ईशावास्योपनिषत् (शांकरभाष्योपेता)

विकिस्रोतः तः
ईशावास्योपनिषत् (शांकरभाष्योपेता)
[[लेखकः :|]]
पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/२ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/४ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/६ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/८ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/९ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१० पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/११ पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१२

ईशावास्योपनिषत्सटीकभाष्योपेता ।


ॐ तत्सद्ब्रह्मणे नमः ।

॥ अथ शांकरभाष्यम् ॥

 ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याऽऽत्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चाऽऽत्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः । नह्येवंलक्षणमात्मनो याथात्म्यमुत्पाद्यं


॥ आनन्दगिरिटीका ॥

येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥ १ ॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषे त्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावाव्याख्येथा इति तान्प्रत्याह- ईशा वास्यमित्यादय इति । कर्मस्वविनियुक्ता इति । इषे त्वेति शाखां छिनत्तीत्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्चेत्यर्थः । श्रौतविनियोगाभावेऽपि बर्हिर्देवसदनं दामीत्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्बर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसाम[१]र्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह--तेषामिति । शु[२]द्धादिवि शेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मामुपयोगि किंतु कर्मणा विरुध्यते चेत्याह--याथात्म्यं चेति । शुद्धोऽहं स्वभाव[३]तो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किंत्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः । किंच यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति । तथाऽऽत्मयाथात्म्यं कर्तुं भोक्तृ च न भवति । येन ममेदं समीहितसाधनं ततो मया कर्तव्यमित्य[४]हंकारान्वयपुर सरः कर्त्रन्वयः स्यादित्याह--नह्येवमिति । ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शना[५]न्नास्त्येवैतादृश शा० भा०विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात् । गीतानां मोक्षधर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि ।


आ० टी० मात्मयाथात्म्यं तत्राऽऽह--सर्वासामिति । यत्परः शब्दः स शब्दार्थ इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदां शक्यं वक्तुम् । तथाहि ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुक्रमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासंकीर्तनात्को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासंकीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्दयैकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मातरिश्वा दधा[६]तीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभासापूर्वताफलवत्तार्थवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि बिकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते । किंच प्रत्ययसंवादोऽपि बलव[७]त्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्भविरोधे[८]नापलपनीयम् । यथेन्द्रियान्तरेणानवगम्यमानमपि रूपं चक्षुषाऽवगम्यमानं नाप[९]ह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह--गीतानामिति । 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व विनश्यन्तं यः पश्यति स पश्यति' इत्यादिगीतानाम् । 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः । यद्येतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येतेत्यपि नाऽऽशङ्कनीयमित्याह--तस्मादिति । औपनिषदात्मयाथात्म्यविज्ञानवत इप्यत एव कर्मकाण्डाप्रामाण्यम् । यथा न हिंस्यात्सर्वा [१०]भूतानीति निषेधशास्त्रार्थनिश्चयवत इष्यत एव

श्येनादिविध्यप्रामाण्यम् । यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः । अत्र जैमिनिप्रभृतीनां संमतिमाह--यो हीत्यादिना । अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
 ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ। ईशा वास्यमिद सर्वं यत्किंच जगत्यां जगत् ।


शा० भा० यो हि कर्मफलेनाथ दृष्टेन ब्रह्मवर्चसादिनाऽदृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयं स्वाभाविकैमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्भवच्छित्तिसाधनमात्मैकवादिवि- ज्ञानमुत्पादयन्ति । इत्येवमुक्ताधिकार्यभिधेयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः ॥

ईशा वास्यमित्यादि । ईशा ईष्ट इतीद तेनेशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीटे सर्वजन्तुनामात्मा सेन्प्रत्यगात्मतया तेन स्वेन रूपेणाऽऽत्मनेशा वास्यमाच्छादनीयम् । किम् इदं सर्वं यत्किंच यत्किंचिज्जगत्यां पृथिव्यां जगत्तत्सर्वं स्वेनाऽऽत्मने-


० टी० मिथ्याज्ञाननिदानम् । न हि नभोवन्निष्क्रयस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याहुःखं मे मा भूदित्यथित्वं शरीन्द्रियसामथ्र्येन च समर्थोऽ. हमित्यभिमानित्वं मिथ्याज्ञानं विना संभवतीत्यर्थः । यस्मादात्मयाथात्म्यप्रकाशका मन्त्री न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह—तस्मादेत इति । व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे-ईशेति।ईश ऐश्वर्येऽस्य धातोः क्विपि लुप्ते कृदन्तरूपमीतस्य तृतीयैकवचनमीशेति । ननु कर्तरि क्विविधानास्परमात्मनश्चाविक्रयत्वात्कथं क्विवन्तशब्दवाच्यतेति तत्राऽऽह-ईशितेति । मायोपाधेरीशनकर्तृत्वसंभवात्त्विजन्तशब्दवाच्यता न विरुध्यते निरुपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः । ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्कयाऽऽह-सर्वजन्तूनामात्मा सन्निति । यथाऽऽदर्शादिषु प्रतिबिम्बानामात्मा सन्बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसंभवान्न वास्तवभेदानुमानं संभवतीत्यर्थः । वस आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्वं भ्रान्त्या यदनीश्वररूण गृहीतं तत्सर्वमीश्वर}}

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥


शा० भा० शेन प्रत्यगात्मतयाऽहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्व चराचरमाच्छादनीयं स्वेन परमात्मना । यथा चन्दनागवांदेरुदकादिसंबन्धजक्लेदादिजमौपाधिकं दोर्गन्ध्यं तत्स्वरूपनिघर्षणेनाऽऽच्छाद्यते स्वेन पारमाथिकेन गन्धेन तद्वदेव हि स्वात्मन्यध्यस्तेम्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगहुँतरूपं जगत्यां पृथिव्यः ।जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो सृतः पुत्रों वा भत्यो वाऽऽत्मसंवन्धिताया अभावादात्मानं पालयत्यतस्त्यागेनेत्ययमेव वेदार्थः ।भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः, गृधि-


आ० टी० एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वेपदेशश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः । ‘ब्रह्मैव सर्वमात्मैव सत्प्रकाशविशेषतः । हेयोपादेयभावोऽयं न सन्स्वप्रवदीर्यते' । उक्तं च-'न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तस्वतः । नित्यप्रकाश एवास्ति विधाकारो महेश्वरः' इति । यस्यौषदेशिकज्ञानमात्रेणानृतदृष्टिर्न तिरास्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिस्क्रयेतेस्यभिप्रेत्य दृष्टान्तमाह-यथेति । चन्दनागर्वादेरुदकादि.संबन्धादाद्रीभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिवर्पणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारोदेः स्वरूपसद्भावान्मिथ्या बुद्धेर्बाधकत्व संभवतीत्याह-तद्वदेव हीति । स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिवाधयोग्यत्वप्रदर्शनार्थं विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसंभावनामुक्त्वा युक्तिकुश्लस्य च सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वंकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तेनेत्यत्र त्यागपरामर्शात् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यस्परं पदमित्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चत्तविक्षेपहेतुत्वेन प्रसिद्धत्वाचेत्यभिप्रेस्याऽऽह-एवमीश्वराभेति । चिकीर्पितं संन्यासं स्तौति-तेन त्यक्तेनेति । स्यागेनाऽऽस्मा रक्षितः स्यानिष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्यागस्येत्यर्थः । संन्यासिनः शरीरसंधारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तऽपि कथंचिद्गव्यपरिग्रहे रागचेप्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधित्वादित्यभिप्रेस्य नियमावधिमाह-एवं त्यतैषण इति । स्विदिति निपातस्य सामान्यार्थ}}


१ क, ख, ग, झ, भ, ट, °मेवार्थः । ३ घ, ङ, ठ, देव वस्तुलस°। च, छ, ज, राद

बस्तुबल°। ३ घ, ङ, छ, ज, ठ, विविसितं ।।

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः ।


शा० भ० माकाङ्क्षां मा कार्षीर्धनविषयाम् ।कस्यस्विद्धनं कस्यचित्परस्य स्वस्य वा धनं मा काङक्षीरित्यर्थः ।स्विदित्यनर्थको निपातः।अथवा मा गृधः । कस्मात् । कस्यस्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यदगृध्येत । आत्मैवेदं सर्वमितीष्वरभावनाया सर्वं त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥ १ ॥  एवमात्मविदःपुत्राद्येपणात्रयसंन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येप वेदार्थः । अथेतरस्यानात्मज्ञतयाऽऽत्मग्रहणयाशक्त- स्येदमुपदिशति मन्त्रः-कुर्वन्नेवेति । कुर्वन्नेवेह निवर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसंख्याकाः समाः संवत्सरान् । तावद्धि पुरुषस्य परमायुनिरूपितमं । तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते । एवमेवंप्रकारेण त्वयि जिजीविपति नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारादृन्यथा प्रकारान्तरे नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः। अतः शास्त्रविहितानि कमण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ।कथं पुनरिदमवगम्यते । पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेत्युच्यते । ज्ञानकर्मणविरोधं पर्वतवद-


० टी० त्वेऽपि कस्यस्विदिति वितर्कार्थत्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम् । व्यवहारदृष्टयाऽप्यात्मन एवेदं सर्व शेषभूतं जडस्य चित्परतन्त्रत्वार्दतोऽ.प्राप्ते विषये नाऽऽकाङ्क्षा कर्तव्या । परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥ १ ॥ आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृतसतीयपादेनापरिपक्कज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्याध्र संबन्धाभिधित्सया–एवमात्मविद इत्यादिना । पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यै मन्त्रद्वयस्येत्येकदेशी शङ्कामुद्भावयति-कथं पुनरिति । शुद्धब्रह्मज्ञानकर्मणोरेकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवस्त्येव तत्रापि क्रमेणैककर्तृकत्वामितिचेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चाक्तं ज्ञानकर्मणोर्वेदविहितस्वेन


१ क, ख, झ . °णःश° । २ क, ख, झ, भ, ट, युरुचितम् । ३ क, ख, ज. इ. ट. “म

यथा प्र° ४ क, ख, झ, ञ, ट, ° व°। ५ क, ख, ग, °Cयस इ°।६ क, ख, च, छ. °दतः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २


शा० भा० कम्प्यं यथोक्तं न स्मरसि किम् । इहाप्युक्तं यो हि जिजीविषेत्स कर्म कुर्वन् । ईशा वास्यमिदं सर्वं तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनमिति च । न जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च पदम् । ततो न पुनरियादिति संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्रोत्तरेण निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथ एवातिरेचयाति । न्यास एवात्यरेचयदिति च तैत्तिरीयके। द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मों


० टी० शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमनन्निदण्डिधर्मयोरप्यविरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया नानुध्येयाहूञ्छब्दानित्यादिप्रतिषेधस्तुल्यः । केवलकर्मविषयो निषेध इति न च वाच्यं केवलपद्व्यवच्छेद्याभावात्समुच्चयावधेरद्याप्यनिश्चितत्वात्तस्मान्न समुच्चये तात्पर्यै मन्त्रद्वयस्येत्याह-ज्ञानकर्मणोर्विरोधमिति । कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति संबन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारस्वं तयोः कल्पयसीत्यर्थः । मन्त्रलिङ्गादपि तयोर्भन्नाधिकारत्वं प्रतीयत इत्याह-इहाप्युक्तमिति । जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किंच धनसंपन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः । जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह-न जीवित इति । अरण्यं स्त्रीजनासंकीर्णमाश्रममियाद्रच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षिता- त्संन्यासान्न पुनरियाकर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः । इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह-उभयोरिति । को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेनेत्यर्थः । नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति-इम द्वावेवेति ।


१ क, ख, ध्यायैद°।

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
तास्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३ ॥


शा० भा०निवृत्तश्च विभावित इत्यादि पुत्रायं विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोर्दर्शयिष्यामः ॥ २॥

 अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते-असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्यानाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेनादर्शनात्मकेनाज्ञानेन तमसाऽऽवृता आच्छादितास्तान्स्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के चाऽऽरमहनः । आत्मानं घनन्ती त्यात्महमः । के ते जना येऽविद्वांसः । कथं त आत्मानं नित्यं हिंसन्ति । अविद्यादोषेण विद्यमानस्याऽऽत्मनस्तिरस्करणात् । विद्यमानस्याऽऽत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येवतिरोभूतं भवतीति प्राकृतविद्वांसो जना आत्महन उच्यन्ते । तेन ह्यात्महननदोघेण संसन्ति ते ॥ ३॥


अ० टी० पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारिस्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थव्यवधानादित्यर्थः । व्यासवाक्यमपि संवादकमाह द्वाविमाविति ॥ २ ॥   आद्यमन्त्रार्थ प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह-अथेति। ते लोका इति तच्छब्दो यच्छब्दार्थे । यथाश्रुतमिति । येने यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमालेतीत्यर्थः । आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन ईत्याह–कथं त इति । उदरभेर्दिनोऽ• ध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह‌-अविद्यादोषेणेति । यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यतेतद्वदात्मनि पापिस्वाद्यध्यासोऽपि हिंसैवेत्यर्थः । अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्यं तद्धतस्येव ने दृश्यत इति हननमुपचर्यत इत्याहविद्यमानस्येति । अस्याऽऽत्मघातस्य प्रायश्चित्तविधानादर्शनासंसरणमेव फैलमित्याह तेन हीति ॥ ३ ॥


१ क, ख. वृत्तौ च वि° । घ, ङ, च, टठ, वृत्तिश्च विभाषित । अ. अ. वृत्तौ चैव भाषित ३ ग. 'न्ति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसर्पन्ति य°। ३ ज. इति

शइते-क° । ४ ख. घ, ज, °नो ह्मात्मा” । ५ घ, ङ, छ, ज ठ, फलितमि° ।


अनेजदेकं मनसो जवीयो नैनदेया आप्नुवन्पूर्वमर्षत् ।


शा० भा० यस्याऽऽत्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांस जना मुच्यन्ते ते नाऽऽत्महनः । तत्कीदृशमात्मतत्त्वमित्युच्यते-अनेज- दिति । अनेजत, न-एजत् । एज़ कम्पने । कम्पनी चलनं स्वावस्था- प्रच्युतिस्तद्वजितं सर्वदैकरूपमित्यर्थः । तचैकं सर्वभूतेषु । मनसः संकल्पादिलक्षणाजवीयो जववत्तरम् । कथं विरुद्धमुच्यते धुवं निश्चलमिदं मनसो जवीय इति च । नैष दोषः। निरुपाध्युपाधिमै- त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यतेऽनेजदेकमिति । मनसोऽन्तःकरणस्य संकल्पविकल्पलक्षणस्योपाधरनुवर्तनादिह देह- स्थस्य मनसो ब्रह्मलोकादिदूरंगमने संकल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनसि ब्रह्मलोकादीन्द्रुतं गच्छति सति प्रथम प्राप्त इवाऽऽत्मचैतन्यावभासो गृह्यतेऽतो मनसो जवीय इत्याह । नैनद्देवा द्योतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृत- मात्मतत्त्वं नाऽऽप्नुवन्न प्राप्तवन्तः । तेभ्यो मनो जवीयो मनोव्यापार व्यवहितत्वात् । आभासमात्रमध्यात्मनो नैव देवानां विषयी भवति। यस्माजवनान्मनसोऽपि पूर्वसंर्घत्पूर्वमेव गतम् । व्योमवद्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरू- पेणाविक्रियमेव सदुपधिकृताः सर्वाः संसारविक्रिया अनुभवती- वाविवेकिन मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इँत्ये- तदाह-तद्धावतो द्रुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागि-


० टी० उत्तरमन्त्रमवतारयति-यस्याऽऽत्मन इत्यादिना। अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिणः केचन नरकगामिण इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनत्यभिप्रेत्याऽऽह-मनस इत्यादिना । उपाधेरंनुवर्तनात् । विक्रियादिव्यवहाराश्रयत्वमिति शेपः । ननु मनसो देहान्तःस्थत्वाइहिर्गमनायोग्य- स्वात्कथं वेगवत्त्वमित्याशङ्कयाऽऽह-देहस्थस्येति। नवीयस्त्वादश्वादिवत्तर्हि चक्षु- रादिग्राह्यत्वं प्राप्तमित्याशङ्कयाऽऽह-नैनद्देवा इति । चक्षुरादिप्रवृत्तेर्मनोव्यापार पूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मनो न संभवतीत्यर्थः । मनसो वा कथं न विषय आत्मेत्यत आह-यस्मादिति। यथा मनस्थं परिमाणं मनसो न विषयोऽ.


१ घ, ङ, छ, °मर्शत् । २ क, ख. °न स्थिरत्वप्र° । ३ क, ख, ग, इ. १. छ. झ. ४. मत्त्वोप°। ४ ज. °धिकः स्वे° । ५ क, ख, ग, घ, ङ, च. ड. प्रस्थसंकल्पनं क्ष° । ६ ६. ॐ. °मर्शत् । ७ ज. ३, इत्यत आह । ८ ठ, पेरनिव°। क, ख, झ °ग्नु वर्तमाना। १ घ, ङ, च, छ,

३. °त् । क्रि ।

सद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ तदेजति तन्नैजति तददूरे तद्वन्तिके । तद-
न्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥


झा० भा० न्द्रियप्रभृतीनत्येत्यतीत्य गच्छतीव । ईवार्थ स्वयमेव दर्शयतितिष्ठदिति । स्वयमविक्रियमेव सदित्यर्थः। तस्मिन्नात्मतत्वे सति नित्यचैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपः कर्माणि प्राणिनां चेष्टालक्षणानि । अग्न्यादित्य पर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि दधाति विभजतीत्यर्थः । धारयतीति वा । भीषाऽस्माद्वातः पवत इत्यादिश्रु तिभ्यः । सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥ ४ ॥

 न मन्त्राणां जामिताऽस्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह-तदेजतीति । तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतोऽचलमेव सञ्चलतीवेत्यर्थः । किं च तददूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाददूर् इव । तत् उ अन्तिक इति च्छेदः ।तद्वन्तिके समीपेऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरेऽन्तिके च।तदन्तरभ्यन्तरेऽस्य सर्वस्य । य आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदु अपि सर्वस्यास्य बाह्यतो व्यापकत्वादाकाशवन्निरतिशयसूक्ष्मत्वादन्तः । प्रज्ञानघन एवेति च शासनान्निरन्तरं च ॥ ५ ॥


० टी० त्यन्ताव्यवधानात्तथाऽऽत्माऽप्यस्यन्ताव्यवधानान्मनसो न विषयस्तद्वथापकत्वाच्चेत्यर्थः । उक्तात्मसंभावनायोपपत्तिमाह-तस्मिन्नात्मतत्त्वे सतीति । श्रौतानि कर्माणि सोमाज्यपयःप्रभृतिभिरद्भिः संपाद्यन्त इति संबन्धाल्लक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्वाबनिमित्तत्वप्रसिद्धेः । कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्त इत्यर्थः । ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः संभाव्यत इत्युक्तमिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यमाह-सव हीति ॥ ४ ॥ जामिताऽऽलस्यं व्यापित्वाहाह्यतेऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निर. न्तरमेकरसं न स्यान्मानाभावादित्याशङ्कयाऽऽह-प्रज्ञानघन एवेति ॥ ६ ॥


। १ घ. इ. स. उ. इममर्थे । २ ज. ठ, °4कार”। ३ छ, प्र. ४. °र्यकर' । ४ . ३. छ.

दकि°५५ क, ख, झ, प्राणि३°।

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ।। ६ ।।
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।।
तत्र को मेहः कः शेक एकत्वमनुपश्यतः ॥ ७ ॥


१० भा० यस्तु । यः परिव्राड्मुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थाव रान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्व भूतेषु च तेष्वेव चाऽऽत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन यथाऽस्य देहस्य कार्यकारणसंघातस्याऽऽत्माऽहं सर्व प्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं निर्विशेषं यस्त्वनुपश्यति से ततस्तस्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यदुष्टं पश्यतो भवत्यास्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव । ततो न विजुगुप्सत इति ॥ ६ ॥

इममैवार्थमन्याऽपि मन्त्र आह-यस्मिन्सर्वाणि भूतानि । यस्मिन्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्श- नादात्मैवाभूदात्मैव संवृत्तः परमार्थवस्तु विजानतस्तत्र तस्मिन्काले तत्राऽऽत्मनि वा को मोहः कः शोकः । शोकश्य मोहश्च कामैकर्मबीजभेजानतो भवति न वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपणासंभवप्रदर्श- नासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥ ७ ॥


० टी० उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपणावस्थानमित्याह- यस्त्विति ॥ ६ ॥ निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीन्कामयते तदर्थ देवता-राधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विव क्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह-शोर्कश्च मोहश्रेत्यादिना॥७॥


१ ६. अ. °त्मनेवा° । २ विचिकित्सतीत्ययं पाठ उवटभाष्यपुस्तकस्थः । ३ क, ख, घ, ङ,

छ ठ, ड. °मबीजमज्ञान°।४ च, °मज्ञानवतो । ५ ६, ४, च, छ, 'कमहथोरिया ।

से पर्यगच्छुक्रमकायमव्रणमस्राविर शुद्धमपाप-
विद्धम् । कविर्मनीषी परिभूः स्वयंभूर्याथातथ्य-
तोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥

  • अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।।


मा० भा• योऽयमतीतैर्मन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षण इत्याहायमं मन्त्रः–स पर्यगात्स यथोक्त आत्मा फ्यंगात्पर समन्तादगातवानाकाशवद्यापीत्यर्थः । शुक्रं शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः ।अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः । अत्रणमक्षतम् ।अस्त्राविरं स्त्रवहाः शिरा यस्मिन्न विद्यन्त इत्यस्त्राविरम् । अत्रणमस्त्राविरमित्याभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शुक्रमित्यादीनि वांचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुलिङ्गत्वेनोपसंहारात् ।कविः क्रान्तदर्शी सर्वदृक् । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भवतीति परिभूः। स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरो यथातथ्यतः सर्वज्ञत्वाद्यथातथा भावो यथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोऽर्थान्कर्तव्यपदार्थान्व्यदधाद्विहितवा-न्यथानुरूपं व्यमजदित्यर्थः। शाष्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥ ८॥ अत्राऽऽद्येन मन्त्रेण सर्वेषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ।


० टी० योऽयमिति । धातुः । स्रावयन्ति शरीरमिति स्नावाः शिराः क्रान्तपतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी ॥ ८ ॥   प्रकरणविभागं दिदर्शयिषुवृत्तमनुवदति अत्राऽऽद्येनेति । यदुक्तं भास्करेण


  • उवटभाष्ये शावास्यरहस्येशावास्यविवृतिषु तु नवमदशमयोर्मन्त्रयोद्वादशत्रयोदशयोश्च य.

थासंख्यं वैपत्यं तथा चतुर्दशैकादशयोवैपरीत्यं तथाऽमे नयेति मन्त्रः षोडशः । तथा वायुरनिल मिति पश्चदशः । किच वायुरनिलमित्यस्योत्तरार्धस्थाने ॐ क्रतो स्मर क्लिबे स्मर कृतः स्मरेति तथा हिरण्मयेनेति सप्तदशः । किंच हिरण्मयेनेत्यस्योत्तरार्धस्थाने योऽसावादिये पुरुषः सोऽसावहम्॥१७॥ ॐ से ब्रक्षेति तथा पूषन्नेकर्षइति मन्त्रो नास्त्येव तथाऽसुर्य नामेतिमन्त्रान्तर्गतप्रेत्याभिगछन्तीत्यस्य स्थाने प्रेत्यापि गच्छन्तीति पाठस्तथा षष्ठमन्त्रस्थविजुगप्सत इत्यस्य स्थाने विचिकिसतत पाठः। किं च दशममन्त्रस्य पूर्वार्धस्य स्थाने ' अन्यदेवाइर्वियाया अन्यदाहुरविद्यायाः'एवं पाठ इति शेयम् ।

१ क, ३. ज. ३ ईशिता ।

ततो भूय इव ते तमो य उ वियाया५ रताः ॥ ९ ॥


शा० भा० ईशावास्यमिदं सर्वं मा गधः कस्य स्विद्धनमित्यज्ञान जिजीविषूणां ज्ञाननिष्ठासंभवे कुर्वन्नेवेह कर्माणि जिजीविषेदिति कर्मनिछोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रप्रदर्शितयोबृहदारण्यकेऽपि प्रदर्शितः सोऽकामयत जाया मे स्यादित्यादिना ।अज्ञस्य कामिनः कर्माणीति मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तन्नसर्गस्तेष्वात्मभावेनाऽऽत्मस्वरूपावस्थानं जायाचेषणात्रयसंन्यासेन चाऽऽत्मविदां कर्मनिष्ठाप्रतिकूल्येनाऽऽत्मस्वरूपनिष्टैव दर्शिता किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक


आ० टी० सर्वोऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचितमिति । तदसत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्गमितिवाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाच्याकृताव्याकृतोपासनेस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्नि- होत्रादिप्रकरणं भिन्नमेवेष्यते भित्राधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्ना: धिकारत्वोत्कर्माविरुद्धतद्विरुद्धविद्याप्रकरणभेदो न विरुध्यते । मन्त्रार्थे ब्राह्मणसंमतिं दर्शयितुमुपक्रमते-अनयोश्चेत्यादिना । तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽऽह-मन एवेति । जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न संपद्यते तदाऽत्म- जायादिसंपात्तं दर्शयति–एतच्चाज्ञत्वालङ्गं मनआदिप्वात्मत्वाद्याभिमानस्याज्ञान- कार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोंऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः । तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह-तथा चेति । एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासी वा त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि पश्वर्थमकं तत्पय इति सप्तानसग दार्शतः श्रुत्या यत्ससान्नानि मेधया तपसाऽजनयत्पितेत्यादिना ।अवैकैको यजमान एवं विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्परम्पर्याभ्यां जनकत्वात्पितोच्यते । तेषु च सृष्टेष्वनेषु तस्य पितुरह: मिदं ममेदमित्यात्मस्वाध्यासेन मनआदिष्वितरेषु च संबन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः । एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसंमतिं दर्शथित्वा प्रकरणविभाग


१ च, °वसूपनिषत्स्वेकं । २ क. इ. °तु स्वेना । ३.ज. तेन भास्करेणापि । ४ घ. इ. , °नस्पोपक्रान्तत्वा ५ छ, ज, प्रकान्तत्वा, ६ क. अ. ध्यात्म जा ७ ६, ७, ज.ठ, त्रीणि स्वस्य । ८ ज. स. `त्रैको । शा० भा० इत्यादिना । ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्योऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मना याथात्म्यं स पर्यगादित्येतद्- न्तैर्मन्त्रैरुपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणं मन्त्रोपनिषदि अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमित्यादि विभज्योक्तम् । ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते-अन्धं तम इत्यादि । कथं पुनरेवमवगम्यते न तु सर्वेषामित्युच्यते-अकामिनः साध्यसाधनभेदोपमर्दैन यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति यदात्मैकत्वविज्ञानं तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीवति । इह तु समुच्चिचीषयाऽविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः संभवति न्यायतः शास्त्रतो वा तदिहोच्यते । यदैवं वित्तं देवताविषयं ज्ञानं कर्मसंब-


आ० टी०-दर्शयति-ये तु ज्ञाननिष्ठा इत्यादिना । अत्याश्रमिभ्य इति। उत्तमाश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमर्दैन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धैनोत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मातेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समुच्चिचीषयाऽविद्वदादिनिन्दा दृश्यते । ततः किमित्यत आह-तत्र च यस्येति । कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः संभवतीत्यत आह—यदैवं वित्तमिति । यच्चोक्तं भास्करणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वा तस्या एव समुच्चिचीपयान्द निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता संबध्यते किं तु संबन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दक त्वान्नास्ति कर्मसंवन्धयोग्यता । किंच यस्मिन्निप्पन्नेऽपि फलस्य व्यवधानं संभाव्यते तस्यैव सहकारिसमुच्चय इष्यते दशदेरिह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किंचास्या मन्त्रोपनिषदो ब्राह्मणे ब्राह्मणा विविदिषन्ति यज्ञेनेत्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रती- यते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया संबन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसंबन्धविधिस्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यन- पेक्षेतिसूत्रविरोधश्च समुच्चयश्च परेणापि नेष्यते । विरोधेने च परिजहे तस्मात्कर्माविरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते । ननु देवताज्ञानस्य कर्मफलाक्ति


१ च. ते यथा द°। २ झ, °देरिवेह । ३ घ, ङ, ज, 5. किं च ब्राह्म गा वि । छ, अ. °४ अमीन्धनोपलक्षितकर्मसमस° । ५ ग, च, छ, ज, न चापाचके त° । छ, ठ, °न पार,

कमे त”।

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
विद्यां चावियां च यस्तद्वेदोभय सह ।


श० भा० न्धित्वेनोपन्यस्तं न परमात्मज्ञानम् । विद्यया देवलोक इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिची पया न निन्दापरैवैककस्य पृथक्फलश्रवणात् । विद्यया तदारोहन्ति ।विद्यया देवलोकः । न तत्र दक्षिणा यन्ति । कर्मणा पितृलोक इति ।नहि शास्त्रविहितं किंचिदकर्तव्यतामियात् । तत्रान्धं तमोऽदर्शनात्मकं तमः प्रविशन्ति । के । येऽविद्यां विद्याया अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततःस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के, कर्म हित्वा ये उ ये तु विद्यायामेव देवताज्ञान एव रता अभिरताः।तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवफलवतोः संनिहितयोरङ्गाङ्गितैव स्यादित्यर्थः ॥ ९ ॥  अन्यदेवेत्यादि । अन्यत्पृथगेव विद्यया क्रियते फलमित्याहूर्वदन्ति विद्यया देवलोको विद्यया तारोहन्तीतिश्रुतेः । अन्यदाहुर-विद्यया कर्मणा क्रियते कर्मणा पितृलोक इति श्रुतेः । इत्येवं शुश्रुमश्रुतवन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यंतत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पार- म्पयगत इत्यर्थः ॥ १० ॥ यत एवमतो विद्यां चाविद्यां च देवताज्ञानं कर्म चेन्यर्थः। यस्तदेतदुभय}}


० टी० रिक्तफलभावात्समुच्चयो न संभवतीत्यत आह–विद्ययेति । ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादवपर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वत्प्रहाणार्थेव निन्दा किं नेष्यते तत्राऽऽह-तयोर्ज्ञा- नकर्मणोरिति । न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फल. व्यवहारदर्शनात्ततो यो देवलोकादिमुपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ ९ ॥ १० ॥ ११ ॥


1 °विद्याया अन्य°। ३ °विद्यायाः । इ° । उवटभाष्यस्थाविमौ पाठौ । ३ अ. अ. ट. °गोवियाविरोधाभावान् । ग, घ, ङ, च, छ, ज, ठ, एतेष्विदं नास्त्येव । ४ क. स. कितयार अभि3°। ग .स. १. ट, फ्तिायां जामितै” । ५ ज. °त्वाकर्मणो निन्दा मुण्डकादिषु श्रूयते पदा ते अड्ढा यशपाः प्रहा।६ अ. °पि वाछितस°। =

==

अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते ॥ ११ ॥
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।।
ततो भूय इव ते तमो य उ संभूत्या५ रताः ॥ १२ ॥
अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् ।।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥


शा० भा० सकेन पुरुषेणानुष्ठेयं वेद तस्यैवं समुच्चयकारिण एवैकपुरुषा- र्थसंबन्धः क्रमेण स्यादित्युच्यते-अविद्यया कर्मणाऽग्निहोत्रा दिना मृत्यु स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयं तत्वऽति- क्रम्य विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति । तद्धयमृतमुच्यते यद्देवतात्मगमनम् ॥ ११ ॥

अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दो च्यते-अन्धं तमः प्रविशन्ति येऽसंभूतिं संभवनं संभूतिः सा यस्य कार्यस्य सा संभूतिस्तस्या अन्याऽसंभूतिः प्रकृतिः कारणमविद्याऽव्याकृताख्या तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्या कामकर्मबीजभूताम: दर्शनामिकामुपासते ये ते तदनुरूपभेवान्धं तमोऽदर्शनात्मक प्रवि शन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति य उ संभूत्या कार्यबह्मणि हिरण्यगर्भाये रताः ॥ १२॥

अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह-अन्य-देवेति । अन्यदेव पृथगेवाऽऽहुः फलं संमवात्संभूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः । तथा चान्यदाहुर संभवादसंभूतेरत्याकृतदिव्याकृतोपासनाद्यदुक्तमन्धं तमः प्रविशन्तीति प्रकृतिलय इति च पौराणिकैरुच्यत इत्येवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः ।।१३


० टी० चित्तन्त्रा माया परमेश्वरस्योपाधिः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरः मित्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासंभूतिशब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षा• प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्यमानताऽप्युपपद्यते ।फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुयोद्यमेव ॥ १२ ॥ १३ ॥१४॥


१ क, ख. °तितत्वा " ।

संभूतं च विनाशं च यस्तद्वेदोभय५ सह ।
विनाशेन मृत्यु ती संभूत्याऽमृतमश्नुते ॥ १४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥


मा० यत एवमतः समुच्चयः संमूत्यसंभूत्युपासनयोर्युक्त एवैकपुरुषार्थत्वाञ्चत्याह-संभूतिं च बिनाशं च यस्तद्वेदोमय५ सह । विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाऽभेदेनोच्यते विनाश इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्यु तीर्त्वा हिरण्यगर्मोपासनेन ह्यणिमादिप्राप्तिः फलम् । तेनानैश्वर्यादिमृत्युम- तीत्यासंभूत्याऽव्याकृतोपासनयाऽमृतं प्रकृतिलयलक्षणमश्नुते । संभूतिं च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्वष्टव्यः । प्रकृतिलयफलश्रुत्य: नुरोधात् ।। १४ ।।

 मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् । एतावती संसारगतिः । अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्ममाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिल- क्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधि- प्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवग्र्यन्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊध्र्वं बृहदारण्यकमुपयुक्तं तत्र निषेकादिश्मशानान्तं कर्म कुर्वञ्जिजीविधेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं विद्यां चाविद्यां च यस्तद्वेदोमय* सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति । तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते--तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष एतदुभयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकृञ्च यः सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते हिरण्मयेन पात्रेण । हिरण्मयमिव हिरण्मयं ज्योतिर्मयमित्ये तत् । तेन पात्रेणेवापिधानभूतेन सत्यस्यैवाऽऽदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितमाच्छादितं मुखं द्वारं तत्त्वे हे पूषन्नपावृण्वपसारय सत्य-


० टी० विस्तरेणोक्तमर्थनातं संक्षिप्योपसंहरति-मानुषदैववित्तसाध्यमित्यादिना ।

शरीरपाटवं गोभूहिरण्यादिसाधनसंपत्तिश्च मानुषं वित्तम् । दैवं वित्तं देवताज्ञान

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ।।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ
पुरुषः सोऽहमस्मि ॥ १६ ॥ वायुरनिलममृतमथेदं
भस्मान्तः शरीरम् ।


भा० भा० धर्माय तव सत्यस्योपासनात्सत्यं धर्मों यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यमथवा यथाभूतस्य धर्मस्यानुष्ठात्रे हृष्टये तव सस्यास्मन उपलब्धये ॥ १५ ॥ पूषन्निति । हे पूषन् । जगतः पोषणात्पूषा रविस्तथैक एवं ऋषति गच्छतीत्येकर्षिः । हे एकर्षे । तथा सर्वस्य संयमनाद्यमः । हे यम ।तथा रश्मीनां प्राणानां रसानां च स्वीकरणोत्सूर्यः । है सूर्य । प्रजापतेरपत्यं प्राजापत्यः । हे प्राजापत्य । व्यूह विगमय रश्मीन्स्वान् ।समूह, एकी कुरु, उपसहर ते तेजस्तापकं ज्योतिः । यत्ते तव रूपंकल्याणतममत्यन्तशोभनं तसे तवाऽऽत्मनः प्रसादास्पश्यामि । किंचाही न तु त्वां मृत्यवयाचे योऽसावादित्यमण्डलस्थो व्याहृत्यवषवेः पुरुषः पुरुषाकारत्वात्पू वाऽनेन प्राणबुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सोऽहमस्मि भवामि ॥ १६ ॥

 वायुरिति । अथेदानीं मम मरिष्यतो वायुः प्राणोऽध्यात्मपरिच्छेद हित्वाऽधिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रास्मानं प्रतिपद्यता: मिति वाक्यशेषः । लिङ्ग चेदं ज्ञानकर्मसंस्कृतमुस्कामत्विति द्रष्टव्यम् ।


आ० टी० मुत्तरग्रन्थस्य संबन्धाभिधित्सयाऽर्थविशेषमनुवदति-तत्र निषेकादीत्या दिना । तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामुतत्वं फलमि- स्युक्तमस्माभिरिति ॥ १५ ॥ व्याहृत्यवयव इति । तस्य भूरिति शिरः मुवै ईति बाहुः सुषरिति प्रतिष्ठा पादावित्यर्थः ॥ १६ ॥ १७ ॥


१ च सत्यधर्मस्तस्मै । यद्यप्यवमेव पाठे। मूलानुसारेण समीचीन इति भाति तथाऽपि चव्य- तिरिक्त पुस्तकेषु सत्यधम तस्मै, इत्येव पाठ उपलब्धः । अतः स एव शंकराचायभिप्रेत इति गम्यते । कुत इति चेदुच्यते-मुले सत्यधर्मायेति पदं वर्तते तत्तु भाषायां वैयकिरणरीत्या न सिध्यति किं तर्हि धर्मादनिकेवलादिति पाणिनिसूत्रेण समासान्तानिच्प्रत्यवेन भाष्यं तथा च सत्य धर्मण इति स्यादत आचार्यः सत्यधमा येत्यस्याऽऽर्षत्व प्रदर्शनार्थ भोध्येऽनिजन्तसत्यधर्मशब्दरचे प्रथमैकवचनस्य प्रदर्शितत्वादिति ज्ञेयम् । २ ज°बः परोक्षोऽसौ शास्त्रदृष्टया प्रत्यक्षः पु° ।।

वरिति बाहुः सु” ।

ॐ क्रतो स्मर कृत५ स्मर क्रतो स्मर कृत स्मर ॥१७॥
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।


मार्गयाचनसामथ्र्थात् । अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयात् ।ओमिति यथोपासनमप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितोऽतः स्मरेतावन्तं कालं भावितं कृतमग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् ।। १७ ॥

 पुनरन्येन मन्त्रेण् मार्ग याचते--अग्ने नयेति । हेऽग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं द्क्षिणमार्गनिवृत्यर्थम्।निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनःर्गमनागमनवजितेन शोभनेन पथा नय । राये धनाय कर्मफलभोगायेत्यर्थः । अस्मान्यथोक्तधर्मफलविशिष्टान्विश्वानि सर्वाणि हे देव वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् । किं च युयोधि वियोजय विनाशयास्मदस्मतत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् ।ततो वयं विशुद्धाः सन्त इदं प्राप्स्याम इत्यमिप्रायः । किंतु वयमिदानीं ते न शक्नुम परिचर्यां कर्तुं भूयिष्ठां बहुतराम् । ते तुभ्यं नमःउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेमेत्यर्थः । अविद्ययामृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते । विनाशेन मृत्युं तीत्वा संभूत्याऽमृतमश्नुत इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निराकरणार्थं संक्षेपतो विचारणा करिष्यामः । तत्र तावत्किनिमित्तः संशय इत्युच्यते। विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यतेऽमृतत्वं च। ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः। सत्यम् । विरोधस्तुनावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाऽविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि । यथा च न हिंस्योत्सर्वा भूतानीति शास्त्राद्वगतं पुनः शास्त्रैणैव बाध्यतेऽ.


० टी०मन्त्रान्पदशो व्याख्याय संक्षेपता विचारमारभते -अविद्यया मृत्यु तीर्त्वेत्यादिना । अमृतत्वं चेति । अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति संबन्धः। शास्त्रीययोर्ज्ञानकर्मणाविरोधाविरोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोके


१ घ. इ. च, छ. ठ °कम” । २ ग. ब्रह्मव ओवित्युच्य। । क. अ. ग. “मग्र स्म' । । ३ . ग. म ट. °स्तभिर्धार° । ५ ६. ब. ट . °स्यात्सर्वभू° । एतदन्यपुस्तकेषु सर्वा, इत्येव

पाठो दृश्यते । अतः सघणीत्यर्थक सर्वा, इतिपदघटितवक्यस्य श्रुतिस्थत्वमनुमीयते ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउतिं विधेम ॥ १८ ॥
इत्युपनिषद् ॥ इति वाजसनेयसंहितोपनिषत्संपूर्णा ॥
ॐ पूर्णमदः० शिष्यते ।
  ॐ शान्तिः शान्तिः शान्तिः ॥


शा० भा० ध्वरे पशु हिंस्यादिति । एवं विद्याविद्ययोरपि स्यात् । विद्याकर्मणोश्च समुच्चयो न दूरमेते विपरीते विषूची अविद्या या च विद्ये- तिश्रुतेः । विद्यां चाविद्यां चेतिवचनादविरोध इति चेन्न । हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासंभवात्समुच्च: यविधानादविरोध एवेति चेन्न । सहसंभवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेन्न । विद्योत्पत्तावविद्याया ह्यस्तत्वात्तदा- श्रयेऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्ती यस्मिन्नश्रये तदुत्पन्नं तस्मिन्नेवाऽऽश्रये शीतोऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति शोकमोहाद्यसंभवश्रुतेः । अविद्यासंभवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवो-


० टी० सिद्धान्ती शास्त्रसिद्ध एवं विरोध इत्याह-न दूरमेते इति। विधूची नानागती विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः । सहसंभवानुपपत्तेरिति । कोऽनुपपत्तिः । काठके विरोधश्रवणात् । तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह स्वविरोधश्रवणादविरोधो भविष्यतीति न च वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासंभवादुदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तछंविरोध एवास्तु समुच्चयविधिबलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययो. रिव सहसंभवानुपपत्तेः समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तहलादविरोधाव- गमोऽविरोधावगमाच्च समचयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसंभवानुपपत्तावपि क्रमेणैकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमाविद्या पश्चात्तु विद्याति क्रमस्तहष्यत एवं यदि पश्चात्तर्घसंभव इत्याह ने विद्योत्पत्ताविति । पर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासंभवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः । विद्योत्पत्तैः मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्कयाऽऽह-अविद्या- संभवादिति । चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं}}


१ घ. छ. चे. छ. जे ट. . ति ज्ञातेत श्रु° । २ ग घ. चे, अ, ट. ४ विरोध” ।

शा• भा• चाम । अमृतमश्नुत इत्यापेक्षिकममृतं विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात्त:
स्मोदुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथाऽस्माभिव्यर्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥ १८ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ वाजसनेयसंहितोपनिषद्भाष्यं संपूर्णम् ॥

॥ॐ तत्सत् ॥



अ० टी० ब्रह्मात्मैकत्वं तु साक्षीदनुभवतो न चोदना संभवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । * अकामिनः क्रिया काचिदृश्यते नेह कस्य चित् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ' इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रय कर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि, न कर्म, चोदनाभावास्कितु यावत्प्राणश- रीरसंयोगभावि तस्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असंभवानैव किंचित्करोमीति प्रत्ययाचेति भावः । यदुक्तममृतशब्देन मुख्यमेवामतत्वं किं न गृह्यते । विद्याशब्देन च परमात्मविद्येति तत्राऽऽह–अमृतमिति। मुख्यामृतस्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राणा उत्क्रामन्यत्र ब्रह्म समश्नुत इत्यादिश्रुतेः । ततो मुख्यार्थबाधाहौणार्थग्रहणं युक्तमित्यर्थः । यस्मार्थान्तरं न संगच्छते तस्मादित्युपसंहारः ।। १८ ।। ईशाप्रभृतिभाष्यस्य शांकरस्य परात्मनः । मन्दोपकृतिसिद्धयर्थं प्रणीतं टिप्पणे स्फुटम् ।

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्द ज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ती ॥ ॐ तत्सत् ॥


१ क, ख, ग, झ. म. ट. °स्माद्यथोपा° । ३ घ. छ, ज, ट, °ते किंचितत्त° । ३ घ. . . ज, इ. °तेः । अतो मुख्यार्थे ब° । ॐ। समाप्तं कर्मकाण्डे ज्ञानकाण्डमिदानीं प्रस्तूयते । ईशा वास्यं तिस्रोऽनुष्टुभः । दध्यङङथर्वण ऋषिः स्वं शिष्यं पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्त्यनुष्ठितय- ज्ञमपापं निःस्पृह यमनियमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसनंशिक्षयन्नाह-ईशा वास्यमिददं सर्वमिति । ईश ऐश्वर्ये किपि तृतीयान्तस्यैतदूपं यदीशाऽनेन वास्यं वासनीयं ममेदमित्यनया भावनयाऽऽच्छादनीयमिदं सर्वमिति प्रत्यक्षतो निर्दिशति यत्किंच यत्किंचशब्दो भिन्नक्रमः किंच यजगत्यां पृथिव्यां जगज्जङ्गमादि स्वस्वामिसंबन्धलिङ्गिते स्यात्तेनानेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भोगान्भुञ्जीथा अनुमवेः । मा गृधः । गृधु अभिकाङ्क्षायामिति माऽभिकाङ्क्षय मा कृथा ममेदमिति । किं कारणं कस्य स्विद्धनं स्विदिति निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यर्थ इत्यभिप्रायः ।सर्वाण्ययथार्थानि हि द्व्याण्युत्पद्यन्ते । तद्यथा स्त्रियं पतिरन्यथा भुङ्क्तेऽन्यथा पुत्रोऽन्यथा प्राघूर्णकः । तथा च कटककेयूरकुण्डलादीन्यलंकरणान्यन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यः स्वस्वाभिसंबन्धो ममेदमिति बुद्धिः सा त्वविद्या । निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ।। १ ॥

निस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाहकुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानीह लोके जिजीविषेजिजीविषे.रिति पुरुषव्यत्ययः प्रत्येक्षकृतत्वान्मन्त्रस्य जीवितुमिच्छेः पथ्यहितमितभक्षणेन शतं समा इत्युपलक्षणार्थम् । एवं त्वये तवेति विभक्तिव्यत्ययः । मुक्तिरस्तीति शेषः । नान्यथेतोऽस्तीतः प्रकारादन्यथा सुक्तिर्नास्ति । एतदुक्तं भवति–यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावत्यर्थः । ननु कर्मणः फलेन भवितव्यम् । अथ कथं मुक्तेः प्राप्तिरित्येतदाशङ्कयाऽऽहने कर्म लिप्यते नरे । न हि मुक्त्यर्थकर्म क्रियमाणं नरे मनुष्ये संबध्यते मुक्तिदानेनोपक्षीणशक्तित्वात् ।तथा च बृहदारण्यकम् तमेत्तं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण


१ क, ‘वथ° । ३ क, प्राघुणिकः । ३ क. त्यक्ष कृत्वा मन्त्र” । तपसा श्रद्धया यज्ञेनानाशकेन चेति । विविदिन्ति वेदितुमिच्छन्ति ।अनेनैतद्दर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥  इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्द्यन्तेअसुर्या नाम । असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुराणां स्वभूता एवं संज्ञकास्ते लोकाः । अन्धेन तमसाऽज्ञानलक्षणेन तमसाऽऽवृताः संवृतास्ताल्लोकांस्ते जनाः प्रेत्य मृत्वाऽपि गच्छन्ति । ये के चाऽऽत्महनों जनाः । ये जना आत्मानं निघ्नन्ति ये स्वर्गप्राप्तिहेतु भूतानि हि नूनं कर्माणि कुर्वन्ति ते हि जनित्वा म्रियन्ते मृत्वा जायन्त एवं महतीं विनष्टं प्राप्नुवन्ति ॥ ३ ॥

  इदानीं यमनियमवतां मुमुसक्षू यथाभूतं परं ब्रह्म, आत्मत्वेनोपास्ये तदाह-उक्तं च-'अहं ब्रह्मास्मि संबुध्य इदं सर्वं च मन्मयम् । मयि विद्या समुद्दिष्टा विमुक्तिर्यन्निबन्धनी' इति ।अनेजदेकम् । त्रिष्टुब्यदनेजदचलत्त:त्वमस्ति एकमद्वितीयं विज्ञानघनरूपेण मनसो जवीयः । मनस्तावच्छीघे भवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् ।नचैतत्तत्वं देवा अपि प्राप्तुं शक्ताः सूक्ष्मत्वात् । पूर्वमर्शत् । रिशतिहिंसाकर्मा पूर्वं पूर्वमपि विद्यमानं सदर्शद्विशतीति रिशन्न रिशदर्शत् । धातोरिकारलो पश्छन्दसः । इकारलोपे कृतेऽर्शद्भवत्यविनश्यदास्तेऽनादिनिधनमित्यर्थः।तद्धावतस्तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतोऽन्यान्पुरुषादीनत्येत्यतिक्रम्य गच्छति तथा तिष्ठत्सर्वत्र स्थितं सर्वगतत्वं सर्वशक्तित्वमनेन व्याख्यायते । तस्मिन्नपः । यस्मिंश्चापः कर्माणि मातरिश्वा वायुद्धाति स्थापयति सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयजुषि वायौ स्थाप्यन्ते स्वाहा वातेधा इति वायुप्रतिष्ठत्वाभिधानात् । समष्टिव्यष्टिरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयति यागहोमदानानां परमं निधानमित्यर्थः ॥ ४ ॥

एवं कारणरूपमात्मानमुद्दिश्याथेदानीं कार्यरूपेणोद्दिशति-तदेजति ।अनुष्टुभस्तिस्रः । तदेव सर्वरूपेणावस्थितं सदेजति कम्पवद्भवति क्रियावद्भवति तदेव नैजति न चलति स्थावररूपावस्थितं तद्दूरे तदेव दूर आदित्यनक्षत्रादिरूपेण । तद्वन्तिके तदेव चान्तिके पृथिव्यादिरूपेण सर्वं खल्विदं ब्रह्मेत्येतदर्शनार्थी ग्रन्थः । तदन्तरस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणान्तर्मध्यत आस्ते तदु सर्वस्यास्य बाह्यतः । तदेव


१ क, °म् । इति वि°। सर्वस्यास्य प्राणिजातस्य बाह्यतो जडरूपेण व्यवस्थितमास्ते चेतनाचेतनरूपमनन्तं सर्वगतं ब्रह्मेत्यर्थः । अस्या उपासनाया अर्चिरादिचिन्तनं नास्तीति केचिदाहुरिहैव ब्रह्मप्राप्तेः ॥ ५ ॥

 यस्तु । सुशब्दो विशेषणार्थः । यः पुनः सर्वाणि भूतानि चेतनाचेत मान्यात्मन्नात्मन्येवानुपश्यति मय्येव सर्वाणि भूतान्यवस्थितानि न मद्य- तिरिक्तान्यहमेव परं ब्रह्म सर्वभूतेषु चाऽऽत्मानमवस्थितमव्यतिरिक्तं पश्यति ततो न विचिकित्सति । एवं पश्यतो योगिनो हि सर्वाणि भूतानि परब्रह्मरूपाण्यात्मसंस्थितानि भवन्ति विज्ञानघनानन्दैकवादित्यतो विचारो निवर्तते ॥ ६ ॥

 किंच-यस्मिन्सर्वाणि । यस्मिन्नवस्थाविशेषे सर्वाणि भूतानि चेतना- चेतनान्यात्मैवाभूत्समवति विजानते आत्मैवेदं सर्वम् । सर्वं खल्विदं ब्रह्म त्येवमादिवाक्यविचारणावधृतविज्ञानस्य कृतचेतसोऽवस्थाविशेषे तत्र तस्यामवस्थायां योगिनः को मोहः कः शोको न कश्चिदपीत्यभिप्रायः ।शोकमोहावपरिज्ञाततत्त्वस्य भवतो नैकत्वमनुपश्यतो ध्यायतः ॥ ७ ॥

स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्त्यशक्तिमकायं न विद्यते कायः शरीरं यस्य स तथोक्तोऽवणं कायरहितत्वादेवान्नाविरं स्नायुरहितमका- यत्वादेव शुद्धमनुपहतं सत्वरजस्तमोमिरपापविद्धं क्लेशकर्मविपाकाशयैरसंस्पृष्टमकायमव्रणमन्नाविरमिति पुनरुक्तान्यभ्यासे मूर्यासमर्थं मन्यन्त इस्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते । अथाऽऽत्मोपासनायुक्तस्य फलमाह—यश्च कविः क्रान्तदर्शनो मनीषी मेधावी परिभूः सर्वतो मविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्वह्मरूपेण मविता याथातथ्यतोऽथन्व्यदधायथास्वरूपमर्थान्विहितवान् । त्यक्तस्वस्वामिसंबन्धैरथैयेत. नाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः समाभ्योऽर्थायानन्त- वर्षप्राप्तये च कर्म कृतवान् । ननु कर्मजाड्याल्लोकः कर्मवानेव भवति । सत्यमात्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात्तस्मात्सोऽपि गच्छति शुक्रमकायं ब्रह्म ।।८।।

  इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते–अन्धं तमः । पडनुष्टुभो लोकायतिकाः प्रस्तूय निन्द्यन्ते येषामेतद्दर्शनं जलबुद्बुद्वज्जीवा मशक्तिवद्विज्ञानमित्यन्धं तमः प्रविशन्ति । ये चासंभूतिमुपासते मृतस्य सतः पुनः संभवो नास्त्यतः शरीरग्रहणावस्माकं मुक्तिरेव न हि विज्ञानारमा कश्चि: वृनुच्छित्तिधर्माऽस्ति यो यमनियमैः संबंन्ध्यते । एवं येऽध्वनिमुतते तेऽज्ञानलक्षणं तमः प्रविशन्ति । ततोऽपि भूयो : बहुंतरमिवामर्थकमन्धं तमः प्रविशन्ति । ये उ उकारः कर्मोपग्रहणार्थाय ये संभूत्यामेव रता आत्मैवास्ति नान्यत्किंचिदस्तीत्यभिप्रायः । कर्मपराङ्मुखा यत्कर्मकाण्डज्ञानकाण्डयरसंबन्ध इत्पभिप्रायः । स्वबुद्धिफल्गुतां विभावयन्त आत्मज्ञानमात्र एधे रताः ॥९॥

 । अन्यदेव फलमाहुः संभवात्संभवपरिज्ञानादन्यादाडुः फलमसंमेषादसंभवपरिज्ञानात् । इत्येवं शुश्रुम् श्रुतवन्तो वयं धीराणां वचांसि ये धीरा नोऽस्माकं तद्रूह्य विचचक्षिरे व्याख्यातवन्तः ॥ १० ॥ . संभूतिं च । समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म विनाशं च विनाशि च शरीरं यो योगी तदुभयमेव वेद जानाति सहैकीभूतं शरीरग्रहणेन ज्ञानोत्पत्तिहेतानि कर्माणि करोति स विनाशेन विनाशिना शरीरेण मृत्युं तीर्त्वासेभूस्याऽऽत्मज्ञानेन विज्ञानेनामृतमश्नुतेऽमृतत्वं प्राप्नोति ॥ ११ ॥

  अन्धं तमः प्रविशन्ति । अज्ञानलक्षणं तमः प्रविशन्ति येऽविद्या स्वर्गार्थानि कर्माण्युपासतेऽनुतिष्ठन्ति ततोऽपि ते भूय इव बहुतरं तमःप्रविशन्ति । ये पुनर्विद्यायामेव रता आत्मज्ञान एवं त्यक्तकर्माणोरताः ॥ १२॥

 । अन्यदेव । अन्यदेव फलमाहुर्विद्याया आत्मज्ञानादन्यञ्चाऽऽहुरवि- थायाः कर्मण इति व्याख्यातम् ।। १३ ॥ • विद्यां च । आत्मज्ञानं चाविद्यां कर्म च यस्तदुमयं वेद जानाति है- कीभूत कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमथ कर्मकाण्डं ज्ञानकाण्ड चैकीकृत्याविद्यया कर्मकाण्डेन मृत्युं तीर्वोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥ १४ ॥

  इदानमित्थं कृतबह्मोपासनस्य योगिनः शरीरपातोसरकाले यद्भवति सेवाह-वापुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पश्च जीवात्मैक एवं सप्तदशकलिङ्गोपलक्षणार्थं वायुः प्राणोऽनिलं स्वकीय प्रकृतिमापद्यतेऽमृतं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूल- शरीर कीदृशं तदा भवति भस्मैव भवति कृतप्रयोजनकत्वात् । इदानीं योगिन आलम्बनभूतमक्षरं कथ्यते-ॐ नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर। योऽग्निर्बह्मचर्या-


१ क. °च्छिमध° । अन्य परिवरितः स मैनःश्वासरूपेणावस्थितः संबोध्यते । हे क्रतो भी स्मरेदानीसुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । क्रतुर्वा पर्श संबोध्यते । क्रतो स्मर क्लिबे लोकाय स्मर क्लप्ताय् लोकाय स्मर कृतं स्मर ममा यत्कृतं तत्स्मर ॥ १५ ॥

असे नय । हेऽसे नय सुपथा देवयानेन मार्गेण राधे मुक्तिलक्षणाच धनायास्मान्विश्वानि सर्वाणि देव दानादिगुणयुक्त वयुनानि प्रज्ञामानि विद्वाञ्चानानो सुयोधि पृथक्कुरु च प्रतिबन्धकमेनः । यतो बहुतरो तव नमस्कारोक्तिं कूर्मा व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥

 इदानीमादित्योपासनमहि-हिरण्मयेन पात्रेण । यद्यपि हिरण्मय- रुपेण पात्रेण पिबन्त्यस्मिन्नवस्थितन्त्रसाश्मय इति पानं मण्यात मण्डलेन सस्यस्याविनाशिनः पुरुषस्थापिहितमन्तर्हितं मुखें शरीर तथाऽपियोऽसावादिये पुरुषो योगिभिरुपलभ्यते सोऽसावहमस्मि ।इव चोप-सन कुर्यात् । ॐ वं ब्रह्म । ओमिति नामनिर्देशः । समिति पनिवैशः । आकाशरूपं ब्रह्म ध्यायेत् । आत्मत्वेने मनोभूरचेतन जाकाशचेतमस्त्वारमा तयषा विज्ञानघनानन्दं ब्रह्म तत्राऽऽनन्दप्रतिषाकं वाक्यतथा से यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रम्याथ थे शत प्रजा-पतिलोक आनन्दाः स एको ब्रह्मलोक आनन्छ इस्यम्तम् । तथा. सर्वनियम्य दर्शयति--एतस्य वा अक्षरस्य प्रशासने गार्गस्पिन्नम्।द्यावापृथिवी विधृते तिष्ठते इति । तथा सर्वज्ञत्वं दर्शयति-तद्यथाएतदक्षरं गाग्र्यद्दष्टं द्वष्ट्रित्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः भूयनो सत्यसंकल्पः सत्यभूतिरित्यादयः । एवं तर्हि एतद्वै तदक्षर गागि यस्मि-भाकाश ओतश्च प्रोतश्चेति सामान्यायाकाशशब्देनैवैतदूपं मामिहितं स्यादित्ययमेव ब्रह्मधिस्सिद्धान्तः ॥ १७ ।। {{bold|इति श्रीमदमट्टोपाध्याघारमगसकलनिगमविचूडामणिश्री- दुवटमार्यविरचिते थीयजुर्वेदस्य वाजसनेयपश्चदशमेदा- बान्तरमाध्यदिनशातासंहितामार्थप्रकाशमाष्ये चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥

समाप्तमिदमुवटार्यमाष्यम् ॥


  • लावोत वा ।

१. मनसि वासनारूणावस्थितिः सं° । ।क, “वं सुषिरं ।। ६. ५ सपुर । पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/३८ ॐ येनाऽऽत्मना परेणेशा व्याप्त विश्वं चराचरम् । सत्यज्ञानस्वरूपेण तदेवाहं सदात्मकम् ॥ १ ॥

ईशावास्यादयो मन्त्रा न कर्मप्रतिपादकाः ।। अखण्डैकरसे शुद्धे ब्रह्मण्येव समन्विताः ॥२॥

कर्मसंबोधका वेदा न च ते ब्रह्मबोधकाः ।। इति मीमांसकाः प्राहुस्तन्न सत्य कथंचन ॥ ३ ॥

अकर्मशेषमात्मानं निर्गुणं प्रकृतेः परम् । अशरीरं सदा मुक्तं नित्यं शुद्धस्वभावकम् ॥ ४ ॥

सत्यं ज्ञानमनन्तं च निष्कलं निष्क्रिय ध्रुवम् ।। बोधयन्ति यतः सत्यं सर्वे वेदाः षडङ्गकाः ॥ ५ ॥

अत एव हि ते मन्त्रा ब्रह्मतत्वप्रबोधकाः । ईशा ईशेन संव्याप्तं त्रैलोक्यं सचराचरम् ॥ ६ ॥

वासितं भुवनं सर्वं सत्यमेवं श्रुतिर्जगी । यत्किंचित्सर्वमेवेदं जगत्यामुपलक्षणम् ॥ ७ ॥

जगद्वह्मैव परमं ब्रह्मैवेदमिति श्रुतेः । यस्माद्ब्रह्मात्मकं सर्वं तस्मात्यक्तेन सर्वदा ॥ ८॥

पालयेथाः स्वमात्मानं स्वस्वरूप निरञ्जनम् ।। त्यागशब्देन चाप्यत्र संन्यासः परिकीर्तितः ॥ ९ ॥

संन्यस्य सर्वकर्माणि बल्लेवास्मीति भावयन् । क्षणीयः स्वयं चाऽऽत्मा संसारादज्ञकल्पितात् ॥ १० ॥

आत्मैवेदं जगत्सर्वं धनं नैवास्ति कस्यचित् । गृधिं वै धनविषय मा कार्षीस्त्वं कथंचन ॥ ११ ॥

स्विदित्यनर्थको वाऽत्र चाऽऽक्षेपो वा भविष्यति । आत्ममिन्नं परं स्वं किं कस्यचिद्विद्यते धनम् ॥ १२ ॥

सुगन्धचन्दनेनैव दुर्गन्धछाद्यते यथा । नामरूपात्मक विश्वमात्मनाऽऽच्छादित तथा ॥ १३ ॥

तस्मादात्मैव द्रष्टव्यः श्रोतव्यः सर्वदैव हि ।

इत्येष एव वेदार्थः प्रथमो वै निरूपितः ॥ १४ ॥

॥ इत्येको मन्त्री व्याख्यातः ॥


सर्वकर्माणि संन्यस्य मन्तव्यः परमेश्वरः । सदशक्तस्य कर्माणि कर्तव्यानि श्रुतिर्जगौ ॥ १॥ अग्निहोत्रादिकर्माणि व्यवहारान्सद नरः ।। कुर्वञ्जीवितुमिच्छेद्वै शतं संवत्सरान्स्वयम् ॥ २ ॥ तावद्धि पुरुषस्याऽऽयुः शतायुरिति च श्रुतेः । एवंप्रकारे तु व्वयि नरमात्राभिमानिनि ॥ ३ ॥ प्रकारान्तरं नैवास्ति ने कर्म लिप्यते था। ईश्वरार्पणबुद्धया तु कर्म कुर्वन्न लिप्यते ॥ ४ ॥ प्रसीदति परो ह्यारमा शुद्धान्तःकरणे स्वयम् ।। इति द्वितीयमन्त्रार्थः सम्यगेव निरूपितः ।।५।।

॥ इति द्वितीय मन्त्रो व्याख्यातः ॥

अविवेकातु संसारो विवेकानैव विद्यते । अविवेकनिवृत्यर्थ मन्त्रोऽयं संप्रवर्तते ॥ १ ॥ आत्मज्ञानमुपेक्ष्याथ देवा ये भोगलम्पटाः । असुरा एव ते ज्ञेया आत्मधर्मबहिष्कृताः ॥ २॥ येऽन्यथा सन्तमात्मानमकर्तारं स्वयंप्रभम् । कर्ता मोक्तेति मन्यन्तै त एवाऽऽत्महनो जनाः ॥ ३॥ स्वात्मनः स्वस्वरूपस्य तिरस्करणहेतुतः ।। अदर्शनात्मकेनैव चान्धेन तमसाऽऽवृताः ॥ ४ ॥ प्रेत्य देहं परित्यज्य संसरन्ति पुनः पुनः । ये के च परमात्मानं न जानन्ति परात्परम् ॥ ५ ॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन, न कृतं पापं चौरेणाऽऽत्मापहारिणी ॥ ६ ॥ इति वाक्यं श्रुतिः शास्ति सत्यमेतन्न संशयः । अपि गच्छन्ति पाठे तु ज्ञानाभावे न चान्यथा ॥ ७ ॥ तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् । स्वात्मानं परमं ज्ञात्वा मुच्यते जन्मबन्धनात् ।। ८ ।।

॥इति तृतीयो मन्त्रो व्याख्यातः ॥ कीदृशं तत्परं तत्त्वं पूर्वमन्त्रेण कीर्तितम् । तदर्थप्रतिपत्यर्थं चतुर्थोऽयं प्रवर्तते ॥ १ ॥ अमेजत्परमं तत्वं स्वतश्चलनवर्जितम् । एजू कम्पन इति च धात्वर्थोऽपि तथाविधः ॥२॥ अचलं सत्परं ब्रह्म नित्यमुक्तस्वमायकम्। ' एकमेवाद्वितीयं च सत्यज्ञानस्वरूपकम् ॥ ३॥ संकल्पलक्षणाञ्चास्मान्मनसो वेगवत्तरम्। मैनत्तत्वं प्राप्तवन्तो देवा ये सक्षुरादयः ॥ ५ ॥ पूर्वमेव हि संव्याप्त व्योमवभिर्मलं परम् । तद्धावतोऽन्यान्वेगेन सर्वान्च्यायैव तिष्ठति ॥ ५॥ तस्मिस्तिष्ठति पूर्णेऽस्मिन्परे ब्रह्मणि केवले । अपः कर्माणि सर्वाणि मातरिश्वा दधाति च ॥ ६ ॥ अन्तरिक्ष स्वयं याति सूत्रात्मा पवनः स्वयम् । कर्म चैतत्फलं चैव धारयत्येव सर्वदा ॥ ७ ॥ इति संक्षेपतो मम्वश्चतुर्थोऽपि समापितः ।। प्रसीदतु परो देवः सर्वभूतगुहाशयः ॥ ८॥

॥इति चतुर्थो मम्रो व्याख्यातः ॥

म मन्त्राणां जामितादिदोषः कश्चन वियते । उक्तमेव वदत्यर्थं ब्रह्मतत्वप्रकाशकम् ॥ १ ॥ दुर्विज्ञेयं परं ब्रह्म सत्यज्ञानमनन्तकम् । निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनम् ॥ २॥ अमृतस्य पर सेतुं दुग्धेन्धनमिवानलम् ।। इति वाक्यं यतः शास्ति ब्रह्म सत्यं पुनातु माम् ॥ ३ ॥ तदेजति पर बम ब्रह्मविष्णुशिवात्मकम् ।। साकारं मायया माति निराकारं तु वास्तवम् ॥ ४ ॥ उपाधिचलनेनैव चलनं तु विमाव्यते । तन्नैजति परं ब्रह्म निर्गुणं प्रकृतेः पस्म् ॥५॥ तञ्च दूरे परं ब्रह्म सर्वदेवाविवेकिनाम् । अप्राप्यत्वात्परं ब्रह्म वर्षकोटिशतैरपि ॥ ६ ॥ तदेव ह्यन्तिके ब्रह्म स्वात्मरूपं विवेकिनाम् । तद्वाह्याभ्यन्तरे ब्रह्म कार्यकारणवस्तुनः ॥ ७ ॥


१ ग, क्षे श्वसतीति । १ ख, स्वपित्तीति । ३ घ, भिकर्ष नि। वैश्वातीतं परं ब्रह्म विश्वस्याभ्यन्तरे स्थितम् । गरुप सर्वगं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ ८॥ इति पञ्चमन्त्रोऽयं समासेन निरूपितः । मायातीतं परं शुद्धं रहस्यं च प्रकीर्तितम् ॥ ९ ॥

इति पञ्चमो मन्त्रो व्याख्यातः ॥

तद्बह्म परमं शुद्धं कर्मणा नैव लभ्यते । कर्मत्यागी परं ब्रह्म प्राप्य सम्यक्पमुच्यते ॥ १ ॥ कर्मणा लभ्यते ब्रह्म ज्ञानानैव तदाप्यते । इति मीमांसकाः प्राहुस्तेषां पक्षो निरस्यते ॥ २ ॥ यस्तु सर्वाणि भूतानि परिव्रास्वयमेव हि । तानि सर्वाणि भूतानि स्वस्मिन्नेव प्रपश्यति ॥ ३ ॥ सर्वभूतेषु चाऽऽत्मानं सर्वभूतगुहाशयम् । तस्मादेव तु विज्ञानान्न चैव विचिकित्सति ॥ ४ ॥ स्वस्वरूपपरिज्ञानात्संदेहं न करोत्ययम् । माध्यंदिनस्य पाठे तु व्याख्याने परिकीर्तितम् ॥ ५ ॥ घृणा या जुगुप्सा वा जायते भेददर्शिनः ।। न तु निर्भेदमद्वैतमात्मैकत्वं प्रपश्यतः ॥ ६ ॥ इति षष्ठोऽपि मन्त्रोऽयं समासेन मयोदितः । अनेन प्रीयतां देवः सर्वभूतगुहाशयः ॥ ७ ॥

॥ इति षष्ठो मन्त्रों व्याख्यातः ।।

परिवाडेव तद्वेत्ति स्वात्मानं प्रकृतेः परम् । इति प्रदर्शनार्थं तु सप्तमोऽयं प्रवर्तते ॥ १ ॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम् ।। इति शङ्कानिवृत्त्यर्थं तुशब्दोऽयं प्रवर्तते ॥ २॥ यस्मिन्बह्मस्वरूपे तु निर्विकल्पे परेऽव्यये ।। सवण्यात्मैव संवृत्तं ब्रह्मतत्त्वं विजानतः ॥ ३ ॥ ब्रह्मैव सकलं विश्वमहमस्मीति तत्पदम् । पद्यते गम्यते नित्यं स्वस्वरूप स्वयंप्रभम् ॥ ४ ॥ शोकमोहादिसंबन्धस्तस्मिन्नैव तु विद्यते । अप्राणों ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ५ ॥

- -- -- - - -- --


१ ग. °र्मठेर्न च छ । अविद्याकार्यनिर्मुक्ते संविटूपे परात्मनि । शोकमोहादिसंबन्धः कथं ब्रह्मणि माध्यते ॥ ६ ॥ इत्ययं सप्तमो मन्त्रः स्वरुपप्रतिपादकः ।। सोऽहमस्मि स एवाहं बल्लेवास्मीति वाक्यतः ॥ ७ ॥ ॥ इति सप्तमो मन्त्रो व्याख्यातः ॥ ब्रहोऽऽत्मा सकलं विश्वं तस्मिन्विश्वं प्रतिष्ठितम् । जीवाज्ञानवशादेव चाष्टमोऽयं प्रवर्तते ॥ १ ॥ आत्मानं सर्वगं शुद्धं निरूपयितुमच्जासा ।। अप्रोति सकलं कार्यं तस्मादात्मेति गीयते ॥ २॥ स पर्यगात्परो ह्यात्मा सर्वं व्याप्य व्यवस्थितः । यञ्च किंचिजगत्सर्वं दृश्यते श्रूयतेऽपि वा ॥ ३ ॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।। इति मन्त्रों यतः शास्ति तस्माद्भेदों न विद्यते ॥ ४ ॥ निर्विभागः स्वयंज्योतिरात्मैव सकलं जगत् । शुक्लज्योतिःस्वभावोऽयं नित्यचिन्मात्रविग्रहः ॥ ५ ॥ लिङ्गदेहविनिर्मुक्तः सर्वभूतगुहाशयः । एकीभूतः स्वयं चाऽऽत्मा सर्वं व्याप्य प्रतिष्ठितः ॥ ६ ॥ तमात्मानं परं शान्तं देहत्रयविवर्जितम् । निरिन्द्रियं परं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ७ ॥ मायापाशविनिर्मुक्तं धर्माधर्मविवर्जितम् ।। मनसोऽपि नियन्तारं सर्वसाक्षिणमव्ययम् ॥८॥ उपर्युपरि सर्वेषां भवितारं स्वयंभुवम् ।। विभुं सर्वात्मकं ज्ञात्वा मुक्त एव भवत्यस ॥ ९ ॥ अथ वा स परी देवः सर्वव्यापी निरञ्जनः ।।

र्वगः सकलं व्याप्य स्वयमेव व्यवस्थितः ॥ १० ॥ व्यवहारेऽपि शुद्धोऽसौ वृहद्वयविवर्जितः ।।

बीजधर्मविनिर्मुक्तो नियन्ता सर्वदेहिनाम् ॥ ११ ॥ परिमषति कार्याणि परिभूः स्वयमेव हि ।

स्वातन्त्र्येण भवतीति स्वयंभूः पारविश्वदृछू ॥ १२ ॥


। , १ . °स्मस । १ क, ग, शुकं ज्य° ।}} ग्राथतिथ्यत एवायं कर्तव्यार्थान्स्वयं प्रभुः । शीवतीभ्यः समाभ्यश्च प्रजापतिभ्य एव हि ॥ १३ ।। प्रजाभ्यश्च विभज्यैव दत्तवान्परमेश्वरः । तदेवं परमात्मानं नित्यमुक्तस्वभावकम् ॥ १४ ॥ सोऽहमस्मीति विज्ञाय मुक्त एव भवत्ययम् । इत्येवमष्टमो मन्त्रः सम्यगर्थनिरूपकः ॥ १५ ॥ समाप्तः सर्वगो ह्यात्मा नित्यं सर्वस्वभावकः । सोऽहमस्मीति विज्ञाय मुच्यते सर्वतोमयात् ॥ १६ ॥

॥ इत्यष्टमो मन्त्रो व्याख्यातः ॥

संन्यस्य सर्वकर्माणि ज्ञातव्यः परमेश्वरः । इति प्रथमो वेदार्थः सम्यगेव प्रदर्शितः ॥ १ ॥ अग्निहोत्रादिकर्माणि तवशक्तेने सर्वदा । कर्तव्यानि द्वितीयोऽपि वेदार्थोऽयं प्रदर्शितः ॥ २ ॥ विरोधं दर्शयित्वा तु तयोरेध हि मन्त्रयोः । बृहदारण्यके शास्त्रे व्यवहारोऽपि दर्शितः ॥ ३ ॥ कामुकस्य तु संसारो निष्कामस्य परा गतिः । इति प्रचुर्शनार्थस्तु नवमोऽयं प्रथर्तते ॥ ४ ॥ अन्धं मूढे तमो यान्ति ये मयि समुपासते । विरक्ता अपि संसारा नैष्काम्यं वै विदुर्नराः ॥ ५ ॥ असंभूसिववसाऽत्र मायातत्वं प्रकथ्यते ।। मायातत्वातु संसारो जायते सर्वदेहिमाम् ॥ ६ ॥ मूयः पुनस्तमो यान्ति संभूत्यां ये रती नराः । संमवनं च संभूतिर्लिङ्ग सप्तदशात्मकम् ॥ ७ ॥ मायावीजस्य कार्य तत्सूत्रात्मानं प्रचक्षते ।। कार्यकारणमिमुक्त ज्ञात्वाऽऽरमानं विमुच्यते ॥ ८॥ नवमोऽपि समाप्तोऽयं संक्षेपार्थप्रदर्शकः । समुच्चयचिकीर्षार्थ दशमोऽपि प्रवर्तते ॥ ९ ॥

इति नवमो मन्त्रो व्याख्यातः ॥

संभवादन्यदेबाऽऽहुः फल कार्यस्य चिन्तनात् । कारणाद्वीजरुपस्य चिन्तनादन्यदेव हि ॥ १ ॥ इत्याहुर्वेदविद्वांसः फलभेदं विपक्षः । श्रुतवन्तो वयं पूर्वमाचार्याणां महात्मनाम् ॥ २ ॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवस्तत्त्वदर्शिनः ।... तेषामेव हि तद्वाक्य फलभेदप्रदर्शकम् ॥ ३॥ मतिभेदात्तु भेदोऽयं दर्शितो न तु वस्तुतः । धीराणां परमं वाक्यं ब्रह्मतत्त्वप्रदर्शकम् ॥ ४ ॥ सत्यं ज्ञानमनन्तं च ब्रहौव परमं ध्रुवम् । इत्थं दशममन्त्रोऽपि समासेन समाषेतः ॥ ५ ॥

  इति दशमो मन्त्रो व्याख्यासः ॥

संभूतिं कार्यरूपं च विनाशं कारणात्मकम् । एकादशोऽपि मन्त्रोऽयं तयोरेकत्वदर्शकः ॥ १ ॥ कार्यकारणयोरैक्यं यो वेद सततं नरः ।। विनाशेन मृत्यु तीर्त्वा संभूत्याऽमृतमश्नुते ॥ २ ॥ यस्मिन्विनश्यति कार्यं विनाशं कारणं परम् । मायाबीजं च तत्प्रोक्तं चैतन्यकवलीकृतम् ।। ३ ॥ तयोपासनया मृत्युं तीर्त्वा स्वाभाविकं तमः ।। हिरण्यगर्भोपासनया संभूत्या मुच्यते बुधः ॥ ४ ॥ आत्मविद्यावधिः सोऽथ परं कारणमुच्यते । साक्षी चेता जगद्वीजमन्तर्यामीति च श्रुतौ ॥ ५ ॥ कार्यकारणरूपं च ब्रह्मेव केवलं शिवम् ।। कार्यकारणनिर्मुक्तं परं ज्ञात्वा विमुच्यते ॥ ६ ॥ इत्येकादशमन्त्रोऽपि समाप्तस्तत्त्वबोधकः । ब्रह्मैव परमं शुद्धं बझैवाहं सदद्वयम् ॥७॥

| ॥ इत्येकाश मन्त्रो व्याख्यातः ॥

कर्मणा बध्यते जन्तुविद्यया च विमुच्यते । इति प्रदर्शनार्थे तु द्वादशोऽयं प्रवर्तते ॥ १ ॥ अन्धं मूढे तमो यान्ति केवलं कर्मचिन्तकाः । देवतोपासका ये च तेऽपि यान्ति पुनस्तमः ॥ २ ॥ एकैकोपासनां भिन्नां निन्दयित्वा पुनः पुनः ।। एकेनैव द्वयं सेव्यं श्रुतिराह पुनः स्वयम् ॥ ३ ॥


१ ख, सदाऽ६°। इति द्वादशमन्त्रोऽपि समासार्थप्रदर्शकः । समापितः स्वयं शुद्ध ब्रहौबाहं सदद्वयम् ॥ ४ ॥

॥ इति द्वादशो मन्त्रो व्याख्यातेः ॥

एकत्वं तु न चैवास्ति रविशार्वरयोरिव ।। पृथगेव दर्शयितुं कर्मविज्ञानजं फलम् ॥ १ ॥

त्रयोदशोऽपि मन्त्रोऽयं स्वयमेव प्रवर्तते । विद्याया अन्यदेवाऽऽहुः पृथगेव फलं बुधाः ।।२।।

अविद्याया अन्यदाहुरग्निहोत्रादिकर्मणः ।। श्रुतवन्तो वयं वाक्यं धीराणां तत्त्वदर्शिनाम् ॥ ३ ॥

व्याख्यातवन्तो येऽस्मभ्यं गुरवो ब्रह्मतत्पराः । तेषां वाक्यं ब्रह्मतत्त्वबोधकं परमं ध्रुवम् ॥ ४ ॥

इति त्रयोदशो मन्त्रः पृथगर्थप्रदर्शकः । बोधको ब्रह्मतत्त्वस्य समासेन निरूपितः ॥ ५ ॥

॥ इति त्रयोदशो मन्त्रो व्याख्यातः ॥

पृथक्फलं विद्यते चेदग्निहोत्रादिकर्मणाम् । उपासनफलं चैव कथं वा क्रियते तदा ॥ १ ॥

प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । फलं सम्यक्प्रवक्तव्यं कैवल्यप्रतिपत्तये ॥ २ ॥

अग्निहोत्रं च विद्यां च देवतोपासनं परम् ।. एकीकृत्य चिन्तितं चेत्कैवल्यं लभते पदम् ॥ ३ ॥

पद्यते गम्यते चेति स्वस्वरूपं निरञ्जनम् । द्विविधं तत्परं ब्रह्म सगुणं निर्गुणात्मकम् ॥ ४ ॥

निर्गुणं वास्तवं ब्रह्म सगुणं परिकल्पितम् ।। कर्म विद्यां चैकीकृत्य यस्तद्वेदोमयं बुधः ॥ ५॥

मृत्युं तीत्व कर्मणा तु विद्ययाऽमृतमश्नुते । हिरण्यगर्ममात्मानं ब्रह्मलोकनिवासिनम् ॥ ६ ॥

तं प्राप्य तेन सार्धं तु परं ब्रह्माधिगच्छति । इत्थं चतुर्दशो मन्त्रः संक्षेपेण निरूपितः ॥ ७ ॥

॥ इति चतुर्दश मन्त्रो व्याख्यातः ॥ उपासकफलं वक्तुं मन्त्रः पञ्चदशः स्वयम् । शाश्वतं कार्यरूपं च कृपया तत्परं पुनः ॥ १ ॥

तत्रैवोपासकः साक्षाद्वायुं प्रार्थयते स्वयम् ।। सूत्रात्मानं पर विव्यमम्रुतं शिवमव्ययम् ॥ २॥

प्राणो गच्छतु मे शीघ्र लयं गच्छतु निश्चलम् । शाश्वतं शिवमव्यक्तं ब्रह्मैवाह सनातनम् ॥ ३ ॥

अथेदानीं शरीर में मस्मी भवतु वै धुवम् ।। अमृतात्मस्वरूपस्य ब्रहीभुतस्य केवलम् ॥ ४ ॥

क्रतो स्मर निर्बीजाय कृतं कर्म शुभाशुभम् ।। द्विरावृत्तिरादरार्थी क्रतो संकल्प हे स्मर ॥ ५ ॥

कृतमुपासनं कर्म फलं दातुं च शाश्वतम् । सत्यं तत्परमं ब्रह्म नित्यमव्ययमेत्ययम् । इति पञ्चदशो मन्त्रः समाप्तः स्वार्थसाधकः ॥ ६ ॥

॥ इति पञ्चदशो मन्त्रो व्याख्यातः ।।

उपासकेन गन्तव्यं केन मार्गेण सांप्रतम् । इति प्रदर्शनार्थं तु षोडशोऽयं प्रवर्तते ॥ १ ॥

मन्त्रो मार्ग दर्शयितुं ब्रह्मलोकगतिं प्रति ।। अग्ने प्रकाशरूपोऽसि शोभनेन पथा नय ॥२॥

प्रापयास्मान्महामार्ग ब्रह्मलोकमनामयम् । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ।। ३ ।।


विद्वाञ्जानासि सर्वज्ञ प्रसीद वरदो भव । वियोजय जुहुराणं कौटिल्यं पातकं मम ॥ ४ ॥

अन्तकाले चरीकर्तुमशक्तास्ते परेश्वर ।। नमउकिं विधेम त्वं प्रसीद परमेश्वर ॥ ५ ॥

पोडशोऽपि च मन्त्रोऽयं संक्षेपेण समापितः । निष्कलं ब्रह्म परमं तदेवाहं सदोमिति ॥ ६ ॥

॥ इति षोडशो मन्त्रो व्याख्यातः ॥ द्वारं विना कथं गन्तुं शक्यते ब्रह्म तत्परम् ।। सत्यलोकस्य चाऽऽत्मानं सूत्रभूतं सनातनम् ॥ १॥


१ ग, सनफ°। तत्प्राप्तिसाधनद्वारं मन्त्रः सप्तदश स्वयम् । प्रवर्तते प्रार्थयितुमादित्यं सर्वरूपकम् ॥ २॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणो मुखम् ।। तीक्ष्णेन ज्योतिषा व्याप्तं गन्तुं नैव तु शक्यते ॥ ३ ॥ रश्मिजालं निराकृत्य द्वारं मे देहि भास्कर ।। सत्यलोकस्य सत्याख्यं ब्रह्म गन्तुं च मे प्रभो ॥ ४ ॥ भृत्यवत्त्वां नैव याचे स्वरूपोऽहं तवाच्युत । अहं ब्रह्मैव परमं भवान्ब्रह्मैव केवलम् ॥ ५ ॥ आवयोरेकता नित्यं सत्यमेतद्ववीम्यहम् ।। पूर्णत्वात्पुरुषश्चार्य योऽसावादित्यमण्डले ॥ ६ ॥ देहेन्द्रियधियां साक्षी सोऽसावहमिति स्वयम् ।। ब्रह्म वै परमं शुद्धं ब्रह्मैवाहं सदद्वयम् ॥ ७ ॥ संपूर्णा निखिलस्यास्य कार्यकारणवस्तुनः ।। पुरुषोऽयं भवेदात्मा पूर्णत्वाद्योऽद्वयात्मकः ॥ ८॥ इति वाक्यं यतः शास्ति सत्यं बल्लेव केवलम् ।। ब्रह्म सत्यं परं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ ९ ॥ इति सप्तदशा मन्त्रः समासेन निरूपितः ।। सत्यस्य परमं सत्यं ब्रह्म सत्यं च पातु माम् ॥ १० ॥ ईशावास्यरहस्यं तु ब्रह्मानन्दविनिर्मितम् ।। ब्रह्मानन्दमयं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥ ११ ॥ बत्मैव सत्यं परमं विशुद्धं सर्वान्तरस्थं सदसद्विहीनम् । निरञ्जनं निष्कलमद्वितीयं तदेव चाहं सततं विमुक्तः ॥ १२॥

॥ इति सप्तदशो मन्त्रो व्याख्यातः ॥

ईशावास्यरहस्यं च शुकृतीर्थोत्तमे शुभे । रामानन्दसरस्वत्या लिखितं स्वात्मलुब्धये ॥

इति श्रीब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समाप्तम् ॥ ॐ ईशावास्यायो मन्त्रा विनियुक्त न कर्मणि । प्रमाणाभावतस्तेषां कुर्वे व्याख्यामकर्मगाम् ॥ १ ॥

ईशा ईष्ट इतीट् ईश्वर आनन्दात्मा तेन वास्यमाच्छादनीयं निवास- योग्यं वेदं विविधप्रत्ययगम्यं सर्वं निखिलम् । सर्वशब्दार्थमाह-यस्कियत्किंचिद्भूतभौतिकं जगत्यां ब्रह्माण्डकटाहभूमौ जगचेतनात्मकमीश्वरएवेदमिति बुद्धिः करणीयेत्यर्थः । तद्बुद्ध्युत्पादे साधनमाह-तेनजगता त्यक्तेन तद्बुद्ध्या गृहीतेन भुञ्जीथा ईश्वरतत्त्वसाक्षात्कारल-क्षणं मोजनं कुर्याः । जगद्बुद्धेरनुत्पादे सर्वसङ्गपरित्यागलक्षणमुपाय-माह-मा गृधः, माऽभिलाषं कार्षीः । अभिलापों हि विषयघटितोविषयाश्चानेके तेषामन्यतमपरित्याग उपायों मा भूदित्येतदर्थमाह-कः स्विल्लोकद्वयस्यापि तत्र हेतुर्धनमभिलाषस्य विषयो यः कश्चन धर्मोऽपि धनरूपः । धनं च हिरण्यादिकं सर्वक्लेशबीजं प्रसिद्धम् !! १ ॥

अस्त्वमुमुक्षुर्धनाभिलाषी नास्य त्यागेऽधिकार इति तं प्रति सकरुणामातेव श्रुतिराह-कुर्वन्नेवेति । स्पष्टम् ।इहास्मिन्कर्माधिकारे लोकेकर्माणि नित्यान्यग्निहोत्रादीन्यन्यानि च जिजीविषेज्जीवितुमिच्छेच्छतंसमाः । धने वैराग्यामाबे यावदायुः शतसंवत्सरं न्यूनमधिकं वा ।कर्मणां करणे कारणमाह-एवं शतसंवत्सरं यथोक्तकर्मानुष्ठानवतित्वय्यधिकारिणि वर्तमाने धनविषयेऽपि वैराग्यं मविष्यतीति शेपः । ननुयथा मुमुक्षोः कर्मपरित्यागेनैव पुरुषार्थसिद्धिस्तथाऽन्यस्यापि स्यादि- त्यत आह–नान्यथेतोऽस्ति । इतः स्ववर्णाश्रमोचितयथोक्तानुष्ठाना- न्यप्रकारेण मुमुक्षोरिव पुरुषार्थो नास्ति । नानुतिष्ठामि विपरीतेनानुति-छामीत्यभ्यासेन प्रसभमुपचीयमानदुरितत्वात्तदनुष्ठाने च तन्न भवती-त्याह-न कर्म विपरीतानुष्ठानरूपं लिप्यते ने संबध्यते । कस्मिन्नरे यथो-ककर्मानुष्ठानवति त्रैवर्णिकेऽधिकारिणि त्वयि । सूत्रभूतावेतौ मन्त्री।शिष्टमेतयोरेव व्याख्यानम् ॥ २॥

  मा गृध इत्यादेव्यख्यानमनेन मन्त्रेण धनाभिलाषवतां कटसंसार- प्राप्तिरुच्यते-असुर्या नामासुरसंबन्धिनः प्रसिद्धास्ते धनाभिलाषतामा-


१ ग. मैगाम् । त्मज्ञानशून्यान ये श्ववसूकरादिदेहरूपास्ते लोकाः कर्मफलरूपा देहविशेपा अन्धेन तमसा क्लेशचतुष्टयानुविद्धेन पञ्चमेनान्धतामिस्रणाहंममामिनिवेशरूपेणाऽऽवृताः संवृताः । तानुक्ताँल्लोकांस्ते धनाभिलाषेणेश्वरज्ञानगुन्याः प्रेत्येदमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः प्राप्नुवन्ति । तच्छब्दार्थमाह-ये के चाऽऽत्महन आत्मानमीशं सर्वतः परिपूर्णं चिदानन्दं परेण धनरूपेण घ्नन्ति तिरस्कुर्वन्ति ये त आत्महन इदं सर्वमहमेवेति ज्ञानशून्या इत्यर्थः । जनाः संसारचक्रे पुनः पुनः प्रादुर्भाववन्तः ॥ ३ ॥

  ईद्शब्दार्थमाह-अनेजत् । कम्पनमकुर्वदनेन वायुप्राणौ निराकृतौ ।एकं देहादिभेदेन मेद्शून्यम् । इदमित्थं चेत्स्यान्मनसा प्राप्यमित्यत आह-मनसो जवीयो मनसोऽपि वेगवत्तरम् । मनसा साक्षादनाप्यानामपि रूपादीनां चक्षुरादिमिराप्यत्वदर्शनादिदमपि तथाऽस्त्वित्यत आहनैनदिति । नैनदीश्वरस्वरूपं देवाश्चक्षुरादय आप्नुवन्नधिगतवन्तो मनसे- न्द्रियैश्चानाप्यत्वेन । परिच्छेदशङ्क प्राप्त वारयति-पूर्वं प्रथममर्शदुतवत्सर्वतो गतमित्यर्थः । सर्वतोगतत्वे हेतुः–तदीश्वरस्वरूपं धावतो गतिं कुर्वतोऽन्यान्कालवाय्वादीनत्येत्यतीत्य गच्छति । तर्सेष्वेव किंचिदतिवे-गवदित्यत आह-तिष्ठद्गतिमकुर्वत् । इदानीमसाधारणलक्षणभाह-तस्मि-न्सर्वगत एकस्मिन्मनसेन्द्रियैश्चाप्राप्ये सर्वाधिक गतिशून्ये निश्चलेऽपःकमण्यध्यात्माद्याश्रयाणि शरीरारम्मादिकारणानि मातरिश्वा मातर्या-काशेऽव्याकृते स्वसिति सत्तां प्राप्नोति सूत्रात्मा स जीवसंघो यः समातरिश्वा प्रथमं कार्यं ज्ञानक्रियाशक्तिरित्यर्थः । दधाति विधारयतिसूत्रात्मजनकत्वेन जगत्कारणं भवतीत्यर्थः ॥ ४ ॥

 एवं मूर्तमूर्तविलक्षणमीशशब्दार्थमुक्त्वा प्रथमपदार्थमाह—तदीश-स्वरूपमेजति मूर्तरूपेण कम्पते तदीश्वरस्वरूप नैजति नैजत्याकाशादिरूपेण तदीशस्वरूपं दूर एकस्य मूर्तस्यापेक्षया मूर्तान्तरेण रूपेणतद् ईश्वरस्वरूपमेवान्तिके सर्वस्यापि समीपे । तदीश्वरस्वरूपमन्तर्म-ध्येऽस्य जगतः सर्वस्य निखिलस्य तदु सर्वस्यास्य व्याख्यातं बाह्यतोबहिरपि ॥ ५ ॥

 तृतीयपदार्थमाह-यस्तु । तुशब्दोजगद्दृष्टिनिवारणार्थः। यो विरक्तो मुमुक्षुः सर्वाणि भूतानि स्पष्टम् । आत्मन्येवास्मिन्नीशस्वरूप आनन्दात्मनि


१ क, वसग यः । २ क, ख, फिमिल

श्वर्यज्योतिष्येवआत्मेश्वरयोर्मेदनिवारणार्थएवकारोऽनुपश्यतीशावा-स्यमित्यादिश्रवणानन्तरं मध्येवाध्यस्तानि संघणि भूतानीमानीति साक्षात्करोति ।भूतान्यध्यस्तानि निरात्मकान्यात्मनत्यन्तमिन्नानीति शङ्कां वारयति-सर्वभूतेषु चाऽऽत्मानमारमानमपि सर्वेषु मूर्तेषुः अस्तुतस्त्वहमे-वैतेषु भूतेष्ववस्थितो न मत्तोऽन्यान्येतानि भूतानीत्यर्थः । चकारोऽनुपश्य-तीति क्रियासमुच्चयार्थः। तद्दर्शनफलमोह-तत आनन्दात्मा चिदेकरसोई हमस्मि सर्वाभिन्न इति विज्ञानानन्तरं न विजुगुप्सते किमपि न निन्दतिस्तुत्तिनिन्दावान्यो भवतीत्यर्थः ॥ ६ ॥

 अत्रोपपत्तिमाह-यस्मिन्नीश्वरस्वरूप आनन्दात्मनि सर्वाणि भूतानि ।स्पष्टम् । आत्मैवामूत्स्वं स्वं रुपं परित्यज्य कल्पितमकल्पितमानन्दात्म-स्वरूपमेवाभूत् भूतानामानन्दात्मभवने कारणमाह-विजानत ईडात्मकमिदमहमस्मीति विज्ञानवतस्तत्रेडात्मविज्ञातृस्वरूपे देशकालवस्तुपरि-च्छेदशून्ये । क आक्षेपे । द्वैतभावो मोह आत्मावरणरूपः क आक्षेपेपूर्ववत् । शोको विक्षेपरूपो दुःखवृक्षस्य बीजस्वरूपः सोऽपि क आवरणविक्षेपयोरमावे स्तुतिनिन्दादिकं दुरापास्तमित्यर्थः । विजानत इतिशब्दार्थमाह-एकत्वमनुपश्यतः । स्पष्टम् । ईश्वरस्वरूपमिदं सर्वमहम-स्मीति विजानतः ॥ ७ ॥

 आवरणविक्षेपयोरभाव उक्तः सोऽयमनुपपन्न ईश्वरस्याप्यात्मत्वाज्जीववच्छरीरादिसंबन्धः स्यादित्याशङ्कय दृष्टान्ते साध्यवैकल्यं साध्यसमत्वं चाऽऽह-स ईश्वरस्वरूपाभिन्न आत्मा पर्यगात्परितः समन्तादधिगतवान् । शुक्रं दीप्तिमदीस्वरूपमहमस्मीति। शुक्रविशेषणानि-अकार्यकायः सूक्ष्मदेहो न विद्यते यस्य तदकायं तत्र हेतुरवणं व्रणश्छिदं भेदइत्यर्थः । न विद्यते व्रणो यस्य तद्व्रणम् । स्थूले सति सूक्ष्मस्यापिसुसंपाद्यत्वमित्यत आह–अस्त्राविरं स्त्रवानि शिरा न विद्यन्ते यस्य तद-स्नाविरं स्थूलशरीररहितमित्यर्थः । स्थूलशरीरराहित्ये हेतुः शुद्धं पुण्यपा-पादिरहितं पुण्यपापादिराहित्ये हेतुरपापविद्धं पापं दुःखहेतुरविद्या न तेन विद्धमपापविद्धं यस्मादेतादृशं शुक्रमहमस्मीतिसजीवःपर्यगात्तस्मात्सोऽप्येवंविशेषणो न तद्दष्टान्तेनेश्वरस्य संसारित्वमित्यर्थः । अने- जदादिरूपं यदुक्तमीस्वरूपं तदेवाय जीवोऽधिगन्ता पुंलिङ्गत्वेनोक्तोऽ- तस्तलिङ्गमुररीकृत्याऽऽह-कविः क्रान्तदर्यहं ब्रह्मात्माऽपेतसमस्तावि- द्योऽस्मीतिज्ञानवानित्यर्थः । मनीषी सर्वस्य हृदि सत्त्वेन मनसो निय- न्तृत्वात्तदीयाभिप्रायोऽस्यास्तीति मनीषी । परिभूः परितः समःताद्भवति विविधै रूपैरविद्यावशादिति परिभूरविद्यां वा परिमावयतीति परिभूः स्वयंभूः कारणान्तरनिरपेक्षः स्वयमेव भवतीति स्वयंमूरविद्याशाययाथातथ्यतःसाध्यसाधनादिप्रतिनियतस्वरूपेणार्थाश्वतनाचेतनात्मकविविधपदार्थान्व्यदधाद्विविधं कल्पितवान् । ज्योतिष्टोमे-नैव स्वर्गो न कृष्यादिनेत्यादिना शाश्वतीभ्यः समाभ्यः संवत्सराभिधाम्योऽस्मिन्नस्मिन्काल इदमिदं मविष्यतीत्यादिनेत्यर्थः ॥८॥

इदानीं यस्तुक्तमात्मतत्वं न जानाति न च संन्यासेऽधिकारी संसारे च नात्यन्तं प्रीतिर्मास्तमुररीकृत्य द्वितीयं मन्त्रं चार्थाद्याकर्तुमाह अन्धंतमः । अहंममाभिमानरूपं प्रविशन्ति प्रकर्षणाधिगच्छन्ति । के, ये धनाभिलाषिणः प्रसिद्धा द्वितीये मन्त्रेऽधिकारिणोऽविद्यां कर्मविधिनिघ्पाद्यं ज्योतिष्टोमादि उपासते तदेकनिष्ठाः सन्तो विद्यामनुतिष्ठन्ति ।ननु तर्हि त्याज्यं कर्मोपास्याश्च देवता अथवाऽहं ब्रह्मास्मीति वक्तव्यमित्यत आह-ततस्तस्मादुक्ताद्भूय इवाधिकमिव ते देवतोपासका मुखतो ब्रह्मवादिनो वाऽनुत्पन्नसाक्षात्काराः कर्मत्यागिनस्तमोऽहंममाभिमानरूपं प्रविशन्तीत्यनुषङ्गः । य उ ये तु विद्यायां देवताज्ञाने केवल आत्मज्ञाने वा रतास्तदेकनिष्ठाः ॥ ९ ॥

 ननूभयोनिन्दायामुभयमप्यफलमित्यत आह-अन्यदेव । कर्मणः फलात्पितृयाणलक्षणात्पृथगेव देवयानलक्षणमात्मप्राप्तिलक्षणं वा । अन्यच्छब्देन सफलत्वमेवशब्देनाङ्गाङ्गिभावनिषेध आहुः कथयन्ति । विद्यया देवताज्ञानेनाऽऽत्मज्ञानेन वाऽन्यद्विद्याफलात्पृथग्भूतम् । अत्रैवकाराभा- वादात्मज्ञानोत्पादकत्वमपि कर्मणामवगम्यते । आहुः कथयन्त्यविद्यया द्वितीयमन्त्रोक्तेन कर्मणेत्यस्ति विद्याकर्मणोः फलम् । नचात्राङ्गाङ्गिभावोऽपि शङ्कनीयः । अन्यदन्यच्च तदित्यनेन प्रकारेण शुश्रुम श्रुतवन्तः । मन्त्रद्रष्टुरिदं वाक्यम् । धीराणां पूर्वोत्तरतन्त्रन्यायकुशलानां वेदविदाम्ता।नाह—ये गुरवो नोऽस्मभ्यमेतद्बह्म कर्मसहितं विचचक्षिरे व्याख्यात- वन्तः ॥ १० ॥ एवं पक्षद्वयं च वैधत्वादिना सफलं चाभिधायेदानी देवताज्ञानस्य शाब्दस्य वा ब्रह्मज्ञानस्य कर्मणा सह समुच्चयमाह-विद्यां च देवता- १ क. पक्ष द्वयं च द्विविधं विदित्वा स । ज्ञानं कोमलं ब्रह्मज्ञानं वा । अविद्यां च द्वितीयमन्त्रोक्तानि कर्माणि ।चकारावुपायोपेयमावेन समुच्चयार्थौ । यः संजातवैराग्यः कर्म परित्य क्तुमशक्तोऽन्तरालावस्थस्तत्कर्म ज्ञानं च वेद जानाति । उमयमुक्तमुपायोपेयभावेन सह कर्मोपायो ब्रह्मज्ञानमुपेयमिति मिलितम् । एवमुपायोपेयज्ञानवतः फलमाह-अविद्यया द्वितीयमन्त्रोक्तेन कर्मज्ञानेन संयोगप्रथक्त्वन्यायेन मृत्युमात्मज्ञानोत्पादप्रतिबन्धकं स्वाभाविक कर्म ज्ञानं च दुःखकारणं तीर्त्वात्मज्ञानोत्पादेनातिक्रम्य विद्ययाऽहं ब्रह्मास्मीति साक्षात्कारेणामृतं ब्रह्मात्मत्वमश्नुते व्याप्नोति स एव भवतीत्यर्थः । यदा तु ज्ञानकर्मणोरेव समुच्चयो न तु तज्ज्ञानयोस्तदोपायोपेयशब्द विहायाऽऽत्मज्ञानशब्दस्थले च देवताज्ञानमिति शब्दं पठित्वा-आभूतसंप्लवं स्थानममृतत्वं हि भाष्यत इति न्यायेनामृतं ब्रह्मलोकमिति व्याकु- र्यात् ॥ ११ ॥

| इदानीं व्याकृताव्याकृतयोरुपासनस्य समुच्चयार्थमाह-अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्यां रताः । अन्यदेवाऽऽहुः० अश्नुते । असंभूतिम् । संभूतिः सम्यग्भवनमुत्पत्तिर्यस्य तत्कार्य संभूतिः । तद्वयतिरिक्तामव्याकृतरूपामसंभूतिं कारणं संभूत्यां कार्ये व्याकृते संभवाद्याकृतोपासनादसंभवादयाकृतोपासना- संभूतिमव्याकृतं विनाशेन विनाशवतः कार्यस्योपासनेन संभूत्या सम्यग्भवति यस्मात्कार्यं तत्कारणमव्याकृतं संभूतिस्तदुपासनेन शेषं कर्म देवताज्ञानसमुच्चयवन्मन्त्रत्रयेऽपि व्याख्येयम् ॥१२॥१३॥१४॥  कार्यकारणात्मादित्यमण्डलस्थः पुरुषः समुच्चयद्वयेनापि संप्राप्योऽतस्तत्प्रार्थनामन्त्राः-हिरण्मयेन ।' सुवर्णविकारेणेव ज्योतिर्मण्डलेन पात्रेण शरावसद्दशेन घटस्येव सत्यस्य बाधरहितस्यापिहितमाच्छादितं मुखं प्रतीकं प्रधानभूतं तद्धिरण्मयं पात्रं त्वं कार्यकारणात्मा पूषन्हे पुष्टिकारिन्नपावृण्वपसारय । अपसारणे कारणमाह-सत्यधर्मायावितथमावाय भवते दृष्टये दर्शनार्थं तव दर्शनार्थमित्यर्थः ॥ १५ ॥

 इदानीं तत्संबोधनानि कार्यान्तरार्थं पूषन्हे पूषन्नेकर्ष एकश्चासावृषिश्चैकर्षिस्तत्संबोधनमेकर्ष एकाकित्वेन गन्तः । यम हे नियन्तः ।सूर्य हे सुष्टुगमन प्राजापत्य हे प्रजापतेरपत्यभूत । इदानीं कार्यमाहव्यूह, उपसंहर रश्मीन्किरणान्समूह सम्यक्स्वात्ममात्रं कुरु तेजश्चन्द्रम ण्डलम् । तत्रापि प्रयोजनमाह-यत्प्रसिद्धं ते तव रूपं स्वयंज्योतिः-स्वभावं कल्याणतममतिशयेन कल्याणमानन्दात्मरूपं तदुक्तं ते तव पुनस्तेशव्द उपचारनिवारणार्थः । पश्यामि साक्षात्करोमि । द्रष्टद्दश्यप्रयुक्तं भेदं वारयति-यः प्रसिद्धोऽसावादित्यमण्डलस्थः परोक्षोऽसौ शास्त्रदृष्ट्या प्रत्यक्षः पुरुषः परिपूर्णः स उक्तो यः: प्रसिद्धः स एवाहमस्मत्प्रत्ययालम्बनोऽस्मि भवामि ॥ १६ ॥

 एते मन्त्रा हिरण्मयेनेत्यारभ्य पठिताः समुच्चयानुष्ठायिनाऽसकृन्नित्यं पठनीयाः । अन्तकाले तु सर्वार्थानुसंधानपुरःसरमात्मानमादित्यरूपंध्यात्वा वायुः प्राणरूपोऽनिलं बाह्यवायुं यात्विति शेषः । अमृतमानन्यात्मरुपं सोऽहमस्मीति पूर्वेण संबन्धः । अथ वायुनिर्गमनानन्तरमिदं प्रत्यक्षं भस्मान्तम् । भस्मान्ते यस्मात्तद्धस्मान्तं शरीरं स्थूलं पार्थिवं पृथिवीं यात्विति शेषः । ॐ ॐकाराभिधेयेशाभिन्नाऽऽत्मन्नादित्य क्रतो संकल्पात्मन्स्मर मां त्वदुपासकं स्मर कृतं मयाऽनुष्ठितं ज्ञानं कर्म च स्मर । स्पष्टम् । क्रत आदित्याभिन्न संकल्पात्मन् । हे जीवाऽऽत्मानं ‘स्मर स्पष्टम् । आत्मना कृतं स्मर ॥ १७ ॥

 उपास्यं देवतां संप्रार्थ कर्मसाधनभूतां देवतां प्रार्थयते--अग्ने हेऽग्ने नय प्रापय सुपथा सम्यमार्गेण राये सुवर्णार्थं कर्मफलभूतायेत्यर्थः ।अस्मान्समुच्चयानुष्ठातृन्विश्वानि सर्वाणि देव हे देव वयुनानि ज्ञानानि विद्वञ्जानन्युयोधि वियोजयास्मदुपासकेभ्यो जुहुराणं कुटिलमेनः पापं भूयिष्ठामतिशयेनाधिकां ते तुभ्यं नमउक्तिं नमस्कारोक्तिं विधेम विधास्यामः सर्वदा कुर्म इत्यर्थः ॥ १८ ॥ इति श्रीशंकरानन्दकृतेशावास्यदीपिका संपूर्णा ॥ . ॐ सत्यं ज्ञानमनन्तमीशमखिलस्यान्तर्बहिश्च स्थितं यद्रे निकटे च यच्च सकलं यत्स्वप्रथं तद्विदः । अक्षागोचरमक्षचालकमहो येनेदमाच्छादितं । स्वात्माभिन्नमुपासते विजयते रामाभिधं तन्महः ॥ १ ॥ संसारबीजान्धतमिस्रनाशसर्वात्मताबोधजितारिषद्कम् । आनन्ददं सर्वसुहृत्तमं तं सिद्धेश्वरं सद्वरुवर्यभीखें ॥ २ ॥ श्रीमच्छंकरभाष्यकृद्रुवरश्रीपादयुग्मं सदा । ध्यात्वा हृत्कमले यथास्वमति तत्सिद्धान्तसूक्तस्तथा । टीका नैकाविधा विचार्य कुरुते रामोऽथ माध्यंदिन- स्थेशाख्योपनिषद्रहस्यविवृतिं श्रीसिद्धसूनुः कृती ॥ ३ ॥

इह खलु सर्वेषां वेदानामद्वैते ब्रह्मणि पर्यवसानमिति राद्धान्तस्तच ब्रह्म यथोक्ताधिकारिणे कथनीयम् । क्रियावन्तः श्रोत्रिया बह्मनिष्ठाः स्वयं जुहृत एकGि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेतेति मुण्डकोपनिषद्युक्तत्वात् । प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय नित्यं प्रदेयमेतत्सततं मुमुक्षवे । इति वचनाच्च । स चाधिकारश्चित्तशुद्धिं विना नोत्पद्यते । चित्तशुद्धिश्चस्ववर्णाश्रमोचितकर्माचरणेनेति प्रथमं कर्मकाण्डमेकोनचत्वारिंशदध्यायैः प्रतिपादितम् । अथेदानीं चित्तशुद्धयादियथोक्तगुणवन्तमधिकारिणमुः पदेष्टुं ज्ञानकाण्डमेतेन धरमेणाध्याघेनाऽऽरभ्यते । सेयमीशावास्योपनि-षद्बह्मविद्यापराणां सहेतोः संसारस्वात्यन्तच्छेदाह्मविद्योपनिषच्छब्दवाच्या । उपनीयेममात्मानं ब्रह्मापास्तद्वयं पुनः । निहन्त्यविद्या तज्जं च तस्मादुपनिषन्मतेतिवचनाच्च । अन्तर्भावितण्यर्थस्य विशरणार्थस्य सधातोः किपि रूपम् । उप नितरां सादयति संसारहेतुभूतामविद्यां नाशयति । गत्यर्थस्य वा ब्रह्म प्रापयतीति । तदर्थप्रतिपादकग्रन्थोऽप्युपचारादुपनिषत्केवलस्य वा सदेरुपाऽऽत्मनः समीपे निषीद्ति प्रतिपादकत्वेनेत्यात्मयाथात्म्यप्रतिपादकत्वात् इति । एषां च मन्त्राणां कर्मसु न विनियोगः । आत्मयाथात्म्यप्रतिपादकत्वात् । तच्च कर्मणा विरुध्यते । न हि वक्ष्यमाणलक्षणविशिष्ट आत्मा संस्कार्यः कर्ता मोक्ता वा । यो हि यथोक्ताधिकारवानहं ममेदमिष्टसाधनं दृष्टं ब्रह्मवर्चसाद्यदृष्टं स्वर्गादि च फलमाप्नुयामिति मन्यते स कर्मण्यधिक्रियते । न हि स्वभावशुद्ध एकोऽशरीयकाशवन्निलैपोऽहमिति शास्त्रत आपातज्ञानवानपि कर्मणि प्रवृत्तो दृश्यते । किमुतापरोक्षज्ञानवानत एषां मन्त्राणामैकात्म्यतात्पर्यफत्वम् । ईशा वास्यमित्युपक्रम्य सोऽसावहमित्युपसंहारः । अनेजत्तदे जतीत्यभ्यासः । नैनवा आप्नुवन्नित्यपूर्वता । तत्र को मोह इति फलम् । असुर्या नाम त इति भेददृष्टीनां कर्मकारिणां निन्द्रयैकात्म्यदर्शनस्तुतिरथवा स पर्यगादित्यादिनैकात्म्यदर्शिन ऐश्वर्यवर्णनं सदर्थवादः । तस्मिन्नपो मातरिश्वा दधातीत्युपपत्तिश्चेति पण्णां तात्पर्यलिङ्गनां दर्शनात् । तस्मादेते मन्त्रा भेदं निवर्तयन्तः संसारोच्छित्तिसाधनमात्मैकत्वविज्ञानमुत्पादयन्ति । अत्र दुःखहेतुस्वाज्ञाननिवर्तनेच्छुरधिकारी । आत्मनो याथात्म्यमाभिधेयं विषयः । याथात्म्यस्य तद्वाचकशब्दानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः । स्वगताज्ञाननिवृत्त्या सत्स्वरूपानन्दाविमावः प्रयोजनमित्यनुबन्धचतुष्टयम् । अथ मन्त्रान्संक्षेपतो व्याख्यास्यामः- ईशा वास्यमिति । ईष्ट इतीटू ईश ऐश्वर्ये क्विपू । तृतीयान्तमीशेति ।ईश्वरेणेदं प्रत्यक्षं सर्वं भूतजातं वास्यं वासयोग्यमधिष्ठानेनाऽऽच्छादनीयं वा निवासार्थकाद्वसेर्बाहुलकादधिकरणे ण्यत् । आच्छादनार्थस्य वा वसे रूपं कृत्यानां कर्तरि वेति षष्ठीविकल्पात्पक्षे तृतीया यच्छब्दो भिन्नक्रमः । चस्त्वर्थे यथोक्तानुभवसाधनमाह । किंतु यज्जगत्यामित्युपलक्षणं ब्रह्माण्डे जगत्स्थावरजङ्गमात्मकं तेन भूतजातेन त्यक्तेन न ममेति त्यक्तस्वीयत्वसंबन्धेन संन्यासेन यत आच्छादनीयमतो यत्किंच यावज्जगत्यां जगत्तेन त्यक्तेन नामरूपत्यागेन तद्भुद्वया गृहीतेनेति वा भुञ्जीथाः पूर्वोक्तमात्मानमनुभवेः । वा यदृच्छाप्राप्तभोगाननुभवेः ।। स्वात्मानं जननमरणादिदुःखात्पालयेथा वा स्वसुखमनुभवरति वा । एतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्तीतिश्रुतेस्त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्तीतिश्रुतेश्च संन्यस्य श्रवणं कुर्यादित्युक्तेश्च ।


यदा मनसि वैराग्यं जायते सर्ववस्तुषु ।
 तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥

इत्युक्तत्वाधिकार विना संन्यास कृते प्रत्यवायापत्तिरित्यभिप्राये: णाऽऽह---मा गृधो माऽभिकाङ्क्षीः । सिदित्यनर्थकोऽप्यर्थको वा । कस्यापि स्वस्य परस्य वा धनं भोग्यविषयजातम ब्राह्मणाः पुत्रैषणायाश्च वितैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षीर, चरन्तीतित्यक्तेषणस्यैव संन्यासेऽधिकारात् । यद्वा स्विदिति वितर्के,लोके कस्येद धनं न कस्यापि न हि लोके नियतस्वामिकं किंचिदपि विस्यःजातं दृश्यते । प्रश्न वा । अधिष्ठानेनाध्यस्तस्य स्वस्वामिभावायोगात्कस्येदं धनमित्यर्थः । अतो माऽभिकाङ्क्षीः । केवलेच्छयैव विषयाणामवश्यप्राप्त्यभावान्ममेदमिति रक्षितानां च स्थैर्याभावाद्विनाशे दुःखप्राप्तेश्च विषयेच्छात्यागपूर्वकसंन्यासिना ब्रह्मणः सर्वान्तरस्थत्वं ज्ञेयमिति भावः। अथवा स्वात्मना विभुनाऽधिष्ठानेन ज्ञातेन रज्ज्वादिनाऽध्यस्तसर्पादिभासवदध्यस्तजगद्धास आच्छादिते दूरीकृते सति स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्तेः स्वात्मनैव स्वसुखमनुभवनीयमिति तात्पर्यम् । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति श्रुतेः । वासिष्ठे समाध्युत्थितस्य कचस्य-किं करोमि का गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं सर्व महाकल्पाम्बुना यथेति वाक्याच्च।।१॥ अत्रायं संग्राहकः श्लोकः- छाद्यं मयेशेन समस्तमेतज्ज्ञात्वेति संन्यस्य सुखं हि मोग्यम् । धनस्य गृद्धिं न कुरु वमन्यत्स्वतोऽस्ति किं कस्य धनं त्रिलोक्याम् ॥१॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।
संपूर्णः प्रथमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

त्यक्तैपणस्य संन्यासेऽधिकार इति श्रुत्वेषणात्यागसाधनं प्रष्टुकामस्य श्रोतुः प्रश्नात्पूर्वमेव सर्वज्ञा श्रुतिश्चित्तशुद्धिरीषणात्यागोपाय इत्यभिप्रायेण चित्तशुद्धयर्थं त्वया तावत्कर्माणि कर्तव्यानीत्युपदिशति । अथवाऽऽत्मतत्त्वमुपक्रम्य स्वानुभवप्रदर्शनेन श्रोतारमभिमुखीकृत्य प्रष्टुमिच्छन्तं तमुपदेष्टुकामा श्रुतिः शुद्धचित्तस्यैव श्रवणेऽधिकाराधिकारसिद्धये पूर्वं तत्साधनमुपदिशति--कुर्वन्निति । एवशब्दो भिन्नक्रमः । इह नृलोके कर्माण्येव केवलानि न तु फलेच्छां कुर्वन् । कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति भगवतोक्तत्वात् । फलेच्छेव बन्धनकर्त्रीति भावः ।त्वं जिजीविषेज्जिजीविषेः पुरुषव्यत्ययश्छन्दसः । भवाञ्जिजीविषेदिति बा । शतं समा इत्युपलक्षणं सर्वस्य पुरुपायुषस्य यावदायुरित्यर्थः । अनेन मनुष्यस्यैव कर्माद्यधिकार इति सूचितम् । जीवनेच्छोक्त्या संन्यासाधिकाराभावो न जीविते मरणे वा गृधिं कुर्यादरण्यमियादिति श्रीभगवत्पादैरिच्छारहितस्यैव संन्यासेऽधिकारस्योक्तत्वादरण्यं सीजना संकीर्णमाश्रमं संन्यासमित्यर्थः । ननु यदि फलेच्छाया अमावस्तदे-साधनताज्ञानं विना प्रवृत्त्यनुपपत्त्या कर्मणि प्रवृत्तिरेव न स्यादिति चेत्सत्यं भगवदधीनोऽहं तस्माद्सक्तः सततं कार्यं कर्म समाचरेति गीतायामुक्तत्वात्तदाज्ञोल्लङ्घने प्रत्यवायोत्पत्त्या ममानिष्टं स्यादतोऽवश्यं मया कर्माणि कर्तव्यानीत्येवं निश्चयेन नित्यनैमित्तिकादिकाम्यकर्मसु प्रवृत्तेः सूपपन्नत्वात् । ननु कर्मणा बन्धः स्यादिति चेन्न । असक्तो ह्याचरन्कर्म परमाप्नोति पुरुष इति भगवतक्तत्वान्निष्कामकर्मणा मुक्तिरेवेत्यभिप्रायेणाऽऽह-एवं निष्कामकर्माणि कुर्वतस्त्वयि तव विभक्तिव्यत्ययश्छन्दसः । वृक्षे शाखेतिवदधिकरणत्वविवक्षया वा सप्तमी । नरे नृदेहधारिणि कर्म न लिप्यते । कर्मफललेपो न स्यात् ।किंतु चित्तशुद्धिद्वाराऽधिकारसंपत्या ज्ञानसिद्धया मुक्तिरेव स्यादिति भावः । अनेन मनुष्यस्यैव कर्मफलसंबन्ध इति बोधितम् । अधिकार संपादकचित्तशुद्धेः कर्मातिरिक्तसाधनासिद्धत्वं दर्शयति-इतो निष्काम- कर्माचरणादन्यथा प्रकारान्तरं तव मुमुक्षॉर्नास्ति येन त्वं शुद्धचित्तः सन्नधिकारी भविष्यसीत्यर्थः । आदी स्ववर्णाश्रमवाणिताः क्रियाः कृत्वा समासादितशुद्धमानस इति श्रीरामगीतायामुक्तत्वात्। स्ववर्णाश्रमधर्मण तपसा हरितोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयमिति भगवत्पादोक्तेश्च । यावदिच्छा तावत्कर्मस्वधिकार इति तात्पर्यम् । तावत्कमणि कुर्वीत न निविद्येत यावतेति भागवतात् ॥ २॥ अत्रायं संग्राहकः श्लोकः-- निष्कामकर्माणि तु यावदायुस्त्वमिच्छ कर्तुं खलु यन्मुमुक्षुः ।। एवं तव स्यान्न फलेन लेपो न चित्तशुद्धावितरः प्रकारः ॥ १ ॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा । ।
मन्त्रो द्वितीयः संपूर्णः प्रीयतां तेन राघवः ॥२॥

| साधकस्य निष्कामकर्मस्वधिकार इत्युक्तमर्थं काम्यकर्मपराणा बलवदनिष्टफलकथनव्याजेन काम्यकर्मनिन्दया प्रबलयति--असुर्या इति ।असुर्या असुषु प्राणेषु रमन्त इत्यमुराः प्राणपोषका ज्ञानहीनाः केवलप्राणपोषिणो देवा अप्यमुरा एव । अन्येष्वपि दृश्यत इत्यत्रापिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्-रमधातोरपि डः । तेषामिमेऽसुर्याः । तद्धिता इति बहुवचनस्यानुक्तसंग्रहार्थत्वादिदमर्थे यत् । नाम प्रसिद्धाः ।ते यच्छब्दस्थाने तच्छब्दः । ये लोका लोक्यतेऽनुभूयते कर्मफलं येषु ते लोका जन्मनि स्थानानि वा तिर्यगादीनि नरकादीनि चान्धेन तमसा विचारशून्यत्वात्स्वामाविकेनाज्ञानेनान्धतामिस्रेण वाऽऽवृता आच्छादितज्ञाना निरिन्द्रियप्रचारा वा तान्पूर्वोक्तोभयविधेष्वन्य- तरान्स्वकर्मानुसारेण तत्रोत्पद्य ते जना नराः प्रेत्यापि मरणं प्राप्य पुनरपि गच्छन्ति प्राप्नुवन्ति । तच्छब्दोक्तान्निर्दिशति--ये के च ।अनेन जातिगुणादिनिरपेक्षत्वं सूच्यते । आत्महनो यथा गुरूणामवज्ञाकारी गुरुघातीत्युच्यते तथाऽतिपूज्यस्य सर्वप्रकाशकस्याप्यात्मनो देह एवाहं नाऽऽरमा कश्चनास्तीत्यवज्ञाकारिण आत्मघातिनस्ते । अनेन देहान्तरप्राप्तिरपि नरदेहकृतसंचितकर्मबीजनिबन्धनेति सूचयति । प्लवाह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनदन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ १ ॥ नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्तीति च मुण्डकोपनिषद्युक्तत्वात् ।तानहं द्विषतः क्रूरान्ससारेषु नराधमानू । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २ ॥ इति भगवद्वाक्याञ्च । प्राणपोषणार्थं नानाविधकाम्यकर्मपराणां पुनः पुनः संसरणेन मुक्तिर्नास्तीति तात्पर्यम् ॥ ३ ॥ अत्रायं संग्राहकः श्लोकः- स्वात्मानभिज्ञा निजघातिनस्ते प्रमीय मत्य असुपोषिभोग्यान्। विचारशून्यानतिदुःखयुक्तान्प्रयान्ति देहान्खरनारकादीन् ॥ १॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
मन्त्रस्तृतीयः संपूर्णः प्रीयतां तेन राघवः ॥ २ ॥

कीदृशः स आत्मा यस्याज्ञानेन जनाः संसरन्तीत्याकाङ्क्षायामाह । अथवा येनेश्वरेण सफलमाच्छादितं तस्य स्वरूपमाह । यद्वाऽनुभवसाधनं प्रदशर्योपक्रान्तमात्मास्वरूपमुपसंहरति । अथवाऽन्ययव्यतिरेकाभ्यां निष्कामकर्मणः श्रवणाधिकारसाधनत्वं प्रदर्श्य् श्रोतव्यमात्मतत्त्वमुपदिशति-अनेजदिति । नैजति चलति तदनेजस्वावस्थापच्युतिश्चलनं तद्वर्जितम् । अनेन बाल्यादीनां जाग्रदादीनां चाभावः । बाल्यावदिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा स्वात्मानं प्रकटी करोतीति भगवत्पादैरुक्तत्वात् । एकम-द्वितीयम् । एकमेवाद्वितीयं ब्रह्मेति श्रुतेः । अथवैकं सर्वदैकरूपं वृद्ध्यपक्षयविपरिणामशून्यं मनसो जवीयः संकल्पलक्षणादतिचञ्चलान्मनसोऽपि जवीयो वेगवत्तरम् । अपाणिपादो जवनो ग्रहीतेतिश्रुतेः । देहस्थस्यापि मनसः क्षणाद्वह्मलोकगमने व्यापकत्वात्तत्र पूर्वगतमि- वास्ति । परं त्वचिन्त्यत्वान्मनसा प्राप्तुमुमशक्यं न तु चक्षुरादिविषयवन्मनसा साक्षादनाप्यं यत एनदात्मस्वरूपं देवा द्योतनात्मकानि चक्षुरादीन्द्रियाणि नाऽऽप्नुवन्न प्राप्तवन्तः । अव्यपदेश्यत्वादिन्द्रियगोचरमित्यर्थः । अथवा मनोव्यापारपूर्वकत्वादिन्द्रियप्रवृत्तेर्यन्मनसोऽगोचरं तदिन्द्रियाणां सुतरामगोचरम् । यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धीत्यादिना मनःप्राणेन्द्रियाप्राप्यत्वस्य केनोपनिषद्युक्तत्वात् । पूर्वमनादि जन्मरहितमर्शत् । रिश हिंसायामित्यस्य शत्रन्तस्य रूपं न रिशदविनाशि धातोरिकारलोपश्छान्दुसः । तदादिमध्यान्तविहीनमेकमिति श्रुतेः । तद्बह्म तिष्ठद्यापकत्वेन सर्वत्र स्थितिमत्सद्धावतो द्रुतं गच्छतोऽन्यान्कालवाय्वादीनत्येत्यतिक्रम्य गच्छतव तेषां गत्याऽप्राप्यमित्यर्थः । आसीनो दूरं व्रजति शयानो याति सर्वत इति श्रुतेः । मातरिश्वा देहान्तर्गता वायुस्तस्मिन्देहान्तर्विद्यमाने सत्यप आप्यन्ते प्राणादिसंज्ञा याभिस्ता आप आप्रोतेर्हस्वश्चेति करणे क्किप्ताः क्रियाः प्राणनादिचेष्टा दधाति धारयति । अथवा सभिष्टयजुपि वातेधा इति सर्वकर्मणां वायुस्थत्वोक्तेरपः श्रद्धा वा आप इति श्रुतेः श्रद्धाजन्यवादापः कर्माणि स्वस्थान तानि वायुस्तत्र ब्रह्माणि दधाति स्थापयति कर्मणां परमं निधानमित्यर्थः । अथवा तत्रान्तर्यामिण सति वायुः सूत्रात्मा तपनवारिदादीनां कर्माणि तपनवर्षणादीनि । वायुना हि गौतम सत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः क्रियाशक्तिमत्वाद्दधाति विभज्य धारयति । अन्तर्यामि- तया तस्यैव सर्वेशत्वादन्तर्यामिबाह्मणे सर्वान्तर्यामित्वेन यः पृथिव्यां तिष्ठन्नित्यादिना तस्यैव सर्वनियामकत्वोक्तेर्मीषाऽस्माद्वातः पवत इत्यादितैत्तिरीयश्रुतेश्च स वा अयमात्मा सवस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंचेति स सेतुर्विधरण एषां लोका. नामसंभेदायेति शारीरबाह्मण उक्तत्वाञ्चाचिन्त्यमव्यपदेश्यं पडूभाववि- काररहितं सर्ववैकरूपं सर्वान्तर्यामि सर्धचालकं ब्रह्मेत्यर्थः ॥ ४ ॥ अबाथै संग्राहकः श्लोकः-- अकम्पमेकं मनसस्तस्विं न देवता आपुरनाशि पूर्वम् । तिष्टतदस्येस्यपि धावतोऽन्यान्वायुर्हि कर्माणि दधाति तन्न् ।।१॥

 ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
भन्त्रष्रतुर्थः संपूर्णः प्रीयतां तेन राघवः ।। २ ।।

उक्तमर्थमन्योऽपि मन्त्रो वदति । अथवाऽऽत्मतत्वस्यातीतमन्त्रोक्तदुष्प्रापत्वान्तर्यामित्वव्यापकत्वानुवादेन तस्यैव सर्वात्मकत्वं सुखप्राप्यत्वं च श्रुतिरुपपादयति । नात्र पुनरुक्तिर्न मन्त्राणां जामितादोष इति मग-बत्पादैरुक्तत्वात् । जामिताऽऽलस्यम् । रहस्यं सकृदुक्तं चित्ते नाऽऽयातीत्यनलसा श्रुतिः सकरुणा मातेव पुनः पुनरुपदिशति-तदेजतीति ।तत्प्रक्क्मात्मतत्त्वमेजति चलति जङ्गमं तनैजति न चलति स्थावरम् ।पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति श्रुतेः । तदात्मतत्वं दूरे विप्र•कृटे तदु उ एवार्थे यदूरस्थं तदेवान्तिके समीपे समीपस्थमपि तदेव दूरस्थमन्तिकस्थं ब्रह्मैव सर्वगत्वात् । अथवा सर्वरूपवादूरस्थर्मः

प्तिकस्थं च बलेव । अथवाऽज्ञानिनां वर्षकोटिभिरप्यप्राप्यत्वाः दूर इव स्थितम् । आत्मज्ञानिनां तु समीप एवाऽऽत्मत्वेन हृत्स्थत्व सुप्रपिं तब्रह्मास्य प्रत्यक्षस्य सर्वस्य भूतजातस्यान्तरभ्यन्तरेऽन्तर्यामित्वे- नास्ति । तदु तदेव सर्वस्यास्य बाह्यतो बाह्यप्रदेश उत्तमपुरुषत्वेन सा- विभक्तिकस्तसिः । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः । बहिरन्तश्च मूतानामचरे धरमेव च । सूक्ष्मत्वात्तदृविज्ञेयं दूरस्थं धान्तिके च तदिति । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृते इति च गीतावाक्याञ्च ॥ ५॥ अत्रार्य संग्राहकः श्लोकः-

ब्रह्मैव तत्स्थावरजङ्गमात्म स्वाज्ञानिन दूर इवाप्रकाशम् ।
तज्ज्ञानिन भाति सदा समीपे विश्वस्य चान्तश्च बहिस्थितं तत्।।१॥
ईशावास्यस्य विवृती कृताया रामशर्मणा ।
संपूर्णः पञ्चमी मन्त्रः प्रीयतां तेन राघवः ॥२॥॥

उक्तात्मज्ञानस्य फलमाह-यस्त्विति । यस्तु तुशब्दो वैलक्षण्ययोः तको यः पुनलोकविलक्षणदृष्टिः सर्वाणि भूतान्यब्यक्तादिस्थावरान्ताः पास्मन्नात्मनि सुपा सुलगिति लुगधिष्ठानरूप एवानु गुरुपदेशान'तरं पश्यत्यवलोकयति च परं सर्वभूतेषु तेष्वात्मानमनु कारणात्मनोऽनुगतं पश्यत्यनुभवति । तत ऐकात्म्यज्ञानारस पुरुषो न विचिकित्सति संशयं न प्राप्नोति । संशय उभयकोटिकं ज्ञानं द्वैतं पश्यतो मवति नत्वैकात्म्यज्ञस्येति मावः । यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न तदा विचिकित्सतीति बृहदारण्यकश्रुतेः । सर्वभूतस्थमा- स्मानं सर्वभूतानि चाऽऽत्मनि। संपश्यन्ब्रह्म परमं याति नान्येने हेतुनेति कैवल्यश्रुतेश्च । अस्या एवं श्रुतेरुत्तरार्धं गीतायाम्-ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन इति । छिद्यन्ते सर्वसंशयास्तस्मिन्वृष्टे परावर इति मुण्डकश्रुतेश्च ॥ ६ ॥ अत्रायं संग्राहकः श्लोकः-

यः पश्यतीत्थं सकलानि भूतान्यात्मन्यथाऽऽत्मानमपीह विद्वान् ।
सर्वेषु भूतेषु स तत्त्ववेत्ता निःसंशयः स्यात्सकलैरनिन्द्यः ॥ १ ॥
  ईशावास्यस्य विवृतौ कृताया रामशर्मणा ।।
  मन्त्रः षष्ठोऽपि संपूर्णः प्रीयतां तेन राघवः ॥ २ ॥

अधुनाऽऽत्मज्ञस्य स्थितिमाह-यस्मिन्निति । यस्मिन्काले विजानते आत्मानं साक्षात्कुर्वतः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि न मद्य- तिरिक्तं किंचिदस्त्यहमेव सर्वरूप इत्यात्मैवाभूसंवृत्तः । तत्र तस्मिन्काल एकत्वममैकात्म्यमन्वनुस्यूतं पश्यतोऽनुभवतो मोह आवरणरूपः कः किंनिमित्तकः शोकश्च विक्षेपरूपः कः किं निमित्तक आत्मज्ञानेनावि- याया निरस्तत्वात्स्वरूपं जानतः समूलाविद्योच्छेदादावरणविक्षेपयोर- भावेन कामाद्यनुदयाञ्जीवन्मुक्तिस्थित्या तूष्णीभूत अस्त इत्यर्थः । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तस्य निष्क्रियत्वाभिधा- नात् । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यत इति भगवद्वा; क्याञ्च ॥ ७ ॥ अत्रायं संग्राहकः श्लोकः-- सर्वाणि भूतानि मदात्मकानीत्येवंविदोऽभूत्सकलं यदात्मा। तद्वैकतां पश्यत आत्मरूपे मोहश्च शोकश्च भवेत्कथंस्वित् ॥ १ ॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
संपूर्णः सप्तमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

आत्मज्ञस्थितिमुक्त्वा पुनरात्मस्वरूपं लोकोत्तरैश्वर्यप्रदर्शनेनोपसंहर्तुं वर्णयति-स पर्यगादिति । अत्र स इत्युत्तरार्धं च कविरित्यादिशब्दैः पुंलिङ्गत्वेन निर्देशाच्छुक्रमित्यादीनि विशेषणानि पुंलिङ्गत्वेन विपरि- म्यान्यथवा स इति शब्दो मिन्नक्रम उत्तरार्धन संबध्यते । यत्तदोनित्यसंबन्धात् । यद्गह्म पर्यगात्परिः सर्वतोभावे सर्वतो जगद्याप्याऽऽसीत्। शुक्र शुद्धं दीप्तिमत्स्वप्रकाशम् । तमेव मान्तमनुमाति सर्वं तस्य भासा सर्वमिदं विभातीति श्रुतेः । अकायं सूक्ष्मदेहरहितमवणं व्रणः..क्षतं तद्वहितमन्नाविरं स्नाविराः शिरा न सन्ति यस्य तन्निरवयवत्वादत्रणम- स्नाविरमिति विशेषणद्वयेन स्थूलशरीरनिरासः । अशरीरं शरीरेष्वनवस्थे- प्ववस्थितमिति श्रुतेः। शुद्धं मायासंबन्धरहितं विरजः पर आकाशादिति श्रुतेस्तमसः परमुच्यत इति गीतावाक्याच्च । अपापविद्धं पुण्यमपि पुनरावृत्तिहेतुत्वात्पापमेव तेनोमयात्मकेनाविद्धमसंबद्धं स न साधना कर्मणा भूयान्नो एवासाधुना कनीयानिति श्रुतेः । नाऽऽदत्ते कस्यचि- त्पापं न चैव सुकृतं विभुरिति भगवद्वाक्याच्च । स एतादृशं ब्रह्मैव स्वशक्तिमादायेश्वरो भूत्वा कविरतीतानागतज्ञः । वेदाह समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानीति गीतायामुक्तत्वात् । मनीषी मनीषा जगत्सर्जनेच्छा तद्वान् । सोऽकामयत बहु स्यां प्रजाये- येति श्रुतेः । अथवा मनोनियन्ता मनसो ये मनो विरिति श्रुतेः । परिभूः परिरुपर्यर्थकः परि सर्वेषामुपरि श्रेष्ठत्वेन भवत्यस्तीति परिभूः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति अतेः । स्वयंभूः स्वयमेव भवति न तु कारणान्तरेणेत्यर्थः । अथवा येषामुपार ययोपरि तत्सदै स्वयमेव भवतीति सर्वरूपः । यथातथ्यतो यथातथाभावो याथातथ्यं तेनेति याथातथ्यतः साध्यसाधनादिप्रतिनियतस्वरूपेणाथाचे तनाचेतनरूपपदार्थान्यदधाद्विभज्य दत्तवान् । शाश्वतीभ्यो नित्या- भ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो यो वै स संवत्सरः प्रजा: पतिः षोडशकल इति श्रुतेरचिन्त्यशक्तिमद्वह्मेति भावः । अत्रार्थे श्लोकयोजना-यद्यापर्क शुद्धमपापविद्धं दुहद्वयातीतमतिप्रकाशम् । कविः स धीमान्प्रवरः स्वयंभूः प्रजापतिभ्यो व्यदधायथाथाम् ॥ १ ॥ अथवा यथोक्तात्मज्ञस्योक्तानुवादपूर्वकमैश्वर्यमाह-सशब्द उत्तरार्धे- नैव संबध्यते यः शुक्रमित्यादि यथोक्तविशेषणविशिष्टं ब्रह्म पर्यगात्स- वैमावेन ज्ञानवान् । गत्यर्थानां बुद्धयर्थत्वात्स ब्रह्मज्ञः कविः क्रान्त- दुर्शी। मनीषी द्वैतासंबन्धेन प्रशस्तबुद्धिमान्परितः सर्वम९ि स्वयमेव भवतीति परिभूः सकलात्मकः । स्वयंभूर्बह्मरूपो यथास्वरूपं तेन तेन रूपेणान्पदार्थान्भोग्यविषयान् । शाश्वतीभ्यः समाभ्यस्ताद चतु- र्यनन्तवर्षोपमोगाय व्यदधात्स्वयमेव कृतवान् । यस्यानुवित्तः. प्रतिबुद्ध आत्माऽस्मिन्संदेहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्तेति भुतेर्बह्मविद्रहौव भवतीति भावः ॥ ८॥ अत्रायं संग्राहकः श्लोकः-

यो ज्ञातवाञ्शुद्धमपापविद्धं देहयातीतमतिप्रकाशम् ।।
कविः स धीमान्सकलः स्वयंभूर्यधायथास्वै बहुकालमर्थान् ॥ १ ॥॥

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
   संपूर्ण श्च्चाष्ठ्मो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

उपक्रान्तमात्मतत्त्वमुपसंहृत्य यस्तूक्ततत्त्वानभिज्ञ ईषणात्यागामावेनसैन्यासे च नाधिकारी संसारे च नात्यन्तं सक्तस्तं प्रति चित्तैकाइयार्थमुपासनासमुच्चयं कथयिष्यन्प्रत्येकमुपासना फलकथनव्याजेन निन्दति । अथवोक्तात्मज्ञानस्याखिलश्रेष्ठत्वं तद्यतिरिक्तानां संसरणहेतुत्वप्रदर्शनेनद्रढयति–अन्धं तम इति। ये नरा असंभूतिं सम्यग्मवनं भूतिरुत्पत्तिर्यस्य कार्यस्य तद्भिन्नां कारणरूपामव्याकृताख्यां प्रकृतिमुपासते चिन्तयन्तितेऽन्धं तमोऽदर्शनात्मिकां प्रकृतिं प्रविशन्ति प्रकर्षण विशन्ति पौराणिकोक्तं प्रकृतिलयं प्राप्नुवन्ति । तं यथा यथोपासते तदेव भवतीति श्रुतेः । र उ । ये तु संभूत्या प्रकृतिकार्ये हिरण्यगर्माख्ये रता आसक्तास्तदुपासका इत्यर्थः । ते ततः प्रकृतिलयाद्भूय इवाधिकमिव स्वरूपाज्ञानेन संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदाय प्रविशन्ति प्राप्नुवन्ति ॥ ९॥अत्रार्थ संग्राहकः श्लोकः-

अव्याकृतं हेतुमुपासते ये संप्राप्नुवन्ति प्रकृतौ लयं ते ।
प्रजापतिं कार्यमुपासते ये ते प्राप्नुवन्ति ह्यणिमादिसिद्धीः ॥ १ ॥
    ईशावास्यस्य विवृतौ कृताया रामशर्मणा।
    संपूर्णो नवमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

व्याकृताव्याकृतोपासनयोभिन्नफलत्वे श्रुतिरार्यवचः प्रमाणयतिअन्यदेवेति ।संभवात्संभूतिरूपकार्यप्रजापत्युपासनादन्यदेव भिन्नमेवाणिमादिसिद्धिरूपं फलं तत्वज्ञा आहुर्वदन्ति तथाऽसं मवादस भूतिरूपकारव्याकृताख्यप्रकृत्युपासनादन्यत्प्रकृतिलयाख्यं फलमाहुः कथयन्त्युपश्योपासनयोरभेदविवक्षया संभवादसंभवादित्युक्तं ये ज्ञानिनो नोऽस्मभ्यं भाग्यमतेऽन्वर्थसंज्ञाविज्ञानाभावात्संप्रदानत्वम् । अस्मान्धा । अकभितं चेति व्यापरद्वयार्थत्वाद्वा द्विकर्मत्वं तदुपासनाद्वयतत्त्वं विचचक्षिरे व्याख्यात्वन्तस्तेषां धीराणां वाक्यमिति शेषः । अथवा प्रसिद्ध क्यमिति कर्मणोऽप्रयोग आख्यातोपयोग इत्यपादानत्वस्याविवक्षया शेषे षष्टी धीरेभ्य इत्यर्थः । इति पूर्वार्धोक्तप्रकारेण वयं शुथुम श्रुतवन्तः ॥ १० ॥ अत्रायं संग्राहकः श्लोकः-

अन्यत्फलं कार्यमुपासतां स्यादुपासतां कारणमन्यदेव ।
एतस्य तत्त्वं विबुधा य ऊचुस्तेषां पुरा वाक्यमिति श्रुतं नः ॥१॥
      ईशावास्यस्य विवृतौ कृताया रामशर्मणा ।
      संपूर्णो दशमो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

यह एवमत उभयोः समुच्चयो युक्त इत्याह-संभूतिमिति । यः पुमान्संभूतिं चावर्णलोपः पृषोदरादित्वात् । असंभूतिं प्रकृतिमथदा सम्पग्भवत्यस्याः कार्यमिति संभूतिः कारणं पूर्वापरसंदर्भानुसारेण वकतुरभिप्रायस्यामिधानियामकत्वात्प्रकतिस्तां च परं विनाशं च । चैत्यर्थे । विनाशोऽस्यास्तीति विनाशं कार्यम् । अर्शआद्यच् । तदुभयं कार्यकारणोपासनाद्वयं सह समुच्चितं फलदमिति वेद जानाति स विनाशेनहिरण्यगर्भाख्यकार्योपासनेन । मृत्युमनैश्वर्यादिदुःखजातं तीर्त्वाऽतिक्रपासंभूत्या । अथवा पूर्वोक्तप्रकारेण संभूत्याऽव्याकृताख्यकारणोपासनेन ।यथाऽस्मदपेक्षयाऽधिकजीवनेन देवा अमरास्तथाऽऽपेक्षिकमभुतं प्रकृतिलयमश्नुते प्राप्नोति ॥ ११ ॥ अत्रायं संग्राहकः श्लोकः--

उपासने कार्यनिदानयोस्ते समाश्रिते वेद परस्परं यः ।
तत्राऽऽद्यया प्राप्य स ईश्वरत्वं द्वितीयया याति लयं प्रकृत्यामू॥१॥
    ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
    पूर्ण एकादशो मन्त्रः धीयतां तेन राघवः ॥ २॥

अधुना कर्मणोपासनां समुच्चिचीषन्प्रत्येकमुभयं फलं प्रदशर्य निन्दति ।अथवा व्याकृताव्याकृतोपासनयोः फलं प्रदशर्य कर्मणां देवतान्तरोपसनानां च फलं दर्शयति-अन्धं तम इति । ये नरा अविद्यां विद्या ज्ञानं तद्भिन्नाऽविद्या तां कर्म केवलमुपासते तत्पराः सन्तोऽनुतिष्ठन्ति तेऽन्धं तमो जन्ममरणरूपं प्रविशन्ति प्राप्नुवन्ति व उ ये त्वशुद्धचिवह अपि कर्म न कुर्वन्ति किंतु केवलाय विद्यायां देवतोपासनापां स्ता । आसक्तास्ते कर्माधिकारे सत्यपि कर्मत्यागेन प्रत्यवायरूपदोपयुः सन्तस्ततः कर्मानुष्ठातृभ्यो भूय इवाधिकमिव तमः संसरणलक्षणं । शन्ति प्राप्नुवन्त्युपासनाफलं नाश्नुवते । किंतु संसरन्तीति भावः॥१२॥ अत्रायं संग्राहकः श्लोकः-

उपासते केवलकर्मजालं ये संसरन्तीह पुनः पुनस्ते ।।
तेभ्योऽधिकं यान्ति गतागतं ते उपासते केवलदैवतानि ॥ १ ॥
    ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।।
    संपूर्णो द्वादशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

उक्तार्थे श्रुतिर्विद्वद्वचः प्रमाणयति--अन्यदेवेति । विद्याया देवतोपासनायाः फलमन्यदेव । विद्यया देवलोक इति श्रुतेर्दैवलोकप्राप्तिलक्षणं प्राज्ञा आहुः । तथाऽविद्यायाः कर्मणोऽन्यत्कर्मणा पितृलोक इति वचनात्पितृलोकप्राप्तिलक्षणमाहुर्दूरमेते विपरीते विषूची अविद्या या च विद्येति श्रुतेश्च । एवंप्रकारेणोभयतत्त्वव्याख्यातृभ्यः पूर्वमस्माभिः श्रुतमस्तीति तात्पर्य पदव्याख्या तु व्याकृताब्याकृतोपासनावन्मन्त्रे कृता ॥ १३ ॥ अत्रायं संग्राहकः श्लोकः-

बुधाः फलं कर्मण आहुरन्यत्स्याद्देवतोपास्तिफलं तथाऽन्यत् ।
ये तस्य तत्त्वं गुरवो न ऊचुस्तेभ्यः पुराऽस्माभिरति श्रुतं हि ॥ १ ॥
    ईशावास्यस्य विवृतो कृताया रामशर्मणा ।
    पूर्णप्रयोदशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

 उभयोः समुच्चये फलमाह-विद्यां चेति । विद्यां च देवतोपासनाम: विद्यां च कर्म तदुभयं सह समुच्चितं फलदात्रिति यः पुमान्वेद सोऽविद्यया कर्मणा मृत्युं स्वाभाविकमज्ञानं विस्मरणलक्षणं तीर्त्वा दूरीकृत्य विद्यया देवतोपासनेनामृतं देवतात्मभावमश्नुते प्राप्नोति तद्धयमृतमुच्यते यद्देवतात्मगमनमिति श्रुतेः । अत्रार्थे श्लोकयोजना–यो देवतोपा- स्तिमथापि कर्म एकेन कार्यं पुरुषेण वेद । स्वकर्मणा मृत्युमतीत्य विद्वान्स विद्ययाऽऽप्नोति हि वेदतात्वम् ॥ १॥ अथवा कर्मणामुपासनानां च फलं प्रदर्श्याऽऽत्मज्ञानेनैव कृतकृत्यतेति श्रुतिरुपपादयति वक्तृतात्पर्यस्यामिधानियामदात्वात् । विद्यामात्मज्ञानं च परमविद्यां च कर्मेत्युभयं पाठक्रमादर्थक्रमो बलीयानिति कर्माऽऽत्मज्ञानं च पूर्वापराधिकारभेदेन सहैकपुरुषकर्तव्यत्वेन समुच्चितं यो वेद सोऽविद्यया कर्मणोपासनाऽपि मानसं कर्मैव मृत्युं स्वरूपाविस्मरणहेतुं चित्तमलमनैकाम्यं तीर्त्वाऽतिक्रम्य विद्ययाऽऽत्मज्ञानेनामृतं मोक्षमश्नुते । तमेव विदित्वाऽति मृत्युमेति मान्यः,पन्था विद्यतेऽयमायेति श्रुतेः ॥ १४ ॥ अत्रार्य संग्राहकः श्लोकः-

कर्माऽऽस्मविज्ञानमपि क्रमेण संपाद्यमेकेन नरेण वेद ।।
यः कर्मणा चित्तषिशुद्धिमाप्य स विद्ययाऽऽप्रोत्यमुतं हि विद्वान॥१॥
   ईशावास्यस्य विवृतौ कृताय रामशर्मणा ।
   पूर्णश्चतुर्दशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

प्रथमव्याख्यायामुक्तोपासनावान्योगी देवतामन्ते प्रार्थयते-वायुर-निलमिति । द्वितीयव्याख्यायां त्वात्मज्ञस्याऽऽप्तकामत्वेन देहान्तेऽन्यत्र गमनं नास्त्याप्तकामो भवति । न तस्य प्राणा उत्क्रामन्यत्रैव समवनीयन्ते बह्मव सन्बह्माप्येतीति श्रुतेः । न च प्रार्थ्यं देवतान्तरं य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं मवतीतिधुतेस्तस्य सर्वात्मकत्वादसंकल्पत्वाञ्च। तमक्रतुः पश्यति वीतशोक इत्युक्तत्वात् । अत आत्मज्ञवन्नान्यस्यात्रैव कृतकृत्यतेति निदर्शयितुं सिंहावलोकनन्यायेन पूर्वोक्तव्याकृताव्याकृतो पासनावान्देवतान्सरोपासनावांश्च लोकान्तरगमनयोग्यो योगी देवतामन्ते प्रार्थयेतेति श्रुतिरुपदिशति-वायुरिति । मम वायुः शरीरस्थः प्राणः प्राणोपलक्षितं लिङ्गशरीरमुत्क्रान्तं सदमृतं मत्युनाऽनाप्तं तानि मृत्युः श्रमो भूत्वोपयेम इति प्रक्रम्याथेममेव नाऽऽप्रोद्योऽयं मध्यमः प्राण इति श्रुतेः। अनिलं सूत्रात्मानं प्राप्नोत्विति शेषः । यदा वै पुरुषोऽस्माल्लोकात्प्रैतीत्यादिना वायोरेव परलोकप्रापकत्वोक्तेः । अथेदं स्थूलं शरीरं भस्मान्तं भस्मैवान्तः परिणामो यस्य तादृशं पृथिव्यंशत्वादत्रैव तिष्ठत्विति तात्पर्यम् । ओमिति ब्रह्मनाम । अवति प्राप्नोति सर्वान्पदार्थानथवाऽवति रक्षति सर्वं भूतजातम् । अथवाऽवति दीप्यत इति स्वयंप्रकाशं ब्रह्म । ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत इति गीतावाक्यात् । तद्रूप क्रतो क्रतुर्यज्ञः । तद्धेतुत्वात्संकल्पोऽपि क्रतुः । यथा ऋतुर्भवति तत्कर्म कुरुत इति श्रुतेः । हे संकल्प स्मर । यन्ममेष्टं तत्स्मर। यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावित इति भगवद्वाक्यात्न्क्लिबे कुल्पते प्राप्तुं योग्यो भवतीति क्लिप्क्विबिमागमश्छन्दृसस्तस्मै क्लिवे जशादेशोऽयस्मयादित्वेन पदत्वात् । मया प्राप्तुं प्रोग्याय लोकाय कियार्थीपपदस्येति कर्मणि चतुर्थी तं, दातुं स्मर स्मरणविषयं कुरु कृतं यन्मया बाल्यप्रभृत्यनुष्ठितं तत्स्मर स्मरेत्यस्य त्रिरावृत्तिः संभ्रमेण प्रवृत्तत्वात् ॥ १५॥ अत्रायं संग्राहकः श्लोकः- रामचन्द्रपण्डितकृता-

सूत्रं मरुद्यातु वणुर्ममेदं मस्मान्तमुवी प्रणवास्मकरस्वम् ।
संकल्प्य पत्कर्म कृतं मयेष्ठं प्राप्यं च लोकं मम संस्मराय ॥ १ ॥
      ईशावास्यस्य विवृतौ कृतायां रामशर्मणा ।
      पूर्णः पञ्चदशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

अर्थ कर्मकृत्सर्वायमेषु परिचरितमग्निं प्रार्थयते-अग्ने नयेति । हे देव दीव्थति दीप्यते इति देवो द्योतनात्मकाग्नेऽस्मास्त्वदुपासकान्सुपथा गतागतरहितेन मार्गेण राये भोग्याचे फलाय मुक्तिरुपाय तादर्त्थ्थे चतुर्थी तदर्थ नय प्रापय । यतो मवान्विश्वानि सर्वाणि वयुनानि ज्ञानानि कर्माणि वा विद्वाञ्जानन् । किंध जुहुराणं हुर्छः सनो लुक्छलोश्चेति सिद्धं कौटिल्यं वञ्चनात्मकं व्यवहारार्थमाचरितमेनः पापमस्मदस्मत्तो युयोध्यमिश्रितं कुरु नाशयेत्यर्थः । अमिश्रणार्थकाधुधातोरादादिकादपि बहुलं छन्दसीति श्लुरङितश्चेति हेर्धिर्वा छन्दसत्यपित्त्वविकल्पान्ङिस्वामान गुणः । निष्पापत्वे मुक्तियोग्यत्वं स्यादिति भावः । यतोऽधुना वयं नमस्कारमपि कर्तुमशक्ताः शरीरापाटवात्किमुतान्यपरिचर्यामतस्ते तव भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेमोत्तमपुरुष आशीर्लिङो बहुववचनं छन्दस्युभयथेति सार्वधातुकत्वमङालोपः क्रियाम।नमस्कारेण वै खल्वपीति वचनान्नमोऽस्तु नमोऽस्त्विति बुम एताषतैवत्त्वं प्रसन्नो भवेति तात्पर्यम् ॥ १६ ॥ अत्रायं संग्राहकः श्लोकः-

ज्ञानानि सर्वाणि विदंस्त्वमग्ने संप्रापयाम्मान्सुपथा विमुक्तिम् ॥
कौटिल्यमेनः कुरु नः पृथक्त्वां कुर्मो नमोऽन्ते बक्षुधा स्ववाश्चा ॥१॥
ईशावास्यस्य विवृतौ कृताया रामशर्मणा ।
संपूर्णः षोडशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥

अथ पुनरादित्यान्तर्यामिपुरुषोपासनामभेदेन वर्णयन्नैकात्म्यमुपसंह रति-हिरण्मयेनेति । हिरण्मयेन हिरण्यस्य विकारो हिरण्मयं तदिव प्रकाशात्मकं तेन पात्रेण पिबन्ति रश्मयो रसान्यत्र स्थितास्तेन बिम्बेन सत्यस्य । सत्यस्य सत्यमिति श्रुतेर्बह्मणो मुखं मुखमिव मुखं प्रधानं रूपमपिहितमाच्छादितं सर्वजनैरज्ञातमस्ति । तथाऽपि यः प्रसिद्धोऽसौ प्राकृतजनानां परोक्ष आदित्ये सूर्यमण्डले स्वयंप्रकाशः सकलशक्त्याधारमूतः पुरुषः स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इति श्रुतेः । अन्त:र्याम्यस्ति स पुनरसविस्यनेनावधारणं स एव । अथवैतच्छदार्थोऽदःशब्दः । एष सर्वसमीपतरोऽहमिति प्रत्यक्षतः स्वानुमवं श्रुतिरधिकारिणे प्रदर्शयति । स यश्चायं पुरुषे यश्चासावादित्ये स एक इति श्रुतेः।ॐ ॐकारवाच्यं खेमाकाशमिव व्यापकं ब्रह्माहमस्मीति भावः ।एवमेव स्वमपि ब्रह्मरूपोऽसीति तात्पर्यम् ॥ १७॥ अत्रायं संग्राहकः श्लोकः-----

तेजोमयेनापिहितं स्वरूपं सत्यस्य विम्बेन सदा परं तु ।।भानावसौ यः पुरुषोऽस्ति सोऽहं ज्ञेयं विभु ब्रह्म सदोंस्वरूपम् ॥१॥
       ईशावास्यस्य विवृतौ कृतायं रामशर्मणा ।।
       पूर्णः सप्तदशो मन्त्रः प्रीयतां तेन राघवः ॥ २ ॥
  माध्यंदिनेशोपनिषद्भहस्यप्रकाशकं श्लोकसमूहमेतम् ।।
  कृत्वाऽर्पितं श्रीगुरुपादपद्मे पठत्यजस्रं स विमुक्तिमीयात् ॥ १ ॥
        ईशाख्योपनिषद्रहस्यविवृतिं श्रीरामशर्माऽकृत
        श्रीकृष्णात्रिकुलोद्भवः कविवरः श्रीसिद्धराजात्मजः ।।
        शाके खेटगुणाचलावनि १७३९ मिते यामीश्वरेऽब्वे मधौ
        सेयं श्रीरघुवीरपादकमले भक्त्याऽर्पिता श्रीमति ॥ २ ॥

इति श्रीमद्विद्वन्मुकुटालंकारहीरश्रीराजयोगिषरिष्ठश्रीसिद्धेश्वर- रिसूनुना श्रीरामचन्द्रपण्डितेन विरचिता श्रीमाध्यंदिनीये- शावास्योपनिषदहस्यविवृतिः समाप्तिमगमत् ॥ ॥ ॐ तत्सत् ॥ - पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/७० ॐ दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डे समाप्तमथैदानी,ज्ञानकाण्डं प्रस्तूयते-ईशा बास्यमिति । ईशा वास्यमित्यादीनां मन्त्रीमपि यथाकथंचन कर्मसु विनियोगः किं न स्यादिति केनचित्पृष्ट झे पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्यनेन षोडशचँनेत्यादि । तत ईशा वास्यमित्यादिमन्त्राणां कर्मसु प्रमाणतोऽविनियोगात् । यागकल्पनावं तु विशेषं परिहृयैव यागकल्पना सा भवाति नेतरति भीमगवच्छंकराचार्योय विरोधादेवाविनियोगस्तेषां मन्त्राणां कर्मणीति प्रतिपादयतिईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्तास्तेामकर्मशेषस्याऽऽत्मनो याथात्म्यप्रकाशकत्वादिति । तमेवं सविस्तर प्रतिपादयति-याथा- त्म्यमात्मनः शुद्धत्वापापविछत्वाशरीरत्वादि वक्ष्यमाणं कर्मणा विरुध्यत इत्यतो युक्तस्तेषां कर्मस्वविनियोगः । न चैवंलक्षणत्वं याथात्म्यमुत्पाद्यं संस्कार्यं कर्तृत्वं भोक्तृत्वं येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपयोगाद्गीतानां मोक्षधर्माणां चैतत्परत्वात् ।तस्मादात्मनोऽपृथक्त्वाकर्तृत्वादि शुक्लत्वादि नोपादाय तस्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि द्रुष्ठेन कर्मफलेन ब्रह्मवर्चसा वाऽदृष्टेन वद्ष्स्वर्गादिना वाऽनुमीयते तत्र च द्विजातिवं लक्षणाद्यधि- कारधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्वित्याधिकारविदो वन्दति । तस्मादेते मश्रा यात्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषयाः स्वात्मविकाराज्ञानं निवर्तयन्तः शोकमोहादिसंसारावच्छित्तिसाधनमा- मैकत्वादिविज्ञानमुत्पादयन्ति । एवमुक्तविषयसंबन्धप्रयोजनान्मन्त्रा- संक्षेपतो व्याख्यास्यामः । अस्य कृत्स्नस्याध्यायस्य वृध्यङ्ङाथर्वण ऋषिः । आत्मा देवता प्रतिमन्त्रं चेशावास्यं कुर्वन्नेवासुर्यानामेति तिस्राऽनुष्टुम आत्मदेवत्या द्ध्यङङाथर्वण ऋषिः । अत्र च कंचन पुत्रं शिष्यं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रमिह जन्मनि जन्मान्तरे वा यथाशक्त्यनुष्ठितयज्ञादिना क्षपितकल्मषं नित्यानित्यवस्तुविवेकवन्तं दैववशात्कथंचिदिहामुत्रार्थफलभोगविरागयुक्तं शमदमादिसंपन्नं मुमुक्षु शिक्षयति । स्वयमाचार्यस्वरूपा सती श्रुतिराह-ईशावास्यमिति । ईश ऐश्वर्येऽस्य क्किबिन्तं तृतीयान्तं रूप मीशेतीष्ट इतीटू तेनेशेशित्रेशा तेन परमेश्वरेण परमात्मना सर्वजन्तूमात्मभूतेन स्वेनाऽऽत्मनेशा वास्यं वसनिवासे वास्यं निवसनीयं किमतीदं प्रत्यक्षादिभिः प्रतीयमानं साक्षिदृश्यं चेदमात्मव्यतिरिक्तं सर्वदमिदमीशावास्यं सर्वेषु स्वकार्येषु स्वकारणभूते निवास्यम् । जगति पृथिव्यां जगत्यां जगत्युपलक्षिते जगति किंचेति चकारो भिन्नक्रमः । जगति व्यक्तं च लोकप्रसिद्धं वस्तुजातं तत्सर्वमशा वास्यं निवास्यं स्वेनाऽऽत्मना निवास्क्यू । किंच वस आच्छादनेऽहमेवेदं सर्वमिति परमसत्यरूपेणशा परमात्मनाऽनृतमिदं सर्वं वास्यं छादनीयमाच्छादनीयं कार्यस्य कारणसत्ताशाप्रकाशव्यतिरंकेणाऽऽरोपितस्याधिष्ठानप्रकाशव्यतिरेकेण पृथक्सत्ताप्रकाशनाभवादेवेदं सर्वं जगदीशा वास्यम् । यतः प्रत्यगात्मनः सञ्चिदानन्दलक्षणपुरुषार्थरूपं स्वत एव सिद्धम् । तेन स्वस्मिन्नारोपितस्याहमिदं ममेदमित्येवमनात्मकस्य सर्वस्यानर्थभूतस्य जगतस्त्यक्तेन त्यागेन सर्वाधिष्ठानभूतस्वस्वरूपयाथात्म्यानुभवसामथ्र्य सिद्धेन त्यक्तेन त्यागे- नाऽऽत्मानं भुञ्जीथाः । भुजेाऽनवन इत्यस्य रूपम् । पालनेऽपि च्छन्दस्यात्मनेपदं भवत्यत आत्मानं भुञ्जीथाः पालयेथाः कृतं कृत्यं प्राप्तं प्रापणीयम् । आत्मलाभान्न परं विद्यत इति श्रुतेः । एवं त्यक्तेषणस्त्वं मा गृधः कस्यस्विद्धनम् । गृधु अभिकाङ्क्षायाम् । कस्यस्वित्परस्य धनं मा गृधः । अभिकाडूक्षा मा कार्षीर्धनविषयाभकाक्षां मा कार्षीरित्यर्थः । स्विदिति निपातो बितर्कवचनः । अस्य संपूर्णकामत्वादेवान्यार्थविषयाकाङ्का किंनु कर्तव्या न कर्तव्येत्यर्थः । विचार्यमाणे तथा विधस्यार्थस्याभावादेवाथवा मा गृधः कस्यचिद्धनमित्याक्षेपार्थों न कस्यचिद्धनमस्ति य्रदृध्येत । आत्मैव सर्वमिती रा भावनया सर्वं दैतमात्रं त्यक्तमत आत्मन एवेदमात्मन एव तु सर्वं परस्य कस्यचित्संबन्धित्वेन प्रतीयमानस्य स्वयं संबधित्वमापादयितुमभिकाङ्क्षांमा कार्षीः स्वव्यतिरेकेणातो मिथ्याविषयं ग्रहं मा कापरित्यर्थः । एवमात्मविदः पुत्राधेषणात्रयसन्यासेनाऽऽत्मज्ञाननिष्ठतयाऽऽत्मा रक्षितव्य इत्येष वेदार्थः ॥ १ ॥

 अथैतस्यर्थस्य ग्रहणस्य तु साधनत्वेनेदमुपदिशति-कुर्वन्नेवेहेति । इह कर्मभूमौ शतं समाः शतं वर्षाणि जिजीविषेद्यदि भवाञ्जीवितुमि- च्छेत्तहि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव भवाञ्जिजीविषेच्छतं समा इति जीवतः पुरुषस्य जीवितं परमायुरनूद्य कुर्वन्कर्माणीत्यवधीयते । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे नराभिमानिनि त्वयि । एवं जीवति सति कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः । नान्यथेतोऽस्ति । इतोऽस्माद्यथोक्तप्रकारादन्यथा प्रकारान्तरं नास्ति।एको ज्ञानमार्गो द्वितीयः कर्ममार्ग एवं प्रकारद्वयादन्यत्प्र- कारान्तरं नास्तीत्यर्थः । देवताभक्तिरप्युभयात्मिकैव । अतो न विरोधः । एवं चे दशुभं कर्म न लिप्यते । केचिदेवं योजयन्ति- इह लोके कर्माणि यज्ञेन दानेनेत्यादिना मुक्तिसाधनत्वेन विहितानि कर्माणि कुर्वन्नेव शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः ।एवमिहैवं त्वयि वर्तमाने सति तव मुक्तिरास्त्विति शेषः । नान्यथेतोऽस्ति।इतः प्रकारादन्यथा मुक्तिर्नास्तीत्येतदुतं भवति । यथा स्वर्गप्राप्तेननाभूता विशेषास्तथा मुक्तेर्न मार्गभेदोऽस्त्यपि त्वेक एव मार्गो ज्ञानलक्षणः कर्म लिप्यते नास्ति येन प्रकारान्तरेण विद्यमानेन कर्म लिप्यते तथा प्रकारान्तरं नास्तीत्यर्थः । अतः शास्त्रविहितान्यग्निहोत्रादीनि कर्माणि कुर्वन्नेव जिजीविषेदिति । कथं पुनरिदमवगम्यत आद्येन मन्त्रेण ससंन्यासज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठति ज्ञानकर्मणोर्विशेषोपरोधं पर्वतसर्षपवदेवोक्तं न स्मरसि किमित्याद्युक्तम् । यो जिजीविषेत्स कर्म कुर्वन्नेवेति । ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनमिति । तेन जीविते मरणे वा गृधिं मा कुर्वित्यरण्यामियादिति पदमतो न पुनरियादिति व्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः । क्रियापथश्चैव पुरस्तात्संन्यासपथश्च तयोर्यास एवात्यरेचयदिति तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च सुभाषित इत्यादि पुत्राय विचार्य निश्चितमुक्तं श्रीवेदव्यासेन वेदाचार्येण । श्रीभगवतालोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनामिति । विभागं चानयोर्दर्शयिष्यामः ॥ २ ॥ अथेदानीमविद्वन्निन्दाऽऽरभ्यते विद्वत्पशं सार्थम्-असुर्या नाम त इति।परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरा असुषु रमन्त इति । तेषां संभूता लोका असुर्या नामशब्दः प्रसिद्धवचनस्ते लोकाः कर्मफलानि जन्मानि येषु लोक्यन्ते दृश्यन्ते भुज्यन्त इति । अन्धेनादर्शनात्मकेन तमसाऽज्ञानलक्षणेनान्धकारेणाऽऽवृता आच्छादितास्तान्स्थावरांस्ताँल्लोकांस्ते प्रेत्य सृत्वेमं देहं परित्यज्याभिगच्छन्ति । यथाकर्म यथाश्रुतं ते तान्गच्छन्ति । ते क इति तानाह-ये के चाऽऽत्महनो जना इति ।आत्मानं घ्नन्तीत्यात्महननमात्मभेददर्शनं तत्कुर्वन्ति ते केऽविद्वांसः स्वस्वरूपाविदस्तद्विपर्ययेण विद्वांसो मुच्यन्ते न त्वात्महनः ॥ ३ ॥

 तर्हि तत्कीदृशमात्मतत्त्वमिति तदाह–अनेजदेकमिति । आत्मदे- वत्या त्रिष्टुप् । अतिवेगवान्वायुः प्रसिद्धस्ततो हि वेगवत्तरं मनस्ततोऽप्यतिवेगवत्तरमात्मतत्त्वं कथं विरुद्धमिदमुच्यते निश्चलं जवीय इति ।नैष दोषो निरुपाध्युपाधिमत्त्वोपपत्तेः । तत्र निरुपाधिस्वरूपेणोच्यतेअनेजदेकमिति । सोपाधिस्वरूपेणोच्यते-मनसो जवीय इति । मनसो जवेनान्तःकरणस्य संकल्पादिलक्षणस्योपाधेरनुवर्तमानात्तत्र प्रवृत्तिश्च व्यर्थं पुरतः पुरतश्चाऽऽत्मतत्त्वं प्रकाशत इति ज्योतिर्बाह्मणे प्रसिद्धम् ।इहैव दुःस्थस्य मनसो ब्रह्मलोकादिदूरसंकल्पनं नानागमनं क्षणमात्रादित्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् । तस्मिन्मनासि ब्रह्मलोकाद्वि- में गच्छति प्रथमं प्राप्त इवाऽऽत्मचैतन्याभासो गृह्यते । अतो मनसो जवीय इत्याह-किंच नैनद्देवा आप्नुवन्निति । एतदात्मतत्त्वं देवा द्योतनसाधनत्वात्सर्वथाऽपि तदात्मतत्त्वं चक्षुरादीन्द्रियाणि देवा नाऽऽप्नुवन्न प्राप्नुवन्न विषयीकुर्वन्निति । प्रकाशविषयीकर्तुं वा श्रम एवं ततस्तेभ्यो मनो जवीयः । मनोव्यवहारो व्यवहितत्वात् । नाऽऽभासमाब्मत्रप्यात्मनो नैव देवतानां विषयो भवति यत्स्यान्मनसोऽपि पूर्वमर्पत्पूर्वमेव गतं व्योमवद्यापित्वात् । सर्वथाऽपि तदात्मतत्त्वं सर्वसंसारधर्मवर्जितं स्वेन नीरूपेणाविक्रियं सदुपधिकृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मुढानाभेकमनकमिव प्रतिदेहं प्रत्याचक्षते स्वत इत्येतदाह-तद्धावत इति । तद्यत्प्रसिद्धमात्मतत्त्वं तद्धावतो दूरं ंगच्छतोऽन्यान्मनोवागिन्द्रियप्रभृतीनात्मविलक्षणानत्येत्यतीत्य गच्छतव ।इवार्थं स्वयमेव दर्शयति-तिष्ठदिति । तिष्ठत्स्वयं सदित्यर्थः । तस्मिन्नात्मतत्त्वे सति चैतन्यस्वभावे मातरिश्वा मातर्यन्तरिक्षे श्ववयत इति मातरिश्वा सर्वप्राणभृक्रियात्मकः । यदा सर्वाणि कार्यकारणजातानि यस्मिन्नोतानि प्रोतानि यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ स मातरिश्वा । अपोऽप इति कर्मनाम । अपः कर्माणि प्राणिनां चेष्टालक्षणान्यग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशवर्षादिलक्षणानि यज्ञदानहोमादीनि दधाति स्थापयति विभजतीत्यर्थः । समष्टिव्यष्टिरूप ह्यसौ वायुधारयतीति वा । मीषाऽस्माद्वातः पवत इत्यादिश्रुतिभ्यः ।सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वस्याऽऽदिभूते सत्येव भवन्तीत्यर्थः । न मन्त्राणां जामिताऽस्तीति पूर्वोक्तोऽर्थः॥४॥

| कंचिद्विशेषं दर्शयन्नाह—तदेजति । यस्तु सर्वाणि भूतानि यस्मिन्सर्वाणि भूतानीत्यात्मदेवतास्तिस्रोऽनुष्टमः । तदेजति । तद्यत्प्रकृतमात्मतत्त्वं तदेजत्युपोधित एजति चलति । तन्नैजति । तदेव त्वात्मतत्त्वमतो नैजति नैव चलति । अचलमेव सञ्चलतीव भवतीत्यर्थः। तददूरे। वर्षकोटिशतैरप्यविदुषामप्राप्यत्वातददूरे एव । तत् उ एव अन्तिकेऽतिसमीपे विदुः घामात्मत्वात्तदन्तिक एव । अत्यन्तसमीप एव न केवलं दूरेऽन्तिके तदन्तोऽस्य सर्वस्य जगतोऽन्तरात्मैव । एष त आत्मा सर्वान्तर इति श्रुतेः ।अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदेव सर्वस्य बाह्यतो व्यापित्वादाकाशवन्निरतिशयसूक्ष्मत्वादतो ज्ञानघन एवेति शासना- ग्निरन्तरम् ॥ ५ ॥

यस्तु शोधिततत्त्वंपदार्थों मुमुक्षुः सर्वाणि भूतान्यव्यक्तानि स्थावरा- न्तानि चेतमाचेतनान्यात्मानं त्वामन्वन्वेति सदा पश्यत्यात्मव्यतिरिक्तानि न प्रपश्यति । अपि त्वात्मन्यात्मत्वेन पश्यतीत्यर्थः । सर्वभूतेषु चाऽऽत्मानं तेषु सर्वेषु भूतेषु चाऽऽत्मानमनुपश्यति तेषामपि मूतानामात्मानमात्मतत्त्वं न पश्यति यथाऽस्य कार्यकरणसंघातरूपमात्मानं सर्वप्रत्यय साक्षिभूतं सत्यं केवलम् । निर्गुणोऽनेनैव स्वरूपेणाव्यक्तानां स्थावराज्ञानामहमेवाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं यस्तु पश्यति । ततस्तस्माद्दर्शनान्न विजुगुप्सते जुगुप्सां घृणां न करोति गुपू रक्षणे देहादिकं गोप्तुं न गच्छतीति वा । ज्ञानप्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणाऽऽत्मनोऽन्यद्रष्टव्यं पश्यतो भवति। आत्मानमेव त्वनन्तेषु विशुद्धं निरन्तरं पश्यतो न प्राणादिनिमित्तमस्तीति प्राप्तमेव ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मन्त्र आह । सर्वासां श्रुतीनामत्रैव तात्पर्यमिति प्रदर्शयितुम्-यस्मिन्सर्वाणि भूतानीति । यस्मिन्यथोक्त आत्मनि सर्वाणि भूतानि तान्येव भूतानि परमार्थदर्शनादात्मैवाभूदात्मैव संवृत्तः ।परमार्थतो विजानत एवमात्मतत्त्वं विजानत एतत्तस्मिन्काले तस्मि-न्नवस्थाविशेषे तत्र चाऽऽत्मनि को मोहः । मुह वैचित्ये को मोहः कः शोकः कः संसार एकत्वमनुपश्यतः । शोकमोहौ कामबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति । शोकमोहोरविद्याकार्ययोः संसारमसंसारमित्यज्ञानयोराक्षेपेण संप्रदर्शनासकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति ॥७॥

 योऽयमतीतेन मन्त्रेणोक्त आत्मा किंलक्षण इत्यपेक्षायामयं मन्त्रः प्रवर्तते स पर्यगादिति । आत्मदेवत्या जगती । स यथोक्त आरमा पर्यगात्परितः समन्तादगात्परितो गच्छति सर्वमवगच्छति व्याप्नोति च ।आकाशवद्यापी शुक्र शुच दीप्तौं शुचिमद्दीप्तिमदित्यर्थः । अकायमशरीरं लिङ्गशरीरवजितमव्रणमहतम् । अस्न्नविरं स्नावाः शिरा न विद्यन्ते यस्य तदस्राविरं कविः क्रान्तदर्शी नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेः । मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषामुपरि भवतीति परिभूः । स्वयमेव भवतीति स्वयंभः । येषामुपरि भवति यश्चोपरि भवति स स्वयमेव सर्वं भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरः । याथातथ्यतो यथातथा माधो याथातथ्यं यथाश्रुतकर्मफलसाधनतोऽर्थाकर्तव्यपदार्थान्व्यदधाकरोद्विहितवान्यथानुरूपं व्यधादित्यर्थः । शाश्वतीभ्यः समाभ्यः संवत्सरात्मभ्यः प्रजापतिभ्य इत्यर्थः । अत्राऽऽद्येन मन्त्रेण सर्वेषणापरित्यागाज्ज्ञाननिष्ठोक्ता । प्रथमो वेदार्थः। ईशा वास्य- मित्यादिना मा गृधः कस्यस्विद्धनामिति । अज्ञानिनां जिजीविषूणां ज्ञाननिष्ठासंभवे सति कुर्वन्नेव कर्माणि जिजीबिषेज्जिजीविषेरिति कर्मनिष्ठा । द्वितीयो वेदार्थः । अनयोश्चिरंतनयोर्मन्त्रः प्रदर्शितः–सोऽकामयत जाया मे स्यादिति तस्याज्ञानिनः कर्माणि । मन एवास्याऽऽत्मा वाग्जायेत्यादिवचनात् । अज्ञत्वं कामित्वं च निश्चितमवगम्यते । तथा चाऽऽत्मस्वरूपावस्थानं जायाचेषणासंन्यासेनाऽऽत्मविदा कर्मनिष्ठाप्रातिकूल्येनाऽऽस्मस्वरूपनिष्ठेव दर्शनात् । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यादिना यज्ज्ञाननिष्ठासंन्यासिनस्तेऽसुर्या नाम त इत्यादिनाऽविद्वन्निन्दाद्वारेणाऽऽत्मनः स पर्यगादिति वदतो मन्त्रैरुपादिष्टो १ यत्र तत्राधिकृता न कामिन इति । यथा च श्वेताश्वतराणां मन्त्रोपनिषदि--अत्यामिभ्यः परमं पवित्रं प्रोबाच सम्यगृषिसंघजुटमित्यादि विभज्योक्तम् । ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते--अन्धं तम इत्यादिना । कथं पुनरिदमवगम्यते साध्यसाधनभेदोपमर्शनम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।तत्र को मोहः कः शोक एकत्वमनुपश्यतः । यदात्मैकत्वविज्ञानं तत्र केनचिदपि कर्मणा ज्ञानान्तरेण वा स मूढः समुच्चिीवति । भक्तु समुश्चिचीवयाऽविद्वन्निन्द । तत्र च यस्य येन समुपः संमवति न्याचतः शास्त्रतो वा तदिहोच्यते । दैवं वित्तं देवताविज्ञानं कर्मसंबन्धित्वेनोपन्यस्तेन परमात्मविज्ञानं विद्यया देवलोक इति पृथक्फलारजासतो ज्ञानकर्मणोरिहैकैकानुष्ठाननिम्दा समुच्जिच्चिषया निन्दापरेककस्थ पृथक्फलाश्रयणाद्विद्यया तदारोहन्ति विद्यया देवलोकः । तत्र दक्षिणा पन्ति कर्मणा पितृलोक इति । न हि शास्त्रविहितं किंचिदकर्तव्यतामिवात् ॥८॥ | अन्धं तमः प्रविशन्ति। पडनुष्टुम अस्मदेवत्याः।अन्धं तमोऽदर्शनात्मकेत्तमः प्रविशन्ति । के येऽविद्यामविद्या कर्मेत्यर्थः। अबिद्यामग्निहोत्रादिलक्षयामेव केवलामुपासते । तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः। ततो भूय इव ते तमः । ततस्तस्मान्धात्मकाभूय एव बहुतरमेव तमः प्रविशन्ति ते क इति । य उ विद्यायां रता ये तु कमें हित्वा ये उ एवं विद्यायामेव रता ज्ञान एव रतास्ततो बहुतरमेव तमः प्रविशन्ति । अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽरजना इति श्रुतेः ॥ ९ ॥

अत्रावान्तरफलभेदं विद्याकर्मणोः समुञ्चये कारणमाहान्यथा कले वदफलवतोः संनिहितयोरङ्गाङ्गितैव स्यादिति–अन्यदेवाऽऽहुरिति ।अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुः । अन्यदेवाऽऽहुरविद्यया कर्मणाऽन्यदेव फलं क्रियत इत्याहुर्वेदाः कर्मणा पितृलोंको विद्यया देवलोक इत्यादयः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनं शुश्रुम । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च विचचाक्षिरे व्याख्या तवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ १० ॥

यत एवं विद्यां चाविद्यां चेति देवताज्ञानं कर्म चेत्यर्थः । वस्तद्वेद तदुभयं ज्ञानं कर्म च सहैकेन रूपेणानुष्ठेयं यो वेद तस्यैव समुच्चयकारिण एकपुरुषार्थसंबन्धक्रमेण किं स्यादित्युच्यते-अविद्यया मृत्युं तीर्वेति । अविद्यया कर्मणाऽग्निहोत्रादिना मृत्युं स्वाभाविकं रागतः क्रियमाणं कर्म ज्ञानं च सृत्युशब्दवाच्यं तदुभयं तीर्त्वाऽतिक्रम्य विद्यया वेदान्तज्ञानेनामृतं देवतात्ममावमश्नुते व्याप्नोति । तदत्रामृतमश्नुते यद्देवतात्मगमनम् ॥ ११ ॥ | अधुना व्याकृत(व्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दो- पते अन्धं तम इति । अन्धं तमः प्रविशन्ति के येऽसंभूतिं संभवनं संभूतिः सा ग्रंय.कार्यस्य संभूतिस्तस्य अन्याऽसंभूतिः प्रकृतिः प्रक्रियते कार्यंया प्रकृतिः कारणमव्याकृताख्यां तामसंभूतिमव्याकृताख्यां प्रकृतिकारणमविद्यां कामकर्मबीज़भूतामदर्शनात्मकमुपासते ते तदनुरूपमेव फलं तमोऽदर्शनात्मकं प्रविशन्ति । ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति । के ये उ एव संभूत्या रताः संभूत्यां कार्यब्रह्माणि हिरण्यगर्भख्य एव रतास्ते ततो भूय इव तमः प्रविशन्ति ।। १२ ।।

 अथाधुनोपासनयोः समुच्चबकरणायावयवफलभेदमाह-अन्यदे- वाऽऽहुरिति । अन्यदेव पृथगेवाऽऽहुः फलं संभवात्संभूतेः कार्यब्रह्मोपसनाणिमाद्यैश्वर्यलक्षणं फलमाहुर्वेदाः । तथाऽन्यदाहुरसंभवादसंभूतेरव्याकृतादृव्याकृतोपासनादन्यदेव फलमाहुः । अन्धं तमः प्रविशन्तिती शुश्रुम श्रुतवन्तो वयं धीरा ये नस्तद्विचचक्षिरे । य आचार्यां धराणां वचनं विचचक्षिरे व्याकृताव्याकृतोपासनाफलवचनं व्याख्यातवन्त इत्यर्थः ॥ १३ ॥

 यत एवमतः समुच्जयः संभूत्योर्युक्त एवैकपुरुषार्थत्वादित्याहसंभूतिं च विनाशं च यस्तद्वेदोभय सह विनाशेन मृत्युनाशो धर्मो यस्य स तेन विनाशधर्मणा हिरण्यगर्भपासनेनैश्वर्यप्राप्तिद्वाराऽनैश्वर्यधर्मकामादिदोषजातं च मृत्युं तीर्त्वा संभूत्या । अत्राकारलोपश्छन्दसः । असंभूत्याऽसंभूत्युपासनयाऽव्याकृतोपासनेनामृतं प्रकृतिलयलक्षणं कारणत्वप्राप्तिलक्षणममृतमश्नुत इति ततश्च पुनः संसारो भवतीत्येवमपरं विद्याकर्मसमुच्चये फलमाभिहितम् । तत्र को मोहः कः शोक एकत्वमनुपश्यत इति । स्वतन्त्रस्य सर्वकर्मसंन्यासपूर्वस्य सम्यग्ज्ञातस्य फलमभिहितमेवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोंsनेन प्रकाशितः । प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्त्रस्य प्रकाशने प्रवग्यन्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने विद्यामुपासत इति । तत ऊध्र्वं बृहदारण्यकं तत्रापि प्राणादिविषयोपासनं न परं किंचिदन्यन्निर्गुणब्रह्मपरमिति विभज्य दर्शनीयम्. । कार्यं सगुणब्रह्मोपासनावाक्यजातं चान्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिषण्मन्त्रप्रकाशितार्थस्य प्रकाशन उपयुक्तामितरसर्वं निर्गुणतत्त्वैकनिष्ठमिति । विद्यां चाविद्यां च यस्तद्वेदोभय५ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति यदुक्तं तत्र केन मार्गेणामृतत्वमश्नुत इत्यचिरादिमार्गेणेत्युच्यते ।। १४ ।। एवं यथोक्तोपासनं कुर्वनुपासकः स्वदेहस्यान्तकाले प्राप्त आत्म- नोऽमृतत्वप्राप्तिद्वारभूतमादित्यं याचते-हिरण्मयेन पात्रेणेति । आदित्यदेवत्याऽनुष्टुब्हे पूषन्हे सूर्यास्मत्पोषक हिरण्मयेन ज्योतिर्मयेन पात्रेणाऽऽधारभूतेन सत्यस्याऽऽदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितं मुखं द्वारमपिहितम् । हिरण्मयेन पात्रेण द्वारस्यापिधानं कृतम् । अतस्तत्त्वं पूषन्नपावृणु पूर्षस्तत्पिधानं त्वमपावृण्वपगमय । सत्यधमय सत्यस्य तवोपासनादहमपि सत्यधर्मो जातः । सत्य धर्मो यस्य स सत्यधर्मा तस्मै सत्यधर्माय मह्यं तदपावृणु । यद्वा व्यत्ययः । सत्यधर्माय सत्यधर्मस्य तदृष्टये ॥ १५ ॥

पूषन्नेकर्ष इति । सूर्यदेवत्या त्रिष्टुप्पोषणात्पूषा रविस्तरसंबोधनं हे एकर्षे त्वया सर्वस्य संयमनाद्यमो हे यम सूर्य सुष्टवीरणात्सूर्यस्तत्संबोधनं प्रजापतेरपत्यं प्राजापत्यस्तत्संबोधनं हे प्राजापत्य । एवं संस्तूय प्रार्थयते-व्यूह रश्मीनिति। रश्मीन्व्यूह विगमय समूह तेजस्तेजस्तापकं यज्ज्योतिस्तज्ज्यो- तिस्तत्समूहमेकी कुरु। यत्ते रूपं कल्याणतमं तत्ते पश्यामि । ते तव यत्कल्याणतम मङ्गलतमं रूपम् । तत्ते तव प्रसादात्तद्रूपमहं पश्यामि । किंच योऽसावसौ पुरुषः सोऽहमस्मि । योऽसौ मण्डलस्थो व्याकृतवयवो यः पुरुषः पुरुषा आहुः पूर्णत्वाद्वा पुरुषः सोऽहमस्मीत्यादिप्यमेकीकृत्य पश्यामीति ॥ १६ ॥

एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्भवति तदाह-- | वायुरनिलमिति । लिङ्गोक्तदेवत्यं यजुर्वायुः प्राणोऽनिलं सूर्यात्मृतमधिदैवतं स्वप्रकृतिं हिरण्यगर्भाख्यं प्राणं प्रतिपद्यते । अथानन्तरमिदं प्रतीयमानं शरीरमग्नौ हुतं भस्मान्तं भवति । कृतप्रयोजनत्वात् । इदानीं योगिनो बलभूतं प्रभूतं सर्ववेदसारं सर्ववेदमयअक्षरं कथयते-ओमिति । अवतेराप्नोतर्वा । ओमिति परमाक्षरस्य योगिनो बलभूतस्य परस्य ब्रह्मणः प्रणवाक्यस्य स्थूलादिगुणयुक्तस्य .. बह्मा ऋषि- श्छन्दो गायत्रं परमात्मा देवता । शंब्दब्रह्मारम्भ : विनियोगः । अपि च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येष्वपि काम्यनैमित्तिकादिष्वपि सर्वेष्वस्योंकारस्य विनियोगः । ओमिति परब्रह्मणो नामनिर्देशः । ओं तद्ब्रह्मेत्यादिश्रुतेः । ब्रह्मविष्णुशिवपरब्रह्मात्मकोऽकारोकारमकारार्धमा- त्रत्माकोऽयमोंकार एवान्त्यकाल उत्तारक इति दर्शयति आत्मरूप ॐकारस्ततस्तेन सतम् । इदानीं कृतं स्मारयति-कृतं स्मर इति ।लिङ्गोक्तदेवत्यं यजुः । क्रतो क्रतुः संकल्पोऽनेन संकल्पविषयो योगिमिर्लक्ष्यते । हे क्रतों श्रीभगवन्नग्ने स्मर कृतं ब्रह्मचर्ये मया कृतं तत्स्मर न विस्मर्तव्यम् । हे क्रतो गार्हस्थ्ये मया यत्कृतं तच्च स्मर।पुनश्च यत्साधु कृतं तत्सर्वं कृतं स्मर कृतं स्मरेति । आदरार्थं पुनर्वचनम् । अथवा क्रतुशब्देन यज्ञः संबोध्यते हे कतो हे यज्ञ । यज्ञशब्दोपल, क्षितो यज्ञाध्यक्षो यज्ञहविर्भागभुकश्रीभगवान्विष्णुः संबोध्यते श्रीम- गवन्विष्णो कृतं स्मर मया कृतं त्वया कारितं स्मर कृतं स्मर कृतं स्मरेति ॥ १७॥

मार्ग याचते--अग्ने नयेति । आग्नेयी त्रिपू । हे श्रीमगवन्नने हे सर्वज्ञ नय सुपथा दक्षिणमार्गनिवृत्यर्थं सुशब्दः शोमनेन मार्गेण देव- यानेनास्मान्नय प्रापय । राये धनाय कर्मज्ञानफलोपभोगाय वा । अस्मान्यथोक्तज्ञानकर्मकारिणो नयेति संबन्धः । हे देव विश्वानि सर्वाणि कमणि वयुनानि कर्माणि प्रज्ञानानि तदनुष्ठितानि च विद्वा- ज्ञानवांस्त्वं सुपथा नयेति संबन्धः । किंच-युयोध्यस्मज्जुहुराणमेनः । अस्मदस्मत्तः सकाशाज्जुहुराणं कुटिल कुटिलवञ्चनात्मकमेनस्तकृतं पैनः पापं युयोधि योधय पृथकुरु । तते विशुद्धाः सन्त इष्टं फलं प्राप्नुयामेत्यभिप्रायः । किंतु वयमिदानीं किमपि कर्तुं न शक्नुमः । अपि तु भूयिष्ठा बहुतरां नमउक्तिं नमस्कारवचनं ते तुभ्यं विधेम कुर्मः । केवलनमस्कारवचनेन परिचरेमेत्यर्थः ॥ १८ ॥

वन्देऽहं मङ्गलात्मानं मास्वन्तं वेदविग्रहम् । ।
याज्ञवल्क्यं मुनिश्रेष्ठ कृष्ण हरिहरं प्रभुम् ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीवासुदेवपुरीपूज्यपादपर-
    मकारुण्यासादितश्रीकृष्णभक्तिसाम्राज्यस्य श्रीमजातवेद-
       महोपाध्यायस्य अनुना चतुर्वेदिश्रीमदानन्दमट्टोपाध्या-
        येन विरचिते काण्ववेदमन्त्रभाष्यसंग्रहे चत्वारिं.
                   शोऽध्यायः ॥
४० ॥

                    ॥ ॐ तत्सत् ।।

सर्ववेदैकसंवेद्यं हरिं देवशिखामणिम् ।
देशतः कालतश्चैव गणतोऽनन्तमाश्रये ॥ १ ॥
चत्वारिंशे त्विहाध्याये परमात्मनिरूपणम् ।
क्रियते शोकमोहादिवजितैः परलक्षणैः ॥ २ ॥

ईशा वास्यमित्यस्याध्यायस्य कर्मसु विनियोगो नास्ति। किंतु शुद्ध स्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादकत्वम् ।तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्वरूपप्रकाशनेन शोकमाहादिसाधनमज्ञानं निवर्य स्वरूपं दर्शयतीत्यभिधेयसंबंन्धप्रयो• जनवानिति व्याख्यायते । ईशा वास्यमात्मदेवत्योऽनुष्टुप्छन्दस्कोऽध्यायों दध्यङ्ङाथर्वण ऋषिद्रष्टा । गर्भाधाना , संस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयज्ञं निष्पापं निस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह-ईशेति । ईश ऐश्वर्ये किबिन्त ईष्ट इतीट् । सर्वस्येशिता परमेश्वरः । स हि सर्वजन्तूनामात्मत्वात्सर्वमीष्टे।तेनाऽऽत्मनेशा परमेश्वरेणेदं सर्वं प्रत्यक्षप्रमाणसिद्धं विश्वं वास्यम् ।वस आच्छादने । अहलोर्यदिति ण्यत्प्रत्ययो णित्त्वात्स्वरितः । आच्छादनीयं सर्वं तेन व्याप्तमित्यर्थः । स एवाधस्तात्स एवोपरिष्टात । अन्तर्बहिश्च तत्सव व्याप्य नारायणः स्थित इत्यादिश्रुतेः । इयद्वा इदं सर्व- मीशा परब्रह्मणा वास्यं वस निवासे वासितमुत्पादितं स्थापितं नियमितं च । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति ।यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यादिश्रुतेः । न केवलं प्रत्यक्षगम्यमीशा वास्यमपि तु सावरणं ब्रह्माण्ड मित्याह—यदिति । यत्किंचिच्छ्रतिप्रमाणसिद्ध जगत्यां जगत् स्थावरजङ्गमात्मकं शेषं विश्वमीशेनोत्पादित स्थापितं नियमितं चेत्यर्थः । अतः कारणात्तेनेशा त्यक्तेन विसृष्टेन दत्तेन स्वादृष्टानुसारिणा विषयेण भुञ्जीथा भोगाननुभवेः । इतोऽधिकं मा गृधो गृधु अभिकाङ्क्षायां मा काङ्क्षीः । इतो ममाधिकं भवत्विति धियं त्यजेत्यर्थः । परमात्माधीनत्वेन त्वदिच्छाया व्याहत्वादिति भावः। एवं सद्धनं कस्यस्वित्स्विदिति निपातो वितकें न कस्यापीत्यर्थः । स एष सर्वस्य वशी सर्वस्येशानः सर्वमिदं प्रशास्ति यदिदं किंचेत्यादिश्रुतेमुंख्याता परमेश्वरो न स्वामिसंबन्धलिङ्गितमन्पत्प्राणिजातमिति राग्येण भवितव्यमिति तात्पर्यम् ॥ १ ॥ इदानीं चित्तशुद्धयर्थं विहितमवश्यमनुष्यमित्याह-कुर्वन्नेवेति । कर्माण्यग्निहोत्रादीनि निष्कामाणि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः प्रकरणात् । त्वं जिजीविषेर्जीवितुमिच्छेः । भवाञ्जिजीविषेदिति वा । पुरुषायुषस्य शतवर्षमितत्वाच्छतग्रहणं कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यावच्छक्ति कर्तव्यं न कदाऽपि त्याज्यामिति । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणीति । ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा मनीषिणः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति भगवद्वचनात् । त्वयति विभक्तिव्यत्ययस्तवैवं कर्मकुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्तीत्ययमभिप्रायः स्वर्गादिप्राप्तौ यथा नानोपायाः सन्ति न तथा मुक्तावत्यर्थः। ब्रह्मार्पणबुद्धया कृतकर्मणा शुद्धान्तःकरणस्यैवमुक्तिरिति भावः । ननु कर्मणोऽवश्यं फलेन भाव्यं कथं मुक्तिरित्याह--- न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये त्वयि न लिप्यते न बध्यते । स्वोचितेनासंकल्पितफलेन कर्मणा भगवन्तमाराधयन्तं नरमपि त्वां न प्रागुत्तरकर्म बाधत इत्यर्थः । मुक्तिकारणान्तःकरणशुद्धयापाद- कत्वेनोपक्षीणशक्तित्वात् । उक्तं हि द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभापित इति ॥ २॥

 अथ काम्यपरान्निन्दति-असुर्या इति । ये के च ये केचिज्जना आत्महन आत्मानं घ्नन्ति संसारे संबन्धयन्तीत्यात्मनोऽविद्वांसः काम्यकर्मपरा आत्महन्तारस्ते प्रेत्य सृत्वा ताल्लोकानभिगछन्ति । अभिराभिमुख्ये ते के ये लोका असुर्या असुराणामिमेऽसुर्या असुषु प्राणेष्वेव रमन्त इत्यसुराः प्राणपोषणमात्रपरा अज्ञानिनः केवलविषयासक्तास्तैः प्राप्या असुयः। कीदृशा अन्धेन तमसाऽज्ञानात्मकेन तमसाऽऽवृता आच्छादिता अज्ञानाधिक्यकारिणोऽनात्मज्ञाः पुनः पुनर्जायन्ते म्रियन्ते चैत्यर्थः । उक्त हि भगवता श्रीगीतायाम-कर्मजै बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति । अनेकचितविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचाविति । तस्माद्यथायोगं वर्णाश्रमविहितकर्मणा भगवन्तमाराधयं.स्तत्प्रसादेन निवृत्तस्वान्तःकलुषो जातवैराग्य आत्मविन्मुक्तो भवतीति अघ्रङ्ककार्थः ॥ ३ ॥ ..

 ब्रह्मविदाप्नोति पर तमेवं विद्वांनसुत इह भवति नान्यः पन्था अयभाय विद्यते । एवं त्वयि नान्यथेतोऽस्तीत्यादिश्रुतिभिर्बह्मज्ञानमेध मोक्षसाधनमित्युक्तम् । तद्ब्रह्म किंविधधमित्यत आह-

 अनेजदिति । त्रिष्टुपूछन्दस्यसृक् । तद्ब्रह्मानेजत् । एजृ कम्पने नैजतीत्वनेजत् । अकम्पमानोऽभयमचलदिति केच्चित्तथात्वे न मनसो जवीय इत्युत्तरविरोधोऽजरोऽमृतोऽभयो ब्रह्मेति श्रुतेश्च । एकं समाधिकरहितम् ।न तत्समश्चाभ्यधिकश्च दृश्यत इति श्वेताश्वतरोक्तेः । यद्वा सर्वभूतेषु विज्ञानघनरूपेणैकम् । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मेतिश्रुतेः । मनसो जवीयों मनो हि वेगवत्प्रसिद्धम् ततोऽपि जीवीयो वेगवत्तरं जवोऽस्यास्तीत जववदूत्यन्तं जववदिति जवीय ईयसुनि कृते विन्मतोर्लुगिति मतुपो लुग्देहस्थस्य मनसो दूरस्थब्रह्मलोकादिसंकल्पनं क्षणमात्राद्भवतीति मनसो वेगवत्तरत्वं तस्याप्यगम्यत्वाद्बह्म मनसो जवीय इत्युपपद्यते । किंच देवा ब्रह्माद्या अप्येनद्बह्म नाऽऽप्नुवन्कात्स्न् नाजानन् । देवा द्योतमानश्चक्षुरादयोऽप्येनन्नाऽऽप्नुवन्न गोचरी कुर्व- न्तीति केचित् । तत्तु मनोगम्यत्वादेवापीह स्थितम् । पूर्वं सर्वजगत्का. रणम् । यतो वा इमानि भूतानि जायन्त इति श्रुतेः । अर्षत झष गती, अर्पतीत्यर्षज्ज्ञानस्वरूपं सत्यं ज्ञान मनन्तं ब्रह्मति श्रुतेः। किंच लोकवि- लक्षणं लक्षणान्तरमाह-तिष्ठदिति । तिष्ठतीति तिष्ठत्स्वस्थाने स्थितमपि सर्वगतत्वाद्धावतो द्रुतं गच्छतोऽन्यान्मनआदीनत्येर तिक्रम्य तिष्ठत्यचिन्त्यशक्तिकमित्यर्थः । किंच मातरिश्वा मातर्यन्तरिक्षे वयति वर्धत इति मातरिश्वा वायुः । दुओश्चि गतिवृद्धयोरितिधातुः । तस्मि- न्ब्रह्मण्यपः कर्माणि दधाति धारयति । अप इति कर्मनाम कार्यकारण- जातानि यस्मिन्नोतानि प्रोतानि यश्च सूत्रसंज्ञः सवस्य जगतो विधार- यिता सर्वप्राणभृञ्चष्टकः सोऽपि वायुः प्राणिनां चेष्टालक्षणानि कर्माणि तस्मिन्ब्रह्मणि स्वाधिष्ठाने सति दधाति सर्वचेष्टको वायुस्तस्यापि चेत- यितु ब्रह्मेत्यर्थः । भाषाऽस्माद्वातः पवत इत्यादिश्रुतेः । यद्वा मातरिश्वा वायुरपः कर्माण्याप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता अपः कर्माणि। आप्नोतेह्रस्वश्चति क्विप् धातोर्हस्वश्च । तानि कर्माणि यज्ञहोमादीनि यस्मिन्दधाति स्थापयति । सर्वप्राणिकर्माणि समर्पयतीत्यर्थः । देवा गातुविदों गातुं वित्त्वा गातुमित मनसस्पत इमं नो देवदेवेषु यज्ञस्वाहा चाचि स्वाहा वातेधा इति समिष्टयजुर्मग्त्रे वायुस्थत्वोक्तेः सर्वकर्माणि तावद्वायौ स्थाप्यन्ते समष्टिव्यष्टिरूपोऽसौ वायुरपि तानि सर्वाणि तस्मिन्दधात्यतो पागहोमादीनां कर्मणां परमास्पदत्वं ब्रह्मलक्षण- मित्यर्थः ॥ ४ ॥

  रहस्यं सकृदुक्तं न चित्तमारोहतीति पूर्वमन्त्रोक्तमपि पुनर्वदति- सदिति। अनुष्टुपू । तस्कृतमारमतत्त्वमेजति चलति तदैव नैजति च। स्वतो नैव बिभेति । अमयमेव सन्मूढदृष्ट्या बिभेति च यद्वैजतिरन्तर्भावितथ्यर्थः । तदेजयति दुष्टांस्तदेव नैजयति सदाचारानिति शेषः । परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युग इति स्मृतेः । किं च तद्दरे दूरदेशेऽस्ति तदु तदेवान्तिके समीपेऽप्यस्ति सर्वगतत्वात् । यद्वा तद्दूरेऽविदुषामब्दकोट्याऽप्यप्राप्यत्वाददूर इवेत्यर्थः । तद्वन्तिके विदुषां हृद्यवभासमानत्वादन्तिक इव न केवलं दूरेऽन्तिकेऽस्ति । किंत्वस्य सर्वस्य नामरूपक्रियात्मकस्य जगतोऽन्तरभ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि तदु तदेवास्त्याकाशवह्यापकत्वात् । अन्तबंहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति श्रुतेः।यद्वाऽस्य मन्त्रस्यार्थान्तरम् । पूर्वं कारणरूपमुक्तमिदानीं कार्यरूपमुद्दि-शति--तदिति । तदात्मतत्त्वमेजति सर्वजन्तुरूपेण स्थितं सच्चलति तदेव नेजति स्थावररूपाधस्थं न चलति तदूर आदित्यनक्षत्ररूपेण स्थितत्वात् । तदु अन्तिके धरादिरूपेण स्थितत्वात् । अस्य सर्वस्य प्राणिजातस्यान्तर्मध्येऽन्तर्यामिरूपेण स्थितं तदेव यो विज्ञाने तिष्ठन्विज्ञानादन्तरो ये विज्ञानं न वेद् यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयतीति श्रुतेः । अस्य सर्वस्य जगतो बाह्यतस्तदु तदेव कालरूपेण विद्यमानत्वात् । अन्तर्बहिः पुरुषः कालरुप इति स्मृतेः । चेतनाचेतन रूपमनन्तं ब्रह्मवेत्यर्थः। एवमुपासतुरचिरादिमार्गेण गमनं नास्ति । इहैव ब्रह्मप्राप्तिः। न तस्य प्राणा उकामन्त्यत्रैव समवलीयन्ते । ब्रह्मैव सन्त्रमाप्येतीत्यादिश्रुतेः । तद्वन्तिक इत्यत्र उकारोऽपृक्तोऽस्यर्शादिति प्राति शाख्नयेन संधिः ॥ ५ ॥

 अथोपासनाप्रकारमाह-यस्विति ।अनुष्टुप् । यः पुनरधिकारी सर्वाणि भूतान्यव्यक्तादिस्थावरान्तानि चेतनाचेतनान्यात्मन्सप्तम्या लुगात्मन्ये वानुपश्यति । ब्रह्मण्येव सर्वाणि भूतानि स्थितानीति जानाति ।आत्मानं च सर्वभूतेष्वनुपश्यति । ततस्तस्माद्दर्शनान्न विजुगुप्सते ।जुगुप्स नाऽऽमोति मुक्तो भवत्रीत्यर्थः । उपक्रोशो जुगुप्सा थ कुत्सानिन्दा च गर्हणे । गुग्धातोर्गुप्तिज्किभ्यः सन्निति स्वार्थे सन्प्रत्ययः । थो म पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीतिभगवद्वचनसमानार्थक मन्त्रोऽयम् ॥ ६ ॥

 इममेवार्थं द्वितीयो मन्त्रो वदतीत्याह-यस्मिन्निति । अनुष्टुप् । यस्मिन्नवस्थाविशेषे विजानतः सर्वाणि भूतान्यात्मनि सन्ति । आत्मा च सर्वभूतेष्वस्तीति विशेषेण ज्ञानवतः पुरुषस्य सर्वस्य खल्विदं ब्रह्मोत्यादिवाक्यार्थविचारेण सर्वाणि भूतान्यात्मैवाभूत , भवन्ति सर्वभूतेष्ववस्थित आत्मैक एवेति ज्ञानं भवति । सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तत इति भगवदुक्तेः । तत्रावस्थाविशेष एकत्वमात्मैकत्वमनुपश्यतस्तस्य को मोहः कः शोकश्चाविद्याकार्ययोः शोकमोहयोः सर्वथाऽसं- मवासकारणकस्य संसारस्यात्यन्तमुच्छेद इति भावः । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्द्दष्टे परावरइति श्रुतेः ॥ ७ ॥

 एवंभूतात्मज्ञानिनः फलमाह–स इति । जगती । योऽधिकारी पूर्वो क्तप्रकारेणाऽऽत्मानं पश्यति स ईदृशमात्मानं पर्यगात्प्राप्नोति । छन्दसि लुङ्ललिट इति सूत्राद्वर्तमाने लुङ् । कीदृशं शुक्र शुक्लं शुद्धं रलयोरभेदाद्विज्ञानानन्दस्वभावम् । अकायं न विद्यते भोगार्थं कायः शरीरं यस्य सः । तमकायत्वादेवाव्रणमच्छिद्रं पूर्णमित्यर्थः । अस्राविरं न विद्यन्त स्रावाः शिरा यस्य सोऽस्त्राविरस्तम् । अकायमित्यनेन लिङ्गश:रीरनिषेधः । अस्राविरमिति स्त्रावोपलक्षितधातुमयस्थूलशरीरनिषेध इत्यपुनरुक्तिः । अत्रैव हेतुगर्भविशेषणमाह-शुद्धमनुपहतं सत्त्वरजस्तमोभिः । एतदेव स्पष्टयति-अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाशयैरस्पृष्टमीहशमात्मानं ज्ञानी पर्यगादित्यन्वयः । कायादिरहितोऽपि परमात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह-कविरिति । ज्ञानी यं पर्येति स आत्मा शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु विभक्तिव्यत्ययः । यथातथ्यतो यथातथामावो यथातथ्यं याथार्यं तेन यथार्थस्वरूपानर्थान्पदार्थान्व्यदधाद्विदधाति । कीदृशः स कविः क्रान्तदर्शी सर्वज्ञो मनीषी मेधावी ज्ञानस्वरूपः परिभूः परिभवति सर्वं वशी करोतीति परिभूः । स्वयंभूः स्वयमेवान्यवनपेक्ष्य भवतीति स्वयंभूः स्वतन्त्रः। कविरित्युत्तरार्धमुपासितुः फलकथनपरमिति केचिद्वयाचक्षते तत्यक्रममङ्गापेक्ष्यम् ॥ ८॥ इदानीं पूर्वोक्तप्रकारणानात्मविदः कर्मनिष्ठाः सन्तः कर्म कुर्वन्त एव ये जिजीविषन्ति तान्प्रत्युच्यते-

अन्धं तम इति । षडनुष्टुभः । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । ये जना अविद्या विद्याया अन्याऽविद्या कर्म तां केवलामुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्तीत्यर्थः।अविद्येत्यत्र तदन्यार्थे नञब्राह्मण इतिवत् । ते प्राणिनोऽन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति ।संसारपरम्परामनुमवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसः संसाराभूय इव। इव एवार्थः। बहुतरमेव तमस्ते प्रविशन्ति। ते के ये उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञान एव रताःकर्म हित्वा विहितकर्माननुष्ठानेन प्रत्यवाये सत्यन्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः । अन्येऽमुं मन्त्रेणोच्यते व्याकुर्वन्ति । यथा‌-आत्म-याथाथ्र्यज्ञानस्यैवान्यथाज्ञानानन्दयाऽऽवश्यकत्वोपपादनायान्यथाजान्स्योक्तमसुर्यलोकसाधनत्वमनूद्यान्यथाज्ञानानिन्दनस्य ततोऽप्यधिकानर्थसाधनत्वमन्येन मन्त्रेणोच्यते । न तु केवलकर्मनिन्दनं तदभावे विद्याया अध्यवसायत्वाभावात्केवलकर्मणामप्रसक्तेः । कुर्वन्नेवेह कर्माणि जिजीविषेदित्येवकरणं कर्मात्यन्तायोगव्यवच्छेदार्थेन केवलकर्मकरणविधानाभावाच्च । अत्रैवं योजना-येऽविद्यामन्यथाज्ञानमुपासते तेऽन्धं तमो नाम नरकं प्रविशन्ति । असन्नेव स भवति । असद्बह्मेति वेद चेदिति श्रुतेः । अथ ये जना विद्यायामु आत्मयाथार्थ्यज्ञान एव रता न त्वन्धतमःसाधनान्यथाज्ञाननिन्दने ते ततोऽन्यथाज्ञानं प्राप्य तमसः सकाशादभूय इव बहुतरमेवान्धं तमः प्रविशन्तीति ॥ ९॥

ज्ञानकेवलकर्मणोः फलभेदमाह–अन्यदेवेति ।विद्ययाऽऽत्मज्ञाने- नान्यदेव फलममृतरूपमाहुर्बह्मवादिनः । अविद्यया केवलकर्मणा साध्यमन्यदेव फलं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकाना अधस्तस्माद्विद्यां प्रशसन्तीत्यादिश्रुतेः । कथमेतदवगतमित्यत आह-इतीति । इत्येवं शुश्रम श्रुत्वन्तो वयं धीराणां धीमतां वचनम् । य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपकलतो विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इति भावः । द्वितीयपक्षे तु विद्ययाऽऽत्मयाथार्थ्यज्ञानेनान्यदेव मोक्षैकदेशलक्षणं फलं प्राप्यमाहुवृद्धा अविद्ययाऽन्यथाज्ञाननिन्दयाऽन्यदेव मोक्षैकदेशफलरूपं फलमाहुरिति धीराणां वचनं शुश्रुम ये धीरा नोऽस्मान्पति तन्मोक्षसाधनं विचचक्षरे व्याचचक्षिरे तस्मादु- पपन्नः समुच्चय इति ।। १० ॥  समुच्चयमाह-विद्यामिति । विद्याऽऽत्मज्ञानमविद्या कमन्यथाज्ञा- ननिन्दनं वा चद्वयं परस्परसमुच्चयार्थं तदुभयं सह ये पुरुषार्थहेतुत्वेन यो वेद, एकेनैव पुरुषेणानुष्ठेयमिति जानाति । सोऽविद्ययेश्वरार्पणबुद्धयाऽकृताग्निहोत्रकर्मणां मृत्युं मारकमन्तःकरणमलं तत्वोऽन्तःशुद्धया कृतकृत्यो भूत्वा विद्ययाऽऽत्मज्ञानेनामृतं भावप्रधानो निर्देशः । अमृतत्वं मोक्षमश्नुते प्राप्नोति । उक्तं हि श्रीगीतायां मगवता-यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यतीति । सांख्ययोगशब्द ज्ञानकर्मपरौ ॥ ११ ॥

 उक्तमेवमुत्तरमन्त्रत्रयेण समथ्र्यते--अन्धं तम इति । येऽविद्यामुपासते तेऽन्धं तमः प्रविशन्तीत्युक्तम् । तत्राविद्यास्वरूपमुच्य- तेऽसंभूतिमिति । ये प्राणिनोऽसंभूतिं नास्ति संभूतिर्जगत उत्प- त्यादिर्यस्मात्सोऽसंभूतिस्तं संभूतेरुपलक्षणत्वात् । परमेश्वरो न जगदुत्पत्यादिकर्ताऽपि तु स्वभावत एवोत्पद्यतेऽवतिष्ठते नश्यतीत्यामा नमुपासते तेऽन्धं तमः प्रविशन्तीत्यर्थः । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तीत्यादिश्रुतेः । यत्प्रयन्त्यभिसविशन्तीत्यादिश्रुतिविरुद्धत्वात् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपर-स्परसंभूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टारमानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः । आसुरी योनिमा- पन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमा गतिमिति भगवदुक्तेश्च । अन्यत्पूर्ववत् । यद्वा यमनियमादिसंबन्धवा- न्विज्ञानात्मा कश्चिन्नास्ति । जलबुदबुदवज्जीवाः । मदशक्तिवद्विज्ञान- मित्यादिद्वदिनो बौद्धा अनेन निन्यन्ते । ये नरा असंभूतं न संभूतिरसंभूतिस्तां मृतस्य पुनः संभवो नास्ति । अतः शरीरान्तेऽस्माकं मुक्तिरेवेति य उपासते सिद्धान्तयन्ति तेऽन्धं तमः प्रविशन्ति । तथा य उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिः परदेवता तत्रैवाऽऽ- सक्ताः कर्मपराङ्मुखाः स्व बुद्धिमालिन्यमजानाना आत्मज्ञानमात्र एव रता आत्मैवास्ति नान्यत्कर्मान्यदिति कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नरास्ततोऽन्धात्तमसो भूय इव इयशब्दो निपातो बह्वर्थों बहुतरं तमो विशन्ति । यद्वा व्याकृताव्याकृतोपास नयोः समुच्चिचीवया प्रत्येकं निन्दोच्यते तेन यथासंभवनं संभूतिः कार्यस्योत्पत्तिस्तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यं प्रकृतिकारणम् । अविद्याकामकर्मबीजभूतामदर्शनात्मिकं य उपासते ते तदनुरूपमेवान्धं तमः प्रविशन्ति संसारमेव.प्राप्नुवन्ति । ये तु संभूत्या कार्यबह्मणि हिरण्यगर्मादावेव रतास्ते ततस्त- स्मादपि भूयो बहुतरमेव तमः प्रविशन्ति ॥ १२ ॥

 अथॉभयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह-अन्य-देवेति । संभवात्संभूतेः कार्यबह्मोपासनादन्यदेव पृथगेवाणिमाद्यैश्वर्य लक्षणं फलमाहुः कथयन्ति धीराः। तथाऽसंभवादसंभूतेरव्याकृतोपासनादन्यदेव फलमुक्तमन्धं तमः प्रविशन्तीत्याहुः । केशोऽधिकतरस्तेषामव्यक्तासक्तचेतसामिति भगवदुक्तेः । इत्येवंविधं धीराणां धीमतां वचः शुश्रुम वयं श्रुतवन्तो ये धीरा नोऽस्माकं तत्पूर्वं संभूत्यस भूत्यु: पासनफलं विचचक्षरे व्याख्यातवन्तः ॥ १३ ॥

उक्तं सर्वमुपसंहरति-संभूतं चेति । संभूतिं सकलजगत्संभवैकहेतुं परब्रह्म विनाशं विनाशोऽस्यास्तीति विनाशम् । अर्शआदिभ्योऽजित्यच्प्रत्ययः । विनाशधर्मकं शरीरादिसंसार तदुमयं शरीरिशरीररूपं द्वयं यो योगी सहैकीभूतं वेद जानाति । नित्यानित्यं वस्तु विवेचयतीत्यर्थः ।देहभिन्नोऽहं देहीवाऽऽसं कर्मनिमित्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि कृत्वेश्वरेऽर्पयतीति भावः । स ज्ञानी विनाशेन विनाशवता शरीरेण सात्त्विककमनुष्ठानद्वारा मृत्युं तीर्त्वाऽन्त्ः- करणशुद्धिं संपाद्य संभूत्याऽऽत्मज्ञानेनामृतत्वमश्नुते मुक्तिं प्राप्नोति ।यद्वाऽस्या अर्थान्तरम् । यथा संभूत्यसंभूत्युपासनयोरेकपुरुषार्थत्वात्समुच्चय एवं युक्त इत्याह-संभूतिं चेति । अत्र विनाशं विनाशेनेतिशब्दद्वयेऽवर्णलोपो द्रष्टव्यः पृषोदरादित्वात्साधुरन्यदाहरसंभवादिति प्रक- रणात् । संभूतिं विनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेदोभयमुपास्त इत्यर्थः । स योग्यविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्म- कामादिदोषजातं च तीर्त्वाऽतिक्रम्य संभूत्या हिरण्यगर्भोपासननामृतं प्रकृतिलक्षणमश्नुते प्राप्नोति । यद्वा संभूत्या संभवतीति संभृतिर्हिरण्यगर्भादिदेवता तया संभूत्या संभूत्युपासनया मृत्युमन्तःकरणमलादिरूपं तीर्त्वाऽतिक्रम्याविनाशेन विनाश उपलक्षणमुत्पत्तिविनाशादिदोषरहितेन परात्मना तज्ज्ञानेनासृतं मोक्षमश्नुते । इति भिन्नक्रमेण पदयो,व्याख्यानम् ॥ १४ ॥

 एवं प्राप्ताधिकारं शिष्यं प्रति परमात्मस्वरूपं निरूप्य तत्साक्षात्कारो मोक्षसाधनमित्यतीतग्रन्थेनोक्तम् । स चेश्वरसाक्षात्कारो न श्रवणादिमात्रेण भवति । नापि मोक्षः साक्षात्कारमात्रेण किंतु भगवदनुग्रहादेव । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैदवृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वामिति श्रुतेः । अतोऽनुष्ठितश्रवणमननादिकेनापि साक्षात्कारार्थं प्राप्तसाक्षात्कारेणापि च मोक्षार्थं यथा भगवत्प्रार्थनं कार्यं तत्प्रकारप्रदर्शनार्था हिरण्मयेन पात्रेणेत्याद्युत्तरमन्त्राः । तत्राऽऽदित्यरूपोपासनमाह-हिरण्मयेन पात्रेणेति ।अनुष्टुप् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिति पात्रं सूर्यमण्डलं तेन तेजोमयेन मण्डलेन सत्यस्याऽऽदित्यमण्डलस्थस्याविनाशिनः पुरुषोत्तमस्य श्रीभग्वतो मुखं मुखमिति सर्वविग्रहोपलक्षाम् । लीलाविग्रहस्वरूपमपिहितमाच्छादितं वर्तते यत्तन्मुखं हे पूषन्पुष्णातीति पूषा तत्संबोधनं हे भक्तपोषक परमा- मंस्त्वमपावृण्वपावृक्मनाञ्छादितं कुरु । किमर्थं, सत्यधर्माय दृष्टये ।सत्यं सत्यज्ञानानन्दात्मकं त्वदूपं धारयति हृदये चिन्तयतीति सत्यधर्मा तस्मै चतुर्थी षष्ठश्र्थे सत्यधर्मस्य मदादिमक्तजनस्य दृष्टये दर्शनीय साक्षात्काराय शिरप्रेक्षणेऽस्माद्भावे क्तिन्प्रत्ययः । वयभ्रस्जसृजमृजयजराज-भाजच्छश ष इति शस्य षत्वं ष्टुना ष्टुरिति ष्टुत्वमित्यृषिप्रार्थनम् ॥१५॥

 एतदेव स्पष्टीकृत्य इषिर्याचते-पूषन्निति । उष्णिग्यजुरन्तोष्णि- क्त्रिपदाऽन्त्यो द्वादशवः इति वचनात् । हे पूषन्हे एकर्षे । एकश्चासावृषिश्चैकर्षिः । ऋष ज्ञाचे हे मुख्यज्ञान हे यम यमयति सर्वमिति यमो योऽन्तरो यमयतीति श्रुतेः । हे सूर्य । सूरिभिर्ज्ञेयत्वास सूर्यः सूरिशब्दात्तद्धितो यत् । यस्येति चेतीकारलोपः । हे प्राजापत्य । प्रजानां पतिः प्रजापतिर्हिरण्यगर्भस्तस्य वेदोपदेट्टत्वेन प्रिय यो ब्रह्माणं विदधाति पूर्वं तस्मै वेदांश्च प्रहिणोति सवनिति श्वेताश्वश्रुतेः । मदीयान्नश्मीन्पकाशयन्व्यूह तेजःसमूहं च स्वरूपं बाह्यं च मदीयं ज्ञानं विस्तारयेत्यर्थः।तथा यत्ते रूपं कल्याणतमं परममङ्गलं मङ्गलानां च मङ्गलमिति स्मृतेरस्ति तत्ते तव प्रसादादहं पश्यामि । यद्वा हे पूषन्नेकर्षे यम सूर्य प्राजापत्य प्रजापतेर्धर्मस्थापत्य नरनारायणात्मन्नश्मीन्मक्षुष उपघातकान्स्वान्रश्मीन्व्यूह विगमय । तेज आत्मीयं ज्योतिःसमूह- मुपसंहर मद्दर्शनयोग्यं कुरु । अन्यत्समानम् । केन प्रकारेण पश्यसीत्यत आह-य इति । योऽसौ पूरुषः पूर्षु शेतेऽसौ पुरुषोऽसौ मण्डलान्तस्थो यः पुरुषोऽसौ तदितरप्रतीकस्थितश्च पुरुषः सोऽहमस्मि,भवामि सूर्यमण्डलादिप्रतीकस्थो मद्धृद्यन्तस्थो ज्योतीरूपश्चैक एवेति प्रकारेण ते रूपं पश्यामीत्यर्थः । एतादृशक्यज्ञानस्यैव मोक्षसाधनत्वादिति भावः । अत्रासौ च शाकटायन इति प्रातिशाख्ये न यवयोः पदान्तयोः स्वरमध्ये लोप इति प्राप्तलोपप्रतिषेधादसावसावित द्रुष्टव्यम् ॥ १६ ॥

 इदानीं मरिष्यतो ,मम वायुरध्यात्मपरिच्छेदं हित्वाऽधिदैवतात्मानमनिलं प्रविशत्विति प्रार्थयते-वायुरनिलमिति । वायुरनिलं यजुषी।ओमितिपरमाक्षरस्य योगिनामालम्बनभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्च्छन्दो गायत्रं परमात्मा देवताशब्दब्रह्मारम्भविरामे च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येषुविनियोगोऽस्य कृतः । त्रिभिर्यज्ञान्योगी स्मारयतीत्यनुक्रमणी । हे परमात्मन्मरिष्यतो मम वायुः प्राणो वायुग्रहणं सप्तदशलिङ्गोपलक्षणार्थम् ।तथा च सदप्तशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवतरूपं सर्वात्मममृतं सूत्रात्मानमनिलं मुख्यप्राणं प्रतिपद्यतामिति वाक्यशेषः । वायुर्वै गौतम तत्सूत्रेण वायुना हि गौतम तत्सूत्रेणायं च लोकःपरश्च लोकः सर्वाणि च भूतानि संट्टाब्धानि भवन्तीति श्रुतेः । ज्ञानकर्मसंस्कृतं लिङ्गमुत्क्रमयत्वित्यर्थः । अथानन्तरमिदं स्थूलशरीरमग्नौहुतं सद्भस्मान्तं भस्मैवान्तो यस्य तद्भस्मान्तं भस्मावसानं भूयात्कृतप्रयोजनत्वात् । ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते ॐ हे क्रतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्यायं कालः समुपस्थितोऽतः स्मर यस्त्वं ब्रह्मचर्ये गार्हस्थ्ये च मया परिचरितस्तत्स्मर ।तथा कृतं यन्मया बाल्यप्रभृत्यद्य यावदनुष्ठितं कर्म तच्च स्मर । क्रतोंस्मर कृतं स्मरेति पुनर्वचनमादरार्थम् । यद्वा प्रत्यक्षत एव देहस्य भस्मातत्वदर्शनाद्देहनाश च तदन्तर्गतस्य ब्रह्मणो जीववन्मरणाद्यवश्यंभाव- दित्याशङ्कायामिदमुच्यते । अत्रायम यद्यपीदं शरीरं भस्मान्तं दृश्यते तथाऽपि तदन्तर्वर्तिनः परमेश्वरस्य न मरणादिदोषप्रसङ्गः । कुतो व्यत्ययादनिलमनिलो वायुर्यदाऽमृतममृतोऽथ तदा ब्रह्मामृतमिति किं वक्तव्यं तदमृतत्वस्य कैमुत्यसिद्धत्वादिति । ननु संसारिणो वायोः कथममृतत्वं संभवति यदुपचारेण तर्हीश्वरस्यापि तथाविधममृतत्वं स्यादित्यशङ्कय्वायोर्दैहनाशेऽपि तत्कार्यविज्ञानतिरोभावाभावोऽस्त्येव । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संट्टब्धानि भवान्त । म्लेच्छन्ति ह्यन्या देवता न वायुः सैषाऽनस्तमिता देवता यद्वायुरिति बृहदारण्यकश्रुतेः । अथ प्रणवप्रतीकं प्रार्थयते-ओमिति ।ॐ ओतत्वादिगुणयुक्त हे क्रतो ज्ञानरूप मां स्मर । मया कृतं ध्यानादिकं च स्मर । अभ्यासस्तात्पर्यार्थः । अभ्यासेनार्थविशेष मन्यत इति यास्कोक्तेः परमात्मकर्तृकं स्मरणं भक्तानुग्रहोन्मुखं त्वमेव । अवतीत्योम् । अव रक्षण इत्यस्माद्धातोरन्येभ्योऽपि दृश्यन्त इति मनिन् ।ततोऽवतेष्टिलोपेश्चेति पञ्चमीनिर्देशांदवतेः परस्य मनिनाष्टालोपे कृते ज्वरत्वरस्रिव्यविमेवामुपधायाश्चेति धातोरकॉरवकारयोरूठौ तयोः सवर्णदीर्घे सति सार्वधातुकेति गुण रूपसिद्धिर्धातोरन्तत्वादुदात्तत्वं त्रिमात्रत्वं प्रातिशाख्यात् ॥ १७ ॥

साक्षात्कारप्रार्थनानन्तरमग्निप्रतीकं भगवन्तं मोक्षं प्रार्थयते--अग्ने नयेति । अगस्त्यवृष्टाऽऽमेयदेवत्या? अन्ते यज्ञान्योगी स्मारपतीति कात्यायनस्मरणात् । हे देव क्रीडादिगुणविशिष्ट हेऽग्नेऽग्निप्रतीक भगवन्नस्मरणात् शोभनेन मार्गेण देवयानलक्षणेन नय गमय । सुपथेति विशेषणं दक्षिणायनमार्गनिवृत्यर्थम् । यतो गतागतलक्षणेन दक्षिणायनमार्गेण निर्विण्णा वयं यतोऽने त्वां याचामहे । पुनर्गमनागमनवर्जितेन शोभनमार्गेणास्मान्कर्मफलविशिष्टान्नय । सुपथेत्यत्र ऋक्पूरब्धः-पथामानक्ष इति अप्रत्ययो नानित्यत्वात्समासान्तविधेः । वृद्धिरादैच् इतिवत् । किमर्थं राये धनाय मुक्तिलक्षणाय । कीदृशस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन्किंच जुहुराणं हुछ कौटिल्ये । शानच्, जुहोत्यादित्वेन द्विवादौ सति रूपम् । कुटिलं प्रतिबन्धकवञ्चनात्मकमेनः पापमस्मदस्मत्तः सकाशाद्युयोधिपृथक्कुरु वियोजय नाशयेत्यर्थः । यु मिश्रणामिश्रणयोरदादित्वाच्छब्लोपद्वित्वे छान्दसं हेर्धित्वम् । ततो विशुद्धाय ते तुभ्यम् । अनुदात्तत्वाद्युष्मदादेशः । भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचन विधेम कुर्याम।ईवृशाभीष्टसाधकस्य तव प्रतिकरणं नमस्कारपरम्परैव नत्वन्यत्प्रत्युपकरणमस्तीति मावः । यद्वा हे देवाग्नेऽस्मान्सुपथा पुनरावृत्तिबर्जितेनार्चि रादिमार्गेण राये मोक्षाख्यवित्तीय नय मुक्तिदो मव। कुतो हे देव आसंसारमस्मनुदितानि विश्वानि पूर्णानि मोक्षाय पूर्वाप्तानि वयुनानि सत्कर्माणि । वयुनगिति कर्मनामेति निघण्टूक्तेः । यद्वा वयुनानि श्रवणमनननिदिध्यासपाणि ज्ञानानि मवान्वेद वद्दत्तया वयुनयेति भागवते वायुनशब्दस्य ज्ञानार्थकत्वात् । ननु प्रारब्धकर्मभिर्बद्धस्य तव कथं मोक्षाइत्पत आह--अस्माञ्चुहुराणमल्पान्कुर्वत् । संसारे परिवर्तयदित्यर्थः । र चलन इति धातुः । छन्दसत्वेन ह्वादिरीहशमेनः पापमनिष्टं कर्मे. त्यर्थः । तदस्मदस्मत्तो युयोधि वियोजय वयं च ते तुभ्यं भूयिष्ठ नमःउतिं विधेम । नच प्रकारान्तरेण प्रतिकर्तुं शक्नुम इत्यर्थः ॥ १८॥

इति चत्वारिंश एक एवानुवाकः ।।
   इति श्रीमन्नागदेवमट्टारमजेन प्रथमशाखिना श्रीमदनन्ता:
     चार्येण विद्वज्जनकृपापात्रभूतेन विरचितायां वेदा
        र्थदीपिकाया काण्वशाखीयसंहितामाध्ये
             चत्वारिंशोऽध्यायः ॥
              ॥ ॐ तत्सत् ॥

}}

  1. घ.ङ.छ.ज. ०मर्थ्यातत्र क०
  2. च. ज. शुद्धत्वादि०
  3. क. ख. झ. तो न तु के०
  4. घ. ङ. छ. ०त्यधिकारी
  5. क. ख. ग. ०नाम निरूप्यमेवैता०
  6. क ख ०तीत्यभिधायिन्याश्चास्या० झ. ०तीतियुक्त्यभिधायिन्वाश्चात्या° ।
  7. क. ख.झ. ०वत्कार° ।
  8. क. ख. झ. ‘धेनोपलम्भनी° ।
  9. क. ख. ०पह्नुवते ।
  10. घ. ङ. सर्वभूतानीत्यत्र बहुपुस्तकेषु सर्वा भूतानीत्येव पाठो दृश्यते स श्रुतिमूलक इत्यनुमीयते सर्वां इति सर्वांणीत्यर्थकमेवऽऽर्षत्वादिति ज्ञेयम् ।