ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-४१-५०

विकिस्रोतः तः

ध्यानबिन्दूपनिषत् ॥४१॥[सम्पाद्यताम्]

ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः ।योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥ॐ सह नाववत्विति शान्तिः ॥यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । भिद्यते ध्यानयोगेन नान्योभेदः कदाचन ॥१॥

बीजाक्षरं परं बिन्दुं नादं तस्योपरि स्थितम् । सशब्दंचाक्षरे क्षीणे निःशब्दं परमं पदम् ॥२॥

अनाहतं तु यच्छब्दं तस्य शब्दस्ययत्परम् । तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥३॥

वालाग्रशतसा-हस्रं तस्य भागस्य भागिनः । तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम्॥४॥

पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् । तिलमध्ये यथा तैलंपाषाणेष्विव काञ्चनम् ॥५॥

एवं सर्वाणि भूतानि मणौ सूत्रमिवात्मनि ।स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥६॥

तिलानां तु यथा तैलं पुष्पेगन्ध इवाश्रितः । पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥७॥

वृक्षंतु विद्याच्छाया सकलं तस्यैव निष्कला । सकले निष्कले भावे सर्वत्रात्माव्यवस्!थितः ॥८॥

ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः । पृथिव्यग्निश्चऋग्वेदो भूरित्येव पितामहः ॥९॥

अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥१०॥

उकारे तु लयं प्राप्ते द्वितीयेप्रणवांशके । द्योः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥११॥

मकारे तुलयं प्राप्ते तृतीये प्रणवांशके । अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥१२॥

उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः । अष्टाङ्गं च चतुष्पादं त्रिस्थानंपञ्चदैवतम् ॥१३॥

ॐकारं यो न जानाति ब्रह्मणो न भवेत्तु सः । प्रणवोधनुः शरो ह्यात्मा ब्रह्म तल्लेक्ष्यमुच्यते ॥१४॥

अप्रमत्तेन वेद्धव्यं शरवत्त-----Page------------------२८७--न्मयो भवेत् । निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥१५॥

ॐकार-प्रभवा देवा ॐकारप्रभवाः स्वराः । ॐकारप्रभवं सर्वं त्रैलोक्यं सचराच-रम् ॥१६॥

ह्रस्वो दहति पापानि दीर्घः संपत्प्रदोऽव्ययः । अर्धमात्रासमा-युक्तः प्रणवो मोक्षदायकः ॥१७॥

तैलधारामिवाच्छिन्नं दीर्घघण्टानिना-दवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥१८॥

हृत्पद्मकर्णिका-मध्ये स्थिरदीपनिभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदॐकारमीश्वरम् ॥१९॥

इडया वायुमापूर्य पूरयित्वोदरस्थितम् । ॐकारं देहमध्यस्थं ध्यायेज्ज्वालाव-लीवृतम् ॥२०॥

ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । रेचो रुद्रैति प्रोक्तः प्राणायामस्य देवताः ॥२१॥

आत्मानमरणिं कृत्वा प्रणवंचोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥२२॥

ॐकार-ध्वनिनादेन वायोः संहरणान्तिकम् । यावद्बलं समादध्यात्सम्यङ्नादलयावधि॥२३॥

गमागमस्थं गमनादिशून्यमॐकारमेकं रविकोटिदीप्तिम् । पश्यन्तिये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥२४॥

यन्मनस्त्रिजग-त्सृष्टिस्थितिव्यसनकर्मकृत् । तन्मनो विलयं याति तद्विष्णोः परमं पदम्॥२५॥

अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् । तस्य मध्ये स्थितोभानुर्भानुमध्यगतः शशी ॥२६॥

शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा ।प्रभामध्यगतं पीतं नानारत्नप्रवेष्टितम् ॥२७॥

तस्य मध्यगतं देवं वासुदेवंनिरञ्जनम् । श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥२८॥

शुद्धस्फटि-कसंकाशं चन्द्रकोटिसमप्रभम् । एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः॥२९॥

अतसीपुप्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । चतुर्भुजं महाविष्णुंपूरकेण विचिन्तयेत् ॥३०॥

कुम्भकेन हृदि स्थाने चिन्तयेत्कमलासनम् ।ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥३१॥

रेचकेन तु विद्यात्मा ललाटस्थंत्रिलोचनम् । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥३२॥

अब्जपत्रम-धःपुष्पमूर्ध्वनालमधोमुखम् । कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥३३॥

शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । तत्रार्कचन्द्रवह्नीनामुपर्युपरिचिन्तयेत् ॥३४॥

पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । तस्य हृद्बी-जमाहृत्य आत्मानं चरते ध्रुवम् ॥३५॥

त्रिस्थानं च त्रिपात्रं च त्रिब्रह्म चत्रयाक्षरम् । त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥३६॥

तैलधारा-मिवाच्छिन्नदीर्घघण्टानिनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित्-----Page-----------------२८८--॥३७॥

यथैवोत्पलनालेन त्योमाकर्षयेन्नरः । तथैवोत्कर्षयेद्वायुं योगीयोगपथे स्थितः ॥३८॥

अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् ।कर्षयेन्नालमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥३९॥

भ्रुवोर्मध्ये ललाटे तु नासि-कायास्तु मूलतः । जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥४०॥

आसनंप्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्तिषट् ॥४१॥

आसनानि च तावन्ति यावन्त्यो जीवजातयः । एतेषामतुला-न्भेदान्विजानाति महेश्वरः ॥४२॥

छिद्रं भद्रं तथा सिंहं पद्मं चेति चतु-ष्टयम् । आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥४३॥

योनिस्थानंतयोर्मध्ये कामरूपं निगद्यते । आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम्॥४४॥

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । योनिमध्येस्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥४५॥

मस्तके मणिवद्भिन्नं यो जानातिस योगवित् । तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥४६॥

चतुरस्रमु-पर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम्॥४७॥

स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । मणिवत्तन्तुना यत्र वायुनापूरितं वपुः ॥४८॥

तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । द्वादशा-रमहाचक्रे पुण्यपापनियन्त्रितः ॥४९॥

तावज्जीवो भ्रमत्येवं यावत्तत्त्वं नविन्दति । ऊर्ध्वं मेढ्रादधो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥५०॥

तत्रनाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदा-हृताः ॥५१॥

प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । इडा चपिङ्गला चैव सुषुम्ना च तृतीयका ॥५२॥

गान्धारी हस्तिजिह्वा च पूपा चैवयशस्विनी । अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥५३॥

एवं नाडी-मयं चक्रं विज्ञेयं योगिना सदा । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः॥५४॥

इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः । इडा वामे स्थिताभागे पिङ्गला दक्षिणे स्थिता ॥५५॥

सुषुम्ना मध्यदेशे तु प्राणमार्गा-स्त्रयः स्मृताः । प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥५६॥

नागः कूर्मः कृकरको देवदत्तो धनंजयः । प्राणाद्याः पञ्च विख्याता ना-गाद्याः पञ्च वायवः ॥५७॥

एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ।प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥५८॥

वामदक्षिणमा-र्गेण चञ्चलत्वान्न दृश्यते । आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः-----Page-----------------२८९--॥५९॥

प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । अपानात्कर्षतिप्राणोऽपानः प्राणाच्च कर्षति ॥६०॥

खगरज्जुवदित्येतद्यो जानाति स योग-वित् । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥६१॥

हंसहंसेत्यमुं मन्त्रंजीवो जपति सर्वदा । शतानि षड्दिवारात्रं सहस्राण्येकविंशतिः ॥६२॥

एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनांमोक्षदा सदा ॥६३॥

अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते । अनयासदृशी विद्या अनया सदृशो जपः ॥६४॥

अनया सदृशं पुण्यं न भूतं नभविष्यति । येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥६५॥

मुखेना-च्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । प्रबुद्धा वह्नियोगेन मनसा मरुता सह॥६६॥

सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया । उद्घाटयेत्कपाटं तु यथाकुञ्चिकया हठात् ॥६७॥

कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत्॥६८॥

कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनं गाढं वक्षसि सन्नि-धाय चुबुकं ध्यानं च तच्चेतसि । वारंवारमपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितंमुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥६९॥

पद्मासनस्थितो योगीनाडीद्वारेषु पूरयन् । मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥७०॥

अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा । कट्वम्ललवणत्यागी क्षीरपानरतःसुखी ॥७१॥

ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवे-त्सिद्धो नात्र कार्या विचारणा ॥७२॥

कन्दोर्ध्वकुण्डली शक्तिः स योगीसिद्धिभाजनम् । अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः ॥७३॥

युवा भवतिवृद्धोऽपि सततं मूलबन्धनात् । पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम्॥७४॥

अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते । उड्याणं कुरुते यस्माद-विश्रान्तमहाखगः ॥७५॥

उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । उदरेपश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥७६॥

उड्डियाणोऽप्ययं बन्धो मृत्यु-मातङ्गकेसरी । बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥७७॥

ततोजालन्धरो बन्धः कर्मदुःखौघनाशनः । जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे॥७८॥

न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । कपालकुहरे जिह्वाप्रविष्टा विपरीतगा ॥७९॥

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । नरोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥८०॥

न च मूर्च्छा भवेत्तस्य योमुद्रां वेत्ति खेचरीम् । पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥८१॥


Page-----------------२९०--बन्धते न च कालेन यस्य मुद्रास्ति खेचरी । चित्तं चरति खे यस्माज्जिह्वाभवति खे गता ॥८२॥

तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता । खेचर्यामुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥८३॥

बिन्दुः क्षरति नो यस्य कामि-न्यालिङ्गितस्य च । यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥८४॥

यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति । गलितोऽपि यदा बिन्दुः संप्राप्तोयोनिमण्डले ॥८५॥

व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया । स एवद्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥८६॥

पाण्डरं शुक्रमित्याहर्लोहि-ताख्यं महारजः । विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥८७॥

शशिस्थाने वसेद्बिन्दुस्तयोरैक्यं सुदुर्लभम् । बिन्दुः शिवो रजः शक्तिर्बिन्दु-रिन्दू रजो रविः ॥८८॥

उभयोः संगमादेव प्राप्यते परमं वपुः । वायुनाशक्तिचालेन प्रेरितं खे यथा रजः ॥८९॥

रविणैकत्वमायाति भवेद्दिव्यंवपुस्तदा । शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥९०॥

द्वयोः समरसी-भावं यो जानाति स योगवित् । शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥९१॥

रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥९२॥

वक्षोन्यस्तहनुर्नि-पीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन्प्रविततं पादं तथादक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचयेदेषा पातकनाशिनीननु महामुद्रा नृणां प्रोच्यते ॥९३॥

अथात्मनिर्णयं व्याख्यास्ये ॥ हृदि-स्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूप-मणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्व-मेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशःस्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥ पूर्वदले विश्रमते पूर्वं दलं श्वेत-वर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥ यदाऽऽग्नेयदले विश्रमते तदाग्नेयदलंरक्तवर्णं तदा निद्रालस्यमतिर्भवति ॥ यदा दक्षिणदले विश्रमते तद्दक्षिणदलंकृष्णवर्णं तदा द्वेषकोपमतिर्भवति ॥ यदा नैरृतदले विश्रमते तद्वन्नैरृतदलंनीलवर्णं तदा पापकर्महिंसामतिर्भवति ॥ यदा पश्चिमदले विश्रमते तत्प-श्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति ॥ यदा वायव्यदलेविश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गारमतिर्भवति ॥यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामति-----Page------------------२९१--र्भवति ॥ यदा संधिसंधिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपोभवति ॥ यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्या-नन्दं करोति ॥ यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयंकृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्थाभवति ॥ निद्रावस्थामध्ये स्वप्नावस्था भवति ॥ स्वप्नावस्थामध्ये दृष्टंश्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखाइन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसंबन्धिनीबुद्धिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वररूपेण प्राप्तिर्भवति ॥तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदातुरीयावस्था भवति तुरीये केवलपरमात्मसंबन्धिनी भवति नित्यबोधस्वरूपाभवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतमात्मसंस्थं मनः कृत्वा नकिंचिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यंधारयति । यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वा-तीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपेणप्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपाया भवन्ति ॥चतुष्पथसमायुक्तमहाद्वारगवायुना । सहस्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः॥९४॥

पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । प्राणादि-पञ्चवायुश्च बीजं वर्णं च स्थानकम् । यकारं प्राणबीजं च नीलजीमूतसन्नि-भम् । रकारमग्निबीजं च अपानादित्यसंनिभम् ॥९५॥

लकारं पृथिवीरूपंव्यानं बन्धूकसंनिभम् । वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥९६॥

हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् । हृन्नाभिनासाकर्णं च पादाङ्गु-ष्ठादिसंथितम् ॥९७॥

द्विसप्ततिसहस्राणि नाडीवर्गेषु वर्तते । अष्टाविं-शतिकोटीषु रोमकूपेषु संथिताः ॥९८॥

समानप्राण एकस्तु जीवः स एकएव हि । रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥९९॥

शनैः समस्तमा-कृष्य हृत्सरोरुहकोटरे । प्राणापानौ च बध्वा तु प्रणवेन समच्चरेत् ॥१००॥

कर्णसंकोचनं कृत्वा लिङ्गसंकोचनं तथा । मूलाधारात्सुषुम्ना च पद्मतन्तुनिभाशुभा ॥१०१॥

अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः । शङ्खनादादि-भिश्चैव मध्यमेव ध्वनिर्यथा ॥१०२॥

व्योमरन्ध्रगतो नादो मायूरं नादमेव-----Page-----------------२९२--च । कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥१०३॥

तदात्मा राजते तत्रयथा व्योम्नि दिवाकरः । कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥१०४॥

स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् । रत्नानि ज्योत्स्निनादं तु बिन्दुमा-हेश्वरं पदम् । य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥१०५॥

ॐ सह नाववत्विति शान्तिः ॥इति ध्यानबिन्दूपनिषत्समाप्ता ॥४१॥

ब्रह्मविद्योपनिषत् ॥४२॥[सम्पाद्यताम्]

स्वाविद्यावत्कार्यजातं यद्विद्यापह्नवं गतम् ।तद्घंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥ॐ सह नाववत्विति शान्तिः ॥अथ ब्रह्मविद्योपनिषदुच्यते ॥ प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते ॥१॥

ॐमित्येकाक्षरं ब्रह्म यदुक्तंब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥२॥

तत्र देवा-स्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्यशिवस्य तु ॥३॥

ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । अकारस्यशरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥४॥

यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्त-थैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥५॥

सामवेदस्तथा द्यौश्चा-हबनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥६॥

सूर्य-मण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यव-स्थितः ॥७॥

मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । तिस्रो मात्रा-स्तथा ज्ञेयाः सोमसूर्याग्निरूपिणः ॥८॥

शिखा तु दीपसंकाशा तस्मिन्नुपरिवर्तते । अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥९॥

पद्मसूत्रनिभासूक्ष्मा शिखा सा दृश्यते परा । सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा॥१०॥

द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । वरदः सर्वभूतानां सर्वंव्याप्यावतिष्ठति ॥११॥

कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओङ्का-रस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥१२॥

यस्मिन्विलीयते शब्दस्त-त्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥१३॥

वायुः-----Page-----------------२९३--प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । स जीवः प्राण इत्युक्तो वालाग्रशत-कल्पितः ॥१४॥

नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । आदित्यमिवदीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥१५॥

सकारं च हकारं च जीवो जपतिसर्वदा । नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥१६॥

तेनेदं निष्कलंविद्यात्क्षीरात्सर्पिर्यथा तथा । कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः॥१७॥

चतुष्कलासमायुक्तो भ्राम्यते च हृदि स्थितः । गोलकस्तु यदादेहे क्षीरदण्डेन वा हतः ॥१८॥

एतस्मिन्वसते शीघ्रमविश्रान्तं महा-खगः । यावन्निःश्वसितो जीवस्तावन्निष्कलतां गतः ॥१९॥

नभस्थं निष्कलंध्यात्वा मुच्यते भवबन्धनात् । अनाहतध्वनियुतं हंसं यो वेद हृद्गतम्॥२०॥

स्वप्रकाशचिदानंदं स हंस इति गीयते । रेचकं पूरकं मुक्त्वाकुम्भकेन स्थितः सुधीः ॥२१॥

नाभिकन्दे समौ कृत्वा प्राणापानौसमाहितः । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥२२॥

दीपाकारंमहादेवं ज्वलन्तं नाभिमध्यमे । अभिषिच्यामृतेनैव हंस हंसेति यो जपेत्॥२३॥

जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणि-मादिविभूतये ॥२४॥

ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । बहवोनैकमार्गेण प्राप्ता नित्यत्वमागताः ॥२५॥

हंसविद्यामृते लोके नास्तिनित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥२६॥

तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । शुभं वाऽशुभमन्यद्वा यदुक्तंगुरुणा भुवि ॥२७॥

तत्कुर्यादविचारेण शिष्यः संतोषसंयुतः । हंसविद्या-मिमां लब्ध्वा गुरुशुश्रूषया नरः ॥२८॥

आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वासुनिश्चलम् । देहजात्यादिसंबन्धान्वर्णाश्रमसमन्वितान् ॥२९॥

वेदशास्त्राणिचान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः॥३०॥

गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छ्रुतिः ॥३१॥

श्रुत्या यदुक्तंपरमार्थमेव तत्संशयो नात्र ततः समस्तम् । श्रुत्या विरोधे न भवेत्प्रमाणंभवेदनर्थाय विना प्रमाणम् ॥३२॥

देहस्थः सकलो ज्ञेयो निष्कलो देहव-र्जितः । आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥३३॥

हंसहंसेति योब्रूयाद्धंसो ब्रह्मा हरिः शिवः । गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥३४॥

तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन्स बाह्या-भ्यन्तरे तथा ॥३५॥

उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् ।-----Page-----------------२९४--ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥३६॥

पुष्पवत्सकलं विद्याद्ग-न्धस्तस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥३७॥

निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैवनिष्कलः ॥३८॥

सकले सकलो भावो निष्कले निष्कलस्तथा । एकमात्रोद्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥३९॥

अर्धमात्रा परा ज्ञेया तत ऊर्ध्वंपरात्परम् । पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥४०॥

ब्रह्मणो हृदयस्थानंकण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥४१॥

नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । परत्वात्तु परं नास्तीत्येवंशास्त्रस्य निर्णयः ॥४२॥

देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् ।तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥४३॥

मनोऽप्यन्यत्र निक्षिप्तंचक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥४४॥

एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । नातः परतरं किंचिन्नातः परतरंशुभम् ॥४५॥

शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । गुह्याद्गुह्य-तमं गोप्यं ग्रहणीयं प्रयत्नतः ॥४६॥

नापुत्राय प्रदातव्यं नाशिष्यायकदाचन । गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥४७॥

प्रदातव्यमिदंशास्त्रं नेतरेभ्यः प्रदापयेत् । दाताऽस्य नरकं याति सिड्यते न कदाचन ॥४८॥

गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमा-क्षरवित्सदा ॥४९॥

विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञाना-देवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥५०॥

ब्रह्महत्याश्वमेधाद्यैः पुण्य-पापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥५१॥

इत्येषांत्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्गं बोधकः स्थानमा-चरेत् ॥५२॥

मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । प्रत्यक्षयजनं देहेसंक्षेपाच्छृणु गौतम ॥५३॥

तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् ।स्वयमेव तु संपश्येद्देहे बिन्दुं च निष्कलम् ॥५४॥

अयने द्वे च विषुवे सदापश्यति मार्गवित् । कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥५५॥

पूर्वंचोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत्॥५६॥

सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवोक्तंतोये तोयं यथा तथा ॥५७॥

एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः ।तद्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥५८॥

योगध्यानं सदा कृत्वा-----Page-----------------२९५--ज्ञानं तन्मयतां व्रजेत् । ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥५९॥

प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । हंस एव परं सत्यं हंस एवतु शक्तिकम् ॥६०॥

हंस एव परं वाक्यं हंस एव तु वादिकम् । हंस एवपरो रुद्रो हंस एव परात्परम् ॥६१॥

सर्वदेवस्य मध्यस्थो हंस एव महे-श्वरः । पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥६२॥

कूटान्ता हंसएव स्यान्मातृकेति व्यवस्थिताः । मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित्॥६३॥

हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । दक्षिणामुखमाश्रित्यज्ञानमुद्रां प्रकल्पयेत् ॥६४॥

सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् ।निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥६५॥

मध्यदेशे परं हंसं ज्ञानमु-द्रात्मरूपकम् । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥६६॥

पञ्च-कर्मेन्द्रियैर्युक्ताः क्रियाशक्तिबलोद्यताः । नागः कूर्मश्च कृकरो देवदत्तो धनंजयः॥६७॥

पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । पावकः शक्तिमध्ये तुनाभिचक्रे रविः स्थितः ॥६८॥

बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने ।अकारे वह्निरित्याहुरुकारे हृदि संस्थितः ॥६९॥

मकारे च भ्रुवोर्मध्येप्राणशक्त्या प्रबोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥७०॥

रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारेविष्णुरास्थितः ॥७१॥

मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः ।कण्ठं संकुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥७२॥

रसना पीड्यमा-नेयं षोडशी बोर्ध्वगामिनी । त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा॥७३॥

त्रिशङ्खवज्रमॐकारमूर्ध्वनालं भ्रुवोर्मुखम् । कुण्डलीं चालयन्प्राणा-न्भेदयन्शशिमण्डलम् ॥७४॥

साधयन्वज्रकुम्भानि नव द्वाराणि बन्धयेत् ।सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥७५॥

ब्रह्मस्थाने तु नादः स्याच्छा-किन्यमृतवर्षिणी । षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥७६॥

सर्व-भूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । आत्मरूपं तमालोक्य ज्ञानरूपं निरा-मयम् ॥७७॥

दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । हंस हंस वदे-द्वाक्यं प्राणिनां देहमाश्रितः । सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥७८॥

सहस्रमेकं द्व्ययुतं षट्शतं चैव सर्वदा । उच्चरन्पठितो हंसः सोऽहमित्यभिधी-यते ॥७९॥

पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । ज्योतिर्लिंगंभ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥८०॥

अच्युतोऽहमचिन्त्योऽहमतर्क्यो-----Page------------------२९६--ऽहमजोऽस्म्यहम् । अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥८१॥

अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । अरसोऽहमगन्धोऽहमनादिरमृ-तोऽस्म्यहम् ॥८२॥

अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्रा-णोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥८३॥

अन्तर्याम्यहमग्राह्यो-ऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥८४॥

अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽ-मरोऽस्म्यहम् ॥८५॥

अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अम-तोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥८६॥

अरजस्कोऽतमस्कोऽहमस-त्त्वोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥८७॥

अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । अश्रोताऽहमदीर्घोऽहमव्यक्तोऽहम-नामयः ॥८८॥

अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहम-लेपोऽहमकर्तास्म्यहमद्वयः ॥८९॥

अविद्याकार्यहीनोऽहमवाग्रसनगोचरः ।अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥९०॥

आदिमध्यान्तही-नोऽहमाकाशसदृशोऽस्म्यहम् । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥९१॥

आनन्दामृतरूपोऽहमात्मसंस्थोऽहमन्तरः । आत्मकामोऽहमाकाशात्पर-मात्मेश्वरोऽस्म्यहम् ॥९२॥

ईशानोऽस्म्यहमीड्योऽहमहमुत्तमपूरुषः ।उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥९३॥

केवलोऽहं कविः कर्मा-ध्यक्षोऽहं करणाधिपः । गुह्यशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥९४॥

चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्मयोऽस्म्यहंज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥९५॥

तमसः साक्ष्यहं तुर्यतुर्योऽहंतमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥९६॥

नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽ-ऽहं निराख्यातोऽस्मि निश्चलः ॥९७॥

निर्विकारो नित्यपूतो निर्गुणो नि-स्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥९८॥

पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्राज्ञः प्रपञ्चो-पशमोऽस्म्यहम् ॥९९॥

परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः ।पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥१००॥

प्रज्ञातोऽहं प्रशा-न्तोऽहं प्रकाशः परमेश्वरः । एकधा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः॥१०१॥

बुद्धोऽहं भूतपालोऽहं भारूपोऽहं भगवानहम् । महाज्ञेयो महा-----Page------------------२९७--नस्ति महाज्ञेयो महेश्वरः ॥१०२॥

विमुक्तोऽहं विभुरहं वरेण्यो व्या-पकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥१०३॥

विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तो-ऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥१०४॥

सर्वभूतान्तरात्माहमहमस्मिसनातनः । अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥१०५॥

सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । सर्वभूताधिवासोऽहं स-र्वव्यापी स्वराडहम् ॥१०६॥

समस्तसाक्षी सर्वात्मा सर्वभूतगुहा-शयः । सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥१०७॥

स्थानत्रयव्यती-तोऽहं सर्वानुग्राहकोऽस्म्यहम् । सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम्॥१०८॥

सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । सत्त्वस्वरूपस-न्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥१०९॥

सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरो-ऽस्म्यहम् । सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥११०॥

एवं योवेद तत्त्वेन स वै पुरुष उच्यते इत्युपनिषत् ॥ ॐ सह नाववत्विति शान्तिः ॥इति ब्रह्मविद्योपनिषत्समाप्ता ॥४२॥

योगतत्त्वोपनिषत् ॥४३॥[सम्पाद्यताम्]

योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः ।तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ॥ॐ सह नाववत्विति शान्तिः ॥योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छ्रुत्वा च पठित्वाच सर्वपापैः प्रमुच्यते ॥१॥

विष्णुर्नाम महायोगी महाभूतो महातपाः ।तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥२॥

तमाराध्य जगन्नाथं प्रणि-पत्य पितामहः । पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुक्तम् ॥३॥

तमु-वाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः । सर्वे जीवाः सुखैर्दुःखैर्माया-जालेन वेष्टिताः ॥४॥

तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् ।जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम् ॥५॥

नानामार्गैस्तु दुष्प्रापंकैवल्यं परमं पदम् । पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥६॥

अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि । स्वात्मप्रकाशरूपं तत्किं शा-----Page------------------२९८--स्त्रेण प्रकाश्यते ॥७॥

निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥८॥

परमात्मपदं नित्यं ततकथंजीवतां गतम् ॥ सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥९॥

वारिवत्स्फुरितंतस्मिंस्तत्राहंकृतिरुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥१०॥

सुखदुःखैः समायुक्तं जीवभावनया कुरु । तेन जीवाभिधा प्रोक्ता विशुद्धैःपरमात्मनि ॥११॥

कामक्रोधभयं चापि मोहलोभमदो रजः । जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥१२॥

तृष्णा लज्जा भयं दुःखंविषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥१३॥

तस्माद्दोषविनाशार्थमुपायं कथयामि ते । योगहीनं कथं ज्ञानं मोक्षदं भवतिध्रुवम् ॥१४॥

योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि । तस्माज्ज्ञानंच योगं च मुमुक्षुर्दृढमभ्यसेत् ॥१५॥

अज्ञानादेव संसारो ज्ञानादेवविमुच्यते । ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥१६॥

ज्ञातं येन निजंरूपं कैवल्यं परमं पदम् । निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥१७॥

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतज्ज्ज्ञानमिति प्रोक्तमथ योगंब्रवीमि ते ॥१८॥

योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः । मन्त्रयोगोलयश्चैव हठोऽसौ राजयोगतः ॥१९॥

आरम्भश्च घटश्चैव तथा परिचयःस्मृतः । निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥२०॥

एतेषां लक्षणंब्रह्मन्वक्ष्ये शृणु समासतः । मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत्॥२१॥

क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् । अल्पबुद्धिरिमं योगंसेवते साधकाधमः ॥२२॥

लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् ॥२३॥

स एव लययोगः स्या-द्घठयोगमतः शृणु । यमश्च नियमश्चैव आसनं प्राणसंयमः ॥२४॥

प्रत्याहारोधारणा च ध्यानं भ्रूमध्यमे हरिम् । समाधिः समतावस्था साष्टाङ्गो योगौच्यते ॥२५॥

महामुद्रा महाबन्धो महावेधश्च खेचरी । जालंधरोड्डियाणश्चमूलबन्धस्तथैव च ॥२६॥

दीर्घप्रणवसंधानं सिद्धान्तश्रवणं परम् । वज्रोलीचामरोली च सहजोली त्रिधा मता ॥२७॥

एतेषां लक्षणं ब्रह्मन्प्रत्येकंशृणु तत्त्वतः । लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः ॥२८॥

अहिंसानियमेष्वेका मुख्या वै चतुरानन । सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्॥२९॥

प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन । आलस्यं कत्थनं धूर्त-----Page------------------२९९--गोष्ठी मन्त्रादिसाधनम् ॥३०॥

धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै ।ज्ञात्वा सुधीस्त्यजेत्सर्वान्विघ्नान्पुण्यप्रभावतः ॥३१॥

प्राणायामं ततःकुर्यात्पद्मासनगतः स्वयम् । सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्व्रणम् ॥३२॥

सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः । मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः॥३३॥

दिने दिने च संमृष्टं संमार्जन्या विशेषतः । वासितं च सुगन्धेनधूपितं गुग्गुलादिभिः ॥३४॥

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥३५॥

ऋजुकायः प्राञ्जलिश्चप्रणमेदिष्टदेवताम् । ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥३६॥

निरुध्यपूरयेद्वायुमिडया तु शनैः शनैः । यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम्॥३७॥

पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरंशनैः ॥३८॥

धारयित्वा यथाशक्ति रेचयेदिडया शनैः । यया त्यजेत्तयापूर्यधारयेदविरोधतः ॥३९॥

जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥४०॥

इडया वायुमारोप्य शनैःषोडशमात्रया । कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥४१॥

रेचये-त्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः । पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः॥४२॥

प्रातर्मध्यंदिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारंसमभ्यसेत् ॥४३॥

एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् । यदा तुनाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥४४॥

जायन्ते योगिनो देहे तानिवक्ष्याम्यशेषतः । शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥४५॥

कृशत्वं चशरीरस्य तदा जायेत निश्चितम् । योगविघ्नकराहारं वर्जयेद्योगवित्तमः ॥४६॥

लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् । शाकजातं रामठादि वह्निस्त्री-पथसेवनम् ॥४७॥

प्रातःस्नानोपवासादिकायक्लेंशांश्च वर्जयेत् । अभ्यास-काले प्रथमं शस्तं क्षीराज्यभोजनम् ॥४८॥

गोधूममुद्गशाल्यन्नं योगवृद्धिकरंविदुः । ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥४९॥

यथेष्टधारणा-द्वायोः सिध्येत्केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥५०॥

नतस्य दुर्लभं किंचिन्त्रिषु लोकेषु विद्यते । प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत्॥५१॥

ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः । कम्पो भवति देहस्यआसनस्थस्य देहिनः ॥५२॥

ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते ।यथा च दर्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति ॥५३॥

पद्मासनस्थितो योगी तथा-----Page-----------------३००--गच्छति भूतले । ततोऽधिकतराभ्यासाद्भूमित्यागश्च जायते ॥५४॥

पद्मास-नस्थ एवासौ भूमिमुत्सृज्य वर्तते । अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत्॥५५॥

न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् । स्वल्पं वा बहुधा दुःखंयोगी न व्यथते तदा ॥५६॥

अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलवोदूषिका लाला स्वेददुर्गन्धतानने ॥५७॥

एतानि सर्वथा तस्य न जायन्तेततः परम् । ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु ॥५८॥

येन भूचर-सिद्धिः स्याद्भूचराणां जये क्षमः । व्याघ्रो वा शरभो वापि गजो गवय एव वा॥५९॥

सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः । कन्दर्पस्य यथा रूपंतथा स्यादपि योगिनः ॥६०॥

तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् ।यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥६१॥

वर्जयित्वा स्त्रियाः सङ्गंकुर्यादभ्यासमादरात् । योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥६२॥

ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया । जपेत्पूर्वार्जितानां तु पापानां नाश-हेतवे ॥६३॥

सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा । एवमभ्यासयोगेनसिद्धिरारम्भसंभवा ॥६४॥

ततो भवेद्धठावस्था पवनाभ्यासतत्परा । प्राणो-ऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥६५॥

अन्योन्यस्याविरोधेन एकताघटते यदा । हठावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥६६॥

पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् । दिवा वा यदि वा सायं याम-मात्रं समभ्यसेत् ॥६७॥

एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् । इन्द्रि-याणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥६८॥

योगी कुम्भकमास्थाय प्रत्या-हारः स उच्यते । यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥६९॥

यद्य-च्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् । लभते नासया यद्यत्तत्तदात्मेतिभावयेत् ॥७०॥

जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् । त्वचा यद्य-त्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥७१॥

एवं ज्ञानेन्द्रियाणां तु तत्तत्सौख्यंसुसाधयेत् । याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥७२॥

यथा वाचित्तसामर्थ्यं जायते योगिनो ध्रुवम् । दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरागमस्तथा॥७३॥

वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा । मलमूत्रप्रलेपेन लोहादेःस्वर्णता भवेत् ॥७४॥

खे गतिस्तस्य जायेत संतताभ्यासयोगतः । सदाबुद्धिमता भाव्यं योगिना योगसिद्धये ॥७५॥

एते विघ्ना महासिद्धेर्न रमे-त्तेषु बुद्धिमान् । न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराट् ॥७६॥

यथा-----Page-----------------३०१--मूढो यथा ह्यन्धो यथा बधिर एव वा । तथा वर्तेत लोकस्य स्वसामर्थ्यस्यगुप्तये ॥७७॥

शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः । तत्तत्कर्मकर-व्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥७८॥

अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तद-हर्निशम् । एवं भवेद्धठावस्था संतताभ्यासयोगतः ॥७९॥

अनभ्यासव-तश्चैव वृथागोष्ठ्या न सिद्ध्यति । तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत्॥८०॥

ततः परिचयावस्था जायतेऽभ्यासयोगतः । वायुः परिचितो यत्ना-दग्निना सह कुण्डलीम् ॥८१॥

भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ।वायुना सह चित्तं च प्रविशेच्च महापथम् ॥८२॥

यस्य चित्तं स्वपवनंसुषुम्नां प्रविशेदिह । भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः ॥८३॥

येषुपञ्चसु देवानां धारणा पञ्चधोच्यते । पादादि जानुपर्यन्तं पृथिवी स्थानमुच्यते॥८४॥

पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् । पार्थिवे वायुमारोप्य लका-रेण समन्वितम् ॥८५॥

ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् । धारये-त्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ॥८६॥

पृथिवीयोगतो मृत्युर्न भवे-दस्य योगिनः । आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ॥८७॥

आपोऽर्धचन्द्रं शुक्लं च वं बीजं परिकीर्तितम् । वारुणे वायुमारोप्य वकारेणसमन्वितम् ॥८८॥

स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् । शुद्धस्फटिक-संकाशं पीतवाससमच्युतम् ॥८९॥

धारयेत्पञ्च घटिकाः सर्वपापैः प्रमु-च्यते । ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते ॥९०॥

आ पायोर्हृदयान्तं चवह्निस्थानं प्रकीर्तितम् । वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् ॥९१॥

वह्नौचानिलमारोप्य रेफाक्षरसमुज्ज्वलम् । त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम्॥९२॥

भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् । धारयेत्पञ्च घटिका वह्निनासौन दह्यते ॥९३॥

न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले । आ हृदयाद्भ्रुवोर्मध्यंवायुस्थानं प्रकीर्तितम् ॥९४॥

वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ।मारुतं मरुतां स्थाने यकाराक्षरभासुरम् ॥९५॥

धारयेत्तत्र सर्वज्ञमीश्वरंविश्वतोमुखम् । धारयेत्पञ्च घटिका वायुवद्व्योमगो भवेत् ॥९६॥

मरणं न तुवायोश्च भयं भवति योगिनः । आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते॥९७॥

व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् । आकाशे वायुमारोप्यहकारोपरि शंकरम् ॥९८॥

बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ।शुद्धस्फटिकसंकाशं धृतबालेन्दुमौलिनम् ॥९९॥

पञ्चबक्त्रयुतं सौम्यं दश-----Page------------------३०२--बाहुं त्रिलोचनम् । सर्वायुधैर्घृताकारं सर्वभूषणभूषितम् ॥१००॥

उमार्ध-देहं वरदं सर्वकारणकारणम् । आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् ॥१०१॥

यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते । एवं च धारणाः पञ्च कुर्याद्योगीविचक्षणः ॥१०२॥

ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते । ब्रह्मणःप्रलयेनापि न सीदति महामतिः ॥१०३॥

समभ्यसेत्तथा ध्यानं घटिका-षष्टिमेव च । वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥१०४॥

सगुणंध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत्॥१०५॥

दिनद्वादशकेनैव समाधिं समवाप्नुयात् । वायुं निरुध्यमेधावी जीवन्मुक्तो भवत्ययम् ॥१०६॥

समाधिः समतावस्था जीवात्मपर-मात्मनोः । यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् ॥१०७॥

परब्रह्मणिलीयेत न तस्योत्क्रान्तिरिष्यते । अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि॥१०८॥

सर्वलोकेषु विहरन्नणिमादिगुणान्वितः । कदाचित्स्वेच्छया देवोभूत्वा स्वर्गे महीयते ॥१०९॥

मनुष्यो वापि यक्षो वा स्वेच्छयापीक्षणा-द्भवेत् । सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् ॥११०॥

यथेष्ट-भेव वर्तेत यद्वा योगी महेश्वरः । अभ्यासभेदतो भेदः फलं तु सममेव हि॥१११॥

पार्ष्णि वामस्य पादस्य योनिस्थाने नियोजयेत् । प्रसार्य दक्षिणंपादं हस्ताभ्यां धारयेद्दृढम् ॥११२॥

चुबुकं हृदि विन्यस्य पूरयेद्वायुनापुनः । कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥११३॥

वामाङ्गेन सम-भ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् । प्रसारितस्तु यः पादस्तमूरूपरि नामयेत्॥११४॥

अयमेव महाबन्ध उभयत्रैवमभ्यसेत् । महाबन्धस्थितो योगीकृत्वा पूरकमेकधीः ॥११५॥

वायुना गतिमावृत्य निभृतं कर्णमुद्रया ।पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥११६॥

अयमेव महावेधःसिद्धैरभ्यस्यतेऽनिशम् । अन्तःकपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥११७॥

भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी । कण्ठमाकुञ्च्य हृदये स्थापयेद्वृढयाधिया ॥११८॥

बन्धो जालंधराख्योऽयं मृत्युमातङ्गकेसरी । बन्धो येनसुषुम्नायां प्राणस्तूड्डीयते यतः ॥११९॥

उड्यानाख्यो हि बन्धोऽयं य्होगिभिःसमुदाहृतः । पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्दृढं ॥१२०॥

अपान-मूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते । प्राणापानौ नादबिन्दू मूलबन्धेन चैक-ताम् ॥१२१॥

गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः । करणी विप-----Page------------------३०३--रीताख्या सर्वव्याधिविनाशिनी ॥१२२॥

नित्यमभ्यासयुक्तस्य जाठराग्निवि-वर्धनी । आहारो बहुलस्तस्य संपाद्यः साधकस्य च ॥१२३॥

अल्पाहारोयदि भवेदग्निर्देहं हरेत्क्षणात् । अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने॥१२४॥

क्षणाच्च किंचिदधिकमभ्यसेत्तु दिने दिने । वली च पलितं चैवषण्मासार्धान्न दृश्यते ॥१२५॥

याममात्रं तु यो नित्यमभ्यसेत्स तु काल-जित् । वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥१२६॥

लभ्यते यदितस्यैव योगसिद्धिः करे स्थिता । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम्॥१२७॥

अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीमभ्यसेन्नि-त्यममरोलीति कथ्यते ॥१२८॥

ततो भवेद्राजयोगो नान्तरा भवतिध्रुवम् । यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥१२९॥

तदा विवे-कवैराग्यं जायते योगिनो ध्रुवम् । विष्णुर्नाम महायोगी महाभूतो महातपाः॥१३०॥

तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । यः स्तनः पूर्वपीतस्तंनिष्पीड्य मुदमश्नुते ॥१३१॥

यस्माज्जातो भगात्पूर्वं तस्मिन्नैव भगे रमन् ।या माता सा पुनर्भार्या या भार्या मातरेव हि ॥१३२॥

यः पिता स पुनःपुत्रो यः पुत्रः स पुनः पिता । एवं संचारचक्रेण कूपचक्रे घटा इव ॥१३३॥

भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते । त्रयो लोकास्त्रयो वेदास्तिस्रःसंध्यास्त्रयः स्वराः ॥१३४॥

त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे ।त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥१३५॥

तेन सर्वमिदं प्रोतंतत्सत्यं तत्परं पदम् । पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥१३६॥

तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् । हृदि स्थाने स्थितं पद्मं तस्यवक्त्रमधोमुखम् ॥१३७॥

ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः ।अकारे रेचित पद्ममुकारेणैव भिद्यते ॥१३८॥

मकारे लभते नादमर्धमात्रातु निश्चला । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥१३९॥

लभतेयोगयुक्तात्मा पुरुषस्तत्परं पदम् । कूर्मः स्वपाणिपादादि शिरश्चात्मनि धारयेत्॥१४०॥

एवं द्वारेषु सर्वेषु वायुपूरितरेचितः । निषिद्धं तु नवद्वारे ऊर्ध्वंप्राङ्निश्वसंस्तथा ॥१४१॥

घटमध्ये यथा दीपो निवातं कुम्भकं विदुः ।निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥१४२॥

निश्चितं त्वात्ममात्रेणावशिष्टंयोगसेवयेत्युपनिषत् ॥ ॐ सह नाववत्विति शान्तिः ॥इति योगतत्त्वोपनिषत्समाप्ता ॥४३॥


Page-----------------३०४--

आत्मप्रबोधोपनिषत् ॥४४॥[सम्पाद्यताम्]

श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥१॥

ॐ वाङ्मे मनसीति शान्तिः ॥ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकारो मकार इति त्र्यक्षरंप्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमोनारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मंत्रोपासकोवैकुण्ठभुवनं गमिष्यति । अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिदाभमात्रंदीपवत्प्रकाशं ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरी-काक्षो ब्रह्मण्यो विष्णुरच्युतः ॥ सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणंपरं ब्रह्मॐ । शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । द्वैताद्वैतमभयं भव-ति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । हृत्पद्ममध्ये सर्वं य-त्तत्प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । स एतेनप्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः सम-भवदमृतः समभवत् । यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । तस्मिन्मांदेहि स्वमानमृते लोके स्क्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यॐ नमः॥१॥

प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । अस्तमिताहं-तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥१॥

प्रत्यगभिन्नपरोऽहं विध्वस्ताशे-षविधिनिषेधोऽहम् । समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥२॥

साक्ष्यनपेक्षोऽहं निजमहिम्नि संस्थोऽहमचलोऽहम् । अजरोऽहमव्ययोऽहंपक्षविपक्षादिभेदविधुरोऽहम् ॥३॥

अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरे-वाहम् । सूक्ष्मोऽहमक्षरोए!ऽहं विगलितगुणजालकेवलात्माहम् ॥४॥

निस्त्रै-गुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् । कूटस्थचेतनोऽहं निष्क्रियधामा-हमप्रतर्क्योऽहम् ॥५॥

एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् ।निरवयवोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥६॥

निरवधिनिज-बोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् । विभुरहमनवद्योऽहं निरवधिनिःसी-मतत्त्वमात्रोऽहम् ॥७॥

वेद्योऽहमागमान्तैराराध्यः सकलभुवनहृद्योऽहम् ।परमानन्दघनोऽहं परमानन्दैकभूमरूपोऽहम् ॥८॥

शुद्धोऽहमद्वयोऽहं-----Page-----------------३०५--संततभावोऽहमादिशून्योऽहम् । शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहम-द्भुतात्माहम् ॥९॥

शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् । शोधि-तपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥१०॥

विवेकयुक्तिबुद्ध्याहं जाना-म्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥११॥

निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । सर्पादौ रज्जुसत्तेव ब्रह्म-सत्तैव केवलम् । प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥१२॥

यथेक्षु-रससंव्याप्ता शर्करा वर्तते तथा । अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम्॥१३॥

ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । बुद्बुदादिविकारा-न्तस्तरङ्गः सागरे यथा ॥१४॥

तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ।विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥१५॥

दारिद्र्याशा यथा नास्तिसंपन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥१६॥

विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । आत्मानमपि दृष्ट्वाहमनात्मानंत्यजाम्यहम् ॥१७॥

घटावभासको भानुर्घटनाशे न नश्यति । देहावभा-सकः साक्षी देहनाशे न नश्यति ॥१८॥

न मे बन्धो न मे मुक्तिर्नमे शास्त्रं न मे गुरुः । मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥१९॥

प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः । आनन्दबुद्धिपूर्णस्य ममदुःखं कथं भवेत् ॥२०॥

आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायि-तम् । कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥२१॥

ब्राह्मण्यं कुलगोत्रेच नामसौन्दर्यजातयः । स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥२२॥

क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः । लिङ्गदेहगता एते ह्यलि-ङ्गस्य न सन्ति हि ॥२३॥

जडत्वप्रियमोदत्वधर्माः कारणदेहगाः । न सन्तिमम नित्यस्य निर्विकारस्वरूपिणः ॥२४॥

उलूकस्य यथा भानुरन्धकारः प्रती-यते । स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥२५॥

चतुर्दृष्टिनिरोधेऽभ्रैःसूर्यो नास्तीति मन्यते । तथाऽज्ञानावृतोऽदेही ब्रह्म नास्तीति मन्यते ॥२६॥

यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते । न स्पृशामि जडाद्भिन्नो जड-दोषाप्रकाशतः ॥२७॥

स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः । स्वल्पोऽपिबोधो निबिडं बहुलं नाशयेत्तमः ॥२८॥

कालत्रये यथा सर्पो रज्जौ नास्तितथा मयि । अहंकारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥२९॥

चिद्रूपत्वान्न मेजाड्यं सत्यत्वान्नानृतं मम । आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥३०॥


Page------------------३०६--

आत्मप्रबोधोपनिषन्मुहूर्तमुपासित्वा न स पुनरावर्तते न स पुनरावर्ततैत्युपनिषत् ॥ ॐ वाङ्मे मनसीति शान्तिः ॥इत्यात्मप्रबोधोपनिषत्समाप्ता ॥४४॥

नारदपरिव्राजकोपनिषत् ॥४५॥[सम्पाद्यताम्]

पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः ।दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दं महा-नारायणाद्वयम् ॥ अथ कदाचित्परिव्राजकाभरणो नारदः सर्वलोकसंचारं कुर्व-न्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य चित्तशुद्धिं प्राप्य निर्वैरःशान्तो दान्तः सर्वतो निर्वेदमासाद्य स्वरूपानुसंधानमनुसंधाय नियमानन्द-विशेषगण्यं मुनिजनैरुपसंकीर्णं नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपध-निससंज्ञैर्वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चिकपराङ्मुखैर्हरिकथालापैः स्थावरज-ङ्गमनामकैर्भगवद्भक्तिविशेषैर्नरमृगकिंपुरुषामरकिंनराप्सरोगणान्संमोहयन्नाग-तं ब्रह्मात्मजं भगवद्भक्तं नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः श्रुताध्य-यनसंपन्नाः सर्वज्ञास्तपोनिष्ठापराश्च ज्ञानवैराग्यसंपन्नाः शौनकादिमहर्षयःप्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा स्वयं सर्वेऽप्युपविष्टाभो भगवन् ब्रह्मपुत्र कथं मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान् स होवाचनारदः सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्संस्कारसंपन्नःस्वाभिमतैकगुरुसमीपे स्वशाखाध्ययनपूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशव-र्षशुश्रूषापूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं पञ्चविंशतिवत्सरं वानप्र-स्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य चतुर्विधब्रह्मचर्यं षड्विधं गार्हस्थ्यं चतुर्विधं वा-नप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य साधनचतुष्टयसंपन्नः सर्व-संसारोपरि मनोवाक्कायकर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरःशान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलितस्वस्वरूपध्यानेन देहत्यागंकरोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥१॥

इति नारदपरिव्राजकोपनिषत्सु प्रथमोपदेशः ॥१॥


Page-----------------३०७--अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः पप्रच्छुर्भो भगवन् संन्यासविधिंनो ब्रूहीति तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव ज्ञातुमुचितमि-त्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनंनत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य नारदः पितामहमुवाचगुरुस्त्वं जनकस्त्वं सर्वविद्यारहस्यज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकंवक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः । किमिति चेत् पारिव्राज्य-स्वरूपक्रमं नो ब्रूहीति नारदेन प्रार्थितः परमेष्ठी सर्वतः सर्चानवलोक्य मुहू-र्तमात्रं समाधिनिष्ठो भूत्वा संसारार्तिनिवृत्त्यन्वेषण इति निश्चित्य नारदमव-लोक्य तमाह पितामहः । पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिश-याकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं ते विविच्योऽच्यते तत्क्रममतिर-हस्यं बाढमवहितो भूत्वा श्रूयतां भो नारद विधिवदादावनुपनीतोपनयनान-न्तरं तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र सत्संप्रदायस्थंश्रद्धावन्तं सत्कुलभवं श्रोत्रियं शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्यनत्वा यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य द्वादशवर्षसेवापुरःसरंसर्वविद्याभ्यासं कृत्वा तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य पञ्च-विंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया गृहस्थोचितकर्म कुर्वन्दौर्ब्राह्म-प्यनिवृत्तिमेत्य स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचितपञ्चविंशतिव-त्सरं तीर्त्वा ततः पञ्चविंशतिवत्सरपर्यन्तं त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थका-लमेकवारमाहारमाहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसंचारं विहायनिकिर विरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य दृष्टश्रवणविषयवैतृष्ण्यमेत्यचत्वारिंशत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं दग्ध्वासाधनचतुष्टयसंपन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥२॥

इति नारदपरिव्राजकोपनिषत्सु द्वितीयोपदेशः ॥२॥

अथ हैनं नारदः पितामहं पप्रच्छ भगवन् केन संन्यासाधिकारी वेत्येवमादौसंन्यासाधिकारिणं निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः शृणु । अथषण्डः पतितोऽङ्गविकलः स्त्रैणो वधिरोऽर्भको मूकः पाषण्डश्चक्री लिङ्गी वैखा-नसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनग्निको वैराग्यवन्तोऽप्येते न संन्या-सार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेनाधिकारिणः पूर्वसंन्यासी परमहंसा-धिकारी ॥ --परेणैवात्मनश्चापि परस्यैवात्मना तथा । अभयं समवाप्नोति सपरिव्राडिति स्मृतिः ॥१॥

षण्ढोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी ।-----Page-----------------३०८--पतितश्च परद्वारी वैखानसहरद्विजौ ॥२॥

चक्री लिङ्गी च पाषण्डी शिपि-विष्टोऽप्यनग्निकः । द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च । एतेनार्हन्ति संन्यासमातुरेण विना क्रमम् ॥३॥

आतुरकालः कथमार्यसं-मतः ॥ - प्राणस्योत्क्रमणासन्नकालस्त्वातुरसंज्ञकः । नेतरस्त्वातुरः कालोमुक्तिमार्गप्रवर्तकः ॥४॥

आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् ।मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद्बुधः ॥५॥

आतुरेऽपि क्रमे वापि प्रैयभेदोन कुत्रचित् । न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥६॥

अकर्म मन्त्रःहितंनातो मन्त्रं परित्यजेत् । मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत् ॥७॥

विध्युक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः । तस्मादातुरसंन्यासे मन्त्रावृत्ति-विधिर्मुने ॥८॥

आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि । प्राजापत्येष्टि-मप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥९॥

मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले । श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा ॥१०॥

समाप्यसंन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात् ॥११॥

यदा मनसि संजातं वैतृष्ण्यंसर्ववस्तुषु । तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये ॥१२॥

विरक्तःप्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन्हि द्विजा-धमः ॥१३॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः । संन्यसेदकृतोद्वाहोब्राह्मणो ब्रह्मचर्यवान् ॥१४॥

संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।प्रव्रजत्यकृतोद्वाहः परं वैराग्यमाश्रितः ॥१५॥

प्रवृत्तिलक्षणं कर्म ज्ञानंसंन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥१६॥

यदातु विदितं तत्त्वं परं ब्रह्म सनातनम् । तदैकदण्डं संगृह्य सोपवीतां शिखांत्यजेत् ॥१७॥

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । सर्वैषणाविनि-र्मुक्तः स भैक्षं भोक्तुमर्हति ॥१८॥

पूजितो वन्दितश्चैव सुप्रसन्नो यथाभवेत् । तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक् ॥१९॥

अहमेवाक्षरंब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक्॥२०॥

यस्मिन्शान्तिः शमः शौचं सत्यं संतोष आर्जवम् । अकिंचनमद-म्भश्च स कैवल्याश्रमे वसेत् ॥२१॥

यदा न कुरुते भावं सर्वभूतेषु पाप-कम् । कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥२२॥

दशलक्षणकंधर्ममनुतिष्ठन्समाहितः । वेदान्तान्विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥२३॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं-----Page-----------------३०९--धर्मलक्षणम् ॥२४॥

अतीतान्न स्मरेद्भोगान्न तथानागतानपि । प्राप्तांश्चनाभिनन्देद्यः स कैवल्याश्रमे वसेत् ॥२५॥

अन्तःस्थानीन्द्रियाण्यन्तर्बहि-ष्ठान्विषयान्बहिः । शक्नोति यः सदा कर्तुं तु कैवल्याश्रमे वसेत् ॥२६॥

प्राणेगते यथा देहः सुखं दुःखं न विन्दति । तथा चेत्प्राणयुक्तोऽपि स कैवल्या-श्रमे वसेत् ॥२७॥

कौपीनयुगलं कन्था दण्ड एकः परिग्रहः । यतेः परम-हंसस्य नाधिकं तु विधीयते ॥२८॥

यदि वा कुरुते रागादधिकस्य परिग्र-हम् । रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥२९॥

विशीर्णान्यमलान्येवचेलानि ग्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥३०॥

एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चेरन्नित्यं वर्षास्वेकत्रसंवसेत् ॥३१॥

कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतंच त्यक्त्वा गूढश्चरेद्यतिः ॥३२॥

कामः क्रोधस्तथा दर्पो लोभमोहादयश्चये । तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥३३॥

रागद्वेषवियुक्तात्मासमलोष्टाश्मकाञ्चनः । प्राणिहिंसानिवृत्तश्च मुनिः स्यात्सर्वनिस्पृहः ॥३४॥

दम्भाहंकारनिर्मुक्तो हिंसापैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षम-वाप्नुयात् ॥३५॥

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तुतान्येव ततः सिद्धिं निगच्छति ॥३६॥

न जातु कामः कामानामुपभोगेनशाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥३७॥

श्रुत्वा स्पृष्ट्वा चभुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयोजितेन्द्रियः ॥३८॥

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्व-मवाप्नोति वेदान्तोपगतं फलम् ॥३९॥

संमानाद्ब्राह्मणो नित्यमुद्विजेतविषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥४०॥

सुखं ह्यवमतःशेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥४१॥

अतिवादांस्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाश्रित्य वैरं कुर्वीतकेनचित् ॥४२॥

क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णांच न वाचमनृतां वदेत् ॥४३॥

अध्यात्मरतिरासीनो निरपेक्षो निराशिषः ।आत्मनैव सहायेन सुखार्थी विचरेदिह ॥४४॥

इन्द्रियाणां निरोधेन राग-द्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥४५॥

अस्थिस्थूणंस्नायुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥४६॥

जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं-----Page-----------------३१०--त्यजेत् ॥४७॥

मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढोभविता नरकेऽपि सः ॥४८॥

सा कालपुत्रपदवी सा महावीचिवागुरा । सा-सिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥४९॥

सा त्याज्या सर्वयत्नेन सर्वना-शेऽप्युपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुल्कसी ॥५०॥

प्रिये-षु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सना-तनम् ॥५१॥

अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान्शनैः शनैः । सर्वद्वन्द्वैर्वि-निर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥५२॥

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायकः ।सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥५३॥

कपालं वृक्षमूलानिकुचेलान्यसहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥५४॥

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थं ग्रा-ममाविशेत् ॥५५॥

एको भिक्षुर्यथोक्तः स्याद्द्वावेव मिथुनं स्मृतम् । त्रयोग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥५६॥

नगरं नहि कर्तव्यं ग्रामो वामिथुनं तथा । एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः ॥५७॥

राजवार्तादितेषां स्याद्भिक्षावार्ता परस्परम् । स्नेहपैशुन्यमात्सर्यं संनिकर्षान्न संशयः॥५८॥

एकाकी निःस्पृहस्तिष्ठेन्न हि केन सहालपेत् । दद्यान्नारायणेत्येव प्र-तिवाक्यं सदा यतिः ॥५९॥

एकाकी चिन्तयेद्ब्रह्म मनोवाक्कायकर्मभिः ।मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥६०॥

कालमेव प्रतीक्षेतयावदायुः समाप्यते । नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेवप्रतीक्षेत निर्देशं भृतको यथा ॥६१॥

अजिह्वः षण्डकः पङ्गुरन्धो बधिर एवच । मुग्धश्च मुच्यते भिक्षुः षड्भिरेतैर्न संशयः ॥६२॥

इदमिष्टमिदं नेतियोऽश्नन्नपि न सज्जति । हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ॥६३॥

अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् । शतवर्षां च यो दृष्ट्वा निर्विकारःस षण्डकः ॥६४॥

भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च । योजनान्न परंयाति सर्वथा पङ्गुरेव सः ॥६५॥

तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् ।चतुर्युगां भुवं मुक्त्वा परिव्राट् सोऽन्ध उच्यते ॥६६॥

हिताहितं मनोरामंवचः शोकावहं तु यत् । श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥६७॥

सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्धौच्यते ॥६८॥

नटादिप्रेक्षणं द्यूतं प्रमदासुहृदं तथा । भक्ष्यं भोज्यमुदक्यां च षण्नपश्येत्कदाचन ॥६९॥

रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु । षडेतानि यति-----Page------------------३११--र्नित्यं मनसापि न चिन्तयेत् ॥७०॥

मञ्चकं शुक्लवस्त्रं च स्त्रीकथालौल्यमेव च ।दिवा स्वापं च यानं च यतीनां पातनानि षट् ॥७१॥

दूरयात्रां प्रयत्नेन वर्जयेदा-त्मचिन्तकः । सदोपनिषदं विद्यामभ्यसेन्मुक्तिहैतुकीम् ॥७२॥

न तीर्थसेवी नित्यंस्यान्नोपवासपरो यतिः । न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत्॥७३॥

अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् । इन्द्रियाणि समाहृत्य कूर्मो-ऽङ्गानीव सर्वशः ॥७४॥

क्षीणेन्द्रियमनोवृत्तिर्निराशीर्निष्परिग्रहः । निर्द्वन्द्वोनिर्ममस्कारो निःस्वधाकार एव च ॥७५॥

निर्ममो निरहंकारो निरपेक्षोनिराशिषः । विविक्तदेशसंसक्तो मुच्यते नात्र संशय इति ॥७६॥

--अप्रमत्तःकर्मभक्तिज्ञानसंपन्नः स्वतन्त्रो वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा मुख्य-वृत्तिका चेद्ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्म-चर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातकोवोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्तद्धैके प्राजापत्यामे-वेष्टिं कुर्वन्त्यथवा न कुर्यादाग्न्येय्यामेव कुर्यादग्निर्हि प्राणः प्राणमेवैतया करोतितस्मात्त्रैधातवीयामेव कुर्यादेतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानोवर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेदेष वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छस्वां योनिं गच्छ स्वाहेत्येवमेवैतदाहवनीयादग्निमाहृत्य पूर्ववदग्निमाजि-घ्रेद्यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वां देवताः सर्वाभ्यो देवताभ्योजुहोमि स्वाहेति हुत्वोद्धृत्य तदुदकं प्राश्नीयात्साज्यं हविरनामयं मोदमितिशिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विसृज्यैव परि-व्रजत्यात्मविन्मोक्षमन्त्रैस्त्रैधातवीयैर्विधेस्तद्ब्रह्म तदुपासितव्यमेवैतदिति ॥ पिता-महं पुनः पप्रच्छ नारदः कथमयज्ञोपवीती ब्राह्मण इति ॥ तमाह पितामहः ।सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धार-येत् ॥७७॥

सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येनस विप्रो वेदपारगः ॥७८॥

येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रंधारयेद्योगी योगवित्तत्त्वदर्शनः ॥७९॥

बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममा-स्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तस्य सूत्रस्यनोच्छिष्टो नाशुचिर्भवेत् ॥८०॥

सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । तेवै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥८१॥

ज्ञानशिखा ज्ञाननिष्ठा-----Page-----------------३१२--ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥८२॥

अग्नेरिवशिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः॥८३॥

कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैर्विधार्यमिदं सूत्रं क्रियाङ्गंतद्धि वै स्मृतम् ॥८४॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥८५॥

तदेतद्विज्ञाय ब्राह्मणःपरिव्रज्य परिव्राडेकशाटी मुण्डोऽपरिग्रहः शरीरक्लेशासहिष्णुश्चेदथवा यथा-विधिश्वेज्जातरूपधरो भूत्वा सपुत्रमित्रकलत्राप्तबन्ध्वादीनि स्वाध्यायं सर्व-कर्मणि संन्यस्यायं ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं च त्यक्त्वा द्वन्द्व-सहिष्णुर्न शीतं न चोष्णं न सुखं न दुःखं न निद्रा न मानावमाने च षडू-र्मिवर्जितो निन्दाहंकारमत्सरगर्वदम्भेर्ष्यासूयेच्छाद्वेषसुखदुःखकामक्रोधलोभ-मोहादीन्विसृज्य स्ववपुः शवाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्तर्बहिर-मन्यमानः कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो न स्वधाकारोन निन्दास्तुतिर्यादृच्छिको भवेद्यदृच्छालाभसंतुष्टः सुवर्णादीन्न परिग्रहेन्नावाहनंन विसर्जनं न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं न पृथक्नापृथक् न त्वन्यत्र सर्वत्रानिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृ-णकूटकुलालशालाग्निहोत्रशालाग्निदिगन्तरनदीतटपुलिनभूगृहकन्दरनिर्झरस्थ-ण्डिलेषु वने वा श्वेतकेतुऋभुनिदाघऋषभदुर्वासःसंवर्तकदत्तात्रेयरैवतकवद-व्यक्तलिङ्गोऽव्यक्ताचारो बालोन्प्नत्तपिशाचवदनुन्मत्तोन्मत्तवदाचरंस्त्रिदण्डं शि-क्यं पात्रं कमण्डलुं कटिसूत्रं कौपीनं च तत्सर्वं भूःस्वाहेत्यप्सु परित्यज्य कटिसूत्रंच कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेदात्मा-नमन्विच्छेद्यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् संपन्नःशुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले करपात्रेणान्येन वा याचिताहारमा-हरन् लाभालाभे समो भूत्वा निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभा-शुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति ब्रह्मप्रणवमनु-स्मरन्भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति सकृतकृत्यो भवतीत्युपनिषत् ॥८६॥

इति नारदपरिव्राजकोपनिषत्सु तृतीयोपदेशः ॥३॥

त्यक्त्वा लोकांश्च वेदांश्च विषयानिन्द्रियाणि च । आत्मन्येव स्थितोयस्तु स याति परमां गतिम् ॥१॥

नामगोत्रादिवरणं देशं कालं श्रुतं कुलम् ।-----Page-----------------३१३--वयो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥२॥

न संभाषेत्स्त्रियंकांचित्पूर्वदृष्टां च न स्मरेत् । कथां च वर्जयेत्तासां न पश्येल्लिखितामपि ॥३॥

एतच्चतुष्टयं मोहात्स्त्रीणामाचरतो यतेः । चित्तं विक्रियतेऽवश्यं तद्विकारात्प्र-णश्यति ॥४॥

तृष्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये । शिल्पंव्याख्यानयोगश्च कामो रागपरिग्रहः ॥५॥

अहंकारो ममत्वं च चिकित्साधर्मसाहसम् । प्रायश्चित्तं प्रवासश्च मन्त्रौषधपराशिषः ॥६॥

प्रतिषिद्धानिचैतानि सेवमानो व्रजेदधः । आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदो-ऽपि वा ॥७॥

सन्माननं च न ब्रूयान्मुनिर्मोक्षपरायणः । प्रतिग्रहं नगृह्णीयान्नैव चान्यं प्रदापयेत् ॥८॥

प्रेरयेद्वा तया भिक्षुः स्वप्नेऽपि न कदा-चन । जायाभ्रातृसुतादीनां बन्धूनां च शुभाशुभम् ॥९॥

श्रुत्वा दृष्ट्वा नकापेत शोकहर्षौ त्यजेद्यतिः । अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ॥१०॥

अनौद्धत्यमदीनत्वं प्रसादः स्थैर्यमार्जवम् । अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्ति-र्दमः शमः ॥११॥

उपेक्षा धैर्यमाधुर्ये तितिक्षा करुणा तथा । ह्रीस्तथाज्ञानविज्ञाने योगो लघ्वशनं धृतिः ॥१२॥

एष स्वधर्मो विख्यातो यतीनांनियतात्मनाम् । निर्द्वन्द्वो नित्यसत्त्वस्थः सर्वत्र समदर्शनः ॥१३॥

तुरीयःपरमो हंसः साक्षान्नारायणो यतिः । एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ॥१४॥

वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् । द्विरात्रं वा वसेद्ग्रामे भिक्षुर्यदिवसेत्तदा ॥१५॥

रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् । ग्रामान्तेनिर्जने देशे नियतात्माऽनिकेतनः ॥१६॥

पर्यटेत्कीटवद्भूमौ वर्षास्वेकत्रसंवसेत् । एकवासा अवासा वा एकदृष्टिरलोलुपः ॥१७॥

अदूषयन्सतां मार्गंध्यानयुक्तो महीं चरेत् । शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन् ॥१८॥

पर्यटेत सदा योगी वीक्षयन्वसुधातलम् । न रात्रौ न च मध्याह्ने संध्ययोर्नैवपर्यटन् ॥१९॥

न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च । एकरात्रं वसे-द्ग्रामे पत्तने तु दिनत्रयम् ॥२०॥

पुरे दिनद्वयं भिक्षुर्नगरे पञ्चरात्रकम् ।वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥२१॥

आत्मवत्सर्वभूतानि पश्य-न्भिक्षुश्चरेन्महीम् । अन्धवत्कुञ्जवच्चैव बधिरोन्मत्तमूकवत् ॥२२॥

स्नानं त्रिष-वणं प्रोक्तं बहूदकवनस्थयोः । हंसे तु सकृदेव स्यात्परहंसे न विद्यते ॥२३॥

मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निःस्पृहत्वं समत्वं च सप्तैतान्ये-कदण्डिनाम् ॥२४॥

परहंसाश्रमस्थो हि स्नानादेरविधानतः । अशेषचित्त- -----Page-----------------३१४--वृत्तीनां त्यागं केवलमाचरेत् ॥२५॥

त्वङ्मांसरुधिरस्नायुमज्जामेदोस्थिसंहतौ ।विण्मूत्रपूये रमतां क्रिमीणां कियदन्तरम् ॥२६॥

क्व शरीरमशेषाणांश्लेष्मादीनां महाचयः । क्व चाङ्गशोभा सौभाग्यकमनीयादयो गुणाः ॥२७॥

मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो भवितानरकेऽपि सः ॥२८॥

स्त्रीणामवाच्यदेशस्य क्लिन्ननाडीव्रणस्य च । अभे-देऽपि मनोभेदाज्जनः प्रायेण वञ्च्यते ॥२९॥

चर्मखण्डं द्विधा भिन्नमपा-नोद्गारधूपितम् । ये रमन्ति नमस्तेभ्यः साहसं किमतः परम् ॥३०॥

न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तोनिर्द्वन्द्वोऽवर्णभोजनः ॥३१॥

मुनिः कौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ।एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ॥३२॥

लिङ्गे सत्यपि खल्वस्मि-ञ्ज्ञानमेव हि कारणम् । निर्मोक्षायेह भूतानां लिङ्गग्रामो निरर्थकः ॥३३॥

यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्सब्राह्मणः ॥३४॥

तस्मादलिङ्गो धर्मज्ञो ब्रह्मवृत्तमनुव्रतम् । गूढधर्माश्रितोविद्वानज्ञातचरितं चरेत् ॥३५॥

संदिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः ।अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ॥३६॥

तं दृष्ट्वा शान्तमनसंस्पृहयन्ति दिवौकसः । लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनमिति ॥३७॥

अथ नारदः पितामहं संन्यासविधिं नो ब्रूहीति पप्रच्छ । पितामहस्तथेत्यङ्गी-कृत्यातुरे वा क्रमे वापि तुरीयाश्रमस्वीकारार्थं कृच्छ्रप्रायश्चित्तपूर्वकमष्टश्राद्धंकुर्याद्देवर्षिदिव्यमनुष्यभूतपितृमात्रात्मेत्यष्टश्राद्धानि कुर्यात् । प्रथमं सत्यव-सुसंज्ञकान्विश्वान्देवान्देवश्राद्धे ब्रह्मविण्णुमहेश्वरानृषिश्राद्धे देवर्षिक्षत्रियर्षि-मनुष्यर्षीन् दिव्यश्राद्धे वसुरुद्रादित्यरूपान्मनुष्यश्राद्धे सनकसनन्दनसनत्कु-मारसनत्सुजातान्भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतानि चक्षुरादिकरणानिचतुर्विधभूतग्रामान्पितृश्राद्धे पितृपितामहप्रपितामहान्मातृश्राद्धे मातृपिता-महीप्रपितामहीरात्मश्राद्धे आत्मपितृपितामहाञ्जीवत्पितृकश्चेत्पितरं त्यक्त्वाआत्मपितामहप्रपितामहानिति सर्वत्र युग्मकॢप्त्या ब्राह्मणानर्चयेदेकाध्वर-पक्षेऽष्टाध्वरपक्षे वा स्वशाखानुगतमन्त्रैरष्टश्राद्धान्यष्टदिनेषु वा एकदिनेवा पितृयागोक्तविधानेन ब्राह्मणानाभ्यर्च्य भुक्त्यन्तं यथाविधि निर्वर्त्यपिण्डप्रदानानि निर्वर्त्य दक्षिणाताम्बूलैस्तोषयित्वा ब्राह्मणान्प्रेषयित्वा शेषकर्म-सिद्ध्यर्थं सप्तकेशान्विसृज्य-शेषकर्मप्रसिद्ध्यर्थं केशान्सप्ताष्टधा द्विजः । संक्षिप्य-----Page-----------------३१५--वापयेत्पूर्वं केशश्मश्रुनखानि च इति सप्तकेशान्संरक्ष्य कक्षोपस्थवर्जं क्षौरपूर्वकंस्नात्वा सायं संध्यावन्दनं निर्वर्त्य सहस्रगायत्रीं जप्त्वा ब्रह्मयज्ञं निर्वर्त्य स्वाधी-नाग्निमुपस्थाप्य स्वशाखोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुतिमाज्यभागान्तंहुत्वाहुतिविधिं समाप्यात्मादिभिस्त्रिवारं सक्तुप्राशनं कृत्वाचमनपूर्वकमग्निंसंरक्ष्य स्वयमग्नेरुत्तरतः कृष्णाजिनोपरि स्थित्वा पुराणश्रवणपूर्वकं जागरणंकृत्वा चतुर्थयामान्ते स्नात्वा तदग्नौ चरुं श्रपयित्वा पुरुषसूक्तेनान्नस्य षोडशा-हुतीर्हुत्वा विरजाहोमं कृत्वा अथाच्म्य सदक्षिणं वस्त्रं सुवर्णपात्रं धेनुंदत्त्वा समाप्य ब्रह्मोद्वासनं कृत्वा । सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृह-स्पतिः । सं मायमग्निः सिञ्चत्वायुपा च धनेन च बलेन चायुष्मन्तः करोतुमे इति । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मनात्मानम् । अच्छा वसूनिकृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदोभुव आजायमानः स क्षय एधीत्यनेनाग्निमात्मन्यारोप्य ध्यात्वाग्निं प्रद-क्षिणनमस्कारपूर्वकमुद्वास्य प्रातःसंध्यामुपास्य सहस्रगायत्रीपूर्वकं सूर्योप-स्थानं कृत्वा नाभिदघ्नोदकमुपविश्याष्टदिक्पालकार्ध्यपूर्वकं गायत्र्युद्वासनंकृत्वा सावित्रीं व्याहृतिषु प्रवेशयित्वा । अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गि-रेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणं मे सवर्चसं सुमेधा अमृ-तोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् । यश्छन्दसामृषभो विश्वरूपः । छन्दो-भ्योऽध्यमृतात्संबभूव । स मे इन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणोभूयासं । शरीरं मे विचर्षणं । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि वि-श्रवं । ब्रह्मणः कोशोऽसि मेधयापिहितः । श्रुतं मे गोपाय । दारेषणा-याश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यस्तं मयाॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मया ॐ भूर्भुवःसुवःसंन्यस्तं मयेति मन्द्रमध्यमतालजध्वनिभिर्मनसा वाचोच्चार्याभयं सर्वभूतेभ्योमत्तः सर्वं प्रवर्तते स्वाहेत्यनेन जलं प्राश्य प्राच्यां दिशि पूर्णाञ्जलिं प्रक्षिप्यॐस्वाहेति शिखामुत्पाट्य । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीत बहिर्ननिवसेस्त्वमन्तः प्रविश्य मध्ये ह्यजस्रं परमं पवित्रं यशो बलं ज्ञानवैराग्यंमेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा उदकाञ्जलिना सह । ॐ भूः समुद्रं गच्छस्वाहेत्यप्सु जुहुयात् । ॐ भूः संन्यस्तं मया । ॐ भुवः संन्यस्तं मया । ॐ सुवः-----Page-----------------३१६--संन्यस्तं मयेति त्रिरुवत्वा त्रिवारमभिमन्त्र्य तज्जलं प्राश्याचम्य ॐ भूः स्वाहे-त्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य सर्वकर्मनिर्वर्तकोऽहमिति स्मृत्वा जातरूप-धरो भूत्वा स्वरूपानुसंधानपूर्वकमूर्ध्वबाहुरुदीचीं गच्छेत्पूर्ववद्विद्वत्संन्यासीचेद्गुरोः सकाशात्प्रणवमहावाक्योपदेशं प्राप्य यथासुखं विहरन्मत्तः कश्चि-न्नान्यो व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवतालयेषु संचरेत्संन्य-स्याथ दिगम्बरः सकलसंचारकः सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूर-लाभः प्राणायामपरायणः फलरसत्वक्पत्रमूलोदकैर्मोक्षार्थी गिरिकन्दरेषुविसृजेद्देहं स्मरंस्तारकम् । विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभि-र्विप्रैस्तिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृहाण प्रणवमहावाक्यग्रहणार्थंगुरुनिकटमागच्छेत्याचार्यैर्दण्डकटिसूत्रकौपीनं शाटीमेकां कमण्डलुं पादा-दिमस्तकप्रमाणमव्रणं समं सौम्यमकालपृष्ठं सलक्षणं दैणवं दण्डमेकमाचमनपू-र्वकं सखा मा गोपायौचः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भवयत्पापं तन्निवारयेति दण्डं परिग्रहेज्जगज्जीवनं जीवनाधारभूतं मा ते मामन्त्रयस्व सर्वदा सर्वसौम्येति प्रणवपूर्वकं कमण्डलुं परिगृह्य कौपीनाधारंकटिसूत्रमोमिति गुह्याच्छादकं कौपीनमोमिति शीतवातोष्णत्राणकरं देहैक-रक्षणमोमिति कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो भूप्त्वाकृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥३८॥

इति नारदपरिव्राजकोपनिषत्सु चतुर्थोपदेशः ॥४॥

अथ हैनं पितामहं नारदः पप्रच्छ भगवन्सर्वकर्मनिवर्तकः संन्यास इतित्वयैवोक्तः पुनः स्वाश्रमाचारपरो भवेदित्युच्यते । ततः पितामह उवाच ।शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः सन्ति तदधीनाः कर्मज्ञान-वैराग्यप्रवर्तकाः पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव चेद्भगवन्संन्या-साः कतिभेदास्तदनुष्ठानभेदाः कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति । तथेत्य-ङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदः कथमिति चेत्तत्त्वतस्त्वेक एवसंन्यासः अज्ञानेनाशक्तिवशात्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो ज्ञान-संन्यासो ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति चातुर्विध्यमुपागतस्तद्यथेतिदुष्टमदनाभावाच्चेति विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः स वैराग्य-संन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहं-काराभिमानात्मकसर्वर्संसारं निर्वृत्य दारेषणाधनेषणालोकेषणात्मकदेहवासनां-----Page-----------------३१७--शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वासाधनचतुष्टयसंपन्नो यः संन्यस्यति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्यसर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्टः संन्यस्यजातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य गृही भूत्वावानप्रस्थाश्रममेत्य वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः संन्यस्यति सकर्मसंन्यासी । ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो वैराग्यसंन्यासी ।विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी कर्मसंन्यासी । कर्मसंन्या-सोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति । निमित्तस्त्वातुरः ।अनिमित्तः क्रमसंन्यासः । आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासःसनिमित्तसंन्यासः । दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं सर्वं हेयंप्राप्य । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरस-दृतसद्व्योमसदञ्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । ब्रह्मव्यतिरिक्तं सर्वंनश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति स संन्यासोऽनिमित्तसंन्यासः ।संन्यासः षड्विधो भवति । कुटीचको बहूदको हंसः परमहंसः तुरीया-तीतोऽवधूतश्चेति । कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनक-न्थाधरः पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर एकत्रा-न्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधास्त्रिपुण्ड्र-धारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्व-पुण्ड्रधारी असंकॢप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखा-यज्ञोपवीतरहितः पञ्चगृहेष्वेकरात्रान्नादनपरः करपात्री एककौपीनधारी शाटी-मेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी । तुरीया-तीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो दिगम्बरःकुणपवच्छरीरवृत्तिकः । अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णे-ष्वजगरवृत्त्याहारपरः स्वरूपानुसंधानपरः । आतुरो जीवति चेत्क्रमसंन्यासःकर्तव्यः कुटीचकबहूदकहंसानां ब्रह्मचर्याश्रमादितुरीयाश्रमवत् कुटीचकादीनांसंन्यासविधिः । परमहंसादित्रयाणां न कटिसूत्रं न कौपीनं न वस्त्रंन कमण्डलुर्न दण्डः । सार्ववर्णैकभैक्षाटनपरत्वं जातरूपधरत्वं विधिः ।संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य तदनन्तरं कटिसूत्रं कौपीनं दण्डं वस्त्रंकमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न कन्थायेशो नाध्येतव्यो-----Page-----------------३१८--न श्रोतव्यमन्यत्किंचित्प्रणवादन्यं न तर्कं पठेन्न शब्दमपि बृहच्छब्दा-न्नाध्यापयेन्न महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं नान्यस्माद्वाविशेषेण न शूद्रस्त्रीपतितोदक्या संभाषणं न यतेर्देवपूजा नोत्सवदर्शनंतीर्थयात्रावृत्तिः । पुनर्यतिविशेषः । कुटीचकस्यैकत्र भिक्षा बहूदकस्यासंकॢप्तंमाधुकरं हंसस्याष्टगृहेष्वष्टकवलं परमहंसस्य पञ्चगृहेषु करपात्रं फलाहारोगोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्नकस्यापि नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः । स ज्येष्ठोऽपिकनिष्ठो हस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न क्रयवि-क्रयपरो न किंचिद्विनिमयपरो न दाम्भिको नानृतवादी न यतेः किंचित्कर्त-व्यमस्त्यस्ति चेत्सांकर्यम् । तस्मान्मननादौ संन्यासिनामधिकारः । आतुर-कुटीचकयोर्भूर्लोको बहूदकस्य स्वर्गलोको हंसस्य तपोलोकः परमहंसस्यसत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेनभ्रमरकीटन्यायवत् । यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवसमाप्नोति नान्यथा श्रुतिशासनम् । तदेवं ज्ञात्वा स्वरूपानुसंधानं विनान्य-थाचारपरो न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञानवैराग्यसंपन्नस्य स्वस्मिन्नेवमुक्तिरिति न सर्वत्राचारप्रसक्तिस्तदाचारः । जाग्रत्स्वप्नसुषुप्तिष्वेकशरीरस्यजाग्रत्काले विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः अवस्थाभेदादवस्थे-श्वरभेदः कार्यभेदात्कारणभेदस्तासु चतुर्दशकारणानां बाह्यवृत्तयोऽन्तर्वृत्त-यस्तेषामुपादानकारणम् । वृत्तयश्चत्वारः मनोबुद्धिरहंकारश्चित्तं चेति ।तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः । नेत्रस्थं जागरितं विद्यात्कण्टे स्वप्नंसमाविशत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् । तुरीयमक्षरमितिज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न इव यद्यच्छ्रुतं यद्यद्दृष्टं तत्तत्सर्वमविज्ञातमिवयो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति । स जीवन्मुक्त इतिवदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति । भिक्षुर्नैहिकामुष्मिका-पेक्षः । यद्यपेक्षास्ति तदनुरूपो भवति । स्वरूपानुसन्धानव्यतितिक्तान्य-शास्त्राभ्यासैरुष्ट्राकुङ्कुमभारवद्व्यर्थो न योगशास्त्रप्रवृत्तिर्न सांख्यशास्त्राभ्यासोन मन्त्रतन्त्रव्यापारः । इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालंकारवच्चर्मकारवदति-विदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनु-भवति एरण्डतैलफेनवदतः सर्वं परित्यज्य तत्प्रसक्तं मनोदण्डं करपात्रं-----Page-----------------३१९--दिगम्बरं दृष्ट्वा परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा नकाङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति । तितिक्षाज्ञान-वैराग्यशमादिगुणवर्जितः । भिक्षामात्रेण जीवी स्यात्स यतिर्यतिवृत्तिहा ॥१॥

न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्तिः । ज्ञानदण्डोधृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।स याति नरकान्घोरान्महारौरवसंज्ञितान् ॥२॥

प्रतिष्ठा सूकरीविष्ठासमागीता महर्षिभिः । तस्मादेनां परित्यज्य कीटवत्पर्यटेद्यतिः ॥३॥

अयाचितंयथालाभं भोजनाच्छादनं भवेत् । परेच्छया च दिग्वासाः स्नानं कुर्यात्परे-च्छया ॥४॥

स्वप्नेऽपि यो हि युक्तः स्याज्जाग्रतीव विशेषतः । ईदृक्चेष्टःस्मृतः श्रेष्टो वरिष्टो ब्रह्मवादिनाम् ॥५॥

अलाभे न विषादी स्याल्लाभे चैवन हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥६॥

अभिपूजि-तलाभांश्च जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते॥७॥

प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्ते वर्णानांभिक्षार्थं पर्यटेद्गृहान् ॥८॥

पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् ।तिष्ठन्भुञ्ज्याच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥९॥

अब्धिवद्धृतमर्यादाभवन्ति विशदाशयाः । नियतिं न विमिउ!ञ्चन्ति महान्तो भास्करा इव ॥१०॥

आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात्सर्वेषु सोऽमृत-त्त्वाय कल्पते ॥११॥

अनिन्द्यं वै व्रजेद्गेहं निन्द्यं गेहं तु वर्जयेत् । अनावृतेविशेद्द्वारि गेहे नैवावृते व्रजेत् ॥१२॥

पांसुना च प्रतिच्छन्नशून्यागार-प्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१३॥

यत्रास्तमितशायीस्यान्निरग्निरनिकेतनः । यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः॥१४॥

निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः । कालकाङ्क्षी चरन्नेवब्रह्मभूयाय कल्पते ॥१५॥

अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः ।न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥१६॥

निर्मानश्चानहंकारोनिर्द्वन्द्वश्छिन्नसंशयः । नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥१७॥

पुण्यायतनचारी च भूतानामविहिंसकः । काले प्राप्ते भवेद्भैक्षं कल्प्यतेब्रह्मभूयसे ॥१८॥

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् । अज्ञात-चर्यां लिप्सेत न चैनं हर्ष आविशेत् ॥१९॥

अध्वा सूर्येण निर्दिष्टःकीटवद्विचरेन्महीम् । आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥२०॥


Page-----------------३२०--लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् । नासच्छास्त्रेषु सज्जेत नोपजीवेतजीविकाम् । अतिवादांस्त्यजेत्तर्कान्पक्षं कंचन नाश्रयेत् ॥२१॥

नशिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भा-नारभेत्क्वचित् ॥२२॥

अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् ।कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥२३॥

न कुर्यान्न वदेत्किंचिन्नध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥२४॥

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरतिरात्मवा-न्समदर्शनः ॥२५॥

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् । वदेदुन्मत्त-वद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२६॥

क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धो-ऽसूयितोऽपि वा । ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥२७॥

विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकल्पितः । श्रेयस्कामः कृच्छ्रगत आत्म-नात्मानमुद्धरेत् ॥२८॥

संमाननं परां हानिं योगर्द्धेः कुरुते यतः । जनेना-वमतो योगी योगसिद्धिं च विन्दति ॥२९॥

तथा चरेत वै योगी सतांधर्ममदूषयन् । जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥३०॥

जरायु-जाण्डजादीनां वाङ्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्चवर्जयेत् ॥३१॥

कामक्रोधौ तथा दर्पलोभमोहादयश्च ये । तांस्तु दोषा-न्परित्यज्य परिव्राड् भयवर्जितः ॥३२॥

भैक्षाशनं च मौनित्वं तपो ध्यानंविशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥३३॥

काषाय-वासाः सततं ध्यानयोगपरायणः । ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपिवा ॥३४॥

भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् । चित्तशुद्धिर्भवे-द्यावत्तावन्नित्यं चरेत्सुधीः ॥३५॥

ततः प्रव्रज्य शुद्धात्मा संचरेद्यत्रकुत्रचित् । बहिरन्तश्च सर्वत्र संपश्यन्हि जनार्दनम् ॥३६॥

सर्वत्र विचरे-न्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत्॥३७॥

निर्वैरेण समं पश्यन्द्विजगोऽश्वमृगादिषु । भावयन्मनसा विष्णुंपरमात्मानमीश्वरम् ॥३८॥

चिन्मयं परमानन्दं ब्रह्मैचाहमिति स्मरन् ।ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा आशाम्बरधरो भूत्वा सर्वदामनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः स्वरूपानुसन्धानेनभ्रमरकीटन्यायेन मुक्तो भवतीत्युपनिषत् ॥३९॥

इति नारदपरिव्राजकोपनिषत्सु पञ्चमोपदेशः ॥५॥


Page-----------------३२१--अथ नारदः पितामहमुवाच ॥ भगवन् तदभ्यासवशात् भ्रमरकीटन्याय-वत्तदभ्यासः कथमिति । तमाह पितामहः । सत्यवाग्ज्ञानवैराग्याभ्यांविशिष्टदेहावशिष्टो वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि शान्तिदान्तीनेत्रे मनो मुखं बुद्धिः कला पञ्चविंशतितत्त्वान्यवयवा अवस्था पञ्चमहा-भूतानि कर्म भक्तिज्ञानवैराग्यं शाखा जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानिपङ्कस्तम्भाकाराणीति । एवमपि नावमतिपङ्कं कर्णधार इव यन्तेव गजंस्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं कृतकं नश्वरमिति मत्वा विरक्तः पुरुषःसर्वदा ब्रह्माहमिति व्यवहरेन्नान्यत्किंचिद्वेदितव्यं स्वव्यतिरेकेण । जीवन्मुक्तोवसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति व्यवहरेत्किंतु ब्रह्माहमस्मीत्यजस्रंजाग्रत्स्वप्नसुषुप्तिषु । तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तंस्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां चतस्रोऽवस्थास्त्वेकैककरणाघीनानांचतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् । चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणंजिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं वचसो वाग्व्यापारः पाणेरादानंपादयोः संचारः पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम् ।तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुध्यति चित्तेन चेतयत्यहंकारेणा-हंकरोति । विसृज्य जीव एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेनगृहस्थ इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेय्यां निद्रालस्यौदक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः पश्चिमे क्रीडारतिर्वायव्यां गमनेबुद्धिरुत्तरे शान्तिरीशान्ये ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवंवक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयंचतुर्भिर्विरहितं तुरीयातीतम् । विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवःसाक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् । नो चेज्जाग्रदवस्थायां जाग्रदादि-चतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाःतुरीये तुरीयादिचतस्रोऽवस्थाः न त्वेवं तुरीयातीतस्य निर्गुणस्य । स्थूलसूक्ष्म-कारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उततटस्थो द्रष्टा तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्वाहंकारादिभिःस्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोऽपि न स्पृष्ट इति चेन्न । जीवाभि-मानेन क्षेत्राभिमानः । शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहा-काशवद्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति मन्त्रेणोच्छ्वास-----Page------------------३२२--निःश्वासव्यपदेशेनानुसन्धानं करोति । एवं विज्ञाय शरीराभिमानं त्यजेन्नशरीराभिमानी भवति । स एव ब्रह्मेत्युच्यते । त्यक्तसङ्गो जितक्रोधोलघ्वाहारो जितेन्द्रियः । पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्॥१॥

शून्येष्वेवावकाशेषु गुहासु च वनेषु । नित्ययुक्तः सदा योगी ध्यानंसम्यगुपक्रमेत् ॥२॥

आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । महाजनेषुसिद्ध्यर्थी न गच्छेद्योगवित्क्वचित् ॥३॥

यथैनमवमन्यन्ते जनाःपरिभवन्ति च । तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयेत् ॥४॥

वाग्दण्डःकर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी महा-यतिः ॥५॥

विधूमे च प्रशान्ताग्नौ यस्तु माधुकरीं चरेत् । गृहे चविप्रमुख्यानां यतिः सर्वोत्तमः स्मृतः ॥६॥

दण्डभिक्षां च यः कुर्यात्स्वधर्मेव्यसनं विना । यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥७॥

यस्मिन्गृहे विशेषेण लभेद्भिक्षां च वासनात् । तत्र नो याति यो भूयः सयतिर्नेतरः स्मृतः ॥८॥

यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।पारमार्थिकविज्ञानं सुखात्मानं स्वयंप्रभम् ॥९॥

परतत्त्वं विजानातिसोऽतिवर्णाश्रमी भवेत् । वर्णाश्रमादयो देहे मायया परिकल्पिताः॥१०॥

नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा । इति यो वेद वेदान्तैःसोऽतिवर्णाश्रमी भवेत् ॥११॥

यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्श-नात् । स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥१२॥

योऽतीत्यस्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् । सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थ-वेदिभिः ॥१३॥

तस्मादन्यगता वर्णा आश्रमा अपि नारद । आत्मन्यारो-पिताः सर्वे भ्रान्त्या तेनात्मवेदिना ॥१४॥

न विधिर्न निषेधश्च न वर्ज्या-वर्ज्यकल्पना । ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ॥१५॥

विरज्य सर्व-भूतेभ्य आ विरिञ्चिपदादपि । घृणां विपाट्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि॥१६॥

श्रद्धालुर्भुक्तिमार्गेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुंब्रह्मविदं व्रजेत् ॥१७॥

सेवाभिः परितोष्यैनं चिरकालं समाहितः । सदावेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥१८॥

निर्ममो निरहंकारः सर्वसङ्ग-विवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥१९॥

संसार-दोषदृष्ट्यैव विरक्तिर्जायते सदा । विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः॥२०॥

मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम् । अभ्यसेद्ब्रह्मविज्ञानं-----Page-----------------३२३--वेदान्तश्रवणादिना ॥२१॥

ब्रह्मविज्ञानलाभाय परहंससमाह्वयः । शान्ति-दान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥२२॥

वेदान्ताभ्यासनिरतःशान्तो दन्तो जितेन्द्रियः । निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः॥२३॥

जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथ वा भवेत् । प्राज्ञो वेदान्तवि-द्योगी निर्ममो निरहंकृतिः ॥२४॥

मित्रादिषु समो मैत्रः समस्तेष्वेवजन्तुषु । एको ज्ञानी प्रशान्तात्मा स संतरति नेतरः ॥२५॥

गुरूणांच हिते युक्तस्तत्र संवत्सरं वसेत् । नियमेष्वप्रमत्तस्तु यमेषु च सदाभवेत् ॥२६॥

प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् । अविरोधेन धर्मस्यसंचरेत्पृथिवीमिमाम् ॥२७॥

ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम् ।आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥२८॥

अनुज्ञाप्य गुरूंश्चैव चरेद्धिपृथिवीमिमाम् । त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥२९॥

द्वा-विमौ न विरज्येते विपरीतेन कर्मणा । निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षु-कः ॥३०॥

माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति । तस्माद्दृष्टिविषांनारीं दूरतः परिवर्जयेत् ॥३१॥

सं भाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा ।नृत्तं गानं सहासं च परिवादांश्च वर्जयेत् ॥३२॥

न स्नानं न जपः पूजा नहोमो नैव साधनम् । नाग्निकार्यादिकार्यं च नैतस्यास्तीह नारद ॥३३॥

नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च । धर्माधर्मादिकं नास्ति न विधि-र्लौकिकी त्रिया ॥३४॥

संत्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः । कृमि-कीटपतङ्गांश्च तथा योगी वनस्पतीन् ॥३५॥

न नाशयेद्बुधो जीवन्परमार्थ-मतिर्यतिः । नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः ॥३६॥

अन्तः-सङ्गपरित्यागी लोके विहर नारद । नाराजके जनपदे चरत्येकचरो मुनिः॥३७॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्चयतिर्यादृच्छिको भवेदित्युपनिषत् ॥३८॥

इति नारदपरिव्राजकोपनिषत्सु षष्ठोपदेशः ॥६॥

अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः पुरस्कृत्य विरक्तः सन्योवर्षासु ध्रुवशीलोऽष्टौ मास्येकाकी चरन्नैकत्र निवसेद्भिक्षुर्भयात्सारङ्गवदेकत्रन तिष्ठेत्स्वगमननिरोधग्रहणं न कुर्याद्धस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षारो-हणमपि न देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्यदेवार्चनं कुर्यात्स्वव्यतिरिक्तंसर्वं त्यक्त्वा मधुकरवृत्त्याहारमाहरन्कृशो भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिर-----Page------------------३२४--मिव त्यजेदेकत्रान्नं पललमिव गन्धलेपनमशुद्धिलेपनमिव क्षारमन्त्यजमिववस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्पृहां गोमांस-मिव ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्णं कालकूटमिवसभास्थलं श्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्रान्नंन देहान्तरदर्शनं प्रपञ्चवृत्तिं परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहायविस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मरन्स्वशरीराभिमानदेशवि-स्मरणं मत्वा स्वशरीरं शवमिव हेयमुपगम्य कारागृहविनिर्मुक्तचोरवत्पुत्राप्त-बन्दुभवस्थलं विहाय दूरतो वसेत् ॥१॥

अयत्नेन प्राप्तमाहरन्ब्रह्मप्रणवध्यानानु-सन्धानपरो भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोधलोभमोहमदमात्सर्यादिकंदग्ध्वा त्रिगुणातीतः षडूर्भिरहितः षड्भावविकारशून्यः सत्यवाक्शुचिरद्रोहीग्राम एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे पञ्चरात्रमनिकेतः स्थिरम-तिर्नानृतवादी गिरिकन्दरेषु वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतु-र्भिर्ग्राममित्येकश्चरेत् । भिक्षुश्चतुर्दशकरणानां न तत्रावकाशं दद्यादविच्छिन्न-ज्ञानाद्वैराग्यसंपत्तिमनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्यसर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्धप्रतिभासनाशपर्यन्तंचतुर्विधं स्वरूपं ज्ञात्वा देहपतनपर्यन्तं स्वरूपानुसंधानेन वसेत् ॥२॥

त्रिषवण-स्नानं कुटीचकस्य बहूदकस्य द्विवारं हंसस्येकवारं परमहंसस्य मानसस्नानंतुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानम् । ऊर्ध्वपुण्ड्रं कुटीचकस्यत्रिपुण्ड्रं बहूदकस्य ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं हंसस्य भस्मोद्धूलनं परमहंसस्य तुरीया-तीतस्य तिलकपुण्ड्रमवधूतस्य न किंचित् । तुरीयातीतावधूतयोः ऋतुक्षौरंकुटीचकस्य ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य परमहंसस्य च न क्षौरम् ।अस्ति चेदयनक्षौरम् । तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्नंमाधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं तुरीयातीतस्य गोमुखं अवधूत-स्याजगरवृत्तिः । शाटीद्वयं कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं दिग-म्बरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयोर्जातरूपधरत्वं हंसपरम-हंसयोरजिनं न त्वन्येषाम् ॥३॥

कूटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयोर्मान-सार्चनं तुरीयातीतावधूतयोः सोहं भावना । कुटीचकबहूदकयोर्मन्त्रजपाधिकारोहंसपरमहंसयोर्ध्यानाधिकारस्तुरीयातीतावधूतयोर्न त्वन्याधिकारस्तुरीयाती-तावधूतयोर्महावाक्योपदेशाधिकारः परमहंसस्यापि । कुटीचकबहूदकहंसानां-----Page-----------------३२५--नान्यस्योपदेशाधिकारः । कुटीचकबहूदकयोर्मानुषप्रनवः हंसपरमहंसयोरा-न्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः । कुटीचकबहूदकयोः श्रवणं हंस-परमहंसयोर्मननं तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मानुसन्धानंविधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मरञ्जीवन्मुक्तो वसेदधि-कारविशेषेण कैवल्यप्राप्त्युपायमन्विष्येद्यतिरित्युपनिषत् ॥४॥

इति नारदपरिव्राजकोपनिषत्सु सप्तमोपदेशः ॥७॥

अथ हैनं भगवन्तं परमेष्ठिनं नारदः पप्रच्छ संसारतारकं प्रसन्नो ब्रूहीति ।तथेति परमेष्ठी वक्तुमुपचक्रमे ओमिति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण ।का व्यष्टिः का समष्टिः संहारप्रणवः सृष्टिप्रणवश्चान्तर्बहिश्चोभयात्मकत्वात्त्रि-विधो ब्रह्मप्रणवः । अन्तः प्रणवो व्यावहारिकप्रणवः । बाह्यप्रणव आर्षप्रणवः ।उभयात्मको विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव अर्धमात्राप्रणवः । ओ-मिति ब्रह्म । ओमित्येकाक्षरमन्तःप्रणवं विद्धि । स चाष्टधा भिद्यते । अकारो-कारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति । तत्र चत्वार अकारश्चायुतावय-वान्वित उकारः सहस्रावयवान्वितो मकारः शतावयवोपेतोऽर्धमात्राप्रणवो-ऽनन्तावयवाकारः । सगुणो विराट्प्रणवः संहारो निर्गुणप्रणव उभयात्मकोत्प-त्तिप्रणवो यथाप्लुतो विराट्प्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकःषट्त्रिंशत्तत्त्वातीतः । षोडशमात्रात्मकत्वं कथमित्युच्यते । अकारः प्रथमो-कारो द्वितीया मकारस्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः षष्ठी कलासप्तमी कलातीताष्टमी शान्तिर्नवमी शान्त्यतीता दशमी उन्मन्येकादशीमनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा ।षोडशी पुनश्चतुःषष्टिमात्रा प्रकृतिपुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा-स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः सर्वाधारः परंज्योति-रेष सर्वेश्वरो विभुः सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ॥१॥

सर्वाक्षरमयःकालः सर्वागममयः शिवः । सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः ॥२॥

भूतं भव्यं भविष्यद्यत्त्रिकालोदितमव्ययम् । तदप्यॐकारमेवायं विद्धि मोक्षप्र-दायकम् ॥३॥

तमेवात्मानमित्येतद्ब्रह्मशब्देन वर्णितम् । तदेकममृतमजरम-नुभूय तथोमिति ॥४॥

सशरीरं समारोप्य तन्मयत्वं तथोमिति । त्रिशरीरंतमात्मानं परं ब्रह्म विनिश्चिनु ॥५॥

परं ब्रह्मानुसंदध्याद्विश्वादीनां क्रमः क्रमात् ।स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम् ॥६॥

ऐक्यत्वानन्दभोगाच्च-----Page-----------------३२६--सोऽयमात्मा चतुर्विधः । चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक्॥७॥

एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभुः । स्थूलभुक् चतुरात्माथविश्वो वैश्वानरः पुमान् ॥८॥

विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः ।सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप ॥९॥

सूक्ष्मभुक् चतुरात्माथ तैजसोभूतराडयम् । हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः पाद उच्यते ॥१०॥

कामंकामयते यावद्यत्र सुप्तो न कंचन । स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम्॥११॥

एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी । नित्यानन्दमयोऽप्यात्मासर्वजीवान्तरस्थितः ॥१२॥

तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः ।चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ञितः ॥१३॥

एष सर्वेश्वरश्चैष सर्वज्ञःसूक्ष्मभावनः । एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥१४॥

भूतानांत्रयमप्येतत्सर्वोपरमबाधकम् । तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्ति-तम् ॥१५॥

चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम् । तुरीयावसितत्वाच्चएकैकत्वानुसारतः ॥१६॥

ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम् । वि-कल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम् ॥१७॥

मायामात्रं विदित्वैवं सच्चि-देकरसो ह्ययम् । विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम् ॥१८॥

नसूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने । नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमा-न्तरम् ॥१९॥

नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च । तदलक्षणमग्राह्यंयद्व्यवहार्यमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतंचतुर्थं मन्यन्ते स ब्रह्मप्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र भानुवन्मुमुक्षू-णामाधारः स्वयंज्योतिर्ब्रह्माकाशः सर्वदा विराजते परंब्रह्मत्वादित्युपनिषत् ॥२०॥

इति नारदपरिव्राजकोपनिषत्स्वष्टमोपदेशः ॥८॥

अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्छ । तं होवाच पितामहः किंब्रह्मस्वरूपमिति । अन्योऽसावन्योऽहमस्मीति ये विदुस्ते पशवो न स्वभाव-पशवस्तमेवं ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते नान्यः पन्था विद्यतेऽयनाय ।कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोगएषां नत्वात्मभावादात्मा ह्यनीशः सुखदुःखहेतोः ॥१॥

ते ध्यानयोगा-नुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । यः कारणानि निखिलानिज्ञानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥२॥

तमेकस्मिंस्त्रिवृतं षोडशान्तं शता-र्धारं विंशतिप्रत्यराभिः । अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैक-----Page------------------३२७--मोहम् ॥३॥

पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादि-मूलाम् । पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥४॥

सर्वा-जीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारंच मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥५॥

उद्गीथमेतत्परमं तु ब्रह्म तस्मिंस्त्रयंस्वप्रतिष्ठाक्षरं च । अत्रान्तरं वेदविदो विदित्वा लीनाः परे ब्रह्मणि तत्परा-यणाः ॥६॥

संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥७॥

ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्माविश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्म ह्येतत् ॥८॥

क्षरं प्रधानममृताक्षरंहरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्तेविश्वमायानिवृत्तिः ॥९॥

ज्ञात्वा देवं मुच्यते सर्वपाशैः क्षीणैः क्लेशैर्जन्म-मृत्युप्रहाणिः । तस्माभिध्यानात्त्रितयं देहभेदे विश्वैश्वर्यं केवल आत्मकामः॥१०॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् ।भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म ह्येतत् ॥११॥

आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । य एवं विदित्वा स्वरूपमेवानुचिन्त-यंस्तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥१२॥

तस्माद्विराड्भूतं भव्यंभविष्यद्भवत्यनश्वरस्वरूपम् । अणोरणियान्महतो महीयानात्मास्य जन्तो-र्निहितो गुहायाम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमान-मीशम् ॥१३॥

अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥१४॥

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो नशोचति ॥१५॥

सर्वस्य धातारमचिन्त्यशक्तिं सर्वागमान्तार्थविशेषवेद्यम् ।परात्परं परमं वेदितव्यं सर्वावसाने सकृद्वेदितव्यम् ॥१६॥

कविं पुराणंपुरुषोत्तमोत्तमं सर्वेश्वरं सर्वदेवैरुपास्यम् । अनादिमध्यान्तमनन्तमव्ययंशिवाच्युताम्भोरुहगर्भभूधरम् ॥१७॥

स्वेनावृतं सर्वमिदं प्रपञ्चं पञ्चात्मकंपञ्चसु वर्तमानम् । पञ्चीकृतानन्तभवप्रपञ्चं पञ्चीकृतस्वावयवैरसंवृतम् । परा-त्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ॥१८॥

नाविरतोदुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात्॥१९॥

नान्तःप्रज्ञं न बहिःप्रज्ञं न स्थूलं नास्थूलं न ज्ञानं नाज्ञानं नोभयतः-----Page------------------३२८--प्रज्ञमग्राह्यमव्यवहार्यं स्वान्तःस्थितः स्वयमेवेति य एवं वेद स मुक्तोभवति स मुक्तो भवतीत्याह भगवान्पितामहः । स्वस्वरूपज्ञः परिव्राट् परिव्रा-डेकाकी चरति भयत्रस्तसारङ्गवत्तिष्ठति । गमनविरोधं न करोति । स्वशरीर-व्यतिरिक्तं सर्वं त्यक्त्वा षट्पदवृत्त्या स्थित्वा स्वरूपानुसन्धानं कुर्वन्सर्वमन-न्यबुद्ध्या स्वस्मिन्नेव मुक्तो भवति । स परिव्राट् सर्वक्रियाकारकनिवर्तकोगुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वसंसारं विसृज्य चामोहितः परिव्राट् कथंनिर्धनिकः सुखी धनवाञ्ज्ञानाज्ञानोभयातीतः सुखदुःखातीतः स्वयंज्योतिःप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमंपदं यत्र गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति न शशाङ्कोऽपि नस पुनरावर्तते न स पुनरावर्तते तत्कैवल्यमित्युपनिषत् ॥२०॥

इति नारदव्राजकोपनिषत्सु नवमोपदेशः ॥९॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति नारदपरिव्राजकोपनिषत्समाप्ता ॥४५॥

त्रिशिखिब्राह्मणोपनिषत् ॥४६॥[सम्पाद्यताम्]

शुक्लयजुर्वेदीयायोगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् ।प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् ॥ॐ पूर्णमद इति शान्तिः ॥ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगामं तं गत्वोवाच । भगवन् किं देहःकिं प्राणः किं कारणं किमात्मेति । स होवाच सर्वमिदं शिव एव विजानीहि ।किंतु नित्यः शुद्धो निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं दृष्ट्वातप्तायःपिण्डवदेकं भिन्नवदवभासते । तद्भासकं किमिति चेदुच्यते । सच्छ-व्दवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् । महतोऽहं-कारः । अहंकारात्पञ्च तन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहांभूतानि । पञ्च-महाभूतेभ्योऽखिलं जगत् ॥ तदखिलं किमिति । भूतविकारविभागादिरिति ।एकस्मिन्पिण्डे कथं भूतविकारविभाग इति । तत्तत्कार्यकारणभेदरूपेणांशत-त्ववाचकवाच्यस्थानभेदविषयदेवताकोशभेदविभागा भवन्ति । अथाकाशो-----Page------------------३२९--ऽन्तःकरणमनोबुद्धिचित्ताहंकाराः । वायुः समानोदानव्यानापानप्राणाः ।वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । आपः शब्दस्पर्शरूपरसगन्धाः । पृथिवीवाक्पाणिपादपायूपस्थाः । ज्ञानसंकल्पनिश्चयानुसंधानाभिमाना आकाश-कार्यान्तःकरणविषयाः । समीकरणोन्नयनग्रहणश्रवणोच्छ्वासा वायुकार्यप्राणा-दिविषयाः । शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रियविषया अबाश्रिताः ।वचनादानगमनविसर्गानन्दाः पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मज्ञानेन्द्रिय-विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः । मनोबुद्ध्योश्चित्ताहंकारौ चान्तर्भूतौ ।अवकाशविधूतदर्शनपिण्डीकरणधारणाः सूक्ष्मतमा जैवतन्मात्रविषयाः । एवंद्वादशाङ्गानि आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि अत्र निशाकर-चतुर्मुखदिग्वातार्कवरुणाश्वयग्नीन्द्रोपेन्द्रप्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वाद-शनाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं तदेव ज्ञातेति । अथ व्योमा-निलानलजलान्नानां पञ्चीकरणमिति । ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्द-गुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति । मनोव्यानयोगेनत्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायुस्तिष्ठति । बुद्धिरुदान-योगेन चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्तिष्ठति । चित्तमपान-योगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति । अहंकारःप्राणयोगेन घ्राणद्वारा गन्धगुणो गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवीतिष्ठति य एवं वेद । अत्रैते श्लोका भवन्ति -- पृथग्भूते षोडश कलाः स्वार्थ-भागान्परान्क्रमात् । अन्तःकरणव्यानाक्षिरसपायुनभः क्रमात् ॥१॥

मुख्यात्पूर्वोत्तरैर्भागैर्भूते भूते चतुश्चतुः । पूर्वमाकाशमाश्रित्य पृथिव्यादिषुसंस्थिताः ॥२॥

मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः । एवमंशोह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा ॥३॥

तस्मादन्योन्यमाश्रित्य ह्योतंप्रोतमनुक्रमात् । पञ्चभूतमयी भूमिः सा चेतनसमन्विता ॥४॥

ततओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणिधातवः ॥५॥

केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् । तस्मिन्नन्न-मयः पिण्डो नाभिमण्डलसंस्थितः ॥६॥

अस्य मध्येऽस्ति हृदयं सनालंपद्मकोशवत् । सत्त्वान्तर्वर्तिनो देवाः कर्त्रहंकारचेतनाः ॥७॥

अस्य बीजंतमःपिण्डं मोहरूपं जडं घनम् । वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत्॥८॥

प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे । अनन्तशक्ति-----Page------------------३३०--संयुक्तो जगद्रूपेण भासते ॥९॥

सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते ।सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् ॥१०॥

सर्वदेशेष्वनुस्यू-तश्चतूरूपः शिवात्मकः । यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः ॥११॥

तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे । यथा कोशस्तथा जीवो यथाजीवस्तथा शिवः ॥१२॥

सविकारस्तथा जीवो निर्विकारस्तथा शिवः ।कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः ॥१३॥

यथा रसाशयेफेनं मथनादेव जायते । मनोनिर्मथनादेव विकल्पा बहवस्तथा ॥१४॥

कर्मणा वर्तते मर्मी तत्त्यागाच्छान्तिमाप्नुयात् । अयने दक्षिणे प्राप्ते प्रपञ्चा-भिमुखं गतः ॥१५॥

अहंकाराभिमानेन जीवः स्वाद्धि सदाशिवः । सचाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते ॥१६॥

नानायोनिशतं गत्वा शेतेऽसौवासनावशात् । विमोक्षात्संचरत्येव मत्स्यः कूलद्वयं यथा ॥१७॥

ततःकालवशादेव ह्यात्मज्ञानविवेकतः । उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरंक्रमात् ॥१८॥

मूÞर्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् । योगा-त्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥१४॥

योगज्ञानपरो नित्यं स योगीन प्रणश्यति । विकारस्थं शिवं पश्येद्विकारश्च शिवे न तु ॥२०॥

योग-प्रकाशकं योगैर्ध्यायेच्चानन्यभावनः । योगज्ञाने न विद्येते तस्य भावो नसिद्ध्यति ॥२१॥

तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् । योगी निशित-धारेण क्षुरेणैव निकृन्तयेत् ॥२२॥

शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्ग-साधनैः । ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः ॥२३॥

क्रियायोगम-थेदानीं शृणु ब्राह्मणसत्तम । अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित्॥२४॥

यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते । कर्म कर्तव्यमित्येव विहि-तेष्वेव कर्मसु ॥२५॥

बन्धनं मनसो नित्यं कर्मयोगः स उच्यते । यतचित्तस्यसततमर्थे श्रेयसि बन्धनम् ॥२६॥

ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरःशिवः । यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः ॥२७॥

स याति परमंश्रेयो मोक्षलक्षणमञ्जसा । देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ॥२८॥

अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः । सर्ववस्तुन्युदासीनभावमासन-मुत्तमम् ॥२९॥

जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः । चित्तस्यान्तर्मुखी-भावः प्रत्याहारस्तु सत्तम ॥३०॥

चित्तस्य निश्चलीभावो धारणा धारणंविदुः । सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते ॥३१॥

ध्यानस्य-----Page-----------------३३१--विस्मृतिः सम्यक्समाधिरभिधीयते । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम्॥३२॥

क्षमा धृतिर्मिताहारः शौचं चेति यमा दश । तपःसन्तुष्टिरास्तिक्यंदानमाराधनं हरेः ॥३३॥

वेदान्तश्रवणं चैव हीर्मतिश्च जपो व्रतम् ॥इति । आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज ॥३४॥

वर्ण्यन्तेस्वस्तिकं पादतलयोरुभयोरपि । पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् ॥३५॥

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखंगोर्मुखं यथा ॥३६॥

एकं चरणमन्यस्मिन्नूरावारोप्य निश्चलः । आस्ते यदि-दमेनोघ्नं वीरासनमुदीरितम् ॥३७॥

गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेणसमाहितः । योगासनं भवेदेतदिति योगविदो विदुः ॥३८॥

ऊर्वोरुपरिवै धत्ते यदा पादतले उभे । पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् ॥३९॥

पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः । व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनंभवेत् ॥४०॥

पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमावा-तिष्ठेद्व्योमस्थः कुक्कुटासनः ॥४१॥

कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्यकन्धरम् । शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥४२॥

पादाङ्गुष्ठौ तुपाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षकाकृष्टं धनुरासनमीरितम् ॥४३॥

सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु । प्रसार्य जानुनोर्हस्तावासनंसिंहरूपकम् ॥४४॥

गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः । निवेश्यपादौ हस्ताभ्यां बद्ध्वा भद्रासनं भवेत् ॥४५॥

सीवनीपार्श्वमुभयं गुल्फाभ्यांव्युत्क्रमेण तु । निपीड्यासनमेतच्च मुक्तासनमुदीरितम् ॥४६॥

अवष्टभ्यधरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः । कर्पूरौ नाभिपार्श्वे तु स्थापयित्वा मयूर-वत् ॥४७॥

समुन्नतशिरःपादं मयूरासनमिष्यते । वामोरुमूले दक्षाङ्घ्रिंजान्वोर्वेष्टितपाणिना ॥४८॥

वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् ।योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् ॥४९॥

ऋजुकायः समासीनःसिद्धासनमुदीरितम् । प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् ॥५०॥

जानूपरि ललाटं तु पश्चिमं तानमुच्यते । येन केन प्रकारेण सुखं धार्यं चजायते ॥५१॥

तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् । आसनं विजितं येनजितं तेन जगत्त्रयम् ॥५२॥

यमैश्च नियमैश्चैव आसनैश्च सुंसंयतः । नाडी-शुद्धिं च कृत्वादौ प्राणायामं समाचरेत् ॥५३॥

देहमान स्वाङ्गुलिभिः षण्ण-----Page------------------३३२--वत्यङ्गुलायतम् । प्राणः शरीरादधिको द्वादशाङ्गुलमानतः ॥५४॥

देहस्थम-निलं देहसमुद्भूतेन वह्निना । न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते ॥५५॥

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् । त्रिकोणं द्विपदामन्यच्चतुरस्रं चतु-ष्पदम् ॥५६॥

वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् । अष्टास्रं स्वेदजानांतु तस्मिन्दीपवदुज्ज्वलम् । कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् ।चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥५७॥

अण्डाकृति तिरश्चां च द्विजानांच चतुष्पदाम् । तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिष्यते ॥५८॥

तत्रचक्रं द्वादशारं तेषु न्विष्ण्वादिमूर्तयः । अहं अत्र स्थितश्चक्रं भ्रामयामिस्वमायया ॥५९॥

अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम । तन्तुपञ्जरमध्य-स्था यथा भ्रमति लूतिका ॥६०॥

प्राणाविरूढश्चरति जीवस्तेन विना नहि ।तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः ॥६१॥

अष्टप्रकृतिरूपा सा चाष्टधाकुण्डलीकृता । यथावद्वायुसारं च ज्वलनादि च नित्यशः ॥६२॥

परितः कन्द-पार्श्वे तु निरुध्यैव सदा स्थिता । मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा ॥६३॥

योगकालेन मरुता साग्निना बोधिता सती । स्फुरिता हृदयाकाशे नागरूपामहोज्ज्वला ॥६४॥

अपानाद्द्व्यङ्गुलादूर्ध्वमधो मेढ्रस्य तावता । देहमध्यंमनुष्याणां हृन्मध्यं तु चतुष्पदाम् ॥६५॥

इतरेषां तुन्दमध्ये प्राणापानस-मायुताः । चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया ॥६६॥

कन्दमध्ये स्थितानाडी सुषुम्ना सुप्रतिष्ठिता । पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी ॥६७॥

ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् । वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्ति-पद्धतिः ॥६८॥

इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते । इडा समुत्थिताकन्दाद्वामनासापुटावधि ॥६९॥

पिङ्गला चोत्थिता तस्माद्दक्षनासापुटावधि ।गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते ॥७०॥

पुरतः पृष्ठतस्तस्यवामेतरदृशौ प्रति । पूषायशस्विनीनाड्यौ तस्मादेव समुस्थिते ॥७१॥

सव्येतरश्रुत्यवधि पायुमूलादलम्बुसा । अधोगता शुभा नाडी मेढ्रान्तावधि-रायता ॥७२॥

पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी । दशप्रकार-भूतास्ताः कथिताः कन्दसंभवाः ॥७३॥

तन्मूला बहवो नाड्यः स्थूल-सूक्ष्माश्च नाडिकाः । द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नाडयः ॥७४॥

संख्यातुं नैव शक्यन्ते स्थूलमूलाः पृथग्विधाः । यथाश्वत्थदले सूक्ष्माः-----Page-----------------३३३--स्थूलाश्च विततास्तथा ॥७५॥

प्राणापानौ समानश्च उदानो व्यान एव च ।नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥७६॥

चरन्ति दशनाडीषु दशप्राणादिवायवः । प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् ॥७७॥

प्राणएवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः । आस्यनासिकयोर्मध्यं हृदयं नाभि-मण्डलम् ॥७८॥

पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम । अपानश्चरतिब्रह्मन्गुदमेढ्रोरुजानुषु ॥७९॥

समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः ।उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥८०॥

व्यानः श्रोत्रोरुकट्यां चगुल्फस्कन्धगलेषु च । नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः ॥८१॥

तुन्दस्थजलमन्नं च रसादीनि समीकृतम् । तुन्दमध्यगतः प्राणस्तानिकुर्यात्पृथक्पृथक् ॥८२॥

इत्यादिचेष्टनं प्राणः करोति च पृथक्स्थितम् ।अपानवायुर्मूत्रादेः करोति च विसर्जनम् ॥८३॥

प्राणापानादिचेष्टादिक्रियते व्यानवायुना । उज्जीर्यते शरीरस्थमुदानेन नभस्वता ॥८४॥

पोषणादिशरीरस्य समानः कुरुते सदा । उद्गारादिक्रियो नागः कूर्मोऽक्षादि-निमीलनः ॥८५॥

कृकरः क्षुतयोः कर्ता दत्तो निद्रादिकर्मकृत् । मृतगात्रस्यशोभादेर्धनंजय उदाहृतः ॥८६॥

नाडिभेदं मरुद्भेदं मरुतां स्थानमेव च ।चेष्टाश्च विविधास्तेषां ज्ञात्वैव द्विजसत्तम ॥८७॥

शुद्धौ यतेत नाडीनांपूर्वोक्तज्ञानसंयुतः । विविक्तदेशमासाद्य सर्वसंबन्धवर्जितः ॥८८॥

योगाङ्ग-द्रव्यसंपूर्णं तत्र दारुमये शुभे । आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः॥८९॥

तावदासनमुत्सेधे तावद्द्वयसमायते । उपविश्यासनं सम्यक्स्वस्तिकादियथारुचि ॥९०॥

बद्ध्वा प्रागासनं विप्रो ऋजुकायः समाहितः । नासा-ग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् ॥९१॥

रसनां तालुनि न्यस्यस्वस्थचित्तो निरामयः । आकुञ्चितशिरः किंचिन्निबध्नन्योगमुद्रया ॥९२॥

हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् । रेचनं पूरणं वायोः शोधनंरेचनं तथा ॥९३॥

चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते । हस्तेनदक्षिणेनैव पीडयेन्नासिकापुटम् ॥९४॥

शनैः शनैरथ बहिः प्रक्षिपेत्पिङ्ग-लानिलम् । इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया ॥९५॥

पूरितं कुम्भ-येत्पश्चाच्चतुःषष्ट्या तु मात्रया । द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम्॥९६॥

एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु । संपूर्णकुम्भवद्देहं कुम्भ-----Page------------------३३४--येन्मातरिश्वना ॥९७॥

पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना । एवं कृतेसति ब्रह्मंश्चरन्ति दश वायवः ॥९८॥

हृदयाम्भोरुहं चापि व्याकोचं भवतिस्फुटम् । तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् ॥९९॥

प्रातर्मध्यन्दिनेसायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥१००॥

एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते । संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः॥१०१॥

योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः । अल्पाशी स्वल्पनिद्रश्चतेजस्वी बलवान्भवेत् ॥१०२॥

अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् ।प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः ॥१०३॥

कम्पनं वपुषो यस्यप्राणायामेषु मध्यमः । उत्थानं वपुषो यस्य स उत्तम उदाहृतः ॥१०४॥

अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः । पापरोगमहाव्याधिनाशःस्यादुत्तमे पुनः ॥१०५॥

अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः । पट्विन्द्रियःपटुमतिः कालत्रयविदात्मवान् ॥१०६॥

रेचकं पूरकं मुक्त्वा कुम्भीकरणमेवयः । करोति त्रिषु कालेषु नैव तस्यास्ति कुर्लभम् ॥१०७॥

नाभिकन्दे चनासाग्रे पादाङ्गुष्ठे च यत्नवान् । धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा॥१०८॥

सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः । कुक्षिरोगविनाशः स्यान्ना-भिकन्देषु धारणात् ॥१०९॥

नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् ।ब्राह्मे मुहूर्ते संप्राप्ते वायुमाकृष्य जिह्वया ॥११०॥

पिबतस्त्रिषु मासेषुवाक्सिद्धिर्महती भवेत् । अभ्यासतश्च षण्मासान्महारोगविनाशनम् ॥१११॥

यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते । धारणादेव मरुतस्तत्तदारोग्यमश्नुते॥११२॥

मनसो धारणादेव पवनो धारितो भवेत् । मनसः स्थापने हेतु-रुच्यते द्विजपुङ्गव ॥११३॥

करणानि समाहृत्य विषयेभ्यः समाहितः । अपान-मूर्ध्वमाकृष्येदुदरोपरि धारयेत् ॥११४॥

बध्नन्कराभ्यां श्रोत्रादिकरणानियथातथम् । युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं म्मनः ॥११५॥

मनोवशा-त्प्राणवायुः स्ववशे स्थाप्यते सदा । नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते॥११६॥

तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् । शङ्खिनीविवरे याम्येप्राणः प्राणभृतां सताम् ॥११७॥

तावन्त च पुनः कालं सौम्ये चरति सं-ततम् । इत्थं क्रमेण चरता वायुना वायुजिन्नरः ॥११८॥

अहश्च रात्रिं पक्षंच मासमृत्वयनादिकम् । अन्तर्मुखो विजानीयात्कालभेदं समाहितः ॥११९॥


Page-----------------३३५--अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि । अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः॥१२०॥

ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः । पादाङ्गुष्ठे कराङ्गुष्ठेस्फुरणं यस्य न श्रुतिः ॥१२९॥

तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् ।मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति ॥१२२॥

षण्मासावधिरेतस्यजीवितस्य स्थितिर्भवेत् । कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः ॥१२३॥

कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने । मासावधिर्जीवितस्य तु दर्शने तदर्धस्य॥१२४॥

आश्रिते जठरद्वारे दिनानि दश जीवितम् । ज्योतिः स्वद्योतवद्यस्य तदर्धंतस्य जीवितम् ॥१२५॥

जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः । ज्वालायादर्शने मृत्युर्द्विदिने भवति ध्रुवम् ॥१२६॥

एवमादीन्यरिष्टानि दृष्टायुःक्षयका-रणम् । निःश्रेयसाय युञ्जीत जपध्यानपरायणः ॥१२७॥

मनसा परमात्मानंध्यात्वा तद्रूपतामियात् । यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् ॥१२८॥

स्थानात्स्थानं समाकृष्य प्रत्याहारां स उच्यते । पादाङ्गुष्ठं तथा गुल्फं जङ्घामध्यंतथैव च ॥१२९॥

मध्यमूर्वोश्च मूलं च पायुर्हृदयमेव च । मेहनं देहमध्यं चनाभिं च गलकूर्परम् ॥१३०॥

तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् ।भ्रुवोर्मध्यं ललाटं च मूलमूर्ध्वं च जानुनी ॥१३१॥

मूलं च करयोर्मूलं महा-न्त्येतानि वै द्विज । पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु ॥१३२॥

मनसोधारणं यत्तद्युक्तस्य च यमादिभिः । धारणा सा च संसारसागरोत्तारकारणम्॥१३३॥

आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते । पित्तला चतुरस्रा चवसुधा वज्रलाञ्छिता ॥१३४॥

स्मर्तव्या पञ्च घटिकास्तत्रारोप्य प्रभञ्जनम् ।आ जानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् ॥१३५॥

अर्धचन्द्रसमाकारंश्वेतमर्जुनलाञ्छितम् । स्मर्तव्यमम्भः श्वसनमारोप्य दश नाडिकाः ॥१३६॥

आ देहमध्यकट्यन्तमप्निस्थानमुदाहृतम् । तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दश पञ्चच ॥१३७॥

स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् । नाभेरुपरिनासान्तं वायुस्थानं तु तत्र वै ॥१३८॥

वेदिकाकारवद्धूम्रो बलवान्भूतमा-रुतः । स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् ॥१३९॥

घटिका विंशति-स्तस्माद्घ्राणाद्ब्रह्मबिलावधि । व्योमस्थानं नमस्तत्र भिन्नाञ्जनसमप्रभम्॥१४०॥

व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् । पृथिव्यंशे तु देहस्यचतुर्बाहुं किरीटिनम् ॥१४१॥

अनिरुद्धं हरिं योगी यतेत भवमुक्तये ।अबंशे पूरयेद्योगी नारायणमुदग्रधीः ॥१४२॥

प्रद्युम्नमग्नौ वाय्वंशे संकर्षण-----Page------------------३३६--मतः परम् । व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् ॥१४३॥

अचिरा-देव तत्प्राप्तिर्युञ्जानस्य न संशयः । बद्ध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः॥१४४॥

नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि । दन्तैर्दन्तानसंस्पृश्यऊर्ध्वकायः समाहितः ॥१४५॥

संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया ।चिन्तनं वासुदेवस्य परस्य परमात्मनः ॥१४६॥

स्वरूपव्याप्तरूपस्य ध्यानंकैवल्यसिद्धिदम् । यममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः ॥१४७॥

सप्त-जन्मार्जितं पापं तस्य नश्यति योगिनः । नाभिकन्दात्समारभ्य यावद्धृदय-गोचरम् ॥१४८॥

जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् । सुषुप्तं तालु-मध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् ॥१४९॥

तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तुलक्षयेत् । जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥१५०॥

तत्रात्मायंतुरीयस्य तुर्यान्ते विष्णुरुच्यते । ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले-॥१५१॥

सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् । हृदयाम्बुरुहासीनंध्यायेद्वा विश्वरूपिणम् ॥१५२॥

अनेकाकारखचितमनेकवदनान्वितम् । अनेक-भुजसंयुक्तमनेकायुधमण्डितम् ॥१५३॥

नानावर्णधरं देवं शान्तमुग्रमुदायु-धम् ॥ अनेकनयनाकीर्णं सूर्यकोटिसमप्रभम् ॥१५४॥

ध्यायतो योगिनःसर्वमनोवृत्तिर्विनश्यति । हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥१५५॥

कदम्बगोलकाकारं तुर्यातीतं परात्परम् । अनन्तमानन्दमयं चिन्मयं भास्करंविभुम् ॥१५६॥

निवातदीपसदृशमकृत्रिममणिप्रभम् । ध्यायतो योगिनस्तस्यमुक्तिः करतले स्थिता ॥१५७॥

विश्वरूपस्य देवस्य रूपं यत्किंचिदेव हि ।स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥१५८॥

ध्यायतो योगिनो यस्तुसाक्षादेव प्रकाशते । अणिमादिफलं चैव सुखेनैवोपजायते ॥१५९॥

जीवा-त्मनः परस्यापि यद्येवमुभयोरपि । अहमेव परं ब्रह्म ब्रह्माहमिति संस्थितिः॥१६०॥

समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः । ब्रह्म संपद्यते योगी नभूयः संसृतिं व्रजेत् ॥१६१॥

एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥१६२॥

ग्राह्याभावे मनःप्राणो निश्चयज्ञानसंयुतः । शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत्॥१६३॥

मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् । सुषुप्तिवद्यश्चरतिस्वभावपरिनिश्चलः ॥१६४॥

निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्यु-पनिषत् ॥ ॐ पूर्णमद इति शान्तिः ॥इति शुक्लयजुर्वेदीयत्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥४६॥


Page-----------------३३७--

सीतोपोनिषत् ॥४७॥[सम्पाद्यताम्]

आथर्वणीयाइच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् ।तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति । स होवाच प्रजापतिःसा सीतेति । मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिः स्मृता । प्रणवप्रकृतिरूप-त्वात्सा सीता प्रकृतिरुच्यते । सीता इति त्रिवर्णात्मा साक्षान्मायामयीभवेत् । विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते । सकारः सत्यममृतं प्राप्तिःसोमश्च कीर्त्यते । तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ॥१॥

ईकार-रूपिणी सोमामृतावयवदिव्यालंकारस्रङ्मौक्तिकाद्याभरणालंकृता महामाया-ऽव्यक्तरूपिणी व्यक्ता भवति । प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्नाउद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे समुत्पन्ना तृतीया ईकार-रूपिणी अव्यक्तस्वरूपा भवतीति सीतेत्युदाहरन्ति । शौनकीये -- श्रीराम-सान्निध्यवशाज्जगदानन्दकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्तिब्रह्मवादिन इति । अथातो ब्रह्मजिज्ञासेति च । सा सर्ववेदमयी सर्वदेवमयीसर्वलोकमयी सर्वकीर्तिमयी सर्वधर्ममयी सर्वाधारकार्यकारणमयी महा-लक्ष्मीर्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका ब्रह्मस्थावरात्मिका तद्गुण-कर्मविभागभेदाच्छरीररूपा देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेतपिशा-चभूतादिभूतशरीररूपा भूतेन्द्रियमनःप्राणरूपेति च विज्ञायते ॥२॥

सा देवीत्रिविधा भवति--शक्त्यासनेच्छाशक्तिः क्रियाशक्तिः साक्षाच्छक्तिरिति ।इच्छाशक्तिस्त्रिविधा भवति--श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणीसोमसूर्याग्निरूपा भवति । सोमात्मिका ओषधीनां प्रभवति कल्पवृक्षपुष्पफल-लतागुल्मात्मिका औषधभेषशात्मिका अमृतरूपा देवानां महत्स्तोमफलप्रदाअमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तज्जीवानां सूर्यादि-सकलभुवनप्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य घटिकाष्टयाम-दिवसवाररात्रिभेदेन पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां शतायुः-----Page------------------३३८--कल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन निमेषमारभ्य परार्धपर्यन्तं काल-चक्रं जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः सर्वस्यैतस्यैव कालस्यविभागविशेषाः प्रकाशरूपाः कालरूपा भवन्ति । अग्निरूपा अन्नपानादि-प्राणिनां क्षुतृष्णात्मिका देवानां मुखरूपा वनौषधीनां शीतोष्णरूपा काष्ठेष्वन्त-र्बहिश्च नित्यानित्यरूपा भवति ॥३॥

श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्संक-ल्पानुगुण्येन लोकरक्षणार्थं रूपं धारयति । श्रीरिति लक्ष्मीरिति लक्ष्यमाणाभवतीति विज्ञायते । भूदेवी ससागराम्भःसप्तद्वीपा वसुन्धरा भूरादिचतुर्दश-भुवनानामाधाराधेया प्रणवात्मिका भवति । नीला च मुखविद्युन्मालिनीसर्वौषधीनां सर्वप्राणिनां पोषणार्थं सर्वरूपा भवति । समस्तभुवनस्याधोभागेजलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते ॥ क्रियाशक्तिस्वरूपंहरेर्मुखान्नादः । तन्नादाद्बिन्दुः । बिन्दोरॐकारः । ॐकारात्परतो रामवैखान-सपर्वतः । तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति ॥४॥

तत्र त्रयीमयंशास्त्रमाद्यं सर्वार्थदर्शनम् । ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता ।कार्यसिद्धेन चतुर्धा परिकीर्तिता । ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ।चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी । अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्म-कम् । तथा दिशन्त्याभिचारसानान्येन पृथक्पृथक् । एकविंशतिशाखाया-मृग्वेदः परिकीर्तितः । शतं च नवशाखासु यजुषामेव जन्मनाम् । साम्नः सहस्र-शाखाः स्युः पञ्चशाखा अथर्वणः । वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् ।स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा निरुक्तंज्योतिषं छन्द एतानि षडङ्गानि ॥५॥

उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । निबन्धाः सर्वशाखा च समयाचार-सङ्गतिः । धर्मशास्त्रं महर्षीणामन्तःकरणसंभृतम् । इतिहासपुराणाख्यमुपाङ्गं चप्रकीर्तितम् । वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । आयुर्वेदश्च पञ्चैतेउपवेदाः प्रकीर्तिताः । दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । एक-विंशतिभेदोऽय स्प्रकाशः प्रकीर्तितः । वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भ-वेत् । त्रयीरूपेण संकल्प्य इत्थं देही विजृम्भते । संख्यारूपेण संकल्प्य वैखा-नसऋषेः पुरा । उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ।शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता । साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपा-विर्भावप्रादुर्भावात्मिका निग्रहानुग्रहरूपा शान्तितेजोरूपा व्यक्ताव्यक्त-कारणचरणसमग्रावयवमुखवर्णभेदाभेदरूपा भगवत्सहचारिण्यनपायिन्य-----Page------------------३३९--नवरतसहाश्रयिण्युदितानुदिताकारा निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानु-ग्रहादिसर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ॥६॥

इच्छाशक्ति-स्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्सा-कृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः । भोगशक्तिर्भोगरूपा कल्पवृक्ष-कामधेनुचिन्तामणिशङ्खपद्मनिध्यादिनवनिधिसमाश्रिता भगवदुपासकानांकामनयाऽकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वायमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिभिर्वालमनण्वपि गोपुर-प्राकारादिभिर्विमानादिभिः सह भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानादिभिर्वापितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा सर्वं क्रियते ॥७॥

अथातो वीरशक्तिश्चतुर्भुजाऽभयवरदपद्मधरा किरीटाभरणयुता सर्वदेवैः परि-वृता कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलैरभिषिच्यमाना सर्वदैवतैर्ब्रह्मा-दिभिर्वन्द्यमाना अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना वेदशा-स्त्रादिभिः स्तूयमाना जयाद्यप्सरःस्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यांदीपाभ्यां प्रकाश्यमाना तुम्बुरुनारदादिभिर्गीयमाना राकासिनीवालीभ्यांछत्रेण ह्लादिनीमायाभ्यां चामरेण स्वाहास्वधाभ्यां व्यजनेन भृगुपुण्यादिभि-रभ्यर्च्यमाना देवी दिव्यसिंहासने पद्मासनारूढा सकलकारणकार्यकरी लक्ष्मी-र्देवस्य पृथग्भवनकल्पना । अलंचकार स्थिरा प्रसन्नलोचना सर्वदेवतैःपूज्यमाना वीरलक्ष्मीरिति विज्ञायत इत्युपनिषत् ॥८॥

ॐ ॥ भद्रं कर्णेभिरिति शान्तिः ॥इत्याथर्वणीयसीतोपनिषत्समाप्ता ॥४७॥

योगचूडामण्युपनिषत् ॥४८॥[सम्पाद्यताम्]

मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् ।योगज्ञानैकफलकं रामचन्द्रपदं भजे ॥ॐ आप्यायन्त्विति शान्तिः ॥ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया । कैवल्यसिद्धिदं गूढंसेवितं योगवित्तमैः ॥१॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानंसमाधिरेतानि योगाङ्गानि भवन्ति षट् ॥२॥

एकं सिद्धासनं प्रोक्तं द्वितीयंकमलासनम् । षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥३॥

स्वदेहेयो न जानाति तस्य सिद्धिः कथं भवेत् । चतुर्दलं स्यादाधारं स्वाधिष्ठानं च-----Page-----------------३४०--षड्दलम् ॥४॥

नाभौ दशदलं पद्मं हृदये द्वादशारकम् । षोडशारं विशु-द्धाख्यं भ्रूमध्ये द्विदलं तथा ॥५॥

सहस्रदलसंख्यातं ब्रह्मरन्ध्रे महापथि ।आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥६॥

योनिस्थानं द्वयोर्मध्येकामरूपं निगद्यते । कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥७॥

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । तस्य मध्ये महालिङ्गंपश्चिमाभिमुखं स्थितम् ॥८॥

नाभौ तु मणिवद्बिम्बं यो जानाति स योग-वित् । तप्तचामीकराभासं तडिलेखेव विस्फुरत् ॥९॥

त्रिकोणं तत्पुरंवह्नेरधो मेढ्रात्प्रतिष्ठितम् । समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥१०॥

तस्मिन्दृष्टे महायोगे यातायातो न विद्यते । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानंतदाश्रयः ॥११॥

स्वाधिष्ठानाश्रयादस्मान्मेढ्रमेवाभिधीयते । तन्तुना मणि-वत्प्रोतो योऽत्र कन्दः सुषुम्नया ॥१२॥

तन्नाभिमण्डले चक्रं प्रोच्यतेमणिपूरकम् । द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥१३॥

तावज्जीवोभ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्ड-वत् ॥१४॥

तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः । तेषु नाडीसह-स्रेषु द्विसप्ततिरुदाहृता ॥१५॥

प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥१६॥

गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी । अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता॥१७॥

एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा । इडा वामे स्थिताभागे दक्षिणे पिङ्गला स्थिता ॥१८॥

सुषुम्ना मध्यदेशे तु गान्धारी वाम-चक्षुषि । तक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥१९॥

यशस्विनीवामकर्णे चानने चाप्यलम्बुसा । कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी॥२०॥

एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् । इडापिङ्गलासौषुम्नाःप्राणमार्गे च संस्थिताः ॥२१॥

सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥२२॥

नागः कूर्मोऽथ कृकरोदेवदत्तो धनंजयः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥२३॥

समानो नाभिदेशे तु उदानः कण्ठमध्यगः । व्यानः सर्वशरीरे तु प्रधानाःपञ्च वायवः ॥२४॥

उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा । कृकरःक्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥२५॥

न जहाति मृतं वापि सर्वव्यापीधनंजयः । एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥२६॥

आक्षिप्तोभुजदण्डेन यथा चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न-----Page-----------------३४१--तिष्ठति ॥२७॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिण-मार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥२८॥

रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यतेपुनः । पुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥२९॥

प्राणापानवशोजीवो ह्यधश्चोर्ध्वं च गच्छति । अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् ॥३०॥

हकारेण बहि-र्याति सकारेण विशेत्पुनः । हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥३१॥

षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः । एतत्संख्यान्!वितं मन्त्रं जीवोजपति सर्वदा ॥३२॥

अजपा नाम गायत्री योगिनां मोक्षदा सदा । अस्याःसंकल्पमात्रेण सर्वपापैः प्रमुच्यते ॥३३॥

अनया सदृशी विद्या अनया सदृशोजपः । अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥३४॥

कुण्डलिन्यासमुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित्॥३५॥

कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखं नित्यंमुखेनाच्छाद्य तिष्ठति ॥३६॥

येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् । मुखे-नाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥३७॥

प्रबुद्धा वह्नियोगेन मनसा मरुतासह । सूचीवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ॥३८॥

उद्घाटयेत्कवाटं तुयथा कुञ्चिकया गृहम् । कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥३९॥

कृत्वा संपुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि संनिधाय चुबुकंध्यानं च तच्चेष्टितम् । वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राण-मुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥४०॥

अङ्गानां मर्दनं कृत्वा श्रम-संजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥४१॥

ब्रह्मचारीमिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचा-रणा ॥४२॥

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुञ्जते शिवसंप्रीत्यामिताहारी स उच्यते ॥४३॥

कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः ।बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥४४॥

महामुद्रा नभोमुद्राओड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम्॥४५॥

पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेद्दृढम् । अपानमूर्ध्वमाकृष्यमूलबन्धो विधीयते ॥४६॥

अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः । युवाभवति वृद्धोऽपि सततं मूलबन्धनात् ॥४७॥

ओड्याणं कुरुते यस्मादवि-श्रान्तं महाखगः । ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥४८॥

उदरा-त्पश्चिमं ताणमधो नाभेर्निगद्यते । ओड्याणमुदरे बन्धस्तत्रं बन्धो विधीयते-----Page-----------------३४२--॥४९॥

बध्नाति हि शिरोजातमधोगामि नभोजलम् । ततो जालन्धरो बन्धःकष्टदुःखौघनाशनः ॥५०॥

जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । नपीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥५१॥

कपालकुहरे जिह्वा प्रविष्टाविपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥५२॥

न रोगो मरणंतस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥५३॥

पीड्यते न च रोगेण लिप्यते न स कर्मभिः । बाध्यते न च केनापियो मुद्रां वेत्ति खेचरीम् ॥५४॥

चित्तं चरति खे यस्माज्जिह्वा चरति खेयतः । तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ॥५५॥

बिन्दुमूलशरीराणिशिरास्तत्र प्रतिष्ठिताः । भावयन्ती शरीराणि आ पादतलमस्तकम् ॥५६॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षीयते बिन्दुः कामि-न्यालिङ्गितस्य च ॥५७॥

यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ।यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥५८॥

ज्वलितोऽपि यथा बिन्दुःसंप्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥५९॥

स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा । पाण्डरं शुक्लमित्याहुर्लोहिताख्यंमहारजः ॥६०॥

सिन्दूरव्रातसंकाशं रविस्थानस्थितं रजः । शशिस्थान-स्थितं शुक्लं तयोरैक्यं सुदुर्लभम् ॥६१॥

बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दूरजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥६२॥

वायुनाशक्तिचालेन प्रेरितं च यथा रजः । याति बिन्दुः सदैवत्वं भवेद्द्विव्य-वपुस्तदा ॥६३॥

शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण संगतम् ।तयोः समरसैकत्वं यो जानाति स योगवित् ॥६४॥

शोधनंनाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते॥६५॥

वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्याम-नुधारयन्प्रसरितं पादं तथा दक्षिणम् । आपूर्यं श्वसनेन कुक्षियुगलं बद्ध्वाशनै रेचयेत्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥६६॥

चन्द्रां-शेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः । या तुल्या तु भवेत्संख्या ततो मुद्रांविसर्जयेत् ॥६७॥

नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अतिभुक्तंविषं घोरं पीयूषमिव जीर्यते ॥६८॥

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥६९॥

कथितेयं महा-मुद्रा महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित्-----Page-----------------३४३--॥७०॥

पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदो-ङ्कारमव्ययम् ॥७१॥

ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यात-मनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत् परिवर्तमानं सर्वदाऽनवच्छिन्नंपरंब्रह्म तस्माज्जाता परा शक्तिः स्वयंज्योतिरात्मिका । आत्मन आकाशःसंभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । एतेषांपञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति । तेषां ब्रह्मविष्णु-रुद्राश्चोत्पत्तिस्थितिलयकर्तारः । राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो रुद्रैत्येते त्रयो गुणयुक्ताः । ब्रह्मा देवानां प्रथमः संबभूव । धाता च सृष्टौविष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बभूवुः । एतेषांब्रह्मणो लोका देवतिर्यङ्गरस्थावराश्च जायन्ते । तेषां मनुष्यादीनां पञ्चभूतस-मवायः शरीरम् । ज्ञानकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचि-त्ताहंकारैः स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते । ज्ञानकर्मेन्द्रियैर्ज्ञा-नविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते ।गुणत्रययुक्तं कारणम् । सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते । जाग्रत्स्वप्नसुषुप्ति-तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतयश्चत्वारः पुरुषा विश्वतैजस-प्राज्ञात्मानश्चेति । विश्वो हि स्थूलभुङ्गित्यं तैजसः प्रविविक्तभुक् । आनन्द-भुक् तथा प्राज्ञः सर्वसाक्षीत्यतः परः ॥७२॥

प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषुभोगतः । अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः ॥७३॥

अकार उकारोमकारश्चेति त्रयो वर्णास्त्रयो वेदास्त्रयो लोकास्त्रयो गुणास्त्रीण्यक्षराणि त्रयःस्वरा एवं प्रणवः प्रकाशते । अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु ।उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः ॥७४॥

विराड्विश्वः स्थूलश्चा-कारः । हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः । कारणाव्याकृतप्राज्ञश्च मकारः ।अकारो राजसो रक्तो ब्रह्मा चेतन उच्यते । उकारः सात्त्विकः शुक्लो विष्णु-रित्यभिधीयते ॥७५॥

मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते । प्रणवा-त्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः ॥७६॥

प्रणवात्प्रभवो रुद्रः प्रणवो हिपरो भवेत् । अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥७७॥

मकारेलीयते रुद्रः प्रणवो हि प्रकाशते । ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः॥७८॥

एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् । अनाहतस्वरूपेण ज्ञानिना-मूर्ध्वगो भवेत् ॥७९॥

तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । प्रणवस्य-----Page-----------------३४४--ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते ॥८०॥

ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसू-क्ष्मतः । ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥८१॥

जाग्रन्नेत्रद्वयो-र्मध्ये हंस एव प्रकाशते । सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् ॥८२॥

हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुर्हकारोहि भवेद्ध्रुवम् ॥८३॥

इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते । मम-त्वेन भवेज्जीवो निर्ममत्वेन केवलः ॥८४॥

भूर्भुवः स्वरिमे लोकाः सोम-सूर्याग्निदेवताः । यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥८५॥

क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी । त्रिधा मात्रास्थितिर्यत्रतत्परं ज्योतिरोमिति ॥८६॥

वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् ।मनसा तज्जपेन्नित्यं तत्परंज्योतिरोमिति ॥८७॥

शुचिर्वाप्यशुचिर्वापि योजपेत्प्रणवं सदा । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥८८॥

चलेवाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुंनिरुन्धयेत् ॥८९॥

यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति । मरनंतस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥९०॥

यावद्वायुः स्थितो देहे ताव-ज्जीवो न मुञ्चति । यावद्वृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥९१॥

अल्प-कालभयाद्ब्रह्मन् प्राणायामपरो भवेत् । योगिनो मुनयश्चैव ततः प्राणान्नि-रोधयेत् ॥९२॥

षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेणप्राणायामो विधीयते ॥९३॥

शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् ।तदैव जायते योगी प्राणसंग्रहणक्षमः ॥९४॥

बद्धपद्मासनो योगी प्राणंचन्द्रेण पूरयेत् । धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् ॥९५॥

अमृतोदधिसंकाशं गोक्षीरधवलोपमम् । ध्यात्वा चन्द्रमसं बिम्बं प्राणायामेसुखी भवेत् ॥९६॥

स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् । ध्यात्वाहृदि स्थितं योगी प्राणायामे सुखी भवेत् ॥९७॥

प्राणं चेदिडया पिबे-न्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वा-मया । सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः शुद्धा नाडिगणाभवन्ति यमिनो मासद्वयादूर्ध्वतः ॥९८॥

यथेष्टधारणं वायोरनलस्यप्रदीपनम् । नादाभिव्यक्तिरारोग्य जायते नाडिशोधनात् ॥९९॥

प्राणो-----Page-----------------३४५--देहस्थितो यावदपानं तु निरुन्धयेत् । एकश्वासमयी मात्रा ऊर्ध्वाधो गगनेगतिः ॥१००॥

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवे-देवं मात्राद्वादशसंयुतः ॥१०१॥

मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ ।दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा ॥१०२॥

पूरकं द्वादशं कुर्या-त्कुम्भकं षोडशं भवेत् । रेचकं दश चॐकारः प्राणायामः स उच्यते ॥१०३॥

अधमे द्वादश मात्रा मध्यमे द्विगुणा मता । उत्तमे त्रिगुणा प्रोक्ता प्राणाया-मस्य निर्णयः ॥१०४॥

अधमे स्वेदजननं कम्पो भवति मध्यमे । उत्तमेस्थानमाप्नोति ततो वायुं निरुन्धयेत् ॥१०५॥

बद्धपद्मासनो योगी नम-स्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥१०६॥

द्वाराणां नव संनिरुध्य मरुतं बद्ध्वा दृढां धारणां नीत्वा कालमपानवह्निस-हितं शक्त्या समं चालितम् । आत्मध्यानयुतस्त्वनेन विधिना विन्यस्यमूर्ध्नि स्थिरं यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते ॥१०७॥

प्राणायामो भवेदेवं पातकेन्धनपावकः । भवोदधिमहासेतुः प्रोच्यते योगि-भिः सदा ॥१०८॥

आसनेन रुजं हन्ति प्राणायामेन पातकम् । विकारंमानसं योगी प्रत्याहारेण मुञ्चति ॥१०९॥

धारणाभिर्मनोधैर्यं यातिचैतन्यमद्भुतम् । समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥११०॥

प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः । प्रत्याहारद्विषट्केन जायते धारणाशुभा ॥१११॥

धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः । ध्यानद्वादश-केनैव समाधिरभिधीयते ॥११२॥

यत्समाधौ परंज्योतिरनन्तं विश्वतो-मुखम् । तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥११३॥

संबद्धासनमे-ढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुटद्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ।बद्ध्वा वक्षसि वह्वयानसहितं मूर्ध्नि स्थिरं धारयेदेवं यान्ति विशेषतत्त्वस-मतां योगीश्वरास्तन्मनः ॥११४॥

गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् ।घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥११५॥

प्राणायामेन युक्तेनसर्वरोगक्षयो भवेत् । प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥११६॥

हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः । भवन्ति विविधा रोगाः पव-नव्यत्ययक्रमात् ॥११७॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥११८॥

युक्तं युक्त त्यजेद्वायुं-----Page-----------------३४६--अयुक्तं युक्तं प्रपूरयेत् । युक्तं युक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् ॥११९॥

चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहारः सौच्यते ॥१२०॥

यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् । तृतीयाङ्गस्थितोयोगी विकारं मानसं हरेदित्युपनिषत् ॥१२१॥

ॐ आप्यायन्त्विति शान्तिः ॥इति योगचूडामण्युपनिषत्समाप्ता ॥४८॥

निर्वाणोपनिषत् ॥४९॥[सम्पाद्यताम्]

निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ॐ वाङ्मे मनसीति शान्ति ।अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् ॥ परिव्राजकाःपश्चिमलिङ्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयंनिरञ्जनम् । निःसंशय ऋषिः । निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवल-ज्ञानम् । ऊर्ध्वाम्नायः । निरालम्बपीठः । संयोगदीक्षा । वियोगोपदेशः ।दीक्षासंतोषपानं च । द्वादशादित्यावलोकनम् । निवेकरक्षा । करुणैव केलिः ।आनन्दमाला एकान्तगुहायां मुक्तासनसुखगोष्ठी । अकल्पितभिक्षाशी ।हंसाचारः । सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् । धैर्यकन्था । उदासीन-कौपीनम् । विचारदण्डः । ब्रह्मावलोकयोगपट्टः । श्रियां पादुका । परेच्छाच-रणम् । कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।खेचरीमुद्रा च । परमानन्दी । निर्गतगुणत्रयम् । विवेकलभ्यम् । मनोवाग-गोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् । तथा देहादिसंघातंमोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानल-क्ष्यम् । अङ्कुशो मार्गः । शून्यं न संकेतः परमेश्वरसत्ता । सत्यसिद्धयोगोमठः । अमरपदं तत्स्वरूपम् । आदिब्रह्मस्वसंवित् । अजपा गायत्री । विकार-दण्डो ध्येयः । मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् । आन-न्दभिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् । आनन्द-मठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् । निरा-----Page------------------३४७--लम्बपीठम् । अमृतकल्लोलानन्दक्रिया । पाण्डरगगनम् । महासिद्धान्तः ।शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । परावरसंयोगः । तारकोपदेशः ।अद्वैतसदानन्दो देवता । नियमः स्वान्तरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्या-गस्त्यागः । परावरैक्यरसास्वादनम् । अनियामकत्वनिर्मलशक्तिः । स्वप्रकाश-ब्रह्मतत्त्वे शिवशक्तिसंपुटितप्रपञ्चच्छ्रेदनम् । तथा पत्राक्षाक्षिकमण्डलुः ।भावाभावदहनम् । बिभ्रत्याकाशाधारम् । शिवं तुरीयं यज्ञोपवीतम् । तन्मयाशिखा । चिन्मयं चोत्सृष्टिदण्डम् । संतताक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था ।मायाममताहंकारदहनम् । श्मशाने अनाहताङ्गी निस्त्रैग्ण्यस्वरूपानुसन्धानंसमयम् । भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । काठिन्यदृढकौपीनम् ।चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचारस्वस्वभावोमोक्षः परं ब्रह्म । प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् । ब्रह्मचर्याश्रमेऽ-धीत्य वानप्रस्थाश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् । अन्ते ब्रह्माखण्डाका-रम् । नित्यं सर्वसंदेहनाशनम् । एतन्निर्वाणदर्शनं शिष्यं पुत्रं विना न देय-मित्युपनिषत् ॥ ॐ वाङ्मे मनसीति शान्तिः ॥

इति निर्वाणोपनिषत्समाप्ता ॥४९॥

मण्डलब्राह्मणोपनिषत् ॥५०॥[सम्पाद्यताम्]

बाह्यान्तस्तारकाकारं व्योमपञ्चकविग्रहम् ।राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे ॥१॥

ॐ पूर्णमद इति शान्तिः ।ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम । तमादित्यं नत्वा भोभगवन्नादित्यात्मतत्त्वमनुब्रूहीति । स होवाच नारायणः । ज्ञानयुक्तयमाद्यष्टाङ्ग-योग उच्यते । शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्रि-यनिग्रहश्चैते यमाः । गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्व-स्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्य-भावश्च नियमाः । सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति । पूरक-कुम्भकरेचकैः षोडशचतुःषष्टिद्वात्रिंशत्संख्यया यथाक्रमं प्राणायामः । विषयेभ्यैन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः । सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ।विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणं भवति । ध्यानविस्मृतिः-----Page-----------------३४८--समाधिः । एवं सूक्ष्माङ्गानि । य एवं वेद स मुक्तिभाग्भवति ॥१॥

देहस्य पञ्च दोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः । तन्निरासस्तु निःसंक-ल्पक्षमालध्वाहाराप्रमादतातत्त्वसेवनम् । निद्राभयसरीसृपं हिंसादितरङ्गंतृष्णावर्तं दारपङ्कं संसारवार्धिं तरीतुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्र-म्य तारकमवलोकयेत् । भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म । तदु-पायं लक्ष्यत्रयावलोकनम् । मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा ।मृणालतन्तुसूक्ष्मा कुण्डलिनी । तत्र तमोनिवृत्तिः । तद्दर्शनात्सर्वपापनिवृत्तिः ।तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कारशब्दो जायते । तत्र स्थिते मनसिचक्षुर्मध्यनीलज्योतिः पश्यति । एवं हृदयेऽपि । बहिर्लक्ष्यं तु नासाग्रे चतुः-षडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्ण-द्वयोपेतं व्योमत्वं पश्यति स तु योगी चलनदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दृष्टिः स्थिरा भवति । शीर्षोपरिद्वादशाङ्गुलिमानं ज्योतिः पश्यति तदाऽमृतत्वमेति । मध्यलक्ष्यं तु प्रातश्चि-त्रादिवर्णसूर्यचन्द्रवह्निज्वालावलीवत्तद्विहीनान्तरिक्षवत्पश्यति । तदाकारा-कारी भवति । अभ्यासान्निर्विकारं गुणरहिताकाशं भवति । विस्फुरत्तारका-कारगाढतमोपमं पराकाशं भवति । कालानलसमं द्योतमानं महाकाशंभवति । सर्वोत्कृष्टपरमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति । कोटिसूर्यप्र-काशं सूर्याकाशं भवति । एवमभ्यासात्तन्मयो भवति य एवं वेद ॥२॥

तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः । पूर्वं तु तारकं विद्यादमनस्कंतदुत्तरमिति । तारकं द्विविधम् -- मूर्तितारकममूर्तितारकमिति । यदिन्द्रि-यान्तं तन्मूर्तितारकम् । यद्भूयुगातीतं तदमूर्तितारकमिति । उभयमपिमनोयुक्तमभ्यसेत् । मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति । भ्रूयुगम-ध्यबिले तेजस आविर्भावः । एतत्पूर्वतारकम् । उत्तरं त्वमनस्कम् । तालु-मूलोर्ध्वभागे महाज्योतिर्विद्यते । तद्दर्शनादणिमादिसिद्धिः । लक्ष्येऽन्तर्बा-ह्यायां दृष्टौ निमेषोन्मेषवर्जितायां चेयं शाम्भवी मुद्रा भवति । सर्वतन्त्रेषुगोप्यमहाविद्या भवति । यज्ज्ञानेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् ।अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति । महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम्॥३॥

सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुष-रूपमन्तर्लक्ष्यमित्यपरे । शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्रमुमासहायं नील-----Page------------------३४९--कण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् । अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ।उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एवब्रह्मनिष्ठो भवति जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्यषड्विशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति । एवमन्तर्लक्ष्यदर्शनेन जीव-न्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति ॥४॥

इति मण्डलब्राह्मणोपनिषत्सु प्रथमं ब्राह्मणम् ॥१॥

अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ । भगवन्नन्तर्लक्ष्यादिकंबहुधोक्तम् । मया तन्न ज्ञातम् । तद्ब्रूहि मह्यम् । तदुहोवाच पञ्चभूतकारणंतडित्कूटाभं तद्वच्चतुःपीठम् । तन्मध्ये तत्त्वप्रकाशो भवति । सोऽतिगूढअव्यक्तश्च । तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् । तद्बाह्याभ्यन्तर्लक्ष्यम् । तन्मध्येजगल्लीनम् । तन्नादबिन्दुकलातीतमखण्डमण्डलम् । तत्सगुणनिर्गुणस्वरूपम् ।तद्वेत्ता विमुक्तः । आदावग्निमण्डलम् । तदुपरि सूर्यमण्डलम् । तन्मध्येसुधाचन्द्रमण्डलम् । तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् । तद्विद्युल्लेखावच्छुक्लभा-स्वरम् । तदेव शाम्भवीलक्षणम् । तद्दर्शने तिस्रो मूर्तयः -- अमा प्रतिपत् पूर्णिमाचेति । निमीलितदर्शनममादृष्टिः । अर्धोन्मीलितं प्रतिपत् । सर्वोन्मीलनंपूर्णिमा भवति । तासु पूर्णिमाभ्यासः कर्तव्यः । तल्लक्ष्यं नासाग्रम् । यदातालुमूले गाढतमो दृश्यते । तदभ्यासादखण्डमण्डलाकारज्योतिर्दृश्यते ।तदेव सच्चिदानन्दं ब्रह्म भवति । एवं सहजानन्दे यदा मनो लीयते तदाशान्तो भवी भवति । तामेव खेचरीमाहुः । तदभ्यासान्मनःस्थैर्यम् । ततोवायुस्थैर्यम् । तच्चिह्नानि -- आदौ तारकवद्दृश्यते । ततो वज्रदर्पणम् । ततौपरि पूर्णचन्द्रमण्डलम् । ततो नवरत्नप्रभामण्डलम् । ततो मध्याह्नार्क-मण्डलम् । ततो वह्निशिखामण्डलं क्रमाद्दृश्यते ॥१॥

तदा पश्चिमाभि-मुखप्रकाशः स्फटिकधूम्रबिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसवर्णनवरत्नादिप्रभादृश्यन्ते । तदेव प्रणवस्वरूपम् । प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्रद-र्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखीकरणेन प्रणवध्वनिं निशम्य मन-स्तत्र लीनं भवति । तस्य न कर्मलेपः । रवेरुदयास्तमययोः किल कर्म कर्त-व्यम् । एवंविधश्चिदादित्यस्योदयास्तमयाभावात्सर्वकर्माभावः । शब्दकाल-लयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेनोन्मन्यवस्थावशेन ब्रह्मैक्यं-----Page-----------------३५०--भवति । उन्मन्या अमनस्कं भवति । तस्य निश्चिन्ता ध्यानम् । सर्वकर्मनि-राकरणमावाहनम् । निश्चयज्ञानमासनम् । उन्मनीभावः पाद्यम् । सदाऽम-नस्कमर्ध्यम् । सदादीप्तिरपारामृतवृत्तिः स्नानम् । सर्वत्र भावना गन्धः ।दृक्खरूपावस्थानमक्षताः । चिदाप्तिः पुष्पम् । चिदग्निस्वरूपं धूपः । चिदा-दित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् । निश्चलत्वंप्रदक्षिणम् । सोऽहंभावो नमस्कारः । मौनं स्तुतिः । सर्वसंतोषो विसर्जनमितिय एवं वेद ॥२॥

एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीप-वदचलसंपूर्णभावाभावविहीनकैवल्यज्योतिर्भवति । जाग्रन्निन्दान्तःपरिज्ञानेनब्रह्मविद्भवति । सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसिलीनत्वान्मुक्तिहेतुत्वाभावाच्च । समाधौ मृदिततमोविकारस्य तदाकाराकारि-ताखण्डाकारवृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः संपद्यते प्रपञ्चस्य मनःकल्पि-तत्वात् । ततो भेदाभावात् कदाचिद्बहिर्गतेऽपि मिथ्यात्वभानात् । सकृद्वि-भातसदानन्दानुभवैकगोचरो ब्रह्मचित्तदैव भवति । यस्य संकल्पनाशः स्यात्तस्यमुक्तिः करे स्थिता । तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तोभवति । पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्येचोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् । य एवं वेद ॥३॥

पञ्चावस्थाᳲआग्रत्स्वप्नसुषुप्तितुरीयातीताः । जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः ।पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते । स एव स्वीकृतवैरा-ग्यात्कर्मफलजन्माऽलं संसारबन्धनमलमिति विमुक्त्याभिमुखो निवृत्तिमार्गप्र-वृत्तो भवति । स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितक-र्माचरन्साधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूप-मासाद्य सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयःकंचित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभय-निवृत्त्या प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानेभेदादवस्थाभेदस्य परंतु नहिमदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृ-म्भितभानुमण्डलध्यानतदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः परि-पक्वो भवति । संकल्पादिकं मनो बन्धहेतु । तद्वियुक्तं मनो मोक्षाय भवति ।तद्वांश्चक्षुरादिबाह्यप्रपञ्चोपरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्य-----Page------------------३५१--क्ताहंकारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन्कृतकृत्योभवति ॥४॥

सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति । तं ब्रह्मेतिस्तुवन्ति । सर्वलोकस्तुतिपात्रः सर्वदेशसंचारशीलः परमात्मगगने बिन्दुंनिक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डानन्दपदानुवृत्त्या जीव-न्मुक्तो भवति । तच्चानन्दसमुद्रमग्ना योगिनो भवन्ति । तदपेक्षया इन्द्रा-दयः स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥५॥

इति मण्डलब्राह्मणोपनिषत्सु द्वितीयं ब्राह्मणम् ॥२॥

याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्कलक्षणमुक्तमपिविस्मृतं पुनस्तल्लक्षणं ब्रूहीति । तथेति मण्डलपुरुषोऽब्रवीत् । इदममनस्कम-तिरहस्यम् । यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्रान्वितम् । परमा-त्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं परमाकाशंनिरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येवपश्यमानो गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदि-तमनोन्मन्यनुभवस्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्कसुखब्रह्मानन्दसमुद्रेमनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं परंब्रह्म प्राप्नोति । ततः शुष्कवृक्ष-वन्मूर्च्छानिद्रामयनिःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशा-न्तिं स्वीकृत्य मनःप्रचारशून्यं परमात्मनि लीनं भवति । पयःस्रावानन्तरंधेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशो भवति तदेवामनस्कम् ।तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेवत्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥१॥

परिपूर्ण-पराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्तसर्वेन्द्रियवर्गोऽनेकजन्मार्जित-पुण्यपुञ्जपक्वकैवल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृत-कृत्यो भवति । त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः । इत्युच्चरन्त्स-मालिङ्ग्य शिष्यं ज्ञाप्तिमनीनयत् ॥२॥

इति मण्डलब्राह्मणोपनिषत्सु तृतीयम् ब्राह्मणम् ॥३॥

अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानु-ब्रूहीति । स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परामाकाशमितिपञ्च भवन्ति । बाह्याभ्यन्तरमन्धकारमयमाकाशम् । बाह्यस्याभ्यन्तरे काला-नलसदृशं पराकाशम् । सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् ।-----Page-----------------३५२--सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् । अनिर्वचनीयज्योतिः सर्वव्यापकंनिरतिशयानन्दलक्षणं परमाकाशम् । एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति ।नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् । सम्यगेतन्न जानाति स योगीनामतो भवेत् ॥१॥

इति मण्डलब्राह्मणोपनिषत्सु चतुर्थं ब्राह्मणम् ॥४॥

सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति । अतः सर्वं जगच्चित्तगो-चरम् । तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति ।तल्लयं परिपूर्णे मयि समभ्यसेत् । मनोलयकारणमहमेव । अनाहतस्यशब्दस्य तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् । तन्मनो विलयं याति तद्विष्णोःपरमं पदम् । तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् । एतदेव परमतत्त्वम् ।स तज्ज्ञो बालोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत् । एवममनस्काभ्यासे-नैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गाजाड्यनिद्रादृग्वायुचलनाभावब्र-ह्मदर्शनाज्ज्ञातसुखस्वरूपसिद्धिर्भवति । एवं चिरसमाधिजनितब्रह्मामृतपान-परायणोऽसौ संन्यासी परमहंस अवधूतो भवति । तदर्शनेन सकलं जगत्प-वित्रं भवति । तत्सेवापरोऽज्ञोऽपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तार-यति । तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् ॥१॥

इति मण्डलब्राह्मणोपनिषत्सु पञ्चमं ब्राह्मणम् ॥५॥

ॐ पूर्णमद इति शान्तिः ॥

इति मण्डलब्राह्मणोपोनिषत्समाप्ता ॥५०॥