सामग्री पर जाएँ

उत्तररामचरितम् /सप्तमोऽङ्कः

विकिस्रोतः तः

(ततः प्रविशति लक्ष्णमः) लक्ष्मणः- भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजनपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्निकायः सचराचरो भूतग्रामः स्वप्रभावेण संनिधापितः । आदिष्टश्चाहमार्येण-‘वत्सलक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः’ इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु- राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥
(ततः प्रविशति रामः)
रामः- वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?
लक्ष्मणः- अथ किम् ।
रामः- इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ ।
लक्ष्मणः-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः ।
रामः-(उपविश्य) प्रस्तूयतां भोः !
सूत्रधारः-(प्रविश्य) भगवान्भूतार्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति-‘यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च’ किंचिदुपनिबद्धम् । तत्र काव्यगौरवादवधातव्यम्’ इति । रामः- एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषामृतम्भराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इति न हि शङ्कनीयानि ।
(नेपथ्ये) हा आर्यपुत्र ! कुमारलक्ष्मण ! एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा ! इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि ।
लक्ष्मणः- कष्टं बतान्यदेव किमपि । सूत्रधारः- विश्वम्भराऽऽत्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥
(इति निष्क्रान्तः) प्रस्तावना ।
रामः-(सावेगम्) देवि ! देवि ! लक्ष्मणमवेक्षस्व ।
लक्ष्मणः- आर्य ! नाटकमिदम् ।
रामः-हा देवि ! दण्डकारण्यवासप्रियसखि ! एष ते रामाद्विपाकः । लक्ष्मणः- आर्य ! आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः ।
रामः- एष सज्जोऽस्मि वज्रमयः ।
(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामालम्बिता प्रमुग्धा सीता) रामः- वत्स ! असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि, धारय माम् ।
देव्यौ- समाश्वसिहि कल्याणि ! दिष्ट्या वैदेहि ! वर्धसे । अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥

सीता- (आश्वस्य) दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र ! लक्ष्मणः-(पादयोर्निपत्य) आर्य ! दिष्ट्या वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलाक्य) हा ! कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति) देव्यौ-वत्से ! समाश्वसिहि ।
सीता-(समाश्वस्य) भगवत्यौ ! के युवाम् ? मुञ्चतम् ।
पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी ।
सीता- नमस्ते भगवति !
भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ ।
लक्ष्मणः-अनुगृहीताः स्मः ।
भागरथी-इयं ते जननी विश्वम्भरा ।
सीता-हा अम्ब ! ईदृश्यहं त्वया दृष्टा ।
पृथिवी-एहि पुत्रि वत्से सीते !
(उभौ आलिङ्ग्य मूर्च्छतः) लक्ष्मणः-(सहर्षम्) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।
रामः-दिष्ट्या खल्वेतत् । करुणान्तरं तु वर्तते ।
भागीरथी-अत्रभवती विश्वम्भरा व्यथत इति जितमपत्यस्नेहेन । सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः । सखि भूतधात्रि ! वत्से वैदेहि ! समाश्वसिहि । पृथिवी-(आश्वस्य) देवि ! सीतां प्रसूय कथमाश्वसिमि ?
सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः । गङ्गा- को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे ? ॥ ४ ॥
पृथिवी-भगवति भागीरथि ! युक्तमेतत्सर्वं वो रामभद्रस्य ? न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । नाहं, न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥
सीता- हा आर्यपुत्र ! स्मरसि ? पृथिवी-आः ! कस्तवार्यपुत्रः ?
सीता-(सलज्जास्रम्) यथाम्बा भणति ।
रामः-अम्ब पृथिवि ! ईदृशोऽस्मि ।
गङ्गा-भगवति वसुन्धरे ! शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि ?
घोरं लोके विततमयशो या च वह्नौ विशुद्धि- र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ? । इक्ष्वाकूणां कुलधनमिदं यत्समारधनीयः कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ? ॥ ६ ॥
लक्ष्मणः- अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु । गङ्गा-तथाप्येष तेऽञ्जलिः । रामः- अम्ब ! अनुवृत्तस्त्वया । भगीरथकुले प्रसादः । पृथिवी- नित्यं प्रसन्नास्मि तव । किं त्वसावापातदुःसहस्नेहसंवेगः । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । दह्यमानेन मनसा दैवाद्वत्सां विहाय सः । लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥
रामः- सकरुणा हि गुरवो गर्भरूपेषु । सीता-(रुदती कृताञ्जलिः) नयतु मामात्मनोऽङ्गेषु विलयमम्बा । गङ्गा-किं ब्रीवीषि ? अविलीना वत्से ! संवत्सरसहस्राणि भूयाः । पृथिवी-वत्से ! अवेक्षणीयौ ते पुत्रौ । सीता- किमेताभ्यामनाथाभ्याम् ? रामः-दय ! वज्रमसि । गङ्गा-कथं वत्सौ सनाथावप्यनाथौ ?
सीता-कीदृशं मे अभाग्यायाः सनाथत्वम् ?
देव्यौ- जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ? । आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥
लक्ष्मणः-आर्य ! ंश्रूयताम् । रामः- लोकः शृणोतु ।
(नेपथ्ये कलकलः) रामः-अद्भुततरं किमपि ।
सीता-किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् ?
देव्यौ-ज्ञातम् ।
कृशाश्वः कौशिको राम इति येषां गुरुक्रमः ।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥
(नेपथ्ये) देवि ! सीते ! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते । आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥
सीता- दिष्ट्या अस्त्रदेवता एताः । आर्यपुत्र ! अद्याऽपि ते प्रसादाः परिस्फुरन्ति ।
लक्ष्मणः- उक्तमासीदार्येण ‘सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ती’ति । देव्यौ- नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥
रामः- क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति ।
विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥
देव्यौ-मोदस्व वत्से ! मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ । सीता-भगवत्यौ ! क एतयोः क्षत्रियोचितविधिं कारयिष्यति ? रामः- एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी ।
कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥
गङ्गा-भद्रे ! किं तवानया चिन्तया ? एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि । वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति ।
स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥
यथा वसिष्ठाङ्गिरसावृषिः प्राचेतसस्तथा ।
रघूणां जनकानां च वंशयोरुभयोर्गुरुः ॥ १५ ॥
रामः-सुविचिन्तितं भगवत्या ।
लक्ष्मणः- आर्य ! सत्यं विज्ञापयामि । तैस्तैरुपार्यैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ । आर्यतुल्यकृती वीरौ वयसा द्वादशाब्दको ॥ १६ ॥
रामः- वत्सावित्येवाहं परिप्लवमानदयः प्रमुग्धोऽस्मि ।
पृथिवी-एहि वत्से ! पवित्रीकुरु रसातलम् ।
रामः- हा प्रिये ! लोकान्तरं गताऽसि ? सीता- नयतु मामात्मनोऽङ्गे विलयमम्बा । न सहिष्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् ।
लक्ष्मणः- किमुत्तरं स्यात् ?
पृथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि । गङ्गा- एवं तावत् । (इति निष्क्रान्ते देव्यौ सीता च)
रामः-कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते ! लोकान्तरे पर्यवसिताऽसि ? (इति मूर्च्छति)
लक्ष्मणः-भगवन् वाल्मीके परित्रायस्व, परित्रायस्व । एष ते काव्यार्थः ? (नेपथ्ये) अपनीयतामातोद्यम् । भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः । पश्यन्त्विदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।
लक्ष्मणः-(विलोक्य)
मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥
(नेपथ्ये) अरुन्धति ! जगद्वन्द्ये ! गङ्गापृथ्व्यौ जुषस्व नौ ।
अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥
लक्ष्मणः- अहो ! आश्चर्यमाश्चर्यम् । आर्ये ! पश्य पश्य । कष्टमद्यापि नोच्छ्वसित्यार्यः । (ततः प्रविशत्यरुन्धती सीता च) अरुन्धती- त्वरस्व वत्से ! वैदेहि ! मुञ्च शालीनशीलताम् । एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १९ ॥
सीता-(ससम्भ्रमं स्पृशति) समाश्वसितु समाश्वसित्वार्यपुत्रः ! रामः-(समाश्वस्य सानन्दम्) भोः ! किमेतत् ? (दृष्ट्वा सहर्षाद्भुतम्) कथं देवी जानकी ? (सलज्जम्) अये ! कथमम्बाऽरुन्धती ? कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः ? अरुन्धती-वत्स ! एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना ।
(नेपथ्ये) जगत्पते रामभद्र ! स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । ‘सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भवे’(पृ० ३९)ति । तदनृणास्मि ।
अरुन्धती-इयं ते श्वश्रूर्भगवती वसुन्धरा ।
(नेपथ्ये) उक्तमासीदायुष्मता वत्सायाः परित्यागे ‘भगवति वसुन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम्’ (पृ० ७८) इति । तदधुना कृतवचनाऽस्मि । रामः-कृतापराधोऽपि भगवति ! त्वयानुकम्पयितव्यो रामः प्रणमति । अरुधन्ती- भो भोः पौरजानपदाः ! इयमधुना वसुन्धराजाह्नवीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या समर्पिता पूर्वं भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्व देवैः स्तुता सावित्रकुलवधूर्देवयजनसंभवा जानकी परिगृह्यताम् । कथमहि भवन्तो मन्यन्ते ? लक्ष्मणः- आर्य ! एवमम्बयाऽरुन्धत्या च निर्भर्त्सिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यां नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते । अरुन्धती- जगत्पते रामभद्र ! नियोजन यथाधर्मं प्रियां त्वं धर्मचारिणीम् । हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥
सीता- (स्वगतम्) अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम् ?
रामः- यथा भगवत्यादिशति ।
लक्ष्मणः- कृतार्थोऽस्मि ।
सीता-प्रत्युज्जीविताऽस्मि ।
लक्ष्मणः- आर्ये ! अयं लक्ष्मणः प्रणमति ।
सीता- वत्स ! ईदृशस्त्वं चिरं जीव । अरुन्धती- भगवन् वाल्मीके ! उपनयेदानीं सीतागर्भसंभवौ रामभद्रस्य कुशलवौ । (इति निष्कान्ता) रामलक्ष्मणौ-दिष्ट्या तथैवैतत् ।
सीता- क्व तौ पुत्रकौ ?
(ततः प्रविशति वल्मीकिः कुशलवौ च) वल्मीकिः-वत्सौ ! एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।
सीता-(सहर्षकरुणाद्भुतं विलोक्य) कथं तातः ? कथं जातौ ?
वत्सौ- हा तात ! हा अम्ब ! हा मातामह !
रामलक्ष्मणौ-(सहर्षमालिङ्ग्य) ननु वत्सौ । युवां प्राप्तौ स्थः ।
सीता- एहि जात कुश ! एहि जात लव ! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम् ।
कुशलवौ-(तथा कृत्वा) धन्यौ स्वः ।
सीता-भगवन् ! एषाऽहं प्रणमामि ।
वाल्मीकिः- वत्से ! एवमेव चिरं भूयाः ।
(नेपथ्ये) उत्खातलवणो मथुरेश्वरः प्राप्तः । लक्ष्मणः-सानुषङ्गाणि कल्याणानि । रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।
वाल्मीकिः-रामभद्र ! उच्यतां, किं ते भूयः प्रियमुपहरामि ? रामः-अतः षरमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु ।
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २१ ॥
(निष्क्रान्ताः सर्वे) इति महाकविभवभूतिविरचिते उत्तररामचरिते ‘सम्मेलनं’ नाम सप्तमोऽङ्कः ॥


अथ टीकाकारस्य
ग्रन्थसमाप्तौ मङ्गलाचारणम्

यत्काये विहितं करोमि सततं, पश्चात्करिष्यामि य- द्रागेणागमजातवर्णितदिशा कर्तव्यबुद्ध्यापि वा । तत्सर्वं भवदीयपादकमलद्वन्द्वेऽर्प्यते श्रद्धया स्वामिन् ! कृष्ण !! न चास्ति मेऽत्र कृतिता, सापि त्वदुक्त्यैव हि ॥

ॐ तत्सत् श्रीकृष्णार्पणमस्तु
समप्तोऽयं ग्रन्थः ।