ईश्वरप्रत्यभिज्ञाकारिका
दिखावट
ईश्वरप्रत्यभिज्ञाकारिका उत्पल: |
ज्ञानाधिकारः ॥
[सम्पाद्यताम्]प्रथमाह्निकम् - उपोद्धातः
कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् । समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ।। कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे । अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ।। १,१.१ ।। किन्तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ।। १,१.२ ।। तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ।। १,१.३ ।। तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती । परैपप्युपलक्ष्येत तथान्यज्ञानमूह्यते ।। १,१.४ ।। इति प्रथमाह्निकम् । इति ज्ञानाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः । साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ १,२.१ ॥ नित्यस्य कस्य चिद्द्रष्टुस्तस्यात्रानवभासतः । अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ॥ १,२.२ ॥ अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी । कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ १,२.३ ॥ सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु । स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥ १,२.४ ॥ यतो हि पूर्वानुभव- संस्कारात्स्मृतिसंभवः । यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना ॥ १,२.५ ॥ ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् । संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ १,२.६ ॥ ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् । अथापि जडमेतस्य कथमर्थप्रकाशता ॥ १,२.७ ॥ अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः । चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता ॥ १,२.८ ॥ क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता । नान्यादृष्टेर्न साप्येका क्रमिकैकस्य चोचिता ॥ १,२.९ ॥ तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते । नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः ॥ १,२.१० ॥ द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् । पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ १,२.११ ॥
तृतीयमाह्निकम् ॥
सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः । जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ १,३.१ ॥ दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् । रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ १,३.२ ॥ अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः । दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम् ॥ १,३.३ ॥ स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् । पूर्वानुभवसंकारापेक्षा च किमितीष्यते ॥ १,३.४ ॥ भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः । ततोऽजाड्ये निजोल्लेख- निष्ठान्नार्थस्थितिस्ततः ॥ १,३.५ ॥ एवमन्योन्यभिन्नानामपरस्परवेदिनाम् । ज्ञानानामनुसंधान- जन्मा नश्येज्जनस्थितिः ॥ १,३.६ ॥ न चेदन्तःकृतानन्त- विश्वरूपो महेश्वरः । स्यादेकश्चिद्वपुर्ज्ञान- स्मृत्यपोहनशक्तिमान् ॥ १,३.७ ॥ इति ज्ञानाधिकारे तृतीयमाह्निकम् ॥
चतुर्थमाह्निकम् ॥
स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् । विमृशन् स इति स्वैरी स्मरतीत्यपदिश्यते ॥ १,४.१ ॥ भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् । स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥ १,४.२ ॥ न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् । तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ १,४.३ ॥ नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् । प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥ १,४.४ ॥ योगिनामपि भासन्ते न दृशो दर्शनान्तरे । स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥ १,४.५ ॥ स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः । तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥ १,४.६ ॥ या च पश्याम्यहमिमं घटोऽयमिति वावसा । मन्यते समवेतं साप्यवसातरि दर्शनम् ॥ १,४.७ ॥ तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि । ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि ॥ १,४.८ ॥ इति ज्ञानाधिकारे चतुर्थमाह्निकम् ॥
पञ्चमह्निकम् ॥
वर्तमानावभासानां भावानामवभासनम् । अन्तःस्थितवतामेव घटते बहिरात्मना ॥ १,५.१ ॥ प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना । न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥ १,५.२ ॥ भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् । प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति ॥ १,५.३ ॥ तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् । न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ १,५.४ ॥ न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् । तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥ १,५.५ ॥ स्यादेतदवभासेषु तेष्वेवावसिते सति । व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥ १,५.६ ॥ चिदात्मैव हि देवोऽन्तः- स्थितमिच्छावशाद्बहिः । योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ १,५.७ ॥ अनुमानमनाभात- पूर्वे नैवेष्टमिन्द्रियम् । आभातमेव बीजादेराभासाद्धेतुवस्तुनः ॥ १,५.८ ॥ आभासः पुनराभासद्बाह्यस्यासीत्कथं चन । अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥ १,५.९ ॥ स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥ १,५.१० ॥ स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ १,५.११ ॥ आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता । तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ १,५.१२ ॥ चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता । स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ १,५.१३ ॥ सा स्फुरत्ता महासत्ता देशकालाविशेषिनी । सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ १,५.१४ ॥ आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति । ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ॥ १,५.१५ ॥ स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः । प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥ १,५.१६ ॥ नाहन्तादिपरामर्श- भेदादस्यानयतात्मनः । अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् ॥ १,५.१७ ॥ मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥ १,५.१८ ॥ साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा । धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥ १,५.१९ ॥ घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ १,५.२० ॥ केवलं भिन्नसम्वेद्य- देशकालानुरोधतः । ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ १,५.२१ ॥ इति ज्ञानाधिकारे पञ्चममाह्निकम् ॥
षष्ठमाह्निकम् ।।
अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ १,६.१ ॥ भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः । प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् ॥ १,६.२ ॥ तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् । तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ १,६.३ ॥ चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः । देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥ १,६.४ ॥ प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् । विकल्प एव स पर- प्रतियोग्यवभासजः ॥ १,६.५ ॥ कादाचित्कावभासे या पूर्वाभासादियोजना । संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ १,६.६ ॥ तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्त अर्थौघमिच्छया भासयेद्बहिः ॥ १,६.७ ॥ एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे । ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥ १,६.८ ॥ किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि । पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥ १,६.९ ॥ स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि । यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ॥ १,६.१० ॥ अत एव यथाभीष्ट- समुल्लेखावभासनात् । ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥ १,६.११ ॥ इति ज्ञानाधिकारे षष्ठमाह्निकम्
सप्तममाह्निकम्
या चैषा प्रतिभा तत्तत्- पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ १,७.१ ॥ तत्तद्विभिन्नसंवित्ति- मुखैरेकप्रमातरि । प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ १,७.२ ॥ देशकालक्रमजुषामर्थानां स्वसमापिनाम् । सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥ १,७.३ ॥ प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् । कार्यकारणतासिद्धि- हेतुतैकप्रमातृजा ॥ १,७.४ ॥ स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे । पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥ १,७.५ ॥ बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् । ज्ञानानामुदियादेक- प्रमातृपरिनिष्ठितेः ॥ १,७.६ ॥ विविक्तभूतलज्ञानं घटाभावमतिर्यथा । तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ १,७.७ ॥ नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना । न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः ॥ १,७.८ ॥ विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः । तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ १,७.९ ॥ किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः । तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् ॥ १,७.१० ॥ पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा । अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥ १,७.११ ॥ एवं रूप्यविदाभाव- रूपा शुक्तिमतिर्भवेत् । न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ १,७.१२ ॥ धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः । स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ १,७.१३ ॥ इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारोऽनुभूयते ॥ १,७.१४ ॥ इति ज्ञानाधिकारे सप्तममाह्निकम् ॥
अष्टममाह्निकम् ॥
तात्कालिकाक्षसामक्ष्य- सापेक्षाः केवलं क्व चित् । आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥ १,८.१ ॥ विशेषोऽर्थावभासस्य सत्तायां न पुनः क्व चित् । विकल्पेषु भवेद्भावि- भवद्भूतार्थगामिषु ॥ १,८.२ ॥ सुखादिषु च सौख्यादि- हेतुष्वपि च वस्तुषु । अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः ॥ १,८.३ ॥ गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके । तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥ १,८.४ ॥ भावाभावावभासानां बाह्यतोपाधिरिष्यते । नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा ॥ १,८.५ ॥ आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना । अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ १,८.६ ॥ चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा । मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥ १,८.७ ॥ विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः । प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥ १,८.८ ॥ उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना । इच्छातो भर्तुरध्यक्ष- रूपोऽक्षादिभुवां यथा ॥ १,८.९ ॥ तदैक्येन विना न स्यात्संविदां लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥ १,८.१० ॥ स एव विमृशत्त्वेन नियतेन महेश्वरः । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ १,८.११ ॥ इति ज्ञानाधिकारेऽष्टमाह्निकम् ॥ इति ज्ञानाधिकारः ॥
क्रियाधिकारः ॥
[सम्पाद्यताम्]प्रथममाह्निकम्॥
अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा । एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ २,१.१ ॥ सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ २,१.२ ॥ कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा । शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ २,१.३ ॥ क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः । आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ २,१.४ ॥ मूर्तिवैचित्र्यतो देश- क्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥ २,१.५ ॥ सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः । विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ २,१.६ ॥ देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः । स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ २,१.७ ॥ किं तु निर्माणशक्तिः साप्येवं विदुष ईशितुः । तथा विज्ञातृविज्ञेय- भेदो यदवभास्यते ॥ २,१.८ ॥ इति क्रियाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः । सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ २,२.१ ॥ तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् । संप्राप्यानेकतां याति देशकालस्वभावतः ॥ २,२.२ ॥ तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् । करोति मातृव्यापार- मयीः कर्मादिकल्पनाः ॥ २,२.३ ॥ स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि । अन्योन्यान्वयरूपैक्य- युजः संबन्धधीपदम् ॥ २,२.४ ॥ जातिद्रव्यावभासानां बहिरप्येकरूपताम् । व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ २,२.५ ॥ क्रियाविमर्शविषयः कारकाणां समन्वयः । अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ २,२.६ ॥ एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः । भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ २,२.७ ॥ इति क्रियाधिकारे द्वितीयमाह्निकम् ॥
तृतीयमाह्निकम् ॥
इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते । वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः ॥ २,३.१ ॥ सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि । एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ २,३.२ ॥ यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥ २,३.३ ॥ दीर्घवृत्तोर्ध्वपुरुष- धूमचान्दनतादिभिः । यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ २,३.४ ॥ तथैव सद्घटद्रव्य- काञ्चनोज्ज्वलतादयः । आभासभेदा भिन्नार्थ- कारिणस्ते पदं ध्वनेः ॥ २,३.५ ॥ आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः । सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ २,३.६ ॥ पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा । अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ २,३.७ ॥ तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता । तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ २,३.८ ॥ सा तु देशादिकाध्यक्ष- न्तरभिन्ने स्वलक्षणे । तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः ॥ २,३.९ ॥ दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना । बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥ २,३.१० ॥ भिन्नावभासच्छायानामपि मुख्यावभासतः । एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ २,३.११ ॥ अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया । नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ २,३.१२ ॥ रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः । उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा ॥ २,३.१३ ॥ गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता । भावानामित्थमेकत्र प्रमातर्युपपद्यते ॥ २,३.१४ ॥ विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे । विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ २,३.१५ ॥ प्रमातरि पुराणे तु सर्वदा भातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ २,३.१६ ॥ अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् । शक्तिप्रकाशेनेशादि- व्यवहारः प्रवर्त्यते ॥ २,३.१७ ॥ इति क्रियाधिकारे तृतीयमाह्निकम् ॥
चतुर्थमाह्निकम् ॥
एष चानन्तशक्तित्वादेवमाभासयत्यमून् । भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ २,४.१ ॥ जडस्य तु न सा शक्तिः सत्ता यदसतः सतः । कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ २,४.२ ॥ यदसत्तदसद्युक्ता नासतः सत्स्वरूपता । सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते ॥ २,४.३ ॥ कार्यकारणता लोके सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ २,४.४ ॥ एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः । एकस्यैवोभयाकार- सहिष्णोरपपादिता ॥ २,४.५ ॥ बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया । प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ २,४.६ ॥ मातैव कारणं तेन स चाभासद्वयस्थितौ । कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ २,४.७ ॥ अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः । तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ २,४.८ ॥ तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया । तत्तन्मृदादिसंस्कार- क्रमेण जनयेद्घटम् ॥ २,४.९ ॥ योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् । घटादि जायते तत्तत्- स्थिरस्वार्थक्रियाकरम् ॥ २,४.१० ॥ योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते । कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ २,४.११ ॥ भूयस्तत्तत्प्रमात्रेक- वह्न्याभासादितो भवेत् । परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ २,४.१२ ॥ कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् । तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ २,४.१३ ॥ अस्मिन् सतीदमस्तीति कार्यकारणतापि या । साप्यपेक्षाविहीनानां जाडानां नोपपद्यते ॥ २,४.१४ ॥ न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् । सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ २,४.१५ ॥ अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः । क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ २,४.१६ ॥ परस्परस्वभावत्वे कार्यकारणयोरपि । एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ २,४.१७ ॥ एकात्मनो विभेदश्च क्रिया कालक्रमानुगा । तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया ॥ २,४.१८ ॥ न च युक्तं जडस्यैवं भेदाभेदविरोधतः । आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ २,४.१९ ॥ वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः । चिकीर्षालक्षणैकत्व- परामर्शं विना क्रिया ॥ २,४.२० ॥ इत्थं तथा घटपटाद्याभासजगदात्मना । तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ २,४.२१ ॥ इति क्रियाधिकारे चतुर्थमाह्निकम् ॥ इति क्रियाधिकारः ॥
आगमाधिकारः ॥
[सम्पाद्यताम्]प्रथममाह्निकम् ॥
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ ३,१.१ ॥ किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥ ३,१.२ ॥ ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ ३,१.३ ॥ इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् । भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ३,१.४ ॥ अत्रापरत्वं भावानामनात्मत्वेन भासनात् । परताहन्तयाच्छादात्परापरदशा हि सा ॥ ३,१.५ ॥ भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या । मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ३,१.६ ॥ तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका । विद्याशक्तिः तिरोधान- करी मायाभिधा पुनः ॥ ३,१.७ ॥ भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते । शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते ॥ ३,१.८ ॥ यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि । माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ ३,१.९ ॥ त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् । तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ ३,१.१० ॥ त्रयोदशविधा चात्र बाह्यान्तःकरणावली । कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ ३,१.११ ॥ इत्यागमाधिकारे प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् ॥
तत्रैतन्मातृतामात्र- स्थितौ रुद्रोऽधिदैवतम् । भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ ३,२.१ ॥ एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते ॥ ३,२.२ ॥ स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेश- कर्मादिकलुषः पशुः ॥ ३,२.३ ॥ स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ ३,२.४ ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥ ३,२.५ ॥ शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता । निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ३,२.६ ॥ बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता । तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ३,२.७ ॥ शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः । तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः ॥ ३,२.८ ॥ बोधानामपि कर्तृत्व- जुषां कार्ममलक्षतौ । भिन्नवेद्यजुषां माया- मलो विद्येश्वराश्च ते ॥ ३,२.९ ॥ देवादीनां च सर्वेषां भविनां त्रिविधं मलम् । तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ ३,२.१० ॥ कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ३,२.११ ॥ मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ ३,२.१२ ॥ शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे । अस्फुटारूपसंस्कार- मात्रिणि ज्ञेयशून्यता ॥ ३,२.१३ ॥ साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका ॥ ३,२.१४ ॥ तावन्मात्रस्थितौ प्रोक्तं सौषुप्त[ं] प्रलयोपमम् । सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ ३,२.१५ ॥ मनोमात्रपथेऽप्यक्ष- विषयत्वेन विभ्रमात् । स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ ३,२.१६ ॥ सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा । सृष्टिः साधारणी सर्व- प्रमातॄणां स जागरः ॥ ३,२.१७ ॥ हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे । तद्धानोपचयप्राय- सुखदुःखादियोगतः ॥ ३,२.१८ ॥ प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः । तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ ३,२.१९ ॥ मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः । विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ ३,२.२० ॥ इत्यागमाधिकारे द्वितीयमाह्निकम् ॥ इत्यागमाधिकारः ॥
तत्त्वसंग्रहाधिकारः ॥
[सम्पाद्यताम्]स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः । विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ ४.१ ॥ तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना । अहंकारपरामर्श- पदं नीतमनेन तत् ॥ ४.२ ॥ स्वस्वरूपापरिज्ञान- मयोऽनेकः पुमान्मतः । तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ४.३ ॥ स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ४.४ ॥ भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते । एषां गुणानां करण- कार्यत्वपरिणामिनाम् ॥ ४.५ ॥ सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् । द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ ४.६ ॥ येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः । ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ४.७ ॥ ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः । तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ४.८ ॥ तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी । सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥ ४.९ ॥ स्वविश्रान्त्युपरोधायाचलया प्राणरूपया । विकल्पक्रियया तत्तद्- वर्णवैचित्र्यरूपया ॥ ४.१० ॥ साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् । विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम् ॥ ४.११ ॥ सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ ४.१२ ॥ मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते । महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥ ४.१३ ॥ सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः । शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ ४.१४ ॥ एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा । जानन् यथेप्सितान् पश्यञ्जानाति च करोति च ॥ ४.१५ ॥ इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा । तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन् सिद्ध्यति ॥ ४.१६ ॥ तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा । लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ ४.१७ ॥ जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना । ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ ४.१८ ॥ इति तत्त्वसंग्रहाधिकारः ॥ ॥समाप्तेयमीश्वरप्रत्यभिज्ञाकारिका ॥