उत्तररामचरितम् /चतुर्थोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

(ततः प्रविशतस्तापसौ) एकः-सौधातके ! दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथा हि- नीवारौदनमण्डमुष्णमधुरं सद्यः प्रसूतप्रिया- पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ १ ॥

सौधातकिः-स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानां तपोधनानाम् । प्रथमः- (विहस्य ।) अपूर्वः खलु बहुमानहेतुगुरुषु सौधातके ! सौधातकिः-भो दण्डायन ! किंनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरन्धरोऽद्यातिथिरागतः ? दण्डायनः-धिक्प्रहसनम् ! नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारनधिष्ठाय भगवान् वसिष्ठः प्राप्तः । तत्किमेवं प्रलपसि ? सौधातकिः- हुं वसिष्ठः ? दण्डायनः- अथ किम् ? सौधातकिः- मया पुनर्ज्ञातं कोऽपि व्याघ्र इव एष इति । दण्डायनः-आः, किमुक्तं भवति ?
सौधत्तकिः-येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता । दण्डायनः-समांसो मधुपर्क इत्याम्नायं बहु मन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्मं धर्मसूत्रकाराः समामनन्ति । सौधातकिः- भो ! निगृहीतोऽसि ।
दण्डायनः-कथमिव ?
सौधातकिः- येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वालमीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता । दण्डायनः- अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः । सौधातकिः-किन्निमित्तम् ?
दण्डायनः-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य । सौधातकिः-ततः किमित्यागतः ? दण्डायनः-संप्रति च प्रियसुदं भगवन्तं प्राचेतसं द्रष्टुम् । सौधतकिः- अप्यद्य सम्बन्धिनीभिः रामं निर्वृत्तं दर्शनमस्य न वेति ?
दण्डायनः- संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा ‘स्वयमुपेत्य स्नेहादयं द्रष्टव्य’ इति । सौधातकिः-यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि वटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः अथ कुत्र स जनकः ? दण्डायनः-तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति । य एषः- दि नित्यानुषक्तेन सीताशोकेन तप्यते । अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥ २ ॥
(इति निष्कान्तौ ।) इति मिश्रविष्कम्भकः ।

(ततः प्रविशति जनकः) जनकः-
अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥

कष्टम्! एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव! महानद्यापि मम दग्धदेहो न पतति । ‘अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रतिविधीयन्ते, य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसंभवे ! ईदृशस्ते निर्माणभागः परिणतः ! येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । हा पुत्रि ! अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाग्रम् । वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जुजल्पितं ते ॥४॥

भगवति वसुन्धरे ! सत्यमतिदृढासि ।
त्वं वह्निर्मुनयो वसिष्ठगृहिणी, गङ्गा च यस्या विदु- र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
विद्यां वागिव यामसूत भवती, शुद्धिं गतायाः पुन- स्तस्यास्त्वद्दुहितुस्तथा विशसनं किं दारुणे मृष्यथाः ? ॥६॥
(नेपथ्ये) इत इतो भगवती महादेव्यौ ।
जनकः - अये ? गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय) कां पुनर्महादेवीत्याह ? (निरूप्य) हा हा ! कथमियं महाराजस्य दशरथस्य धर्मदाराः प्रियशखी मे कौसल्या ? क एतां प्रत्येति सैवेयमिति नाम ? असीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा । कष्टं बतान्यदिव दैववशेन जाता दुःखत्मकं किमपि भूतमहो विकारः ॥६॥
य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः । क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥७॥
(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।) अरुन्धती-ननु ब्रवीमि ‘द्रष्टव्यः स्वयमुपेत्यैव वैदेह ’ इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महानध्यवसायः ? कञ्चुकी - देवि ! संस्तभ्यात्मानमनुरूध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि । कौसल्या - ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं दयं पर्यवस्थापयितुम् । अरुन्धती - अत्र कः सन्देहः ?
सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि । दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ॥८॥

कौसल्या-कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः पितूराजर्षेर्मुखं दर्शयामः ?
अरुन्धती- एष वः श्लाघ्यसम्बन्धी जनकानां कुलोद्वहः । याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥९॥

कौसल्या - एष स महाराजस्य दयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव ! सर्वें तन्नास्ति । जनकः-(उपसृत्य) भगवत्यरुन्धति ! वैदेहः सीरध्वजोऽभिवादयते ।

यया पूतंमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरूतमः ।
त्रिलोकीमङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥१०॥

अरून्धती - अक्षरं ते ज्योतिः प्रकाशताम् । स त्वां पुनातु देवः परो रजसां य एष तपति । जनकः- आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातु ? कञ्चुकी - (स्वागतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम्) राजर्षे ! अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । सामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चाग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन ।
जनकः- (सरोषम्) आः ! कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने ? कष्टम् ! एवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।
अरून्धती- (निःश्वस्य) एवमेतत् । अग्निरिति वत्सां प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से !
शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भYंतं द्रढयति ।
शिशुत्वं स्त्रैणं वा भवतु, ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु, न च लिङ्गं, न च वयः ॥११॥

कौसल्या- अहो ! समुन्मूलयन्तीव वेदनाः । (इति मूर्च्छति) जनकः- हन्त ! किमेतत् ?
अरुन्धती- राजर्षे ! किमन्यत् ?
स राजा, तत्सौख्यं, स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुदि दृष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥

जनकः- हन्त ! सर्वथा नृशंसोऽस्मि । यच्चिरस्य दृष्टान्प्रियसुदः प्रियदारानस्निग्ध इव पश्यामि । स संबन्धी श्लाघ्यः, प्रियसुदसौ, तच्च दयं, स चानन्दः साक्षादपि च निखिलं जीवितफलम् । शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं महाराजः श्रीमान् किमपि मम नासीद्दशरथः ? ॥१३॥ कष्टमियमेव सा कौसल्या- यदस्याः पत्युर्वा रहसि परमन्त्रायितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः । प्रसादे कोषे वा तदनु मदधोनो विधिरभू- दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य दयम् ॥१४॥

अरुन्धती-हा ! कष्टम् ! अतिचिरनिरुद्धनिःश्वासनिष्पन्ददयमस्याः । जनकः- हा प्रियसाखि ! (इति कमण्डलूदकेन सिञ्चति) कञ्चुकी - सुदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम् ॥१५॥

कौसल्या-(आश्वस्य) हा वत्से जानकि ! कुत्रासि ? स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरी कमारोहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते ! उद्द्योतयोत्सङ्गम् । सर्वदा महाराज एवं भणति-‘एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैव । कञ्चुकी-यथाह देवी । पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः । वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजाऽस्य यथैव सीता ॥१६॥

जनकः-हा प्रियसख महाराज दशरथ ! एवमसि सर्वप्रकारदयङ्गमः । कथं विस्मर्यते ?

कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतमेव तदभूदाराधनं ते मयि । त्वं कालेन तथाविधोऽप्यपतः संबन्धबीजं च तद् घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग् जीवितम् ॥

कौसल्या-जाते जानकि ! किं करोमि ? दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति । अरुन्धती-आश्वसिहि राज्ञि ! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि ? यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः - ‘भवितव्यं तथेत्युपजातमेव । किंतु कल्याणोदर्कं भविष्यतीति । कौसल्या-(कुतोऽतिक्रान्तमनोरथाया ममैतत् ?) अरुन्धती- तत्किं मन्यसे राजपत्नि ! मृषोद्यं तदिति । न हीदं क्षत्त्रिये ! मन्तव्यम् । आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् । भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता नैते वाचं विप्लुतार्थं वदन्ति ॥१८॥ (नेपथ्ये कलकलः । सर्वे आकर्णयन्ति) जनकः- अये, शिष्टानध्याय इत्यस्खलितं खेलतां वटूनां कोलाहलः। कौसल्या-सुलभसौख्यमिदानीं बालत्वं भवति । अहो ! एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति ? अरुधन्ती- (स्वगतम्, सहर्षोत्कण्ठम्) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम्) कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैवः सभाजयन् । पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ? ॥१९॥

कञ्चुकी- नूनं क्षत्त्रियब्रह्मचारी दारकोऽयमिति मन्ये । जनकः- एवमेतत् । अस्य हि - चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्चमाञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवसयं दण्डोऽपरः पैप्पलः ॥२०॥
भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयम् ? इति । अरुन्धती- अद्यैव वयमागताः । जनकः - आर्य गृष्टे ! अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ । इमं च दारकं ब्रूहि ‘वत्स ! केऽप्येते प्रवयसस्त्वां दिदृक्षव’ इति । कञ्चुकी- यदाज्ञापयति देवः ! (इति निष्क्रान्तः) कौसल्या- किं मन्यध्वे ! एवं भणित आगमिष्यति वा न वेति ? जनकः- भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ? कौसल्या- (निरुप्य) (कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोमुखमपसरित एव स वत्सः । जनकः- (चिरं निर्वर्ण्य ।) भो ! किम्प्येतत् । महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदिग्धैर्निर्ग्राह्यो न पुरविदग्धैरतिशयः ।
मनो मे संमोहस्थिरमपि हरत्येष बलवा- नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥२१॥

लवः-(प्रविश्य स्वगतम्) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः । अरुन्धतीजनकौ-कल्याणिन् ! आयुष्मान्भूयाः । कौसल्या- जात ! चिरं जीव । अरुन्धती- एहि वत्स ! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः । कौसल्या- जात ! इतोऽपि तावदेहि । (उत्सङ्गे गृहीत्वा) ‘अहो ! न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन, कवलितारविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानुनादिना स्वरेण च रामभद्रमनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव । जात ! पश्यामि ते मुखपुण्डरीकम् । (चिबुकमुन्नमय्य निरूप्य सबाष्पाकूतम्) राजर्षे ! किं न पश्यशि ? निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव । जनकः- पश्यामि सखि ! पश्यामि । कौसल्या - अहो, उन्मत्तीभूतमिव मे दयं कुतोमुखं विलपति । जनकः- (निरूप्य) वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥२२॥

कौसल्या-जात ! अस्ति ते माता ? स्मरसि वा तातम् ? लवः- नहि ! कौसल्या-ततः कस्य त्वम् ? लवः-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः । कौसल्या-अयि जात ! कथयितव्यं कथय । लवः- एतावदेव जानामि ! (नेपथ्ये) भो भोः सैनिका ! एष खलु कुमारश्चन्द्रकेतुराज्ञापयति-‘न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या’ इति । अरुन्धतीजनकौ-अये! मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्र्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः । कौसल्या-वत्सलक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते । लवः- आर्य ! क एष चन्द्रकेतुर्नाम ? जनकः- जानासि रामलक्ष्मणौ दाशरथी ? लवः- एतावेव रामायणकथापुरुषौ ? जनकः- अथ किम् ? लवः- तत्कथं न जानामि ? जनकः- तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः । लवः- ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेः दौहित्रः । अरुन्धती- आविष्कृतं कथाप्रावीण्यं वत्सेन । जनकः- (विचिन्त्य) यदि त्वमीदृशः कथायामभिज्ञस्तद् ब्रूहि तावत्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किंनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ? लवः- नाऽयं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः । जनकः- किं न प्रणीतः कविना ? लवः- प्रणीतः, न तु प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान् व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य । जनकः -किमर्थम् ? लवः-स किल भगवान् भरतस्तमप्सरोभिः प्रयोजयिष्यतीति । जनकः- सर्वमिदमाकूततरमस्माकम् । लवः- महती पुनस्तस्मिन् भगवतो वाल्मीकेरास्था । ततः केषाञ्चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् । तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भ्राता प्रेषितः । कौसल्या- भ्रातापि तेऽस्ति ? लवः- अस्त्यार्यः कुशो नाम । कौसल्या- ज्येष्ठ इति भणितं भवति । लवः- एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् । जनकः- किं यमावायुष्मन्तौ ? लवः- अथ किम् ? जनकः- वत्स ! कथय, कथाप्रपञ्चस्य कियान्पर्यन्तः ? लवः- अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसम्भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति । कौसल्या- हा वत्से मुग्धमुखि ! क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ? जनकः- हा वत्से ! नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य । क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥२३॥

लवः- आर्ये ! कावेतौ ? अरुन्धती- इयं कौसल्या । अयं जनकः । (लवः सबहुमानखेदकौतुकं पश्यति) जनकः- अहो निर्दयता दुरात्मनां पौराणाम् ! अहो रामभद्रस्य क्षिप्रकारिता ! एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा । कौसल्या-(सभयकम्पम्) भगवति परित्रायताम् । प्रसादय, कुपितं राजर्षिम् । लवः- एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् । अरुन्धती- राजन्नपत्यं रामस्ते पाल्याश्च कृपणाजनाः ॥ २४ ॥

जनकः- शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥ (प्रविश्य सम्भ्रान्ताः) वटवः-कुमार ! कुमार !! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः । लवः-अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते, तद् ब्रूत कीदृशः ? वटवः-अये ! श्रूयताम्- पश्चात्पुच्छं वहति विपुलं, तच्च धूनोत्यजस्रं, दीर्घग्रीवः स भवति, खुरास्तस्य चत्वार एव । शष्पाण्यत्ति, प्रकिरति शकृत्पिण्डकानाम्रमात्रान् किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्येहि यामः ॥ २६ ॥ (इत्यजिने हस्तयोश्चाकर्षयन्ति) लवः- (सकौतुकोपरोधविनयम्) आर्याः ! पश्यत । एभिर्नीतोऽस्मि । (इति त्वरितं परिक्रामति ।) अरुन्धतीजनकौ-महत्कौतुकं वत्सस्य । कौसल्या- अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च । भगवति ! जानामि तं पश्यन्ती वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षोमहे तावत्पलायमानं दीर्घायुषम् । अरुन्धती-अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ? कञ्चुकी- (प्रविश्य) भगवान् वाल्मीकिराह-‘ज्ञातव्यमेतदवसरे भगद्भि’रिति । जनकः-अतिगम्भीरमेतत्किमपि । भगवत्यरुन्धति ! सखि कौसल्ये ! आर्य गृष्टे ! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः । (इति निष्क्रान्तो वृद्धवर्गः) (प्रविश्य) वटवः- पश्यतु कुमारस्तावदाश्चर्यम् । लवः-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः । वटवः-कथं ज्ञायते ? लवः-ननु मूर्खाः ! पठतिमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ ? प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ । वटवः-भो भोः ! किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति ? लवः-(सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वविजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः । (नेपथ्ये) योऽयमश्वः पताकेयमथवा वीरघोषणा । सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥

लवः-(सगर्वम्) अहो संदीपनान्यक्षराणि । वटवः- किमुच्यते ? प्राज्ञः खलु कुमारः । लवः- भो भोः तत्किमक्षत्रिया पृथिवी ? यदेवमुद्घोष्यते । (नेपथ्ये) रे रे ! महाराजं प्रति कुतः क्षत्रियः ? लवः- धिग्जाल्मान् ! यदि नो सन्ति ? सन्त्येव, केयमद्य विभीषिका ? किमुक्तैरेभिरधुना तां पताकां हारमि वः ॥ २८ ॥ हे वटवः ! परिवृत्य लोष्टैरभिघ्नन्त उपनयनतैनमश्वम् । एष रोहितानां मध्येचरो भवतु । (प्रविश्य सक्रोधः) पुरुषः-धिक्चपल ! किमुक्तवानसि ? तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः, सोऽप्यपूर्वारण्यदर्शनाक्षिप्तदयो न यावदायाति, तावत्त्वरितमनेन तरुगहनेनापसर्पत ।
वटवः- कुमार ! कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे !
लवः-किं नाम विस्फुरन्ति शस्त्राणि ? (इति धनुरारोपयन्)
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्भूरिघोरघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।) इति महाकविभवभूतिविरचिते उत्तररामचरिते कौसल्याजनकयोगो नाम चतुर्थोऽङ्कः ॥ ४ ॥