नागः ॥
१४.१६_ एकस्य.चरितम्.श्रेयो.न.तु.बाल.सहायता ।
१४.१६_ अल्पोत्सुकश्.चरेद्.एको.मातङ्गारण्ये.नागवत् ॥


स्मृतिवर्ग[सम्पाद्यताम्]

१५.१ आनापान.स्मृतिर्.यस्य.परिपूर्णा.सुभाविता ।
१५.१ अनुपूर्वम्.परिजिता.यथा.बुद्धेन.देशिता ।
१५.१ f: स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
१५.२ स्थितेन.कायेन.तथैव.चेतसा.स्थितो.निषण्णो.अप्य्.अथवा.शयानः ।
१५.२ नित्यम्.स्मृतो.भिक्षुर्.अधिष्ठमानो.लभेत.पूर्वापरतो.विशेषम् ।
१५.२ f: लब्ध्वा.च.पूर्वापरतो.विशेषम्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
१५.३ स्मृतिः.काय.गता.नित्यम्.संवरश्.चेन्द्रियैः.सदा ।
१५.३ समाहितः.स.जानीयात्.तेन.निर्वाणम्.आत्मनः ॥
१५.४ यस्य.स्यात्.सर्वतः.स्मृतिः.सततम्.काय.गता.ह्य्.उपस्थिता ।
१५.४ नो.च.स्यान्.नो.च.मे.स्यान्.न.भविष्यति.न.च.मे.भविष्यति ।
१५.४ f: अनुपूर्व.विहारवान्.असौ.कालेनोत्तरते.विषक्तिकाम् ॥
१५.५ यो.जागरेत्.स्मृतिमान्.सम्प्रजानः.समाहितो.मुदितो.विप्रसन्नः ।
१५.५ कालेन.धर्मान्.मीमांसमानः.सो.अतिक्रमेज्.जाति.जराम्.सशोकाम् ॥
१५.६ तस्मात्.सदा.जागरिकाम्.भजेत.यो.वीर्यवान्.स्मृतिमान्.अप्रमत्तः ।
१५.६ सम्योजनम्.जाति.जराम्.च.हित्वेहैव.दुह्खस्य.करोति.सो.अन्तम् ॥
१५.७ जागरन्तः.शृणुध्वम्.मे.सुप्ताश्.च.प्रतिबुध्यत ।
१५.७ सुप्तेषु.जागरम्.श्रेया.न.हि.जागरतो.भयम् ॥
१५.८ जागर्यम्.अनुयुक्तानाम्.अहो.रात्रानुशिक्षिणाम् ।
१५.८ अमृतम्.चाधिमुक्तानाम्.अस्तम्.गच्छन्त्यास्रवाः ॥
१५.९ लाभस्.तेषाम्.मनुष्याणाम्.ये.बुद्धम्.शरणम्.गताः ।
१५.९ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥
१५.१० लाभस्.तेषाम्.मनुष्याणाम्.ये.धर्मम्.शरणम्.गताः ।
१५.१० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥
१५.११ लाभस्.तेषाम्.मनुष्याणाम्.ये.संघम्.शरणम्.गताः ।
१५.११ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥
१५.१२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१२ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥
१५.१३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१३ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥
१५.१४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१४ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥
१५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.काय.गता.स्मृतिः ॥
१५.१५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१५ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.समाधयः.स्मृताः ॥
१५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.शील.गता.स्मृतिः ॥
१५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.त्याग.गता.स्मृतिः ॥
१५.१६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१६ येषाम्.दिवा.च.रात्रौ.च.नित्यम्.देव.गता.स्मृतिः ॥
१५.१७ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१७ येषाम्.दिवा.च.रात्रौ.चैवाहिंसायाम्.रतम्.मनः ॥
१५.१८ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१८ येषाम्.दिवा.च.रात्रौ.चैवाव्यापादे.रतम्.मनः ॥
१५.१९ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.१९ येषाम्.दिवा.च.रात्रौ.च.नैष्क्रम्येऽभिरतम्.मनः ॥[.नैष्कर्म्ये.?]
१५.२० सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२० येषाम्.दिवा.च.रात्रौ.च.नित्यम्.ध्यान.रतम्.मनः ॥
१५.२१ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२१ येषाम्.दिवा.च.रात्रौ.च.विवेकेऽभिरतम्.मनः ॥
१५.२२ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२२ येषाम्.दिवा.च.रात्रौ.च.शुन्यतायाम्.रतम्.मनः ॥[.शून्यतायाम्.]
१५.२३ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२३ येषाम्.दिवा.च.रात्रौ.चैवानिमित्ते.रतम्.मनः ॥
१५.२४ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२४ येषाम्.दिवा.च.रात्रौ.च;आकिंचन्ये.रतम्.मनः ॥
१५.२५ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२५ येषाम्.दिवा.च.रात्रौ.च.भावनायाम्.रतम्.मनः ॥
१५.२६ सुप्रबुद्धम्.प्रबुध्यन्ते;इमे.गौतम.श्रावकाः ।
१५.२६ येषाम्.दिवा.च.रात्रौ.च.निर्वाणेऽभिरतम्.मनः ॥


प्रकीर्णकवर्ग[सम्पाद्यताम्]

१६.१ पूर्वम्.हि.कृत्यम्.प्रतिजागरेत.मा.मे.कृत्यम्.कृत्य.काले.विहन्यात् ।
१६.१ तम्.नित्य.काले.प्रतियत्य.कारिणम्.नैव.कृत्यम्.कृत्य.काले.विहन्ति ॥
१६.२ व्यायमेतैव.पुरुषो.यावद्.अर्थस्य.निष्पदः ।
१६.२ पश्येद्.असौ.तथात्मार्थम्.यथैवेच्छेत्.तथा.भवेत् ॥
१६.३ उत्तिष्ठत.व्यायमत.कुरुध्वम्.द्वीपम्.आत्मनः ।
१६.३ कर्मारो.रजतस्यैव.हरध्वम्.मलम्.आत्मनः ॥
१६.३ f: निर्धान्त.मला.ह्य्.अनङ्गणा.न.पुनर्.जाति.जराम्.उपेष्यथ ॥
१६.४ अलज्जितव्ये.लज्जन्ते.लज्जितव्ये.त्व्.अलज्जिनः ।
१६.४ अभये.भय.दर्शीनो.भये.चाभय.दर्शिनः ।[.भय.दर्शिनो.]
१६.४ f: मिथ्या.दृष्टि.समादानात्.सत्त्वा.गच्छन्ति.दुर्गतिम् ॥
१६.५ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते ।
१६.५ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
१६.६ यस्.तु.पूर्वम्.प्रमाद्येह.पश्चाद्.वै.न.प्रमाद्यते ।
१६.६ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
१६.७ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
१६.७ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
१६.८ दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने ।
१६.८ स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
१६.९ यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
१६.९ स;इमम्.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥
१६.१० यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते ।[.पिधीयते.]
१६.१० स;इमाम्.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥
१६.११ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
१६.११ स.वै.दृष्ट.पदो.धीरो.मरणान्ते.न.शोचति ॥
१६.१२ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
१६.१२ स.वै.दृष्ट.पदो.धीरः.शोक.मध्ये.न.शोचति ॥
१६.१३ यो.जीविते.न.तपते.मरणान्ते.च.सर्वशः ।
१६.१३ स.वै.दृष्ट.पदो.धीरो.ज्ञाति.मध्ये.विरोचते ॥
१६.१४ कृष्णान्.धर्मान्.विप्रहाय.शुक्लान्.भावयत.भिक्षवः ।
१६.१४ ओकाद्.अनोकम्.आगम्य.विवेकम्.अनुबृंहयेत् ।
१६.१४ f: तत्र.चाभिरमेतार्यो.हित्वा.कामान्.अकिंचनः ॥
१६.१५ शुद्धस्य.हि.सदा.फल्गुः.शुद्धस्य.पोषथः.सदा ।
१६.१५ शुद्धस्य.शुचि.कर्मणः.सदा.सम्पद्यते.व्रतम् ॥
१६.१६ क्षेत्राणि.तृण.दोषाणि.राग.दोषा.त्व्.इयम्.प्रजा ।
१६.१६ तस्माद्.विगत.रागेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.१७ क्षेत्राणि.तृण.दोषाणि.द्वेष.दोषा.त्व्.इयम्.प्रजा ।
१६.१७ तस्माद्.विगत.द्वेषेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.१८ क्षेत्राणि.तृण.दोषाणि.मोह.दोषा.त्व्.इयम्.प्रजा ।
१६.१८ तस्माद्.विगत.मोहेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.१९ क्षेत्राणि.तृण.दोषाणि.मान.दोषा.त्व्.इयम्.प्रजा ।
१६.१९ तस्माद्.विगत.मानेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.२० क्षेत्राणि.तृण.दोषाणि.लोभ.दोषा.त्व्.इयम्.प्रजा ।
१६.२० तस्माद्.विगत.लोभेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.२१ क्षेत्राणि.तृण.दोषाणि.तृष्णा.दोषा.त्व्.इयम्.प्रजा ।
१६.२१ तस्माद्.विगत.तृष्णेभ्यो.दत्तम्.भवति.महा.फलम् ॥
१६.२२ षष्ठ;अधिपती.राजा.रज्यमाने.रजस्वलः ।
१६.२२ अरक्ते.विरजा.भवति.रक्ते.बालो.निरुच्यते ॥
१६.२३ नगरम्.ह्य्.अस्थि.प्राकारम्.मांस.शोणित.लेपनम् ।
१६.२३ यत्र.रागश्.च.द्वेषश्.च.मानो.ंरक्षश्.च.बाध्यते ॥
१६.२४ हेतु.प्रभवम्.सदा.हि.दुह्खम्.तद्.अपश्यन्.स.हि.तेन.तत्र.बद्धः ।
१६.२४ तस्य.तु.समयाज्.जहाति.सङ्गम्.न.हि.बाह्या.प्रजहन्ति.तम्.महौघम् ॥[.महौघम्.]


उदकवर्ग[सम्पाद्यताम्]

१७.१ स्मृतिमन्तः.प्रयुज्यन्ते.न.निकेते.रमन्ति.ते ।
१७.१ हंसवत्.पल्वलम्.हित्वा.ह्य्.ओकम्.ओघम्.जहन्ते.ते ॥[.जहन्ति.ते.]
१७.२ हंसादित्य.पथे.यान्त्याकाशे.जीवितेन्द्रियाः ।
१७.२ निर्यान्ति.धीरा.लोकान्.मार.सैन्यम्.प्रमथ्य.ते ॥
१७.३ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
१७.३ जीर्ण.क्रौञ्चैव.ध्यायन्तेऽल्प.मत्स्य;इव.पल्वले ॥
१७.४ अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् ।
१७.४ शेन्ति.चापाति.कीर्णा.वा.पौराणान्य्.अनुचिन्तिताः ॥
१७.५ नाल्पम्.मन्येत.पापस्य.नैतम्.माम्.आगमिष्यति ।
१७.५ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
१७.५ f: पूर्यन्ति.बालाः.पापैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
१७.६ नाल्पम्.मन्येत.पुण्यस्य.नैतम्.माम्.आगमिष्यति ।
१७.६ उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते ।
१७.६ f: पूर्यन्ति.धीराः.पुण्यैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥
१७.७ ये.तरन्त्य्.आर्णवम्.नित्यम्.कोलम्.बद्ध्वा.जनाः.शुभम् ।
१७.७ न.ते.तरन्ति.सरिताम्.तीर्णा.मेधाविनो.जनाः ॥
१७.८ उत्तीर्णो.भगवान्.बुद्धः.स्थले.तिष्ठति.ब्राह्मणः ।
१७.८ भिक्षवः.स्नान्ति.चैवात्र.कोलम्.बध्नन्ति.चापरे ॥
१७.९ किम्.कुर्याद्.उद.पानेन.यत्रापः.सर्वतो.भवेत् ।
१७.९ तृष्णाया.मूलम्.उद्धृत्य.कस्य.पर्येषणाम्.चरेत् ॥
१७.१० उदकेन.निजन्ति.नेजका;इषु.कारा.नमयन्ति.तेजसा ।
१७.१० दारुम्.नमयन्ति.तक्षका.ह्य्.आत्मानम्.दमयन्ति.पण्डिताः ॥
१७.११ यथा.ह्रदः.सुगम्भीरो.विप्रसन्नो.ह्य्.अनाविलः ।
१७.११ एवम्.श्रुत्वा.हि.सद्धर्मम्.विप्रसीदन्ति.पण्डिताः ॥
१७.१२ पृथिवी.सदृशो.न.लिप्यते.तायी.कीलवद्.अप्रकम्पयः ।
१७.१२ ह्रद;इव.हि.विनीत.कर्दमो.निष्कलुषा.हि.भवन्ति.पण्डिताः ॥


पुष्पवर्ग[सम्पाद्यताम्]

१८.१ क;इमाम्.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
१८.१ को.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
१८.२ शैक्षः.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् ।
१८.२ स.हि.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥
१८.३ वनम्.छिन्दत.मा.वृक्षम्.वनाद्.वै.जायते.भयम् ।
१८.३ छित्त्वा.वनम्.समूलम्.तु.निर्वणा.भवत.भिक्षवः ॥
१८.४ न.छिद्यते.यावता.वनम्.ह्य्.अनुमात्रम्.अपि.नरस्य.बन्धुषु ।[.अणु.मात्रम्.]?
१८.४ प्रतिबद्ध.मनाः.स.तत्र.वै.वत्सः.क्षीरपक;इव.मातरम् ॥
१८.५ उच्छिन्द्धि.हि.स्नेहम्.आत्मनः.पद्मम्.शारदकम्.यथोदकात् ।
१८.५ शान्ति.मार्गम्.एव.बृंहयेन्.निर्वाणम्.सुगतेन.देशितम् ॥
१८.६ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्याद्.अगन्धवत् ।
१८.६ एवम्.सुभाषिता.वाचा.निष्फलासाव्.अकुर्वातः ॥
१८.७ यथापि.रुचिरम्.पुष्पम्.वर्णवत्.स्यात्.सुगन्धवत् ।
१८.७ एवम्.सुभाषिता.वाचा.सफला.भवति.कुर्वतः ॥
१८.८ यथापि.भ्रमरः.पुष्पाद्.वर्ण.गन्धाव्.अहेठयन् ।
१८.८ परैति.रसम्.आदाय.तथा.ग्रामान्.मुनिश्.चरेत् ॥
१८.९ न.परेषाम्.विलोमानि.न.परेषाम्.कृताकृतम् ।
१८.९ आत्मनस्.तु.समीक्षेत.समानि.विषमानि.च ॥
१८.१० यथापि.पुष्प.राशिभ्यः.कुर्यान्.माला.गुणान्.बहून् ।
१८.१० एवम्.जातेन.मर्त्येन.कर्तव्यम्.कुशलम्.बहु ॥
१८.११ वर्षासु.हि.यथा.पुष्पम्.वगुरो.विप्रमुञ्चति ।[.वागुरो.]?
१८.११ एवम्.रागम्.च.दोषम्.च.विप्रमुञ्चत.भिक्षवः ॥
१८.१२ यथा.संकार.कूटे.तु.व्युज्झिते.हि.महा.पथे ।
१८.१२ पद्मम्.तत्र.तु.जायेत.शुचि.गन्धि.मनो.रमम् ॥
१८.१३ एवम्.संकार.भूतेऽस्मिन्न्.अन्ध.भूते.पृथग्.जने ।
१८.१३ प्रज्ञया.व्यतिरोचन्ते.सम्यक्.सम्बुद्ध.श्रावकाः ॥
१८.१४ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
१८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
१८.१४ ...............................................नरम् ।
१८.१४ सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥
१८.१५ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
१८.१५ अतृप्तम्.एव.कामेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
१८.१६ पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् ।
१८.१६ अनुत्पन्नेषु.भोगेषु.त्व्.अन्तकः.कुरुते.वशम् ॥
१८.१७ कुम्भोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
१८.१७ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
१८.१८ फेनोपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
१८.१८ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
१८.१९ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
१८.१९ छित्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
१८.२० फेनोपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव ।
१८.२० छित्त्त्वेह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥
१८.२१ यो.नाध्यगमद्.भवेषु.सारम्.बुद्ध्वा.पुष्पम्.उदुम्बरस्य.यद्वत् ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ यो.द्वेषम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ यो.मोहम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ड् यो.मानम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ड् स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ यो.लोभम्.उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
१८.२१ तृष्णाम्.य;उदाछिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य ।
१८.२१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.त्व.त्वचम्.पुराणम् ॥


अश्ववर्ग[सम्पाद्यताम्]

१९.१ भद्रो.यथाश्वः.कशयाभिस्पृष्ट.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिस्पृष्टो.]?
१९.१ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः ।
१९.१ f: जितेन्द्रियः.क्षान्ति.बलैर्.उपेतो.जहाति.सर्वान्.स.भवान्.अशेषान् ॥
१९.२ भद्रो.यथाश्वः.कशयाभिताडित.ह्य्.आतापिनः.संविजिताश्.चरेत ।[.अभिताडितो.]?
१९.२ श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः ।
१९.२ f: सम्पन्न.विद्या.चरणः.प्रतिस्मृतस्.तायी.स.सर्वम्.प्रजहाति.दुह्खम् ॥
१९.३ यस्येन्द्रियाणि.समताम्.गतान्यश्वो.यथा.सारथिना.सुदान्तः ।
१९.३ प्रहीण.दोषाय.निरास्रवाय.देवापि.तस्मै.स्पृहयन्ति.नित्यम् ॥
१९.४ अप्रमत्तः.प्रमत्तेषु.सुप्तेषु.बहु.जागरः ।
१९.४ अबलाश्व;इव.भद्राश्वम्.हित्वा.याति.सुमेधसम् ॥
१९.५ ह्री.निषेवी.हि.पुरुषः.प्राज्ञो.यः.सुसमाहितः ।
१९.५ सर्व.पापम्.जहात्य्.एष.भद्राश्वो.हि.कशाम्.इव ॥
१९.६ दान्तो.वै.समितिम्.याति.दान्तम्.राजाधिरोहति ।
१९.६ दान्तः.श्रेष्ठो.मनुष्याणाम्.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.]
१९.७ यो.ह्य्.अश्वम्.दमयेज्.जान्यम्.आजानेयम्.च.सैन्धवम् ।
१९.७ कुञ्जरम्.वा.महा.नागम्.आत्मा.दान्तस्.ततो.वरम् ॥
१९.७_ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
१९.७_ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.८ न.ह्यसौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
१९.८ आत्मना.हि.सुदान्तेन.क्षिप्रम्.शान्तिम्.निगच्छति ॥
१९.८_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.८_ याम्.आत्मना.सुदान्तेन.दान्तो.दान्तेन.गच्छति ॥
१९.८ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्दवम् ।
१९.८ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.९ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
१९.९ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥
१९.९_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.९_ याम्.आत्मना.सुदान्तेन.सर्वान्.त्यजत्य्.दुर्गतिः ॥
१९.९ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
१९.९ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.१० न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
१९.१० आत्मना.हि.सुदान्तेन.सर्वम्.छिनत्ति.बन्धनम् ॥
१९.१०_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.१०_ याम्.आत्मना.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥
१९.१० यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
१९.१० कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.११ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
१९.११ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
१९.११_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.११_ याम्.आत्मना.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
१९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
१९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.११ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.११ याम्.आत्मना.सुदान्तेन.सर्वाम्.जहाति.सम्पदम् ॥
१९.११ यच्.चेहाश्वतरम्.दमयेद्.आजन्यम्.वापि.सैन्धवम् ।
१९.११ कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥
१९.१२ न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति ।
१९.१२ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥
१९.१२_ न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् ।
१९.१२_ याम्.आत्मना.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥
१९.१३ आत्मानम्.एव.दमयेद्.भद्राश्वम्.इव.सारथिः ।
१९.१३ आत्मा.हि.सुदान्तेन.स्मृतिमान्.दुह्ख.पारगः ॥
१९.१४ आत्मैव.ह्य्.आत्मनो.नाथः.आत्मा.शरणम्.आत्मनः ।
१९.१४ तस्मात्.सम्यमयात्मानम्.भद्राश्वम्.इव.सारथिः ॥


क्रोधवर्ग[सम्पाद्यताम्]

२०.१ क्रोधम्.जहेद्.विप्रजहेच्.च.मानम्.सम्योजनम्.सर्वम्.अतिक्रमेत ।
२०.१ तम्.नाम्ने.रूपे.च;असज्यमानम्.अकिंचनम्.नानुपतन्ति.संगाः ॥
२०.२ क्रोधम्.जहेद्.उत्पतितम्.रागम्.जातम्.निवारयेत् ।
२०.२ अविद्याम्.प्रजहेद्.धीरः.सत्याभिसमयात्.सुखम् ॥
२०.३ क्रोधम्.हत्वा.सुखम्.शेते.क्रोधम्.हत्वा.न.शोचति ।
२०.३ क्रोधस्य.विष.मूलस्य.मधुर.घ्नस्य.भिक्षवः ।
२०.३ f: वधम्.आर्याः.प्रशंसन्ति.तम्.च.हत्वा.न.शोचति ॥
२०.४ यत्.तु.रोचयति.क्रुद्धो.दुष्कृतम्.सुकृतम्.त्व्.इति ।
२०.४ पश्चात्.स.विगते.क्रोधे.स्पृष्ट्वाग्निम्.इव.तप्यते ॥
२०.५ अह्रीकश्.चानवत्रापी.चाव्रतश्.चैव.रोषणः ।
२०.५ क्रोधेन.ह्य्.अभिभूतस्य.द्वीपम्.नास्तीह.किंचन ॥
२०.५_ अह्रीक्यो.अप्य्.अनवत्रापी.भवति.क्रोधनो.अव्रतः ।
२०.५_ क्रोधेन.चाभिभूतस्य.न.द्वीपो.भवति.कश्चन ॥
२०.६ अबलम्.हि.बलम्.तस्य.यस्य.क्रोधे.बलम्.बलम् ।
२०.६ क्रुद्धस्य.धर्म.हीनस्य.प्रतिपत्तिर्.न.विद्यते ॥
२०.७ यस्.त्व्.अयम्.बलवान्.भूत्वा.दुर्बलस्य.तितीक्षति ।[.तितिक्षति.]
२०.७ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
२०.८ यः.परेषाम्.प्रभूः.संस्.तु.दुर्बलान्.संतितीक्षति ।[.तितिक्षति.]
२०.८ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
२०.९ अत्युक्तो.हि.परैर्.यो.वै.बलवान्.संतितीक्षति ।[.तितिक्षति.]
२०.९ ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥
२०.१० आत्मानम्.च.परम्.चैव.महतो.रक्षते.भयात् ।
२०.१० यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥
२०.११ उभयोश्.चरते.सो.अर्थम्.आत्मनस्य.परस्य.च ।
२०.११ यः.परम्.कुपितम्.ज्ञात्वा.स्वयम्.तत्रोपशाम्यति ॥
२०.१२ उभार्थे.चरमाणम्.तम्.ह्य्.आत्मनस्य.परस्य.च ।
२०.१२ अबलम्.मन्यते.बालो.धर्मेष्व्.अवविचक्षणः ॥
२०.१३ जयम्.हि.मन्यते.बालो.वचोभिः.परुषैर्.वदन् ।
२०.१३ नित्यम्.इव.जयस्.तस्य.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.]
२०.१४ श्रेष्ठस्य.वाक्यम्.क्षमते.भयेन.संरम्भ.हेतोः.सदृशस्य.चैव ।
२०.१४ यो.वै.निहीनस्य.वचः.क्षमेत.ताम्.उत्तमाम्.क्षान्तिम्.इहाहुर्.आर्याः ॥
२०.१५ क्रुद्धो.वाचम्.न.भाषेत.परिषत्स्व्.अथ.वा.मिथः ।
२०.१५ क्रोधाभिभूतः.पुरुषः.स्वम्.अर्थम्.हि.न.बुध्यते ॥
२०.१६ सत्यम्.वदेन्.न.च.क्रुध्येद्.दद्याद्.अल्पाद्.अपि.स्वयम् ।
२०.१६ स्थानैर्.एभिस्.त्रिभिर्.युक्तो.देवानाम्.अन्तिकम्.व्रजेत् ॥
२०.१७ शान्तस्य.हि.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
२०.१७ सम्यग्.आज्ञा.विमुक्तस्य.क्रोधो.नास्ति.प्रजानतः ॥
२०.१८ तस्यैव.पापम्.भवति.यः.क्रुद्धे.क्रुध्यते.पुनः ।
२०.१८ क्रुद्धेष्व्.अक्रुद्धमानस्.तु.संग्रामम्.दुर्जयम्.जयेत् ॥[.अक्रुधमानस्.]?
२०.१९ अक्रोधेन.जयेत्.क्रोधम्.असाधुम्.साधुना.जयेत् ।
२०.१९ जयेत्.कदर्यम्.दानेन.सत्येन.त्व्.अनृतम्.जयेत् ॥
२०.२० अक्रुद्धस्य.कुतः.क्रोधो.दान्तस्य.सम.जीविनः ।
२०.२० सम्यग्.आज्ञा.विमुक्तस्य.क्रोधस्.तस्य.न.विद्यते ॥
२०.२१ अक्रोधश्.चाविहिंसा.च.वसत्य्.आर्येषु.सर्वदा ।
२०.२१ सदा.पाप.जने.क्रोधस्.तिष्ठति.पर्वतो.यथा ॥
२०.२२ यस्.त्व्.इहोत्पतितम्.क्रोधम्.रथम्.भ्रान्तम्.इव.धारयेत् ।
२०.२२ वदामि.सारथिम्.तम्.तु.रश्मि.ग्राहो.अयम्.अन्यथा ॥


उद्दानम्[सम्पाद्यताम्]

२०: श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः ।
२०: उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥


तथागत.वर्ग[सम्पाद्यताम्]

२१.१ सर्वाभिभूः.सर्वविद्.एव.चास्मि.सर्वैश्.च.धर्मैः.सततम्.न.लिप्तः ।
२१.१ सर्वम्.जहः.सर्व.भयाद्.विमुक्तः.स्वयम्.ह्य्.अभिज्ञाय.कम्.उद्दिशेयम् ॥
२१.२ कम्.उद्दिशेयम्.त्व्.असमो.ह्य्.अतुल्यः.स्वयम्.प्रवक्ता.ह्य्.अधिगम्य.बोधिम् ।
२१.२ तथागतो.देव.मनुष्य.शास्ता.सर्वज्ञताम्.प्राप्य.बलैर्.उपेतः ॥
२१.३ अहम्.हि.लोकेष्व्.अरहन्न्.अहम्.लोकेष्व्.अनुत्तरः.सदेवकेषु.लोकेषु.चाहम्.माराभिभूर्.जिनः ॥
२१.४ आचार्यो.मे.न.वै.कश्चित्.सदृशस्.च.न.विद्यते ।
२१.४ एको.अस्मिन्.लोके.सम्बुद्धः.प्राप्तः.सम्बोधिम्.उत्तमाम् ॥
२१.५ जिना.हि.मादृशा.ज्ञेया.ये.प्राप्ता.ह्य्.आस्रव.क्षयम् ।
२१.५ जिता.मे.पापका.धर्मास्.ततो.अहम्.उपगा.जिनः ॥
२१.६ बाराणसीम्.गमिष्यामि.हनिष्येऽमृत.दुन्दुभिम् ।
२१.६ धर्म.चक्रम्.प्रवर्तयिष्ये.लोकेष्व्.अप्रतिवर्तितम् ॥
२१.७ न.हि.सन्तः.प्रकाश्यन्ते.विदित्वा.लोक.पर्यायम् ।
२१.७ आदेशयन्तो.विरजः.पदम्.शान्त.मनीषिणः ॥
२१.८ नदन्तीह.महा.वीरः.सद्.धर्मेण.तथागताः ।
२१.८ धर्मेण.नदमानानाम्.के.त्व्.असूयेद्.विजानकाः ॥
२१.९ ये.ध्यान.प्रसृता.धीरा.नैष्क्रम्योपशमे.रताः ।
२१.९ देवापि.स्पृहयन्त्य्.एषाम्.बुद्धानाम्.श्रीमताम्.सदा ॥
२१.१० तेषाम्.देवा.मनुष्याश्.च.सम्बुद्धानाम्.यशस्विनाम् ।
२१.१० स्पृहयन्त्य्.आशु.बुद्धीनाम्.शरीरान्तिम.धारिणाम् ॥
२१.११ ये.चाभ्यतीताः.सम्बुद्धा.ये.च.बुद्धा.ह्य्.अनागताः ।
२१.११ यश्.चाप्य्.एतर्हि.सम्बुद्धो.बहूनाम्.शोक.नाशकः ॥
२१.१२ सर्वे.सद्.धर्म.गुरवो.व्याहार्षु.विहरन्ति.च ।
२१.१२ अथापि.विहरिष्यन्ति;एषा.बुद्धेषु.धर्मता ॥
२१.१३ तस्माद्.इहात्म.कामेन.माहात्म्यम्.अभिकाङ्क्षता ।
२१.१३ सद्.धर्मो.गुरु.कर्तव्यः.स्मरता.बुद्ध.शासनम् ॥
२१.१४ न.श्रद्धास्यन्ति.वै.ये.तु.नरा.बुद्धस्य.शासनम् ।
२१.१४ व्यसनम्.ते.गमिष्यन्ति.वणिजो.राक्षसीष्व्.इव ॥
२१.१५ श्रद्धास्यन्ति.तु.ये.नित्यम्.नरा.बुद्धस्य.शासनम् ।
२१.१५ स्वस्तिना.ते.गमिष्यन्ति.वालाहेनैव.वाणिजाः ॥
२१.१६ तथागतम्.बुद्धम्.इह.स्वयम्भुवम्.द्वौ.वै.वितर्कौ.बहुलम्.समुदाचरेते ।
२१.१६ क्षेमस्.तथैव.प्रविवेक.युक्तस्.तमो.नुदम्.पार.गतम्.महर्षिम् ॥
२१.१७ प्राप्तः.स.चार्यो.वशिताम्.अशेषाम्.विश्वोत्तरः.सर्व.भयाद्.विमुक्तः ।
२१.१७ तृष्णा.प्रहीणो.विमलो.निराशश्.चालोकयन्.लोक.हिताय.सत्त्वान् ॥
२१.१८ शैले.यथा.पर्वत.मूर्धनि.स्थितो.यथैव.पश्येज्.जनताम्.समन्तात् ।
२१.१८ तथा.ह्य्.असौ.धर्म.मयम्.सुमेधाः.प्रासादम्.आरुह्य.समन्त.चक्षुः ।
२१.१८ f: शोकाभिभूताम्.जनताम्.अशोको.अद्राक्षीद्.इमाम्.जाति.जराभिभूताम् ॥


श्रुतवर्ग[सम्पाद्यताम्]

२२.१ साधु.श्रुतम्.सुचरितम्.साधु.चाप्य्.अनिकेतता ।
२२.१ प्रदक्षिणम्.प्रव्रज्या.च.श्रामण्यस्यानुलोमिकम् ॥
२२.२ बाला;इहाविजानन्तश्.चरन्ति.ह्य्.अमरा;इव ।
२२.२ विजानताम्.तु.सद्.धर्मम्.आतुरस्यैव.शर्वरी ॥
२२.३ यथा.ह्य्.अगारम्.सुच्छन्नम्.प्रविश्य.तमसा.स्फुटम् ।[.सु.छ्हन्नम्.]
२२.३ विद्यमानानि.रूपाणि.चक्षुष्मान्.हि.न.पश्यति ॥
२२.४ तथैवेह.नरो.नित्यम्.ज्ञानवान्.अपि.यो.भवेत् ।
२२.४ अश्रुत्वा.न.विजानाति.धर्मान्.कल्याण.पापकान् ॥
२२.५ प्रदीपेन.तु.रूपाणि.चक्षुष्मान्.पश्यते.यथा ।
२२.५ एवम्.श्रुत्वा.विजानाति.धर्मान्.कल्याण.पापकान् ॥
२२.६ श्रुत्वा.धर्मान्.विजानाति.श्रुत्वा.पापम्.न.सेवते ।
२२.६ श्रुत्वा.ह्य्.अनर्थम्.वर्जयते.श्रुत्वा.प्राप्नोति.निर्वृतिम् ॥
२२.७ बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
२२.७ शीलतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.श्रुतम् ॥
२२.८ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
२२.८ शीलतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.श्रुतम् ॥
२२.९ अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः ।
२२.९ उभयतस्.तम्.विगर्हन्ति.नास्य.सम्पद्यते.व्रतम् ॥
२२.१० बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः ।
२२.१० उभयतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.व्रतम् ॥
२२.११ बहु.श्रुतम्.धर्म.धरम्.प्राज्ञम्.नित्यम्.समाहितम् ।
२२.११ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥
२२.१२ ये.मे.रूपेण.मिन्वन्ति.ये.मे.घोषेण.चान्वगाः ।
२२.१२ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥
२२.१२_ ये.रूपेण.प्रमिण्वन्ति.माम्.घोषेणानुयान्ति.च ।
२२.१२_ छन्द.राग.वशोपेता.न.माम्.जानन्ति.ते.जनाः ॥
२२.१३ आध्यात्मम्.च.न.जानाति.बहिर्धा.तु.विपश्यति ।
२२.१३ बहिर्धा.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
२२.१४ आध्यात्मम्.तु.प्रजानाति.बहिर्धा.च.न.पश्यति ।
२२.१४ आध्यात्म.फल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
२२.१५ आध्यात्मम्.च.न.जानान्ति.बहिर्धा.च.न.पश्यति ।
२२.१५ उभयेऽफल.दर्शी.तु.स.वै.घोषेण.नीयते ॥
२२.१६ आध्यात्मम्.च.प्रजानाति.बहिर्धा.च.विपश्यति ।
२२.१६ स.तु.निह्सरण.प्रज्ञो.न.वै.घोषेण.नीयते ॥
२२.१७ बहु.शृणोति.श्रोत्रेण.बहू.पश्यति.चक्षुषा ।
२२.१७ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥
२२.१७_ श्रोत्रेण.श्रूयते.बहु.दृश्यते.बहु.चक्षुषा ।
२२.१७_ न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥
२२.१८ विज्ञान.साराणि.सुभाषितानि.ज्ञातम्.श्रुतम्.चैव.समाधि.सारम् ।
२२.१८ न.तस्य.विज्ञान.श्रुतम्.महार्थम्.यः.साहसो.भवति.नरः.प्रमत्तः ॥
२२.१९ धर्मे.तु.ये.ह्य्.आर्य.निवेदिते.रतास्.तदा.चरन्ते.वचसा.यदाहुः ।
२२.१९ ते.क्षान्ति.सौरत्य.समाधि.गोचराः.श्रुतस्य.बुद्धेर्.अपि.सारम्.अध्यगुः ॥


आत्मवर्ग[सम्पाद्यताम्]

२३.१ सुभाषितस्य.शिक्षेत.श्रमणोपासनस्य.च ।
२३.१ एकासनस्य.च.रहश्.चित्त.व्युपशमस्य.च ॥[.एकासनस्य.]
२३.२ एकासनम्.त्व्.एक.शय्याम्.एक.चर्याम्.अतन्द्रितः ।
२३.२ रमयेच्.चैकम्.आत्मानम्.वनेष्व्.एकः.सदा.वसेत् ॥
२३.३ यः.सहस्रम्.सहस्राणाम्.संग्रामे.द्विषताम्.जयेत् ।
२३.३ यश्.चात्मानम्.जयेद्.एकम्.संग्रामो.दुजयः.स.वै ॥
२३.४ आत्मा.ह्य्.अस्य.जितः.श्रेयान्.यच्.चेयम्.इतराः.प्रजाः ।[यच्.चेयम्.]
२३.४ आत्म.दान्तस्य.पुरुषस्य.नित्यम्.संवृत.चारिणः ॥
२३.५ न.देवा.नापि.गन्धर्वा.न.मारो.ब्राह्मणा.सह ।
२३.५ जितस्यापजितम्.कुर्युस्.तथा.प्राज्ञस्य.भिक्षुणः ॥
२३.६ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
२३.६ ततो.अन्यम्.अनुशासीत.............यथा.ह्य्.अः. ॥
२३.७ आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् ।
२३.७ ततो.अन्यम्.अनुशासीत.न.क्लिश्येत.हि.पण्डितः ॥
२३.८ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् ।
२३.८ सुदान्तो.बत.मे.नित्यम्.आत्मा.स.हि.सुदुर्दमः ॥
२३.९ आत्मानम्.हि.तथा.कुर्यात्.शासीतान्यम्.यथा.स्वयम् ।
२३.९ आत्मा.दान्तो.मया.नित्यम्.आत्म.दान्तो.हि.पण्डितः ॥
२३.१० आत्मनो.अर्थम्.परार्थेन.बहुनापि.न.हापयेत् ।
२३.१० आत्मार्थम्.परमम्.ज्ञात्वा.स्वकार्थ.परमो.भवेत् ॥
२३.११ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.११ आत्मना.हि.सुदान्तेन.नाथम्.लभति.पण्डितः ॥
२३.१२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१२ आत्मना.हि.सुदान्तेनार्थम्.लभति.पण्डितः ॥
२३.१३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१३ आत्मना.हि.सुदान्तेन.धर्मम्.लभति.पण्डितः ॥
२३.१४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१४ आत्मना.हि.सुदान्तेन.यशो.लभति.पण्डितः ॥
२३.१५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१५ आत्मना.हि.सुदान्तेन.कीर्तिम्.लभति.पण्डितः ॥
२३.१६ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१६ आत्मना.हि.सुदान्तेन.सुखाम्.लभति.पण्डितः ॥
२३.१७ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१७ आत्मना.हि.सुदान्तेन.स्वर्गम्.लभति.पण्डितः ॥
२३.१८ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१८ आत्मना.हि.सुदान्तेन.चिरम्.स्वर्गे.प्रतिष्ठति ॥
२३.१९ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.१९ आत्मना.हि.सुदान्तेन.प्रज्ञाम्.लभति.पण्डितः ॥
२३.२० आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२० आत्मना.हि.सुदान्तेन.ज्ञाति.मध्ये.विरोचते ॥
२३.२१ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२१ आत्मना.हि.सुदान्तेन.शोक.मध्ये.न.शोचति ॥
२३.२२ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२२ आत्मना.हि.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥
२३.२३ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२३ आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥
२३.२४ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२४ आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥
२३.२५ आत्मा.त्व्.इहात्मनो.नाथः.को.नु.नाथः.परो.भवेत् ।
२३.२५ आत्मना.हि.सुदान्तेन.निर्वाणस्यैव.सो.अन्तिके ॥


पेयालवर्ग[सम्पाद्यताम्]

२४.१ यच्.च.गाथा.शतम्.भाषेद्.अनर्थ.पद.संहितम् ।
२४.१ एकम्.अर्थ.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
२४.२ यच्.च.गाथा.शतम्.भाषेद्.अधर्म.पद.संहितम् ।
२४.२ एकम्.धर्म.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥
२४.३ यच्.च.वर्ष.शतम्.जीवेद्.दुह्शीलो.ह्य्.असमाहितः ।
२४.३ एकाहम्.जीवितम्.श्रेयः.सदा.शीलवतः.शुचेः ॥
२४.४ यच्.च.वर्ष.शतम्.जीवेद्.दुष्प्रज्ञो.ह्य्.असमाहितः ।
२४.४ एकाहम्.जीवितम्.श्रेयः.प्राज्ञस्य.ध्यायिनः.सदा ॥
२४.५ यच्.च.वर्ष.शतम्.जीवेत्.कुसीदो.हीन.वीर्यवान् ।
२४.५ एकाहम्.जीवितम्.श्रेयो.वीर्यम्.आरभतो.दृढम् ॥
२४.६ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उदय.व्ययम् ।
२४.६ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उदय.व्ययम् ॥
२४.७ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.वेदना.क्षयम् ।
२४.७ एकाहम्.जीवितम्.श्रेयः.पश्यतो.वेदना.क्षयम् ॥
२४.८ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.आस्रव.क्षयम् ।
२४.८ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.आस्रव.क्षयम् ॥
२४.९ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अचलम्.पदम् ।
२४.९ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अचलम्.पदम् ॥
२४.१० यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अच्युतम्.पदम् ।
२४.१० एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अच्युतम्.पदम् ॥
२४.११ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अरजः.पदम् ।
२४.११ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अरजः.पदम् ॥
२४.१२ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.विरजः.पदम् ।
२४.१२ एकाहम्.जीवितम्.श्रेयः.पश्यतो.विरजः.पदम् ॥
२४.१३ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.दुर्दृशम्.पदम् ।
२४.१३ एकाहम्.जीवितम्.श्रेयः.पश्यतो.दुर्दृशम्.पदम् ॥
२४.१४ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उत्तमम्.पदम् ।
२४.१४ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उत्तमम्.पदम् ॥
२४.१५ यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अमृतम्.पदम् ।
२४.१५ एकाहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अमृतम्.पदम् ॥
२४.१६ यच्.च.वर्ष.शतम्.पूर्णम्.अग्निम्.परिचरेद्.वने ।
२४.१६ यच्.चैकम्.भावितात्मानम्.मुहूर्तम्.अपि.पूजयेत् ।
२४.१६ f: सा.तस्य.पूजना.श्रेष्ठा.न.तद्.वर्ष.शतम्.हुतम् ॥
२४.१७ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.१७ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.१८ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.१८ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.१९ मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.१९ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२० न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२० न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२० न.तत्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२० न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२०ड् मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२०ड् न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२० मासे.मासे.कुशाग्रेण.यो.हि.भुञ्जीत.भोजनम् ।
२४.२० न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२१ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२१ न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२२ मासे.मासे.सहस्रेण.यो.जयेत.समा.शतम् ।
२४.२२ न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२३ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२३ न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२४ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२४ न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२५ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२५ न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.२६ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२६ न.तद्.सत्त्वानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२७ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२७ न.तत्.प्राणानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२८ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२८ न.तद्.भूतानुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥
२४.२९ मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् ।
२४.२९ न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥
२४.३० यत्.किंचिद्.इष्टम्.च.हुतम्.च.लोके.संवत्सरम्.यजति.पुण्य.प्रेक्षी ।
२४.३० सर्वम्.पि.तम्.न.चतुर्.भागम्.एत्यभिवादनम्.त्व्.ऋज्जु.गतेषु.श्रेयः ॥


मित्रवर्ग[सम्पाद्यताम्]

२५.१ अश्राद्धेभिः.कदर्येभिः.पिषुनैर्.विभूति.नन्दिभिः ।
२५.१ साख्यम्.कुर्वीत.न.प्राज्ञः.संगतिः.पापैर्.हि.पापिका ॥
२५.२ श्राद्धेभिः.पेशलेभिश्.च.शीलवद्भिर्.बहु.श्रुतैः ।
२५.२ साख्यम्.कुर्वीत.सप्रज्ञः.संगतिर्.भद्रैर्.हि.भद्रिका ॥?
२५.३ न.भजेत्.पापकम्.मित्रम्.न.भजेत्.पुरुषाधमम् ।
२५.३ भजेत.मित्रम्.कल्याणम्.भजेद्.उत्तम.पूरुषम् ॥
२५.४ अद्धा.नराः.सेवितव्याः.श्रुताढ्याः.स्थान.चिन्तकाः ।
२५.४ तेषाम्.हि.श्रुत्वा.तु.सुभाषितानि.विनापि.तेभ्यो.लभते.विशेषम् ॥
२५.५ हीयति.पुरुषो.निहीन.सेवी.न.तु.खलु.हायेत.तुल्य.सेवी ।
२५.५ श्रेष्ठम्.उपगतो.ह्य्.उपैति.श्रैष्ठ्यम्.तस्मात्.श्रेष्ठम्.इहात्मनो.भजेत ॥
२५.६ श्रेयो.हि.लभते.नित्यम्.यः.श्रेष्ठान्.उपसेवते ।
२५.६ प्रज्ञया.चोत्तमतमान्.शीलेनोपशमेन.च ॥
२५.७ पूति.मत्स्यान्.कुशाग्रेण.यो.नरो.ह्य्.उपनह्यते ।
२५.७ कुशापि.पूतिका.वान्ति.ह्य्.एवम्.पापोपसेवनाः ॥
२५.८ तगरम्.पलाश.पत्त्रेण.यो.नरो.ह्य्.उपनह्यति ।
२५.८ पत्त्राण्य्.अपि.सुगन्धीनि.सद्.एवम्.संगमात्.सताम् ॥
२५.९ अकुर्वन्न्.अपि.पापानि.कुर्वाणम्.उपसेवते ।
२५.९ शङ्कितो.भवति.पापस्यावर्णश्.चास्य.वर्धते ॥
२५.१० संसेवमानः.पापो.हि.संस्पृष्टः.संस्पृशेत्.परान् ।
२५.१० शरो.लिप्तः.कलापस्थान्.अलिप्तान्.उपलिम्पति ।
२५.१० f: उपलेप.भयाद्.धीरो.नैव.पाप.सखा.भवेत् ॥
२५.११ यादृशम्.कुरुते.मित्रम्.यादृशम्.चोपसेवते ।
२५.११ न.चिरात्.तादृशो.भवति.संसेवा.ह्य्.अस्य.तादृशी ॥
२५.१२ तस्मात्.फल.पुटस्यैव.दृष्ट्वा.सम्पाकम्.आत्मनः ।
२५.१२ असन्तो.नोपसेवेत.सन्तः.सेवेत.पण्डितः ॥
२५.१३ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
२५.१३ न.स.धर्मम्.विजानाति.दर्वी.सूप.रसान्.इव ॥
२५.१४ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
२५.१४ स.वै.धर्मम्.विजानाति.जिह्वा.सूप.रसान्.इव ॥
२५.१५ यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते ।
२५.१५ न.स.धर्मम्.विजानाति.प्रज्ञा.ह्य्.अस्य.न.विद्यते ॥
२५.१६ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
२५.१६ स.वै.धर्मम्.विजानाति.प्रज्ञा.तस्य.हि.विद्यते ॥
२५.१७ यावज्.जीवम्.पि.चेत्.बालः.पण्डितान्.पर्युपासते ।
२५.१७ न.स.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥
२५.१८ मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते ।
२५.१८ स.वै.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥
२५.१९ एकम्.अर्थ.पदम्.प्रोक्तम्.पण्डितस्यार्थ.कारकम् ।
२५.१९ बालस्य.तु.न.कृत्याय.स्यात्.सर्वम्.बुद्ध.भाषितम् ॥
२५.२० बालः.पद.सहस्रेण.पदम्.एकम्.न.बुध्यते ।
२५.२० पदेनैकेन.मेधावी.पदानाम्.विन्दते.शतम् ॥
२५.२१ अमित्रः.पण्डितः.श्रेयान्.न.तु.बालो.अनुकम्पकः ।
२५.२१ बालो.अनुकम्पमानो.हि.नरकान्.उपकर्षति ॥
२५.२२ यो.जानीयाद्.अहम्.बाल;इति.बालः.स.पण्डितः ।
२५.२२ बालः.पण्डित.मानी.तु.बाल;एव.निरुच्यते ॥
२५.२३ यच्.च.बालः.प्रशंसेत.यच्.च.निन्देत.पण्डितः ।
२५.२३ निन्दा.तु.पण्डितात्.श्रेष्ठा.न.तु.बालात्.प्रशंसना ॥
२५.२४ बालम्.न.पश्येत्.शृणुयान्.न.च.नो.तेन.संवसेत् ।
२५.२४ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रेणैव.सर्वशः ।
२५.२४ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥
२५.२५ धीरम्.प्राज्ञम्.निषेवेत.शीलवन्तम्.बहु.श्रुतम् ।
२५.२५ धौरेयम्.जव.सम्पन्नम्.चन्द्रम्.तारा.गणा;इव ॥[.धैरेयम्.]?


निर्वाणवर्ग[सम्पाद्यताम्]

२६.१ कूर्मो.यथाङ्गानि.स्वके.कपाले.समादधीतात्म.वितर्कितानि ।
२६.१ अनिह्श्रितो.ह्य्.अन्यम्.अहेठयानः.परिनिर्वृतो.नापवदेत.कंचित् ॥
२६.२ क्षान्तिः.परमम्.तपस्.तितीक्षा.निर्वाणम्.परमम्.वदन्ति.बुद्धाः ।[.तितिक्षा.]
२६.२ न.हि.प्रव्रजितः.परोपतापी.श्रमणो.भवति.परम्.विहेठयन्.वै ॥
२६.३ मा.कंचित्.परुषम्.ब्रूथः.प्रोक्ताः.प्रतिवदन्ति.तम् ।
२६.३ दुह्खा.हि.संरम्भ.कथाः.प्रतिदण्डम्.स्पृशन्ति.हि ॥
२६.४ यद्.ईरयसि.हात्मानम्.कंसीवोपहता.सदा ।
२६.४ जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि ॥
२६.५ न.त्व्.ईरयसि.हात्मानम्.कंसिर्.नोपहता.यथा ।
२६.५ एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते ॥
२६.६ आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् ।
२६.६ विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् ॥
२६.७ क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु ।[.परमा.]?
२६.७ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥
२६.८ अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् ॥
२६.८ एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥
२६.९ सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् ।
२६.९ सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् ॥
२६.१० गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः ।
२६.१० धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः ॥
२६.१० ....... ।
२६.१० ....... ।
२६.१० ..........न.संवसेत् ।
२६.१० ................... ।
२६.११ न.हीदम्.हीन.वीर्येण.मन्देनाप्य्.अविजानता ।
२६.११ निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् ॥
२६.११ ..तः.कामेषु.नि............ ।
२६.११ ........................... ।
२६.१२ सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति ।
२६.१२ हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि ॥
२६.१३ अभूत्.पूर्वे.ततो.नाभून्.नाभूत्.पूर्वे.ततो.ह्य्.अभूत् ।
२६.१३ न.चाभून्.न.भविष्यति.न.वाप्य्.एतर्हि.विद्यते ॥
२६.१४ दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः ।
२६.१४ तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्यान्तो.निरुच्यते ॥
२६.१५ छित्त्वा.तृष्णाम्.प्रशाम्येह.रजः.सर्वम्.समाहितः ।
२६.१५ विशोषयित्वा.सरिताम्.दुह्खस्यान्तो.निरुच्यते ॥
२६.१६ भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च ।
२६.१६ विज्ञानास्त.गमम्.लब्ध्वा.दुह्खस्यान्तो.निरुच्यते ॥
२६.१७ दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता ।
२६.१७ मते.तथैव.विज्ञाते.दुह्खस्यान्तो.निरुच्यते ॥
२६.१८ एने.मेमे.तथा.दप्फे.दडप्फे.चेति.बुध्यतः ।
२६.१८ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥
२६.१९ माशा.तुषा.संशमा.च.सर्वत्र.विरडी.तथा ।
२६.१९ सर्वस्माद्.विरतिः.पापाद्.दुह्खस्यान्तो.निरुच्यते ॥
२६.२० अनिह्श्रितस्याचलितम्.प्रस्रब्धिश्.चेह.विद्यते ।
२६.२० न.गतिर्.न.च्युतिश्.चैव.दुह्खस्यान्तो.निरुच्यते ॥
२६.२१ अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा ।
२६.२१ असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते ॥
२६.२२ जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् ।
२६.२२ जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् ।
२६.२२ f: आहार.नेत्री.प्रभवम्.नालम्.तद्.अभिनन्दितुम् ॥
२६.२३ तस्य.निह्ह्सरणम्.शान्तम्.अतर्कावचरम्.पदम् ।[.अतर्कावचरम्.]
२६.२३ निरोधो.दुह्ख.धर्माणाम्.संस्कारोपशमम्.सुखम् ॥
२६.२४ अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते ।
२६.२४ नाकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च ॥
२६.२५ नैवागतिर्.न.च.गतिर्.नोपपत्तिश्.च्युतिर्.न.च ।
२६.२५ अप्रतिष्ठम्.अनालम्बम्.दुह्खान्तः.स.निरुच्यते ॥
२६.२६ यत्र.नापो.न.पृथिवी.तेजो.वायुर्.न.गाहते ।
२६.२६ न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते ॥
२६.२७ न.तत्र.चन्द्रमा.भाति.नादित्यो.वै.प्रकाश्यते ।
२६.२७ यथा.त्व्.इहात्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः ।
२६.२७ f: अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते ॥
२६.२८ निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः ।[.विकण्ठी.]?
२६.२८ अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः ॥
२६.२९ एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् ।
२६.२९ क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् ॥
२६.३० तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः ।
२६.३० आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इवाण्ड.सम्भवम् ॥
२६.३१ जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् ।
२६.३१ जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः ॥
२६.३१_ सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति ।
२६.३१_ सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति ॥


पश्यवर्ग[सम्पाद्यताम्]

.२७.१ सुपश्यम्.पर.वद्यम्.स्याद्.आत्म.वद्यम्.तु.दुर्दृशम् ।
.२७.१ परः.परस्य.वद्यानि.तूत्पुनाति.बुसम्.यथा ॥
.२७.२ पर.वद्यानुदर्शिनो.नित्यावध्यान.संज्ञिनः ।
.२७.२ वामा.धर्माः.प्रवर्धन्ते.स.ह्य्.आराद्.धर्म.दर्शनात् ॥
.२७.३ अह्रीकेन.सुजीवम्.स्यात्.काक.शूरेण.ध्वाङ्क्षिणा ।
.२७.३ प्रस्कन्दिना.प्रगल्भेन.संक्लिष्टम्.त्व्.इह.जीवते ॥
.२७.४ ह्रीमता.त्व्.इह.दुर्जीवम्.नित्यम्.शुचि.गवेषिणा ।
.२७.४ सुलीनेनाप्रगल्भेन.शुद्धाजीवेन.पश्यता ॥
.२७.५ अन्ध.भूतो.ह्य्.अयम्.लोकस्.तनुको.अत्र.विपश्यतः ।
.२७.५ शकुन्तो.जाल.मुक्तैव.ह्य्.अल्पम्.स्वर्गेषु.मोदते ॥
.२७.६ मोष.सम्बन्धनो.लोको.भव्य.रूप;इव.दृश्यते ।
.२७.६ उपधी.बन्धना.बालास्.तमसा.परिवारिताः ।
.२७.६ f: असत्.सद्.इव.दृश्यते.पश्यतो.नास्ति.किंचनम् ॥
.२७.७ अहम्.कार.सृता.मर्त्याः.पर.कारोपसंहिताः ।
.२७.७ एतद्.एके.न.जानन्ति.पश्यन्ति.न.हि.शल्यतः ॥
.२७.८ एतत्.तु.शल्यम्.प्रतियत्य.पश्यतो.ह्य्.अध्यवसिता.यत्र.प्रजाः.प्रसक्ताः ।
.२७.८ अहम्.करोमीति.न.तस्य.हिंस्यात्.परः.करोतीति.न.तस्य.हिंस्यात् ॥
.२७.९ मानोपेतो.ह्य्.अयम्.लोको.मान.सक्तः.सदा.स्थितः ।
.२७.९ दृष्टिभिश्.चैव.संरब्धः.संसारम्.नातिवर्तते ॥
.२७.१० यत्.प्राप्तम्.यच्.च.प्राप्तव्यम्.रजः.कीर्णम्.इदम्.द्वयम् ।
.२७.१० आतुर्यम्.इति.तम्.ज्ञात्वा.जह्याद्.विद्वान्.समाहितः ॥
.२७.११ शिक्षा.साराश्.च.ये.सत्त्वा.जीविनो.ब्रह्म.जीविनः ।
.२७.११ उपस्थान.रतये.च.स;एको.अन्तः.प्रकीर्तितः ॥
.२७.१२ भोक्तव्याः.शुचयः.कामा.न.दोषस्.तेषु.विद्यते ।
.२७.१२ य;एवम्.दर्शिनो.बाला.द्वितीयो.अन्तः.प्रकीर्तितः ॥
.२७.१३ एताव्.अन्ताव्.अनज्ञाय.त्व्.अतिलीयन्ति.बालिशः । [.अनज्ञाय.]?
.२७.१३ अपरे.त्व्.अतिधावन्ति.चक्षुष्मांस्.ताम्.प्रपश्यति ॥
.२७.१४ एताव्.अन्तौ.विदित्वा.तु.नाभवंस्.तत्र.ये.बुधाः ।
.२७.१४ न.चैव.तेन.मन्यन्ते.वर्त्मस्.तेषाम्.न.विद्यते ॥
.२७.१५ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् ।
.२७.१५ एवम्.लोकम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥
.२७.१६ यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् ।
.२७.१६ एवम्.कायम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥
.२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
.२७.१७ यत्र.बालाः.प्रमुह्यन्ते.सङ्गो.नास्ति.प्रजानताम् ॥
.२७.१७ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
.२७.१७ यत्र.बाला.विषीदन्ति.पण्डितो.अत्र.विरज्यते ॥
.२७.१८ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
.२७.१८ यत्र.बाला.विषीदन्ति.यथा.पङ्के.जरद्गवः ॥
.२७.१९ पश्यतेमम्.सदा.कायम्.चित्रम्.राज.रथोपमम् ।
.२७.१९ यत्र.बालाः.प्रमुह्यन्ते.पण्डितो.अत्र.विरज्यते ।
.२७.२० पश्य.चित्र.कृतम्.बिम्बम्.अरुकम्.काय.संज्ञितम् ।
.२७.२० आतुरम्.मोष.संकल्पम्.यस्य.नास्ति.ध्रुव.स्थितिः ॥
.२७.२० ................ ।
.२७.२० ..........सङ्गो.नास्ति.प्रजानताम् ॥
.२७.२० ................. ।
.२७.२० ................. ।
.२७.२१ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
.२७.२१ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
.२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
.२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
.२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
.२७.२२ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
.२७.२२ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
.२७.२२ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
.२७.२२ पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
.२७.२२ अलम्.बालस्य.मोहाय................ ।
.२७.२२ड् पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा ।
.२७.२२ड् अलम्.बालस्य.मोहाय................ ।
.२७.२३ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते ।
.२७.२३ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
.२७.२४ अष्टापदी.कृताः.केशा.नेत्रे.चाञ्जन.रञ्जिते ।
.२७.२४ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
.२७.२४ ................................ ।
.२७.२४ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
.२७.२४ ............................... ।
.२७.२४ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
.२७.२५ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
.२७.२५ अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥
.२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
.२७.२६ अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥
.२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
.२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
.२७.२६ गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ ।
.२७.२६ अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
.२७.२६ अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
.२७.२६ अलम्.बालस्य.मोहाय.यस्य.नास्ति.ध्रुव.स्थितिः ॥
.२७.२६ड् अञ्जनीव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः ।
.२७.२६ड् अलम्.बालस्य.मोहाय.सङ्गो.नास्ति.प्रजानताम् ॥
.२७.२७ कामेषु.सक्ताः.सततम्.हि.मूढाः.सम्योजने.वद्यम्.अपश्यमानाः ।
.२७.२७ न.जातु.सम्योजन.सङ्ग.सक्ता.ह्य्.ओघम्.तरेयुर्.विपुलम्.महान्तम् ॥
.२७.२८ ऊर्ध्वम्.चाधः.सर्वतो.वीत.रागो.ह्य्.अयम्.अहम्.अस्मीति.च.नानुपश्यन् ।
.२७.२८ एवम्.विमुक्तो.हि.तरेद्.इहौघम्.अतीर्ण.पूर्वम्.ह्य्.अपुनर्.भवाय ॥
.२७.२९ यो.निर्वनगैर्.विमोक्षितः.संवन.मुक्तो.वनम्.एव.धावति । [.निर्वनगैर्.]?
.२७.२९ तम्.पश्यथ.पुद्गलम्.त्व्.इमम्.मुक्तो.बन्धनम्.एव.धावति ॥
.२७.३० नेलाङ्गः.श्वेत.संछन्न;एकारो.वर्तते.रथः ।[.नीलाङ्गः.]?
.२७.३० अनिघम्.पश्यतायान्तम्.छिन्न.योक्त्रम्.अबन्धनम् ॥
.२७.३१ बहवः.शरणम्.यान्ति.पर्वतांश्.च.वनानि.च ।
.२७.३१ आरामाम्.वृक्ष.चैत्यांश्.च.मनुष्या.भय.तर्जिताः ॥
.२७.३२ नैतद्द्.हि.शरणम्.क्षेमम्.नैतत्.शरणम्.उत्तमम् ।
.२७.३२ नैतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥
.२७.३३ यस्.तु.बुद्धम्.च.धर्मम्.च.संघम्.च.शरणम्.गतः ।
.२७.३३ चत्वारि.चार्य.सत्यानि.प्रज्ञया.पश्यते.यदा ॥
.२७.३४ दुह्खम्.दुह्ख.समुत्पादम्.दुह्खस्य.समतिक्रमम् ।
.२७.३४ आर्यम्.चाष्टाङ्गिकम्.मार्गम्.दुह्खोपशम.गामिनम् ॥
.२७.३५ एतद्द्.हि.शरणम्.क्षेमम्.एतत्.शरणम्.उत्तमम् ।
.२७.३५ एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥
.२७.३६ पश्यतः.पश्यते.पश्यम्.पश्यते.चाप्य्.अपश्यतः ।
.२७.३६ अपश्यन्.पश्यते.नैव.पश्यतो.नाप्य्.अपश्यतः ॥
.२७.३७ अनुपश्यनया.च.पश्यना.नानात्वम्.हि.तयोर्.इहोच्यते ।
.२७.३७ दिवसस्य.यथैव.रात्रिभिः.संधानम्.च.तयोर्.न.विद्यते ॥
.२७.३८ अनुपश्यति.चेन्.न.पश्यति.त्व्.अथ.चेत्.पश्यति.नानुपश्यति ।
.२७.३८ पश्यन्न्.अयम्.नानुपश्यति.त्व्.अनुपश्यंस्.तु.सदा.न.पश्यति ॥
.२७.३९ पश्यन्.नु.किम्.नानुपश्यते.किम्.अपश्यन्.नानुपश्यते.सदा ।
.२७.३९ कस्मिन्.सति.हानुपश्यना.कस्मिन्.न.सति.नानुपश्यना ॥
.२७.४० दुह्खम्.यद्.अयम्.न.पश्यति.तद्.अपश्यन्न्.आत्मेति.पश्यति ।
.२७.४० दुह्खम्.तु.यथा.तथा.प्रपश्यन्न्.अयम्.आत्मेति.सदानुपश्यति ॥
.२७.४१ येनावृतः.पृथग्.जनः.संस्कारान्.दुह्खम्.न.पश्यति ।
.२७.४१ तस्मिन्.सति.हानुपश्यना.विगतेऽस्मिन्.विगतानुपश्यना ॥


पापवर्ग[सम्पाद्यताम्]

२८.१ सर्व.पापस्याकरणम्.कुशलस्योपसम्पदः ।
२८.१ स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् ॥
२८.२ ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् ।
२८.२ कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः ॥
२८.३ सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः ।
२८.३ कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथोदकम् ॥
२८.४ दृष्ट्वा.ह्य्.आदीनवम्.लोके.ज्ञात्वा.धर्म.निरौपधिम् ।
२८.४ आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे ॥
२८.५ प्रविवेक.रसम्.ज्ञात्वा.रसम्.चोपशमस्य.वै ।
२८.५ निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् ॥
२८.६ अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः ।
२८.६ पुण्य.पाप.प्रहीणस्य.नास्ति.दुर्गतितो.भयम् ॥
२८.७ निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् ।
२८.७ निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् ।
२८.७ f: तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् ॥
२८.८ उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः ।
२८.८ धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथानिलः ॥
२८.९ यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगताङ्गणस्य ।
२८.९ तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव ॥
२८.१० यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.हात्मनः ।
२८.१० कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् ॥
२८.११ आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा ।
२८.११ आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मनैव.विशुध्यते ॥
२८.१२ अशुद्ध.बुद्धिम्.प्रत्यात्मम्.नान्यो.ह्य्.अन्यम्.विशोधयेत् ।
२८.१२ अभिमथ्नाति.तम्.पापम्.वज्रम्.अश्म.मणिम्.यथा ॥
२८.१३ चक्षुष्मान्.विषमानीव.विद्यमाने.पराक्रमेत् ।
२८.१३ पण्डितो.जीव.लोकेऽस्मिन्.पापानि.परिवर्जयेत् ॥
२८.१४ वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो ।
२८.१४ विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् ॥
२८.१५ पणौ.चास्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् ।
२८.१५ नाव्रणे.क्रामति.विषम्.नास्ति.पापम्.अकुर्वतः ॥
२८.१६ सुकराणि.ह्य्.असाधूनि.स्वात्मनो.ह्य्.अहितानि.च ।
२८.१६ यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् ॥
२८.१७ सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् ।
२८.१७ पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् ॥
२८.१८ मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते ।
२८.१८ यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति ॥
२८.१९ पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते ।
२८.१९ यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति ॥
२८.२० भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते ।
२८.२० यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति ॥
२८.२१ कुर्याच्.चेत्.पुरुषः.पापम्.नैनम्.कुर्यात्.पुनः.पुनः ।
२८.२१ न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः ॥[.च्छन्दम्.]
२८.२२ कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.चैनम्.पुनः.पुनः ।
२८.२२ तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः ।[.च्छन्दम्.]
२८.२३ अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् ।
२८.२३ धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः ॥[.द्वन्द्वम्.]?
२८.२४ अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा ।
२८.२४ महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा ॥
२८.२५ अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् ।
२८.२५ अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः ॥
२८.२६ अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते ।
२८.२६ दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति ॥
२८.२७ ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् ।
२८.२७ राजतो.ह्य्.उपसर्गम्.वाप्य्.अभ्याख्यानम्.च.दारुणम् ॥
२८.२८ वेदनाम्.कटुकाम्.वापि.शरीरस्य.च.भेदनम्।
२८.२८ आबाधम्.वापि.परुषम्.चित्त.क्षेपम्.अथापि.वा ॥
२८.२९ अथ.वास्याप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा ।
२८.२९ भेदात्.कायस्य.चाप्राज्ञो.दशमाम्.दुर्गतिम्.व्रजेत् ॥
२८.३० पापे.तु.कृते.हि.नाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.नाश्वसेत् ।
२८.३० रहसि.च.कृतेऽपि.नाश्वसेद्.अस्ति.तस्य.विपाक;इति.नाश्वसेत् ॥
२८.३१ पुण्ये.तु.कृते.त्व्.इहाश्वसेच्.चिर.कृते.दूर.कृतेऽपि.चाश्वसेत् ।
२८.३१ रहसि.च.कृतेऽपि.चाश्वसेद्.अस्ति.तस्य.विपाक;इति.चाश्वसेत् ॥
२८.३२ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते ।
२८.३२ रहसि.च.कृतेऽपि.शोचतेऽस्ति.तस्य.विपाक;इति.शोचते ॥
२८.३३ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते ।
२८.३३ रहसि.च.कृतेऽपि.नन्दतेऽस्ति.तस्य.विपाक;इति.नन्दते ॥
२८.३४ इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति ।
२८.३४ स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः ॥
२८.३५ इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति ।
२८.३५ स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः ॥
२८.३६ पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृतेऽपि.शोचते ।
२८.३६ रहसि.च.कृतेऽपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः ॥
२८.३७ पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृतेऽपि.नन्दते ।
२८.३७ रहसि.च.कृतेऽपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः ॥
२८.३८ पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृतेऽपि.मोदते ।
२८.३८ रहसि.च.कृतेऽपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः ॥
२८.३९ कृते.च.पापेऽप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् ।
२८.३९ बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.मध्य;इवोदकस्य ॥
२८.४० कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः ।
२८.४० बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः ॥


युगवर्ग[सम्पाद्यताम्]

२९.१ अवभासति.तावत्.स.कृमिर्.यावन्.नोदयते.दिवा.करः ।
२९.१ वैरोचने.तूद्गते.भृशम्.श्यावो.भवति.न.चावभासते ॥
२९.२ एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.नोदयते.तथा.गतः ।[.आसि.]?
२९.२ बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.नास्य.श्रावकः ॥
२९.३ असारे.सार.मतयः.सारे.चासार.संज्ञिनः ।
२९.३ ते.सारम्.नाधिगच्छन्ति.मिथ्या.संकल्प.गोचराः ॥
२९.४ सारम्.तु.सारतो.ज्ञात्वा.ह्य्.असारम्.चाप्य्.असारतः ।
२९.४ ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः ॥
२९.५ उपातिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः ।
२९.५ पतन्ति.हि.द्योतम्.इवान्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः ॥
२९.६ काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वेह.वेदिका.वा.पर.वेदिका.वा ।
२९.६ ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः ॥
२९.७ अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति ।
२९.७ अपेत.दम.सौरत्यो.नासौ.काषायम्.अर्हति ॥
२९.८ यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः ।
२९.८ उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति ॥
२९.९ यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः ।[.हताः.]
२९.९ स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥
२९.१० न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च ।
२९.१० साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः ॥
२९.११ न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन ।?
२९.११ सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति ॥
२९.१२ प्रतिरूपकम्.धूपित.कर्णिका.वा.लोहार्ध.माष;इव.हिरण्यच्.छन्नः ।
२९.१२ चरन्ति.हैके.परिवारवन्तस्.त्व्.अन्तर्.ह्य्.अशुद्धा.बहि.शोभमानाः ॥[.बहिः.शोभमानाः.]
२९.१३ मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी ।
२९.१३ महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् ॥
२९.१४ मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः ।[.स्मृतिमतो.]
२९.१४ तनुकास्य.भवन्ति.वेदनाः.शनकैर्.जीर्यत्यायुः.पालयम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५_ शुभानुपश्यी.विहरन्न्.इन्द्रियैर्.हि;असंवृतः ।
२९.१५_ भोजने.चाप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् ।
२९.१५ f: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ एf: तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ एf: तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ एf: तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ एf: तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इवाबलम् ॥
२९.१५ शुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.चाप्य्.असंवृतम् ।
२९.१५ भोजने.चाप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च ।
२९.१५ एf: तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इवाबलम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ f: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् ॥
२९.१६_ अशुभानुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः ।
२९.१६_ भोजने.चापि.मात्रज्ञः.श्राद्ध;आरब्ध.वीर्यवान् ।
२९.१६_एf: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ एf: तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ एf: तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ एf: तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ एf: तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् ॥
२९.१६ अशुभानुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् ।
२९.१६ भोजने.चापि.मात्रज्ञम्.युक्तम्.जागरिकासु.च ।
२९.१६ एf: तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् ॥
२९.१७ रमणीयान्य्.अरण्यानि.न.चात्र.रमते.जनः ।
२९.१७ वीत.रागात्र.रंस्यन्ते.न.तु.काम.गवेषिणः ॥
२९.१८ ग्रामे.वा.यदि.वारण्ये.निम्ने.वा.यदि.वा.स्थले ।
२९.१८ यत्रार्हन्तो.विहरन्ति.ते.देशा.रमणीयकाः ॥
२९.१९ दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः ।
२९.१९ असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा ॥
२९.२० सद्भिर्.एव.सहासीत.पण्डितैर्.अर्थ.चिन्तकैः ।
२९.२० अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते ॥
२९.२१ अहम्.नाग;इव.संग्रामे.चापाद्.उत्पतितान्.शरान् ।
२९.२१ अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः ॥[.तितिक्षामि.]
२९.२२ भवे.चाहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे ।
२९.२२ तस्माद्.भवम्.नाभिनन्दे.नन्दी.च.विभवेन.मे ॥
२९.२३ अश्राद्धश्.चाकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः ।[.अश्रद्धश्.च.]
२९.२३ हतावकाशो.वान्ताशः.स.वै.तूत्तम.पूरुषः ॥
२९.२४ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
२९.२४ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥
२९.२५ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
२९.२५ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
२९.२५ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
२९.२६ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
२९.२६ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
२९.२६ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
२९.२७ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
२९.२७ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
२९.२७ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
२९.२८ येषाम्.सन्निचयो.नास्ति.ये.परिज्ञात.भोजनाः ।
२९.२८ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
२९.२८ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
२९.२९ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
२९.२९ शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
२९.२९ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
२९.३० येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
२९.३० शुन्यता.चानिमित्तम्.च.विवेकश्.चैव.गोचरः ।[.शून्यता.]
२९.३० f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
२९.३१ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
२९.३१ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
२९.३१ f: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥
२९.३२ येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.नाश्रिताः ।
२९.३२ शुन्यता.चानिमित्तम्.च.समाधिश्.चैव.गोचरः ।[.शून्यता.]
२९.३२ f: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥
२९.३३ अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः ।
२९.३३ अथेयम्.इतराः.प्रजास्.तीरम्.एवानुधावति ॥
२९.३४ ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्मानुदर्शिनः ।
२९.३४ ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः ॥
२९.३५ गताध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः ।
२९.३५ सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते ॥
२९.३६ उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः ।
२९.३६ मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् ॥
२९.३७ नास्ति.काम.समो.ह्य्.ओघो.नास्ति.दोष.समो.ग्रहः ।
२९.३७ नास्ति.मोह.समम्.जालम्.नास्ति.तृष्टा.समा.नदी ॥
२९.३८ आकाशे.तु.पदम्.नास्ति.श्रमणो.नास्ति.बाह्यकः ।
२९.३८ प्रपञ्चाभिरता.बाला.निष्प्रपञ्चास्.तथागताः ॥
२९.३९ योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः ।
२९.३९ योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः ॥
२९.४० योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः ।
२९.४० एतद्.द्वैधा.पथम्.ज्ञात्वा.भवाय.विभवाय.च ।
२९.४० f: तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् ॥
२९.४१ अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् ।
२९.४१ शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः ॥
२९.४२ कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.नानुतप्यते ।
२९.४२ नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः ॥
२९.४३ नाभाषमाना.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः ।
२९.४३ ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् ॥
२९.४४ भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् ।
२९.४४ सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः ॥
२९.४५ निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् ।[.तूष्णीम्.आसीनम्.]
२९.४५ अल्प.भाणिम्.च.निन्दन्ति.नास्ति.लोकेष्व्.अनिन्दितः ॥
२९.४६ एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः ।
२९.४६ नाभूद्.भविष्यति.च.नो.न.चाप्य्.एतर्हि.विद्यते ॥
२९.४७ यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.शुभाशुभम् ।
२९.४७ प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः ॥
२९.४८ मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् ।
२९.४८ निष्कम्.जाम्बुनदस्यैव.कस्.तम्.निन्दितुम्.अर्हति ॥
२९.४९ शैलो.यथाप्य्.एक.घनो.वायुना.न.प्रकम्प्यते ।
२९.४९ एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः ॥
२९.५० यस्य.मूले.त्वचा.नास्ति.पर्णा.नास्ति.तथा.लताः ।
२९.५० तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति ॥
२९.५१ यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः ।
२९.५१ तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः ॥
२९.५२ यस्य.जितम्.नोपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके ।
२९.५२ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
२९.५३ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी ।
२९.५३ तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
२९.५४ यस्य.मूलम्.क्षितौ.नास्ति.पर्णा.नास्ति.तथा.लताः ।
२९.५४ तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति ॥
२९.५५ यस्य.जालिनी.विषक्तिका.तृष्णा.नास्ति.हि.लोक.नायिनी ।
२९.५५ तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥
२९.५६ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
२९.५६ स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योगापेतम्.अतीर्ण.सङ्गम्.एति ॥
२९.५७ मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.]
२९.५७ सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि ॥


सुखवर्ग[सम्पाद्यताम्]

३०.१ जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः ।
३०.१ उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ ॥
३०.२ पर.दुह्खोपधानेन.य;इच्छेत्.सुखम्.आत्मनः ।
३०.२ वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते ॥
३०.३ सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति ।
३०.३ आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् ॥
३०.४ सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति ।
३०.४ आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् ॥
३०.५ धर्मम्.चरेत्.सुचरितम्.नैनम्.दुश्चरितम्.चरेत् ।
३०.५ धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च ॥
३०.६ धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव ।
३०.६ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥
३०.७ धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति ।
३०.७ एषानुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥
३०.८ अल्पापि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् ।
३०.८ अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेनैवासौ.भवति.सुखी.परत्र ॥
३०.९ दानम्.च.युद्धम्.च.समानम्.आहुर्.नैते.गुणाः.कापुरुषेव.सन्ति ।
३०.९ संग्राम.वेलेव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण ॥
३०.१० अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् ।
३०.१० शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः ॥[.शूराद्.]
३०.११ सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते ।
३०.११ क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति ॥
३०.१२ परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः ।
३०.१२ अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै ॥
३०.१३ धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा ।
३०.१३ आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः ॥
३०.१४ येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् ।
३०.१४ स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु ॥
३०.१५ येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् ।
३०.१५ ऋद्धि.पाद.रतम्.चैव.मार्गे.चाष्टाङ्गिके.रतम् ॥
३०.१६ सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् ।
३०.१६ सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च ॥
३०.१७ क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्माभिनिर्वृताः ।
३०.१७ सर्व.वैर.भयातीतास्.तीर्णा.लोके.विषक्तिकाम् ॥
३०.१८ सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः ।
३०.१८ अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः ॥
३०.१९ सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः ।
३०.१९ अस्मि.मानस्य.विनय;एतद्.वै.परमम्.सुखम् ॥
३०.२० सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता ।
३०.२० सुखम्.चार्थ.रता.वाचा.पापस्याकरणम्.सुखम् ॥
३०.२१ सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता ।
३०.२१ सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् ॥
३०.२२ सुखम्.बुद्धस्य.चोत्पादः.सुखम्.धर्मस्य.देशना ।
३०.२२ सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् ॥
३०.२३ शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः ।[.द्रष्टुम्.]
३०.२३ अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः ॥
३०.२४ सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः ।
३०.२४ प्रज्ञा.लाभः.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् ॥
३०.२५ सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् ।
३०.२५ अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् ॥
३०.२६ बाल.संसर्ग.चारी.हि.दीर्घाध्वानम्.प्रशोचति ।
३०.२६ दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः ।
३०.२६ f: धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः ॥
३०.२७ दुर्लभः.पुरुषो.जात्यो.नासौ.सर्वत्र.जायते ।
३०.२७ यत्रासौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते ॥
३०.२८ सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः ।
३०.२८ यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः ॥
३०.२९ सर्वा.ह्य्.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् ।
३०.२९ उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्येह.चेतसः ॥
३०.३० मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् ।
३०.३० त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् ॥
३०.३१ यच्.च.काम.सुखम्.लोके.यच्.चापि.दिविजम्.सुखम् ।
३०.३१ तृष्णा.क्षय.सुखस्यैतत्.कलाम्.नार्घति.षोडशीम् ॥
३०.३२ निक्षिप्य.हि.गुरुम्.भारम्.नादद्याद्.भारम्.एव.तु ।
३०.३२ भारादानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् ॥
३०.३३ सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् ।
३०.३३ सर्वोपधिम्.परिज्ञाय.नागच्छन्ति.पुनर्.भवम् ॥
३०.३४ अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु ।
३०.३४ तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः ॥
३०.३५ अयोघन.हतस्यैव.ज्वलतो.जात.वेदसः ।
३०.३५ अनुपूर्वोपशान्तस्य.यथा.न.ज्ञायते.गतिः ॥
३०.३६ एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्कौघ.तारिणाम् ।
३०.३६ प्रज्ञापयितुम्.गतिर्.नास्ति.प्राप्तानाम्.अचलम्.सुखम् ॥
३०.३७ यस्यान्तरतो.न.सन्ति.कोपा;इत्थम्.भाव.गतम्.च.यो.निवृत्तः ।
३०.३७ अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.नानुभवन्ति.दर्शनेन ॥
३०.३८ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
३०.३८ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् ॥
३०.३९ सुखम्.हि.यस्येह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य ।[.किंचन.]
३०.३९ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥[इदेन्तिचलृइह्३८]
३०.४० सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
३०.४० सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् ॥
३०.४१ सुखिनो.हि.जना;अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः ।
३०.४१ सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥
३०.४२ सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् ।
३०.४२ साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः ॥
३०.४३ सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः ।
३०.४३ उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः ॥
३०.४४ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
३०.४४ मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् ॥
३०.४५ सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः ।
३०.४५ आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः ॥
३०.४६ सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः ।
३०.४६ हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः ॥
३०.४७ सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः ।
३०.४७ वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः ॥
३०.४८ सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः ।
३०.४८ हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः ॥
३०.४९ सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
३०.४९ प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा ॥[.आभास्वरा.]
३०.५० सुसुखम्.बत.जीवामो.येषाम्.नो.नास्ति.किंचनम् ।[.किंचन.]
३०.५० प्रीति.भक्षा.भविष्यामो.सत्कायेनोपनिह्श्रिताः ॥
३०.५१ ग्रामे;अरण्ये.सुख.दुह्ख.स्पृष्टो.नैवात्मनो.न.परतो.दधाति ।
३०.५१ स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः ॥
३०.५२ सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः ।
३०.५२ स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.नोच्चावचाः.सत्.पुरुषा.भवन्ति ॥


चित्तवर्ग[सम्पाद्यताम्]

३१.१ दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः ।
३१.१ चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् ॥
३१.२ वारिजो.वा.स्थले.क्षिप्त;ओकाद्.ओघात्.समुद्धृतः ।
३१.२ परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै ॥
३१.३ पृथग्.विधावते.चित्तम्.सूर्यस्येव.हि.रश्मयः ।
३१.३ तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेनैव.कुञ्जरम् ॥
३१.४ भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् ।
३१.४ सदैनम्.अनुशासामि.मा.मेऽनर्थाय.निश्चरेत् ॥
३१.५ इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येनेच्छकम्.येन.कामम्.यथेष्टम् ।
३१.५ तत्.सन्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथाङ्कुशेन ॥
३१.६ अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः ।
३१.६ गृह.कारकैषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः ॥
३१.७ गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि ।
३१.७ सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् ।
३१.७ विसंस्कार.गते.चित्ते;इहैव.क्षयम्.अध्यगाः ॥
३१.८ स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् ।[.दूरक्ष्यम्.]
३१.८ ऋजुम्.करोति.मेधावी;इषु.कार;इव.तेजसा ॥
३१.८ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
३१.८ ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् ।
३१.९ न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् ।
३१.९ मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मनात्मनः ॥
३१.१० न.तम्.माता.पिता.वापि.कुर्याज्.ज्ञातिस्.तथापरः ।
३१.१० सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः ॥
३१.११ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.११ एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति ॥
३१.१२ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.१२ एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति ॥
३१.१३ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.१३ एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति ॥
३१.१४ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.१४ एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति ॥
३१.१५ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.१५ एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति ॥
३१.१६ यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति ।
३१.१६ एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति ॥
३१.१७ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.१७ एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति ॥
३१.१८ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.१८ एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति ॥
३१.१९ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.१९ एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति ॥
३१.२० यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.२० एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति ॥
३१.२१ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.२१ एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति ॥
३१.२२ यथागारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति ।
३१.२२ एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति ॥
३१.२३ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
३१.२३ मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा ।
३१.२४ मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः ।
३१.२४ मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा ।
३१.२४ f: ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी ॥
३१.२५ नाप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा ।
३१.२५ धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा ॥
३१.२६ विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा ।
३१.२६ आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् ॥
३१.२७ न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् ।
३१.२७ उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा ॥
३१.२८ अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः ।
३१.२८ पारिप्लव.प्रसादस्य.प्रज्ञा.न.परिपूर्यते ॥
३१.२९ स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि ।
३१.२९ वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः ॥
३१.३० रतिम्.अनुसृतम्.इन्द्रियानुगम्.पुरुषम्.चित्त.वशानुवर्तकम् ।
३१.३० यश;इह.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथाण्डजः ॥
३१.३१ आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् ।
३१.३१ मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः ॥
३१.३२ उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः ।
३१.३२ सदैव.संकल्प.हतः.कुसीदो.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति ॥
३१.३३ स्थूलान्.वितर्कान्.अथ.वापि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लवार्थम् ।
३१.३३ वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः ॥
३१.३४ एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृतात्मा ।
३१.३४ जहात्य्.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः ॥
३१.३५ कुम्भोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
३१.३५ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
३१.३६ फेनोपमम्.कायम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
३१.३६ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
३१.३७ कुम्भोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
३१.३७ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
३१.३८ फेनोपमम्.लोकम्.इमम्.विदित्वा.नगरोपमम्.चित्तम्.अधिष्ठितम्.च ।
३१.३८ युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥
३१.३९ सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् ।
३१.३९ आदानम्.प्रतिनिह्सृज्य.चानुपादायम्.आश्रिताः ।
३१.३९ क्षीणास्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः ॥
३१.४० स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा ।
३१.४० भूतेषु.च.दयापन्नः.सुखान्.न.परिहीयते ॥
३१.४१ एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः ।
३१.४१ समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने ॥
३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
३१.४२ मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् ॥
३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
३१.४२ मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् ॥
३१.४२ अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते ।
३१.४२ मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् ॥
३१.४३ एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् ।
३१.४३ सर्वांस्.तु.सत्त्वान्.मनसानुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् ॥[.सत्त्वाम्.]*
३१.४४ यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः ।
३१.४४ भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये ॥
३१.४५ शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च ।
३१.४५ सम्यग्.आज्ञा.विमुक्तस्य.ह्य्.उपशान्तस्य.भिक्षुणः ॥
३१.४६ पञ्चाङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी ।
३१.४६ यादृश्य्.एकाग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः ॥
३१.४७ सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
३१.४७ येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते ॥
३१.४८ सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् ।
३१.४८ येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते ॥
३१.४९ यस्य.शैलोपमम्.चित्तम्.स्थितम्.नानुप्रकम्पते ।
३१.४९ विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते ।
३१.४९ f: यस्यैवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति ॥
३१.५० नोपवादी.नोपघाती.प्रीति.मोक्षे.च.संवरः ।
३१.५० मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् ।
३१.५० f: अधिचित्ते.समायोग;एतद्.बुद्धस्य.शासनम् ॥
३१.५१ चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः ।
३१.५१ ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् ॥
३१.५२ मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदैव.युक्तः ।
३१.५२ स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः ॥
३१.५३ अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च ।
३१.५३ स्तीन.मिद्धाभिभूतेन.वशम्.मृत्योर्.निगच्छति ।[.स्तीनमिद्धाभिभूतेन.]
३१.५४ तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः ।
३१.५४ सम्यग्.दृष्टि.पुरस्कारो.ज्ञात्वा.चैवोदय.व्ययम् ।
३१.५४ f: स्तीन.मिद्धाभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् ॥
३१.५५ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.५५ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते ॥
३१.५६ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.५६ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते ॥[.तिर्यक्षु.]
३१.५७ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.५७ चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते ॥
३१.५८ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.५८ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते ॥
३१.५९ चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.५९ चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते ॥
३१.६० चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत ।
३१.६० चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते ॥


भिक्षुवर्ग[सम्पाद्यताम्]

३२.१ पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे ।
३२.१ देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृतात्मने ॥
३२.२ पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.नान्य.पोषिणे ।
३२.२ देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.अभिकाङ्क्षिने ॥
३२.३ सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः ।
३२.३ अममस्य.सदा.स्थितात्मनो.ह्य्.अर्थो.नास्ति.जनस्य.लापनम् ॥
३२.४ तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् ।
३२.४ श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः ॥
३२.५ यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यतेन्द्रियः.सर्व.गतिः.प्रमुक्तः ।
३२.५ अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.चैक.चरः.स.भिक्षुः ॥
३२.६ मात्रम्.भजेत.प्रतिरूपम्.शुद्धाजीवो.भवेत्.सदा ।
३२.६ प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् ।
३२.६ f: ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
३२.७ हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः ।
३२.७ आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः ॥
३२.८ धर्मारामो.धर्म.रतो.धर्मम्.एवानुचिन्तयन् ।
३२.८ धर्मम्.चानुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते ॥
३२.९ शुन्यागारम्.प्रविष्टस्य.प्रहितात्मस्य.भिक्षुणः ।[.शून्यागारम्.]
३२.९ अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः ॥
३२.१० यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् ।
३२.१० प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् ।
३२.१० f: ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥
३२.११ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.११ एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१२ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.१२ एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१३ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.१३ एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१४ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.१४ एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१५ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.१५ एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१६ यथापि.पर्वतः.शैलो.वायुना.न.प्रकम्पते ।
३२.१६ एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥
३२.१७ यस्य.सन्निचयो.नास्ति.यस्य.नास्ति.ममायितम् ।
३२.१७ असन्तम्.शोचते.नैव.स.वै.भिक्षुर्.निरुच्यते ।
३२.१८ भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् ।
३२.१८ वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता ॥
३२.१९ यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् ।
३२.१९ विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते ॥
३२.२० मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
३२.२० अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् ॥
३२.२१ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
३२.२१ अधिगच्छेत्.पदम्.शान्तम्.संस्कारोपशमम्.सुखम् ॥
३२.२२ मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने ।
३२.२२ अभव्यः.परिहाणाय.निर्वाणस्यैव.सो.अन्तिके ॥
३२.२३ उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रियाप्रियम् ।[.प्रिया.प्रियम्.]
३२.२३ प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् ॥
३२.२४ शान्त.कायः..............शान्त.वाक्.सुसमाहितः ।
३२.२४ वान्त.लोकामिषो.भिक्षुर्.उपशान्तो.निरुच्यते ॥
३२.२५ नास्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.न.ध्यायतो.अस्ति.च ।
३२.२५ यस्य.ध्यानम्.तथा.प्रज्ञा.स.वै.निर्वाण.सान्तिके ॥
३२.२६ तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः ।
३२.२६ तस्याहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः ॥
३२.२७ संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः ।
३२.२७ मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयनासनम् ॥
३२.२७ f: अधिचित्ते.समायोगम्.यस्यासौ.भिक्षुर्.उच्यते ॥
३२.२८ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
३२.२८ कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् ॥
३२.२९ धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः ।
३२.२९ कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् ॥
३२.३० इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
३२.३० कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् ॥
३२.३१ न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः । [.बाहुश्रुत्येन.]
३२.३१ तथा.समाधि.लाभेन.विविक्त.शयनेन.वा ॥
३२.३२ भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये ।
३२.३२ स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् ॥
३२.३३ ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.नात्मेति.मन्यते ।
३२.३३ मन्यते.येन.येनाहम्.तत्.तद्.भवति.चान्यथा ॥
३२.३४ लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः ।
३२.३४ भवाभिनन्दी.सततम्.भवान्.न.परिमुच्यते ॥
३२.३५ यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च ।
३२.३५ उष्यते.भव.हानाय.ब्रह्मचर्यम्.ममान्तिके ॥
३२.३६ ये.भवेन.भवस्यैव.प्राहुर्.निह्सरणम्.सदा ।
३२.३६ अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.सदा.व्.अहम् ॥?
३२.३७ प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् ।
३२.३७ क्षयात्.सर्वोपधीनाम्.तु.नास्ति.दुह्खस्य.सम्भवः ॥
३२.३८ अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः ।
३२.३८ पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.नाभिनन्दिताः ॥
३२.३९ निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते ।
३२.३९ अभिभूतो.भवः.सर्वो.दुह्खान्तः.स.निरुच्यते ॥
३२.४० सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४० विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
३२.४१ सदोपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४१ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
३२.४२ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४२ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
३२.४३ अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४३ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
३२.४४ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४४ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
३२.४५ विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४५ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
३२.४६ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४६ विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥
३२.४७ उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः ।
३२.४७ विक्षीणो.जाति.संसारो.नास्तीदानीम्.पुनर्.भवः ॥
३२.४८ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.४८ यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.४९ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.४९ यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.५० उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.५० यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.५१ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.५१ यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.५२ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.५२ यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.५३ उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः ।
३२.५३ यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥
३२.५४ येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च ।
३२.५४ यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः ॥
३२.५५ यो.नात्यसरम्.न.चात्यलीयम्.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् ।
३२.५५ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.५६ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.५६ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.५७ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.५७ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.५८ यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.५८ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.५९ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.५९ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६० यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.६० स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६१ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य ।
३२.६१ स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६२ यस्.तूत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६३ यस्.तूत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६४ यस्.तूत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६५ यस्.तूत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६६ यस्.तूत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६७ यस्.तूत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथाउषधेन ।
३२.६७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६८ यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.६८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.६९ यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.६९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७० यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.७० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७१ यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.७१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७२ यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.७२ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७३ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः ।
३२.७३ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७४ तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.सरिताम्.शीघ्र.जवाम्.अशोषयज्ञः ।
३२.७४ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७५ यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि ।
३२.७५ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७६ यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः ।
३२.७६ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७७ यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् ।
३२.७७ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७८ यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
३२.७८ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.७९ यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
३२.७९ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.८० यस्यानुशया.न.सन्ति.केचिन्.मूलम्.चाकुशलस्य.यस्य.नष्टम् ।
३२.८० स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.८१ स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता ।[.शून्यता.]
३२.८१ स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥
३२.८२ अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. ।
३२.८२ ..................रागानुशयम्.समुद्धरम्.हि ॥


३३.१ न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा ।
३३.१ न.रजो.मलम्.नोत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् ॥
३३.२ अलंकृतश्.चापि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी ।
३३.२ सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥
३३.३ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
३३.३ अन्तरेण.विषीदन्ति.ह्य्.अप्राप्यैवास्रव.क्षयम् ॥
३३.४ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
३३.४ विगृह्य.विवदन्तीमे.बाला.ह्य्.एकान्त.दर्शिनः ॥
३३.५ भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः ।
३३.५ अन्तरेण.विषीदन्त्यप्राप्यैवोत्तमम्.पदम् ॥
३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः ।
३३.६ अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि ॥
३३.६ किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.चाप्य्.अजिन.शाटिभिः ।
३३.६ अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि ॥
३३.७ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
३३.७ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥
३३.८ न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः ।
३३.८ यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ॥
३३.८ f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते ॥
३३.९ न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
३३.९ यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च ॥
३३.१० न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः ।
३३.१० यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ।
३३.१० f: वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च ॥
३३.११ नोदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः ।
३३.११ यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥
३३.१२ प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः ।
३३.१२ क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः ॥
३३.१३ यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थितात्मा ।
३३.१३ वेदान्तगश्.चोषित.ब्रह्म.चर्यः.कालेनासौ.ब्रह्म.वादम्.वदेत ॥
३३.१४ यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः ।
३३.१४ प्रणुन्न.दोषो.ह्य्.अभिनिर्वृतात्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥
३३.१५ ब्रवीमि.ब्राह्मणम्.नाहम्.योनिजम्.मातृ.सम्भवम् ।
३३.१५ भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः ।
३३.१५ f: अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.१६ यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् ।
३३.१६ सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.१७ यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते ।
३३.१७ यया.नाभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.१८ आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते ।[.तितिक्षते.]
३३.१८ क्षान्ति.व्रत.बलोपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.१९ अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् ।
३३.१९ दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२० असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथोभयम् ।
३३.२० अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२१ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
३३.२१ सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२२ आगतम्.नाभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति ।
३३.२२ अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२३ अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः ।
३३.२३ क्षीणास्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः ॥
३३.२४ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते ।
३३.२४ पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२५ यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.शुभाशुभम् ।
३३.२५ लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२६ यस्य.पारम्.अपारम्.च.पारापारम्.न.विद्यते ।
३३.२६ असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२७ इहैव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः ।
३३.२७ वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२८ यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते ।
३३.२८ अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२९ यस्.तु.पुण्यम्.च.पापम्.चाप्य्.उभौ.सङ्गाव्.उपत्यगात् ।
३३.२९ सङ्गातिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.२९ यस्य.पश्चात्.पुरे.चापि.मध्ये.चापि.न.विद्यते ।
३३.२९ विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३० वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।?
३३.३० न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३१ वारि.पुष्कर.पत्त्रेणेवाराग्रेणेव.सर्षपः ।?
३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
३३.३१ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
३३.३१ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३१ चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः ।
३३.३१ नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३२ ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् ।
३३.३२ क्षीणास्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३३ गम्भीर.बुद्धिम्.मेधाढ्यम्.मार्गामार्गेषु.कोविदम् ।
३३.३३ उत्तमार्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३४ यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति ।
३३.३४ अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् ।
३३.३४ f: आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३५ सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् ।
३३.३५ कामास्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३६ निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च ।
३३.३६ यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३७ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
३३.३७ न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
३३.३८ न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३८ आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव ।
३३.३८ नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.३९ अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः ।
३३.३९ हितानुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४० यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः ।
३३.४० न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४१ य;इमाम्.परिखाम्.दुर्गाम्.संसारौघम्.उपत्यगात् ।
३३.४१ तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः ।
३३.४१ f: निर्वृतश्.चानुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४१ ......................... ।
३३.४१ ......................... ।
३३.४१ एf: ............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४२ न.विद्यते.यस्य.तृष्णा.चास्मिन्.लोके.परेऽपि.च ।
३३.४२ तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४३ न.विद्यते.यस्य.चाशा.ह्य्.अस्मिन्.लोके.परेऽपि.च ।
३३.४३ निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४४ हित्वा.रतिम्.चारतिम्.च.शीती.भूतो.निरौपधिः ।
३३.४४ सर्व.लोकाभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४५ हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् ।
३३.४५ सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४६ गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः ।
३३.४६ अनन्त.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४७ पूर्वे.निवासम्.यो.वेत्ति.स्वर्गापायांश्.च.पश्यति ।[.स्वर्गापायांश्.च.]
३३.४७ अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.व्यवसितो.मुनिः ।
३३.४७ f: दुह्खस्यान्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४७ ........................ ।
३३.४७ ..............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४८ च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः ।
३३.४८ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.४९ सर्व.सम्योजनातीतो.यो.वै.न.परितस्यते ।[.परितप्यते.]?
३३.४९ असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५० ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् ।
३३.५० अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५०_ ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः ।
३३.५०_ यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
३३.५१ सर्वाभिभूम्.भवातीतम्.ओघ.तीर्णम्.अनास्रवम् ।
३३.५१ पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५१_ सर्वाभिभूर्.भवातीत;ओघ.तीर्णो.विनायकः ।
३३.५१_ पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
३३.५२ गताभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् । [.गताभिध्यम्.]
३३.५२ ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५२_ नाभिध्यायेन्.नाभिजल्पेत्.पापकानाम्.विवर्जयेत् ।
३३.५२_ आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
३३.५३ पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् ।
३३.५३ ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५३_ पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः ।
३३.५३_ निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
३३.५४ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
३३.५४ अमृतम्.चैव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५५ यस्यालयो.नास्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः ।
३३.५५ दूरम्.गमश्.चैक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५५_ दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् ।
३३.५५_ तेनै.............कस्य.ब्राह्मणम् ।
३३.५५ f: ......... उ..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥
३३.५६ येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्टाङ्गिकः.शिवः ।
३३.५६ सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते ॥
३३.५७ अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् ।
३३.५७ दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
३३.५७ f: क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते ॥
३३.५७_ अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् ।
३३.५७_ सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः ।
३३.५७_एf: क्षीण.सम्योजना.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥
३३.५७ ............................. ।
३३.५७ ............................. ।
३३.५८ छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् ।
३३.५८ उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५८_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् ।
३३.५८_ उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.ब्राह्मणा;इह ॥
३३.५९ छित्त्वा.नद्ध्रीन्.वरत्रान्.चेच्छा.लोभम्.च.पापकम् ।
३३.५९ तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥
३३.५९_ छित्त्वा.नद्ध्रीन्.वरत्रान्.ये इच्छा.लोभम्.च.पापकम् ।
३३.५९_ समूलाम्.चोद्धृतास्.तृष्णाम्.ते.लोके.ब्राह्मणा;इह ॥
३३.६० छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण ।
३३.६० संस्काराणाम्.क्षयम्.ज्ञात्वा.ह्य्.अकृतज्ञो.भविष्यति ॥
३३.६०_ छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च ।
३३.६०_ संस्काराणाम्.क्षयम्.ज्ञात्वा.ब्राह्मणो.याति.हानिघः ॥
३३.६१ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.स्श्रोत्रियौ ।
३३.६१ राष्ट्रम्.सानुचरम्.हत्वानिघो.याति.ब्राह्मणः ॥
३३.६२ मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ ।
३३.६२ व्याघ्रम्.च.पञ्चमम्.हत्वा.शुद्ध;इत्य्.उच्यते.नरः ॥
३३.६३ न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः ।
३३.६३ धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति ॥
३३.६३ .............................. ।
३३.६३ .............................. ।
३३.६४ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
३३.६४ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥
३३.६५ यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा ।
३३.६५ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥
३३.६६ यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् ।
३३.६६ सत्कृत्यैनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥
३३.६७ यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् ।
३३.६७ सत्कृत्यैनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥
३३.६८ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.६८ अथ.चैकः.पिशाचीम्.च.बक्कुलम्.चातिवर्तते ॥
३३.६९ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.६९ अथास्य.वेदनाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
३३.७० यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.७० अथास्य.प्रत्ययाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
३३.७१ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.७१ अथास्य.चास्रवाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः ॥
३३.७२ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.७२ अथास्य.सर्व.सम्योगा;अस्तम्.गच्छन्ति.पश्यतः ॥
३३.७३ यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् ।
३३.७३ अथ.जाति.जराम्.चैव.मरणम्.चातिवर्तते ॥
३३.७४ दिवा.तपति.हादित्यो.रात्राव्.आभाति.चन्द्रमाः ।
३३.७४ सन्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः ।
३३.७४ f: अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा ॥
३३.७५ न.ब्राह्मणस्येदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः ।
३३.७५ यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् ॥
३३.७६ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.७६ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् ॥
३३.७७ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.७७ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् ॥
३३.७८ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.७८ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति ॥
३३.७९ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.७९ अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति ॥
३३.८० यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.८० अथास्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति ॥
३३.८१ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.८१ अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथैवाभ्युदितो.अन्तरीक्षम् ॥
३३.८२ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.८२ अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः ॥
३३.८३ यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य ।
३३.८३ विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.विप्रमुक्त;इति ॥


उद्दानम्॥[सम्पाद्यताम्]

अनित्य.काम.तृष्णा.चाप्रमादस्.तथा.प्रियः ।
शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥
श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः ।
उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥
तथा.गतः.श्रुतम्.चात्मा.पेयालम्.मित्र.पञ्चमम् ।
निर्वाणम्.पश्य.पापम्.च.युग.वर्गः.सुखेन.च ।
चित्तम्.भिक्षुर्.ब्राह्मणश्.च.त्रयस्.त्रिंशतिमे.स्मृताः ।
वर्गाः.समाप्ताश्.चोद्दानम्.सम्यक्.सम्बुद्ध.भाषिताः ॥

स्रोत[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=उदानवर्ग&oldid=398478" इत्यस्माद् प्रतिप्राप्तम्