उत्तररामचरितम् /पञ्चमोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

(नेपथ्ये) भोः भोः सैनिकाः ! जातमवलम्बनमस्माकम् । नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन । उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥
(तत प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः ।)
चन्द्रकेतुः- आर्य सुमन्त्र ! पश्य पश्य !
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना कार्मुकेण ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥
(साश्चर्यम्)
मुनिजनशिशुरेकः सर्वतः संप्रकोपा- न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।
दलितकरिकपोलग्रन्थिटङ्कारघोर- ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥
सुमन्त्रः-आयुष्मन् !
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥
चन्द्रकेतुः- मम त्वेकमुद्दिश्य भूयसामारम्भ इति दयमपत्रपते । अयं हि शिशुरेकको मदभरेण भूरिस्फुर- त्करालकरकन्दलीजटिलशस्त्रजालैर्वलैः ।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनाद्विरदडामरैरावृतः ॥ ५ ॥
सुमन्त्रः-वत्स ! एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ? चन्द्रकेतुः-आर्य ! त्वर्यतां त्वर्यताम् । अनेन हि महानाश्रितजनप्रमारोऽस्माकमारब्धः । तथा हि- आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर- ज्यानिर्घोषममन्दुन्दुभिरवैराध्मातमुज्जृम्भयन् । वेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृष्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥ ६ ॥
सुमन्त्रः-(स्वगतम्) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्रहारमनुजानीमः । (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ? चन्द्रकेतुः-(सविस्मयलज्जासम्भ्रमम्) हन्त धिक् ! अपावृत्तान्येव सर्वतः सैन्यानि मम ।
सुमन्त्रः-(रथवेगं निरूप्य) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः ।
चन्द्रकेतुः-(विस्मृतिमभिनीय ।) आर्य ! किं नामधेयमाख्यातमह्वायकैः ?
सुमन्त्रः-‘लव’ इति ।
चन्द्रकेतुः- भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः ?।
एषोऽहमेहि मामेव, तेजस्तेजसि शाम्यत ॥ ७ ॥
सुमन्त्रः- कुमार ! पश्य पश्य ।
विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः । स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः ॥ ८ ॥
(ततः प्रविशति धीरोद्धतपराक्रमो लवः) लवः-साधु राजपुत्र ! साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवस्मि । (नेपथ्ये महान् कलकलः) लवः-(सावष्टम्भं परावृत्य) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः धिग्जाल्मान् ! अयं शैलाघातक्षुभितवडवावक्त्रहुतभु- क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।
समन्तादुत्सर्पद्घनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥
(सवेगं परिक्रामति ) चन्द्रकेतुः- भो भो: कुमारः !
अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि, यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि ? नन्वेषु दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥
लवः-(सहर्षसंभ्रमं परावृत्य) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिः ? एनमेव तावत्संभावयामि ।
(पुनर्नेपथ्ये कलकलः) लवः-(सक्रोधनिर्वेदम्) आः ! कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः । (इति तदभिमुखं परिक्रामति)
चन्द्रकेतुः-आर्य ! दृश्यतां द्रष्टव्यमेतत् । दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥ ११ ॥

सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन । चन्द्रकेतुः- भो भो राजान् ! संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वत्रैकस्मिन् कवचनिचितैर्नद्धचर्मोत्तरीये । कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भि- र्योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥ १२ ॥

लवः-(सोन्माथम्) आः ! कथमनुकम्पते नाम ? (ससम्भ्रमं विचिन्त्य) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति) सुमन्त्रः-तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ?
लवः-पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्रः-(ससम्भ्रमम्) वत्स । मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।
चन्द्रकेतुः-अत्र कः सन्देहः ?
व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ १३ ॥
आश्चर्यमाश्चर्यम् ! पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्ध्यस्तैरभिस्तीर्यते लीनाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥

सुमन्त्रः- कुतः पुनरस्य जृम्भकाणामागमः स्यात् ? चन्द्रकेतुः- भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः- वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः- कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः । अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५ ॥

चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति । सुमन्त्रः- वत्स ! सावधानो भव । परागतस्ते प्रतिवीरः ।
कुमारौ-(अन्योन्यं प्रति) अहो ! प्रियदर्शनः कुमारः । (सस्नेहानुरागं निर्वर्ण्य)
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे दयमवधानं रचयति ॥ १६ ॥

सुमन्त्रः- भूयसां जीविनामेव धर्म एषः, तत्र स्वरसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तदप्रतिसङ्ख्येयनिबन्धनं प्रमाणमामनन्ति । अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥

कुमारौ-(अन्योन्यमुद्दिश्य) एतस्मिन्मसृणितराजपकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ? यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमासते ॥ १८ ॥
किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ? शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः । किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥

सुमन्त्रः- (लवं निर्वर्ण्य सास्रमात्मगतम्) दय ! किमन्था परिप्लवसे ? मनोरथस्य यद्बीजं तद्दैवेनादितो तम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ? ॥ २० ॥

चन्द्रकेतुः- अवतराम्यार्य सुमन्त्र ! स्यन्दनात् । सुमन्त्रः- कस्य हेतोः ? चन्द्रकेतुः-एकस्तावदयं वीरपुरुषः पूजितो भवति, अपि च खल्वार्य ! क्षत्रधर्मः परिपालितो भवति । ‘न रथिनः पादचारमभियुञ्जन्ती’ति शास्त्रविदः परिभाषन्ते । सुमन्त्रः-(स्वगतम्) आः ! कष्टां दशामनुप्रपन्नोऽस्मि । कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु । कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥

चन्द्रकेतुः- यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृत्छन्ति, तत्किमार्यो विमृशति ?
सुमन्त्रः-आयुष्मन् ! एवं यथाधर्ममभिमन्यसे ।
एष सांग्रामिको न्याय एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥

चन्द्रकेतुः-अप्रतिरूपं वचनमार्यस्य ।
इतिहासं पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥

सुमन्त्रः-(सस्नेहास्रं परिष्वज्य)
जातस्य ते पितुरपीन्द्रजितो निहन्तु-
र्वत्सस्य वत्स ! कति नाम दिनान्यमूनि ?
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥

चन्द्रकेतुः-(सकष्टम्)
‘अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः’ ?
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥

सुमन्त्रः-दयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः- हन्त ! मिश्रीकृतक्रमो रसो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम, कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥ २६ ॥

चन्द्रकेतुः-(अवतरणं निरूपयन्) आर्य ! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।
ऐन्द्रावैष्णमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥

लवः-अतीव नाम शोभते रथस्थ एव । कृतं कृतमत्यादरेण ।
चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः-आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः-त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम् ।
लवः-को विचारः स्वेषूपकरणेषु ? किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।
सुमन्त्रः- जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम् । यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन दयमभिष्यन्दयेत् ।
लवः-अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते । (सलज्जमिव)
यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाऽकरोत् ॥ २८ ॥

चन्द्रकेतुः-किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ? लवः-अस्त्विहामर्षो मा भूद्वा । अन्यदेतत्पृच्छामि । दान्तं हि राजानं राघवं शृणुमः । स किल नात्मना दृप्यति, नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ? ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्वेवैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥
इति ह स्म तां निन्दन्ति इतरामभिष्टुवन्ति । कामं दुग्धे, विप्रकर्षत्यलक्ष्मीं, कीर्तिं सूते , दुदो निष्प्रलाति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥

सुमन्त्रः-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्ययमभ्युपपन्नामर्षेण संस्कारेण । लवः-यत्पुनश्चन्द्रकेतो ! वदसि ‘किन्नु भवतस्तातप्रतापोत्कषेऽप्यमर्ष’ इति, तत्पृच्छामि ‘किं व्यवस्थितविषयः क्षात्रधर्म’ ? इति ।
सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् ! तद्विरमातिप्रसङ्गात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥

लवः-(सहासम्) आर्य ! जामदग्नस्य दमनः स राजेति कोऽयमुच्चैर्वादः ?
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् । शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ? ॥ ३२ ॥

चन्द्रकेतुः-(सोन्माथमिव) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥ ३३ ॥

लवः- को हि रघुपतेश्चरितं महिमानं च न जानाति ? यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने । यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥

चन्द्रकेतुः-आः तातापवादिन् ! भिन्नमर्याद ! अति हि नाम प्रगल्भसे ।
लवः-अये ! मय्येव भ्रुकुटीमुखः संवृत्तः । सुमन्त्रः-स्फुरितमनयोः क्रोधेन । तथा हि-
क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नं भ्रुवो- श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥

लवः-कुमार ! कुमार ! एह्येहि । विमर्दक्षमां भूमिमवतरावः । (इति निष्क्रान्ताः सर्वे) इति महाकविभवभूतिविरचिते उत्तररामचरिते कुमारविक्रमो नाम पञ्चमोऽङ्कः ॥ ५ ॥