सामग्री पर जाएँ

ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-५१-६०

विकिस्रोतः तः

दक्षिणामूर्त्युपनिषत् ॥५१॥

[सम्पाद्यताम्]

यन्मौनव्याख्यया मौनिपटलं क्षण्मात्रतः ।महामौनपदं याति स हि मे परमा गतिः ॥ॐ स ह नाववत्विति शान्तिः ॥ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनका-दयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुःकेन त्वं चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिवतत्त्व-ज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् । तत्र को देवः ।के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तज्ज्ञानसाधनम् । कः-----Page-----------------३५३--परिकरः को बलिः । कः कालः । किं तत्स्थानमिति । स होवाच । येनदक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यःसर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वास देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौनम उच्चार्य ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्॥१॥

अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् । समुच्चार्य ततो वायु-बीजं च्छं च ततः पठेत् । अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥२॥

ध्यानम् ॥ स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रांकराग्रे । दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे॥३॥

मन्त्रेण न्यासः । आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । पञ्चार्णंतत उद्धृत्य अन्तरं सविसर्गकम् । अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥४॥

मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजग-बिलसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रि-नेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥५॥

मन्त्रेणन्यासः ब्रह्मर्षिन्यासः --तारं ब्रूं नम उच्चार्य मायां वाग्भवमेव च । दक्षिणापद-मुच्चार्य ततः स्यान्मूर्तये पदम् ॥६॥

ज्ञानं देहि पदं पश्चाद्वह्निजायां ततोन्यसेत् । मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥७॥

भस्मव्यापाण्डुराङ्गःशशिशकलधरो ज्ञानमुद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभि-रामः । व्याख्यापीटे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालःकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥८॥

मन्त्रेण न्यासः ।ब्रह्मर्षिन्यासः । तारं परं रमाबीजं वदेत्साम्बशिवाय च । तुभ्यं चानल-जायां च मनुर्द्वादशवर्णकः ॥९॥

वीणां करैः पुस्तकमक्षमालां बिभ्राणम-भ्राभगलं वराढ्यम् । फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनी-डमीडे ॥१०॥

विष्णुऋषिः । अनुष्टुप्छन्दः । देवता दक्षिणास्यः । मन्त्रेणन्यासः । तारं नमो भगवते तुभ्यं वटपदं ततः । मूलेति पदमुच्चार्य वासिनेपदमुद्धरेत् ॥११॥

प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् । दायिनेपदमुच्चार्य मायिने नम उद्धरेत् ॥१२॥

वागीशाय ततः पश्चान्महा-----Page------------------३५४--ज्ञानपदं ततः । वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः । आनुष्टुभोमन्त्रराजः सर्वमन्त्रोत्तमोत्तमः ॥१३॥

ध्यानम् । मुद्रापुस्तकवह्नि-नागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्व-लम् । अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनंपरगुरुं ध्यायाम्यभीष्टाप्तये ॥१४॥

मौनमुद्रा । सोऽहमिति यावदास्थितिःसनिष्ठा भवति । तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानतापरिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदंस्थानमिति । ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः ।किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच । वैराग्यतैलसंपूर्णेभक्तिवर्तिसमन्विते । प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥१५॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि । वैराग्यमरणिं कृत्वा ज्ञानंकृत्वा तु चित्रगुम् ॥१६॥

गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् । मोह-भानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥१७॥

तत्त्वाविचारपाशेन बद्धंद्वैतभयातुरम् । उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥१८॥

शेमुषीदक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौब्रह्मवादिभिः ॥१९॥

सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्य-माप्य । तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवतिधाता ॥२०॥

य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तोभवति । य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥२१॥

ॐ स ह नाववत्विति शान्तिः ॥इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥५१॥

शरभोपनिषत् ॥५२॥

[सम्पाद्यताम्]

सर्वं संत्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये कोवाऽधिकतरो ध्येयः स्यात्तत्त्वमेव नो ब्रूहिति । तस्मै स होवाच पितामहश्च-----Page-----------------३५५--हे पैप्पलाद शृणु वाक्यमेतत् । बहूनि पुण्यानि कृतानि येन तेनैव लभ्यःपरमेश्वरोऽसौ । यस्याङ्गजोऽहं हरिरिन्द्रमुख्या मोहान्न जानन्ति सुरेन्द्रमुख्याः॥१॥

प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै । वेदांश्च सर्वा-न्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥२॥

ममापि विष्णोर्जनकंदेवमीड्यं योऽन्तकाले सर्वलोकान्संजहार ॥३॥

स एकः श्रेष्ठश्च सर्वशास्ता सएव वरिष्ठश्च । यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः । नृसिंहं लोकहन्तारंसंजघान महाबलः ॥४॥

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।मा वधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥५॥

कृपया भगवान्विष्णुं विद-दार नखैः खरैः । चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥६॥

स एकोरुद्रो ध्येयः सर्वेषां सर्वसिद्धये । यो ब्रह्मणः पञ्चमवक्त्रहन्ता तस्मै रुद्राय नमोअस्तु ॥७॥

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति । पुनश्चसृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति । तस्मै रुद्राय नमो अस्तु ॥८॥

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् । तस्मै रुद्रायनमो अस्तु ॥९॥

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।तस्मै रुद्राय नमो अस्तु ॥१०॥

यो दक्षयज्ञे सुरसङ्घान्विजित्य विष्णुं बब-न्धोरगपाशेन वीरः । तस्मै रुद्राय नमो अस्तु ॥११॥

यो लीलयैव त्रिपुरंददाह विष्णुं कविं सोमसूर्याग्निन्नेत्रः । सर्वे देवाः पशुतामवापुः स्वयं तस्मा-त्पशुपतिर्बभूव । तस्मै रुद्राय नमो अस्तु ॥१२॥

यो मत्स्यकूर्मादिवराहसिं-हान्विष्णुं क्रमन्तं वामनभादिविष्णुम् । विविक्लवं पीड्यमानं सुरेशं भस्मीचकारमन्मथं यमं च । तस्मै रुद्राय नमो अस्तु ॥१३॥

एवंप्रकारेण बहुधाप्रतुष्ट्वा क्षमापयामासुर्नीलकण्ठं महेश्वरम् । तापत्रयसमुद्भूतजन्ममृत्युजरा-दिभिः । नानाविधानि दुःखानि जहार परमेश्वरः ॥१४॥

एवं मन्त्रैः प्रार्थ्यमानआत्मा वै सर्वदेहिनाम् । शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥१५॥

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह । स्तुत्वा स्तुत्यं महेशानमवाङ्मन-सगोचरम् ॥१६॥

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः । यतोयाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेतिकदाचनेति ॥१७॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहा-याम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥१८॥


Page-----------------३५६--वसिष्ठवैयासकिवामदेवविरिञ्चिमुख्यैर्हृदि भाव्यमानः । सनत्सुजातादिसनात-नाद्यैरीड्यो महेशो भगवानादिदेवः ॥१९॥

सत्यो नित्यः सर्वसाक्षी महेशोनित्यानन्दो निर्विकल्पो निराख्यः । अचिन्त्यशक्तिर्भगवान्गिरीशः स्वाविद्ययाकल्पितमानभूमिः ॥२०॥

अतिमोहकरी माया मम विष्णोश्च सुव्रत । तस्यपादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥२१॥

विष्णुर्विश्वजगद्योनिः स्वांश-भूतैः स्वकैः सह । ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥२२॥

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा । ॐ तस्मै महाग्रासाय महा-देवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥२३॥

एकोविष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्व-भुगव्ययः ॥२४॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुन-र्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥२५॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणाहुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२६॥

शरा जीवास्तदङ्गेषुभाति नित्यं हरिः स्वयम् । ब्रह्मेव शरभः साक्षान्मोक्षदोऽयं महामुने ॥२७॥

मायावशादेव देवा मोहिता ममतादिभिः । तस्य माहात्म्यलेशांशं वक्तुं केना-प्यशक्यते ॥२८॥

परात्परतरं ब्रह्म यत्परात्परतो हरिः । परात्परतो हीशस्त-स्मात्तुल्योऽधिको न हि ॥२९॥

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥३०॥

शिव एव सदाध्येयः सर्वसंसारमोचकः । तस्मै महाग्रासाय महेश्वराय नमः ॥३१॥

पैप्पलादंमहाशास्त्रं न देयं यस्यकस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने॥३२॥

दाम्भिकाय नृशंसाय शठायानृतभाषिणे । सुव्रताय सुभक्ताय सुवृत्तायसुशीलिने ॥३३॥

गुरुभक्ताय दान्ताय शान्ताय् ऋजुचेतसे । शिवभक्तायदातव्यं ब्रह्मकर्मोक्तधीमते ॥३४॥

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रत ।न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥३५॥

एतत्पैप्पलादं महाशास्त्रंयोऽधीते श्रावयेद्द्विजः । स जन्ममरणेभ्यो मुक्तो भवति । यो जानीते सोऽमृ-तत्वं च गच्छति । गर्भवासाद्विमुक्तो भवति । सुरापानात्पूतो भवति ।स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । गुरुतल्पगमनात्पूतो भवति ।स सर्वान्वेदानधीतो भवति । स सर्वान्देवान्ध्यातो भवति । स समस्त-महापातकोपपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति । स सततं-----Page-----------------३५७--शिवप्रियो भवति । स शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरा-वर्तते । ब्रह्मैव भवति । इत्याह भगवान्ब्रह्मेत्युपनिषत् ॥३६॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति शरभोपनिषत्समाप्ता ॥५२॥

स्कन्दोपनिषत् ॥५३॥

[सम्पाद्यताम्]

यत्रासंभिन्नतां याति स्वातिरिक्तभिदाततिः ।संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥ॐ स ह नाववत्विति शान्तिः ॥अच्युतोऽस्मि महादेव तव कारुण्यलेशकः । विज्ञानघन एवास्मि शिवोऽस्मिकिमतः परम् ॥१॥

न निजं निजवद्भात्यन्तःकरणजृम्भणात् । अन्तः करणनाशेनसंविन्मात्रस्थितो हरिः ॥२॥

संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् ।व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥३॥

चिज्जडानां तु यो द्रष्टासोऽच्युतो ज्ञानविग्रहः । स एव हि महादेवः स एव हि महाहरिः ॥४॥

स एव ज्योतिषां ज्योतिः स एव परमेश्वरः । स एव हि परं ब्रह्म तद्ब्रह्माहंन संशयः ॥५॥

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुषेणबद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥६॥

एवं बद्धस्तथा जीवः कर्मनाशेसदाशिवः । पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥७॥

शिवायविष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः॥८॥

यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामितथा मे स्वस्तिरायुषि ॥९॥

यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा । देहोदेवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेनपूजयेत् ॥१०॥

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमल-त्यागः शौचमिन्द्रियनिग्रहः ॥११॥

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येवमाचरेद्धीमान्त्स एवंमुक्तिमाप्नुयात् ॥१२॥

श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति । विरिञ्चिना-रायणशंकरात्मकं नृसिंह देवेश तव प्रसादतः । अचिन्त्यमव्यक्तमनन्तमव्ययंवेदात्मकं ब्रह्म निजं विजानते ॥१३॥

तद्विष्णोः परमं पदं सदा पश्यन्तिसूरयः । दिवीव चक्षुराततम् ॥१४॥

तद्विप्रासो विपन्यवो जागृवांसः-----Page-----------------३५८--समिन्धते । विष्णोर्यत्परमं पदमित्येतन्निर्वाणानुशासनमिति वेदानुशासन-मिति वेदानुशासनमित्युपनिषत् ॥१५॥

ॐ स ह नाववत्विति शान्तिः ॥इति स्कन्दोपनिषत्समाप्ता ॥५३॥

अद्वयतारकोपनिषत् ॥५५॥

[सम्पाद्यताम्]

द्वैतासंभवविज्ञानसंसिद्धाद्वयतारकम् ।तारकं ब्रह्मेति गीतं वन्दे श्रीराभवैभवम् ॥ॐ पूर्णमद इति शान्तिः ॥ॐ अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामो यतये जितेन्द्रियाय शम-दमादिषड्गुणपूर्णाय । चित्स्वरूपोऽहमिति सदा भावयन्त्सम्यङ्निमीलिताक्षःकिंचिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपंपरंब्रह्मावलोकयंस्तद्रूपो भवति । गर्भजन्मजरामरणसंसारमहद्भयात्संतार-यति तस्मात्तारकमिति । जीवेश्वरौ मायिकौ विज्ञाय सर्वविशेषं नेतिनेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म तत्सिद्ध्यै लक्ष्यत्रयानुसंधानःकर्तव्यः । देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सातु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति । तन्मध्ये तडित्कोटिसमानका-न्त्या मृणालसूत्रवत्सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धास्ति । तां दृष्ट्वा मनसैव नरःसर्वपापविनाशद्वारा मुक्तो भवति । फालोर्ध्वगललाटविशेषमण्डले निरन्तरंतेजस्तारकयोगविस्फुरणेन पश्यति चेत्सिद्धो भवति । तर्जन्यग्रोन्मीलितकर्ण-रन्ध्रद्वये तत्र फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्यगतनील-ज्योतिःस्थलं विलोक्यान्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति ।एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यम् ॥ अथ बहिर्लक्ष्यलक्षणं नासिकाग्रेचतुर्भिः षड्भिरष्टभिर्दशभिर्द्वादशभिः क्रमादङ्गुलान्ते नीलद्युतिश्यामत्वसदृ-ग्रक्तभङ्गीस्फुरत्पीतशुक्लवर्णद्वयोपेतव्योम यदि पश्यति स तु योगी भवति ।चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दर्श-नेन योगी भवति । तप्तकाञ्चनसंकाशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा पश्यतितद्दृष्टिः स्थिरा भवति । शीर्षोपरि द्वादशाङ्गुलसमीक्षितुरमृतत्वं भवति ।यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत्स तु योगी भवति ॥ अथमध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवद्वह्निज्वालावलीवत्तद्विहीना-न्तरिक्षवत्पश्यति । तदाकाराकारितयाऽवतिष्ठति । तद्भूयोदर्शनेन गुणरहिता-काशं भवति । विस्फुरत्तारकाकारसंदीप्यमानागाढतमोपमं परमाकाशं भवति ।कालानलसमद्योतमानं महाकाशं भवति । सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं-----Page-----------------३८५--तत्त्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसंकाशं सूर्याकाशं भवति ।एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यम् । तद्दर्शी विमुक्तफलस्ता-दृग्व्योमसमानो भवति । तस्मात्तारक एव लक्ष्यममनस्कफलप्रदं भवति ।तत्तारकं द्विविधं पूर्वोर्धतारकमुत्तरार्धममनस्कं चेति । तदेष श्लोको भवति--तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः । पूर्वं तु तारक विद्यादमनस्कंतदुत्तरमिति । अक्ष्यन्तस्तारकयोश्चन्द्रसूर्यप्रतिफलनं भवति । तार-काभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवी-न्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनमात्राण्युभयैक्यदृष्ट्यामनोयुक्तं ध्यायेत् । तद्योगाभावे इन्द्रियप्रवृत्तेरनवकाशात् । तस्मादन्तर्दृष्ट्यातारक एवानुसंधेयः । तत्तारकं द्विविधं मूर्तितारकममूर्तितारकं चेति ।यदिन्द्रियान्तं तन्मूर्तिमत् । यद्भूयुगातीतं तदमूर्तिमत् । सर्वत्रान्तः-पदार्थविवेचने मनोयुक्ताभ्यास इष्यते तारकाभ्यां सदूर्ध्वस्थसत्त्वदर्शनान्म-नोयुक्तेनान्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्माच्छुक्लतेजोमयं ब्रह्मेतिसिद्धम् । तद्ब्रह्म मनःसहकारिचक्षुषान्तर्दृष्ट्या वेद्यं भवति । एवममूर्तितार-कमपि मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति रूपग्रहणप्रयोजनस्यमनश्चक्षुरधीनत्वाद्बाह्यवदान्तरेऽप्यात्ममनश्चक्षुःसंयोगेनैव रूपग्रहणकायाद-यात् । तस्मान्मनोयुक्तान्तर्दृष्टिस्तारकप्रकाशा भवति । भ्रयुगमध्यबिलेदृष्टिं तद्द्वारोर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति । तेन सह मनोयुक्तंतारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किंचिदूर्ध्वमुत्क्षेपयेत् ।इति पूर्वभागी तारकयोगः । उत्तरं त्वमूर्तिमदमनस्कमित्युच्यते । तालुमूलो-र्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद्योगिभिर्ध्येयम् । तस्मादणिमादि-सिद्धिर्भवति । अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यां शाम्भवीमुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासाद्भूमिः पवित्रा भवति । तद्दृष्ट्वांसर्वे लोकाः पवित्रा भवन्ति । तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपिमुक्तो भवति । अन्तर्लक्ष्यजलज्योतिःस्वरूपं भवति । परमगुपदेशेनसहस्रारे जलज्योतिर्वा बुद्धिगुहानिहितज्योतिर्वा षोडशान्तस्थतुरीयचैतन्यंवान्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलम् । आचार्यो वेदसंपन्नो-----Page-----------------३८६--विष्णुभुक्तो विमत्सरः । योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ॥गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभि-धीयते ॥ गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ॥ गुरुरेव परा विद्या गुरुरेवपरायणम् ॥ गुरुरेव परा काष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टासौतस्माद्गुरुतरो गुरुरिति । यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान्कामानवाप्नोति । सर्वपुरु-षार्थसिद्धिर्भवति । य एवं वेदेत्युपनित् ॥१॥

ॐ पूर्णमद इति शान्तिः ॥इत्यद्वयतारकोपनिषत्समाप्ता ॥५५॥

रामरहस्योपनिषत् ॥५६॥

[सम्पाद्यताम्]

कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षुंमहच्छारीरकं शिखाम् ॥१॥

सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥२॥

वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥३॥

चतुर्वेदेषुशास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ।एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥४॥

हनूमान्होवाच ॥ भोयोगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ॥ शृणुध्वं मामकीं वाचं भव-बन्धविनाशिनीम् ॥५॥

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् । राम एवपरं ब्रह्म राम एव परं तपः ॥ राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम्॥६॥

वायुपुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुःरामस्याङ्गानि नो ब्रूहीति । हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गांक्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वायुदेवं वाराहं तत्सर्वान्त्समा-त्रान्सीतां लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणव-मेतानि रामस्याङ्गानि जानीथाः । तान्यङ्गानि विना रामो विघ्नकरो भवति ।-----Page-----------------३८७--पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल विप्राणां गृह-स्थानां प्रणवाधिकारः कथं स्यादिति । स होवाच श्रीराम एवोवाचेति ।येषामेव षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्यशुभकरोऽहं स्याम् । तस्य प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्चऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणव-मन्त्राद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति रामेणोक्तास्त-स्माद्रामाङ्गं प्रणवः कथित इति ॥ विभीषण उवाच ॥ सिंहासने समासीनंरामं पौलस्त्यसूदनम् । प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥७॥

रघुनाथ महाबाहो केवलं कथितं त्वया । अङ्गानां सुलभं चैव कथनीयं च सौ-लभम् ॥८॥

श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नोगुरुहननः कोटियतिघ्नोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपतिस तेभ्यः पापेभ्यः प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।पुनरुवाच विभीषणः । तत्राप्यशक्तोऽयं किं करोति । स होवाचेमम् ।कैकसेय पुरश्चरणविधावशक्तो यो मम महोपनिषदं मम गीतां मन्नामसहस्रंमद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तंमन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौतितत्सदृशो भवेन्न किं भवेन्न किम् ॥९॥

इति रामरहस्योपनिषत्सु प्रथमोऽध्यायः ॥१॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल तारकब्रह्मणोरामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति । हनूमान्होवाच । वह्निस्थं शयनं विष्णो-रर्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥१॥

ब्रह्मामुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता । दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्या-त्मनो मनोः ॥२॥

बीजशक्त्यादिबीजेन इष्टार्थे विनियोजयेत् । सरयूतीर-मन्दारवेदिकापङ्कजासने ॥३॥

श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥४॥

अवेक्षमाणमात्मानमात्म-न्यमिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥५॥

चिन्तय-न्परमात्मानं भानुलक्षं जपेन्मनुम् । वह्निर्नारायणो नाड्यो जाठरः केवलोऽपिच ॥६॥

द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः । एकाक्षरोक्तमृष्यादि-----Page-----------------३८८--स्यादाद्येन षडङ्गकम् ॥७॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥८॥

द्व्यक्षरश्चन्द्रभद्रान्तो द्विवि-धश्चतुरक्षरः । ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥९॥

सप्रतिष्ठौरमौ वायौ हृत्पञ्चार्णो मनुर्मतः । विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्यदेवता ॥१०॥

रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् । भ्रूमध्ये हृदिनाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥११॥

षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्र-कम् । मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥१२॥

लक्ष्मणेन प्रगुणितमक्ष्णःकोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥१३॥

जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् । लक्ष्मणेन धृतच्छत्रमथवा पुष्प-कोपरि ॥१४॥

दशास्यमथनं शान्तं ससुग्रीवविभीषणम् । एवं लब्ध्वाजयार्थी तु वर्णलक्षं जपेन्मनुम् ॥१५॥

स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याःपञ्चवर्णकाः । षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥१६॥

पञ्चाशन्मातृका-मन्त्रवर्णप्रत्येकपूर्वकम् । लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥१७॥

श्रीमायामन्मथैकैकं बीजाद्यन्तर्गतो मनुः । चतुर्वर्णः स एव स्यात्षड्वर्णोवाञ्छितप्रदः ॥१८॥

स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥१९॥

ब्रह्मा संमोहनः शक्ति-र्दक्षिणामूर्तिरेव च । अगस्त्यश्च शिवः प्रोक्ता मुनयोऽनुक्रमादिमे ॥२०॥

छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता । अथवा कामबीजादेर्विश्वामित्रोमुनिर्मनोः ॥२१॥

छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता । बीज-शक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥२२॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्ना-भ्यूरुषु पादयोः । बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैर्वा षडङ्गकम् ॥२३॥

कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधा-नमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवंपश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥२४॥

श्रीरामश्चन्द्रभद्रान्तोङेन्तो नतियुतो द्विधा । सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥२५॥

तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः । तारं रामश्चतुर्थ्यंतः क्रडास्रंवह्नितल्पगा ॥२६॥

अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् ।पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥२७॥

गायत्रं छन्द इत्यस्य-----Page-----------------३८९--देवता राम एव च । तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥२८॥

षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् । तारं श्रीबीजयुग्मं च रामाय नमौच्चरेत् ॥२९॥

ग्लौमॐ बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् । शिवो-माराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥३०॥

ऋषिः सदाशिवः प्रोक्तो गायत्रंछन्द उच्यते । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तिता ॥३१॥

दीर्घयामाययाङ्गानि तारपञ्चार्णयुक्तया । रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥३२॥

रामाभिरामां सौन्दर्यसीमांसोमावतंसिकाम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेन्त्रिलोचनाम् ॥३३॥

ध्याय-न्नेवं वर्णलक्षं जपतर्पणतत्परः । बिम्बपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजै-र्हुनेत् ॥३४॥

स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । पुनरष्टाक्षर-स्याथ ब्रह्मगायत्रराघवाः ॥३६॥

ऋष्यादयस्तु विज्ञेयाः श्रीबीजं ममशक्तिकम् । तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥३६॥

केयूराङ्गद-कङ्कणैर्मणिगतैर्विद्योतमानं सदा रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् ।हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे देवेशं भरतादिभिः परिवृतं रामंभजे श्यामलम् ॥३७॥

किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृथा किंचि-ल्लोभवितानमात्रविफलैः संसारदुःखावहैः । एकः सन्नपि सर्वमन्त्रफलदोलोभादिदोषोज्झितः श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥३८॥

एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः । रामसप्ताक्षरो मन्त्र आद्यन्तेतारसंयुतः ॥३९॥

नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् । जानकी-वल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥४०॥

दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्ट-फलप्रदः । दशाक्षरस्य मन्त्रस्य वसिष्टोऽस्य ऋषिर्विराट् ॥४१॥

छन्दोऽस्यदेवता रामः सीतापाणिपरिग्रहः । आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रियामता ॥४२॥

शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि । नाभ्यूरुजानुपादेषुदशार्णान्विन्यसेन्मनोः ॥४३॥

अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥४४॥

सिंहासने समासीनं पुष्पकोपरिराघवम् । रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥४५॥

संस्तूयमानंमुनिभिः प्रह्वैश्च परिसेवितम् । सीतालंकृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमन-----Page------------------३९०--न्यधीः ॥४७॥

रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी । दशाक्षरोऽयंमन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥४८॥

छन्दस्तु देवता प्रोक्तो रामोराक्षसमर्दनः । शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥४९॥

तारमायार-मानङ्गवाक्स्वबीजैश्च षड्विधः । दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः॥५०॥

शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः । द्वादशाक्षरमन्त्रस्यश्रीराम ऋषिरुच्यते ॥५१॥

जगती छन्द इत्युक्तं श्रीरामो देवता मतः ।प्रणवो बीजमित्युक्तः क्लीं शक्तिह्रीं च कीलकम् ॥५२॥

मन्त्रेणाङ्गानिविन्यस्य शिष्टं पूर्ववदाचरेत् । तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥५३॥

रामं क्लीं वह्निजायान्तं मन्त्रोऽयं द्वादशाक्षरः । ॐ हृद्भगवते रामचन्द्रभद्रौ चङेयुतौ ॥५४॥

अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् । छन्दस्तुजगती चैव मन्त्रार्णैरङ्गकल्पना ॥५५॥

श्रीरामेति पदं चोक्त्वा जयरामततः परम् । जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥५६॥

त्रयोदशार्णऋष्यादि पूर्ववत्सर्वकामदः । पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥५७॥

तारादिसहितः सोऽपि स चतुर्दशवर्णकः । त्रयोदशार्णमुच्चार्य पश्चाद्रामेतियोजयेत् ॥५८॥

स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः । नमश्च सीताप-तये रामायेति हनद्वयम् ॥५९॥

ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥६०॥

रां बीजं शक्तिरस्त्रं चकीलकं हुमितीरितम् । द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥६१॥

तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः । तारं नमो भगवते रामं ङेन्तं महाततः ॥६२॥

पुरुषाय पदं पश्चाद्धृदन्तोऽष्टादशाक्षरः । विश्वामित्रो मुनि-श्छन्दो गायत्रं देवता च सः ॥६३॥

कामादिसहितः सोऽपि मन्त्र एकोन-विंशकः । तारं नमो भगवते रामायेति पदं वदेत् ॥६४॥

सर्वशब्दं समुच्चार्यसौभाग्यं देहि मे वदेत् । वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥६५॥

तारं नमो भगवते रामाय सकलं वदेत् । आपन्निवारणायेति वह्निजायां ततोवदेत् ॥६६॥

एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः । तारं रमा स्वबीजंच ततो दाशरथाय च ॥६७॥

ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥६८॥

तारं नमो भगवते वीर-रामाय संवदेत् । कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥६९॥


Page-----------------३९१--त्रयोविंशाक्षरो मन्त्रः सर्वशत्रुनिबर्हणः । विश्वामित्रो मुनिः प्रोक्तो गायत्रीछन्द उच्यते ॥७०॥

देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः । मूल-मन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥७१॥

शरं धनुषि संधाय तिष्ठन्तंरावणोन्मुखम् । वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥७२॥

तारंनमो भगवते श्रीरामाय पदं वदेत् । तारकब्रह्मणे चोक्त्वा मां तारय पदंवदेत् ॥७३॥

नमस्तारात्मको मन्त्रश्चतुर्विंशतिवर्णकः । बीजादिकं यथापूर्वंसर्वं कुर्यात्षडर्णवत् ॥७४॥

कामस्तारो नतिश्चैव ततो भगवतेपदम् ।रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥७५॥

जनवश्यकरायेति स्वाहाकामात्मको मनुः । सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥७६॥

आदौतारेण संयुक्तो मन्त्रः षड्विंशदक्षरः । अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः॥७७॥

तारं नमो भगवते रक्षोघ्नविशदाय च । सर्वविघ्नान्त्समुच्चार्य निवारयपदद्वयम् ॥७८॥

स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः । अन्ते तारेणसंयुक्त एकोनत्रिंशदक्षरः ॥७९॥

आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मकोमनुः । अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥८०॥

रामभद्र महे-ष्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥८१॥

आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता । रां बीजमस्य यं शक्तिरिष्टार्थेविनियोजयेत् ॥८२॥

पादं हृदि च विन्यस्य पादं शिंरसि विन्यसेत् ।शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥८३॥

नेत्रयोः पञ्चवर्णैश्चदापयेत्यस्त्रमुच्यते । चापबाणधरं श्यामं समुग्रीवविभीषणम् ॥८४॥

हत्वारावणमायान्तं कृतत्रैलोक्यरक्षणम् । रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्म-नुम् ॥८५॥

वदेद्दाशरथायेति विद्महेति पदं ततः । सीतापदं समुद्धृत्यवल्लभाय ततो वदेत् ॥८६॥

धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् ।तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥८७॥

मायादिरपि वैदुष्ट्यं रामा-दिश्च श्रियः पदम् । मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥८८॥

पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः । चत्वारि च चतुर्वर्णैरङ्ग-न्यासं प्रकल्पयेत् ॥८९॥

बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥९०॥

रक्षोघ्नविशदं तद्वन्मधुरेतिवदेत्ततः । प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥९१॥

बलरामौ चतुर्थ्यन्तौविष्णुं ङेन्तं नतिस्ततः । प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥९२॥


Page-----------------३९२--ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः । सप्तर्तुसप्तदशषड्रुद्रसंख्यैः षडङ्ग-कम् ॥९३॥

ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् । श्रियं सीत्मं चतु-र्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥९४॥

जनकोऽस्य ऋषिश्छन्दो गायत्री देवतामनोः । सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥९५॥

कीलं सीताचतुर्थ्यन्तमिष्टार्थे विनियोजयेत् । दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥९६॥

स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् । ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि-शोभिताम् ॥९७॥

लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः । अगस्त्य-ऋषिरस्याथ गायत्रं छन्द उच्यते ॥९८॥

लक्ष्मणो देवता प्रोक्तो लं बीजंशक्तिरस्य हि । नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ॥९९॥

दीर्घभाजास्वबीजेन षडङ्गानि प्रकल्पयेत् । द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥१००॥

धनुर्बाणधरं देवं रामाराधनतत्परम् । भकारं तु समुद्धृत्य भरताय नमोन्तकः॥१०१॥

अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् । भरतं श्यामलं शान्तंरामसेवापरायणम् ॥१०२॥

धनुर्बाणधरं वीरं कैकेयीतनयं भजे । शं बीजंतु समुद्धृत्य शत्रुघ्नाय नमोन्तकः । ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे॥१०३॥

द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तारं सुमित्रा-तनयं भजे ॥१०४॥

हृं हनूमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः । रामचन्द्रऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥१०५॥

द्विभुजं स्वर्णवर्णाभं रामसेवा-परायणम् । मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति ॥१०६॥

इति रामरहस्योपनिषत्सु द्वितीयोऽध्यायः ॥२॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल पूर्वोक्तमन्त्राणांपूजापीठमनुब्रूहीति । हनूमान् होवाच । आदौ षट्कोणम् । तन्मध्ये रामबीजंसश्रीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे षष्ठ्यन्तं साध-कम् । पार्श्वे दृष्टिबीजे तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मु-खोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषुदीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण । रां रीं रूं रैं रौं रः इति दीर्घभाञ्जितद्युक्तहृदयाद्यस्त्रान्तम् । षट्कोणपार्श्वे रमामायाबीजे । कणाग्रे वाराहं हुमिति ।तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् ।तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरो-----Page-----------------३९३--मन्त्रः । तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषुवासुदेवद्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् । ततोवृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् ।तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमंश्रुं ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहमन्त्ररा-जानुष्टुभमन्त्रः । तद्दलकपोलेष्वष्टवस्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवा-दिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो रेखात्रययुक्तंभूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् । चतुर्दिक्षुनारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदंमोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति । तद्दशावरणात्मकंभवति । षट्कोणमध्ये साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः प्रथमा वृत्तिः ।अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्ट-दलमूले घृष्ट्याद्यावरणम् । तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसि-ष्ठाद्यावरणम् । षोडशदलेषु नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते । आदौषट्कोणम् । तन्मध्ये स्वबीजम् । तन्मध्ये साध्यनामानि । एवं कामबीज-वेष्टनम् । ततः शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवाय-व्यपूर्वपृष्ठेषु । तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया मालामनुवर्णान् । तद्दलकपोलेषुषोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरंसाष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् ।आधारशक्त्यादिवैष्णवपीठम् । अङ्गैः प्रथमा वृत्तिः । मध्ये रामम् । वामभागेसीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले हनुमदादिद्वितीयावरणम् ।घृष्ट्यादितृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्रा-राधनपूर्वकं दशाक्षरादिमन्त्रं जपेत् ॥१॥

इति रामरहस्योपनिषत्सु तृतीयोऽध्यायः ॥३॥


Page-----------------३९४--सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्राणां पुरश्चरणविधिमनु-ब्रूहीति । हनूमान्होवाच । नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् । अथवापायसाहारो हविष्यान्नाद एव वा ॥१॥

षड्रसैश्च परित्यक्तः स्वाश्रमोक्त-विधिं चरन् । वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥२॥

भूमिशायीब्रह्मचारी निष्कामो गुरुभक्तिमान् । स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥३॥

गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः । सूयन्दुगुरुदीपादिगोब्राह्मणसमीपतः॥४॥

श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् । व्याघ्रचर्मासने स्थित्वास्वस्तिकाद्यासनक्रमात् ॥५॥

तुलसीपारिजातश्रीवृक्षमूलादिकस्थले । पद्मा-क्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥६॥

मातृकामालया मन्त्री मनसैव मनुंजपेत् । अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥७॥

तर्पयेत्तद्दशांशेनपायसात्तद्दशांशतः । जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥८॥

ततःपुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् । ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवे-न्मुनिः ॥९॥

अणिमादिर्भजत्येनं यूनं वरवधूरिव । ऐहिकेषु च कार्येषुमहापत्सु च सर्वदा ॥१०॥

नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥११॥

यो रामं संस्मरेन्नित्यंभक्त्या मनुपरायणः । तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥१२॥

वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु । सर्वथा जागरूकोऽस्मि राम-कार्यधुरंधरः ॥१३॥

इति रामरहस्योपनिषत्सु चतुर्थोऽध्यायः ॥४॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्रार्थमनुब्रूहीति । हनूमा-न्होवाच । सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः । एकधाय द्विधा त्रेधाचतुर्धा पञ्चधा तथा ॥१॥

षट्सप्तधाऽष्टधा चैव बहुधायं व्यवस्थितः ।षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥२॥

श्रीराममन्त्रराजस्यसम्यगर्थोऽयमुच्यते । नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा । सार्थकार्णद्वयंरामो रमन्ते यत्र योगिनः । रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥३॥

सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते । व्यञ्जनं निष्कलं ब्रह्म प्राणोमायेति च स्वरः ॥४॥

व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् । रेफोज्योतिर्मये तस्मात्कृतमाकारयोजनम् ॥५॥

मकारोऽभ्युदयार्थत्वात्स मायेतिच कीर्त्यते । सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥६॥

सबिन्दुः-----Page-----------------३९५--सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् । ज्योतिस्तस्य शिखा रूपं नादःसप्रकृतिर्मतः ॥७॥

प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥८॥

अग्नीषोमात्मकं रूपंरामबीजे प्रतिष्ठितम् । यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥९॥

तथैवरामबीजस्थं जगदेतच्चराचरम् । बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते॥१०॥

बीजं मायाविनिर्मुक्तं परंब्रह्मेति कीर्त्यते । मुक्तिदं साधकानां चमकारो मुक्तिदो मतः ॥११॥

मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।आद्यो रा तत्पदार्थः स्यान्मकारस्त्वंपदार्थवान् ॥१२॥

तयोः संयोजनमसी-त्यर्थे तत्त्वविदो विदुः । नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥१३॥

असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् । तत्त्वमस्यादिवाक्यं तु केवलमुक्तिदं यतः ॥१४॥

भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते । मनुष्वेतेषुसर्वेषामधिकारोऽस्ति देहिनाम् ॥१५॥

मुमुक्षूणां विरक्तानां तथा चाश्रमवा-सिनाम् । प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः । राममन्त्रार्थविज्ञानीजीवन्मुक्तो न संशयः ॥१६॥

य इमामुपनिषदमधीते सोऽग्निपूतो भवति ।स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्म-हत्यायाः पूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।तदेतदृचाभुक्तम् -- सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न तेसंसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥१७॥

सर्वसारादिरामरहस्यान्तग्रन्थः ३००० । ईशावास्यादिरामरहस्यान्त-ग्रन्थः ८३४८ ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति श्रीरामरहस्योपनिषत्समाप्ता ॥५६॥

श्रीरामपूर्वतापिन्युपनिषत् ॥५७॥

[सम्पाद्यताम्]

श्रीरामतापिनीयार्थं भक्तोध्येयकलेवरम् ।विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽस्विलं रातिराजते यो महीस्थितः ॥१॥

स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥२॥

रामनाम भुवि ख्यातम-----Page------------------३९६--भिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥३॥

प्रभाहीनां-स्तथा कृत्वा राज्यार्हाणां महीभृताम् । धर्ममार्गं चरित्रेण ज्ञानमार्गं चनामतः ॥४॥

तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् । तथा रात्यस्यरामाख्या भुवि स्यादथ तत्त्वतः ॥५॥

रमन्ते योगिनोऽनन्ते नित्यानन्देचिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥६॥

चिन्मयस्याद्विती-यस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥७॥

रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रार्दिकल्पना । द्वि चत्वारि षडष्टाऽऽसां दशद्वादश षोडश ॥८॥

अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः । सह-स्नान्तास्तथा तासां वर्णवाहनकल्पना ॥९॥

शक्तिसेनाकल्पना च ब्रह्मण्येवं हिपञ्चधा । कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥१०॥

ब्रह्मादीनां वाच-कोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति॥११॥

क्रिया कर्मेति कर्तॄणामर्थं मन्त्रो वदत्यथ । मननान्त्राणनान्मन्त्रः सर्व-वाच्यस्य वाचकः ॥१२॥

सोभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना । विनायन्त्रेण चेत्पूजा देवता न प्रसीदति ॥१३॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते । जीवत्वेनेदमॐ यस्य सृष्टि-स्थितिलयस्य च ॥१॥

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः । यथैववटबीजस्थः प्राकृतश्च महाद्रुमः ॥२॥

तथैव रामबीजस्थं जगदेतच्चराचरम् ।रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥३॥

सीतारामौ तन्मयावत्रपूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहतान्येव तेषु ततोरामो मानवो माययाध्यात् ॥४॥

जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यंप्रवदेत्प्राग्गुणेनेति ॥५॥

इति श्रीरामतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥

जीववाचि नमो नाम चात्मा रामेति गीयते । तदात्मिका या चतुर्थीं तथाचाऽऽयेति गीयते ॥१॥

मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ।फलदश्चैव सर्वेषां साधकानां न संशयः ॥२॥

यथा नामी वाचकेन नाम्नायोऽभिमुखो भवेत् । तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥३॥

बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि । कीलो मध्येऽविनाभाव्यः स्ववा-ञ्छाविनियोगवान् ॥४॥

सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अत्र-----Page-----------------३९७--रामोऽनन्तरूपस्तेजसा वह्निना समः ॥५॥

स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकंजगत् । उत्पन्नः शीतया भाति चन्द्रश्चन्द्रिकया यथा ॥६॥

प्रकृत्या सहितःश्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥७॥

प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः । प्रकृत्या परमेश्वर्या जगद्योन्याऽङ्किताङ्कभृत्॥८॥

हेमाभया द्विभुजया सर्वालंकृतया चिता । श्लिष्टः कमलधारिण्या पुष्टःकोसलजात्मजः ॥९॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥

दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः । हेमाभे नानुजेनैव तथाकोणत्रयं भवेत् ॥१॥

तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया । एवंत्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥२॥

स्तुतिं चक्रुश्च जगतः पतिंकल्पतरौ स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥३॥

नमोवेदादिरूपाय ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये॥४॥

जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्या-न्तकरूपिणे ॥५॥

रामभद्र महेष्वास रघुवीर नृपोत्तम ॥६॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥४॥

भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥१॥

त्वमैश्वर्यं दापयाथसंप्रत्या खरमारणम् । कुर्वन्ति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥२॥

स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्नीं वनस्थां यः स्वनिवृत्त्य-र्थमाददे ॥३॥

स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्व्याजेनेक्षितुंसीतां रामो लक्ष्मण एव च ॥४॥

विचेरतुस्तदा भूमौ देवीं संदृश्यचासुरम् । हत्वा कबन्धं शबरीं गव्वा तस्याज्ञया तया ॥५॥

पूजितो-वीरपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ॥६॥

स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामासयो रामस्तमचिक्षिपत् ॥७॥

सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥८॥

जगामागर्जदनुजोवालिनो वेगतो गृहात् । वाली तदा निर्जगाम तं वालिनमथाहवे ॥९॥

निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ॥१०॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥५॥


Page-----------------३९८--हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥१॥

आदायं मैथिलीमद्यददत श्वाशु गच्छत । ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥२॥

सीतांदृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयततत्त्वतः ॥३॥

तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमा-दायास्त्रांश्च पुरीं लङ्कां समाययौ ॥४॥

तां दृष्ट्वा तदधीशेन सार्धं युद्धम-कारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥५॥

हत्वा विभीषणं तत्रस्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥६॥

धृतः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरण-भूषितः ॥७॥

मुद्रां ज्ञानमयीं याम्ये वामे तेजःप्रकाशिनीम् । धृत्वाव्याख्याननिरतश्चिन्मयः परमेश्वरः ॥८॥

उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौघृतः । हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥९॥

भरताधस्तु सुग्रीवंशत्रुघ्नाधो विभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छत्रं सचामरम् ॥१०॥

तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् । एवं षट्कोणमादौ स्वदीर्घाङ्गैरेषसंयुतः ॥११॥

द्वितीयं वासुदेवाद्यैराग्नेय्यादिषु संयुतः । तृतीयं वायुसूनुंच सुग्रीवं भरतं तथा ॥१२॥

विभीषणं लक्ष्मणं चाङ्गदं चारिविमर्दनम् ।जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥१३॥

विजयश्च सुराष्ट्रश्च राष्ट्र-वर्धन एव च ॥ अशोको धर्मपालश्च सुमन्त्रैरेभिरावृतः ॥१४॥

सहस्रदृग्व-ह्निर्धर्मरक्षो वरुणोऽनिलः । इन्द्वीशधात्रनन्ताश्च दशभिस्त्वेभिरावृतः ॥१५॥

बहिस्तदायुधैः पूज्यो नीलादिभिरलंकृतः । वसिष्ठवामदेवादिमुनिभिः समु-पासितः ॥१६॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु षष्ठोपनिषत् ॥६॥

एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्येतारद्वयं लिखेत् ॥१॥

तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥२॥

कुरुद्वयं च तत्पार्श्वेलिखेद्बीजान्तरे रमाम् । तत्सर्वं प्रणवाभ्यां च वेष्टितं बुद्धिबुद्धिमान् ॥३॥

दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः । कोणपार्श्वे रमामाये तदग्रेऽनङ्ग-मालिखेत् ॥४॥

क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् । वृत्तत्रयंसाष्टपत्रं सरोजे विलिखेत्स्वरान् ॥५॥

केसरेष्वष्टपत्रे च वर्गाष्टकमथा-लिखेत् । तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥६॥

अन्ते पञ्चाक्षरा-----Page------------------३९९--नेवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टार्णं लिखत्तत्केसरे रमाम् ॥७॥

तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् । तथॐ नमो भगवते वासुदेवायैत्ययम् ॥८॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु सप्तमोपनिषत् ॥७॥

आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् । तद्बहिः षोडशदलं लिख्यतत्केसरे ह्रियम् ॥१॥

वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्सन्धिष्वी-रजादीनां मन्त्रान्मन्त्री समालिखेत् ॥२॥

हृँ सृँ भृँ वृँ लृँ शृँ जृँ च लिखे-त्सम्यक्ततो बहिः । द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥३॥

विलि-खेन्मन्त्रराजार्णास्तेषु पत्रेषु यत्नतः । ध्यायेदष्टवसूनेकादश रुद्रांश्च तत्र वै ॥४॥

द्वादशेनांश्च धातारं वषट्कारं ततो बहिः ॥५॥

भूगृहं वज्रशूलाढ्यं रेखात्रय-समन्वितम् । द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् । अनन्तो वासुकिश्चैवतक्षः कर्कोटपद्मकः ॥६॥

महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ॥७॥

इति श्रीरामपूर्वतापिन्युपनिषत्स्वष्टमोपनिषत् ॥८॥

एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥१॥

नारसिंहं च वाराहंलिखेन्मन्त्रद्वयं तथा । कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥२॥

योनृसिंहः समाख्यातो ग्रहमारणकर्मणि । अन्त्योऽर्धीशवियद्बिन्दुनादबीजं चसौकरम् ॥३॥

हुंकारं चात्र रामस्य मालामन्त्रोऽधुनेरितः । तारो नतिश्चनिद्रायाः स्मृतिर्मेदश्च कामिका ॥४॥

रुद्रेज संयुता वह्निर्मेधाऽमरविभूषिता ।दीर्घाऽक्रूरयुता ह्लादिन्यथो दीर्घसमानदा ॥५॥

क्षुधा क्रोधिन्यमोघा चविश्वमप्यथ मेधया । युक्ता दीर्घा ज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥६॥

सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलः प्रीतिश्च सामरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ताश्वेतानुस्वारसंयुता ॥७॥

कामिकापञ्च मोलान्तस्तान्तान्तो धान्त इत्यथ ।स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥८॥

कामिका कामिकारुद्रयुक्ताथोऽथ स्थिरा स ए । तापिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥९॥

नारायणात्मकः कालः प्राणां भो विद्यया युतम् । पीता रतिस्तथा लान्तोयोन्या युक्तोऽन्ततो नतिः ॥१०॥

सप्तचत्वारिंशद्वर्णगुणान्तः सगुणः स्वयम् ।राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥११॥

इदं सर्वात्मक यन्त्रंप्रागुक्तमृषिसेवितम् । सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥१२॥

अपुत्रिणां-----Page-----------------४००--पुत्रदं च बहुना किमनेन वै । प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥१३॥

इदं रहस्यं परममीश्वरेणापि दुर्गमम् । इदं यन्त्रं समाख्यातं न देयं प्राकृतेजने इति ॥१४॥

इति श्रीरामपूर्वतापिन्युपनिषत्सु नवमोपनिषत् ॥९॥

ॐ भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चाविधा-वस्य पीठाधरोर्ध्वं पार्श्वार्चनं मध्यपद्मार्चनं च ॥१॥

कृत्वा मृदुश्लक्ष्णसुतूलि-कायां रत्नासने देशिकमर्चयित्वा । शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्जेस्वासनाधः प्रकल्प्य ॥२॥

विघ्नं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चा-ग्निदेशादिकांश्च । पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नञ्पूर्वास्तांस्तस्य विक्ष्वर्चयेच्च॥३॥

मध्ये क्रमादर्कविध्वग्नितेजांस्युपर्युपर्यादिमैरर्चितानि । रजः सत्त्वं तमएतानि वृत्तन्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥४॥

आशाव्याशास्वप्यथात्मानम-न्तरात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये येकलापारतत्त्वे ॥५॥

संपूजयेद्विमलाद्याश्च शक्तीरभ्यर्चयेद्देवमावाहयेच्च । अङ्ग-व्यूहानि जलाद्यैश्च पूज्य धृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥६॥

वसिष्ठाद्यैर्मुनि-भिर्नीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः । मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मैजपादींश्च सम्यक्समर्प्य ॥७॥

एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदा-नन्दरूपम् । गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः॥८॥

विश्वव्यापी राघवोऽथो तदानीमन्तर्दधे शङ्खचक्रे गदाब्जे । धृत्वा रमा-सहितः सानुजश्च सपत्नजः सानुगः सर्वलोकी ॥९॥

तद्भक्ता ये लब्धकामाश्चभुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋचः सर्वकामार्थदाश्च ये ते पठ-न्त्यमला यान्ति मोक्षं येते पठन्त्यमला यान्ति मोक्षमिति ॥१०॥

चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः । सीतारामावेका । जीववाचीषट्षष्टिः । भूतादिकमेतादश । पञ्चखण्डेषु त्रिनवतिः ।इति श्रीरामपूर्वतापिन्युपनिषत्सु दशमोपनिषत् ॥१०॥

इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥५७॥


Page-----------------४०१--

श्रीरामोत्तरतापिन्युपनिषत् ॥५८॥

[सम्पाद्यताम्]

ॐ बृहस्पतिरुवाच याज्ञवक्ल्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषांभूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानांब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छेत्तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानांदेवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषुरुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेवनिषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याज्ञवल्क्यः ॥१॥

अथ हैनंभरद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तरतीति । स होवाच याज्ञ-वल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्रायनम इत्यॐतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्याः । अकारः प्रथमा-क्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति ।अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरोभवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवो-पास्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति । तस्मा-दुच्यते तारकमिति ॥ य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते । स सर्वंपाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति ।स वीरहत्यां तरति । स सर्वहत्यां तरति । स संसारं तरति सर्वं तरति ।सोऽविमुक्तमाश्रितो भवति । स महान्भवति । सोऽमृतत्वं च गच्छतीति॥२॥

अथैते श्लोका भवन्ति -- अकाराक्षरसंभूतः सौमित्रिर्विश्वभावनः ।उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥१॥

प्राज्ञात्मकस्तु भरतो मकारा-क्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥२॥

श्रीरामसांनि-ध्यवशाज्जगदानन्ददायिनी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥३॥

सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्तिब्रह्मवादिनः ॥४॥

इति ॥ ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतंभवद्भविष्यदिति सर्वमॐकार एव । यच्चान्यन्त्रिकालातीतं तदप्यॐकार एव ।सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्याज्जागरितस्थानो बहिःप्रज्ञःसप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ स्वप्नस्थानो-ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्त-----Page------------------४०२--स्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञ-स्तृतीयः पादः ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्यप्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञंनाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेका-त्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा सविज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहितआनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्या-हमित्यॐ तत्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहमॐ तद्रामभद्रपरंज्योतीःसोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकी कुर्यात् ॥ सदा रामोऽहमस्मीतितत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनि-षद्य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ अथ हैनमत्रिः पप्रच्छयाज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजा-नीयामिति । स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो य एषोऽन-न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठितैति । वरणायां नाश्यां च मध्ये प्रतिष्ठित इति ॥ का वै वरणा का चनाशीति । जन्मान्तरकृतान्सर्वान्दोषान्वारयतीति तेन वरणा भवतीति ।सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति । कतमच्चास्यस्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्यच सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वैतदेवं वेद सएषोऽक्षरोऽनन्तोऽव्यक्तः परिपूर्णानन्दैकचिदात्मा योऽयमविमुक्ते प्रतिष्ठित इति ।अथ तं प्रत्युवाच । श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तर-सहस्रैस्तु जपहोमार्चनादिभिः ॥१॥

ततः प्रसन्नो भगवाञ्छ्रीरामः प्राहशंकरम् । वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर ॥२॥

इति ॥ अथ सच्चि-दानन्दात्मा श्रीराममीश्वरः पप्रच्छ । मणिकर्ण्यां मत्क्षेत्रे गङ्गायां वा तटेपुनः । म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥३॥

इति ॥ अथ सहोवाच श्रीरामः ॥ क्षेत्रेऽत्र तव देवेश यत्रकुत्रापि वा मृताः । कृमिकीटा-दयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥४॥

अविमुक्ते तव क्षेत्रे सर्वेषांमुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥५॥

क्षेत्रेऽस्मिन्वो-----Page------------------४०३--ऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः॥६॥

त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धाःस्युर्मुक्ता मां प्राप्नुवन्ति ते ॥७॥

मुमूर्षोर्दक्षिणे कर्णे यस्यकस्यापि वास्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवेति ॥८॥

श्रीरामचन्द्रे-णोक्तं योऽविमुक्तं पश्यति स जन्मान्तरितान्दोषान्वारयतीति स जन्मान्तरि-तान्पापान्नाशयतीति । अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैःस्तुतः श्रीरामः प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहिभगवन्निति । स होवाच याज्ञवल्क्यः श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरे-तया गाथया नमस्करोति ॥ विश्वाधारं महाविष्णुं नारायणमनामयम् । परि-पूर्णानन्दविज्ञं परंब्रह्मस्वरूपिणम् ॥ मनसा संस्मरन्ब्रह्म तुष्टव परमेश्वरम् ।ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा यत्परं ब्रह्मभूर्भुवः स्वस्तस्मै वै नमो नमः ॥१॥

ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्चाखण्डैकरसात्मा भूर्भुवः स्वस्तस्मै वै नमो ममः २ ॐ यो वैश्रीरामचन्द्रः स भगवान्यच्च ब्रह्मानन्दामृतं भूर्भुवः स्वस्तस्मै वै नमो नमः ३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यस्तारकं भूर्भुवः स्वस्तस्मै वै नमो नमः ४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो ब्रह्म विष्णुरीश्वरो यः सर्वदेवात्माभूर्भुवः स्वस्तस्मै वै नमो नमः ५ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये सर्वेवेदाः साङ्गाः सशाखाः सपुराणा भूर्भुवः स्वस्तस्मै वै नमो नमः ६ ॐ यो वैश्रीरामचन्द्रः स भगवान्यो जीवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ७ ॐ योवै श्रीरामचन्द्रः स भगवान्यः सर्वभूतान्तरात्मा भूर्भुवः स्वस्तस्मै वै नमोनमः ८ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये देवासुरमनुष्यादिभावा भूर्भुवःस्वस्तस्मै वै नमो नमः ९ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये मत्स्यकूर्माद्य-वतारा भूर्भुवः स्वस्तस्मै वै नमो नमः १० ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्च प्राणो भूर्भुवः स्वस्तस्मै वै नमो नमः ११ ॐ यो वै श्रीराम-चन्द्रः स भगवान्योऽन्तःकरणचतुष्टयात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १२ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च यमो भूर्भुवः स्वस्तस्मै वै नमो नमः१३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चान्तको भूर्भुवः स्वस्तस्मै वै नमोनमः १४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च मृत्युर्भूर्भुवः स्वस्तस्मै वैनमो नमः १५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चामृतं भूर्भुवः स्वस्तस्मैवै नमो नमः १६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यानि पञ्च महाभूतानि-----Page-----------------४०४--भूर्भुवः स्वस्तस्मै वै नमो नमः १७ ॐ यो वै श्रीरामचन्द्रः स भगवान्यःस्थावरजङ्गमात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १८ ॐ यो वै श्रीरामचन्द्रःस भगवान्ये पञ्चाग्नयो भूर्भुवः स्वस्तस्मै वै नमो नमः १९ ॐ यो वै श्रीराम-चन्द्रः स भगवान्याः सप्त महाव्याहृतयो भूर्भुवः स्वस्तस्मै वै नमो नमः २० ॐ यो वै श्रीरामचन्द्रः स भगवान्या विद्या भूर्भुवः स्वस्तस्मै वै नमो नमः२१ ॐ यो वै श्रीरामचन्द्रः स भगवान्या सरस्वती भूर्भुवः स्वस्तस्मै वै नमोनमः २२ ॐ यो वै श्रीरामचन्द्रः स भगवान्या लक्ष्मीर्भूर्भुवः स्वस्तस्मै वै नमोनमः २३ ॐ यो वै श्रीरामचन्द्रः स भगवान्या गौरी भूर्भुवः स्वस्तस्मै वैनमो नमः २४ ॐ यो वै श्रीरामचन्द्रः स भगवान्या जानकी भूर्भुवः स्वस्त-स्मै वै नमो नमः २५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यच्च त्रैलोक्यंभूर्भुवः स्वस्तस्मै वै नमो नमः २६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चसूर्यो भूर्भुवः स्वस्तस्मै वै नमो नमः २७ ॐ यो वै श्रीरामचन्द्रः सभगवान्यश्च सोमो भूर्भुवः स्वस्तस्मै वै नमो नमः २८ ॐ यो वै श्रीरामचन्द्रः स भगवान्यानि नक्षत्राणि भूर्भुवः स्वस्तस्मै वै नमो नमः २९ ॐ यो वैश्रीरामचन्द्रः स भगवान्ये च नव ग्रहा भूर्भुवः स्वस्तस्मै वै नमो नमः ३० नमो नमः ३१ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चाष्टौ वसवो भूर्भुवःस्वस्तस्मै वै नमो नमः ३२ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चैकादशरुद्रा भूर्भुवः स्वस्तस्मै वै नमो नमः ३३ ॐ यो वै श्रीरामचन्द्रः स भगवान्येच द्वादशादित्या भूर्भुवः स्वस्तस्मै वै नमो नमः ३४ ॐ यो वै श्रीरामचन्द्रःस भगवान्यच्च भूतं भवद्भविष्यद्भूर्भुवः स्वस्तस्मै वै नमो नमः ३५ ॐ योवै श्रीरामचन्द्रः स भगवान्ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति यो विराड्भूर्भुवःस्वस्तस्मै वै नमो नमः ३६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो हिरण्य-गर्भो भूर्भुवः स्वस्तस्मै वै नमो नमः ३७ ॐ यो वै श्रीरामचन्द्रः स भग-वान्या प्रकृतिर्भूर्भुवः स्वस्तस्मै वै नमो नमः ३८ ॐ यो वै श्रीरामचन्द्रःस भगवान्यश्चॐकारो भूर्भुवः स्वस्तस्मै वै नमो नमः ३९ ॐ यो वैश्रीरामचन्द्रः स भगवान्याश्चतस्रोऽ र्मात्रा भूर्भुवः स्वस्तस्मै वै नमो नमः४० ॐ यो वै श्रीरामचन्द्रः स भगवान्यः परमपुरुषो भूर्भुवः स्वस्तस्मै वैनमो नमः ४१ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महेश्वरो भूर्भुवः-----Page-----------------४०५--स्वस्तस्मै वै नमो नमः ४२ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महादेवोभूर्भुवः स्वस्तस्मै वै नमो नमः ४३ ॐ यो वै श्रीरामचन्द्रः स भगवान्यॐ नमो भगवते वासुदेवाय यो महाविष्णुर्भूर्भुवः स्वस्तस्मै वै नमो नमः ४४४५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो विज्ञानात्मा भूर्भुवः स्वस्तस्मै वैनमो नमः ४६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः सच्चिदानन्दैकरसात्माभूर्भुवः स्वस्तस्मै वै नमो नमः ४७ इत्येतान्ब्रह्मवित्सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवंस्तुवंस्ततो देवः प्रीतो भवति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवंपश्यति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥५॥

ॐ वाङ्मे मनसीति शान्तिः ॥इत्याथर्वणीया श्रीरामोत्तरतापिनीयोपनिषत्समाप्ता ॥५८॥

वासुदेवोपनिषत् ॥५९॥

[सम्पाद्यताम्]

यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥ॐ आप्यायन्त्विति शान्तिः ॥ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ अधीहि भगवन्नूर्ध्व-पुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे ब्रूहीति । तं होवाच भगवान्वासुदेवोवैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनंममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दनमाख्यातं मदङ्गलेपनंपुण्यं चक्रतीर्थान्तः स्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति । अथगोपीचन्दनं नमस्कृत्वोद्धृत्य । गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव । चक्रा-ङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव । इमं मे गङ्गे इति जलमादाय विष्णो-र्नुकमिति मर्दयेत् । अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवा-दिनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वा ललाटहृदयकण्ठबाहुमूलेषुवैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्य शङ्खचक्र-गदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्षं मां शरणागतम् ।इति ध्यात्वा गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या वैष्णवगायत्र्या-----Page-----------------४०६-----Page-------------------१-----Page-------------------२-----Page-------------------३-----Page-------------------४-----Page-------------------५-----Page-------------------६-----Page-------------------७-----Page-------------------८-----Page-------------------९-----Page-------------------१०-----Page-------------------११-----Page-------------------१२-----Page-------------------१३-----Page-------------------१४-----Page-------------------१५-----Page-------------------१६-----Page-------------------१७-----Page-------------------१८-----Page-------------------१९-----Page-------------------२०-----Page-------------------२१-----Page-------------------२२-----Page-------------------२३-----Page-------------------२४-----Page-------------------२५-----Page-------------------२६-----Page-------------------२७-----Page-------------------२८-----Page-------------------२९-----Page-------------------३०-----Page-------------------३१-----Page-------------------३२-----Page-------------------३३-----Page-------------------३४-----Page-------------------३५-----Page-------------------३६-----Page-------------------३७-----Page-------------------३८-----Page-------------------३९-----Page-------------------४०-----Page-------------------४१-----Page-------------------४२-----Page-------------------४३-----Page-------------------४४-----Page-------------------४५-----Page-------------------४६-----Page-------------------४७-----Page-------------------४८-----Page-------------------४९-----Page-------------------५०-----Page-------------------५१-----Page-------------------५२-----Page-------------------५३-----Page-------------------५४-----Page-------------------५५-----Page-------------------५६-----Page-------------------५७-----Page-------------------५८-----Page-------------------५९-----Page-------------------६०-----Page-------------------६१-----Page-------------------६२-----Page-------------------६३-----Page-------------------६४-----Page-------------------६५-----Page-------------------६६-----Page-------------------६७-----Page-------------------६८-----Page-------------------६९-----Page-------------------७०-----Page-------------------७१-----Page-------------------७२-----Page-------------------७३-----Page-------------------७४-----Page-------------------७५-----Page-------------------७६-----Page-------------------७७-----Page-------------------७८-----Page-------------------७९-----Page-------------------८०-----Page-------------------८१-----Page-------------------८२-----Page-------------------८३-----Page-------------------८४-----Page-------------------८५-----Page-------------------८६-----Page-------------------८७-----Page-------------------८८-----Page-------------------८९-----Page-------------------९०-----Page-------------------९१-----Page-------------------९२-----Page-------------------९३-----Page-------------------९४-----Page-------------------९५-----Page-------------------९६-----Page-------------------९७-----Page-------------------९८-----Page-------------------९९-----Page-------------------१००-----Page-------------------१०१-----Page-------------------१०२-----Page-------------------१०३-----Page-------------------१०४-----Page-------------------१०५-----Page-------------------१०६-----Page-------------------१०७-----Page-------------------१०८-----Page-------------------१०९-----Page-------------------११०-----Page-------------------१११-----Page-------------------११२-----Page-------------------११३-----Page-------------------११४-----Page-------------------११५-----Page-------------------११६-----Page-------------------११७-----Page-------------------११८-----Page-------------------११९-----Page-------------------१२०-----Page-------------------१२१-----Page-------------------१२२-----Page-------------------१२३-----Page-------------------१२४-----Page-------------------१२५-----Page-------------------१२६-----Page-------------------१२७-----Page-------------------१२८-----Page-------------------१२९-----Page-------------------१३०-----Page-------------------१३१-----Page-------------------१३२-----Page-------------------१३३-----Page-------------------१३४-----Page-------------------१३५-----Page-------------------१३६-----Page-------------------१३७-----Page-------------------१३८-----Page-------------------१३९-----Page-------------------१४०-----Page-------------------१४१-----Page-------------------१४२-----Page-------------------१४३-----Page-------------------१४४-----Page-------------------१४५-----Page-------------------१४६-----Page-------------------१४७-----Page-------------------१४८-----Page-------------------१४९-----Page-------------------१५०-----Page-------------------१५१-----Page-------------------१५२-----Page-------------------१५३-----Page-------------------१५४-----Page-------------------१५५-----Page-------------------१५६-----Page-------------------१५७-----Page-------------------१५८-----Page-------------------१५९-----Page-------------------१६०-----Page-------------------१६१-----Page-------------------१६२-----Page-------------------१६३-----Page-------------------१६४-----Page-------------------१६५-----Page-------------------१६६-----Page-------------------१६७-----Page-------------------१६८-----Page-------------------१६९-----Page-------------------१७०-----Page-------------------१७१-----Page-------------------१७२-----Page-------------------१७३-----Page-------------------१७४-----Page-------------------१७५-----Page-------------------१७६-----Page-------------------१७७-----Page-------------------१७८-----Page-------------------१७९-----Page-------------------१८०-----Page-------------------१८१-----Page-------------------१८२-----Page-------------------१८३-----Page-------------------१८४-----Page-------------------१८५-----Page-------------------१८६-----Page-------------------१८७-----Page-------------------१८८-----Page-------------------१८९-----Page-------------------१९०-----Page-------------------१९१-----Page-------------------१९२-----Page-------------------१९३-----Page-------------------१९४-----Page-------------------१९५-----Page-------------------१९६-----Page-------------------१९७-----Page-------------------१९८-----Page-------------------१९९-----Page-------------------२००-----Page-------------------२०१-----Page-------------------२०२-----Page-------------------२०३-----Page-------------------२०४-----Page-------------------२०५-----Page-------------------२०६-----Page-------------------२०७-----Page-------------------२०८-----Page-------------------२०९-----Page-------------------२१०-----Page-------------------२११-----Page-------------------२१२-----Page-------------------२१३-----Page-------------------२१४-----Page-------------------२१५-----Page-------------------२१६-----Page-------------------२१७-----Page-------------------२१८-----Page-------------------२१९-----Page-------------------२२०-----Page-------------------२२१-----Page-------------------२२२-----Page-------------------२२३-----Page-------------------२२४-----Page-------------------२२५-----Page-------------------२२६-----Page-------------------२२७-----Page-------------------२२८-----Page-------------------२२९-----Page-------------------२३०-----Page-------------------२३१-----Page-------------------२३२-----Page-------------------२३३-----Page-------------------२३४-----Page-------------------२३५-----Page-------------------२३६-----Page-------------------२३७-----Page-------------------२३८-----Page-------------------२३९-----Page-------------------२४०-----Page-------------------२४१-----Page-------------------२४२-----Page-------------------२४३-----Page-------------------२४४-----Page-------------------२४५-----Page-------------------२४६-----Page-------------------२४७-----Page-------------------२४८-----Page-------------------२४९-----Page-------------------२५०-----Page-------------------२५१-----Page-------------------२५२-----Page-------------------२५३-----Page-------------------२५४-----Page-------------------२५५-----Page-------------------२५६-----Page-------------------२५७-----Page-------------------२५८-----Page-------------------२५९-----Page-------------------२६०-----Page-------------------२६१-----Page-------------------२६२-----Page-------------------२६३-----Page-------------------२६४-----Page-------------------२६५-----Page-------------------२६६-----Page-------------------२६७-----Page-------------------२६८-----Page-------------------२६९-----Page-------------------२७०-----Page-------------------२७१-----Page-------------------२७२-----Page-------------------२७३-----Page-------------------२७४-----Page-------------------२७५-----Page-------------------२७६-----Page-------------------२७७-----Page-------------------२७८-----Page-------------------२७९-----Page-------------------२८०-----Page-------------------२८१-----Page-------------------२८२-----Page-------------------२८३-----Page-------------------२८४-----Page-------------------२८५-----Page-------------------२८६-----Page-------------------२८७-----Page-------------------२८८-----Page-------------------२८९-----Page-------------------२९०-----Page-------------------२९१-----Page-------------------२९२-----Page-------------------२९३-----Page-------------------२९४-----Page-------------------२९५-----Page-------------------२९६-----Page-------------------२९७-----Page-------------------२९८-----Page-------------------२९९-----Page-------------------३००-----Page-------------------३०१-----Page-------------------३०२-----Page-------------------३०३-----Page-------------------३०४-----Page-------------------३०५-----Page-------------------३०६-----Page-------------------३०७-----Page-------------------३०८-----Page-------------------३०९-----Page-------------------३१०-----Page-------------------३११-----Page-------------------३१२-----Page-------------------३१३-----Page-------------------३१४-----Page-------------------३१५-----Page-------------------३१६-----Page-------------------३१७-----Page-------------------३१८-----Page-------------------३१९-----Page-------------------३२०-----Page-------------------३२१-----Page-------------------३२२-----Page-------------------३२३-----Page-------------------३२४-----Page-------------------३२५-----Page-------------------३२६-----Page-------------------३२७-----Page-------------------३२८-----Page-------------------३२९-----Page-------------------३३०-----Page-------------------३३१-----Page-------------------३३२-----Page-------------------३३३-----Page-------------------३३४-----Page-------------------३३५-----Page-------------------३३६-----Page-------------------३३७-----Page-------------------३३८-----Page-------------------३३९-----Page-------------------३४०-----Page-------------------३४१-----Page-------------------३४२-----Page-------------------३४३-----Page-------------------३४४-----Page-------------------३४५-----Page-------------------३४६-----Page-------------------३४७-----Page-------------------३४८-----Page-------------------३४९-----Page-------------------३५०-----Page-------------------३५१-----Page-------------------३५२-----Page-------------------३५३-----Page-------------------३५४-----Page-------------------३५५-----Page-------------------३५६-----Page-------------------३५७-----Page-------------------३५८-----Page-------------------३५९-----Page-------------------३६०-----Page-------------------३६१-----Page-------------------३६२-----Page-------------------३६३-----Page-------------------३६४-----Page-------------------३६५-----Page-------------------३६६-----Page-------------------३६७-----Page-------------------३६८-----Page-------------------३६९-----Page-------------------३७०-----Page-------------------३७१-----Page-------------------३७२-----Page-------------------३७३-----Page-------------------३७४-----Page-------------------३७५-----Page-------------------३७६-----Page-------------------३७७-----Page-------------------३७८-----Page-------------------३७९-----Page-------------------३८०-----Page-------------------३८१-----Page-------------------३८२-----Page-------------------३८३-----Page-------------------३८४-----Page-------------------३८५-----Page-------------------३८६-----Page-------------------३८७-----Page-------------------३८८-----Page-------------------३८९-----Page-------------------३९०-----Page-------------------३९१-----Page-------------------३९२-----Page-------------------३९३-----Page-------------------३९४-----Page-------------------३९५-----Page-------------------३९६-----Page-------------------३९७-----Page-------------------३९८-----Page-------------------३९९-----Page-------------------४००-----Page-------------------४०१-----Page-------------------४०२-----Page-------------------४०३-----Page-------------------४०४-----Page-------------------४०५-----Page-------------------४०६--केशवादिनामभिर्वा धारयेत् । ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहु-मूलेषु वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् । यतिस्तर्जन्या शिरोललाट-हृदयेषु प्रणवेनैव धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणिछन्दांसि त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानःपुण्ड्रास्त्रय ऊर्ध्वा अकार उकारो मकार एते प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदे-तदोमिति । तानेकधा समभवत् । ऊर्ध्वमुन्नमयत इत्यॐकाराधिकारी । तस्मा-दूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे प्रणवेणैकमूर्ध्वपुण्ड्रं वा धारयेत् ।तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी मत्सायुज्यमवाप्नोति । अथवान्यस्तहृदयपुण्ड्रमध्ये वा । हृदयकमलमध्ये वा तस्य मध्ये वह्निशिखा अणी-योर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा । नीवार-शूकवत्तन्वी विद्युल्लेखेव भास्वरा । तस्याः शिखाया मध्ये परमात्माव्यवस्थित इति । अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् । क्रमादेवंस्वात्मानं भावयेन्मां परं हरिम् । एकाग्रमनसा यो मां ध्यायते हरि-मव्ययम् । हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः । मद्रूप-मद्वयं ब्रह्म आदिमध्यान्तवर्जितम् । स्वप्रभं सच्चिदानन्दं भक्त्या जानातिचाव्ययम् । एको विष्णुरनेकेषु जङ्गमस्थावरेषु च । अनुस्यूतो वसत्यात्माभूतेष्वहमवस्थितः । तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषुभूतेषु तथात्माऽवस्थितो ह्यहम् । ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् । ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रो-र्ध्वयोगवान् । ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् । इत्येतन्निश्चितंज्ञानं मद्भक्त्या सिद्ध्यति स्वयम् । नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधार-णात् । ब्राह्मणानां तु सर्वेषां वैदिकानामनुत्तमम् । गोपीचन्दनवारिभ्यामू-र्ध्वपुण्ड्रं विधीयते । यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् । मुमुक्षुर्धा-रयेन्नित्यमपरोक्षात्मसिद्धये । अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदं विष्णु-स्त्रीणि पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्घूलनं कुर्यात् । एवं विधिना गोपी-चन्दनं च धारयेत् । यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति । पाप-बुद्धिस्तस्य न जायते स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्यज्ञैर्याजितोभवति । सर्वैर्देवैः पूज्यो भवति । श्रीमन्नारायणे मय्यचञ्चला भक्तिश्चभवति । स सम्यग् ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति । न च पुनरा-----Page------------------४०७--वर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः । यस्त्वेतद्वाऽधीते सोऽप्ये-वमेव भवतीत्यॐ सत्यमित्युपनिषत् ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥इति वासुदेवोपनिषत्समाप्ता ॥५९॥

मुद्गलोपनिषत् ॥६०॥

[सम्पाद्यताम्]

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥ॐ वाङ्मे मनसीति शान्तिः ॥ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः ॥ पुरुषसंहितायां पुरुषसूक्तार्थःसंग्रहेण प्रोच्यते । सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राहदशाङ्गुलवचस्तथा ॥१॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्विती-यया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥२॥

विष्णोर्मोक्षप्रदत्वं चकथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥३॥

एतेनैवच मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्॥४॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिःप्रदर्शिता ॥५॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयःसमिधश्च समीरिताः ॥६॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैवच मन्त्रेण मोक्षश्च समुदीरितः ॥७॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समी-रिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥८॥

यज्ञेनेत्युपसंहारःसृष्टेर्मोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥९॥१॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । वासु-देव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परम-रहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् । द्वौ खण्डावुच्येते ।योऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहायक्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदंयेषमाददे । तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् । पुरुषोनारायणो भूतं भव्यं भविष्यच्चासीत् । स एष सर्वेषां मोक्षदश्चासीतं । स च-----Page-----------------४०८-----Page-------------------४०९--त्पूतो भवति । परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेर्ष्यादिभिरबा-धितो भवति । सर्वेभ्यः पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति ।तस्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादी-क्षितायोपदिशेत् । नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने नबहुभाषिणे नाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदायोपदिशेत् ।गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नायशिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् । न बहुशो वदेत् । यात-यामो भवति । असकृत्कर्णमुपदिशेत् । एतत्कुर्वाणोऽध्येताऽध्यापकश्च इहजन्मनि पुरुषो भवतीत्युपनिषत् ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥

इति मुद्गलोपनिषत्समाप्ता ॥६०॥