ईशादिविंशोत्तरशतोपनिषदः/उपनिषद-९१-१००
रुद्राक्षजाबालोपनिषत् ॥९१॥
[सम्पाद्यताम्]रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।प्रतियोगिविनिर्मुक्तं शिवमात्रपदं भजे ॥१॥
ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ ॥
अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिः ।तद्धारणात्किं फलमिति । तं होवाच भगवान्कालाग्निरुद्रः । त्रिपुरवधार्थमहंनिमीलिताक्षोऽभवम् । तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।सर्वानुग्रहार्थाय तेषां नामोच्चारमात्रेण दशगोप्रदानफलं दर्शनस्पर्शनाभ्यांद्विगुणं फलमत ऊर्ध्वं वक्तुं न शक्नोमि । तत्रैते श्लोका भवन्ति । कस्मिंस्थितंतु किं नाम कथं वा धार्यते नरैः । कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम्॥१॥
दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया । भूमावक्षिपुटाभ्यां तु पतिताजलबिन्दवः ॥२॥
तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः । स्थावर-त्वमनुप्राप्य भक्तानुग्रहकारणात् ॥३॥
भक्तानां धारणात्पापं दिवारात्रि-कृतं हरेत् । लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥४॥
तस्यकोटिशतं पुण्यं लभते धारणान्नरः । लक्षकोटिसहस्राणि लक्षकोटिशतानि च॥५॥
तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् । धात्रीफलप्रमाणं यच्छ्रेष्ठ-मेतदुदाहृतम् ॥६॥
बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । अधमं चण-मात्रं स्यात्प्रक्रियैषा मयोच्यते ॥७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेतिशिवाज्ञया । वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥८॥
श्वेतास्तुब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्राउदाहृताः ॥९॥
ब्राह्मणो बिभृयाच्छ्वेतान्रक्तान्राजा तु धारयेत् । पीतान्वै-श्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥१०॥
समाः स्निग्धा दृढाः स्थूलाःकण्टकैः संयुताः शुभाः । कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥११॥
व्रणयुक्तमयुक्तं च षड्रुद्राक्षा विवर्जयेत् । स्वयमेव कृतं द्वारं रुद्राक्षं स्यादि-होत्तमम् ॥१२॥
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृ-ढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥१३॥
सर्वगात्रेण सौम्येन सामान्यानिविचक्षणः । निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥१४॥
तदक्षमुत्तमंविद्यात्तद्धार्यं शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥१५॥
Page-----------------५६८--षट्त्रिंशतं गले दध्याद्वाहोः षोडश षोडश । मणिबन्धे द्वादशैव स्कन्धे पञ्च-शतं वहेत् ॥१६॥
अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् । द्विसरं त्रिसरंवापि सराणां पञ्चकं तथा ॥१७॥
सराणां सप्तकं वापि बिभृयात्कण्ठ-देशतः । मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥१८॥
केयूरकटके सूत्रंकुक्षिबन्धे विशेषतः । सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥१९॥
त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते । सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत्॥२०॥
शिरसीशानमंत्रेण कण्ठे तत्पुरुषेण तु । अघोरेण गले धार्यं तेनैवहृदयेऽपि च ॥२१॥
अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः । पञ्चाशदक्ष-ग्रथितान्व्योमव्याप्यपि चोदरे ॥२२॥
पञ्च ब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्तच । ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२३॥
अथ हैनं भग-वन्तं कालाग्निरुद्रं भुसुण्डः पप्रच्छ रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फां-लमिति । तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं ब्रूहीति होवाच ।तत्रैते श्लोका भवन्ति--एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् । तद्धारणा-त्परे तत्त्वे लीयते विजितेन्द्रियः ॥१॥
द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरा-त्मकम् । धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥२॥
त्रिमुखं चैव रुद्रा-क्षमग्नित्रयस्वरूपकम् । तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥३॥
चतु-र्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् । तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यद-॥४॥
पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् । पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्याच व्यपोहति ॥५॥
षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् । तद्धारणा-न्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥६॥
मतिविज्ञानसंपत्तिशुद्धये धारये-त्सुधीः । विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥७॥
सप्तवक्त्रं तु रुद्राक्षंसप्तमालाधिदैवतम् । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥८॥
महती ज्ञानसंपत्तिः शुचिर्धारणतः सदा । अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधि-दैवतम् ॥९॥
वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा । तद्धारणादिमे प्रीताभवेयुः सत्यवादिनः ॥१०॥
नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् । तस्यधारणमात्रेण प्रीयन्ते नव शक्तयः ॥११॥
दशवक्त्रं तु रुद्राक्षं यमदैवत्य-मीतिरम् । दशाप्रशान्तिजनकं धारणान्नात्र संशयः ॥१२॥
एकादशमुखंस्वक्षं रुद्रैकादशदैवतम् । तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥१३॥
Page-----------------५६९--रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् । द्वादशादित्यरूपं च बिभर्त्येव हितत्परम् ॥१४॥
त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् । तस्या धारण-मात्रेण कामदेवः प्रसीदति ॥१५॥
चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥१६॥
मद्यं मांसं च लशुनंपलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥१७॥
ग्रहणेविषुवे चैवमयने संक्रमेऽपि च । दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च । रुद्रा-क्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥१८॥
रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेवच । तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥१९॥
इति । अथ कालाग्निरुद्रंभगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् । तस्मि-न्समये निदाघजडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठपिप्पलादादयश्चकालाग्निरुद्रं परिसमेत्योचुः । अथ कालाग्निरुद्रः किमर्थं भवतामागमनमितिहोवाच । रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । अथ कालाग्नि-रुद्रः प्रोवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते । अथसदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुमुलीकरोति । तन्नयनाज्जातारुद्राक्षा इति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच । तद्रुद्राक्षेवाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते । स एष भस्म-ज्योती रुद्राक्ष इति । तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदान-फलं भवति । तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति ।एकादशरुद्रत्वं च गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदान-फलं भवति । एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच ।य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते बालो वा युवा वा वेद स महा-न्भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् ।एतैरेवार्चनम् । तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायांवा बध्नीत । सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते । तस्माच्छ्रद्धया यांकांचिद्गां दद्यात्सा दक्षिणा भवति । य इमामुपनिषदं ब्राह्मणः सायमधी-यानो दिवसकृतं पापं नाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापंनाशयति । सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति । षट्सहस्र-लक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदारगमनतत्सं-योगपातकेभ्यः पूतो भवति । सर्वतीर्थफलमश्नुते । पतितसंभाषणात्पूतो-----Page-----------------५७०--भवति । पङ्क्तिशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुन-रावर्तते न च पुनरावर्तत इत्यॐसत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ आप्यायन्त्वितिशान्तिः ॥इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥९१॥
गणपत्युपनिषत् ॥९२॥
[सम्पाद्यताम्]यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥
नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेवकेवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यं । ऋतं वच्मि ।सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अवदातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अवपुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवा-धरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । त्वं वाङ्मयस्त्वं चिन्मयः ।त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षंब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदंत्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ।त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः । त्वं देहत्रयातीतः । त्वं मूलाधार-स्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्तिनित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वंसूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःसुवरोम् । गणादिं पूर्वमुच्चार्य वर्णादिंतदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् ॥१॥
तारेण रुद्धम् । एत-----Page------------------५७१--त्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चा-न्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । संहिता संधिः । सैषा गणेश-विद्या । गणक ऋषिः निचृद्गायत्री छन्दः । श्रीमहागणपतिर्देवता । ॐ गम् ।गणपतये नमः । एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तीप्रचोदयात् ॥ एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । अभयं वरदं हस्तै-र्बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धा-नुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं सयोगी योगिनां वरः । नमो व्रातपतये नमो गणपतये नमः प्रमथपतयेनमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तयेनमो नमः ॥ एतदथर्वशिरो योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्नबाध्यते । स सर्वतः सुखमेधते । स पञ्च महापातकोपपातकात्प्रमु-च्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रि-कृतं पापं नाशयति । सायंप्रातः प्रयुंजानोऽपापो भवति । धर्मार्थ-काममोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदिमोहाद्दास्यति स पापीयान्भवति । सहस्रावर्तनाद्यं यं काममधीते तंतमनेन साधयेत् । अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्या-मनश्नञ्जपति स विद्यावान्भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं विद्यात् ।न बिभेति कदाचनेति । यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । योलाजैर्यजति स यजोवान्भवति । स मेधावान्भवति । यो मोदकसहस्रेणयजति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभतेस सर्वं लभते । अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहेमहानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते ।महापापात्प्रमुच्यते । महादोषात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति ।य एवं वेदेत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति गणपत्युपनिषत्समाप्ता ॥९२॥
Page-----------------५७२--
श्रीजाबालदर्शनोपनिषत् ॥९३॥
[सम्पाद्यताम्]यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः ।योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥१॥
ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ ॥
दत्तात्रेयो महायोगी भगवान्भूतभावनः । चतुर्भुजो महाविष्णु-र्योगसाम्राज्यदीक्षितः ॥१॥
तस्य शिष्यो मुनिकरः सांकृतिर्नाम भक्तिमान् ।पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥२॥
भगवन्ब्रूहि मे योगं साष्टाङ्गंसप्रपञ्चकम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥३॥
सांकृतेशृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् । यमश्च नियमश्चैव तथैवासनमेव च॥४॥
प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् । धारणा च तथा ध्यानंसमाधिश्चाष्टमं मुने ॥५॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमाधृतिर्मिताहारः शौचं चैव यमा दश ॥६॥
वेदोक्तेन प्रकारेण विना सत्यंतपोधन । कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥७॥
आत्मासर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः । सा चाहिंसा वरा प्रोक्ता मुनेवेदान्तवेदिभिः ॥८॥
चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर । तस्यैवोक्ति-र्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥९॥
सर्वं सत्यं परं ब्रह्म न चान्यदितिया मतिः । तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥१०॥
अन्यदीये तृणेरत्ने काञ्चने मौक्तिकेऽपि च । मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥११॥
आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्म-हामते ॥१२॥
कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् । ऋतौ भार्यातदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥१३॥
ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप॥१४॥
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैवप्रोक्ता वेदान्तवेदिभिः ॥१५॥
पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ।एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥१६॥
कायेन मनसा वाचा शत्रुभिःपरिपीडिते । बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥१७॥
वेदादेवविनिर्मोक्षः संसारस्य न चान्यथा । इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हिवैदिकैः । अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥१८॥
अल्पमृष्टा-----Page------------------५७३--शनाभ्यां च चतुर्थांशावशेषकम् । तस्माद्योगानुगुण्येन भोजनं मित-भोजनम् ॥१९॥
स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने । यत्तच्छौचं भवे-द्बाह्यं मानसं मननं विदुः । अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥२०॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचंविधीयते ॥२१॥
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढःकाञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत ॥२२॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्ययोगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥
लोकत्र-येऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥२४॥
तस्मात्सर्वप्रयत्नेन मुनेऽहिं-सादिसाधनैः । आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥२५॥
इति जाबालदर्शनोपनिषत्सु प्रथमः खण्डः ॥१॥
तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्चजपो व्रतम् ॥१॥
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥२॥
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यतेबुधैः ॥३॥
को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थ-ज्ञास्तपः शंसन्ति पण्डिताः ॥४॥
यदृच्छालाभतो नित्यं प्रीतिर्या जायतेनृणाम् । तत्संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥५॥
ब्रह्मादिलोकपर्य-न्ताद्विरक्त्या यल्लभेत्प्रियम् । सर्वत्र विगतस्नेहः संतोषं परमं विदुः । श्रौतेस्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥६॥
न्यायार्जितधनं श्रान्ते श्रद्धयावैदिके जने । अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥७॥
रागाद्यपेतंहृदयं वागदुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥८॥
सत्यंज्ञानमनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः॥९॥
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् । तस्मिन्भवति या लज्जाह्रीः सैवेति प्रकीर्तिता । वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥१०॥
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः । वेदोक्तेनैव मार्गेण मन्त्राभ्यासोजपः स्मृतः ॥११॥
कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके । इतिहासे चवृत्तिर्या स जपः प्रोच्यते मया ॥१२॥
जपस्तु द्विविधः प्रोक्तो वाचिकोमानसस्तथा ॥१३॥
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः । मानसो-----Page-----------------५७४--मननध्यानभेदाद्द्वैविध्यमाश्रितः ॥१४॥
उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥१५॥
उच्चैर्जपश्च सर्वेषां यथोक्त-फलदो भवेत् । नीचैः श्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥१६॥
इति ॥इति जाबालदर्शनोपनिषत्सु द्वितीयः खण्डः ॥२॥
स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा । भद्रं मुक्तासनं चैव मयूरास-नमेव च ॥१॥
सुखासनसमाख्यं च नवमं मुनिपुङ्गव । जानूर्वोरन्तरेकृत्वा सम्यक् पादतले उभे ॥२॥
समग्रिवशिरःकायः स्वस्तिकं नित्यमभ्य-सेत् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥३॥
दक्षिणेऽपि तथासव्यं गोमुखं तत्प्रचक्षते । अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥४॥
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् । पद्मासनं भवेत्प्राज्ञ सर्वरोगभया-पहम् ॥५॥
दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् । ऋजुकायः समा-सीनो वीरासनमुदाहृतम् ॥६॥
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोःक्षिपेत् । पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेत-द्विषरोगविनाशनम् ॥७॥
निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः । वामंयाम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥८॥
मेढ्रादुपरि निक्षिप्य सव्यंगुल्फं तथोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥९॥
कूर्पराग्रेमुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः । भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः॥१०॥
समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः । मयूरासनमेतत्स्यात्स-र्वपापप्रणाशनम् ॥११॥
येन केन प्रकारेण सुखं धैर्यं च जायते । तत्सु-खासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥१२॥
आसनं विजितं येन जितं तेनजगत्त्रयम् । अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥१३॥
इति ॥इति जाबालदर्शनोपनिषत्सु तृतीयः खण्डः ॥३॥
शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् । देहमध्ये शिखिस्थानं तप्तजा-म्बूनदप्रभम् ॥१॥
त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते । गुदात्तुद्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ॥२॥
देहमध्यं मुनिप्रोक्तमनुजानीहिसांकृते । कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥३॥
चतुरङ्गुलमाया-मविस्तारं मुनिपुङ्गव । कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥४॥
तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव । कन्दमध्यस्थिता नाडी सुषुम्नेतिप्रकीर्तिता ॥५॥
तिष्ठन्ति परितस्तस्या नाड्यो हि मुनिपुङ्गव । द्विसप्ततिस-----Page------------------५७५--हस्राणि तासां मुख्याश्चतुर्दश ॥६॥
सुषुम्ना पिङ्गला तद्वदिडा चैव सर-स्वती । पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ॥७॥
अलम्बुसा कुहू-श्चैव विश्वोदरी तपस्विनी । शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥८॥
आसां मुख्यतमास्तिस्रस्तिष्वेकोत्तमोत्तमा । ब्रह्मनाडीति सा प्रोक्ता मुनेवेदान्तवेदिभिः ॥९॥
पृष्ठमध्यस्थितेनास्थ्ना वीणादण्डेन सुव्रत । सहमस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥१०॥
नाभिकन्दादधः स्थानं कुण्डल्याद्व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥११॥
यथावद्वायु-चेष्टां च जलान्नादीनि नित्यशः । परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता॥१२॥
स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने । सुषुम्नाया इडा सव्येदक्षिणे पिङ्गला स्थिता ॥१३॥
सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ।गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥१४॥
पूषा यशास्विनी चैवपिङ्गला पृष्ठपूर्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥१५॥
यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता । पूषायाश्च सरस्वत्या मध्येप्रोक्ता यशस्विनी ॥१६॥
गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥१७॥
पूर्वभागे सुषुम्नायाराकायाः संस्थिता कुहूः । अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते ॥१८॥
इडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव । यशस्विनी च वामस्यपादाङ्गुष्ठान्तमिष्यते ॥१९॥
पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥२०॥
सरस्वती तथा चोर्ध्व-गता जिह्वा तथा मुने । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥२१॥
शाङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते । गान्धारा सव्यनेत्रान्ता प्रोक्तावेदान्तवेदिभिः ॥२२॥
विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता ।प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२३॥
नागः कूर्मश्च कृकरोदेवदत्तो धनंजयः । एते नाडीषु सर्वासु चरन्ति दश वायवः ॥२४॥
तेषुप्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत । प्राणसंज्ञस्तथापानः पूज्यः प्राणस्त-योर्मुने ॥२५॥
आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि । प्राणसंज्ञो-ऽनिलो नित्यं वर्तते मुनिसत्तम ॥२६॥
अपानो वर्तते नित्यं गुदमध्योरु-जानुषु । उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥२७॥
व्यानः श्रोत्रा-----Page------------------५७६--क्षिमध्ये च ककुद्भ्यां गुल्फयोरपि । प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव॥२८॥
उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि । समानः सर्वदेहेषु व्याप्यतिष्ठत्यसंशयः ॥२९॥
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । निः-श्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥३०॥
अपानाख्यस्य वायोस्तुविण्मूत्रादिविसर्जनम् । समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥३१॥
उदान ऊर्ध्वगमनं करोत्येव न संशयः । व्यानो विवादकृत्प्रोक्तो मुने वेदा-न्तवेदिभिः ॥३२॥
उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने । धनं-जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥३३॥
निमीलनादि कूर्मस्य क्षुधातु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥३४॥
सुषु-म्नायाः शिवो देव इडाया देवता हरिः । पिङ्गलाया विरञ्चिः स्यात्सरस्वत्याविराण्मुने ॥३५॥
पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वा-भिधायास्तु वरुणो देवता भवेत् ॥३६॥
यशस्विन्या मुनिश्रेष्ठ भगवान्भा-स्करस्तथा । अलम्बुसाया अम्ब्वात्मा वरुणः परिकीर्तितः ॥३७॥
कुहोः क्षु-द्देवता प्रोक्ता गान्धारी चन्द्रदेवता । शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजा-पतिः ॥३८॥
विश्वोदराभिधायास्तु भगवान्पावकः पतिः । इडायां चन्द्रमानित्यं चरत्येव महामुने ॥३९॥
पिङ्गलायां रविस्तद्वन्मुने वेदविदांवर । पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥४०॥
तदुत्तरायणंप्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥४१॥
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः । इडापिङ्गलयोः संधिं यदा प्राणःसमागतः ॥४२॥
अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधारंयदा प्राणः प्रविष्टः पण्डितोत्तम ॥४३॥
तदाद्यं विषुवं प्रोक्तं तापसैस्ताप-सोत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥४४॥
तदन्त्यं विषुवंप्रोक्तं तापसैस्तत्त्वचिन्तकैः । निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत्॥४५॥
इडायाः कुण्डलीस्थानं यदा प्राणः समागतः । सोमग्रहणमित्युक्तंतदा तत्त्वविदां वर ॥४६॥
यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव ॥४७॥
श्रीपर्वतं शिरःस्थाने केदारं तुललाटके । वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥४८॥
कुरुक्षेत्रंकुचस्थाने प्रयागं हृत्सरोरुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम्-----Page-----------------५७७--॥४९॥
आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् । करस्थं स महारत्नंत्यक्त्वा काचं विमार्गते ॥५०॥
भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥५१॥
तीर्थानि तोयपूर्णानिदेवान्काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥५२॥
बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने । आत्मतीर्थं महातीर्थमन्यत्तीर्थं निर-र्थकम् ॥५३॥
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति । शशशोऽपि जलै-र्धौतं सुराभाण्डमिवाशुचि ॥५४॥
विषुवायनकालेषु ग्रहणे चान्तरे सदा ।वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥५५॥
ज्ञानयोगपराणां तुपादप्रक्षालितं जलम् । भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥५६॥
तीर्थे दाने जपे यज्ञे काष्ठे पाषाणके सदा । शिवं पश्यति मूढात्मा शिवे देहेप्रतिष्ठिते ॥५७॥
अन्तःस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते । हस्तस्थं पिण्ड-मुत्सृज्य लिहेत्कूर्परमात्मनः ॥५८॥
शिवमात्मनि पश्यन्ति प्रतिमासुन योगिनः । अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥५९॥
अपूर्व-मपरं ब्रह्म स्वात्मानं सत्यमद्वयम् । प्रज्ञानघनमानन्दं यः पश्यति स पश्यति॥६०॥
नाडीपुञ्जं सदा सारं नरभावं महामुने । समृत्सृज्यात्मनाऽऽत्मानम-हमित्येव धारय ॥६१॥
अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आन-न्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥६२॥
विभेदजनके ज्ञाने नष्टेज्ञानबलान्मुने आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥६३॥
इति ॥इति जाबालदर्शनोपनिषत्सु चतुर्थः खण्डः ॥४॥
सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः । यथा शुद्ध्या सदा ध्यायञ्जीवन्मु-क्तो भवाम्यहम् ॥१॥
सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः । विध्युक्त-कर्मसंयुक्तः कामसंकल्पवर्जितः ॥२॥
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरा-यणः । स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥३॥
पर्वताग्रे नदी-तीरे बिल्वमूले व्रनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः॥४॥
आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा । समग्रीवशिरःकायःसंवृतास्यः सुनिश्चलः ॥५॥
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥६॥
इडया प्राणमाकृष्य पूरयि-त्वोदरे स्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥७॥
Page-----------------५७८--बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्ग-लया बुधः ॥८॥
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् । पुनर्विरेचये-द्धीमानिडयैव शनैः शनैः ॥९॥
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षट्-कृत्वा विचरेन्नित्यं रहस्येवं त्रिसंधिषु ॥१०॥
नाडीशुद्धिमवाप्नोति पृथक्-चिह्नोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥११॥
नादाभिव्य-क्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् । यावदेतानि संपश्येत्तावदेवं समाचरेत्॥१२॥
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । अत्मा शुद्धः सदानित्यः सुखरूपः स्वयम्प्रभः ॥१३॥
अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धोभवत्ययम् । अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः । स एव सर्वदा शुद्धोनान्यः कर्मरतो हि सः ॥१४॥
इति ॥इति जाबालदर्शनोपनिषत्सु पश्चमः खण्डः ॥५॥
प्राणायामक्रमं वक्ष्ये सांकृते शृणु सादरम् । प्राणायाम इति प्रोक्तो रेच-पूरककुम्भकैः ॥१॥
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एषप्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥२॥
इडया वायुमाकृष्य पूरयि-त्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥३॥
पूरितंधारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया । उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥४॥
यावद्वा शक्यते तावद्धारयेज्जपतत्परः । पूरितं रेचयेत्पश्चान्मकारेणानिलंबुधः ॥५॥
ज्ञनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवे-देवं ततश्चैवं समभ्यसेत् ॥६॥
पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥७॥
धारयेत्पूरितं विद्वान्प्रणवंसंजपन्वशी । उकारमूर्ति स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥८॥
मकारंतु स्मरन्पश्चाद्रेचयेदिडयाऽनिलम् । एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान्॥९॥
एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर । एवमभ्यासतो नित्यंषण्मासाद्यत्रबान्भवेत् ॥१०॥
वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् ।योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥११॥
प्राणसंयमनेनैवज्ञानान्मुक्तो भविष्यति । बाह्यादापूरणं वायोरुदरे पूरको हि सः ॥१२॥
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् । बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः ॥१३॥
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं मध्यमंविद्यादुत्थानं चोत्तमं विदुः ॥१४॥
पूर्वं पूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।-----Page-----------------५७९--संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥१५॥
प्राणायामेनचित्तं तु शुद्धं भवति सुव्रत । चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यव-स्थितः ॥१६॥
प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति । प्राणायामपर-स्यास्य पुरुषस्य महात्मनः ॥१७॥
देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्वि-मुक्तता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥१८॥
सर्व-पापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्नोति पलितादि चनश्यति ॥१९॥
प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् । तस्मात्सर्व-प्रयत्नेन प्राणायामान्समभ्यसेत् ॥२०॥
विनियोगाप्रवक्ष्यामि प्राणायामस्यसुव्रत । संध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाऽथवा सदा ॥२१॥
बाह्यंप्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठेच धारयेत् ॥२२॥
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः । नासाग्र-धारणाद्वापि जितो भवति सुव्रत ॥२३॥
सर्वरोगनिवृत्तिः स्यान्नाभिमध्येतु धारणात् । शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥२४॥
जिह्वया वायुमा-कृष्य यः पिबेत्सततं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥२५॥
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिबेदमृतमव्यग्रं सकलं सुखमा-प्नुयात् ॥२६॥
इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिबेदमृतंशुद्धं व्याधिभिर्मुच्यते हि सः ॥२७॥
इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च ।नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥२८॥
मासमात्रं त्रिसन्ध्यायांजिह्वयारोप्य मारुतम् । अमृतं च पिबेन्नाभौ मन्दं मन्दं निरोधयेत् ॥२९॥
वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्र-द्वन्द्वे निरोधयेत् ॥३०॥
नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् । तथावायुं समारोप्य धारयेच्छिरसि स्थितम् ॥३१॥
शिरोरोगा विनश्यन्तिंसत्यमुक्तं हि सांकृते । स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥३२॥
अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्कर्णादिकर-णानि च ॥३३॥
अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी । नासापुटा-वधानाभ्यां प्रच्छाद्य करणानि वै ॥३४॥
आनन्दाविर्भवो यावत्तावन्मूर्धनिधारणात् । प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥३५॥
ब्रह्मरन्ध्रं गतेवायौ नादश्चोत्पद्यतेऽनघ । शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥३६॥
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मो-----Page------------------५८०--न्मुखो भवेत् ॥३७॥
पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्रुतिः । दक्षिणोत्तर-गुल्फेन सीवनीं पीडयेत्स्थिरम् ॥३८॥
सव्येतरेण गुल्फेन पीडयेद्बुद्धि-मान्नरः । जान्वोरधःस्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥३९॥
विना-यकं च संस्मृत्य तथा वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतोमुने ॥४०॥
प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्रमध्ये तं तु निरोधयेत् ॥४१॥
निरुध्य वायुना दीप्तो वह्निरूहति कुण्ड-लीम् । पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥४२॥
एवमभ्यसतस्तस्यजितो वायुर्भवेद्भृशम् । प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥४३॥
उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनिले । एवमभ्यसतस्तस्य मूलरोगो विन-श्यति ॥४४॥
भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते । पातकानि विन-श्यन्ति क्षुद्राणि च महान्ति च ॥४५॥
नष्टे पापे विशुद्धं स्याच्चित्तदर्पणम-द्भुतम् । पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ॥४६॥
विरक्तस्य तुसंसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम्॥४७॥
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । स सर्वकार्यमुत्सृज्यतत्रैव परिधावति ॥४८॥
ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् । अर्थस्वरूप-मज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥४९॥
आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥५०॥
रागाद्यसंभवे प्राज्ञपुण्यपापविमर्दनम् । तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥५१॥
इति ॥इति जाबालदर्शनोपनिषत्सु षष्ठः खण्डः ॥६॥
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने । इन्द्रियाणां विचरतां विषयेषुस्वभावतः ॥१॥
बलादाहरणं तेषां प्रत्याहारः स उच्यते । यत्पश्यति तुतत्सर्वं ब्रह्म पश्यन्त्समाहितः ॥२॥
प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरो-दितः । यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥३॥
तत्सर्वं ब्रह्मणेकुर्यात्प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥४॥
काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थाना-त्स्थानं निरोधयेत् ॥५॥
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरो-देशात्समाकृष्य नाभिदेशे निरोधयेत् ॥६॥
नाभिदेशात्समाकृष्य कुण्डल्यांतु निरोधयेत् । कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥७॥
अथा-----Page------------------५८१--पानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे । तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरो-धयेत् ॥८॥
प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा । एवमभ्यासयुक्तस्यपुरुषस्य महात्मनः ॥९॥
सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत । ना-साभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥१०॥
पूरयेदनिलं विद्वाना-पादतलमस्तकम् । पश्चात्पादद्वये तद्वन्मूलाधारे तथैव च ॥११॥
नाभि-कन्दे च हृन्मध्ये कण्ठमूले च तालुके । भ्रुवोर्मध्ये ललाटे च तथा मूर्धनिधारयेत् ॥१२॥
देहे स्वात्ममतिं विद्वान्समाकृप्य समाहितः । आत्मना-ऽऽत्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥१३॥
प्रत्याहारः समाख्यातः साक्षा-द्वेदान्तवेदिभिः । एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥१४॥
इति ॥इति जाबालदर्शनोपनिषत्सु सप्तमः खण्डः ॥७॥
अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत । देहमध्यगते व्योम्नि बाह्या-ऽऽकाशं तु धारयेत् ॥१॥
प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे । तोयंतोयांशके भूमिं भूमिभागे महामुने ॥२॥
हयवरलकाराख्यं मन्त्रमुच्चारये-त्क्रमात् । धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥३॥
जान्वन्तं पृथिवीह्यंशो ह्यपां पाय्वन्तमुच्यते । हृदयांशस्तथाग्न्यंशो भ्रूमध्यान्तोऽनिलांशकः॥४॥
आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः । ब्रह्माणं पृथिवीभागेविष्णुं तोयांशके तथा ॥५॥
अग्न्यंशे च महेशानमीश्वरं चानिलांशके ।आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥६॥
अथवा तव वक्ष्यामिधारणां मुनिपुङ्गव । पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥७॥
धारये-द्बुद्धिमान्नित्यं सर्वपापविशुद्धये । ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे॥८॥
सर्वकारणमव्यक्तमनिरूप्यमचेतनम् । साक्षादात्मनि संपूर्णे धारये-त्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥९॥
इति ॥इति जाबालदर्शनोपनिषत्स्वष्टामः खण्डः ॥८॥
अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् । ऋतं सत्यं परं ब्रह्म सर्व-संसारभेषजम् ॥१॥
ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् । सोऽहमित्या-दरेणैव ध्यायेद्योगीश्वरेश्वरम् ॥२॥
अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥३॥
तथाऽस्थूलमनाकाशमसं-----Page------------------५८२--स्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥४॥
आत्मानंसच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेद्व्येयातीतं विमुक्तये॥५॥
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः । क्रमाद्वेदान्तविज्ञानं विजा-येत न संशयः ॥६॥
इति ॥इति जाबालदर्शनोपनिषत्सु नवमः खण्डः ॥९॥
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः पर-जीवैकतां प्रति ॥१॥
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः । एकःसंभिद्यते भ्रान्त्या मायया न स्वरूपतः ॥२॥
तस्मादद्वैतमेवास्ति न प्रपञ्चोन संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥३॥
तथा भ्रान्तै-र्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणिमनो नहि ॥४॥
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीर्यामुनिश्रेष्ठ सा समाधिरिहोच्यते ॥५॥
साहं ब्रह्म न संसारी न मत्तोऽन्यःकदाचन । यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥६॥
समुद्रे लीयते तद्व-ज्जमन्मय्यनुलीयते । तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥७॥
यस्यैवं परमात्माऽयं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयंसाक्षात्परामृतम् ॥८॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगि-नोऽव्यवधानेन तदा संपद्यते स्वयम् ॥९॥
यदा सर्वाणि भूतानि स्वात्म-न्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥१०॥
यदासर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाऽसौ तदा भवतिकेवलः ॥११॥
यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्रं जग-त्कृत्स्नं तदा भवति निर्वृतिः ॥१२॥
एवमुक्त्वा स भगवान्दत्तात्रेयो महा-मुनिः । सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥१३॥
इति ॥इति जाबालदर्शनोपनिषत्सु दशमः खण्डः ॥१०॥
ॐ आप्यायन्त्विति शान्तिः ॥ हरिः ॐ तत्सत् ॥इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥९३॥
Page-----------------५८३--
तारकोपनिषत् ॥९४॥
[सम्पाद्यताम्]यन्नारायणतारायसत्यज्ञानसुखाकृति ।त्रिपान्नारायणाकारं तद्ब्रह्मैवास्मि केवलम् ॥१॥
ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनंसर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्छेत्तदेव मन्येतेति । इदं वैकुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानांदेवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषुरुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेवनिषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥१॥
अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् । किं तारयतीति सहोवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपा-सितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् । नम इति द्व्यक्षरं प्रकृतिस्वरूपम् ।नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् इति । य एवं वेद सोऽमृतो भवति ।ओमिति ब्रह्म भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकारईश्वरो भवति । रकारोऽण्डं विराद्ध भवति । यकारः पुरुषो भवति । णकारोभगवान्भवति । यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेदपरमपुरुषो भवति ॥तारसारोपनिषत्सु ऋग्वेदः प्रथमः पादः ॥१॥
ॐमित्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरंभवति । तदेतदष्टातम्कोऽष्टधा भवति । अकारः प्रथमाक्षरो भवति । उकारोद्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति ।नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता सप्तमाक्षरोभवति । तत्परश्चाष्टमाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकंब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥ अत्रैते श्लोका भवन्ति--अकारादभव-द्ब्रह्मा जाम्बवानितिसंज्ञकः । उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥१॥
मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट्-----Page-----------------५८४--स्वयम् ॥२॥
नादो महाप्रभुर्ज्ञेयो भरतः श्रद्धतामकः । कलायाः पुरुषःसाक्षाल्लक्ष्मणो धरणीधरः ॥३॥
कलातीता पराशाळःस्वयं सीतेति संज्ञिता ।तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥४॥
ओमित्येतदक्षरमिदंसर्वम् । तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो-ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ॥तारसारोपनिषत्सु यजुर्वेदो द्वितीयः पादः ॥२॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवतिस्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । स होवाच याज्ञवल्क्यः । ॐ योह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुव-स्तस्मै वै नमो नमः ॥१॥
ॐ यो ह वै श्रीपरमात्मा नारायणः सभगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥२॥
ॐ यो ह वै परमात्मा नारायणः स भगवान्मकारवाच्यःशिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमो नमः ॥३॥
ॐ यो ह वैश्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वैनमो नमः ॥४॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपोभरतो भूर्भुवः सुवस्तस्मै वै नमो नमः ॥५॥
ॐ यो ह वै श्रीपरमात्मानारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमो नमः॥६॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीताभगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥७॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् । उकारवाच्यौपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दु-स्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कला-तीता भगवती सीता चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारा-यणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्त-सत्यपरमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुव-स्तस्मै नमो नमः ॥८॥
एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति ।स वायुपूतो भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति ।स सर्वैर्देवैर्ज्ञातो भवति । तेनेतिहासपुराणानां रुद्राणां शतसहस्राणिजप्तानि फलानि भवन्ति । श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शत-----Page------------------५८५--सहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति । दशपूर्वान्दशोत्तरान्पु-नाति । नारायणपदमवाप्नोति य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्तिसूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।विष्णोर्यत्परमं पदम् ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥तारसारोपनिषत्सु सामवेदस्तृतीयः पादः ॥३॥
ॐ पूर्णमद इति शान्तिः ॥इति तारसारोपनिषत्समाप्ता ॥९४॥
महावाक्योपनिषत् ॥९५॥
[सम्पाद्यताम्]यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् ।विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥
अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं व्याख्या-स्यामः । गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या । सात्त्विकायान्तर्मुखाय परिशु-श्रूषवे अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञायाविद्यालो-काण्डस्तमोदृक् । तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्ड-भूतम् । निखिलनिगमोदितसकामकर्मव्यवहारो लोकः । नैषोऽन्धकारोऽय-मात्मा । विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् । असावादित्योब्रह्मेत्यजपयोपहितं हंसः सोऽहम् । प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यांसमुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सच्चिदानन्दःपरमात्माविर्भवति । सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।नैषा समाधिः । नैषा योगसिद्धिः । नैषा मनोलयः । ब्रह्मैक्यं तत । आदित्य-वर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवद-न्यदास्ते धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः तमेवंविद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्तदेवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्रपूर्वे साध्याः सन्ति देवाः । सोऽहमर्कः परं झोतिरर्कज्योतिरहं शिवः । आत्मा-ज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् । य एतदथर्वशिरोऽधीते । प्रातरधी-----Page------------------५८६--यानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति ।तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । मध्यन्दिनमादित्याभिमुखो-ऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते ।श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ।इति महावाक्योपनिषत्समाप्ता ॥९५॥
पञ्चब्रह्मोपनिषत् ॥९६॥
[सम्पाद्यताम्]ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः ।तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥१॥
ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥ अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्योजातमिति । किं भगव इति । अघोर इति । किं भगव इति । वामदेव इति ।किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति ।सर्वेषां दिव्यानां प्रेरयिता ईशान इति । ईशानो भूतभव्यस्य सर्वेषां देव-योगिनाम् । कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सर्वं तद्गुह्यम् ।तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । गोप्या-द्गोप्यतरं लोके यद्यस्ति शृणु शाकल । सद्यो जातं मही पूषा रमा ब्रह्मात्रिवृत्स्वरः ॥१॥
ऋग्वेदो गार्हपत्यं च मन्त्राः सप्त स्वरास्तथा । वर्णं पीतंक्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥२॥
अघोरं सलिलं चन्द्रं गौरी वेदद्वितीयकम् । नीरदाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥३॥
पञ्चाशद्वर्णसं-युक्तं स्थितिरिच्छाक्रियान्वितम् । शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥४॥
सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् । वामदेवं महाबोधदायकं पावकात्मकम्॥५॥
विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यंनानाष्टकसमन्वितम् ॥६॥
धीरस्वरमधीनं चाहवनीयमनुत्तमम् । ज्ञानसंहार-संयुक्तं शक्तिद्वयसमन्वितम् ॥७॥
वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरंस्वयम् । धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥८॥
सर्वसौभाग्यदं नॄणां-----Page-----------------५८७--सर्वकर्मफलप्रदम् । अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥९॥
यत्तत्तत्पु-रुषं प्रोक्तं वायुमण्डलसंवृतम् । पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम्॥१०॥
पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षंब्रह्माण्डाखण्डाविग्रहम् ॥११॥
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेष-जम् । सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥१२॥
अवस्थात्रि-तयातीतं तुरीयं ब्रह्मसंज्ञितम् । ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम्॥१३॥
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । आकाशात्मकमव्यक्तमॐकार-स्वरभूषितम् ॥१४॥
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः । अकारादि-स्वराध्यक्षमाकाशमयविग्रहम् ॥१५॥
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् ।पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥१६॥
स्वमायावैभवान्सर्वान्सं-हृत्य स्वात्मनि स्थितः । पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥१७॥
आदावन्ते च मध्ये च भाससे नान्यहेतुना । मायया मोहिताः शंभोर्महादेवंजगद्गुरुम् ॥१८॥
न जानन्ति सुराः सर्वे सर्वकारणकारणम् । न संदृशेतिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥१९॥
येन प्रकाशते विश्वंयत्रैव प्रविलीयते । तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम् ॥२०॥
पञ्च-ब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् । दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम्॥२१॥
पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । ब्रह्मकार्यमिति ज्ञात्वाईशानं प्रतिपद्यते ॥२२॥
पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च ।सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् ॥२३॥
इत्येतद्ब्रह्म जानी-याद्यः स मुक्तो न संशयः । पञ्चाक्षरमयं शंभुं परब्रह्मस्वरूपिणम् ॥२४॥
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । सर्वं पञ्चात्मकं विद्यात्पञ्चब्र-ह्मात्मतत्त्वतः ॥२५॥
पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः । सपञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥२६॥
एवमुक्त्वा महादेवोगालवस्य महात्मनः । कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥२७॥
यस्यश्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । अमतं च मतं ज्ञातमविज्ञातं च शाकल॥२८॥
एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । विज्ञातं मृण्मयं सर्वंमृदभिन्नं हि कार्यकम् ॥२९॥
एकेन लोहमणिना सर्वं लोहमयं यथा ।विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥३०॥
सर्वं कार्ष्णायसं ज्ञातं तद-----Page------------------५८८--भिन्नं स्वभावतः । कारणाभिन्नरूपेण कार्यकारणमेव हि ॥३१॥
तद्रूपेणसदा सत्यं भेदेनोक्तिर्मृषा खलु । तच्च कारणमेकं हि न भिन्नं नोभयात्म-कम् ॥३२॥
भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । अतश्च कारणं नित्य-मेकमेवाद्वयं खलु ॥३३॥
अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि । अस्मिन्ब्र-ह्मपुरे वेश्म दहरं यदिदं मुने ॥३४॥
पुण्डरीकं तु तन्मध्ये आकाशो दह-रोऽस्ति तत् । स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः ॥३५॥
अयंहृदि स्थितः साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तः शिवः संसार-मोचकः ॥३६॥
इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इति पञ्चब्रह्मोपनिषत्समाप्ता ॥९६॥
प्राणाग्निहोत्रोपनिषत् ॥९७॥
[सम्पाद्यताम्]शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥१॥
ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥
अथातः सर्वोपनिषत्सारं संसारज्ञानातीतमन्नसूत्रं शारीरं यज्ञंव्याख्यास्यामः । अस्मिन्नेव पुरुषशरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेनसंसारविमुक्तिर्भवतीति । स्वेन विधिनाऽन्नं भूमौ निक्षिप्य या ओषधीःसोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्यामनुमन्त्रयते । या ओषधयः सोम-राज्ञीर्बह्वीः शतविचक्षणाः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
याः फलिनीर्या अफला अपुष्पा याश्च पुषिणीः । बृहस्पतिप्रसूतास्ता नोसुञ्चन्त्वंहसः ॥२॥
जीवलां नवारिषां माते बध्नाम्योषधिम् । या त आयुरुपहरादप रक्षांसि चातयात् ॥३॥
अन्नपतेऽन्नस्य नो धेह्यनमीवस्यशुष्मिणः । प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥४॥
यदन्नमग्निबहुधा विराद्धम् । रुद्रैः प्रजग्धं यदि वा पिशाचैः । सर्वंतदीशानो अभयंकृणोतु शिवमीशानाय स्वाहा ॥५॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।-----Page-----------------५८९--त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कार आपो ज्योती रसोऽमृतं ब्रह्मभूर्भुवः सुस्वरॐ नमः । आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभ्योज्यं यद्वा दुश्चरितंमम । सर्वं पुनन्तु तं ह्यापोऽसतां च प्रतिग्रहं । अमृतमस्यमृतोपस्तरणमस्य-मृतं प्राणे जुहोम्यमा शिष्यान्तोऽसि । प्राणाय स्वाहा । अपानाय स्वाहा ।व्यानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा इति कनिष्ठिकाङ्गुल्या-ङ्गुष्ठेन च प्राणे जुहोमि । अनामिकयाऽपाने । मध्यमया व्याने । सर्वाभिरुदाने ।प्रदेशिन्या समाने । तूष्णीमेकामेकऋषौ जुहोति । द्वे आहवनीये । एकांदक्षिणाग्नौ । एकां गार्हपत्ये । एकां सर्वप्रायश्चित्तीये । अथापिधानमस्यमृत-त्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् । सव्ये प्राणावापो गृहीत्वाहृदयमन्वालभ्य जपेत् । प्राणोऽग्निः परमात्मा पञ्चवायुभिरावृतः । अभयंसर्वभूतेभ्यो न भवेदहं कदाचनेति ॥१॥
इत्याथर्वणीयप्राणाग्निहोत्रोपनिषत्सु प्रथमः खण्डः ॥१॥
विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते जायमानम् । विश्वं त्वाहुतयः सर्वा यत्र ब्रह्माऽमृतोऽसि । महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः । तमद्भिःप्रतिषिञ्चामि सोऽस्यान्ते अमृतायामृतयोनावित्येष एवात्मा । ध्यायेताग्नि-होत्रं जुहोमीति सर्वेषामेव सूनुर्भवति । अथ यज्ञपरिवृत आहुतीर्होम-यति । स्वे शरीरे यज्ञं परिवर्तयामीति । चत्वारोऽग्नयस्ते किंनामधेयाः । तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मिपरिवृत एकर्षिर्भूत्वा मूर्ध्नितिष्ठति यस्मादुक्तः । दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति ।शारीरोऽग्निर्नाम जराप्रणुदा हविरवस्कन्दति । अर्धचन्द्राकृतिर्दक्षिणाग्निर्भूत्वाहृदये तिष्ठति तत्र कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग् व्यष्ट्यांश्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्टति । प्रायश्चित्तयस्त्वधस्तात्तिर्यक्तिस्रो हिमांशुप्रभाभिः प्रजननकर्मा ॥इत्याथर्वणीयघ्राणग्निहोत्रोपनिषत्सु द्वितीयः खण्डः ॥२॥
Page-----------------५९०--अस्य शारीरयज्ञस्य यूपरशनाशोभितस्य को यजमानः । का पत्नी । के ऋत्विजः । के सदस्याः । कानि यज्ञपात्राणि । कानि हवींषि । का वेदिः ।कोत्तरवेदिः । को द्रोणकलशः । को रथः । कः पशुः । कोऽध्वर्युः । कोहोता । को ब्राह्मणाच्छंसी । कः प्रतिप्रस्थाता । कः प्रस्तोता । को मैत्रावरुणः ।क उद्गाता । का धारापोता । के दर्भाः । कः स्रुवः । काज्यस्थाली ।कावाघारौ । कावाज्यभागौ । के प्रयाजाः । के अनुयाजाः । केडा । कःसूक्तवाकः । कः शंयुवाकः । काऽहिंसा । के पत्नीसंयाजाः । को यूपः । कारशना । का इष्टयः । का दक्षिणा । किमवभृथमिति ॥इत्याथर्वणीयप्राणाग्निहोत्रोपनिषत्सु तृतीयः खण्डः ॥३॥
अस्य शारीरस्यज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः । बुद्धिः पत्नी ।वेदा महर्त्विजः । अहंकारोऽध्वर्युः । चित्तं होता । प्राणो ब्राह्मणाच्छंसी ।अपानः प्रतिप्रस्थाता । व्यानः प्रस्तोता । समानो मैत्रावरुणः । उदानौद्गाता । शरीरं वेदिः । नासिकोत्तरवेदिः । मूर्धा द्रोणकलशः । पादो रथः ।दक्षिणहस्तः स्रुवः । सव्यहस्त आज्यस्थाली । श्रोत्रे आघारौ । चक्षुषी आज्य-भागौ । ग्रीवा धारापोता । तन्मात्राणि सदस्याः । महाभूतानि प्रयाजाः ।भूतान्यनुयाजाः । जिह्वेडा । दन्तोष्ठौ सूक्तवाकः । तालुः शंयुवाकः ।स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः । ॐकारो यूपः । आशा रशना ।मनो रथः । कामः पशुः । केशा दुर्भाः । बुद्धीन्द्रियाणि यज्ञपात्राणि ।कर्मेन्द्रियाणि हवींषि । अहिंसा इष्टयः । त्यागो दक्षिणा । अवभृथं मरणात् ।सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः । वाराणस्यां मृतो वापि इदं वाब्रह्म यः पठेत् । एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुया-दित्युपनिषत् ॥३॥
ॐ सह नाववत्विति शान्तिः ॥ हरिः ॐ तत्सत् ॥इत्याथर्वणीया प्राणाग्निहोत्रोपनिषत्समाप्ता ॥९७॥
Page-----------------५९१--
गोपाओ!लपूर्वतापिन्युपनिषत् ॥९८॥
[सम्पाद्यताम्]श्रीमत्पञ्चपदागारं सविशेषतयोज्वलम् ।प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।शाव्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥२॥
ॐ कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्णैत्यभिधीयते ॥१॥
ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमोवेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥
ॐ मुनयो ह वै ब्राह्मणमूचुः कःपरमो देवः कुतो मृत्युर्बिभेति कस्य विज्ञानेनाखिलं भाति केनेदं विश्वंसंसरतीति । तदु होवाच ब्राह्मणः श्रीकृष्णो वै परमं दैवतं गोविन्दान्मृत्यु-र्बिभेति गोपीजनवल्लभज्ञानेन तज्ज्ञातं भवति स्वाहेदं संसरतीति । तदुहोचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेतितानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्या-कलाप्रेरकः । तन्माया चेति सकलं परं ब्रह्मैतद्यो ध्यायति रसति भजतिसोऽमृतो भवति सोऽमृतो भवतीति ॥१॥
ते होचुः किं तद्रूपं किं रसनंकथं वाऽहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्योगोपवेष्मभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति -- सत्पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥गोपगोपाङ्गनावीतं सुरद्रुमतलाश्रितम् । दिव्यालंकरणोपेतं रत्नपङ्कजम-ध्यगम् ॥ कालिन्दीजलकल्लोलासङ्गिमारुतसेवितम् । चिन्तयंश्चेतसा कृष्णंमुक्तो भवति संसृतेः ॥ इति । तस्य पुना रसनभजनभूमीन्दुसंपातः कामादिकृष्णायेत्येकं पदं गोविन्दायेति द्वितीयं गोपीजनेति तृतीयं वल्लभार्येतितुरीयं स्वाहेति पञ्चममिति पञ्चपदीं प्रजपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौसाग्नी तद्रूपतया ब्रह्म संपद्यते ब्रह्म संपद्यत इति ॥२॥
तदेष श्लोकः--क्लीमित्येवादावादाय कृष्णाय योगं गोविन्दायोत च । गोपीजनवल्लभाय-----Page-----------------५९२--बृहद्घनं श्यामं तदप्युच्चरेद्यो गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यादितिभक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्मिन्मनःकल्पनमेतदेव चनैष्कर्म्यं कृष्णं सन्तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधा रसन्ति गोपी-जनवल्लभो भुवनानि दध्रे स्वाहाश्रितो जगदैजयत्सुरेताः वायुर्यथैको भुवनंप्रतिष्ठो जन्ये जन्ये पञ्चरूपो बभूव । कृष्णस्तथैकोऽपि जगद्धितार्थं शब्देनासौपञ्चपदो विभातीति ॥३॥
ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्या-खिलाधारिणो ब्रूहीति । तानुवाच ब्रह्मा यत्तस्य पीठं हैरण्यमष्टपलाशमम्बुजंतदन्तरालिकानलास्रयुगं तदन्तराद्यार्णं विलिखीत कृष्णाय । नम इतिबीजाढ्यं स ब्राह्मणमाधायानङ्गमनु गायत्रीं यथावद्व्यासज्य भूमण्डलंमूलवेष्टितं कृत्वाऽङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनि-ध्यावीतं यजेत्संध्यासु प्रतिपत्तिभिरुपचारैस्तेनास्याखिलं भवत्यखिलं भवतीति॥४॥
तदिह श्लोका भवन्ति--एको वशी सर्वगः कृष्ण ईड्य एकोऽपिसन्बहुधा यो विभाति । तं पीठस्थं येऽनुभजन्ति धीरास्तेषां सुखं शाश्वतंनेतरेषाम् ॥ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।तं पीठगं येऽनुयजन्ति विप्रास्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ एतद्विष्णोःपरमं पदं ये नित्योद्युक्ताः संयजन्ते न कामात् । तेषामसौ गोपरूपःप्रयत्नात्प्रकाशयेदात्मपदं तदैव ॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मैगापयति स्म कृष्णः । तं ह देवमात्मवृत्तिप्रकाशं मुमुक्षुर्वै शरणममुं व्रजेत् ॥ॐकारेणान्तरितं यो जपति गोविन्दस्य पञ्चपदं मनुं तम् । तस्यैवासौदर्शयेदात्मरूपं तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥ एतस्मादन्ये पञ्चपदाद-भूवन्गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास्तेऽपि संक्रन्दनाद्यैरभ्यस्यन्तेभूतिकामैर्यथावत् ॥ तदेतस्य स्वरूपार्थं वाचा वेदयेति ते पप्रच्छुस्तदुहोवाच ब्राह्मणः अनवरतं मया ध्यातस्ततः परार्धान्ते सोऽबुध्यत गोपवेषोमे पुरस्तादाविर्बभूव ततः प्रणतो मया अनुकूलेन हृदा मद्यमष्टादशार्णंस्वरूपं सृष्टये दत्त्वाऽन्तर्हितः पुनः सिसृक्षा मे प्रादुरभूतेष्वक्षरेषु भविष्य-जगद्रूपं प्रकाशयंस्तदाह तदाह ॥५॥
अनुकूलेन हृदा मद्यमष्टादशार्णंस्वरूपं सृष्टये दत्त्वाऽन्तर्हित इति । आकाशादापो जलात्पृथ्वी ततोऽग्निर्बि-न्दोरिन्दुः तत्संपात्मदर्कः । इति क्लींकारादसृजं कृष्णादाकाशं खाद्वायुरि-त्युत्तरात्सुरभिविद्याः प्रादुरकार्यं तदुत्तरात्तु स्त्रीपुमादि च इदं सकलमिदं-----Page-----------------५९३--सकलमिति ॥६॥
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानंवेदयित्वॐकारान्तरालिकं मनुमावर्तयन् सङ्गरहितोऽत्यापतत् । तद्विष्णोःपरमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तस्मादेतन्नित्यमभ्य-सेन्नित्यमभ्यसेदिति ॥७॥
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलंतृतीयपदात्तेजश्चतुर्थाद्वायुश्चरमाद्व्योमेति वैष्णवं पञ्चव्याहृतिमयं मन्त्रंकृष्णावभासं कैवल्यसृत्यै सततमावर्तयेदिति । तदत्र गाथाः -- यस्यपूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः । तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद्विष्णोः परमंपदमव्ययम् ॥ ततो विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति ॥ तमेकं गोविन्दंसच्चिदानन्दविग्रहं पञ्चपदं वृन्दावने सुरभूरुहतलासीनं सततं समरुद्गणोऽहंपरमया स्तुत्या तोषयामि ॥८॥
इति गोपालपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥
ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ॥ विश्वेश्वराय विश्वाय गोविन्दायनमो नमः ॥१॥
नमो विज्ञानरूपाय परमानन्दरूपिणे ॥ कृष्णायगोपीनाथाय गोविन्दाय नमो नमः ॥२॥
नमः कमलनेत्राय नमः कमल-मालिने ॥ नमः कमलनाभाय कमलापतये नमः ॥३॥
बर्हापीडाभिरामायरामायाकुण्ठमेधसे ॥ रमामानसहंसाय गोविन्दाय नमो नमः ॥४॥
कंसवंशविनाशाय केशिचाणूरघातिने ॥ वृषभध्वजवन्द्याय पार्थसारथये नमः॥५॥
वेणुवादनशीलाय गोपालायाहिमर्दिने ॥ कालिन्दीकूललोलाय लोल-कुण्डलधारिणे ॥६॥
बल्लवीनयनाम्भोजमालिने नृत्यशालिने ॥ नमःप्रणतपालाय श्रीकृष्णाय नमो नमः ॥७॥
नमः पापप्रणाशाय गोवर्धन-धराय च ॥ पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥८॥
निष्कलायविमोहाय शुद्धायाशुद्धवैरिणे ॥ अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥९॥
प्रसीद परमानन्द प्रसीद परमेश्वर ॥ आधिव्याधिभुजगेन दष्टंमामुद्धर प्रभो ॥१०॥
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ॥ संसार-सागरे मग्नं मामुद्धर जगद्गुरो ॥११॥
केशव क्लेशहरण नारायण जनार्दन ॥गोविन्द परमानन्द मां समुद्धर माधव ॥१२॥
अथ हैवं स्तुतिभिराराधयामिते यूयं तथा पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति सहोवाच हैरण्यः । अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं-----Page-----------------५९४--तत् । अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्णएव परो देवस्तं ध्यायेत्तं रसेत्तं भजेत्तं भजेदित्यॐ तत्सदिति ॥१३॥
इति गोपालपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्याथर्वणीया गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥९८॥
गोपालोत्तरतापिन्युपनिषत् ॥९९॥
[सम्पाद्यताम्]ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे ।नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा सर्वेश्वरं गोपालं कृष्णंहि ता ऊचिरे । उवाच ताः कृष्णमनुः कस्मै ब्राह्मणाय भैक्षं दातव्यं भवतिदुर्वाससेति । कथं यास्यामोऽतीर्त्वा जलं यमुनायाः यतः श्रेयो भवतिकृष्णेति कृष्णो ब्रह्मचारीत्युक्त्वा मार्गं वो दास्यत्युत्ताना भवति यं मांस्मृत्वा अगाधा गाधा भवति यं मां स्मृत्वा अपूतः पूतो भवति यं मांस्मृत्वाऽव्रती व्रती भवति यं मां स्मृत्वा निष्कामः सकामो भवति यं मांस्मृत्वा अश्रोत्रियः श्रोत्रियो भवति यं मां स्मृत्वा श्रुत्वा तद्वाचं ह वैस्मृत्वा तद्वाक्येन तीर्त्वा तां सौर्यां हि वै गत्वाश्रमं पुण्यतमं नत्वामुनिश्रेष्ठतमं हि रौद्रं चेति दत्त्वाऽस्मै ब्राह्मणाय क्षीरमयं घृतमयं मिष्टतमं हिवा इष्टतमः स तुष्टः स्नात्वा भुक्त्वाऽऽशिषं प्रयोज्याज्ञामदात्कथं यास्यामो-ऽतीर्त्वा सौर्याम् स होवाच मुनिर्दुर्वासिनं मां स्मृत्वा वो दास्यतीति मार्गम् ।तासां मध्ये श्रेष्ठा गान्धर्वी होवाच सहैवैताभिरेवं विचार्य कथं कृष्णोब्रह्मचारी कथं दुर्वासिनो मुनिस्तां हि मुख्यां विधाय पूर्वमनु कृत्वा तूष्णी-मासुः । शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नस्तस्मिन्नाकाशे तिष्ठत्याकाशस्तंन वेद स ह्यात्माऽहं कथं भोक्ता भवामि ॥१॥
स्पर्शवान्वायुः स्पर्शवा-युभ्यां भिन्नस्तस्मिन्वायौ तिष्ठति वायुर्न वेद तं स ह्यात्माऽहं कथं भोक्ताभवामि रूपवदिदं तेजो रूपाग्निभ्यां भिन्नस्तस्मिन्नग्नौ तिष्ठत्यग्निर्न वेद तं हिस ह्यात्माऽहं कथं भोक्ता भवामि ॥२॥
रसवत्य आपो रसाद्भ्यो भिन्नास्ता-स्वप्सु तिष्ठति । आपो न विदुस्तं हि स ह्यात्माऽहं कथं भोक्ता भवामि ॥३॥
गन्धवती भूमिर्गन्धभूमिभ्यां भिन्नस्तस्यां भूमौ तिष्ठति भूमिर्न वेद तं हि स-----Page-----------------५९५--ह्यात्माऽहं कथं भोक्ता भवामि ॥४॥
इदं हि मनस्तेष्वेवं हि मनुते तानिदंगृह्णाति । यत्र हि सर्वमात्मैवाभूत्तत्र वा कुत्र मनुते क्व वा गच्छतीति सह्यात्माऽहं कथं भोक्ता भवामि ॥५॥
अयं हि कृष्णो यो वो हि प्रेष्ठःशरीरद्वयकारणं भवति द्वौ सुपर्णौ भवतो ब्रह्मणॐऽशभूतस्तथेतरो भोक्ताभवति । अन्यो हि साक्षी भवतीति ॥६॥
वृक्षधर्मे तौ तिष्ठतोऽभोक्तृभोक्तारौपूर्वो हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति यत्र विद्याविद्ये नविदामो विद्याविद्याभ्यां भिन्नो विद्यामयो यः स कथं विषयी भवतीति॥७॥
यो हि वै कामेन कामान्कामयते स कामी भवति यो हि वै त्वकामेनकामान्न कामयते सोऽकामी भवतीति । जन्मजराभ्यां भिन्नः स्थाणुरयम-च्छेद्योऽयम् । योऽसौ सूर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौगोपान्पालयति योऽसौ गोपेषु तिष्ठति योऽसौ सर्वेषु देवेषु तिष्ठतियोऽसौ सर्वैर्वेदैर्गीयते योऽसौ सर्वेषु भूतेष्वाविश्य तिष्ठति भूतानिच विदधाति स वो हि स्वामी भवतीति ॥८॥
सा होवाच गान्धर्वीकथं वाऽस्मासु जातोऽसौ गोपालः कथं वा ज्ञातोऽसौ त्वया मुनेकृष्णः को वाऽस्य मन्त्रः किं वाऽस्य स्थानं कथं वा देवक्यां जातः कोवाऽस्य ज्यायान्रामो भवति कीदृशी पूजाऽस्य गोपालस्य भवति साक्षा-त्प्रकृतिपरयोरयमात्मा गोपालः कथमवतीर्णो भूम्यां हि वै ॥९॥
सहोवाच तां हि वा एको हि वै पूर्वं नारायणो देवो यस्मिँल्लोका ओताश्चप्रोताश्च तस्य हृत्पद्माज्जातोऽब्जयोनिः । स पिता तस्मै ह वरं ददौ । स कामप्र-श्नमेव वव्रे । तं हास्मै ददौ स होवाचाब्जयोनिरवताराणां मध्ये श्रेष्ठोऽवतारःको भवति येन लोकास्तुष्टा देवास्तुष्टा भवन्ति यं स्मृत्वा वा मुक्ता अस्मा-त्संसाराद्भवन्ति कथं वाऽस्यावतारस्य ब्रह्मता भवति ॥१०॥
स होवाच तंहि नारायणो देवः सकाम्या मेरोः शृङ्गे यथा सप्त पुर्यो भवन्ति तथा हिनिष्काम्याः सकाम्याश्च भूलोकचक्रे सप्त पुर्यो भवन्ति तासां मध्ये साक्षा-द्ब्रह्मगोपालपुरी हीति सकाम्या निष्काम्या च देवानां सर्वेषां भूतानां चभवति ॥११॥
यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां हि तिष्ठतीति ।चक्रेण रक्षिता हि वै मधुरा तस्माद्गोपालपुरी हि भवतीति । बृहद्बृहद्वनंमधोर्मधुवनं तालस्तालवनं काम्यः कामवनं बहुलो बहुलवनं कुमुदः कुमुद-वनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनंलोहनवं वृन्दया वृन्दावनमेतैरावृता पुरी भवति ॥१२॥
तत्र तेष्वेवं-----Page-----------------५९६--गहनेष्वेव देवा मनुष्या गन्धर्वा नागाः किंनरा गायन्तीति नृत्यन्तीति तत्रद्वादशादित्या एकादश रुद्रा अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्चविनायका वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठविश्वेश्वरो गोपाले-श्वरो भद्रेश्वर एतदाद्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति । द्वे वने स्तः कृष्णवनंभद्रवनं तयोरन्तर्द्वादश वनानि पुण्यानि पुण्यतमानि तेष्वेव देवास्तिष्ठन्तिसिद्धाः सिद्धिं प्राप्तास्तत्र हि रामस्य रामा मूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरु-द्धस्यानिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिर्वनेष्वेव मधुरास्वेव द्वादश मूर्तयो भवन्ति॥१३॥
एकां हि रुद्रा यजन्ति द्वितीयां हि ब्रह्मा यजति तृतीयां हि ब्रह्मजायजन्ति चतुर्थीं मरुतो यजन्ति पञ्चमीं विनायका यजन्ति षष्ठीं वसवो यजन्तिसप्तमीमृषयो यजन्त्यष्टमीं गन्धर्वा यजन्ति नवमीमप्सरसो यजन्ति दशमीहि दिवोऽन्तर्धाने तिष्ठत्येकादरयन्तरिक्षपदं गता द्वादशी तु भूम्यां तिष्ठति ताहि ये जयन्ति ते मृत्युं तरन्ति मुक्तिं लभन्ते गर्भजन्मजरामरणतापत्रयात्मकंदुःखं तरन्ति ॥१४॥
प्रथमां मधुरां रम्यां सदा ब्रह्मादिसेविताम् । शङ्ख-चक्रगदाशार्ङ्गरक्षितां मुशलादिभिः ॥ अत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्यासमाहितः । रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ चतुःशब्दोभवेदेको ह्यॐकारः समुदाहृतः । तस्मादेव परो रजस इति सोऽहमित्यवधार्यगोपालोऽहमिति भावयेत् । स मोक्षमश्नुते स ब्रह्मत्वमधिगच्छति स ब्रह्मवि-द्भवति गोपाञ्जीवान्वा आत्मत्वेनासृष्टिपर्यन्तमालाति स गोपालो भवतिह्यॐ तद्यत्तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् । ॐ तद्गोपाल-देव एव परं सत्यमबाधितं सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यातात्मनो गोपालोऽहमिति भावयेत्स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।मधुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति । शङ्खचक्रगदापद्मवनमालावृतस्तुवै ॥ चित्स्वरूपं परंज्योतिःस्वरूपं रूपवर्जितम् । सदा मां संस्मरन्ब्रह्मन्मत्पदंयाति निश्चितम् ॥ मधुरामण्डले यस्तु जम्बुद्वीपस्थितोऽपि वा । योऽर्चयेत्प्र-तिमां प्रीत्या स मे प्रियतरो भुवि ॥१५॥
तस्यामधिष्ठितः कृष्णरूपीपूज्यस्त्वया सदा । चतुर्धा चास्याधिकारिभेदत्वेन यजन्ति माम् ॥ युगानु-वर्तिनो लोका यजन्तीह सुमेधसः ॥ गोपालं सानुजं रामं रुक्मिण्या सहतत्परम् ॥ गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः । रामोऽहं ह्यनिरुद्धो-ऽहमात्मानमर्चयेद्बुधः ॥ मयोक्तेन स्वधर्मेण निष्कामेण विभागशः ।-----Page-----------------५९७--तैरयं पूशनीयो वै भद्रकृष्णो निवासिभिः ॥ तद्धर्मगतिहीना ये तस्यां मयिपरायणाः । कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ॥ यथा त्वं सहपुत्रैस्तु यथा रुद्रो गणैः सह । यथा श्रियाऽभियुक्तोऽहं तथा भक्तो ममप्रियः ॥१६॥
स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।एकमक्षरं यद्विश्रुतं ह्यनेकाक्षरं कथं भूतं स होवाच । तं हि वै पूर्वं ह्येकमे-वाद्वितीयं ब्रह्मासीत्तस्मादव्यक्तं व्यक्तमेवाक्षरं तस्मादक्षरान्महान्महतो वाअहंकारस्तस्मादेवाहंकारात्पञ्च तन्मात्राणि तेभ्यो भूतानि तैरावृतमक्षरं भवति ।अक्षरोऽहमॐकारोऽहमजरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽह-मस्म्यक्षरोऽहमस्मि । सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा । एकमेवा-द्वयं ब्रह्म मायया तु चतुष्टयम् ॥ रोहिणीतनयो रामो अकाराक्षरसंभवः ।तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ॥ प्राज्ञात्मकोऽनिरुद्धो वै मकाराक्षर-संभवः । अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥ कृष्णात्मिकाजगत्कर्त्री मूलप्रकृतिरुक्मिणी ॥ व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ब्रह्मसंगतः ।प्रणवेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ तस्मादॐकारसंभूतो गोपालो विश्व-संस्थित्तिः । क्लीमॐकारं च एकत्वं पठ्यते ब्रह्मवादिभिः ॥ मधुरायां विशेषेणमां ध्यायन्मोक्षमश्नुते ॥ अष्टापत्रं विकसितं हृत्पद्मं तत्र संस्थितम् । दिव्यध्व-जातपत्रैस्तु चिह्नितं चरणद्वयम् । श्रीवत्सलाञ्छनं हृत्स्थं कौत्सुभं प्रभयायुतम् ॥ चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् । सुकेयूरान्वितं बाहुं कण्ठंमालासुशोभितम् ॥ द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् । हिरण्मयंसौम्यतनुं स्वभक्तायाभयप्रदम् ॥ ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा । तत्सारभूतं यद्यस्यां मथुरा सानिगद्यते । अष्टदिक्पालिभिर्भूमिपद्मं विकसितं जगत् ॥ संसारार्णवसंजातंसेवितं सममानसैः । चन्द्रसूर्याम्बरौचित्या ध्वजो मेरुर्हिरण्मयः ॥ आतपत्रंब्रह्मलोकं ममोर्ध्वचरणः स्मृतम् । श्रीवत्सं च स्वरूपं च वर्तते लाञ्छनैःसह । श्रीवत्सलाञ्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥ येन सूर्याग्निवाक्चन्द्र-तेजसा स्वस्वरूपिणा । वर्तते कौस्तुभमणिं तं वदन्तीशमानिनः ॥ सत्त्वंरजस्तम इति अहंकारश्चतुर्विधः । पञ्चभूतात्मकः शङ्खः परो रजसिसंस्थितः ॥ चलस्वरूपमत्यन्तं मनश्चक्रं निगद्यते । आद्या माया भवेच्छार्ङ्गंपद्मं विश्वं करे स्थितम् । आद्या विद्या गदा वेद्या सर्वदा म करे-----Page-----------------५९८--श्रिता । धर्मार्थकामकेयूरैर्दिव्यैर्नित्यमवारितैः । कण्ठं तु निर्गुणं प्रोक्तंमास्यते माययाऽजया । माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ॥कूटस्थस्य स्वरूपं च किरीटं प्रवदन्ति माम् । अक्षरोत्तमं प्रस्फुर-त्तत्कुण्डलं युगुलं स्मृतम् ॥ ध्यायेन्मम प्रियो नित्यं स मोक्षमधि-गच्छति । स मुक्तो भवति तस्मै च आत्मानं ददामीति ॥ एतत्सर्वंभविष्यति मया प्रोक्तं विधे तव । स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा॥१७॥
स होवाचाब्जयोनिर्व्यक्तानां मूर्तीनां प्रोक्तानां कथं वाऽवधारणाभवन्ति कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति विनायकायजन्ति द्वादशादित्या यजन्ति वसवो यजन्त्यप्सरसो यजन्ति गन्धर्वायजन्ति स्वपदं गताऽतर्धाने तिष्ठति कां मनुष्या यजन्ति । स होवाच तं तुह वै नारायणो देवः । आद्या अव्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषुदेवेषु सर्वेषु मनुष्येषु तिष्ठति रुद्रेषु रौद्री ब्रह्मण्येव ब्राह्मी देवेषु दैवीमानसेषु मानसी विनायके विघ्ननाशिन्यादित्येषु ज्योतिर्गन्धर्वेषु गान्धर्व्य-प्सरःस्वेवं गौर्वसुष्वेवं काम्यान्तर्धाने प्रकाशन आविर्भावा तिरोभावाकेवला तु स्वपदे तिष्ठति तामसी सात्त्विकी राजसी मानुषी विज्ञानघनआनन्दघनः सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ॥१८॥
ॐ टां प्राणात्मनेटां तत्सद्भूर्भुवः स्वस्तस्मै प्राणात्मने नमो नमः ॥१॥
ॐ टां कृष्णायगोविन्दाय गोपीजनवल्लभाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥२॥
ॐ टामपानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा अपानात्मने नमो नमः ॥३॥
ॐ टां कृष्णाय प्रद्युम्नायानिरुद्धाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः॥४॥
ॐ टां व्यानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै व्यानात्मने नमो नमः॥५॥
ॐ टां कृष्णाय रामाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः॥६॥
ॐ टामुदानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा उदानात्मने नमोनमः ॥७॥
ॐ टां कृष्णाय देवकीनन्दनाय टां तत्सद्भूर्भुवः स्वस्तस्मै वैनमो नमः ॥८॥
ॐ टां समानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै समानात्मनेनमो नमः ॥९॥
ॐ टां गोपालाय निजस्वरूपाय टां तत्सद्भूर्भुवः स्वस्तस्मैवै नमो नमः ॥१०॥
ॐ टां योऽसौ प्रेयानात्मा गोपालः टां तत्सद्भूर्भुवःस्वस्तस्मै वै नमो नमः ॥११॥
ॐ टां योऽसाविन्द्रियात्मा गोपालः टांतत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥१२॥
ॐ टां योऽसौ भूतात्मा-----Page-----------------५९९--गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥१३॥
ॐ टां योऽसा-वुत्तमपुरुषो गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥१४॥
ॐ टां योऽसौ परब्रह्मगोपाओ!लः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः॥१५॥
ॐ टां योऽसौ सर्वभूतात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वैनमो नमः ॥१६॥
ॐ टां योऽसौ जाग्रत्स्वप्नसुषुप्तिमतीत्य तुर्यातीतोगोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥१७॥
एको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासःसाक्षी चेता केवलो निर्गुणश्च ॥ रुद्राय नम आदित्याय नमो विनायकायनमः सूर्याय नमो विद्यायै नमः । इन्द्राय नमोऽग्नये नमः पित्रे नमो निरृ-तये नमो वरुणाय नमो मरुते नमः कुबेराय नम ईशानाय नमो ब्रह्मणेनमः सर्वेभ्यो देवेभ्यो नमः । दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।कर्तृत्वं सर्वलोकानामन्तर्धाने बभूव सः ॥ ब्रह्मणो ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतंयथा । तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकं गच्छ त्वंस्वालयान्तिकामिति ॥१९॥
ॐ स ह नाववत्विति शान्तिः ॥इत्याथर्वणीया गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥९९॥
कृष्णोपनिषत् ॥१००॥
[सम्पाद्यताम्]यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ।हरिः ॐ ॥ श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरंमुनयो वनवासिनो विस्मिता बभूवुः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्तेआलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथअन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं धार्यं तवाङ्गस्प-र्शनादिह । शश्वत्स्पर्शयिताऽस्माकं गृह्णीमोऽवतारान्वयम् ॥१॥
रुद्रादीनां वचःश्रुत्वा प्रोवाच भगवान्स्वयम् । अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥२॥
मोदितास्ते सुराः सर्वे कृतकृत्याधुना वयम् । यो नन्दः परमानन्दो यशोदा-----Page-----------------६००--मुक्तिगेहिनी ॥३॥
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । प्रोक्ताच सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥४॥
तामसी दैत्यपक्षेषु मायात्रेधा ह्युदाहृता । अजेया वैष्णवी माया जप्येन च सुता पुरा ॥५॥
देवकीब्रह्मपुत्रा सा या वेदैरुपगीयते । निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः॥६॥
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडन्गोप-गोपीसुरैः सह ॥७॥
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।वंशस्तु भगवान्रुद्रः शृङ्गमिन्द्रः सगोसुरः ॥८॥
गोकुलं वनवैकुण्ठं ताप-सास्तत्र ते द्रुमाः । लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥९॥
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । दुर्बोधं कुहकं तस्य माययामोहितं जगत् ॥१०॥
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्द्विजः । रुद्रोयेन कृतो वंशस्तस्य माया जगत्कथम् ॥११॥
बलं ज्ञानं सुराणां वै तेषांज्ञानं हृतं क्षणात् । शेषनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥१२॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचःस्त्रियः ॥१३॥
द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः । दर्पः कुवलया-पीडो गर्वो रक्षः खगो बकः ॥१४॥
दया सा रोहिणी माता सत्यभामाधरेति वै । अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥१५॥
शमोमित्रः सुदामा च सत्याक्रूरोद्धवो दमः । यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपोव्यवस्थितः ॥१६॥
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः । दुग्धो-दधिः कृतस्तेन भग्नभाण्डो दधिग्रहे ॥१७॥
क्रीडते बालको भूत्वा पूर्वव-त्सुमहोदधौ । संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥१८॥
कृपार्थेसर्वभूतानां गोप्तारं धर्ममात्मजम् । यत्स्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपधृक्॥१९॥
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः । यस्यासौ ज्वलनाभासःखङ्गरूपो महेश्वरः ॥२०॥
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥२१॥
यावन्ति देवरूपाणिवदन्ति विबुधा जनाः । नमन्ति देवरूपेभ्य एवमादि न संशयः ॥२२॥
गदा च कालिका साक्षात्सर्वशत्रुनिबर्हिणी । धनुः शार्ङ्गं स्वमाया च शर-त्कालः सुभोजनः ॥२३॥
अब्जकाण्डं जगद्बीजं धृतं पाणौ स्वलीलया ।गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥२४॥
वृन्दा भक्तिः क्रियाबुद्धिः सर्वजन्तुप्रकाशिनी । तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ॥
Page-----------------६०१--
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥२५॥
सर्वतीर्थफलं लभते यएवं वेद । देहबन्धाद्विमुच्यते इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति कृष्णोपनिषत्समाप्ता ॥१००॥