उत्तररामचरितम् /द्वितीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

वनदेवता -(अर्घ्यं विकीर्य)

यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति । तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥१॥

तापसी - किमत्रोच्यते ?

प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२॥

(उपविशतः)
वनदेवता - कां पुनरत्रभवतीमवगच्छामि? तापसी - आत्रेय्यस्मि । वनदेवता - आर्ये आत्रेयि ! कुतः पुनरिहागम्यते ? किंप्रयोजनो दण्डकारण्योपवनप्रचारः ? आत्रेयी - अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति । तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि ॥३॥

वनदेवता- यदा तावदन्येऽपिमुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते, तत्कोऽयमार्यायाः प्रवासः ? आत्रेयी - तस्मिन् हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रावसोऽङ्गीकृतः । वनदेवता - कीदृशः ? आत्रेयी - तत्र भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । तत्खलु न केवलं तस्य, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति । वनदेवता - अपि तयोर्नामसंज्ञानमस्ति ? आत्रेयी- तथैव किल देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यातः । वनदेवता-कीदृशः प्रभावः ? आत्रेयी-तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति । वनदेवता-अहो नु भोश्चित्रमेतत् । आत्रेयी-तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च, निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः । तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ । न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति । यतः ।

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति हि पुनर्भूयान् भेदः फलं प्रति, तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥४॥

वनदेवता - अयमध्ययनप्रत्यूहः ? आत्रेयी - अन्यश्च । वनदेवता - अथापरः कः ? आत्रेयी - अथ स ब्रह्मर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनुप्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवीं वाचमनुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।

मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥५॥

वनदेवता - चित्रम् ? आम्नायादन्यत्र नूतनश्छन्दसामवतारः । आत्रेयी - तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसंगम्य भगवान् भूतभावनः पद्मयोनिरवोचत्- ‘ऋषे ! प्रबुद्धोऽसि वागात्मनि ब्रह्मणि । तद् ब्रूहि रामचरितम् । अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु । आद्यः कविरसि’ इत्युक्त्वान्तर्हितः । अथ स भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशंविवर्तमितिहासं रामायणं प्रणिनाय । वनदेवता- हन्त ! पण्डितः संसारः । आत्रेयी-तस्मादेव हि ब्रवीमि ‘तत्र महानध्ययनप्रत्यूह’ इति । वनदेवता-युज्यते । आत्रेयी - विश्रान्तास्मि भद्रे ! संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि । वनदेवता- इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण । आत्रेयी- (सास्रम्) अप्येतत्तपोवनम् ? अप्येषा पञ्चवटी ? अपि सरिदियं गोदावरी ? अप्ययं गिरिः प्रस्रवणः ? अपि जनस्थानवनदेवता त्वं वासन्ती ? वनदेवता- तथैव तत्सर्वम् । आत्रेयी- हा वत्से जानकि !

स एष ते वल्लभबन्धुवर्गः प्रासङ्गिकीनां विषयः कथानाम् । त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥६॥

वासन्ती-(सभयम् । स्वगतम्) कथं नामशेषेत्याह ? (प्रकाशम्) किमत्याहितं सीतादेव्याः ? आत्रेयी- न केवलमत्याहितम्, सापवादमपि । (कर्णे) एवमिति । वासन्ती-हा ! दारुणो दैवनिर्घातः । (इति मूर्च्छति ।) आत्रेयी- भद्रे ! समाश्वसिहि समाश्वसिहि । वासन्ती- हा प्रियसखि ! ईदृशस्ते निर्माणभागः । हा रामभद्र ! अथवा अलं त्वया । आत्रेयि ! अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदस्ति प्रवृत्तिः ? आत्रेयी-नहि नहि । वासन्ती- कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ? आत्रेयी-ऋष्यशृङ्गसत्रे गुरुजनस्तदाऽऽसीत् । संप्रति परिसमाप्तं सत्रम् । ऋष्यशृङ्गेण च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती ‘नाहं वधूविरहितामयोध्यां गच्छामी’ त्याह । तदेव राममातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा ‘वाल्मीकिवनं गत्वा वत्स्याम’ इति । वासन्ती- अथ स रामभद्रः किमाचारः ? आत्रेयी-तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः । वासन्ती-अहह धिक् । परिणीतमपि ? आत्रेयी-शान्तम् ! नहि नहि । वासन्ती-का तर्हि यज्ञे सहधर्मचारिणी ? आत्रेयी-हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता । वासन्ती-हन्त भोः !

वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ? ॥७॥

आत्रेयी-विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः । प्रक्लृप्ताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदिव्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः । वासन्ती-(सहर्षकौतुकाऽस्रम्) कुमारलक्ष्मणस्यापि पुत्र इति मातः ! जीवामि । आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्घोषितम् । ततो ‘न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरती’त्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत् -

शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः स ते राम ! तं हत्वा जीवय द्विजम् ॥८॥

इत्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चारं समारब्धवान् । वासन्ती-शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । अपि नाम रामभद्रः पुनरिदं वनमलङ्कुर्यात् ? आत्रेयी-भद्रे ! गम्यतेऽधुना । वासन्ती-आर्ये आत्रेयि ! एवमस्तु । कठोरश्च दिवसः । तथाहि-

कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन संपातिभि- र्धर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् । छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥९॥

(इति परिक्रम्य निष्क्रान्ते) इति शुद्धविष्कम्भकः । (ततः प्रविशति सदयोद्यतखड्गो रामभद्रः ।) रामः- हे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य बाहुरसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ? ॥१०॥

(कथञ्चित्प्रत्य) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः ? (प्रविश्य) दिव्यपुरुषः-जयतु देवः ।

दत्ताभये त्वयि यमादपि दण्डधारे संजीवितः शिशुरसौ, मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते । सत्सङ्गजानि निधनान्यपि तारयन्ति ॥११॥

रामः- द्वयमपि प्रियं नः, तदनुभूयतामुग्रस्य तपसः परिपाकः ।

यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥१२॥

शम्बूकः-स्वामिन् ! युष्मत्प्रसादादेवैष महिमा । किमत्र तपसा ? अथवा महदुपकृतं तपसा ।

अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो मामन्विष्यन्निह वृषलकं योजनानां शतानि । क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥१३॥

रामः- किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य) हा ! कथम्-

स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥१४॥

शम्बूकः- दण्डकैवैषा । अत्र किल पूर्वं निवसता देवेन-

चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । त्रयश्च दूषणखरत्रिमूर्धा नो रणे हताः ? ॥१५॥

येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः संचारः संवृत्तः । रामः-न केवलं दण्डकैव, जनस्थानमपि ? शम्बूकः-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलाक्रान्तविकटगिरिगह्वराणि जनस्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते । तथाहि-

निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥१६॥

रामः- पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥१७॥

(सर्वतोऽवलोक्य) प्रियारामाहि वैदेह्यासीत् । एतानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् ? (सास्रम् !)

त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु । इतीवारमतेहासौ स्नेहस्तस्याः स ताद्दशः ॥१८॥

न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥१९॥

शम्बूकः- तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डितान्यसंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि महारण्यानि ।

इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया वहन्ति । फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥

अपि च ।

दधति कुहरभाजामत्र भल्लूकयूना- मनुरसितगुरूणि स्त्यानमम्बूकृतानि । शिशिरकटुकषायः स्त्यायते सल्लकीना- मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ २१ ॥

रामः- (सबाष्पस्तम्भम्) भद्र ! शिवास्ते पन्थानो देवयानाः । प्रलीयस्य पुण्येभ्यो लोकेभ्यः । शम्बूकः- यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रविशामि । (इति निष्क्रान्तः) रामः- एतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः । आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञा ॥ २२ ॥ एते त एव गिरयो विरुवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि । आमञ्जुवञ्जुललतानि च तान्यमूनि नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥ २३ ॥ मेघमालेव यश्चायमारादिव विभाव्यते । गिरिः प्रस्रवणः सोऽयमत्र गोदावरी नदी ॥ २४ ॥ अस्यैवासीन्महति शिखरे गृध्रराजस्य वास- स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु । गोदावर्याः पयसि विततानोकहश्यामलश्री- रन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥

अत्रैव सा पञ्चवटी, यत्र निवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः, प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापतितमद्य रामस्य ? संप्रति हि-

चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः । व्रणो रूढग्रन्थिः स्फुटित इव न्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥

तथाविधानपि तावत्पूर्वसुदो भूमिभागान् पश्यामि । (निरूप्य) अनवस्थितो भूतसन्निवेशः । तथा हि-

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥

हन्त हन्त ! परिहरन्तमपि मां पञ्चवटी स्नेहाद्बलादाकर्षतीव । (सकरुणम्)

यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्सम्बन्धकथाभिरेव सततं दीर्घाभिरास्थीयत । एकः सम्प्रति नाशितप्रियतमस्तामेव रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥ २८ ॥

(प्रविश्य) शम्बूकः- जयतु देवः । भगवानगस्त्यो मत्तःश्रुतसन्निधानस्त्वामाह-‘परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः । तदेहि । सम्भावयाऽस्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधसज्जो भव’ इति । रामः-यथाज्ञापयति भगवान् । शम्बूकः-इत इतो देवः । रामः-(पुष्पकं प्रवर्तयन्) भगवति पञ्चवटि ! गुरुजनादेशोपरोधात्क्षणं क्षम्यतामतिक्रमो रामस्य । शम्बूकः - देव ! पश्य -

गुज्जत्कुञ्जकुटीरकौशिकघटाघुत्कारवत्कीचक- स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चाभिधोऽयं गिरिः । एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ॥

अपि च - एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः । अन्योन्यप्रतिघातशङ्कुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्या: सरित्सङ्गमाः ॥ ३० ॥ (इति निष्क्रान्ताः सर्वे) इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः ॥ २ ॥