ईश्वरप्रत्यभिज्ञाकारिकावृत्तिः
ईश्वरप्रत्यभिज्ञाकारिकावृत्तिः उत्पलः |
१. ज्ञानाधिकारः ॥
[सम्पाद्यताम्]
प्रथममाह्निकम् ॥
कथं चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् ।
समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१.१ ॥
वृत्तिः परमेश्वरप्रसादादेव लब्धात्यन्तदुर्लभतद्दास्यलक्ष्मीरहमेकाकिसंपदा लज्जमानो जनमपीममखिलं स्वस्वामिनं वक्ष्यमाणोपायेन प्रत्यभिज्ञापयामि येन परमार्थलाभेन परितुष्येयम् ॥
कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे ।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१.२ ॥
वृत्तिः सर्वेषां स्वात्मनः सर्वार्थसिद्धिसमाश्रयस्य तत्तत्सर्वार्थसाधनान्यथानुपपत्त्या क्रोडीकृतसिद्धेः स्वप्रकाशस्य प्रमात्रेकवपुषः पूर्वसिद्धस्य पुराणस्य ज्ञानं क्रिया च । स्वसंवेदनसिद्धमैश्वर्यं, तेनेश्वरस्य सिद्धौ निराकरणे च जडानामेवोद्यमः ॥
किं तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते ।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१.३ ॥
वृत्तिः केवलमस्य स्वसंवेदनसिद्धस्यापीश्वरस्य मायाव्यामोहादहृदयंगमत्वादसाधारणप्रभावाभिज्ञानख्यापनेन दृढनिश्चयरूपं प्रत्यभिज्ञानमात्रमुपदर्श्यते ॥
तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१.४ ॥
वृत्तिः वस्तूनां जडाजडभेदेन द्वैविध्यम् । तत्र जडस्वरूपस्य जीवन्निष्ठा सिद्धिः, जीवतां पुनो जीवत्वं जीवनं ज्ञानक्रिये एव ॥
तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती ।
परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,१.५ ॥
वृत्तिः जीवतां क्रिया कायपरिस्पन्दपर्यन्तीभूतान्यत्रापि प्रत्यक्षा, ज्ञानमात्मवेद्यं परत्रापि क्रिययैव प्रसिध्यतीति सिद्ध एव स्वसंवेदनसंवेद्यतया स्वपरयोरीश्वरोऽहंप्रत्येय आत्मा, तस्य मायाशक्त्या निसर्गतिरोधानादेवं विमतिः ॥
इत्युपोद्घातः ॥
इति ज्ञानाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.१ ॥
नित्यस्य कस्य चिद्द्रष्टुस्तस्यात्रानवभासतः ।
अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.२ ॥
वृत्तिः ज्ञानमेकं स्फुटावभासस्वलक्षणानुभवस्वरूपं निर्विकल्पकं ते कथयन्ति । अपरं तु शब्दारुषणया स्मृतिसंशयोत्प्रेक्षादिबहुभेदं विकल्पसंज्ञम् । उभयमप्येतन्न युज्यते बोधरूपज्ञानातिरिक्तस्यान्यस्य संबन्धितया तस्यानुपलब्धेः । कोऽसौ स्थिररूप आत्मा ? साभिलापाहंप्रत्ययेनापि शरीरादिकवेद्यवस्तूत्तीर्णो वेदयिता न कश्चिद्लोकैरवधार्यते ॥
अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी ।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.३ ॥
वृत्तिः स्मृतिकाले पूर्वानुभवनाशात्कथं पूर्वार्थानुभवावष्टम्भधर्मा स्मृतिर्जायेत यदि तदापि तदनुभवबोधो नानुवर्तेत, यश्चानेककालस्थायी बोधः स एवात्मानुभाविता ॥
सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु ।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.४ ॥
वृत्तिः अर्थाभासनाशात्तन्मुखावलम्बनीयो विषयोऽप्यत्र नास्ति स्मृतेरित्येकबोधात्मनि सत्यपि आत्मनि सा निर्विषयैवेतिव्यवहारोच्छेदः । असतोऽप्यर्थानुभवस्य विषयेण सा विषयवती यदि ॥
यतो हि पूर्वानुभव- संस्कारात्स्मृतिसंभवः ।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.५ ॥
वृत्तिः अनुभवात्संस्कारः संस्काराच्च स्मृतिर्जायमाना तं पूर्वानुभवमनुकुर्वत्येवावगाहितविषयं तमनुभवमाभासयति । एवमात्मस्थैर्येण किमनुपयोगिना संस्कारस्यात्मवादेऽप्यङ्गीकरणात्तेनैव च सिद्धेः ॥
ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् ।
संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.६ ॥
वृत्तिः सुखदुःखज्ञानादिभिन्नधर्माश्रयत्वेनाप्यात्मनोऽनुपयोगो भिन्नैर्धर्मैरसंभिन्नस्यानुपजातविशेषस्य स्मृतवव्यापृतेः । तद्द्रष्टृवत्कल्पनामात्रमेतदात्मा स्मृतेति ॥
ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् ।
अथापि जडमेतस्य कथमर्थप्रकाशता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.७ ॥
वृत्तिः चित्स्वाभाव्ये ज्ञानस्य चेत्यधर्मदेशकालावेशयोगादात्मन इव नित्यतादिप्रसङ्गः । जडत्वे कथमर्थस्यासौ प्रकाशः ॥
अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः ।
चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.८ ॥
वृत्तिः ज्ञानं बुद्धिः । सा जडापि यथा विषयरूपछायां धत्ते तथात्मनोऽपि चैतन्यछायाम्, अतोऽसवर्थप्रकाशस्तथा च तस्याश्चित्स्वरूपता स्यात् । एवं ज्ञानं सदपि नान्यस्य संबन्धि, अनुपपत्तेः । क्रिया तु न स्वरूपेणास्ति नान्यसंबन्धितया ॥
क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता ।
नान्यादृष्टेर्न साप्येका क्रमिकैकस्य चोचिता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.९ ॥
वृत्तिः क्रियापि पूर्वापरीभूतवयवैका कारकव्यापाररूपा न युक्ता क्रमिकस्यानेककालस्पृशह्स्वात्माइक्यायोगात्, नापि कालक्रमव्यापी चैकस्वभावश्च तस्या आश्रयो युक्तः, केवलं गमनपरिणामादिरूपा सा क्रिया । कायादीनां तु तत्तद्भिन्नदेशकालगतपूर्वसत्तामात्रमेतदतिरिक्तस्यान्यस्यानुपलम्भात् ॥
तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते ।
नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.१० ॥
वृत्तिः पूर्वस्मिन् सति परस्य सत्तेत्येतावन्मात्रेऽनुभवः । क्रियावच्च न क्रियाकारकसंबन्धः कश्चिद्भिन्नस्यास्यानुपलम्भात् । कार्यकारणभावादृते नान्यद्वस्तूनां ज्ञातेयम् ॥
द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् ।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,२.११ ॥
वृत्तिः सम्बन्धो द्विष्ठो न चैकेनात्मनोभयत्रावस्थितिर्युक्ता न च द्वयोः सिद्धयोरन्योन्यापेक्षात्मा नापि स्वात्ममात्रनिष्ठयोः पारतन्त्र्यरूपः संबन्धः । ततो यथा ज्ञातृत्वं कल्पितं तथा कर्तृत्वमपीति कथमात्मा सर्वेशर इति ? ॥
तृतीयमाह्निकम् ॥
सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः ।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.१ ॥
वृत्तिः पूर्वानुभवसंस्कारप्रबोधजन्मापि स्मृतिरात्ममात्रनिष्ठत्वात्स्वरूपसंवेदिकैव न तु पूर्वानुभवावेशाभावात्पूर्वानुभूतार्थव्यवस्थापिका घटते ॥
दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् ।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.२ ॥
वृत्तिः सर्वा हि ज्ञप्तिः स्वसंवेदनैकरूपानन्यसंविद्द्वेधा, रूपरसज्ञानयोरन्योन्यवेदनेऽन्योन्यविषयवेदनमपि स्यात्ततश्चेन्द्रियनियमाभावः । पूर्वानुभवसंस्कारजत्वेन तत्सादृश्यमात्रं न तु पूर्वानुभवावगतिः, तत्सादृश्यमपि नावसेयम् ॥
अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः ।
दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.३ ॥
वृत्तिः न चापि भ्रान्त्या पूर्वानुभवं तद्विषयं च शुक्तौ रजतमिवासंवेद्यमानमध्यवस्यतीति स्मृतिस्तद्विषया ॥
स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् ।
पूर्वानुभवसंकारापेक्षा च किमितीष्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.४ ॥
वृत्तिः पूर्वानुभवाप्रकाशात्तद्विषयसंप्रमोषेऽध्यवसायमात्रात्स्मृतित्वं न युक्तम् । न च भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापनम्, पूर्वानुभवास्पर्शे च तद्भिन्नयोगक्षेमाया भ्रान्तेः संस्कारजत्वे को ग्रहः ॥
भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः ।
ततोऽजाड्ये निजोल्लेख- निष्ठान्नार्थस्थितिस्ततः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.५ ॥
वृत्तिः अध्यवसाय एव भ्रान्त्या विषयव्यवस्थापको न तु स्वसंवित्, स च जडः कथमर्थव्यवस्थाया हेतुः ? चिद्रूपोऽप्यतीतार्थमात्रमाभासयेदबाह्यस्वात्मोल्लेखमात्रप्रकाशो वा न तद्धेतुः ॥
एवमन्योन्यभिन्नानामपरस्परवेदिनाम् ।
ज्ञानानामनुसंधान- जन्मा नश्येज्जनस्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.६ ॥
वृत्तिः ज्ञानानि स्वात्ममात्रपरिनिष्ठितानि स्वसंविद्रूपतया अपरसंवेद्यानि । तेषामन्योन्यसंघट्टनामयः परमार्थोपदेशपर्यन्तो लोकव्यवहारः कथम् ॥
न चेदन्तःकृतानन्त- विश्वरूपो महेश्वरः ।
स्यादेकश्चिद्वपुर्ज्ञान- स्मृत्यपोहनशक्तिमान् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,३.७ ॥
वृत्तिः चित्तत्वमेव विश्वरूपमतोऽतिरिक्तस्यानुपपत्तेः, अशेषपदार्थज्ञानानामन्योन्यानुसंधानम् । अस्यैव ज्ञानादिकाः शक्तयः । मत्तः स्मृतिर्ज्ञानमपोहनं चेति ह्युक्तम् ॥
इति ज्ञानाधिकारे तृतीयमाह्निकम् ॥
चतुर्थमाह्निकम् ॥
स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् ।
विमृशन् स इति स्वैरी स्मरतीत्यपदिश्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.१ ॥
वृत्तिः पश्चादपि पूर्वानुभूतार्थानुभवितृत्वात्पूर्वानुभूतार्थप्रकाशासंप्रमोषणम्, तस्यैकस्य विभोः कर्तुः स इत्यत्र पूर्वानुभूतत्वेन प्रत्यवमर्शः स्मृतिर्नाम व्यापरः ॥
भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभास- मात्रेणाथाखिलात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.२ ॥
वृत्तिः स्मृतिशक्त्या स इति पूर्वानुभूतं स्वलक्षणं परामृशन्नाभासयत्येवान्यथा प्रकाशितस्य परामर्शो न कृतः स्यात्स्वसत्ताकाल एव च, तेन स्मरणकाले नष्टस्याप्याभासो न दुष्यति । कदा चित्त्वर्थितावशाद्घटकाञ्चनद्रव्यसत्ताद्यन्यतमैकाभासरूपेणैवास्य स्फुटावभासः, अन्यदा तु सर्वात्मनार्थित्वेन तथैव । अतिशयनिरन्तरावहितचेतसस्तु दृष्टार्थप्रत्यक्षीकार एव ॥
न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.३ ॥
वृत्तिः पूर्वानुभूतश्चार्थोऽनुभवेन सह तात्कालिकस्मृतिप्रकाशेऽवभासमानः स्मृत्यभिन्न एव प्रकाशाद्भिन्नस्य प्रकाशमानतानुपपत्तेः । एवं चानुभवस्मृत्यादिसंविदामैक्यं स एव चात्मा वेदकः । तथा हि ॥
नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् ।
प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.४ ॥
वृत्तिः स्मृतौ स्मर्यमाणोऽनुभूतार्थो यथा पृथग्भूतो भाति न तथानुभवः स्वात्मन एवाहंताप्रत्येयस्यानुभवमयत्वेन प्रथनात्, यश्चानेककालोऽहंवेद्योऽर्थः स एवात्मा ॥
योगिनामपि भासन्ते न दृशो दर्शनान्तरे ।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.५ ॥
वृत्तिः सर्वज्ञानामपि प्रमात्रान्तरगतोपलम्भाः स्वसंविन्मात्रवेद्यस्वभावाः स्वात्मारूढा एव भासेरन्, अतश्च तेषां योगिनां परात्मतापत्तिरेव तत्त्वम् । प्रमेयकक्ष्यायामपि घटादिवत्प्रातिस्विकेन शुद्धबोधात्मना रूपेणावभासेरन् यदि तथा संभवेत् ।
स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः ।
तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.६ ॥
वृत्तिः मया दृष्टमिति प्रमात्रान्तर्गतदर्शनपरामर्शात्मिकाया एव स्मृतेर्विभज्य कथनम्, एतदेवमनुभवोऽसौ ममाभूदिति भेदेनापि निर्देशः ।
या च पश्याम्यहमिमं घटोऽयमिति वावसा ।
मन्यते समवेतं साप्यवसातरि दर्शनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.७ ॥
वृत्तिः परःस्थितार्थविकल्पनेऽपि घटमिमं पश्यामि घटोऽयमिति वा प्रमातृमयमेव दर्शनं प्रत्यवमृश्यते ॥
तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि ।
ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि ॥ ईश्वरप्रत्यभिज्ञाकारिका १,४.८ ॥
वृत्तिः तस्माद्दृक्परामर्शपुरःसारायां स्मृतौ विकल्पमात्रे वा दृक्षब्दानुवेधं विनापि स इत्ययमिति वार्थमात्रनिर्देशेन सर्वत्रैकप्रमातृलीनवेवानुभाव्यानुभावकौ मायाकृतविच्छिन्नावभासवपि प्रकाशेते ॥
इति ज्ञानाधिकारे चतुर्थमाह्निकम् ॥
पञ्चमह्निकम् ॥
वर्तमानावभासानां भावानामवभासनम् ।
अन्तःस्थितवतामेव घटते बहिरात्मना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१ ॥
वृत्तिः प्रत्यक्षेऽपि यावदर्थानां भेदेनावभासः प्रमात्रन्तर्लीनानामेव सतां युक्तः ॥
प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.२ ॥
वृत्तिः प्रमातृसंज्ञप्रकाशस्वरूपतां विना यथादौ घटोऽस्य नावभासस्तथा ज्ञानकालेऽपि स्यात्, प्रकाशमानता चार्थस्य प्रकाशः स्वरूपतो न तु भिन्नः ॥
भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् ।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.३ ॥
वृत्तिः प्रकाशमात्रं चार्थाद्भिन्नं सर्वार्थसाधारणं तस्य घटस्य प्रकाशोऽयमयं पटस्यैवेति विषयनियमो निर्निबन्धनः । तस्मादर्थस्य सिद्धिः प्रकाशात्मतायत्ता ॥
तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् ।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.४ ॥
वृत्तिः जडानामाभासमानतैव सत्तासिद्धिः सा च आभासात्मतैव । ततश्च बोधमात्रमेकमेवात्र तत्त्वम् । तस्याविशेषेऽपि क्रमेण विशिष्यमाणोऽर्थावभासस्ततोऽन्यमप्रकाशमानं हेतुतया बाह्यमर्थमूहयेदिन्दियवत् ॥
न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् ।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.५ ॥
वृत्तिः विचित्रवासनाप्रबोधो न बोधाद्भिन्नः, तस्यापि वैचित्र्ये को हेतुः । ततो बाह्य एवार्थो भिन्नाभासहेतुः ॥
स्यादेतदवभासेषु तेष्वेवावसिते सति ।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.६ ॥
वृत्तिः आभासमानैरेव अर्थैर्व्यवहारः, ते चाभासात्मकाः सन्तु का क्षतिः । तत्किं बाह्येन कार्यं तावता लोकयात्रासमाप्तेः । बाह्यश्चार्थः प्रमाणबाधितः सावयवो विरुद्धधर्माध्यासादेर्निरवयवश्च दिक्षट्कयोगादेर्बहुशः ॥
चिदात्मैव हि देवोऽन्तः- स्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.७ ॥
वृत्तिः चित्तत्त्वमेव ईश्वरत्वात्स्वात्मरूपतया उपपन्नाभासनमनन्तशक्तित्वादिच्छावशान्मृदादिकारणं विनैव बाह्यत्वेन घटपटादिकमर्थराशिं प्रकाशयेत् ॥
अनुमानमनाभात- पूर्वे नैवेष्टमिन्द्रियम् ।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.८ ॥
वृत्तिः पूर्वावभातान्तःस्थित एवार्थे नान्तरीयकार्थदर्शनवशात्तत्तद्देशकालादियोजनया विमर्शनमनुमानम् । इन्द्रियमप्यनुमीयते किंचिन्मात्रं निमित्तं तच्च बीजाद्याभासादाभासितमेव ॥
आभासः पुनराभासद्बाह्यस्यासीत्कथं चन ।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.९ ॥
वृत्तिः घटाद्याभासाद्बाह्यस्यानुपपत्तेर्नासीदाभासः, ततस्तत्र नानुमानादपि सिद्धिः ॥
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१० ॥
वृत्तिः चिदात्मनश्चेश्वरस्य आत्मनीवाभेदेनार्थेष्वपि प्रकाशेऽस्त्यन्यथा प्रतिभासमानार्थैकविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्यात् ॥
स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.११ ॥
वृत्तिः प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शः, तं विना अर्थभेदिताकारस्याप्यस्य स्वच्छतामात्रं न त्वजाड्यं चमत्कृतेरभावात् ॥
आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता ।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१२ ॥
वृत्तिः आत्मद्रव्यस्य भावात्मकमप्येतज्जडाद्भेदकतया विमर्शाख्यं मुख्यं रूपमुक्तं चैतन्यं दृशिशक्तिश्चितिरिति [अदोप्त्वर्: चितिशक्तिर्दृशिरिति] । सा चेतनक्रिया चितिकर्तृतैव ॥
चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१३ ॥
वृत्तिः अभिन्नवाच्याद्या वागेषा नित्यचित्स्वरूपत्वेनानाद्यन्तापरतन्त्रा, भावान्तरानपेक्षं शुद्धमेतत्स्वातन्त्र्यमैश्वर्यसंज्ञम् ॥
सा स्फुरत्ता महासत्ता देशकालाविशेषिनी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१४ ॥
वृत्तिः स्फुरद्रूपता स्फुरणकर्तृता अभावाप्रतियोगिन्यभावव्यापिनी सत्ता भवत्ता भवनकर्तृता नित्या देशकालास्पर्शात्सैव प्रत्यवमर्शात्मा चितिक्रियाशाक्तिः । सा विश्वात्मनः परमेश्वरस्य स्वात्मप्रतिष्ठारूपा हृदयमिति तत्र तत्रागमे निगद्यते ॥
आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति ।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१५ ॥
वृत्तिः एतादृशशुद्धस्वातन्त्र्यवशान्नैष पृथगेव लब्धप्रतिष्ठं वस्त्ववैति, अपि त्वज्ञेयमात्मानमनियन्त्रितप्रभावतया ज्ञेयीकरोति । भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् ॥
स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१६ ॥
वृत्तिः अत एव वेद्यैकीभावलक्षणपूर्णतामयात्स्वातन्त्र्यात्तदानीन्तनमेव वेदकमात्मानमीश्वरः शिवो वेदितेत्येवमादिविकल्पैराभासयति भावनादिव्यवहारार्थम् ॥
नाहन्तादिपरामर्श- भेदादस्यानयतात्मनः ।
अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१७ ॥
वृत्तिः वर्तमानप्रमातृभावे नाहंप्रत्यवमर्शस्य प्रमेयत्वेनेदन्ता । विमर्शभेदे चाभासभेदे च प्रमातैवेश्वरशब्देन सृष्टोऽहं परामर्शव्यवधानेन केवलम्, यथा क्रियादिशब्देन पचत्यादिवाच्योऽर्थः । यथाहुः क्रियागुणजातिसंबन्धादिशाब्दैर्न क्रियादय उच्यन्ते पचत्यादिमुखेनाभिधानात् । ईश्वरशब्दादात्मशब्दाच्चाहमिति परामृशन्न एवात्मानमवैति न साक्षात्, प्रतीतिस्त्वस्त्येव स्मृत्येवानुभवमुखेनानुभूतस्य ॥
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१८ ॥
वृत्तिः प्रकाशात्मनः परमेश्वरस्य मायाशक्त्या स्वात्मरूपं विश्वं भेदे आभास्यते । ततः सैव चितिर्ज्ञानमध्यक्षम् । तस्यैव भिन्नस्याभातस्य स्मृतिः संकल्पोऽध्यवसायो मनोबुद्धिरूपत्वेऽपि चितिरेव ॥
साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा ।
धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.१९ ॥
वृत्तिः साक्षात्कारलक्षणे ज्ञानेऽपि चितोऽर्थप्रत्यवमर्शोऽस्ति सूक्ष्मः, वाचनधावनादौ शीघ्रक्रिया तत्तद्दृश्यमानदेशाद्युपादित्साजिहासानुसंधानेन हि भवेत् ॥
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.२० ॥
वृत्तिः अयमिति घट इति वाध्यवसायो भिन्नप्रकाशमाननामरूपातिरिक्तश्चितिशक्तिमय एवात्मेवाभेदेन अवभासते ॥
केवलं भिन्नसम्वेद्य- देशकालानुरोधतः ।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,५.२१ ॥
वृत्तिः चित्तत्त्वस्य मायाशक्त्या भिन्नं घटादि संवेद्यं तत्तद्देशकालभिन्नं प्रकाश्यते यस्याभेदेनावष्टम्भाद्विभिन्नदेशकालादिना ज्ञानस्मृत्याद्याभासते ॥
इति ज्ञानाधिकारे पञ्चममाह्निकम् ॥
षष्ठमाह्निकम् ।।
अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.१ ॥
वृत्तिः प्रकाशस्यात्मन्यहमिति परावाग्रूपत्वात्साभिलापोऽपि स्वभावभूतः प्रत्यवमर्शो न विकल्प इत्युच्यते, स हि प्रतियोगिनिषेधपूर्वो निश्चयो न चात्र प्रतियोगिसंभवः ॥
भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः ।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.२ ॥
वृत्तिः प्रकाशाद्द्वितीयस्य भिन्नस्य प्रतियोगिनोऽप्रकाशसंज्ञस्यानवभासने प्रकाशेतरत्वं न स्यात् । तस्यानाभासे व्यपोहनायोगाद्विकल्पताहानिः ॥
तथा च
तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् ।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.३ ॥
वृत्तिः प्रमातुरेव स्वतन्त्रस्यान्तर्लीनतदतदर्थाभासस्य अतदपोहनेन घट इति निश्चयो विकल्पो नाम व्यापारः ॥
चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः ।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.४ ॥
प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् ।
विकल्प एव स पर- प्रतियोग्यवभासजः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.५ ॥
वृत्तिः चिदचित्तत्त्वस्यैवेश्वरस्य मायाशक्त्या भेदावभासिनि शरीरे बुद्धवान्तरे वा स्पर्शे तदुत्तीर्णे वाकाश इव शून्य एव विकल्पितेऽहमिति प्रमातृभावेन विमर्शः, तत्तदाभासमानशरीरादिप्रतियोग्यपोहनकरणाद्घटोऽयमितिवद्विकल्प एव ॥
कादाचित्कावभासे या पूर्वाभासादियोजना ।
संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.६ ॥
वृत्तिः विछिन्नविच्छिन्नेषु शून्यदेहाद्याभासभेदेषु पूर्वाभासाहंकाराख्यानामैक्ययोजनान्तःपूर्वाभासस्थितिलक्षणसंस्काराश्रिता प्रमातृव्यापाररूपा कल्पनैव प्रत्यभिज्ञाख्या ॥
तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् ।
भान्तमेवान्त अर्थौघमिच्छया भासयेद्बहिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.७ ॥
वृत्तिः आदिसर्गे वा व्यवहारेऽपि वा महेश्वरो मायाशक्त्या देहादिमात्मत्वेन अभिनिविश्य प्रमातारं कुर्वन्नन्तःस्थितं विभान्तमेव तं तमर्थं क्रमेण बहीरूपं कर्तृशक्त्या भासयति । तथाभासनमेवोत्पादनम् । अस्य देहाद्यनाविष्टस्य तु स्वतो युगपदहमिदमिति सर्वार्थप्रकाशः ॥
एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे ।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.८ ॥
वृत्तिः सर्वसंवित्सु सर्वार्थावभासः प्रमातृसंलीनश्चित्तत्त्ववदानुरूप्येण प्रकाशमानः सदा स्थित एव ॥
किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि ।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.९ ॥
वृत्तिः ज्ञाने बहिराभासनरूपे सहज एव चित्तत्त्वस्यान्तरर्थावभासः, स्मृत्यादौ तु पूर्वानुभवात्मा । अत एव स्मृतिः संस्कारजोच्यते ॥
स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि ।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.१० ॥
वृत्तिः अवतन्त्रस्तु विकल्पश्चक्षुराद्यगोचरमपि बुद्धविषयतापादनेन यथारुचि पूर्वानुभूतत्वाविमर्शनेन नवमेव तं तमर्थमाभासयति संनिवेशविशेषं च । तत्रासवर्थः सहज एवास्ति ॥
अत एव यथाभीष्ट- समुल्लेखावभासनात् ।
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,६.११ ॥
वृत्तिः अपूर्वार्थनिर्माणज्ञानसामार्थ्याच्च विकल्प एव सर्वस्य सर्वज्ञत्वं सर्वकर्तृत्वं च स्फुटम्
इति ज्ञानाधिकारे षष्ठमाह्निकम्
सप्तममाह्निकम्
या चैषा प्रतिभा तत्तत्- पदार्थक्रमरूषिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.१ ॥
वृत्तिः तत्तत्पदार्थक्रमाच्छुरितश्चैषोऽन्तःस्थित एव आभासः सर्वसंवित्कालव्याप्यक्रमानन्तचिन्मय आत्मसंज्ञः प्रमाता स्वाङ्गभूते प्रमेये निर्मातृतया महेश्वरश्च ॥
तत्तद्विभिन्नसंवित्ति- मुखैरेकप्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.२ ॥
वृत्तिः अनेकसंवित्स्रोतोमुखैरेकप्रमातृसिन्धुमुपलीय भावभेदाः कार्यकारणतादिव्यवहारसमन्वयं भजन्ते ॥
देशकालक्रमजुषामर्थानां स्वसमापिनाम् ।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.३ ॥
वृत्तिः स्वरूपमवभासनं च भावानां स्वात्मपरिनिष्ठितमेव । युगपदेकाभासनिबन्धनश्चैषां समन्वयः । स अभिन्नः प्रमातृलीनतया कल्पते ।
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् ।
कार्यकारणतासिद्धि- हेतुतैकप्रमातृजा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.४ ॥
वृत्तिः कार्यकारणभाव इव तत्सिद्धिरपि प्रत्यक्षानुपलम्भैरेकप्रमातृमुखेन समन्वयमागत्य क्रियते, असमन्विताः प्रत्यक्षानुपलम्भाः क्रमिकस्वविषयमात्रज्ञापनक्षीणा नान्योन्यापेक्षोपलक्षणक्षमाः ॥
स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे ।
पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.५ ॥
वृत्तिः पूर्वानुभस्वसंवेदनस्य अभावात्स्मृतिस्वसंवेदनमेव अत्रैकार्थाभासमयप्रमातृरूपं स्मृतिस्वरूप इव प्रमाणम् । स्मृतेः पूर्वानुभवाभासाभावे कार्यकारणभावासिद्धेर्न कार्यलिङ्गता ॥
बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् ।
ज्ञानानामुदियादेक- प्रमातृपरिनिष्ठितेः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.६ ॥
वृत्तिः भिन्नस्वाभासमात्रनिष्ठानां ज्ञानानां को विरोधः, तत्कथं बाध्यबाध्कत्वम् । एकप्रामातृविश्रान्तौ तु युक्तम् ॥
विविक्तभूतलज्ञानं घटाभावमतिर्यथा ।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.७ ॥
वृत्तिः इह भूतले घटो नास्तीति घटाभावज्ञानं केवलभूतलज्ञानमेव शून्यभूतलस्य घटाभावरूपत्वात् । तथैव यदि शुक्तिकारजतयोरपरस्परात्मत्वाच्छुक्तिकाज्ञानं रजताज्ञानमिति प्रत्यक्षं बाधकम् ॥
नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना ।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.८ ॥
वृत्तिः केवलभूतलज्नानाद्भूतलस्याघटात्मता सिध्यति, न तु तत्राधारे भिन्नो दर्शनयोग्योऽपि घटो नास्ति ॥
विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः ।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.९ ॥
वृत्तिः भूतलमभूतलविविक्तं सदैव तत्कथं तज्ज्ञानं कदाचिदेव तत्र भिन्नघटाभावं साधयेत् । भिन्नघटविविक्तता च भूतलस्य कदाचित्कं रूपं स्याद्यदि घटसहिततापि कदाचित्स्वरूपं भवेत्, न त्वेवम् । पदार्तौ द्ववेव स्वात्मपरिनिष्ठितौ, साहित्यं न तदतिरिक्तमुभयात्मकमेकरूपम् । ज्ञानमेकं तूभयाभाससंसर्गात्मकमप्येकाभासज्ञानान्तराभावरूपम् । वस्तु पुनः स्वात्मनिष्ठमेव परिच्छिनत्तीति न वस्तुबलेन प्रदेशदर्शनात्प्रदेशसिद्धिवद्घटाभावसिद्धिः । उभयाभासैकज्ञानात्मककार्याभावात्तु स्यात् । न चैवं व्यवधानेन प्रतीतिः प्रदेशदर्शनादेव तत्सिद्धेः ॥
किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः ।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.१० ॥
वृत्तिः प्रदेशेष्वालोकपुरं सन्तमसे मृदुमुष्णादिकं स्पर्शं वा घटरूपस्पर्शाभावात्मकमनुभूयालोकादि घटाभावोऽत्रास्ति, घटो नास्तीति व्यवहर्तुं युक्तम् ॥
पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा ।
अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.११ ॥
वृत्तिः न चैवमालोकस्य पिशाचान्यत्वात्तत्र पिशाचनिषेधप्रसङ्गः, स ह्यदृश्योऽन्यत्वेऽपि यथा मृद्गोलकस्याप्यन्तरनिवार्यस्तथालोकस्यान्तरे । ततस्तस्य अन्यमत इवास्मन्मतेऽपि नादृश्यत्वादभावसिद्धिः ॥
एवं रूप्यविदाभाव- रूपा शुक्तिमतिर्भवेत् ।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.१२ ॥
वृत्तिः शुक्तिज्ञानमेव रजतज्ञानाभावरूपं सिध्यति, तदानीन्तनशुक्तिज्ञानानुभवेन न भिन्नस्यातीतस्य रूप्यज्ञानस्याप्रामाण्यम् ॥
धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः ।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.१३ ॥
वृत्तिः शुक्तिकाज्ञानकाले च न पूर्वं रजतज्ञानमस्ति । ततः स धर्मी न सिद्ध इति नानुमानेन बाधा, एकप्रमातृमयस्वसंवेदने त्वेकदेशावष्टम्भ्युभयज्ञानमयसंबन्धभासनात्सिध्यति । पश्चात्संवादः प्रत्यक्षस्वसंवेदने पूर्वस्यापि तस्य भासनादेकं प्रमाणमितरदन्यथेति भवति । संवादोऽप्येकप्रमातृकृतः ॥
इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥ ईश्वरप्रत्यभिज्ञाकारिका १,७.१४ ॥
वृत्तिः मायाशक्त्या भेदविषयोऽयं सर्वो व्यवहारस्तथाज्ञानैनां शुद्धोऽज्ञानान्धानां तु मलिनस्तत्तद्भिन्नार्थावभासभाजि भगवति संभाव्यतेऽनुभवेन ॥
इति ज्ञानाधिकारे सप्तममाह्निकम् ॥
अष्टममाह्निकम् ॥
तात्कालिकाक्षसामक्ष्य- सापेक्षाः केवलं क्व चित् ।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.१ ॥
वृत्तिः आभासाः कदाचित्सन्निहितप्रत्यक्षाक्षिप्ता घटोऽयमिति व्यवहारहेतवः, अन्धतमसादौ तु पूर्वानुभवोत्थिताः ॥
विशेषोऽर्थावभासस्य सत्तायां न पुनः क्व चित् ।
विकल्पेषु भवेद्भावि- भवद्भूतार्थगामिषु ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.२ ॥
वृत्तिः स्मृत्युत्प्रेक्षारूपेषु प्रत्यक्षपृष्ठपातिषु स्वतन्त्रेषु वान्येषु विकल्पेषु कालत्रयविषयेष्वर्थावभासोऽन्तस्तुल्य एवावस्थितः ॥
सुखादिषु च सौख्यादि- हेतुष्वपि च वस्तुषु ।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.३ ॥
वृत्तिः सुखदुःखाद्याभासास्तत्साधनाभासाश्च सदैवान्तः सन्तोऽपि न तदाह्लादादिमयीं स्थितिं कुर्वन्त्यतीतत्वाद्बहिस्तदानीमभावात्तदात्वविशिष्टानां च तथाकारित्वात् ॥
गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके ।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.४ ॥
वृत्तिः कुतश्चित्प्रयत्ननिवेशात्स्वतन्त्रविकल्पोल्लिखितं स्फुटमेव सुखादि जातं विकासादिहेतुः ॥
भावाभावावभासानां बाह्यतोपाधिरिष्यते ।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.५ ॥
वृत्तिः सर्वेषामाभासानां भावाभावविषयानामबहीरूपत्वेऽपि सत्तास्त्येव स्मृत्यादौ, बाह्यत्वं हि तेषामुपाधिर्न स्वरूपम् । अभावाभासस्यान्तःसत्तायामपि बहिरभावात्तथात्वम् ॥
आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना ।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.६ ॥
वृत्तिः अन्तश्च सर्वेषामेव नीलसुखाद्या भासानां सदा सत्त्वेऽपि प्रमातृमात्ररूपत्वात्कार्यकारणादिभेदाश्रया नार्थक्रिया, प्रमातुर्भेदेऽपि बौद्धचाक्षुषत्वादिभेदेनाभासभेदादाभासाश्रितार्थकारितापि भिद्यते रूपादीनाम् ॥
चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा ।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.७ ॥
वृत्तिः चित्स्वरूपत्वेनाभासानां सदान्तस्तत्त्व एव स्थितिः । मायाशक्त्या बहिः प्रत्यक्षत्वेन प्रकाश्यमानेषु भावेषु प्रकाशाव्यतिरिक्तेषु बहिराभास इत्युच्यते, तदपि तेषामान्तरत्वमेव सिसृक्षादौ तु भावानामपि ॥
विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः ।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.८ ॥
वृत्तिः विकल्पे घटाद्युल्लेखश्चक्षुराद्यगोचरेऽपि पृथगाभासाद्बाह्य एव । अहंविमर्शो ह्यान्तरत्वं, इदमिति तु बाह्यता । एवं च घटादीनामुभयी बाह्यता बाह्यान्तःकरणद्वयीवेद्यता, सुखादेस्त्वेकान्तःकरणवेद्यतैव ॥
उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना ।
इच्छातो भर्तुरध्यक्ष- रूपोऽक्षादिभुवां यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.९ ॥
वृत्तिः उल्लेखसुखदुःखलज्जादीनां चाक्षुषानां रूपादीनामिवेश्वरस्य शक्त्या साक्षात्करणरूपो बौद्धः प्रकाशः ॥
तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.१० ॥
वृत्तिः तत्तद्विभिन्नसंविदनुसन्धानेन हि व्यवहारः । एकश्च प्रकाशात्मा तदनुसन्धानरूपः स एव चैकः प्रमाता परमात्मसंज्ञः ॥
स एव विमृशत्त्वेन नियतेन महेश्वरः ।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ ईश्वरप्रत्यभिज्ञाकारिका १,८.११ ॥
वृत्तिः स परमात्मा चिद्रूपोविमर्शाख्येनैव मुख्यस्वभावेनाव्यबिचारिणा महेश्वरः । चित्तत्त्वस्य विश्वात्मनः शिवसंज्ञस्याहंविमर्शनमेव शुद्धे ज्ञानक्रिये, भिन्नाभिन्नज्ञेयकार्यगते त्वीश्वरस्य शुद्धाशुद्धे, भिन्नार्थविषये तु पुंसः सत्त्वरजोवृत्तिरूपे प्रकाशप्रवृत्तिसंज्ञे तमसा संकुचितेऽशुद्धे एव् ।
इति ज्ञानाधिकारेऽष्टमाह्निकम् ॥
इति ज्ञानाधिकारः ॥
२. क्रियाधिकारः ॥
[सम्पाद्यताम्]प्रथममाह्निकम्॥
अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा ।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.१ ॥
वृत्तिः एकचित्तत्त्वसमर्थनादेकसंबन्धी व्यापार एक एवेति क्रियाप्यपकृतदूषणा ॥
सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.२ ॥
वृत्तिः मायाशक्तेर्भिन्नभावावभासानां क्रिया च कालशक्तिवशात्सक्रमा न त्वात्मविमर्शरूपानादिनिधना प्रभोः स्वभावभूता ॥
कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा ।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.३ ॥
वृत्तिः सा सा प्रसिद्धा क्रिया कालः शीतादि वा तदुपलक्षितः सर्वभिन्नावभासमानभावोपाधिभूतः क्रम एव वासौ तस्यैवोपयोगात् ॥
क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः ।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.४ ॥
वृत्तिः अन्योन्याभासशून्यभिन्नभावावभासवैचित्र्यक्रियैव प्रभोर्भावेषु क्रमहेतुः ॥
मूर्तिवैचित्र्यतो देश- क्रममाभासयत्यसौ ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.५ ॥
वृत्तिः अनेकस्यान्योन्यभेदाभासाद्देशक्रमः क्रियामुखेन कालक्रमोऽपि । एकस्य तु भावस्य तत्तज्जन्मसत्ताविपरिणामादिक्रियाभेदात्कालक्रम एव ॥
सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.६ ॥
वृत्तिः सर्वत्रार्थे विचित्रोऽवभासः शून्यदेहादेरेव प्रमातुः कालक्रमाभासहेतुर्, स हि प्राक्कालो न तथा तदानीं भासते स्मृतिं विहाय स्ववर्तमानापेक्षया चासौ भूतभविष्यत्ते व्यवहरति । सकृद्विभातस्य तु भासनक्रियाविच्छेदादावृत्तिगणनाभावान्नात्मनीवार्थेष्वपि कालभेदः ।
देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः ।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.७ ॥
वृत्तिः परिमितं प्रमातरमपेक्ष्य भावस्ततोऽन्योन्यं च भिन्ना दूरादिव्यपदेशभाजश्च, प्रकाशैकरूपत्वेन त्वीश्वरस्य न क्वाप्य्वर्{क्वाप्य्लेमें क्वप्येद्} अप्रकाशसंभवात्परमाणवपि । प्रकाशघनस्य नात्मनो भिन्नं दूरं वान्यान्यतो वा किंचिदाभाति ॥
किं तु निर्माणशक्तिः साप्येवं विदुष ईशितुः ।
तथा विज्ञातृविज्ञेय- भेदो यदवभास्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,१.८ ॥
वृत्तिः एवं पूर्णतया प्रकाशमानस्यापि परमेश्वरस्य सैषा सृष्टिशक्तिर्यज्ज्ञातृज्ञेयस्वभावा भावाः स्वतोऽन्योन्यं च विभागेनावसीयन्ते, न च तथावसायेन तस्य स्वरूपस्थितिस्तिरोधीयते ॥
इति क्रियाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
क्रियासंबन्धसामान्य- द्रव्यदिक्कालबुद्धयः ।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.१ ॥
वृत्तिः क्रियावदन्येऽपि संबन्धादय एकानेकविषया अपि सत्याभासाः, सर्वदोपयोगिनामेषामर्थवत्त्वेनापरिहरणीयत्वात् ॥
तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् ।
संप्राप्यानेकतां याति देशकालस्वभावतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.२ ॥
वृत्तिः अभिन्नमेव तत्त्वमन्तो बहिराभासभेदादेकानेकम्, बहिर्देशकालस्वभावभेदाभाससंभेदमयैकैकः स्वलक्षणाभासानामनेकत्वात् ॥
तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् ।
करोति मातृव्यापार- मयीः कर्मादिकल्पनाः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.३ ॥
वृत्तिः मध्यस्थतयान्तर्बहिस्तत्त्वविषया मानस्यः क्रियादिकल्पनाः प्रमातृव्यापाररूपाः ॥
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि ।
अन्योन्यान्वयरूपैक्य- युजः संबन्धधीपदम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.४ ॥
वृत्तिः राज्ञः पुरुष इत्यादिसंबन्धधियोऽन्तःसमन्वयादैक्यं बहिः संबन्धिभेदं चालम्बन्ते ॥
जातिद्रव्यावभासानां बहिरप्येकरूपताम् ।
व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.५ ॥
वृत्तिः गवश्चैत्र इति च मतयो बहिरपि गोमात्रैकघनपुरुषविशेषाकाराभासैक्यं स्वलक्षणावयवाभासबहुत्वं च परामृशन्ति ॥
क्रियाविमर्शविषयः कारकाणां समन्वयः ।
अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.६ ॥
वृत्तिः काष्ठस्थलीदेवदत्तौदनानां पचतीत्यन्तःसमन्वयाद्बहिर्भेदाच्चैकानेकविषया क्रियामतिः । देशकालक्रमोऽपि भावानामवध्यवधिमद्रूपाणामन्योन्यापेक्षः संबन्धभेद एव तथैवैकानेकमयः । जातिद्रव्यक्रियासंख्यादिमतयः सर्वा एव संबन्धविशेषसमवायविषया एव ॥
एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः ।
भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ ईश्वरप्रत्यभिज्ञाकारिका २,२.७ ॥
वृत्तिः एकानेकरूपैरेव क्रियादिभिरेवमाभासानुगुण्यरूपः प्रमातुस्तदर्थिनोऽर्थक्रियासंवादः । ततो न तद्बुद्धयो भ्रान्ताः ॥
इति क्रियाधिकारे द्वितीयमाह्निकम् ॥
तृतीयमाह्निकम् ॥
इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते ।
वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१ ॥
सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि ।
एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.२ ॥
वृत्तिः यदायत्ता हि वस्तुनः स्वरूपेण नित्यताविशेषणैर्वा व्यवस्थाप्यमानता स प्रमातुः स्वत्वेनापूर्ववस्त्वाभासैव स्थितः प्रमाणम् । स एव चाभासोऽयमिति नित्य इति वा तथैव पृथक्तयाभिनवत्वेन च प्रमातर्युपरूढो विमर्शरूपतामापन्नो विमर्शभेदानुसार्यैकैकशब्दवाच्ये पृथक्पृथगेव तिरस्कृतदेशादिभेदे तस्मिन्नाभात एव सामान्यरूपे वस्तुनि स्वकार्थक्रियाप्राप्ते प्रमाणान्तरेणाबाधितस्थैर्या प्रमितिः प्रमातृव्यापारः ॥
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.३ ॥
वृत्तिः एकस्मिन्नेव चैकप्रत्यवमर्शसामर्थ्योपपादिते वस्तुनि स्वेच्छावशादर्थित्वानुरोधाद्वा नैपुण्यवशाद्वावभासभेदः ॥
तथा हि
दीर्घवृत्तोर्ध्वपुरुष- धूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.४ ॥
तथैव सद्घटद्रव्य- काञ्चनोज्ज्वलतादयः ।
आभासभेदा भिन्नार्थ- कारिणस्ते पदं ध्वनेः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.५ ॥
वृत्तिः एकस्मिन्नेव घटादवर्थेऽवधित्सावशाद्दीर्घता त्र्यश्रतापारिमाण्डल्यादि वाभाति, चिह्नव्यवधानछायामात्रार्थितायां पुरुष एवोर्ध्वतामात्रं प्रतिभाति, तत्कार्यार्थितायां तु न्यक्षेणेक्षमाणस्य पुरुषः । धूममात्रमेव कस्य चिदाभासते, तद्विदस्तु तार्णतादि मणिरूप्यादिविशेष इव । स च तथा भिद्यमानोऽपि देशकालभेदं न स्पृशति । तथैव घट एव सन्नित्याभासोऽन्यादृगेव पटाद्यनन्ताशेषार्थसाधारँः सत्तामात्रसाध्यसत्परामर्शाद्यर्थक्रियाकारी, तत्रैव घट इति चाभासोऽन्तर्बहिष्करणज्ञेयः पृथुबुध्नोदराकारार्थसामान्योऽन्य एव यः पटादिषु नास्ति, काञ्चन इति चापरो यो मृण्मयादिषु नास्ति स च तथार्थितादिवशाद्
ऐन्द्रियक एव जायते । एकैकश्चासवाभास एकैकेन शब्देन व्यवहारार्थं तत्तन्नियतार्थक्रियार्थिभिरभिधीयते, घट इति न सत्ताभिधीयते न च काञ्चन इति घटाभासः । चैत्र इति बाल्यादिसाधारणो देशादिरहितस्तथैव च । ततोऽर्थक्रिया भिन्ना ॥
आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।
सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.६ ॥
वृत्तिः एकस्मिन्नेव स्वलक्षणे प्रत्याभासं नियतिशक्त्या कार्यं नियमितं तथाभूतानेककार्यकृदाभासभेदाधिकरणमेकं च । सामानाधिकरण्याभासवशाद्वस्तु । अनेकस्यैकता हि सामानाधिकरण्यम् ॥
पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।
अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.७ ॥
वृत्तिः भिन्नाः प्रदीपप्रभा अविभागेनावभासन्ते नदीप्रवाहाश्च सिन्धुबुद्धौ पानके च ते ते रसास्, तथा शौक्ल्यमहत्त्वपटत्वाद्यवभासाः परस्परानुप्रवेशक्षमाः, न तु नीलपीताद्यवभासास्तत्तदेककार्यैकद्रव्याभासभावेन कल्पन्ते प्रत्यक्ष एव । तदेतत्सामानाधिकरण्यम् ॥
तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता ।
तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.८ ॥
वृत्तिः कदा चिद्देशादिसहभावावछिन्नस्वलक्षणरूपविशेषत्यागेनैकसामान्यरूपाग्न्याभासमात्र एव त्रैलोक्यत्रैकाल्यगामित्वेन निजप्रमाणादेकस्मादेव विशिष्टकार्यकारणतोष्णोर्ध्वभागग्निशब्दवाच्यतादिस्वभावसिद्धिः ॥
सा तु देशादिकाध्यक्ष- न्तरभिन्ने स्वलक्षणे ।
तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.९ ॥
वृत्तिः कायप्रवृत्तिः पुनो देशकालादिप्रत्यक्षभेदसाहित्येन स्वलक्षण एव तदर्थितया प्रमाणसमूहादेव । अनुमानादपि धर्मिप्रत्यक्षविशिष्टादेव प्रवृत्तिः ॥
दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना ।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१० ॥
भिन्नावभासच्छायानामपि मुख्यावभासतः ।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.११ ॥
वृत्तिः दूरान्तिकादिस्फुटास्फुटत्वादिना बहिरन्तश्चरत्वेन वाभासस्य च्छायामात्रभेदेऽपि तन्मुख्यस्वभावरूपप्रत्यवमर्शैक्यादर्थानामैक्यमबाधितम् ॥
अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया ।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१२ ॥
वृत्तिः उल्लेखघटादीनां बाह्यार्थक्रियाविरहेऽपि घटादितयैव, अस्वभाविकत्वात्तस्या ईश्वरेण प्रत्याभासं नियमितायाः ॥
रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः ।
उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१३ ॥
वृत्तिः रजते शुक्तौ च रजतावमर्शैक्येन रजतत्वेऽपि पुनः शुक्तिदेशसङ्गतिबाधेनोपाधिसंवादाभावात्तद्बुद्धिरस्थैर्याद्भ्रान्ता । द्विचन्द्रेऽपि नभोदेशासंवादान्मिथ्या ॥
गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता ।
भावानामित्थमेकत्र प्रमातर्युपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१४ ॥
वृत्तिः भावानां शब्दरूपसंस्थानादिना भेदाक्षेपो जात्यादिना चैकताक्षेपोऽनुभूयमानः प्रमात्रैक्ये घटते । अन्योन्यभेदव्यवस्थाप्यनुसंधानायत्ता ॥
विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे ।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१५ ॥
प्रमातरि पुराणे तु सर्वदा भातविग्रहे ।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१६ ॥
वृत्तिः अपूर्वाभासस्यासिद्धवस्तुसाधनान्नित्यावभासिनः प्रमातुर्न प्रमाणोपयोगः । तत्तन्नवाभासानां तत्तत्प्रमाणत्वात्कामं स प्रमाणमन्यस्य स्यान्न तु स्वात्मनः सदा सिद्धस्य, केवलं विभुः प्रमितौ स्वातन्त्र्यात्प्रमातैव । ते ते विचित्रा विश्वाभासास्तस्मिन् स्थायिनि वैचित्र्येणोपपद्यन्ते । तदिच्छातोऽपरावभासमानार्थानां तत्सारस्वरूपभ्रंशे मायाशक्तिवशादुन्मज्जननिमज्जने, तत्त्वतस्तस्यैवापराधीना सत्ता सदातनी विरुद्धप्राक्प्रध्वंसाभावादिप्रयोगात्, स अपि यावदुपदिश्यते भावाभावाभ्यां तावत्स एव प्रमातृतां भजत उपदिदिक्षोरभावादुपदेशानुपपत्तेः ॥
अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् ।
शक्तिप्रकाशेनेशादि- व्यवहारः प्रवर्त्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,३.१७ ॥
वृत्तिः मायाव्यामोहवशात्केवलमस्मिन्नात्मनि प्रमातृरूपे शिवेश्वरादिव्यवहारो यो न प्रवर्तितः स शुद्धस्वातन्त्र्यादिहेतुप्रदर्शनेन भावनाद्युपदेशाय साध्यते ॥
इति क्रियाधिकारे तृतीयमाह्निकम् ॥
चतुर्थमाह्निकम् ॥
एष चानन्तशक्तित्वादेवमाभासयत्यमून् ।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१ ॥
वृत्तिः प्रमाता चिद्रूपोऽनन्तशक्तिरीश्वरः स्वेच्छावशात्तथा तान् भावानाभासयेत् । सैव चेच्छाशक्तिर्निर्मातृताख्या क्रिया तस्य ॥
जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.२ ॥
वृत्तिः जडं प्रधानपरमाणुबीजादि तु न शक्तमसतो निर्माणे, कर्तृत्वमेव हि कारणत्वं कर्मतैव च कार्यत्वं न त्वन्यत् ॥
यदसत्तदसद्युक्ता नासतः सत्स्वरूपता ।
सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.३ ॥
कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.४ ॥
वृत्तिः असतः सत्स्वभावता विरुद्धा सतश्च सिद्धा । सिद्धस्यैवान्तर्बाह्यान्तःकरणद्वयीवेद्यतापादनमीश्वरेणोत्पादनम् ॥
एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः ।
एकस्यैवोभयाकार- सहिष्णोरपपादिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.५ ॥
वृत्तिः सैषा क्रियान्तर्बहिःस्थितिरूपतया सक्रमाप्येकस्य स्वसंवित्सिद्धस्य कर्तुराभासछायाभेदेऽप्यैक्येन प्रत्यवमृश्यस्य कर्मणश्चैकस्य संनंधिनी तदभिन्नाश्रयत्वादेकत्वेन साधिता ॥
बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया ।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.६ ॥
वृत्तिः अर्थस्य बाह्यतापादनं कार्यत्वं, ततो बाह्यता कार्यता चैकापेक्षया प्रमातरमपेक्ष्य चान्तर्बहिर्व्यवहारः । ततस्तस्यैव कार्यम् ॥
मातैव कारणं तेन स चाभासद्वयस्थितौ ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.७ ॥
वृत्तिः एवं प्रमातैव कारणं स च बाह्यान्तरकार्याभासक्रमेऽप्येक एवेत्येवमप्येकस्य कर्तुः सिद्धा क्रिया ॥
अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः ।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.८ ॥
वृत्तिः बाह्याभासतापादनमुत्पादनमिति चिद्रूपस्यैव कारणता ततोऽङ्कुरादौ निमित्तकारणत्वेश्वरः कैश्चिदिष्टो, न चापि बीजादेर्जडस्य कारणता निरनुसंधानस्य युक्ता ॥
तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।
तत्तन्मृदादिसंस्कार- क्रमेण जनयेद्घटम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.९ ॥
वृत्तिः कुम्भकाररूपे प्रमातरि कारणे स्थितेऽपि मृदादिसंस्कारापेक्षा घटस्येश्वरकृतनियतिसंज्ञमर्यादया न स्वभावेन ॥
योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् ।
घटादि जायते तत्तत्- स्थिरस्वार्थक्रियाकरम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१० ॥
वृत्तिः मृदाद्यनपेक्षस्य योगिनामिच्छामात्रेण घटादेः स्थिरस्य घटाद्यर्थक्रियाकारिणश्च निर्वृत्तिः ॥
योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते ।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.११ ॥
वृत्तिः अत एव कार्यं स्वभावो वा तदुत्पत्तिगर्भो योगिनिर्मितत्वाभावनिश्चयाभावे हेत्वाभासः । तन्निश्चये पुन ईश्वरनियत्यपेक्षया हेतुता स्यात् ॥
भूयस्तत्तत्प्रमात्रेक- वह्न्याभासादितो भवेत् ।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१२ ॥
कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् ।
तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१३ ॥
वृत्तिः अवह्न्याभासस्फुरणपूर्वकोऽपि जायमानो धूमाभासो दूरादौ नियतिशक्त्या कृतसामर्थ्यादग्न्याभासादेव तद्देशगततत्तत्प्रमात्रन्तरसाधारणात्तस्यैव स अव्यभिचारेण गमको, जातरूढस्तु धूमाभासस्तद्वह्न्याभासस्यात्यन्तपरिक्षयात्तत्तत्प्रमात्रन्तरगाद्धूमाभासादेव परोक्षादपि पूर्ववत्कृताधिपत्यात् ॥
अस्मिन् सतीदमस्तीति कार्यकारणतापि या ।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१४ ॥
वृत्तिः अस्मिन् सतीदं भवतीति नियतं पौर्वापर्यं कृत्तिकारोहिन्युदययोरकार्यकारणयोरप्यस्तीति पूर्वस्य सामर्थ्ये परस्य सत्तेति स्यात्कार्यकारणभावस्, तच्चापेक्षारहितानां जाडानां न युक्तम् । एतावदेतत्स्यात्पूर्वस्य सामर्थ्यं परस्य सत्ता न चैवं किंचिदुक्तं स्यान्न च पूर्वस्य सामर्थ्यलक्षणः स्वभावः परसत्तारूपः ॥
न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् ।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१५ ॥
वृत्तिः सदसद्वा कार्यं कारणमप्यात्मपर्यवसितं जडमनुसन्धानशून्यं नान्यापेक्षस्वभावं ततश्च नात्र प्रधानापेक्षामयो गुणविभक्त्यर्थो घटते ॥
अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः ।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१६ ॥
वृत्तिः एकप्रमातृसंलग्नस्तु क्रियाकारकभावाख्यो विभक्त्यर्थो भूमिबीजोदकादीनां समन्वयो युक्तो न तु शुष्कोऽन्यः कार्यकारणभावः ॥
परस्परस्वभावत्वे कार्यकारणयोरपि ।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१७ ॥
वृत्तिः कार्यकारणयोरन्योन्यरूपत्वेऽप्येकतैव स्यान्न तद्भावः ॥
एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१८ ॥
वृत्तिः एकस्वभावस्य भेदेन स्थितिः परिणामः कालकलितः क्रियैव, ततः परिणामे स्वतन्त्रस्य शाक्तिमतः कर्तृतैव हेतुना ॥
न च युक्तं जडस्यैवं भेदाभेदविरोधतः ।
आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.१९ ॥
वृत्तिः जडस्याभिन्नात्मनो भेदेनावस्थितेर्विरोधादयुक्तं, स्वच्छे चिदात्मन्येकस्मिन्नेवमनेकप्रतिबिम्बधारणेनाविरोधाद्युज्यते ॥
वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः ।
चिकीर्षालक्षणैकत्व- परामर्शं विना क्रिया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.२० ॥
वृत्तिः एकस्मिञ्चित्तत्त्वेऽप्यकस्मादाभासभेदो न घटते, न च तत्र क्रियात्वम् । यदा तु स चिदात्मा तथाचिकीर्षया परामृशन् बहिराभासयति तदा तदुपपद्यते । जडस्याप्यस्ति भवतीत्यस्यामपि सत्ताक्रियायां बुभूषायोगेन स्वातन्त्र्याभावादकर्तृत्वं, तेन प्रमातैव तं भावयति तेन तेन वा हिमाचलादिना रूपेण स भवतीत्यत्र परमार्थः ॥
इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ ईश्वरप्रत्यभिज्ञाकारिका २,४.२१ ॥
वृत्तिः चिद्वपुषः स्वतन्त्रस्य विश्वात्मना स्थातुमिच्छैव जगत्प्रति कारणता कर्तृतारूपा सैव क्रियाशक्तिः । एवं चिद्रूपस्यैकस्य कर्तुरेव चिकीर्षाख्या क्रिया मुख्या, नाकर्तृकं कर्मास्ति कर्मादीनां कर्तृमुखेनोपचारतः ॥
इति क्रियाधिकारे चतुर्थमाह्निकम् ॥
इति क्रियाधिकारः ॥
३. आगमाधिकारः ॥
[सम्पाद्यताम्]३.१ प्रथममाह्निकम् ॥
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.१ ॥
वृत्तिः प्रमातुरन्तःस्थितस्यात्मनो बहिष्कार एव क्रमानुगता क्रियेति परस्पराविरहिते तस्य ज्ञानक्रिये ॥
किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.२ ॥
वृत्तिः ईशितुरन्तर्बहिःस्थितवन्तर्भावप्राधान्ये पुनः सादाख्यं तत्त्वम्, अपरं बहिर्भावोद्रेकादैश्वरम् ॥
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.३ ॥
वृत्तिः उन्मेषनिमेषौ बहिरन्तःस्थिती एवेश्वरसदाशिवौ, बाह्यान्तरयोर्वेद्यवेदकयोरेकचिन्मात्रविश्रान्तेरभेदात्सामानाधिकरण्येनेदं विश्वमहमिति विश्वात्मनो मतिः शुद्धविद्या ॥
इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.४ ॥
वृत्तिः बिन्नवेद्यभूमविदन्तया दृश्यतामापादितानामपि भावानां चिन्मात्रसारत्वादहमिदमिति तत्त्वप्रतिपत्तिः शुद्धताज्ञाप्तिः ॥
अत्रापरत्वं भावानामनात्मत्वेन भासनात् ।
परताहन्तयाच्छादात्परापरदशा हि सा ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.५ ॥
वृत्तिः अत्रेदंतामतेरपरत्वमहंतया सर्वस्य वेद्यस्याच्छादनात्परतेति परापरावस्थैषा ॥
भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या ।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.६ ॥
वृत्तिः बोधकर्तृतामयस्यापि भेदेन विश्वेक्षणं विद्येति के चित् । मायाशक्तिरप्येषा विद्यैव । संसारोत्तीर्णत्वात्तत्रस्था मन्त्रेश्वरविद्येश्वराः ॥
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका ।
विद्याशक्तिः तिरोधान- करी मायाभिधा पुनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.७ ॥
वृत्तिः संसारिणामैश्वर्यस्य स्वात्मनस्प्रत्यभिज्ञानं विद्यया, पशुभावो मायया ॥
भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते ।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.८ ॥
वृत्तिः यदा भावा भेदेनेदंतयैव भासन्तेऽहमिति प्रमातृत्वेन च देहादिस्, तदा विपर्यद्वयहेतुर्मायाशक्तिर्विमोहिनी नाम विभोर्विजृम्भते ॥
यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि ।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.९ ॥
वृत्तिः यश्च व्यतिरिक्तप्रमेयजाते प्रमाता शून्यादिः स इदमिति वेद्य एव वस्तुतः कालाद्यैः पञ्चभिश्च परतन्त्रीकृतः । तत्र कालाद्वर्तमानाभासेन तस्य भूतबह्विष्यत्संभवो, नियतेः कार्यकर्मफलनियमो, रागाद्भोगाभिष्वङ्गो, विद्याकलाभ्याम्, अचिदात्मनोऽस्वतन्त्रस्यापीषज्ज्ञानक्रिये चित्स्वातन्त्र्यरूपे ॥
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् ।
तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.१० ॥
त्रयोदशविधा चात्र बाह्यान्तःकरणावली ।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,१.११ ॥
वृत्तिः कार्याणि द्विधा । शब्दस्पर्शरूपरसगन्धानि सूक्ष्मत्वेन तन्मात्रसंज्ञानि पञ्च, अन्योन्यव्यूहेन स्थूलानि पृथिव्यादिबुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, मनोबुद्ध्यहङ्कारा इति त्रिधान्तह्करणमिति त्रयोविंशतिभेदस्य कार्यकारणात्मनः प्रमेयस्य मूलभूतैकाविभागदशा प्राधानाख्या ॥
इत्यागमाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
तत्रैतन्मातृतामात्र- स्थितौ रुद्रोऽधिदैवतम् ।
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१ ॥
वृत्तिः शून्ये पुर्यष्टकात्मकेऽत्यन्तसूक्ष्मदेह एव वा प्रमातृमात्रे स्थितवन्यप्रमेयोपसंहारे रुद्रोऽधिष्ठाता, भिन्नप्रमेयाभासे सर्गस्थितिहेतू ब्रह्मविष्णू ॥
एष प्रमाता मायान्धः संसारी कर्मबन्धनः ।
विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.२ ॥
वृत्तिः मायीयशून्यासिप्रमाता नियत्य कर्माधीनः संसारी, विद्यावशादात्मतत्त्वाभिज्ञया मुक्तः ॥
स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ।
मायातो भेदिषु क्लेश- कर्मादिकलुषः पशुः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.३ ॥
वृत्तिः ऐश्वर्यदशायां प्रमाता विश्वं शारीरतया पश्यन् पतिः पुंस्त्वावस्थायां तु रागादिक्लेशकर्मविपाकाशयैः परीतः पशुः ॥
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.४ ॥
वृत्तिः स्वतन्त्रो बोधः परमार्थस्, तथारूपत्वादेव पूर्णः । तस्य स्वातन्त्र्यादेव तथेच्छया स्वातन्त्र्यं विना बोधमात्रनिर्माणे बोधितां विना स्वातन्त्र्यमात्रनिर्माणे वा पूर्णत्वाभावेन परिमितत्वाद्द्विधाणुत्वं तात्त्विकस्वरूपविपर्यासान्मलत्वम् ॥
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.५ ॥
वृत्तिः अत्रैव द्विधाणवे वेद्यमभिन्नमपि भेदेन यदा भाति तदातोऽपि विपर्यासान्नाम्ना मायीयं मलम् । अहेतूनामपि कर्मणां जन्मादिहेतुभावविषयविपर्यासादबोधात्मककर्तृगतं कार्मम् । तन्मलत्रयनिर्माणे प्रभोरिच्छा मायाशक्तिरुच्यते ॥
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता ।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.६ ॥
वृत्तिः वेद्यानुपरक्तबोधानामपि पूर्णकर्तृत्वशून्यत्वात्स्वरूपान्यत्वेन प्रभुणा निर्माणम् ॥
बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता ।
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.७ ॥
वृत्तिः शुद्धबोधानां बोधत्वनित्यत्वाद्वर्{॰नित्यत्वाद्लें चोर्र्; ॰नित्यत्वाध्॰ एद्} भेदेऽप्यन्योन्यभेदस्तथैवेश्वरेण निर्माणान्नान्यथा । ते च सांख्यपुरुषप्राया विज्ञानकेवला इत्युच्यते ॥
शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः ।
तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.८ ॥
वृत्तिः शून्यप्राणादौ बोधरूपतातिक्रमेणाहंतया स्थिताः प्रलयकेवलिनः । तेषामणूनां कर्मसंस्कारोऽप्यस्ति, मायामलस्तु वेद्ययोगायोगाभ्यां विकल्पितः ॥
बोधानामपि कर्तृत्व- जुषां कार्ममलक्षतौ ।
भिन्नवेद्यजुषां माया- मलो विद्येश्वराश्च ते ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.९ ॥
वृत्तिः कर्तृतायोगेऽपि बोधानां कर्मोत्तीर्णानां विद्येश्वरत्वेऽपि भिन्नवेद्ययोगान्मायामलमस्त्येव । पूर्णकर्तृत्वाभावादीश्वराद्भिन्ना अन्योन्यं च पूर्ववदत एवैषामणुत्वमपि स्यात् ॥
देवादीनां च सर्वेषां भविनां त्रिविधं मलम् ।
तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१० ॥
वृत्तिः देवादीनां स्थावरान्तानां संसारिणां त्रयोऽपि मलाः, कार्म एव संसारप्रयोजकः ॥
कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् ।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.११ ॥
वृत्तिः संसारिणामेतच्च चित्तत्त्वं कर्तृतारूपं शून्यप्राणादौ जडे देवस्य कलाशक्त्योपोद्बल्यमानमुपसर्जनत्वेनावस्थानात्परिमितम् । अतश्चात्रैव मुख्यमणुत्वम् ॥
मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१२ ॥
वृत्तिः एतदेव पुनः शून्यादि कर्तृतात्मनो बोधस्य यदोपसर्जनत्वेनास्ते तदास्य प्रमातुरेतद्बोधमयतामापन्नस्य ज्ञानं तच्छक्तिसमावेशलक्षणमुच्यते ॥
शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे ।
अस्फुटारूपसंस्कार- मात्रिणि ज्ञेयशून्यता ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१३ ॥
वृत्तिः बुद्धिप्राणादिनिषेधमात्रे यदाहंताभिमानेन प्रमातृता तदा सौषुप्ते तावन्मात्रावस्थितौ वेद्याभावः संस्कारस्य संभवेऽप्यरूपत्वेनानुपलक्ष्यत्वात् । तावतैव सांख्यपुरुषाद्विशेषः ॥
साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता ।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१४ ॥
वृत्तिः एष एव शून्यप्रमाता सर्वेन्द्रियशक्तिसाधारणजीवनाख्यप्राणादिप्रेरणान्तर्वृत्तिर्जीवाख्यस्, तासामिन्द्रियशक्तीनामहंतया सह पुर्यष्टकत्वमथवा प्राणाहंतया प्रमातृत्वेन पुर्यष्टकता ॥
तावन्मात्रस्थितौ प्रोक्तं सौषुप्त[ं] प्रलयोपमम् ।
सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१५ ॥
वृत्तिः शून्यतायां स्थितौ वेद्याभावान्मायामलाभावः, प्राणादौ सुखस्पर्शादिवेद्ययोगान्मायामलवत्प्रलय इव सौषुप्तं पदम् ॥
मनोमात्रपथेऽप्यक्ष- विषयत्वेन विभ्रमात् ।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१६ ॥
वृत्तिः चक्षुरादीन्द्रियशक्त्यप्रवृत्तवपि मनःशक्त्यैव दृष्टरूपाद्याभासेश्वरसृष्टिरणोः स्वप्नपदम् । अन्यप्रमातृसाधारणरूपाद्याभासानुवृत्तितः कालान्तराननुवृत्तेर्भ्रान्तिरेषा ॥
सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ।
सृष्टिः साधारणी सर्व- प्रमातॄणां स जागरः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१७ ॥
वृत्तिः सर्वान्तर्बहिःकरणशक्त्या सृष्टिर्जागरा, तत्रापि पूर्ववद्द्विचन्द्रादिभ्रान्तिः ॥
हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे ।
तद्धानोपचयप्राय- सुखदुःखादियोगतः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१८ ॥
वृत्तिः एतानि जागरस्वप्नसुषुप्तानि प्राणादेरात्मत्वेनाभिमन्यमानस्योद्रेकात्स्वातन्त्र्यस्यापह्रासाद्धेयानि, स्वातन्त्र्यस्य मात्रयोपचयः सुखहर्षादयस्तथैव न्यूनता दुःखद्वेषादयः । सर्वभोगात्मा संसारो बन्धः ॥
प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः ।
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.१९ ॥
वृत्तिः स च प्राणात्मा [स्वप्ने] प्राणापानरूपश्वासप्रश्वासरूपो जागरेऽथ सुप्ते [अत्र] तयोरपि विषुवतीव रात्रिदिनयोः साम्ये तन्न्यूनताधिक्यरोधात्समानसंज्ञः ॥
मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः ।
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ ईश्वरप्रत्यभिज्ञाकारिका ३,२.२० ॥
वृत्तिः प्राणापानयोः पार्श्वद्वयतिर्यक्प्रवाहविच्छेदेनैकतामापाद्योर्ध्वरूपमध्यमार्गप्रवाहेणोद्गमनादुदानः । मध्यनेत्रमिवोर्ध्वभाक्त्वादग्निधर्मा तुर्यदशायाम् । तुर्यातीते दिक्कालानवच्छेदे पूर्णे प्रवाहतां हित्वातिनिर्भरावस्थो व्यानसंज्ञः । एतच्च दशाद्वयमुपादेयं प्राणशक्तेः परमेश्वरकल्पत्वेनावस्थानात् ॥
इत्यागमाधिकारे द्वितीयमाह्निकम् ॥
इत्यागमाधिकारः ॥
४. तत्त्वसंग्रहाधिकारः ॥
[सम्पाद्यताम्]स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१ ॥
वृत्तिः एकः प्रथमोपादेयतुर्यदशायामखण्डितग्राहकाखण्डितग्राह्यतन्मेलनाचमत्कारोपबृंहितः साधारण एव सर्वप्राणिनामात्मा विश्वरूपो महेश्वरः ॥
तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना ।
अहंकारपरामर्श- पदं नीतमनेन तत् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.२ ॥
वृत्तिः महेश्वरस्य जृम्भामयेऽस्मिन्निर्गते तस्मिन्निदंतापरामर्शे ग्राह्यं यन्निर्मितं बुद्धिः प्राणोऽथ शून्यं तद्वेद्यैकदेशरूपमहंकारावमृश्यतापादनेन परिच्छिन्नग्राहकीकृतम् ॥
स्वस्वरूपापरिज्ञान- मयोऽनेकः पुमान्मतः ।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.३ ॥
वृत्तिः एतदेव विश्वात्मनः परिमितत्वकरणमप्रत्यभिज्ञानमुच्यते । एवं चानेकबुद्धिप्राणादिखण्डगतापराहंकारपरामर्शः परापरिज्ञानसंज्ञः । प्रत्यकात्मनो बहवस्, तेषु प्रमातृरूपेषु महेश्वरेण स्वानन्दः स्वक्रियैककर्तृतानुसारिणी निर्मिता । स एव भोग आनन्दलेशाख्यः सुखसंज्ञितः क्रियालवात्मा दुःखरूपः क्रिया दुःखं च वक्ष्यते ॥
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.४ ॥
वृत्तिः ईश्वरस्य ज्ञानक्रिये ते मायया सहिते पशोः सत्त्वरजस्तमांसि ॥
भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते ।
एषां गुणानां करण- कार्यत्वपरिणामिनाम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.५ ॥
वृत्तिः सत्त्वरजस्तमसां च भेदेनावभासान्न शक्तिव्यपदेशः शक्तिशक्तिमतोरभेदात् । वस्तुतः शक्तिविकासो विश्वम् ॥
सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् ।
द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.६ ॥
वृत्तिः ईश्वरस्यानन्तकर्तृता चमत्काररूपा क्रियोक्ता परमप्रकाशानन्दमयी, प्रत्यगात्मनस्तु तौ प्रकाशानन्दौ ग्राह्यभूतौ सत्त्वमुच्यते । तदभावश्च तमः, सत्त्वतमसी प्रकाशानन्दतदभावरूपे द्वे अपि श्लेषात्मनी [रजः] । पशोः रजःसंज्ञया क्रिया च दुःखं चोच्यते ॥
येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः ।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.७ ॥
वृत्तिः ये चैते महेश्वरस्येदंशब्दसंकेतानुसंधानं विनापि प्रकाशस्य परामर्शसारत्वाद्बालदशायामिवेदमर्थनिर्देश्या भावास्, तेऽनेकाभाससामानाधिकरण्येन स्वलक्षणात्मनः पृथक्सामान्यरूपतया नानाकाराश्च तथा तन्निर्माणात्प्रथन्ते ॥
ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः ।
तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.८ ॥
वृत्तिः ते विभिन्नावभासाः सामान्यात्मनोऽर्थास्तदनुभवसंस्कृतैः कृशोऽहं दुःखी सुखी वाहमिति विचित्रव्यपदेशविषयीक्रियमाणात्मभिः क्षेत्रज्ञैर्विकल्पनशक्त्या तत्तद्घटरजतशुक्लपटशकटादिनाम्नान्तस्प्रत्यवमर्शनीयत्वेन प्रदर्श्यन्ते स्मृतौ पूर्वानुभवाप्रमोषे, विचित्रोत्प्रेक्षादिषु तु स्वातन्त्र्येण । अयमेव ग्राह्यग्राहकभेदावभासः शब्दमयः पशुभावे संसारबन्धः ॥
तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी ।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.९ ॥
स्वविश्रान्त्युपरोधायाचलया प्राणरूपया ।
विकल्पक्रियया तत्तद्- वर्णवैचित्र्यरूपया ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१० ॥
वृत्तिः क्षेत्रश्चेश्वररूप एव तत्तत्सामान्यरूपानर्थानीशशक्त्यैवापरिज्ञातया सर्वसाधारणार्थदर्शनसंस्कृतानन्यवेद्यान्निर्मिमीते । सा चेश्वरशाक्तिः स्वात्ममात्रविश्रान्तिविरोधाय मायाव्यपदेश्या तत्तत्ककारादिवर्णभेदशतानन्तगणना प्राणरूपेण चञ्चलतामापन्ना विकल्पाख्यव्यापारा तथान्तः सृजत्यर्थान् ॥
साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् ।
विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.११ ॥
वृत्तिः ईश्वरस्य तु सृष्टिः सर्वप्रमातॄणां साधारणी तेषां तन्मध्य एवोत्पादाद्, एकप्रमातृनियता चैकप्रमात्रावेशेन स्वप्नभ्रान्त्यादौ सृष्टिः । सा चाहमिदमित्येतावत्परामर्शमयी भेदानुदयाद्विकल्पोज्झिता स्पष्टावभासा च । तत्रान्तरान्तरोद्यत्क्षेत्रज्ञव्यापारविकल्पननिर्ह्रासपरिशीलनेन संसारिणां क्रमेणैकरसैश्वर्योद्गमात्क्षेत्रज्ञताविमुक्तिः ॥
सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१२ ॥
वृत्तिः क्षेत्रज्ञस्यापीश्वरशाक्त्यैव विकल्पारम्भ इति तद्दशायामपि परिज्ञातेश्वरभावस्य ममायं संसारमयो विभव इत्यभेदेन विश्वमाविशतः परामर्शमात्रानशेषान् विकल्पान् संपादयतो महेश्वरतैव ॥
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१३ ॥
वृत्तिः बद्धमुक्तयोर्वेद्यमेकं, किं तु बद्धोऽत्यन्तविभेदेन तद्वेत्ति विमुक्तः स्वात्मदेहत्वेन ॥
सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः ।
शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१४ ॥
वृत्तिः सर्वथा त्वन्तर्लीने प्रमेयेऽहंमतौ पूर्णायां शिवतैव ॥
एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा ।
जानन् यथेप्सितान् पश्यञ्जानाति च करोति च ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१५ ॥
वृत्तिः इत्थमाविष्कृतशक्त्यभिज्ञानमात्मानमनन्तज्ञानक्रियाशक्तिनिभृतमीश्वरं प्रत्यभिज्ञाय यथेच्छं सर्वं पश्यति निर्मिमीते ॥
इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन् सिद्ध्यति ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१६ ॥
वृत्तिः यत्र यथावस्थित एव व्यवहारे प्रत्यभिज्ञामात्राच्छिवतालाभः । स अयमवक्र एवाभिनवो मार्गः साक्षात्कृतपरमेश्वरभट्टारकाकारैर्भट्टश्रीसोमानन्दपादैः शिवदृष्टिनाम्नि प्रकरणे निर्दिष्टो मया युक्तिनिबन्धनेन हृदयंगमीकृतः । एतत्परिशीलनेन शिवतावेशाज्जीवन्नेव मुक्तो भवति ॥
तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१७ ॥
वृत्तिः कान्तदृष्टान्तेनेश्वरप्रत्यभिज्ञोपपादनीया चापूर्वफला च ॥
जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना ।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ ईश्वरप्रत्यभिज्ञाकारिका ४.१८ ॥
वृत्तिः सुलभोऽयं सिद्धिमार्गः प्रदर्शितः ॥
इति तत्त्वसंग्रहाधिकारः ॥
॥समाप्तेयमीश्वरप्रत्यभिज्ञावृत्तिः ॥