सामग्री पर जाएँ

ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-७१-८०

विकिस्रोतः तः

अव्योक्तोपनिषत् ॥७१॥

[सम्पाद्यताम्]

स्वाज्ञानासुरराङ्ग्रासस्वज्ञाननरकेसरी । प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ ॥ पुरा किलेदं न किंचनासीन्न द्यौर्नान्तरिक्षं न पृथिवी केवलंज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दम-यमासीत् । तदनन्यत्तद्द्वेधाऽभूद्घरितमेकं रक्तमपरम् । तत्र यद्रक्तं तत्पुंसोरूपमसूत् । यद्धरितं तन्मायायाः । तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् ।तदवर्धत । तदण्डमभूद्धैमम् । तत्परिणममानमभूत् । ततः परमेष्ठी व्यजा-यत । सोऽभिजिज्ञासत किं मे कुलं किं मे कृत्यमिति । तं ह वागदृश्यमानाऽभ्युवाच-भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किम-----Page------------------४८९--व्यक्तं यस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति । साऽब्रवीदविज्ञेयं हितत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् । तच्चेज्जिज्ञाससि माऽवगच्छेति । सहोवाच कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्तपसा मांविजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥१॥

अथा-पश्यदृचमानुष्टुभीं परमां विद्यां यस्याङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् ।विश्वेदेवाः प्रतिष्ठिताः । यस्तां न वेद किमन्यैर्वेदैः करिष्यति । तां विदित्वास च रक्तं जिञ्जासयामास । तामेवमनूचानां गायन्नासिष्ट । सहस्रं समाआद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रं समास्तथैवाक्षरशः । ततोऽपश्य-ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छादितमौलिं मृगमुखं नरवपुषंशशिसूर्यहव्यवाहनात्मकनयनत्रयम् । ततः प्रजापतिः प्रणिपपात नमो नमैति । तथैवर्चाथ तमस्तौत् । उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् ।वीरमित्याह वीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयंमहान्रोदसी व्याप्य स्थितः ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः ।सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् । नृसिंहमित्याह यथायजुरेवैतत् । भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतोवायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयंश्रिया जुष्टः । मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादा-नाम् । नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥२॥

अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति । स होवाचभगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराऽश्रावि । तत्राव्यक्तं भवा-नित्यज्ञायि व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् । यद्व्यज्यतेतद्व्यक्तस्य व्यक्तत्वमिति । स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति ।तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानं हविर्ध्यायेत्तयैवाऽनुष्टुभर्चा ।ध्यानयज्ञोऽयमेव । एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साम्नानर्चा न यजुषाऽर्थो नु विद्यते । य इमा वेद स सर्वान्कामानवाप्य सर्वांल्लो-काञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥३॥

प्रजाप-तिस्तं यज्ञाय वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे । सप्रणवया तयैवर्चा-----Page-----------------४९०--हविर्ध्यात्वाऽऽत्मानमात्मन्यग्नौ जुहुयात् । सर्वमजानात्सर्वत्राशकत्सर्वमकरोत्य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति । ससर्वाँल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥४॥

अथ प्रजापतिर्लोकान्सिसृक्षमाण-स्तस्या एव विद्याया यानि त्रिंशदक्षराणि तेभ्यस्त्रीँल्लोकान् । अथ द्वे द्वे अक्षरेताभ्यामुभयतो दधार । तस्या एवर्चो द्वात्रिंशद्भिरक्षरैस्तान्देवान्निर्ममे । सर्वै-रेव स इन्द्रोऽभवत् । तस्मादिन्द्रो देवानामधिकोऽभवत् । य एवं वेद समा-नानामधिको भवेत् । तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । तस्याएकादशभिरेकादशादित्यान्निर्ममे । सर्वैरेव स विष्णुरभवत् । तस्माद्विष्णुरा-दित्यानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् । स चतु-र्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् । स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणम-जनयत् । दशभिर्दशभिर्विट्क्षत्रे । तस्माद्ब्राह्मणो मुख्यो भवति । एवंतन्मुख्यो भवति य एवं वेद । तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्यो-ऽभवत् । न वेदं दिवा न नक्तमासीदव्यावृतं । स प्रजापतिरानुष्टुभाभ्या-मर्धर्चाभ्यामहोरात्रावकल्पयत् । ततो व्यैच्छत् व्येवास्मा उच्छति । अथोतम एवापहते । ऋग्वेदमस्या आद्यात्पादादकल्पयत् । यजुर्द्वितीयात् । सामतृतीयात् । अथर्वाङ्गिरसश्चतुर्थात् । यदष्टाक्षरपदा तेन गायत्री । यदेकादश-पदा तेन त्रिष्टुप् । यच्चतुष्पदा तेन जगती । यद्द्वात्रिंशदक्षरा तेनानुष्टुप् । सावा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद । सर्वं जगदानु-ष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद ॥५॥

अथ यदा प्रजाःसृष्टा न जायन्ते प्रजापतिः कथं न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमि-तीमामृचं गातुमुपाक्रामत् । ततः प्रथमपादादुग्ररूपो देवः प्रादुरभूत् । एकःश्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसिच पुंरूपं व्यधात् । स उभाभ्यामंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजा-यन्ते । य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गायत्रुद्ग्रथितजटाक-लापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति । इन्द्रो वै किल देवानामनुजावरआसीत् । तं प्रजापतिरब्रवीद्गच्छ देवानामधिपतिर्भवेति । सोऽगच्छत् । तंदेवा ऊचुरनुजावरोऽसि त्वमस्माकं कुतस्तवाधिपत्यमिति । स प्रजापतिमभ्ये-----Page------------------४९१--त्योवाचैवं देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । तं प्रजापतिरिन्द्रंत्रिकलशैरमृतपूर्णैरानुष्टुभाऽभिमन्त्रितैरभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्षपाञ्चजन्येन वामतो द्वयेनैन सुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसिमन्त्रमानुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् । तस्मैविद्यामानुष्टुभीं प्रादात् । ततो देवास्तमाधिपत्यायानुमेनिरे । स स्वराडभूत् ।य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपि कथमपां जयेयमिति । सप्रजापतिमुपाधावत् । तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारंभद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । ततः स उभयोर्लोकयोरधिपति-रभूत् । य एवं वेदोभयोर्लोकयोरधिपतिर्भवति । स पृथिवीं जयति यो वाअप्रतिष्ठितं शिथिलं भ्रातृव्येभ्यः परमात्मानं मन्यते । स एतमासीनमधिति-ष्ठेत् । प्रतिष्ठितोऽशिथिलो भ्रातृव्येभ्यो वसीयान्भवति यश्चैवं वेद यश्चैवं वेद॥६॥

स इमां विद्यामधीते स सर्वान्वेदानधीते । स सर्वैः क्रतुभिर्यजते । ससर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । स ब्रह्मवर्चसं महदा-प्नुयात् । आ ब्रह्मणः पूर्वानाकल्पांश्चोत्तरांश्च वंश्यान्पुनीते । नैनमपस्मारादयोरोगा आदिधेयुः । सयक्षाः सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वापापिनः पुण्याँल्लोकानवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः । पितर-मिवैनं सर्वे मन्यन्ते । राजानश्चास्यादेशकारिणो भवन्ति । न चाचार्यव्यति-रिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् । न चास्मादुपावरोहेत् । जीवन्मुक्तश्च भवति ।देहान्ते तमसः परं धाम प्राप्नुयात् । यत्र विराण् नृसिंहोऽवभासते तत्रखलूपासते । तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते ।न च पुनरावर्तन्ते । न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते नानूचा-नाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षि-ताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण इत्येषोपनिषत् ॥१॥

हरिः ॐ तत्सत् ॥ॐ आप्यायन्त्विति शान्तिः ॥इत्यव्यक्तोपनिषत्समाप्ता ॥७१॥


Page-----------------४९२--

एकाक्षरोपनिषत् ॥७२॥

[सम्पाद्यताम्]

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥ एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । त्वंविश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥१॥

विश्वे निमग्न-पदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः । अजातमग्रे स हिरण्यरेतायज्ञस्त्वमेवैकविभुः पुराणः ॥२॥

प्राणः प्रसूतिर्भुवनस्य योनिर्व्याप्तं त्वयाएकपदेन विश्वम् । त्वं विश्वभूर्योनिपराः स्वगर्भे कुमार एको विशिखः सुधन्वा॥३॥

वितत्य बाणं तरुणार्कवर्णं व्योमान्तरे भासि हिरण्यगर्भः । भासात्वया व्योम्नि कृतः सुतार्क्ष्यस्त्वं वै कुमारस्त्वमरिष्टनेमिः ॥४॥

त्वं वज्रभृ-द्भूतपतिस्त्वमेव कामः प्रजानां निहितोऽसि सोमे । स्वाहा स्वधा यच्च वषट्करोति रुद्रः पशूनां गुहया निमग्नः ॥५॥

धाता विधाता पवनः सुपर्णोविष्णुर्वराहो रजनी रहश्च । भूतं भविष्यत्प्रभवः क्रियाश्च कालः क्रमस्त्वंपरमाक्षरं च ॥६॥

ऋचो यजूंषि प्रसवन्ति वक्त्रात्सामानि सम्राड्वसुरन्तरि-क्षम् । त्वं यज्ञनेता हुतभुग्विभुश्च रुद्रास्तथा दैत्यगणा वसुश्च ॥७॥

स एषदेवोऽम्बरगश्च चक्रे अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । हिरण्मयं यस्य विभातिसर्वं व्योमान्तरे रश्मिमिवांशुनाभिः ॥८॥

स सर्ववेत्ता भुवनस्य गोप्ताताभिः प्रजानां निहिता जनानाम् । प्रोता त्वमोता विचितिः क्रमाणां प्रजा-पतिश्छन्दमयो विगर्भः ॥९॥

सामैश्चिदन्तो विरजश्च बाहु हिरण्मयं वेद-विदां वरिष्टम् । यमध्वरे ब्रह्मविदः स्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्वमेव॥१०॥

त्वं स्त्री पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव ।त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥११॥

मित्रःसुपर्णश्चन्द्र इन्द्रो वरुणो रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् । त्वं विष्णु-र्भूतानि तु त्रासि दैत्यांस्त्वयाऽऽवृतं जगदुद्भवगर्भः ॥१२॥

त्वं भूर्भुवः स्वस्त्वं-----Page-----------------४९३--हि स्वयंभूरथ विश्वतोमुखः । य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्व-भूतं हिरण्मयम् ॥१३॥

हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धि-मतीत्य तिष्ठतीत्युपनिषत् ॥१॥

हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इत्येकाक्षरोपनिषत्समाप्ता ॥७२॥


अन्नपूर्णोपनिषत् ॥७३॥

[सम्पाद्यताम्]

सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् । प्रणम्य दण्डव-द्भूमावुत्थाय स पुनर्मुनिः ॥१॥

आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् ।कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥२॥

तां मे ब्रूहि महाविद्यां मोक्ष-साम्राज्यदायिनीम् । निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् ॥३॥

यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि । मूलशृङ्गाटमध्यस्था बिन्दुनाद-कलाश्रया ॥४॥

नित्यानन्दा निराधारा विख्याता विलसत्कचा । विष्टपेशीमहालक्ष्मीः कामस्तारो नतिस्तथा ॥५॥

भगवत्यन्नपूर्णेति ममाभिलषितंततः । अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥६॥

सप्तविंशतिवर्णात्मायोगिनीगणसेविता ॥७॥

ऐं ह्रीं सौं श्रीं क्लीं ॐ नमो भगवत्यन्नपूर्णेममाभिलषितमन्नं देहि स्वाहा । इति पित्रोपदिष्टोऽस्मि तदादिनियमःस्थितः । कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥८॥

एवं गते बहुदिनेप्रादुरासीन्ममाग्रतः । अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥९॥

तांदृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः । अहो वत्स कृतार्थोऽसि वरं वरयमा चिरम् ॥१०॥

एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव । आत्मतत्त्वंमनसि मे प्रादुर्भवतु पार्वति ॥११॥

तथैवास्त्विति मामुक्त्वा तत्रैवान्तर-धीयत । तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥१२॥

भ्रमः पञ्चविधोभाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥१३॥


Page-----------------४९४--आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः । शरीरत्रयसंयुक्तजीवः सङ्गी तृती-यकः ॥१४॥

जगत्कारणरूपस्य विकारित्वं चतुर्थकः । कारणाद्भिन्नजगतःसत्यत्वं पञ्चमो भ्रमः । पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥१५॥

बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः । स्फटिकलोहितदर्शनेन पारमार्थिक-कर्तृत्वभ्रमो निवृत्तः । घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः । रज्जु-सर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः । कनकरुचकदर्शनेनविकारित्वभ्रमो निवृत्तः । तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् । निदाघत्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥१६॥

निदाघः प्रणतो भूत्वा ऋभुंपप्रच्छ सादरम् । ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥१७॥

तथे-त्याह ऋभुः प्रीतस्तत्त्वज्ञानं वदामि ते । महाकर्ता महाभोक्ता महात्यागीभवानघ । स्वस्वरूपानुसंधानमेवं कृत्वा सुखी भव ॥१८॥

नित्योदितंविमलमाद्यमनन्तरूपं ब्रह्माऽस्मि नेतरकलाकलनं हि किंचित् । इत्येव भावयनिरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः ॥१९॥

यदिदं दृश्यतेकिंचित्तत्तन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥२०॥

यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् । मनःषष्ठेन्द्रियातीतं तन्मयोभव वै मुने ॥२१॥

अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् । नीरन्ध्रंभूरिवाशेषं तदस्मीति विभावय ॥२२॥

यदा संक्षीयते चित्तमभावात्यन्त-भावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥२३॥

नूनं चैत्यांश-रहिता चिद्यदात्मनि लीयते । असद्रूपवदत्यच्छा सत्तासामान्यता तदा॥२४॥

दृष्टिरेषा हि परमा सदेहादेहयोः समा । मुक्तयोः संभवत्येव तुर्या-तीतपदाभिधा ॥२५॥

व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ । ज्ञस्यकेवलमज्ञस्य न भवत्येव बोधजा । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः॥२६॥

चिरकालपरिक्षीणमननादिपरिभ्रमः । पदमासाद्यते पुण्यं प्रज्ञयैवै-कया तथा ॥२७॥

इमं गुणसमाहारमनात्मत्वेन पश्यतः । अन्तः शीतलयायाऽसौ समाधिरिति कथ्यते ॥२८॥

अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च ।तदेव केवलीभावं शान्ततैव च तत्सदा ॥२९॥

तनुवासनमत्युच्चैः पदायोद्यत-मुच्यते । अवासनं मनोऽकर्तृपदं तस्मादवाप्यते ॥३०॥

घनवासनमेतत्तुचेतःकर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥३१॥


Page-----------------४९५--चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । सर्वमाकाशतामेति नित्यमन्तर्मुख-स्थितेः ॥३२॥

यथा विपणगा लोका विहरन्तोऽप्यसत्समाः । असंबन्धा-त्तथा ज्ञस्य ग्रामोऽपि विपनोपमः ॥३३॥

अन्तर्मुखतया नित्यं सुप्तो बुद्धोव्रजन्पठन् । पुरं जनपदं ग्राममरण्यमिव पश्यति ॥३४॥

अन्तःशीतलतायांतु लब्धायां शीतलं जगत् । अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्॥३५॥

भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥३६॥

यस्त्वात्मरति-रेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः । न वशो हर्षशोकाभ्यां स समाहित उच्यते॥३७॥

आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् । स्वभावादेव न भयाद्यःपश्यति स पश्यति ॥३८॥

अद्यैव मृतिरायातु कल्पान्तनिचयेन वा ।नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥३९॥

कोऽहं कथमिदं किं वाकथं मरणजन्मनी । विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि ॥४०॥

विचा-रेण परिज्ञातस्वभावस्य सतस्तव । मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम्॥४१॥

विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु । न निमज्जति तद्ब्रह्मन्गोष्प-देष्विव वारणः ॥४२॥

कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति । कार्येगोष्पदतोयेऽपि विशीर्णो मशको यथा ॥४३॥

यावद्यावन्मुनिश्रेष्ठ स्वयंसंत्यज्यतेऽखिलम् । तावत्तावत्परालोकः परमात्मैव शिष्यते ॥४४॥

याव-त्सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेतिकथ्यते ॥४५॥

आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् । सर्वं संत्यज्यदूरेण यच्छिष्टं तन्मयो भव ॥४६॥

सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्ग-तम् । चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥४७॥

समाहितानित्यनृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः॥४८॥

अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देनमेरोः स्थिरतरा स्थितिः ॥४९॥

निश्चिता विगताभीष्टा हेयोपादेयवर्जिता ।ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥५०॥

केवलं चित्प्रकाशांश-कल्पिता स्थिरतां गता । तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥५१॥

अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते । मनोहंकारविलये सर्वभावान्तरस्थिता॥५२॥

समुदेति परानन्दा या तनुः पारमेश्वरी । मनसैव मनश्छित्त्वा सास्वयं लभ्यते गतिः ॥५३॥

तदनु विषयवासनाविनाशस्तदनु शुभः परमः-----Page-----------------४९६--स्फुटप्रकाशः । तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम्॥५४॥

अखिलमिदमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितोऽन्तः ।बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः ॥५५॥

असक्तंनिर्मलं चित्तं युक्तं संसार्यविस्फुटम् । सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत्॥५६॥

अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् । बहिः कुर्वन्नकुर्वन्वाकर्ता भोक्ता न हि क्वचित् ॥५७॥

इत्यन्नपूर्णोपनिषत्सु प्रथमोऽध्यायः ॥१॥

निदाघ उवाच ॥ सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् । कश्चमोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥१॥

देहदेहिविभागैकपरित्यागेनभावना । देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥२॥

सर्वमात्मेद-मत्राहं किं वाञ्छामि त्यजामि किम् । इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थि-ताम् ॥३॥

नाहमस्मि न चान्योऽस्ति न चायं न च नेतरः । सोऽसङ्ग इतिसंप्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥४॥

नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते ।सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥५॥

सर्वकर्मफलादीनां मन-सैव न कर्मणा । निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥६॥

असंक-ल्पेन सकलाश्चेष्टा नाना विजृम्भिताः । चिकित्सिता भवन्तीह श्रेयः संपादयन्तिहि ॥७॥

न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासुन कालकलनासु च ॥८॥

केवलं चिति विश्रम्य किंचिच्चैत्यावलम्ब्यपि ।सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥९॥

व्यवहारमिदं सर्वं मा करोतुकरोतु वा । अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥१०॥

अथवातमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः । जीवस्तिष्ठति संशान्तो ज्वलन्मणि-रिवात्मनि ॥११॥

चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यतेशान्तकलना जाग्रत्येव सुषुप्तता ॥१२॥

एषा निदाघ सौषुप्तस्थितिरभ्यास-योगतः । प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥१३॥

अस्यां तुरीया-वस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तशीलत्वादनानन्दपदं गतः॥१४॥

अनानन्दमहानन्दकालातीतस्ततोऽपि हि । मुक्त इत्युच्यते योगीतुर्यातीतपदं गतः ॥१५॥

परिगलितसमस्तजन्मपाशः सकलविलीनतमो-मयाभिमानः । परमरसमयीं परात्मसत्तां जलगतसैन्धवखण्डवन्महात्मा-----Page-----------------४९७--॥१६॥

जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् । अनुभूतिमयं तस्मात्सारंब्रह्मेति कथ्यते ॥१७॥

दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते । द्रव्य-दर्शनसंबन्धे याऽनुभूतिरनामया ॥१८॥

तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजतेस्थितिम् । सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥१९॥

आत्मास्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासन्नसन्मयः ॥२०॥

नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः । यदीदंदृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् ॥२१॥

दृश्यदर्शनसंबन्धे यत्सुखंपारमार्थिकम् । तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥२२॥

न मोक्षोनभसः पृष्ठे न पाताले न भूतले । सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते॥२३॥

मोक्षो मेऽस्त्विति चिन्ताऽन्तर्जाता चेदुत्थितं मनः । मननोत्थे मन-स्येष बन्धः सांसारिको दृढः ॥२४॥

आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वातते । को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥२५॥

अध्यात्मरति-राशान्तः पूर्णपावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति॥२६॥

सर्वाधिष्ठानसन्मात्रे विर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहःस जीवन्मुक्त उच्यते ॥२७॥

नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति । नसंस्मरत्यतीतं च सर्वमेव करोति च ॥२८॥

अनुबन्धपरे जन्तावसंसर्ग-मनाः सदा । भक्ते भक्तसमाचारः शठे शठ इव स्थितः ॥२९॥

बालोबालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः॥३०॥

धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः । प्राज्ञः प्रसन्नमधुरोदैन्यादपगताशयः ॥३१॥

अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते । मनःप्रशममायाति निर्वाणमवशिष्यते ॥३२॥

यतो वाचो निवर्तन्ते विकल्प-कलनान्विताः । विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते ॥३३॥

अनाद्यन्ता-वभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः॥३४॥

यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये । यदात्मैव जगत्सर्वमितिनिश्चित्य पूर्णता ॥३५॥

सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ ।क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥३६॥

सर्वमेकं परं व्योम को मोक्षःकस्य बन्धता । ब्रह्मेदं बृंहिताकारं बृहद्बृंहदवस्थितम् ॥३७॥

दूरादस्तमित-द्वित्वं भवात्मैव त्वमात्मना । सम्यगालोकिते रूपे काष्ठपाषाणवाससाम्-----Page-----------------४९८--॥३८॥

मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः । आदावन्ते चसंशान्तस्वरूपमविनाशि यत् ॥३९॥

वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा ।द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥४०॥

स्फुरत्यात्मभिरात्मैव चित्तैरब्धीववीचिभिः । आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ॥४१॥

शुद्धमात्मानमा-लिङ्ग्य नित्यमन्तःस्थया धिया । यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः॥४२॥

कृतस्फारविचारस्य मनोभोगादयोऽरयः । मनागपि न भिन्दन्तिशैलं मन्दानिला इव ॥४३॥

नानात्वमस्ति कलनासु न वस्तुतोऽन्तर्नाना-विधासु सरसीषु जलादिवान्यत् । इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यतेसमवलोकितसम्यगर्थः ॥४४॥

इत्यन्नपूर्णोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः । कं योगं समुपस्थाय प्राप्त-वान्परमं पदम् ॥१॥

सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः । कौण्डि-न्यात्तत्त्वमास्थाय जीवन्मुक्तोऽभवत्पुरा ॥२॥

जीवन्मुक्तिदशां प्राप्य कदा-चिद्ब्रह्मवित्तमः । सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥३॥

बद्धपद्मासन-स्तिष्ठन्नर्धोन्मीलितलोचनः । बाह्यानाभ्यन्तरांश्चैव स्पर्शान्परिहरञ्छनैः ॥४॥

ततः स्वमनसः स्थैर्यं मनसा विगतैनसा । अहो नु चञ्चलमिदं प्रत्याहृतमपिस्फुटम् ॥५॥

पटाद्घटमुपायाति घटाच्छकटमुत्कटम् । चित्तमर्थेषु चरतिपादपेष्विव मर्कटः ॥६॥

पञ्च द्वाराणि मनसश्चक्षुरादीन्यमून्यलम् । बुद्धी-न्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥७॥

हन्तेन्द्रियगणा यूयं त्यज-ताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥८॥

तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः । परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मिविगतज्वरः ॥९॥

स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् । अन्तरेवशशामास्य क्रमेण प्राणसन्ततिः ॥१०॥

ज्वालाजालपरिस्पन्दो दग्धेन्धनैवानलः । उदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥११॥

समः सम-रसाभासस्तिष्ठामि स्वच्छतां गतः । प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान्॥१२॥

तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः । सबाह्याभ्यन्तरा-न्भावान्स्थूलान्सूक्ष्मतरानपि ॥१३॥

त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैक-विनिर्मितान् । सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥१४॥

जहाविन्द्रिय-तन्मात्राजालं खग इवानिलः । ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम्-----Page-----------------४९९--॥१५॥

सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः । जहौ चित्तं चैत्यदशांस्पन्दशक्तिमिवानिलः ॥१६॥

चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः ।सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥१७॥

सुषुप्तस्थैर्यमासाद्य तुर्य-रूपमुपाययौ । निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥१८॥

ततस्तुसंबभूवासौ यद्गिरामप्यगोचरः । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां चयत् ॥१९॥

विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् । पुरुषः सांख्यदृष्टी-नामीश्वरो योगवादिनाम् ॥२०॥

शिवः शैवागमस्थानां कालः कालैकवा-दिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥२१॥

यत्सर्वं सर्वगंवस्तु यत्तत्त्वं तदसौ स्थितः । यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥२२॥

स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः । यदेकं चाप्यनेकं च साञ्जनं चनिरञ्जनम् । यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसौ स्थितः ॥२३॥

अजममर-मनाद्यमाद्यमेकं पदममलं सकलं च निष्कलं च । स्थित इति स तदा नभः-स्वरूपादपि विमलस्थितिरीश्वरः क्षणेन ॥२४॥

इत्यन्नपूर्णोपनिषत्सु तृतीयोऽध्यायः ॥३॥

जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् । तथा चेन्मुनिशार्दूल तत्रनैव प्रलक्ष्यते ॥१॥

अनात्मविदमुक्तोऽपि नभोविहरणादिकम् । द्रव्यमन्त्र-क्रियाकालशक्त्याऽऽप्नोत्येव स द्विजः ॥२॥

नात्मज्ञस्यैष विषय आत्मज्ञोह्यात्ममात्रदृक् । आत्मनाऽऽत्मनि संतृप्तो नाविद्यामनुधावति ॥३॥

ये येभावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कथं तेषुनिमज्जति ॥४॥

यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति । स सिद्धि-साधनैर्योगैस्तानि साधयति क्रमात् ॥५॥

द्रव्यमन्त्रक्रियाकालयुक्तयः साधु-सिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥६॥

यस्येच्छा विद्यतेकाचित्सा सिद्धिं साधयत्यहो । निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित्॥७॥

सर्वेच्छाजालसंशान्तावात्मलाभो भवेन्मुने । स कथं सिद्धिजालानिनूनं वाञ्छत्यचित्तकः ॥८॥

अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले ।अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥९॥

अधिष्ठाने परे तत्त्वेकल्पिता रज्जुसर्पवत् । कल्पिताश्चर्यजालेषु नाभुदेति कुतूहलम् ॥१०॥


Page-----------------५००--ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वत-न्त्रास्तनौ स्थिताः ॥११॥

सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् ।निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥१२॥

आपत्कार्पण्यमुत्साहोमदो मान्द्यं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥१३॥

द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपोदेहमुक्तिगः ॥१४॥

चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च । चित्त-सत्तां क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥१५॥

मनस्तां मूढतां विद्धि यदानश्यति सानघ । चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥१६॥

मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्यतन्मनः ॥१७॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । निदाधाऽरूप-नाशस्तु वर्तते देहमुक्तिके ॥१८॥

विदेहमुक्त एवासौ विद्यते निष्कला-त्मकः । समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ॥१९॥

विदेहमुक्तौ विमलेपदे परमपावने । विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥२०॥

चित्त-नाशे विरूपाख्ये न किंचिदिह विद्यते । न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्नलोकता ॥२१॥

न चोदयो नास्तमयो न हर्षामर्षसंविदः । न तेजो नतमः किंचिन्न संध्यादिनरात्रयः । न सत्तापि न चासत्ता न च मध्यं हितत्पदम् ॥२२॥

ये हि पारङ्गता बुद्धेः संसाराडम्बरस्य च । तेषां तदास्पदस्फारं पवनानामिवाम्बरम् ॥२३॥

संशान्तदुःखमजडात्मकमेकसुप्तमान-न्दमन्थरमपेतरजस्तमो यत् । आकाशकोशतनवोऽतनवो महान्तस्तस्मिन्पदेगलितचित्तलवा भवन्ति ॥२४॥

हे निदाघ महाप्राज्ञ निर्वासनमना भव ।बलाच्चेतः समाधाय निर्विकल्पमना भव ॥२५॥

यज्जगद्भासकं भानं नित्यभाति स्वतः स्फुरत् । स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥२६॥

प्रतिष्ठा सर्वभूतानां प्रज्ञातघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्व-यम् ॥२८॥

एकं ब्रह्माऽहमस्मीति कृतकृत्यो भवेन्मुनिः ॥२८॥

सर्वाधिष्ठान-मद्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥२९॥

न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकलाश्च देवताः । स एवदेवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥३०॥

भिद्यते हृदय-ग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३१॥

द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते-----Page-----------------५०१--कर्मणो न महेश्वरः ॥३२॥

केवलं साक्षिरूपेण विना भोगो महेश्वरः ।प्रकाशते स्वयं भेदः कल्पितो मायया तयोः । चिच्चिदाकारतो भिन्ना नभिन्ना चित्त्वहानितः ॥३३॥

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥३४॥

अधिष्ठानं समस्तस्य जगतःसत्यचिद्घनम् । अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥३५॥

स्वशरीरेस्वयंज्योतिःस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे मायया-वृताः ॥३६॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्याया-द्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥३७॥

बाल्येनैव हि तिष्ठासे-न्निर्विद्य ब्रह्मवेदनम् । ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥३८॥

अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् । संसृतिव्रततेर्बीजं शरीरं विद्धिभौतिकम् ॥३९॥

भावाभावदशाकोशं दुःखरत्नसमुद्गकम् । बीजमस्य शरी-रस्य चित्तमाशावशानुगम् ॥४०॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥४१॥

यदा प्रस्पन्दते प्राणो नाडी-संस्पर्शनोद्यतः । तदा संवेदनमयं चित्तमाशु प्रजायते ॥४२॥

सा हि सर्व-गता संवित्प्राणस्पन्देन बोध्यते । संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम्॥४३॥

योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस्तथा ध्यानैःप्रयोगैर्युक्तिकल्पितैः ॥४४॥

चित्तोपशान्तिफलदं परमं विद्धि कारणम् ।सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥४५॥

दृढभावनया त्यक्तपूर्वा-परविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥४६॥

यदा नभाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं नजायते ॥४७॥

अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेतिपरमोपशमप्रदा ॥४८॥

यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि । तदाहृदम्बरे शून्ये कथं चित्तं प्रजायते ॥४९॥

यदभावनमास्थाय यदभावस्यभावनम् । यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥५०॥

सर्वमन्तः परित्यज्यशीतलाशयवर्ति यत् । वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥५१॥

भृष्टबी-जोपमा येषां पुनर्जननवर्जिता । वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः॥५२॥

सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः । अचित्ता इति कथ्यन्तेदेहान्ते व्योमरूपिणः ॥५३॥

संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने ।-----Page-----------------५०२--समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥५४॥

पूवदृष्टमदृष्टं वायदस्याः प्रतिभासते । संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ॥५५॥

तद-मार्जनमात्रं हि महासंसारतां गतम् । तत्प्रमार्जनमात्रं तु मोक्ष इत्यभि-धीयते ॥५६॥

अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥५७॥

संविद्वस्तुद-शालम्बः सा यस्येह न विद्यते । सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि॥५८॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासावजडा संविज्जी-वन्मुक्तः स कथ्यते ॥५९॥

यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥६०॥

तदा जाड्यविनिर्मुक्त-मसंवेदनमाततम् । आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥६१॥

समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः । तन्मयत्वादनाद्यन्ते तदप्य-न्तर्विलीयते ॥६२॥

तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः । अजडोगलितानन्दस्त्यक्तसंवेदनः सुखी ॥६३॥

एतां दृष्टिमवष्टभ्य कष्टचेष्टायु-तोऽपि सन् । तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥६४॥

विशेषं संपरि-त्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥६५॥

कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रैक-परो भव ॥६६॥

सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परा-नन्दि तिष्ठापूरितदिग्भरः ॥६७॥

सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झि-तम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥६८॥

तत्र संलीयते संवि-न्निर्विकल्पं च तिष्ठति । भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥६९॥

तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते । स सारः सर्वसाराणां तस्मात्सारोन विद्यते ॥७०॥

तस्मिंश्चद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताःप्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥७१॥

तदमलमरजं तदात्मतत्त्वं तदव-गतावुपशान्तिमेति चेतः । अवगतविगतैकतत्स्वरूपो भवभयमुक्तपदोऽसिसम्यगेव ॥७२॥

एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् । तस्य तस्यप्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥७३॥

सत्तासामान्यकोटिस्थे द्रागित्येवपदे यदि । पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥७४॥

स्थितिं बध्नासितत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् । क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम्॥७५॥

सत्तासामान्यरूपे वा करोषि स्थितिमादरात् । तत्किंचिदधिकेनेह-----Page-----------------५०३--यत्नेनाप्नोषि तत्पदम् ॥७६॥

संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि ।तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥७७॥

वासनासंपरित्यागे यदियत्नं करोषि भोः । यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥७८॥

न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति । यावन्न तत्त्वविज्ञानंतावच्चित्तशमः कुतः ॥७९॥

यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ।यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः । यावन्न तत्त्वसंप्राप्तिर्न तावद्वा-सनाक्षयः ॥८०॥

तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथःकारणतां गत्वा दुःसाधानि स्थितान्यतः ॥८१॥

भोगेच्छां दूरतस्त्यक्त्वात्रयमेतत्समाचर ॥८२॥

वासनाक्षयविज्ञानमनोनाशा महामते । समकालंचिराभ्यस्ता भवन्ति फलदा मताः ॥८३॥

त्रिभिरेभिः समभ्यस्तैर्हृदय-ग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥८४॥

वासनासंपरित्यागसमं प्राणनिरोधनम् । विदुस्तत्त्वविदस्तस्मात्तदप्येवं समा-हरेत् ॥८५॥

वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरो-धाच्च यथेच्छसि तथा कुरु ॥८६॥

प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया ।आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥८७॥

निःसङ्गव्यवहारत्वाद्भव-भावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥८८॥

यः प्राण-पवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः॥८९॥

न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् । शुद्धां संविदमा-श्रित्य वीतरागः स्थिरो भव ॥९०॥

संवेद्यवर्जितमनुत्तममाद्यमेकं संवि-त्पदं विकलनं कलयन्महात्मन् । हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्न-कर्तृपदमेत्य शमोदितश्रीः ॥९१॥

मनागपि विचारेण चेतसः स्वस्य निग्रहः ।पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥९२॥

इत्यन्नपूर्णोपनिषत्सु चतुर्थोऽध्यायः ॥४॥

गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौमृत उच्यते ॥१॥

सम्यग्ज्ञानसमालोकः पुमाञ्ज्ञेयसमः स्वयम् । न बिभेतिन चादत्ते वैवश्यं न च दीनताम् ॥२॥

अपवित्रमपथ्यं च विषसंसर्गदूषि-तम् । भुक्तं जरयति ज्ञानी क्लिन्नं नष्टं च मृष्टवत् ॥३॥

सङ्गत्यागं विदुर्मोक्षंसङ्गत्यागादजन्मता । सङ्ग त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥४॥


Page-----------------५०४--भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा साऽसङ्ग इतिकथ्यते ॥५॥

जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यांशुद्धा भवति वासना ॥६॥

दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः ।आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥७॥

दिक्कालाद्यनवच्छिन्नमदृष्टो-भयकोटिकम् । चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥८॥

इतिमत्वाऽहमित्यन्तर्मुक्तामुक्तवपुः पुमान् । एकरूपः प्रशान्तात्मा मौनी स्वात्म-सुखो भव ॥९॥

नास्ति चित्तं न चाविद्या न मनो न च जिवकः । ब्रह्मैवै-कमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥१०॥

देहे यावदहंभावो दृश्येऽस्मिन्याव-दात्मता । यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥११॥

अन्तर्मुखतयासर्वं चिद्वह्नौ त्रिजगत्तृणम् । जुह्वतोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥१२॥

चिदात्माऽस्मि निरंशोऽस्मि परापरविवर्जितः । रूपं स्मरन्निजं स्फारं मा स्मृत्यासंमितो भव ॥१३॥

अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयतेभावितेनान्तः शरदा मिहिका यथा ॥१४॥

परिज्ञाय परित्यागो वासनानांय उत्तमः । सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥१५॥

यत्रास्तिवासना लीना तत्सुषुप्तं न सिद्धये । निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदंस्मृतम् ॥१६॥

वासनायास्तथा वह्नेरृणव्याधिद्विषामपि । स्नेहवैरविषाणांच शेषः स्वल्पोऽपि बाधते ॥१७॥

निर्दग्धवासनाबीजः सत्तासामान्यरूप-वान् । सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥१८॥

एतावदेवा-विद्यात्वं नेदंब्रह्मेति निश्चयः । एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥१९॥

ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्र-बान्धवाः ॥२०॥

ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् । सर्वत्रावस्थितंशान्तं चिद्ब्रह्मेत्यनुभूयते ॥२१॥

असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते ।या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगम् ॥२२॥

प्रशान्तसर्वसंकल्पं विग-ताखिलकौतुकम् । विगताशेषसंरम्भं चिदात्मानं समाश्रय ॥२३॥

एवंपूर्णधियो धीराः समा नीरागचेतसः । न नन्दन्ति न निन्दन्ति जीवितं मरणंतथा ॥२४॥

प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरेदेहे प्राणोऽसावूर्ध्वगः स्थितः ॥२५॥

अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिःसदागतिः । सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥२६॥

जाग्रतः-----Page-----------------५०५--स्वपतश्चैव प्राणायामोऽयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु॥२७॥

द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः । प्राणाङ्गनामा संस्पर्शो यःस पूरक उच्यते ॥२८॥

अपानश्चन्द्रमा देहमाप्याययति सुव्रत । प्राणःसूर्योऽग्निरथवा पचत्यन्तरिदं वपुः ॥२९॥

प्राणक्षयसमीपस्थमपानोदयको-टिगम् । अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥३०॥

अपानोऽस्तङ्गतोयत्र प्राणो नाभ्युदितः क्षणम् । कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥३१॥

नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्तं तच्चित्तत्त्वमुपा-श्रय ॥३२॥

आभासमात्रमेवेदं न सन्नासज्जगत्त्रयम् । इत्यन्यकलनात्यागंसम्यग्ज्ञानं विदुर्बुधाः ॥३३॥

आभासमात्रकं ब्रह्मंश्चित्तादर्शकलङ्कितम् ।ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥३४॥

भयप्रदमकल्याणं धैर्यसर्व-स्वहारिणम् । मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥३५॥

चिद्व्योमेव किलास्तीह परापरविवर्जितम् । सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽव-शिष्यते ॥३६॥

वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् । तुष्टिस्त्वतुष्टि-पर्यन्ता तस्माद्वाञ्छां परित्यज ॥३७॥

आशा यातु निराशात्वमभावं यातुभावना । अमनस्त्वं मनो यातु तवासङ्गेन जिवतः ॥३८॥

वासनारहितैर-न्तरिन्द्रियैराहरन्क्रियाः । न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥३९॥

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधमनुन्मेषं मनःकुरु ॥४०॥

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ । तमभ्यासप्रयोगा-भ्यामुन्मेषरहितं कुरु ॥४१॥

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः ॥४२॥

असंवित्स्पन्दमात्रेण यातिचित्तमचित्तताम् । प्राणानां वा निरोधेन तदेव परमं पदम् ॥४३॥

दृश्य-दर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्याऽवलोकय॥४४॥

यत्र नाभुदितं चित्तं तद्वै सुखमकृत्रिमम् । क्षयातिशयनिर्मुक्तं नोदेतिन च शाम्यति ॥४५॥

यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि । तदेवतुर्यावस्थायां तुर्यातीतं भवत्यतः ॥४६॥

संन्यस्तसर्वसंकल्पः समः शान्तमनामुनिः । संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥४७॥

सर्वसंकल्प-संशान्तं प्रशान्तघनवासनम् । न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥४८॥

सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना । सांख्य एवावबुद्धा ये ते सांख्यायोगिनः परे ॥४९॥

प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ॥ अना-----Page------------------५०६--मयमनाद्यन्तं ते स्मृता योगयोगिनः ॥५०॥

उपादेयं तु सर्वेषां शान्तंपदमकृत्रिमम् । एकार्थाभ्यसनं प्राणरोधश्चेतःपरिक्षयः ॥५१॥

एकस्मिन्नेवसंसिद्धे संसिध्यन्ति परस्परम् । अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी॥५२॥

आधाराधेयवच्चैते एकभावे विनश्यतः । कुरुतः स्वविनाशेन कार्यंमोक्षाख्यमुत्तमम् ॥५३॥

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।तदाऽहङ्कारविलये त्वमेव परमं पदम् ॥५४॥

महाचिदेकैवेहास्ति महासत्तेतियोच्यते । निष्कलङ्का समा शुद्धा निरहङ्काररूपिणी ॥५५॥

सकृद्विभाताविमला नित्योदयवती समा । सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥५६॥

सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् । न भूतं न भविष्यच्च चिन्तयामिकदाचन ॥५७॥

दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना । इदमद्य मयालब्धमिदं प्राप्स्यामि सुन्दरम् ॥५८॥

न स्तौमि न च निन्दामि आत्मनो-ऽन्यन्नहि क्वचित् । न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥५९॥

प्रशा-न्तचापलं वीतशोकमस्तसमीहितम् । मनो मम मुने शान्तं तेन जीवाम्य-नामयः ॥६०॥

अयं बन्धुः परश्चायं ममायमयमन्यकः । इति ब्रह्मन्नजानामि संस्पर्शं न ददाम्यहम् ॥६१॥

वासनामात्रसंत्यागाज्जरामरणवर्जि-तम् । सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥६२॥

चित्ते त्यक्ते लयंयाति द्वैतमेतच्च सर्वतः । शिष्यते परमं शान्तमेकमच्छमनामयम् ॥६३॥

अनन्तमजमव्यक्तमजरं शान्तमच्युतम् । अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भ-नम् ॥६४॥

एकमाद्यन्तरहितं चिन्मात्रममलं ततम् । खादप्यतितरां सूक्ष्मंतद्ब्रह्मास्मि न संशयः ॥६५॥

दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥६६॥

सर्वमेकमिदं शान्तमादि-मध्यान्तवर्जितम् । भावाभावमजं सर्वमिति मत्वा सुखी भव ॥६७॥

नबद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् । द्वैतभावविमुक्तोऽस्मि सच्चि-दानन्दलक्षणः । एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥६८॥

पदार्थ-वृन्दे देहादिधिया संत्यज्य दूरतः । आशीतलान्तःकरणो नित्यमात्मपरो भव॥६९॥

इदं रम्यमिदं नेति बीजं ते दुःखसंततेः । तस्मिन्साम्याग्निना दग्धेदुःखस्यावसरः कुतः ॥७०॥

शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् ॥७१॥

ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् । अत्यर्थममलं नित्यमादिमध्यान्त-----Page------------------५०७--वर्जितम् ॥७२॥

तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् । न रसं न चगन्धाख्यमप्रमेयमनूपमम् ॥७३॥

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥७४॥

समाधिः संविदुत्पत्तिःपरजीवैकतां प्रति । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥७५॥

एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्मादद्वैत एवास्ति न प्रपञ्चोन संसृतिः ॥७६॥

यथाकाशो घटाकाशो महाकाश इतीरितः । तथाभ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥७७॥

यदा मनसि चैतन्यंभाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥७८॥

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्मसंपद्यते तदा ॥७९॥

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकी-भूतः परेणासौ तदा भवति केवलः ॥८०॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यास-रूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥८१॥

विचारणाद्वितीया स्यात्तृतीया साङ्गभावना । विलापिनी चतुर्थी स्याद्वासना विलया-त्मिका ॥८२॥

शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाभोजीवन्मुक्तोऽत्र तिष्ठति ॥८३॥

असंवेदनरूपा च षष्ठी भवति भूमिका ।आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥८४॥

तुर्यावस्थोपशान्ता सामुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥८५॥

तुर्यातीता तु याऽवस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयोनैव जीवताम् ॥८६॥

पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थीस्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥८७॥

आनन्दैकघनाकारा सुषुप्ताख्यातु पञ्चमी । असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥८८॥

तुर्यातीतपदा-ऽवस्था सप्तमी भूमिकोत्तमा । मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका ॥८९॥

अन्तःप्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् । मुक्त एव न संदेहो महासम-तया तया ॥९०॥

न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः । अहं नकिंचिच्चिदिति मत्वा धीरो न शोचति ॥९१॥

अलेपकोऽहमजरो नीरागःशान्तवासनः । निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥९२॥

अहंमत्या विरहिता शुद्धो बुद्धोऽजरोऽमरः । शान्तः शमसमाभास इतिमत्वा न शोचति ॥९३॥

तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च । यत्ति-ष्ठति तदेवाहमिति मत्वा न शोचति ॥९४॥

भावनां सर्वभावेभ्यः समु-----Page------------------५०८--त्सृज्य समुत्थितः । अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥९५॥

वाचा-मतीतविषयो विषयाशादशोज्झितः । परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि॥९६॥

सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेत-रेण च लिप्यते ॥९७॥

स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ।तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥९८॥

विहरञ्जनतावृन्दे देव-कीर्तनपूजनैः । खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥९९॥

निःस्तोत्रोनिर्विकारश्च पूज्यपूजाविवर्जितः । संयुक्तश्च वियुक्तश्च सर्वाचारनन्यक्रमैः॥१००॥

तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा । ज्ञानसंपत्तिसमयेमुक्तोऽसौ विगताशयः ॥१०१॥

संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज ।मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥१०२॥

सावधानो भव त्वं चग्राह्यग्राहकसंगमे । अजस्रमेव संकल्पदशाः परिहरञ्शनैः ॥१०३॥

माभव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टंतन्मयो भव ॥१०४॥

किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ । नकिंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥१०५॥

अस्मात्पदार्थनिचयाद्या-वत्स्थावरजङ्गमात् । तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥१०६॥

अहंभा-वानहंभावौ त्यक्त्वा सदसती तथा । यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते॥१०७॥

या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्थाव्यवहृतौ सा तुर्या कलनोच्यते ॥१०८॥

नैतज्जाग्रन्न च स्वप्नः संकल्पाना-मसंभवात् । सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः ॥१०९॥

शान्त-सम्यक्प्रबुद्धानां यथास्थितमिदं जगत् । विलीनं तुर्यमित्याहुरबुद्धानां स्थितंस्थिरम् ॥११०॥

अहंकारकलात्यागे समतायाः समुद्गमे । विशरारौ कृतेचित्ते तुर्यावस्थोपतिष्ठते ॥१११॥

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्लवएव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥११२॥

शान्तएव चिदाकाशे स्वच्छे शमसमात्मनि । समग्रशक्तिखचिते ब्रह्मेति कलिता-भिधे ॥११३॥

सर्वमेव परित्यज्य महामौनी भवानघ । निर्वाणवान्निर्मननःक्षीनचित्तः प्रशान्तधीः ॥११४॥

आत्मन्येवास्य शान्तात्मा मूकान्धबधि-रोपमः । नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तःप्रपूर्णधीः ॥११५॥

जाग्र-त्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज । अन्तः सर्वपरित्यागी बहिः कुरु यथा-गतम् ॥११६॥

चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं-----Page-----------------५०९--चिदाकाशे नय क्षयमवेदनात् ॥११७॥

दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाण-वत्सदा । एतावतात्मयत्नेन जिता भवति संसृतिः ॥११८॥

वेदान्ते परमंगुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः॥११९॥

अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् । स जीवन्मुक्ततां प्राप्यब्रह्मैव भवति स्वयम् ॥१२०॥

इत्युपनिषत् ॥इत्यन्नपूर्णोपनिषत्सु पञ्चमोऽध्यायः ॥५॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥ हरिः ॐ तत्सत् ॥इत्यन्नपूर्णोपनिषत्समाप्ता ॥७३॥


सूयोपनिषत् ॥७४॥

[सम्पाद्यताम्]

सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् ।सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥ हरिः ॐ ॥

अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः । ब्रह्मा ऋषिः । गायत्रीछन्दः । आदित्यो देवता । हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखाशक्तिः । वियदादिसर्गसंयुक्तं कीलकम् । चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् । सप्ताश्वरथिनं हिरण्यवर्णं चतु-र्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद सवै ब्राह्मणः ॐ भूर्भुवःसुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य भीमहि ।धियो यो नः प्रचोदयात् । सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानिभूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य । त्वमेवप्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं विष्णुरसि ।त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि । त्वमेव प्रत्यक्षं यजुरसि ।त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि । त्वमेव सर्वं छन्दोऽसि ।आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो जायन्ते । आदि-त्याज्ज्योतिर्जायते । आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते ।आदित्याद्वेदा जायन्ते । आदित्यो वा एष एतन्मण्डलं तपति । असावादित्योब्रह्म । आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः । आदित्यो वै व्यानः समा-----Page------------------५१०--नोदानोऽपानः प्राणः । आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वैवाक्पाणिपादपायूपस्थाः । आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वैवचनादानागमनविसर्गानन्दाः । आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः ।नमो मित्राय भानवे मृत्योर्मा पाहि । भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्भ-वन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽह-मेव च । चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः ।आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नः सूर्यः प्रचोदयात् । सवितापश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नः सुवतुसर्वतातिं सविता नो रासतां दीर्घमायुः । ॐमित्येकाक्षरं ब्रह्म । घृणिरितिद्वे अक्षरे । सूर्य इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि । एतस्यैव सूर्य-स्याष्टाक्षरो मनुः । यः सदाऽहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणोभवति । सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । अलक्ष्मीर्नश्यति ।अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । पतितसंभाषणात्पूतोभवति । असत्संभाषणात्पूतो भवति । मध्याह्ने सूर्याभिमुखः पठेत् । सद्यो-त्पन्नपञ्चमहापातकात्प्रमुच्यते । सैषां सावित्रीं विद्यां न किंचिदपि न कस्मै-चित्प्रशंसयेत् । य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । पशू-न्विन्दति । वेदार्थं लभते । त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । यो हस्ता-दित्ये जपति स महामृत्युं तरति स महामृत्युं तरति य एवं वेद ॥१॥

इत्युपनिषत् ॥ हरिः ॐ ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति सूर्योपनिषत्समाप्ता ॥७४॥

अक्ष्युपनिषत् ॥७५॥

[सम्पाद्यताम्]

यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥

अथ ह सांकृतिर्भगवानादित्यलोकं जगाम । तमादित्यं नत्वाचाक्षुष्मतीविद्यया तमस्तुवत् ॥ ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नमः ।ॐ खेचराय नमः । ॐ महासेनाय नमः । ॐ तमसे नमः । ॐ रजसेनमः । ॐ सत्त्वाय नमः । ॐ असतो मा सत् गमय । तमसो मा ज्योति-र्गमय । मृत्योर्माऽमृतं गमय । हंसो भगवाञ्छुचिरूपः प्रतिरूपः । विश्वरूपं-----Page-----------------५११--घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् । सहस्ररश्मिः शतधा वर्त-मानः पुरुषः प्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते श्रीसूर्यायादित्या-याक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतःश्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्यमधीते नतस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान्ग्राहयि-त्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान्भवति ॥१॥

अथ ह सांकृति-रादित्यं पप्रच्छ भगवन्ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच । सांकृतेशृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवि-ष्यसि ॥२॥

सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् । पश्यन्भूतार्थचिद्रूपंशान्त आस्व यथासुखम् ॥३॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु ॥४॥

विरागमुपयात्यन्तर्वासना-स्वनुवासरम् । क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥५॥

ग्राम्यासु जड-चेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥६॥

अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद्बिभेति सततं न च भोगमपेक्षते॥७॥

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च । देशकालोपपन्नानि वचना-न्यभिभाषते ॥८॥

मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कुतश्चि-दानीय नित्यं शास्त्राण्यवेक्षते ॥९॥

तदासौ प्रथमामेकां प्राप्तो भवतिभूमिकाम् । एवं विचारवान्यः स्यात्संसारोत्तारणं प्रति ॥१०॥

स भूमिका-वानित्युक्तः शेषस्त्वार्य इति स्मृतः । विचारनाम्नीमितरामागतो योगभूमि-काम् ॥११॥

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः । मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥१२॥

पदार्थप्रविभागज्ञः कार्याकार्यविनि-र्णयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥१३॥

मदाभिमानमात्सर्य-लोभमोहातिशायिताम् । बहिरप्यास्थितामीषत्त्यजत्यहिरिव त्वचम् ॥१४॥

इत्थं भूतमतिः शास्त्रगुरुसज्जनसेवया । सरहस्यमशेषेण यथावदधिगच्छति॥१५॥

असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् । ततः पतत्यसौ कान्तःपुष्पशय्यामिवामलाम् ॥१६॥

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्च-लाम् । तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः । शिलाशय्यासनासीनो जरय-त्यायुराततम् ॥१७॥

वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुख-सौख्येन कालं नयति नीतिमान् ॥१८॥

अभ्यासात्साधुशास्त्राणां करणा-----Page------------------५१२--त्पुण्यकर्मणाम् । जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥१९॥

तृतीयांभूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥२०॥

द्विप्रकारमसंसर्गं तस्य भेद-मिमं शृणु । द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥२१॥

नाहं कर्तान भोक्ता च न बाध्यो न च बाधकः । इत्यसञ्जनमर्थेषु सामान्यासङ्गनाम-कम् ॥२२॥

प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा । सुखं वा यदि वादुःखं कैवात्र तव कर्तृता ॥२३॥

भोगाभोगा महारोगाः संपदः परमापदः ।वियोगायैव संयोगा आधयो व्याधयोऽधियाम् ॥२४॥

कालश्च कलनोद्युक्तःसर्वभावाननारतम् । अनास्थयेति भावानां यदभावनमान्तरम् । वाक्यार्थ-लब्धमनसः सामान्योऽसावसङ्गमः ॥२५॥

अनेन क्रमयोगेन संयोगेनमहात्मनाम् । नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥२६॥

कृत्वादूरतरे नूनमिति शब्दार्थभावनम् । यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते॥२७॥

संतोषामोदमधुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोऽन्तर-मृताङ्कुरिकेव सा ॥२८॥

एषा हि परिमृष्टान्तःसंन्यासा प्रसवैकभूः ।द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥२९॥

श्रेष्ठा सर्वगता ह्येषातृतीया भूमिकाऽत्र हि । भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥३०॥

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थींभूमिकां गताः ॥३१॥

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्तिस्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥३२॥

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्नौच्यते ॥३३॥

चित्तं तु शरदभ्रांशविलयं प्रविलीयते । सत्त्वावशेष एवास्तेपञ्चमीं भूमिकां गतः ॥३४॥

जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ।पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमा-त्रकः ॥३५॥

गलितद्वैतनिर्भासो मुदितोऽन्तःप्रबोधवान् । सुषुप्तमन एवास्तेपञ्चमीं भूमिकां गतः ॥३६॥

अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन् । परि-श्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥३७॥

कुर्वन्नभ्यासमेतस्यां भूमिकायांविवासनः । षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥३८॥

यत्र नासन्न-सद्रूपो नाहं नाप्यनहंकृतिः । केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥३९॥

निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः । अनिर्वाणोऽपि निर्वाण-श्चित्रदीप इव स्थितः ॥४०॥

षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमि-----Page------------------५१३--माप्नुयात् ॥४१॥

विदेहमुक्तताऽन्नोक्ता सप्तमी योगभूमिका । अगम्यावचसां शान्ता सा सीमा सर्वभूमिषु ॥४२॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वादेहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥४३॥

ॐकार-मात्रमखिलं विश्वप्राज्ञादिलक्षणम् । वाच्यवाचकताभेदाभेदेनानुपलब्धितः॥४४॥

अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः । प्राज्ञो मकार इत्येवंपरिपश्येत्क्रमेण तु ॥४५॥

समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः ।स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥४६॥

चिदात्मानं नित्यशुद्ध-बुद्धमुक्तसदद्वयः । परमानन्दसंदेहो वासुदेवोऽहमोमिति ॥४७॥

आदिम-ध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ॥४८॥

अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । आनन्दममलं शुद्धंमनोवाचामगोचरम् ॥४९॥

प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत्॥५०॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इत्यक्ष्युपनिषत्समाप्ता ॥७५॥


अध्यात्मोपनिषत् ॥७६॥

[सम्पाद्यताम्]

यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते ।निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॥

ॐ पूर्णमद इति शान्तिः ॥ हरिः ॐ ॥

अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरंयः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद । यस्यापः शरीरं यो अपोऽन्तरेसंचरन्यमापो न विदुः । यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो नवेद । यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद । यस्याकाशःशरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद । यस्य मनः शरीरं यो मनो-ऽन्तरे संचरन्यं मनो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यंबुद्धिर्न वेद । यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद ।यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद । यस्याव्यक्तं शरीरंयोऽव्यक्तमन्तरे संचरन्यसव्यक्तं न वेद । यस्याक्षरं शरीरं योऽक्षरमन्तरेसंचरन्यमक्षरं न वेद । यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्नवेद । स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । अहं-ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्म-निष्ठया ॥१॥


Page-----------------५१४--

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येवतद्वृत्त्या स्वान्यत्रात्ममतिं त्यजेत् ॥२॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहा-नुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥३॥

स्वात्मन्येवसदा स्थित्या मनो नश्यति योगिनः । युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वासार्वात्म्यमात्मनः ॥४॥

निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः ।क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥५॥

मातापित्रोर्मलोद्भूतं मल-मांसमयं वपुः । त्यक्त्वा चण्डालवद्दरं ब्रह्मभूय कृती भव ॥६॥

घटाकाशंमहाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने॥७॥

स्वप्रकाशमधिष्ठानं स्वयं भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डंत्यज्यतां मलभाण्डवत् ॥८॥

चिदात्मनि सदानन्दे देहरूढामहंधियम् ।निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥९॥

यत्रैष जगदाभासो दर्पणा-न्तःपुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥१०॥

अहंकार-ग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥११॥

क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः साजीवन्मुक्तिरिष्यते ॥१२॥

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । सद्भाव-भावनादार्ढ्याद्वासनालयमश्नुते ॥१३॥

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यःकदाचन । प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥१४॥

यथाऽपकृष्टंशैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम्॥१५॥

जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः । समाधिनिष्ठतामेत्यनिर्विकल्पो भवानघ ॥१६॥

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा । समा-धिना विकल्पेन यदाऽद्वैतात्मदर्शनम् ॥१७॥

अत्रात्मत्वं दृढीकुर्वन्नहमादिषुसंत्यजन् । उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥१८॥

ब्रह्मादिस्तम्बपर्यन्तंमृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥१९॥

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मा-दन्यन्न किंचन ॥२०॥

स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेवपरंब्रह्म पूर्णमद्वयमक्रियम् ॥२१॥

असत्कल्पो विकल्पोऽयं विश्वमित्येक-वस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥२२॥

द्रष्टृदर्शनदृश्या-----Page------------------५१५--दिभावशून्ये निरामये । कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥२३॥

तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । आद्वितीये परे तत्त्वे निर्विशेषेभिदा कुतः ॥२४॥

एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् । सुषुप्तौसुखमात्रायां भेदः केनावलोकितः ॥२५॥

चित्तमूलो विकल्पोऽयं चित्ता-भावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रपे परात्मनि ॥२६॥

अखण्डानन्द-मात्मानं विज्ञाय स्वस्वरूपतः । बहिरन्तःसदानन्दरसास्वादनमात्मनि॥२७॥

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छा-न्तिरेषैवोपरतेः फलम् ॥२८॥

यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् ।निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥२९॥

मायोपाधिर्जगद्योनिःसर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥३०॥

आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधःसत्वंपदाभिधः ॥३१॥

मायाविद्ये विहायैव उपाधी परजीवयोः । अखण्डंसच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥३२॥

इत्थं वाक्यैस्तथाऽर्थानुसंधानं श्रवणंभवेत् । युक्त्या संभावितत्त्वानुसंधानं मननं तु तत् ॥३३॥

ताभ्यां निर्वि-चिकित्स्येऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते॥३४॥

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् । निवातदीपवच्चित्तंसमाधिरभिधीयते ॥३५॥

वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः ।स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥३६॥

अनादाविह संसारेसंचिताः कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥३७॥

धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यथा धर्मामृतधाराःसहस्रशः ॥३८॥

अमुना वासनाजाले निःशेषं प्रविलायिते । समूलोन्मूलितेपुण्यपापाख्ये कर्मसंचये ॥३९॥

वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।करामलकवद्बोधमपरोक्षं प्रसूयते ॥४०॥

वासनानुदयो भोग्ये वैराग्यस्यतदावधिः । अहंभावोदयाभावो बोधस्य परमावधिः ॥४१॥

लीनवृत्तेरनु-त्पत्तिर्मर्याद्धोपरतेस्तु सा । स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥४२॥

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः । ब्रह्मात्मनोः शोधितयोरेक-भावावगाहिनि ॥४३॥

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४॥

देहेन्द्रियेष्वहंभाव-----Page-----------------५१६--इदंभावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४५॥

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीव-न्मुक्त इष्यते ॥४६॥

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४७॥

विज्ञातब्रह्मतत्त्वस्ययथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४८॥

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियोनहि कुत्रचित् ॥४९॥

अहंब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् ।संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥५०॥

स्वमसङ्गमुदासीनं परि-ज्ञाय नभो यथा । न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥५१॥

न नभो घटयोगेन सुरागन्धेन लिप्यते । तथाऽऽत्मोपाधियोगेन तद्धर्मो नैवलिप्यते ॥५२॥

ज्ञानोदयात्पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वास्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥५३॥

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणःपश्चात्तु गोमतौ । न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥५४॥

अ-जरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते । तदात्मना तिष्ठतोऽस्य कुतःप्रारब्धकल्पना ॥५५॥

प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥५६॥

प्रारब्धकल्पनाप्यस्यदेहस्य भ्रान्तिरेव हि ॥५७॥

अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ।अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥५८॥

ज्ञानेनाज्ञानकार्यस्यसमूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् । समाधातुंबाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥५९॥

न तु देहादिसत्यत्वबोधनायविपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ॥६०॥

सद्घनं चिद्घनंनित्यमानन्दघनमव्ययम् । प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ॥६१॥

अहेयमनुपादेयमनाधेयमनाश्रयम् । निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पंनिरञ्जनम् ॥६२॥

अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धंस्वतःसिद्धं शुद्धं बद्धमनोदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन॥६३॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । ससिद्धः ससुखंतिष्ठ निर्विकल्पात्मनात्मनि ॥६४॥

क्व गतं केन वा नीतं कुत्र लीनमिदंजगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥६५॥

किं हेयं किमुपा-----Page------------------५१७--देयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे ॥६६॥

नकिंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् । स्वात्मनैव सदानन्दरूपेणास्मिस्वलक्षणः ॥६७॥

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमहं हरिः । प्रशान्तोऽह-मनन्तोऽहं परिपूर्णश्चिरन्तनः ॥६८॥

अकर्ताऽहमभोक्ताऽहमविकारोऽहम-व्ययः । शुद्धो बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥६९॥

एतां विद्याम-पान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ ।घोराङ्गिरा रैक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो भूतेभ्यो ददा-वित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥ हरिः ॐतत्सत् ॥७०॥

ॐ पूर्णमद इति शान्तिः इत्यध्यात्मोपनिषत्समाप्ता ॥७६॥

कुण्डिकोपनिषत् ॥७७॥

[सम्पाद्यताम्]

कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः ।यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ ॥

ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञातौच्यते गुरुणाश्रमी ॥१॥

दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिंयजेत्तासामहोरात्रेण निर्वपेत् ॥२॥

संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्यच । संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥३॥

वायुभक्षोऽम्बुभक्षो वाविहितैः कन्दमूलकैः । स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥४॥

सह तेनैव पुरुषः कथं संन्यस्त उच्यते । सनामधेयो यस्मिंस्तु कथं संन्यस्तौच्यते ॥५॥

तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् । अग्निवर्णंविनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥६॥

लोकवद्भार्ययाऽऽसक्तो वनं गच्छतिसंयतः । संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥७॥

किंवा दुःखमनु-स्मृत्य भोगांस्त्यजति चोच्छ्रितान् । गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च॥८॥

गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति । संन्यस्याग्रिमपुनरावर्तनंयन्मृत्युर्जाय मावहमिति । अथाध्यात्ममन्त्राञ्जपेत् । दीक्षामुपेयात्काषाय-----Page------------------५१८--बासाः । कक्षोपस्थलोमानि वर्जयेत् । ऊर्ध्वबाहुर्विमुक्तमार्गो भवति । अनि-केतश्चरेद्भिक्षाशी । निदिध्यासनं दध्यात् । पवित्रं धारयेज्जन्तुसंरक्षणार्थम् ।तदपि श्लोका भवन्ति । कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ । शीतो-पघातिनीं कन्थां कौपीनाच्छादनं तथा ॥९॥

पवित्रं स्नानशाटीं च उत्तरा-सङ्गमेव च । अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥१०॥

नदीपुलिन-शायी स्याद्देवागारेषु बाह्यतः । नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत्॥११॥

स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो न तुष्येतनिन्दितो न शपेत्परान् ॥१२॥

भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् ।एवंवृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥१३॥

विश्वाय मनुसंयोगं मनसाभावयेत्सुधीः । आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भ्यः पृथिवी । एषांभूतानां ब्रह्म प्रपद्ये । अजरममरमक्षरमव्ययं प्रपद्ये । मय्यखण्डसुखाम्भोधौबहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥१४॥

न मे देहेन संबन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्न-सुषुप्तिषु ॥१५॥

आकाशवत्कल्पविदूरगोऽहमादित्यवद्भास्यविलक्षणोऽहम् ।अहार्यबन्नित्यविनिश्चलोऽहमम्भोधिवत्पारविवर्जितोऽहम् ॥१६॥

नारायणो-ऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेष-साक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥१७॥

तदभ्यासेन प्राणापानौ संयम्यतत्र श्लोका भवन्ति ॥ वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदश्यशनकैर्जिह्वां यवमात्रे विनिर्गताम् ॥१८॥

माषमात्रां तथा दृष्टिं श्रोत्रेस्थाप्य तथा भुवि । श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥१९॥

अथ शैवपदं यत्र तद्ब्र्ह्म ब्रह्म तत्परम् । तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्म-नाम् ॥२०॥

संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते । ऊर्ध्वं प्रपद्यते देहा-द्भित्त्वा मूर्धानमव्ययम् ॥२१॥

स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् ।भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥२२॥

न साक्षिणं साक्ष्यधर्माःसंस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥२३॥

जलेवापि स्थले वापि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा॥२४॥

निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पो-----Page------------------५१९--ऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥२५॥

सर्वात्मकोऽहं सर्वो-ऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥२६॥

स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानो निर्विकल्पोभवाम्यहम् ॥२७॥

गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा । यथेच्छयावसेद्विद्बानात्मारामः सदा मुनिः ॥२८॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ आप्यायन्त्विति शान्तिः ॥इति कुण्डिकोपनिषत्समाप्ता ॥७७॥


सावित्र्युपनिषत् ॥७८॥

[सम्पाद्यताम्]

सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् ।प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥१॥

सावित्र्यात्मा पाशुपत परंब्रह्मावधूतकम् ।त्रिपुरातपनं देवी त्रिपुरा कठभावना ॥२॥

ॐ आप्यायन्त्विति शान्तिः ॥ हरिः ॐ ॥

कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री सयत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥१॥

कः सविता का सावित्री वरुण एव सविताऽऽपः सावित्री स यत्र वरुणस्तदापिओ!यत्र वा आपस्तद्वरुणस्ते द्वे योनी तदेकं मिथुनम् ॥२॥

कः सविता कासावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वाआकाशस्तद्वायुस्ते द्वे योनी तदेकं मिथुनम् ॥३॥

कः सविता का सावित्रीयज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तत्र छन्दांसि यत्र वाछन्दांसि स यज्ञस्ते द्वे योनी तदेकं मिथुनम् ॥४॥

कः सविता का सावित्रीस्तनयित्नुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्नुस्तद्विद्युत् यत्र वा विद्युत्तत्रस्तनयित्नुस्ते द्वे योनी तदेकं मिथुनम् ॥५॥

कः सविता का सावित्री आदित्यएव सविता द्यौः सावित्री स यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वेयोनी तदेकं मिथुनम् ॥६॥

कः सविता का सावित्री चन्द्र एव सवितानक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणि स चन्द्रमास्तेद्वे योनी तदेकं मिथुनम् ॥७॥

कः सविता का सावित्री मन एव सवितावाक् सावित्री स यत्र मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनी तदेकंमिथुनम् ॥८॥


Page-----------------५२०--

कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्रीस यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनी तदेकं मिथुनम् ॥९॥

तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै वरेण्यमापो वरेण्यंचन्द्रमा वरेण्यम् । तस्या एव द्वितीयः पादो भर्गमयोऽपो भुवो भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग आदित्यो वै भर्गश्चन्द्रमा वै भर्गः । तस्या एषतृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति । स्त्री चैव पुरुषश्चप्रजनयतो यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयतिवलातिबलयोर्विराट् पुरुष ऋषिः । गायत्री छन्दः । गायत्री देवता । अका-रोकारमकारा बीजाद्याः । क्षुधादिनिरसने विनियोगः । क्लीमित्यादिषडङ्ग-न्यासः । ध्यानम् । अमृतकरतलाद्रौं सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेद-सारे मयूखे । प्रणवमयविकारौ भास्कराकारदेहौ स्ततमनुभवेऽहं तौ बला-तिबलान्तौ ॥ ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धि-प्रदे तत्सवितुर्वरदात्मिके ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्व-दयामूर्ते बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यःयो प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा । एवं विद्वान् कृत-कृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् ॥९॥

हरिः ॐ तत्सत् ॥ॐ आप्यायन्त्विति शान्तिः ॥इति सावित्र्युपनिषत्समाप्ता ॥ ७८॥


आत्मोपनिषत् ॥७९॥

[सम्पाद्यताम्]

यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः ।प्रतियोगिविनिर्मुक्तः परमात्माऽवशिष्यते ॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥


Page-----------------५२१--

अथाङ्गिरास्त्रिविधः पुरुषस्तद्यथा-बाह्यात्माऽन्तरात्मा परमात्माचेति । त्वक्चर्ममांसरोमाङ्गुष्ठाङ्गुल्यः पृष्ठवंशनखगुल्फोदरनाभिमेढ्रकट्यूरुकपोल-श्रोत्र भ्रूललाटबाहुपार्श्वशिरोधमनिकाऽक्षीणि भवन्ति जायते म्रियत इत्येष बाह्यात्मा । अथान्तरात्मा नाम पृथिव्यापस्तेजोवायुराकाशेच्छाद्वेषसुख-दुःखकाममोहविकल्पनादिभिः स्मृतिलिङ्ग उदात्तानुदात्तहस्वदीर्घप्लुतस्खलि-तगर्जितस्फुटितमुदितनृत्तगीतवादिन्रप्रलयविजृम्भितादिभिः श्रोता घ्रातारसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः पुराणन्यायमीमांसाधर्म-शास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा नाम ।अथ परमात्मा नाम यथाक्षर उपासनीयः । स च प्राणायामप्रत्याहार-धारणाध्यानसमाधियोगानुमानाध्यात्मचिन्तकं वटकणिका वा श्यामा-कतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते नोपलभ्यतेन जायते न म्रियते न शुष्यति न क्लिद्यते न दह्यति न कम्पते न भिद्यते नच्छिद्यते निर्गुणः साक्षीभूतः । शुद्धो निरवयवात्मा केवलः सूक्ष्मो निष्कलोनिरञ्जनो निर्विकारः शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षःसर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि । निष्क्रियस्तस्य संसारोनास्ति । आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा । ब्रह्मरूपतया ब्रह्मकेवलं प्रतिभासते ॥१॥

जगद्रूपतयाप्येतद्ब्रह्मैव प्रतिभासते । विद्याऽविद्या-दिभेदेन भावाऽभावादिभेदतः ॥२॥

गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते ।ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ॥३॥

न च विद्या न चाविद्या नजगच्च न चापरम् । सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ॥४॥

असत्यत्वेनभानं तु संसारस्य निवर्तकम् । घटोऽयमिति विज्ञातुं नियमः को न्वपेक्षते॥५॥

विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः । अयमात्मा नित्यसिद्धःप्रमाणे सति भासते ॥६॥

न देशं नापि कालं वा न शुद्धिं वाप्यपेक्षते ।देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ॥७॥

तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमितिवेदनम् । भानुनेव जगत्सर्वं भास्यते यस्य तेजसा ॥८॥

अनात्मकमसत्तुच्छंकिं नु तस्यावभासकम् । वेदशास्त्रपुराणानि भूतानि सकलान्यपि ॥९॥

येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् । क्षुधां देहव्यथां त्यक्त्वा बालःक्रीडति वस्तुनि ॥१०॥

तथैव विद्वान्रमते निर्ममो निरहं सुखी । कामान्नि-ष्कामरूपी संचरत्येकचरो मुनिः ॥११॥

स्वात्मनैव सदा तुष्टः स्वयं सर्वा-त्मना स्थितः । निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ॥१२॥

नित्य-तृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः । कुर्वन्नपि न कुर्वाणश्चाभोक्ता फल-----Page------------------५२२--भोग्यपि ॥१३॥

शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः । अशरीरं सदा सन्तमिदंब्रह्मविदं क्वचित् ॥१४॥

प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे । तमसाग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥१५॥

ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वावस्तुलक्षणम् । तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ॥१६॥

पश्यन्तिदेहिवन्मूढाः शरीराभासदर्शनात् । अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति॥१७॥

इतस्ततश्चाल्यमानो यत्किंचित्प्राणवायुना । स्नोतसा नीयते दारुयथा निम्नोन्नतस्थलम् ॥१८॥

दैवेन नीयते देहो तथा कालोपभुक्तिषु ।लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ॥१९॥

शिव एव स्वयंसाक्षादयं ब्रह्मविदुत्तमः । जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ॥२०॥

उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् । शैलूषो वेषसद्भावाभावयोश्च यथापुमान् ॥२१॥

तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः । घटे नष्टे यथाव्योम व्योमैव भवति स्वयम् ॥२२॥

तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ।क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ॥२३॥

संयुक्तमेकतां याति तथा-ऽऽत्मन्यात्मविन्मुनिः । एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ॥२४॥

ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः । सदात्मकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः॥२५॥

अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः । मायाकॢप्तौ बन्धमोक्षौ नस्तः स्वात्मनि वस्तुतः ॥२६॥

यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ।अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ॥२७॥

नावृतिर्ब्रह्मणः काचिदन्या-भावादनावृतम् । अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥२८॥

बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । अतस्तौ मायया कॢप्तौ बन्धमोक्षौन चात्मनि ॥२९॥

निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीयेपरे तत्त्वे व्योमवत्कल्पना कुतः ॥३०॥

न निरोधो न चोत्पत्तिर्न बद्धो नच साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥३१॥

इत्युपनिषत् ॥हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्यात्मोपनिषत्समाप्ता ॥७९॥


Page-----------------५२३--

पाशुपतब्रह्मोपनिषत् ॥८०॥

[सम्पाद्यताम्]

पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् ।परमानन्दसंपूर्णं रामचन्द्रपदं भजे ॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

अथ ह वै स्वयंभूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायतेकामेश्वरो वैश्रवणः । वैश्रवणो ब्रह्मपुत्रो वालखिंल्यः स्वयंभुवं परिपृच्छतिजगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि तस्य वशानिकालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते कस्य महिमागगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् ।स्वयंभूरुवाच-कृत्स्नजगतां मातृका विद्या द्वित्रिवर्णसहिता द्विवर्णमातात्रिवर्णसहिता । चतुर्मात्रात्मकोङ्कारो मम प्राणात्मिका देवता । अहमेवजगत्त्रयस्यैकः पतिः । मम वशानि सर्वाणि युगान्यपि । अहोरात्रादयोमत्संवर्धिताः कालाः । मम रूपा रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि च । गगनोमम त्रिशक्तिमायास्वरूपो नान्यो मदस्ति । तमोमायात्मको रुद्रः सात्विक-मायात्मको विष्णू राजसमायात्मको ब्रह्मा । इन्द्रादयस्तामसराजसात्मिका नसात्त्विकः कोऽपि । अघोरः सर्वसाधारणस्वरूपः । समस्तयागानां रुद्रः पशुपतिःकर्ता । रुद्रो यागदेवो विष्णुरध्वर्युर्होतेन्द्रो देवता यज्ञभुग् मानसं ब्रह्म माहे-श्वरं ब्रह्म मानसं हंसः सोऽहं हंस इति । तन्मययज्ञो नादानुसंधानम् ।तन्मयविकारो जीवः । परमात्मस्वरूपो हंसः । अन्तर्बहिश्चरति हंसः । अन्त-र्गतोऽनवकाशान्तर्गतसुपर्णस्वरूपो हंसः । षण्णवतितत्त्वतन्तुवद्व्यक्तं चित्सूत्र-त्रयचिन्मयलक्षणं नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतंचिद्ग्रन्थिबन्धनम् । अद्वैतग्रन्थिः यज्ञसाधारणाङ्गं बहिरन्तर्ज्वलनं यज्ञाङ्ग-लक्षणब्रह्मस्वरूपो हंसः । उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः । ब्रह्माङ्गलक्षणयुक्तोयज्ञसूत्रम् । तद्ब्रह्मसूत्रम् । यज्ञसूत्रसंबन्धी ब्रह्मयज्ञः । तत्स्वरूपोऽङ्गानिमात्राणि । मनो यज्ञस्य हंसो यज्ञसूत्रम् । प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् ।प्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् । तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् । ब्रह्मसंध्या-क्रिया मनोयागः । संध्याक्रिया मनोयागस्य लक्षणम् । यज्ञसूत्रप्रणवब्रह्मयज्ञ-----Page------------------५२४--क्रियायुक्तो ब्राह्मणः । ब्रह्मचर्येण चरन्ति देवाः । हंससूत्रचर्या यज्ञाः । हंस-प्रणवयोरभेदः । हंसस्य प्रार्थनास्त्रिकालाः । त्रिकालास्त्रिवर्णाः । त्रेताग्न्यनु-संधानो यागः । त्रेताग्न्यात्माकृतिवर्णोङ्कारहंसानुसंधानोऽन्तर्यागः । चित्स्व-रूपवत्तन्मयं तुरीयस्वरूपम् । अन्तरादित्ये ज्योतिःस्वरूपो हंसः । यज्ञाङ्गं ब्रह्म-संपत्तिः । ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति । प्रोवाच पुनःस्वयंभुवं प्रतिजानीते ब्रह्मपुत्रो ऋषिर्वालखिल्यः । हंससूत्राणि कतिसंख्यानिकियद्वा प्रमाणम् । हृद्यादित्यमरीचीनां पदं षण्णवतिः । चित्सूत्रघ्राणयोःस्वर्निर्गता प्रणवधारा षडङ्गुलदशाशीतिः । वामबाहुर्दक्षिणकट्योरन्तश्चरतिहंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः । जानन्ति तेऽमृतफलकाः ।सर्वकालं हंसं प्रकाशकम् । प्रणवहंसान्तर्ध्यानप्रकृतिं विना न मुक्तिः । नव-सूत्रान्परिचर्चितान् । तेऽपि यद्ब्रह्म चरन्ति । अन्तरादित्येन ज्ञातं मनुष्या-णाम् । जगदादित्यो रोचत इति ज्ञात्वा ते मर्त्या विबुधास्तपनप्रार्थनायुक्ताआचरन्ति । वाजपेयः पशुहर्ता अध्वर्युरिन्द्रो देवता अहिंसा धर्मयागः परम-हंसोऽध्वर्युः परमात्मा देवता पशुपतिर्ब्रह्मोपनिषदो ब्रह्म । स्वाध्याययुक्ताब्राह्मणाश्चरन्ति । अश्वमेधो महायज्ञकथा । तद्राज्ञा ब्रह्मचर्यमाचरन्ति ।सर्वेषां पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रममिति । ब्रह्मपुत्रः प्रोवाच । उदितो हंसऋषिः । स्वयंभूस्तिरोदधे । रुद्रो ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणव-स्तारकः स एवं वेद । हंसात्ममालिकावर्णब्रह्मकालप्रचोदिता । परमात्मापुमानिति ब्रह्मसंपत्तिकारिणी ॥१॥

अध्यात्मब्रह्मकल्पस्याकृतिः कीदृशीकथा । ब्रह्मज्ञानप्रभासन्ध्याकालो गच्छति धीमताम् । हंसाख्यो देवमात्मा-ख्यमात्मतत्त्वप्रजः कथम् ॥२॥

अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः ।अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् ॥३॥

शिवशक्त्यात्मकं रूपं चिन्म-यानन्दवेदितम् । नादबिन्दुकला त्रीणि नेत्रं विश्वविचेष्टितम् ॥४॥

त्रियङ्गानिशिखा त्रीणि द्वित्राणां सांख्यमाकृतिः । अन्तर्गूढप्रमा हंसः प्रमाणान्निर्गतं बहिः॥५॥

ब्रह्मसूत्रपदं ज्ञेयं ब्राह्मं विध्युक्तलक्षणम् । हंसार्कप्रणवध्यानमित्युक्तोज्ञानसागरे ॥६॥

एतद्विज्ञानमात्रेण ज्ञानसागरपारगः । स्वतः शिवः पशु-पतिः साक्षी सर्वस्य सर्वदा ॥७॥

सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु ।-----Page-----------------५२५--विषये गच्छति प्राणश्चेष्टते वाग्वदस्यपि ॥८॥

चक्षुः पश्यति रूपाणि श्रोत्रंसर्वं शृणोत्यपि । अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ॥९॥

स्वं स्वंविषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः॥१०॥

श्रोत्रमात्मनि चाध्यस्तं स्वयं पशुपतिः पुमान् । अनुप्रविश्य श्रोत्रस्यददाति श्रोत्रतां शिवः ॥११॥

मनः स्वात्मनि चाध्यस्तं प्रविश्य परमेश्वरः ।मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥१२॥

स एव विदितादन्यस्तथै-वाविदितादपि । अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ॥१३॥

तत्तद्रूप-मनु प्राप्य ददाति नियमेन तु । ततश्चक्षुश्च वाक्चैव मनश्चान्यानि खानि च॥१४॥

न गच्छन्ति स्वयंज्योतिःस्वभावे परमात्मनि । अकर्तृविषयप्रत्यक्प्र-काशं स्वात्मनैव तु ॥१५॥

विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ।प्रत्यगात्मा परंज्योतिर्माया सा तु महत्तमः ॥१६॥

तथा सति कथं माया-संभवः प्रत्यगात्मनि । तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने ॥१७॥

स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि । व्यवहारिकदृष्ट्येयं विद्याऽविद्या नचान्यथा ॥१८॥

तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् । व्यावहारिक-दृष्टिस्तु प्रकाशाव्यभिचारतः ॥१९॥

प्रकाश एव सततं तस्मादद्वैत एवहि । अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ॥२०॥

प्रकाश एव सततंतस्मान्मौनं हि युज्यते । अयमर्थो महान्यस्य स्वयमेव प्रकाशितः ॥२१॥

न स जीवो न च ब्रह्म न चान्यदपि किंचन । न तस्य वर्णा विद्यन्ते नाश्र-माश्च तथैव च ॥२२॥

न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च । यदाब्रह्मात्मकं सर्वं विभाति तत एव तु ॥२३॥

तदा दुःखादिभेदोऽयमाभा-सोऽपि न भासते । जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ॥२४॥

नतत्पश्यति चिद्रूपं ब्रह्मवस्त्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हिभिद्यते ॥२५॥

भेदाभेदस्तथा भेदाभेदः साक्षात्परात्मनः । नास्ति स्वात्मा-तिरेकेण स्वयमेवास्ति सर्वदा ॥२६॥

ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तु-तोऽपि च । तथैव ब्रह्मविज्ज्ञानी किं गृह्णाति जहाति किम् ॥२७॥

अधिष्ठान-मनौपम्यमवाङ्मनसगोचरम् । यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् ॥२८॥

अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तद-व्ययम् ॥२९॥

ब्रह्मैवेदममृतं तत्पुरस्ताद्ब्रह्मानन्दं परमं चैव पश्चात् । ब्रह्मा-----Page------------------५२६--नन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरे च ॥३०॥

स्वात्मन्येव स्वयंसर्वं सदा पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता ॥३१॥

एवंरूपा परा विद्या सत्येन तपसापि च । ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदान्त-वर्त्मना ॥३२॥

स्वशरीरे स्वयंज्योतिःस्वरूपं पारमार्थिकम् । क्षीणदोषाःप्रपश्यन्ति नेतरे माययावृताः ॥३३॥

एवं स्वरूपविज्ञानं यस्य कस्यास्तियोगिनः । कुत्रचिद्गमनं नास्ति तस्य संपूर्णरूपिणः ॥३४॥

आकाशमेकंसंपूर्णं कुत्रचिन्न हि गच्छति । तद्वद्ब्रह्मात्मविच्छ्रेष्ठः कुत्रचिन्नैव गच्छति ॥३५॥

अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् । आहारशुद्धौ चित्तस्य विशुद्धि-र्भवति स्वतः ॥३६॥

चित्तशुद्धौ क्रमाज्ज्ञानं त्रुट्यन्ति ग्रन्थयः स्फुटम् ।अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः ॥३७॥

न सम्यग्ज्ञानिनस्तद्वत्स्वरूपंसकलं खलु । अहमन्नं सदान्नाद इति हि ब्रह्मवेदनम् ॥३८॥

ब्रह्मविद्ग्रसतिज्ञानात्सर्वं ब्रह्मात्मनैव तु । ब्रह्मक्षत्रादिकं सर्वं यस्य स्यादोदनं सदा ॥३९॥

यस्योपसेचनं मृत्युस्तं ज्ञानी तादृशः खलु । ब्रह्मस्वरूपविज्ञानाज्जगद्भोज्यंभवेत्खलु ॥४०॥

जगदात्मतया भाति यदा भोज्यं भवेत्तदा । ब्रह्मस्वात्म-तया नित्यं भक्षितं सकलं तदा ॥४१॥

यदाभासेन रूपेण जगद्भोज्यंभवेत तत् । मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् ॥४२॥

स्वस्व-रूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः । अस्ति चेदस्तितारूपं ब्रह्मैवास्ति-त्वलक्षणम् ॥४३॥

अस्तितालक्षणा सत्तासत्ता ब्रह्म न चापरा । नास्तिसत्तातिरेकेण नास्ति माया च वस्तुतः ॥४४॥

योगिनामात्मनिष्ठानां मायास्वात्मनि कल्पिता । साक्षिरूपतया भाति ब्रह्मज्ञानेन बाधिता ॥४५॥

ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् । पश्यन्नपि सदा नैव पश्यतिस्वात्मनः पृथक् ॥४६॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति पाशुपतब्रह्मोपनिषत्समाप्ता ॥८०॥