ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-२१-३०

विकिस्रोतः तः
Jump to navigation Jump to search

अब्रह्मोपनिषत् ॥२१॥[सम्पाद्यताम्]

ब्रह्मकैवल्यजाबालः श्वेताश्वो हंस आरुणिः ।गर्भो नारायणो हंसो बिन्दुनादशिरः शिखा ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् ।दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव योह्येष महिमा बभूव क एषः । तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येषआत्मा आत्मनो महिमा बभूव । देवानामायुः स देवानां निधनमनिधनं दिव्येब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मधुकरराजानंमाक्षिकवत् । यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथैवैषप्राणो यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा नाड्यः सुष्वपे श्येना-काशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते । यथैवैष देव-दत्तो यष्ट्यापि ताड्यमानो न यत्येवमिष्टापूर्तैः शुभाशुभैर्न लिप्यते । यथाकुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति ।वेद एव परं ज्योतिः । ज्योतिष्कामो ज्योतिरानन्दयते भूयस्तेनैव स्वप्नायगच्छति जलौकावत् । यथा जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय ।यत्परं नापरं त्यजति स जाग्रदभिधीयते । यथैवैष कपालाष्टकं संनयतितमेव स्तन इव लम्बते वेददेवयोनिः । यत्र जाग्रति शुभाशुभं निरुक्तमस्यदेवस्य स संप्रसारोऽन्तर्यामी खगः कर्कटकः पुष्करः पुरुषः प्राणो हिंसा परा-परं ब्रह्म आत्मा देवता वेदयति । य एवं वेद स परं ब्रह्म धाम क्षेत्रज्ञमुपैति ।अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति । नाभिर्हृदयं कण्ठं मूर्धेति ।तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति । जागरितेब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरम् । स आदित्यश्च विष्णुश्चेश्वरश्चस पुरुषः स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषां मध्ये यत्परं ब्रह्मविभाति । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितम् । न तत्र लोकानलोका वेदा नवेदा देवा नदेवा जज्ञा नयज्ञा माता नमाता पिता नपितास्रुषा नस्नुषा चाण्डालो नचाण्डालः पौल्कसो नपौल्कसः श्रमणो नश्रमणःपशवो नपशवस्तापसो नतापस इत्येकमेव परं ब्रह्म विभाति । हृद्याकाशेतद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति विच-रति यस्मिन्निदं सर्वमोतं प्रोतं सं विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः-----Page-----------------१६८--पितर ईशते प्रतिबुद्धः सर्वविदिति । हृदिस्था देवताः सर्वा हृदि प्राणाःप्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् । हृदि चैतन्येतिष्ठति । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यंप्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । सशिखं वपनं कृत्वा बहिःसूत्रंत्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् । सूचनात्सूत्रमित्याहुः सूत्रंनाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः । येन सर्वमिदं प्रोतंसूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् । बहिःसूत्रंत्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ।धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञो-पवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ज्ञानशिखिनोज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वानितरेकेशधारिणः ॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैः संधार्यमिदं सूत्रंक्रियाङ्गं तद्धि वै स्मृतम् ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ इदं यज्ञोपवीतं तु पवित्रं यत्परा-यणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥ एको देवः सर्व-भूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षीचेता केवलो निर्गुणश्च ॥ एको मनीषी निष्कियाणां बहूनामेकं रूपं बहुधा यःकरोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शांतिः शाश्वती नेतरेषाम् ॥आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्नि-गूढवत् ॥ तिलेषु तैलं दधनीव सर्पिरापः स्नोतः स्वरणीषु चाग्निः । एव-मात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ ऊर्णनाभिर्यथा तन्तू-न्सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ पद्मकोश-प्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्निसंस्थितम् ॥ यदात्मा प्रज्ञयात्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेवतस्मात्संध्याभिवन्दनम् । निरोदका ध्यानसंध्या वाक्कायक्लेशवर्जिता । संधिनीसर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ यतो वाचो निवर्तन्ते अप्राप्यमनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥ सर्वव्यापिनमा-त्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । सर्वा-त्मैकत्वरूपेण तद्ब्रह्मोपनिषत्परमिति ॥ सह नाववत्विति शान्तिः ॥इति ब्रह्मोपनिषत्समाप्ता ॥


Page-----------------१६९--

अमृतनादोपनिषत् ॥२२॥[सम्पाद्यताम्]

अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् ।त्रैपदानन्दसाम्राज्यं हृदि मे भातु संततम् ॥ॐ सह नाववत्विति शान्तिः ॥ शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनःपुनः । परमं ब्रह्मविद्याया उल्कावन्नान्यथोत्सृजेत् ॥१॥

ॐकारं रथमारुह्यविष्णुं कृत्वाथ सारथिम् । ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥२॥

ताव-द्रथेन गन्तव्यं यावद्रथपथि स्थितः । स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति॥३॥

मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् । अस्वरेण मकारेण पदंसूक्ष्मं च गच्छति ॥४॥

शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् । चिन्त-येदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥५॥

प्रत्याहारस्तथा ध्यानं प्राणा-यामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥६॥

यथापर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्र-हात् ॥७॥

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण संस-र्गान्ध्यानेनानीश्वरान्गुणान् । ॥८॥

किल्बिषं हि क्षयं नीत्वा रुचिरं चैवचिन्तयेत् ॥९॥

रुचिरे रेचकं चैव वायोराकर्षणं तथा । प्राणायामा-स्त्रयः प्रोक्ता रेचकपूरककुम्भकाः ॥१०॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसासह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥११॥

उत्क्षिप्य वायु-माकाशं शून्यं कृत्वा निरात्मकम् । शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम्॥१२॥

नोच्छ्वसेन्नानुच्छ्वसेन्नैव गात्राणि च न चालयेत् । एवं वायुर्ग्रहीतव्यःपूरकस्येति लक्षणम् ॥१३॥

वक्त्रेणोत्पलनालेन वायुं कृत्वा निराश्रयम् ।एवं वायुर्ग्रहीतव्यः कुम्भकस्येति लक्षणम् ॥१४॥

अन्धवत्पश्य रूपाणि शृणुशब्दमकर्णवत् । काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥१५॥

मनःसंकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । धारयित्वा तथात्मानं धारणापरिकीर्तिता ॥१६॥

आगमस्याविरोधेन ऊहनं तर्क उच्यते । यं लब्ध्वाप्यव-मन्येत स समाधिः प्रकीर्तितः ॥१७॥

भूमिभागे समे रम्ये सर्वदोषवि-वर्जिते । कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥१८॥

पद्मकंस्वस्तिकं वापि भद्रासनमथापि वा । बद्ध्वा योगासनं सम्यगुत्तराभिमुखस्थितः॥१९॥

नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् । आकृष्य धारयेदग्निंशब्दमेवाभिचिन्तयेत् ॥२०॥

ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥२१॥

पश्चाद्ध्यायेत पूर्वोक्तं क्रमशॐमन्त्र निर्दिशेत् । स्थूलातिस्थूलमात्रायां नातिमूर्ध्वमतिक्रमः ॥२२॥

तिर्यगूर्ध्वमधो दृष्टिं विनिर्धार्य महामतिः । स्थिरः स्थायी विनिष्कम्पं तदा योगं सम-भ्यसेत् ॥२३॥


Page------------------१७०--

ताला मात्रा तथा योगो धारणा योजनं तथा । द्वादशमात्रोयोगस्तु कालतो नियतः स्मृतः ॥२४॥

अघोषमव्यञ्जनमस्वरं च अकण्ठ-ताल्वोष्ठमनासिकं च । अरेफजातमुभयोष्ठवर्जितं यदक्षरं न क्षरते कदा-चित् ॥२५॥

येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति । अतस्समभ्यसे-न्नित्यं सन्मार्गगमनाय वै ॥२६॥

हृद्द्वारं वायुद्वारं च ऊर्ध्वद्वारमतः परम् ।मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥२७॥

भयं क्रोधमथालस्यमति-स्वप्नातिजागरम् । अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ॥२८॥

अनेनविधिना सम्यङ्गित्यमभ्यसतः क्रमात् । स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः॥२९॥

चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः । इच्छयाप्नोति कैवल्यंषष्ठे मासि न संशयः ॥३०॥

पार्थिवः पञ्चमात्राणि चतुर्मात्राणि वारुणः ।आग्नेयस्तु त्रिमात्राणि वायव्यस्तु द्विमात्रकः ॥३१॥

एकमात्रस्तथाकाशोह्यर्धमात्रं तु चिन्तयेत् । सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥३२॥

त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः । एष प्राण इति ख्यातो बाह्य-प्राणः स गोचरः ॥३३॥

अशीतिःट्ष शतं चैव सहस्राणि त्रयोदश । लक्ष-श्चैकोऽपि निःश्वास अहोरात्रप्रमाणतः ॥३४॥

प्राण आद्यो हृदि स्थाने अपा-नस्तु पुनर्गुदे । समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥३५॥

व्यानःसर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । अथ वर्णास्तु पञ्चानां प्राणादीनामनु-क्रमात् ॥३६॥

रक्तवर्णमणिप्रख्यः प्राणो वायुः प्रकीर्तितः । अपानस्तस्य मध्येतु इन्द्रगोपसमप्रभः ॥३७॥

समानस्तस्य मध्ये तु गोक्षीरधवलप्रभः ।अपाण्डुर उदानश्च व्यानो ह्यर्चिःसमप्रभः ॥३८॥

यस्यैष मण्डलं भित्त्वामारुतो याति मूर्धनि । यत्र तत्र म्रियेद्वापि न स भूयोऽभिजायते न स भूयो-ऽभिजायत इत्युपनिषत् ॥३९॥

ॐ सह नाववत्विति शान्तिः ॥इत्यमृतनादोपनिषत्समाप्ता ॥


Page------------------१७१--

अथर्वशिरौपनिषत् ॥२३॥[सम्पाद्यताम्]

अथर्वशिरसामर्थमनर्थप्रोतवाचकम् ।सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ देवा ह वै स्वर्गं लोकमायँस्ते रुद्रमपृच्छन्को भवानिति । सोऽब्रवीदहमेकः प्रथममासीद्वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तैति । सोऽन्तरादन्तरं प्राविशत् दिशो व्यन्तरं प्राविशत् सोऽहं नित्या-नित्यो व्यक्ताव्यक्तो ब्रह्माहं ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहं अध-श्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहंत्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहंगौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठो-ऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रम-हमग्रं च मध्यं च बहिश्च पुरस्ताज्योतिरित्यहमेव सर्वे व्योममेव स सर्वेसमा यो मां वेद स देवान्वेद स सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्चगां गोभिर्ब्राह्मणान्ब्राह्मण्येन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मंतर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् ।ते देवा रुद्रमध्याशंस्ते देवा ऊर्ध्वबाहवो रुद्रं स्तुन्वन्ति ॥१॥

ॐ यो वैरुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः ॥१॥

यो वै रुद्रः स भगवान्यश्च विष्णुस्तस्मै वै नमो नमः ॥२॥

यो वै रुद्रः स भगवान्यश्च स्कन्सस्तस्मैवै नमो नमः ॥३॥

यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमो नमः॥४॥

यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमो नमः ॥५॥

यो वै रुद्रःस भगवान्यश्च वायुस्तस्मै वै नमो नमः ॥९॥

यो वै रुद्रः स भगवान्यश्चसूर्यस्तस्मै वै नमो नमः ॥७॥

यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः ॥८॥

यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमो नमः ॥९॥

यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमो नमः ॥१०॥

यो वैरुद्रः स भगवान्या च भूस्तस्मै वै नमो नमः ॥११॥

यो वै रुद्रः स भगवान्याच भुवस्तस्मै वै नमो नमः ॥१२॥

यो वै रुद्रः स भगवान्या च स्वस्तस्मैवै नमो नमः ॥१३॥

यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमो नमः॥१४॥

यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमो नमः ॥१५॥

यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमो नमः ॥१६॥

यो वै रुद्रःस भगवान्या च द्यौस्तस्मै वै नमो नमः ॥१७॥

यो वै रुद्रः स भगवान्या-श्चापस्तस्मै वै नमो नमः ॥१८॥

यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः ॥१९॥

यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमो नमः ॥२०॥

यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमो नमः ॥२१॥

यो वैरुद्रः स भगवान्यश्च यमस्तस्मै वै नमो नमः ॥२२॥

यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमो नमः ॥२३॥


Page-----------------१७२--

यो वै रुद्रः स भगवा-न्यच्चामृतं तस्मै वै नमो नमः ॥२४॥

यो वै रुद्रः स भगवान्यच्च विश्वंतस्मै वै नमो नमः ॥२५॥

यो वै रुद्रः स भगवान्यच्च स्थूलं तस्मै वैनमो नमः ॥२६॥

यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः ॥२७॥

यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै वै नमो नमः॥२८॥

यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमो नमः ॥२९॥

यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमो नमः ॥३०॥

यो वै रुद्रःस भगवान्यच्च सत्यं तस्मै वै नमो नमः ॥३१॥

यो वै रुद्रः स भगवान्यच्चसर्वं तस्मै वै नमो नमः ॥३२॥२॥

भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षंविश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा बद्धस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतंदत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अ-पाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किमस्मान्कृणव-दरातिः किमु धूर्तिरमृतं मर्त्यं च । सोमसूर्यः पुरस्तात् सूक्ष्मः पुरुषः । सर्वंजगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावंभावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महा-ग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः ।हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरोदक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवःस सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तच्छुक्लंयच्छुक्लं तत्सूक्ष्मं यत्सूक्ष्मं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः यएकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरः ॥३॥

अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयतितस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुः-सामाथर्वाङ्गिरसो ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव यथा पलल-पिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिसृष्टश्च तस्मादुच्यते सर्वव्यापी ।अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तोनोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाणएव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यतेतारम् । अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयतेच तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण-----Page-----------------१७३--एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशतितस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवा-व्यक्ते महति तमसि द्योतयते तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यतेपरं ब्रह्म यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म ।अथ कस्मादुच्यते एको यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसृजतिविसृजति च । तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चःप्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह संगतिः । साकं स एको भूतश्च-रति प्रजानंस्तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रः यस्मादृषीभिर्ना-न्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानःयः सर्वान्देवानीशते ईशनीभिर्जननीभिश्च शक्तिभिः । अभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुष इतितस्मादुच्यत ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्मात्भक्ताञ्ज्ञानेनभजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्म-ज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्र-चरितम् ॥४॥

एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भेअन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः ।एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः । प्रत्यङ्जना-स्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनि-मधितिष्ठत्येको येनेदं संचरति विचरति सर्वम् । तमीशानं वरदं देवमीड्यंनिचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या संचितंस्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेन पशवोऽनु-नामयन्तं मृत्युपाशान् । तदेतेनात्मन्नेतेनार्धचतुर्थमात्रेण शान्तिं संसृजतिपाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तांध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णावर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्राईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । यासाऽर्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभावर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पद्मनामकं तदेतमुपासीत मुनयोऽवाग्व-दन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरोयेन ऋषयः परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जा-तरूपं वरेण्यम् । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् ।यस्मिन्क्रोधं या च तृष्णा क्षमां च तृष्णां हित्वा हेतुजालस्य मूलम् । बुद्ध्या-----Page-----------------१७४--संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेनेष-मूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थल-मिति भस्म व्योमेति भस्म सर्व हँ वा इदं भस्म मन एतानि चक्षूंषि यस्मा-द्व्रतमिदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तस्मात्ब्रह्म तदेतत्पाशुपतं पशुपाश-विमोक्षणाय ॥५॥

योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । यैमा विश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमोऽस्त्वग्नये । यो रुद्रोऽग्नौ योरुद्र ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चाकॢपे तस्मैरुद्राय वै नमो नमः । यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु ।येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी द्विधा त्रिधर्ता धारिता नागा येऽन्तरिक्षेतस्मै रुद्राय वै नमो नमः । मूर्धानमस्य संसीव्याथर्वा हृदयं च यत् ।मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः । तद्वा अथर्वणः शिरो देवकोशःसमुब्जितः । तत्प्राणोऽभिरक्षति शिरोऽन्नमथो मनः । न च दिवो देवजनेनगुप्ता नवान्तरिक्षाणि नव भूम इमाः । थस्मिन्निदं सर्वमोतप्रोतं यस्मादन्यन्नपरं किंचनास्ति । न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यंयदासीत् । सहस्रपादेकमूर्धा व्याप्तं स एवेदमावरीवर्ति भूतम् । अक्षरात्सं-जायते कालः कालाद्व्यापक उच्यते । व्यापको हि भगवान्रुद्रो भोगायमानोयदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्छ्वसिते तमो भवति तमस आपो-ऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनो भवति फेना-दण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरॐकार ॐकारात्सावित्रीसावित्र्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधुक्षरन्ति यद्ध्रुवम् । एतद्धि परमं तप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरॐ नम इति ॥६॥

य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियोभवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवतिस सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतोभवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषुस्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानिभवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवा-नामयुतं जप्तं भवति । आ चक्षुषः पङ्क्तिं पुनाति । आ सप्तमात्पुरुषयुगान्पु-नातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । तृतीयं जप्त्वैवमेवानुप्रविशत्यॐ सत्यमॐसत्यम् ॥७॥

ॐ स ह नाववत्विति शान्तिः ॥इत्यथर्ववेदेऽथर्वशिरौपनिषत्समाप्ता ॥


Page-----------------१७५--

अथर्वशिखोपनिषत् ॥२४॥[सम्पाद्यताम्]

ॐकारार्थतया भातं तुर्यॐकाराग्रभासुरम् ।तुर्यतुर्यं त्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥ॐ पिप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वाणं भगवन्तं पप्रच्छ भगवन्किमादौप्रयुक्तं ध्यानं ध्यायितव्यं किं तद्ध्यानं को वा ध्याता कश्चिद्ध्येय इति ।अथैभ्योऽथर्वा प्रत्युवाच । ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमो-मित्येतदक्षरस्य पादाश्चत्वारो देवाश्चत्वारो वेदाश्चतुष्पादेतदक्षरं परं ब्रह्म ।पूर्वाऽस्य मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः ।द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो रुद्रो रुद्रास्त्रिष्टुब्दक्षिणाग्निः ।तृतीया द्यौः स मकारः स सामभिः सामवेदो विष्णुरादित्या जगत्याहवनीयः ।यावसानेऽस्य चतुर्थ्यर्धमात्रा सा लुप्तमकारः सोथर्वणैर्मन्त्रैरथर्ववेदः संवर्त-कोऽग्निर्मरुत एकऋषी रुचिरा भास्वती स्वभा । प्रथमा रक्ता ब्राह्मी ब्रह्मदेवत्याद्वितीया शुभा शुक्ला रौद्री रुद्रदेवत्या तृतीया कृष्णा विष्णुमती विष्णुदेवत्याचतुर्थी विद्युन्मती सर्ववर्णा पुरुषदैवत्या । स एष ह्यॐकारश्चतुष्पादश्चतुःशिरा-श्चतुर्थ्यर्धमात्रा स्थूलह्रस्वदीर्घप्लुत इति ॥ ॐ ॐ ॐ इति त्रिरुक्तश्चतुर्थःशान्तात्मा प्लुतप्रयोगे न सममित्यात्मज्योतिः सकृदावर्तव्य ॐ स एषसर्वान्प्राणान्सकृदुच्चारितमात्रः स एष ह्यूर्ध्वमुत्क्रामयतीत्यॐकारः ॥१॥

प्रणवः सर्वान्प्राणान्प्रणामयति नामयति चैतस्मात्प्रणवश्चतुर्धाऽवस्थितैति वेददेवयोनिर्धेयाश्चेति संधर्ता सर्वेभ्यो दुःखभयेभ्यः संतारयतितारणात्तानि सर्वाणीति विष्णुः सर्वाञ्जयति ब्रह्माऽबृहत्सर्वकारणानि संप्रति-ष्ठाप्य ध्यानाद्विष्णुर्मनसि नादान्ते परमात्मनि स्थाप्य ध्येयमीशानं प्रध्याय-न्तीशा वा सर्वमिदं प्रयुक्तम् । ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते सर्वाणि चेन्द्रियाणिसहभूतानि करणं सर्वमैश्वर्यं संपन्नं शिवमाकाशं मध्येध्रुवस्थम् । ब्रह्मा विष्णुश्चरुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदेवत्यः प्रणवः परिपठ्यते । तत्रा-धिकं क्षणमेकमास्थाय क्रतुशतस्यापि फलमवाप्नोति कृत्स्नमॐकारगतं च सर्व-ज्ञानेन योगध्यानाना शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्यैता-मधीत्य द्विजो गर्भवासान्मुच्यते गर्भवासान्मुच्यत इति ॥२॥

इत्योँसत्य-मित्युपनिषत् ॥३॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥इत्यथर्ववेदेऽथर्वशिखोपनिषत्समाप्ता ॥१॥


Page-----------------१७६--

मैत्रायण्युपनिषत् ॥२५॥[सम्पाद्यताम्]

वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः ।यत्पदं मुनयो यान्ति तन्त्रैपदमहं महः ॥ॐ आप्यायन्त्विति शान्तिः ॥मैत्रायणी कौषितकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षु-रिमत्त्रिका । ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदम-शाश्वतं मन्यमानः शारीरं वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तपआस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामा-ग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्शाकायन्य उत्तिष्ठोत्तिष्ठ वरंवृणीष्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्व-विच्छृणुमो वयं स त्वं नो ब्रूहीत्येतद्व्रतं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाका-न्यान्कामान्वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथांजगाद ॥१॥

भगवन्नस्थिचर्मस्नाय्हुमज्जामांसशुक्रशोणितश्लेष्माश्रुदूषिते वि-ण्मूत्रवातपित्तकफसंघाते दुर्गन्धे निःसारेऽस्मिञ्छरीरे किं कामोपभोगैः ॥२॥

कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसंप्रयोगक्षुत्पिपासाजरामृत्युरोगशो-काद्यैरभिहतेऽस्मिञ्छरीरे किं कामोपभोगैः ॥३॥

सर्वं चेदं क्षयिष्णु प-श्यामो यथेमे दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः ॥४॥

अथ कि-मेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युन्नकुवल-याश्वयौवनाश्ववद्धियाश्व श्वपतिः शशबिन्दुर्हरिश्चन्द्रोऽम्व्ररीषो मनूक्तस्वयाति-र्ययातिरनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो राजानो मिषतो बन्दुवर्गस्यमहतीं श्रियं त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥५॥

अथ किमेतैर्वापरेऽन्ये गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां निरोधनं पश्यामः॥६॥

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्यप्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सो-ऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनंदृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नोगतिस्त्वं नो गतिः ॥७॥

इति मैत्रायण्युपनिषत्सु प्रथमः प्रपाठकः ॥


Page-----------------१७७--

अथ भगवान्शाकायन्यः सुप्रीतस्त्वब्रवीद्राजानम् । महाराज बृहद्रथेक्ष्वा-कुवंशध्वज शीघ्रमात्मज्ञः कृतकृतत्यस्त्वं मरुन्नाम्नेति विश्रुतोऽसीति ।अयं वाव खल्वात्मा ते यः कतमो भगवा इति तं होवाचेति ॥१॥

अथ य एष उच्छ्वासाविष्टम्भनेनोर्ध्वमुत्क्रान्तो व्ययमानोऽव्ययमानस्तमःप्रणुदत्येष आत्मेत्याह भगवान्मैत्रिः । इत्येवं ह्याह । अथ य एषसंप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतैत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥२॥

अथ खल्वियंब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रिणाऽऽख्याताऽहंते कथयिष्यामीति । अथापहतपाप्मानस्तिग्मतेजसा ऊर्ध्वरेतसो वालखित्याइति श्रूयन्ते । अथ क्रतुं प्रजापतिमब्रुवन् - भगवन्शकटमिवाचेतनमिदं शरीरंकस्यैष खल्वीदृशो महिमाऽतीन्द्रियभूतस्य येनैतद्विधमेतच्चेतनवत्प्रतिष्ठापितंप्रचोदयिता वाऽस्य यद्भगवन्वेत्सि तदस्माकं ब्रूहीति तान्होवाचेति ॥३॥

यो ह खलु वावोपरिस्थः श्रूयते गुणेष्विवोर्ध्वरेतसः स वा एष शुद्धः पूतःशून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः ।स्वे महिम्नि तिष्ठत्यजेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्य-स्येति । ते होचुर्भगवन्कथमनेनेदृशेनानिष्ठेनैतद्विधमिदं चेतनवत्प्रतिष्ठापितंप्रचोदयिता वैषोऽस्य कथमिति तान्होवाच ॥४॥

स वा एष सूक्ष्मोऽ-ग्राह्योऽदृश्यः पुरुषसंज्ञोऽबुद्धिपूर्वमिहैवावर्ततेंऽशेनेति सुप्तस्येवाबुद्धिपूर्वंविबोध एवमिति । अथ यो ह खलु वावैतस्य सॐऽशोऽयं यश्चेतामात्रःप्रतिपुरुषः क्षेत्रज्ञः संकल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वाख्यश्चेतने-नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति । ते होचुर्भगव-न्यद्यनेनेदृशेनानिष्ठेनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽस्यकथमिति तान्होवाचेति ॥५॥

प्रजापतिर्वा एकोऽग्रेऽतिष्ठत्स नारमतैकःसोत्मानमभिध्यात्वा बह्वीः प्रजा असृजत ता अश्मेवाप्रबुद्धा अप्राणाःस्थाणुरिव तिष्ठमाना अपश्यत् स नारमत सोऽमन्यतैतासां प्रतिबोधनाया-भ्यन्तरं विविशामि । स वायुरिवात्मानं कृत्वाऽभ्यन्तरं प्राविशत् ।स एको नाशकत्स न्पच्चधात्मानं विभज्योच्यते यः प्राणोऽपानः समानौदानो व्यान इति । अथायं य ऊर्ध्वमुत्क्रामत्येष धाव स प्राणोऽथ योऽय-मवाङ् संक्रामत्येष वाव सोऽपानोऽथ येन वैताऽनुगृहीतेत्येष वाव स-----Page-----------------१७८--व्यानोऽथ योऽयं स्थविष्ठो धातुरन्नस्यापाने प्रापयत्यणिष्ठो वाऽङ्गेऽङ्गेसमानयत्येष वाव स समानसंज्ञा उत्तरं व्यानस्य रूपं चैतेषामन्तराप्रसूतिरेवोदानस्याथ योऽयं पीताशितमुद्गिरति निगिरतीति वैष वाव सौदानः । अथोपांशुरन्तर्याममभिभवत्यन्तर्याम उपाशुं चैतयोरन्तरादेवैष्ण्यं प्रासुवद्यदौष्ण्यं स पुरुषोऽथ यः पुरुषः सोऽग्निर्वैश्वानरः ।अन्यत्राप्युक्तमयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यतेतस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवतिनैनं घोषं शृणोति स वा एष पञ्चधाऽऽत्मानं विभज्य निहितो गुहायाम् ।मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मेति । स वाएषोऽस्मद्धृदन्तरादकृतार्थोऽमन्यतार्थानश्नानीति । अतः खानीमानि भित्त्वो-दितः पञ्चभी रश्मिभिर्विषयानत्तीति बुद्धीन्द्रियाणि यानीमान्येतान्यस्यरश्मयः कर्मेन्द्रियाण्यस्य हया रथः शरीरं मनो नियन्ता प्रकृतिमयोऽस्यप्रतोदोऽनेन खल्वीरितः परिभ्रमतीदं शरीरं चक्रमिव मृत्पचेनेदं शरीरंचेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति ॥६॥

स वा एष आत्मे-होशन्ति कवयः सितासितैः कर्मफलैरनभिभूत इव प्रतिशरीरेषु चरतिअव्यक्तत्वात्सौक्ष्म्याददृश्यत्वादग्राह्यत्वान्निर्ममत्वाच्चानवस्थोऽसति कर्ताऽकर्तै-वावस्थः स वा एष शुद्धः स्थिरोऽचलश्चालेप्योऽव्यग्रो निस्पृहः प्रेक्षकवदव-स्थितः स्वस्थश्च । ऋतभुग्गुणमयेन पटेनात्मानमन्तर्धायावस्थिता इत्यव-स्थिता इति ॥७॥

इति मैत्रायण्युपनिषत्सु द्वितीयः प्रपाठकः ॥२॥

ते होचुर्भगवन्यद्येवमस्याऽऽत्मनो महिमानं सूचयसीत्यन्यो वा परः ।कोऽयमात्माख्यो योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्यो-निमापद्यता इत्यवाञ्च्योर्ध्वा वा गतिर्द्वंद्वैरभिभूयमानः परिभ्रमति ॥१॥

अस्ति खल्वन्योऽपरो भूतात्माख्यो योऽयं सितासितैः कर्मफलैरभिभूयमानःसदसद्योनिमापद्यता इत्यवाञ्च्योर्ध्वा वा गतिर्द्वंद्वैरभिभूयमानः परिभ्रमतीत्य-स्योपव्याख्यानम् । पञ्चतन्मात्रा भूतशब्देनोच्यन्तेऽथ पञ्चमहाभूतानि भूत-शब्देनोच्यन्ते । अथ तेषां यत्समुदयं तच्छरीरमित्युक्तमथ यो ह खलु वावशरीर इत्युक्तं स भूतात्मेत्युक्तम् । अथामृतोऽस्यात्मा बिन्दुरिव पुष्कराइति स वा एषोऽभिभूतः प्राकृतैर्गुणैरिति । अथोऽभिभूतत्वात्संभूढत्वं प्रयातः-----Page-----------------१७९--संभूढत्वात् । आत्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यद्गुणौघैरुह्यमानःकलुषीकृतश्चास्थिरश्चञ्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयाता इत्यहंसो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानम् । जालेनेव खचरःकृतस्यानु फलैरभिभूयमानः सदसद्योनिमापद्यता इत्यवाञ्च्योर्ध्वा वा गति-द्वंद्वैरभिभूयमानः परिभ्रमति कतम एष इति तान्होवाचेति ॥२॥

अथा-न्यत्राप्युक्तं--यः कर्ता सोऽयं वै भूतात्मा करणैः कारयिताऽन्तः पुरुषः । अथयथाऽग्निनाऽयस्पिण्डोऽन्यो वाऽभिभूतः कर्तृभिर्हन्यमानो नानात्वमुपैत्येवंवाव खल्वसौ भूतात्माऽन्तः पुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैति ।चतुर्जालं चतुर्दशविधं चतुरशीतिधा परिणतं भूतगणमेतद्वै नानात्वस्यरूपम् । तानि ह वा एतानि गुणानि पुरुषेणेरितानि चक्रमिव मृत्पचेनेति ।अथ यथाऽयस्पिण्डे हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ पुरुषोऽभि-भूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥३॥

अथान्यत्राप्युक्तं--शरीरमिदंमैथुनादेवोद्भूतं संवृद्ध्युपेतं निरयेऽथ मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितंमांसेनानुलिप्तं चर्मणाऽवनद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्चाऽऽमयै-र्बहुभिः परिपूर्णं कोश इव वसुना ॥४॥

अथान्यत्राप्युक्तं संमोहो भयंविषादो निद्रा तन्द्री प्रमादो जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधोनास्तिक्यमज्ञानं मात्सर्यं नैष्कारुण्यं मूढत्वं विर्व्रीडत्वं निराकृतित्वमुद्धतत्व-मसमत्वमिति तामसानि । अन्तस्तृष्णा स्नेहो रागो लोभो हिंसा रतिर्दृष्टि-र्व्यावृतत्वमीर्ष्याऽकाममस्थिरत्वं चलत्वं व्यग्रत्वं जिगीषाऽर्थोपार्जनं मित्रा-नुग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गः शुक्तस्वरोऽन्न-तमस्त्विति राजसान्येतैः परिपूर्ण एतैरभिभूता इत्ययं भूतात्मा तस्मान्नाना-रूपाप्याप्नोतीत्याप्नोतीति ॥५॥

इति मैत्रायण्युपनिषत्सु तृतीयः प्रपाठकः ॥३॥

ते ह खलु वावोर्ध्वरेतसोऽतिविस्मिता अभिसमेत्योचुर्भगवन्नमस्तेऽस्त्वनु-शाधि त्वमस्माकं गतिरन्या न विद्यता इति । अस्य को विधिर्भूतात्मनोयेनेदं हित्वात्मन्येव सायुज्यमुपैति तान्होवाचेति ॥१॥

अथान्यत्राप्युक्तं -- महानदीषूर्मय इवानिवर्तकमस्य यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्यमृत्योरागमनं सदसत्फलमयैः पाशैः पङ्गुरिव बद्धं बन्धनस्थस्येवास्वातन्त्र्यंयमविषयस्थस्येव बहुभयावस्थं मदिरोन्मत्त इव मोहमदिरोन्मत्तं पाप्मना-----Page-----------------१८०--गृहीत इव भ्राम्यमाणं महोरगदष्ट इव विषयदष्टं महान्धकारमिव रागान्धमिन्द्रजालमिव मायामयं स्वप्न इव मिथ्यादर्शनं कदलीगर्भ इवासारं नट इवक्षणवेषं चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् । शब्दस्पर्शादयो ह्यर्थामर्त्येऽनर्था इवाऽऽस्थिताः । येषां सक्तस्तु भूतात्मा न स्मरेत्परमं पदम् ॥२॥

अयं वाव खल्वस्य प्रतिविधिर्भूतात्मनो यद्वेदविद्याधिगमः । स्वधर्मस्यानुचरणंस्वाश्रमेष्वेवानुक्रमणं स्वधर्मस्य वा एतद्व्रतं स्तम्बशाखेवापराण्यनेनोर्ध्व-भाग्भवत्यन्यथाऽवाङित्येष स्वधर्मोऽभिहितो यो वेदेषु न स्वधर्मातिक्रमे-णाश्रमी भवति । आश्रमेष्वेवानवस्थस्तपस्वी वेत्युच्यत इत्येतदयुक्तं नात-पस्कस्याऽऽत्मज्ञानेऽधिगमः कर्मसिद्धिर्वेति । एवं ह्याह--तपसा प्राप्यते सत्त्वंसत्त्वात्संप्राप्यते मनः । मनसः प्राप्यते ह्यात्मा यमाप्त्वा न निवर्तत इति॥३॥

अस्ति ब्रह्मेति ब्रह्मविद्याविदब्रवीद्ब्रह्मद्वारमिदमित्येवैतदाह यस्तप-साऽपहतपाप्मा ॐ ब्रह्मणो महिमेत्येवैतदाह यः सुयुक्तोऽजस्रं चिन्तयतितस्माद्विद्यया तपसा चिन्तया चोपलभ्यते ब्रह्म । स ब्रह्मणः पर एता भव-त्यधिदैवत्वं देवेभ्यश्चेत्यक्षय्यमपरिमितमनामयं सुखमश्नुते य एवं विद्वाननेनत्रिकेण ब्रह्मोपास्ते । अथ यैः परिपूर्णोऽभिभूतोऽयं रथितश्च तैर्वैव मुक्तस्त्वा-त्मन्नेव सायुज्यमुपैति ॥४॥

ते होचुर्भगवन्नभिवाद्यसीत्यभिवाद्यसीति ।निहितमस्माभिरेतद्यथावदुक्तं मनसीत्यथोत्तरं प्रश्नमनुब्रूहीति । अग्निर्वायुरा-दित्यः कालो यः प्राणोऽन्नं ब्रह्मा रुद्रो विष्णुरित्येकेऽन्यमभिध्यायन्त्येकेऽन्यंश्रेयः कतमो यः सोऽस्माकं ब्रूहीति तान्होवाचेति ॥५॥

ब्रह्मणो वावैताअग्र्यास्तनवः परस्यामृतस्याशरीरस्य तस्यैव लोके प्रतिमोदतीह यो यस्यानुषक्तैत्येवं ह्याह । ब्रह्म खल्विदं वाव सर्वम् । या वास्या अग्र्यास्तनवस्ता अभि-ध्यायेदर्चयेन्निह्नुयाच्चातस्ताभिः सहैवोपर्युपरि लोकेषु चरत्यथ कृत्स्नक्षयएकत्वमेति पुरुषस्य पुरुषस्य ॥६॥

इति मैत्रायण्युपनिषत्सु चतुर्थः प्रपाठकः ॥४॥

अथ यथेयं कौत्सायनी स्तुतिः--त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वंप्रजापतिः । त्वमग्निर्वरुणो वायुस्त्वमिन्द्रस्त्वं निशाकरः ॥ त्वमन्नस्त्वं यमस्त्वंपृथिवी त्वं विश्वं खमथाच्युतः । स्वार्थे स्वाभाविकेऽर्थे च बहुधा संस्थिति-स्त्वयि ॥ विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् । विश्वभुग्विश्वमायुस्त्वंविश्वक्रीडारतिप्रभुः ॥ नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च । अचि-----Page------------------१८१--न्त्यायाप्रमेयाय अनादिनिधनाय चेति ॥१॥

तमो वा इदमग्र आसीदेकंतत्परे स्यात्तत्परेणेरितं विषमत्वं प्रयात्येतद्रूपं वै रजस्तद्रजः खल्वीरितं विष-मत्वं प्रयात्येतद्वै सत्त्वस्य रूपं तत्सत्त्वमेवेरितं रसः संप्रास्रवत् सॐऽशोऽयंयश्चेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः संकल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्वि-श्वेत्यस्य प्रागुक्ता एतास्तनवः । अथ यो ह खलु वावास्य तामसॐऽशोऽसौ सब्रह्मचारिणो योऽयं रुद्रोऽथ यो ह खलु वावास्य राजसॐऽशोऽसौ स ब्रह्मचा-रिणो योऽयं ब्रह्माऽथ यो ह खलु वावास्य सात्त्विकॐऽशोऽसौ स ब्रह्मचारिणोयोऽयं विष्णुः स वा एष एकस्त्रिधा भूतोऽष्टधैकादशधा द्वादशधाऽपरिमि-तधा वोद्भूत उद्भूतत्वाद्भूतं भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूवे-त्यसावात्माऽन्तर्बहिश्चान्तर्बहिश्च ॥२॥

इति मैत्रायण्युपनिषत्सु पञ्चमः प्रपाठकः ॥५॥

द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो यश्चासाषादित्यः । अथद्वौ वा एता अस्य पन्थाना अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते । असौ वाआदित्यो बहिरात्माऽन्तरात्मा प्राणोऽतो बहिरात्मक्या गत्याऽन्तरात्मनोऽ-नुमीयते गतिरित्येवं ह्याह । अथ यः कश्चिद्विद्वानपहतपाप्माऽक्षाध्यक्षोऽ-वदातमनास्तन्निष्ठ आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमी-यते गतिरित्येवं ह्याह । अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यःपश्यतीमां हिरण्यवस्थात्स एषोऽन्तरे हृत्पुष्कर एवाऽऽश्रितोऽन्नमत्ति॥१॥

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिविश्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति । कः पुष्करः किंमयोवेति । इदं वाव तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो दिशश्चतस्र उपदिशोदलसंस्था आसम् । अर्वाग्विचरत एतौ प्राणादित्या एता उपासीतोमित्येत-दक्षरेण व्याहृतिभिः सावित्र्या चेति ॥२॥

द्वे वाव ब्रह्मणो रूपे मूर्तंचामूर्तं चाथ यन्मूर्तं तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म तज्ज्योतिर्यज्ज्योतिः सआदित्यः स वा एष ओमित्येतदात्माऽभवत्स त्रेधात्मानं व्यकुरुतोमितितिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीत्येवं ह्याहैतद्वा आदित्यओमित्येवं ध्यायताऽऽत्मानं युञ्जीतेति ॥३॥

अथान्यत्राप्युक्तम्--अथ खलुय उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथएष प्रणवा इत्येवं ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं-----Page-----------------१८२--विमृत्युं त्रिपदं त्र्यक्षरं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं ह्याह ।ऊर्ध्वमूलं त्रिपाद्ब्रह्म शाखा आकाशवाय्वग्न्युदकभूम्यादय एकोऽश्वत्थनामै-तद्ब्रह्मैतस्यैतत्तेजो यदसावादित्यः । ओमित्येतदक्षरस्य चैतत् । तस्मादो-मित्यनेनैतदुपासीताजस्रमिति । एकोऽस्य संबोधयतेत्येवं ह्याह । एतदेवाक्षरंपुण्यमेतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥४॥

अथान्यत्राप्युक्तं--स्वनवत्येषाऽस्य तनूर्योमिति स्त्रीपुंनपुंसकेतिलिङ्गवत्येषाऽथाग्निर्वायुरादित्य इति भास्वत्येषाऽथ ब्रह्मा रुद्रो विष्णुरित्यधि-पतिवत्येषाऽथ गार्हपत्यो दक्षिणाग्निराहवनीय इति मुखवत्येषाऽथ ऋग्यजुःसामेति विज्ञानवत्येषा भूर्भुवः स्वरिति लोकवत्येषाऽथ भूतं भव्यंभविष्यदिति कालवत्येषाऽथ प्राणोऽग्निः सूर्य इति प्रतापवत्येषाऽथान्नमाप-श्चन्द्रमा इत्याप्यायनवत्येषाऽथ बुद्धिर्मनोऽहंकार इति चेतनवत्येषाऽथप्राणोऽपानो व्यान इति प्राणवत्येषेत्यत ओमित्युक्तेनैताः प्रस्तुता अर्चिताअर्पिता भवन्तीत्येवं ह्याहैतद्वै सत्यकामं परं चापरं च ब्रह्म यदोमित्येत-दक्षरमिति ॥५॥

अथाव्याहृतं वा इदमासीत्स सत्यं प्रजापतिस्तपस्तप्त्वाऽ-नुव्याहरद्भूर्भुवः स्वरिस्येषैवास्य प्रजापतेः स्थविष्ठा तनूर्या लोकवतीतिस्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा आदित्यश्चक्षुः । चक्षुरायत्ता हिपुरुषस्य महती मात्रा चक्षुषा ह्ययं मात्राश्चरति सत्यं वै चक्षुरक्षिण्यवस्थितोहि पुरुषः सर्वोऽर्थेषु चरति । एतस्माद्भूर्भुवः स्वरित्युपासीतानेन हिप्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं ह्याह । एषा वैप्रजापतेर्विश्वभृत्तनूरेतस्यामिदं सर्वमन्तर्हितमस्मिंश्च सर्वस्मिन्नेषाऽन्तर्हितेतितस्मादेषोपासीत ॥६॥

तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता सवा एवं प्रवरणीय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीतिसविता वै देवस्ततो योऽस्य भर्गाख्यस्तं चिन्तयामीत्याहुर्ब्रह्मवादिनोऽथ-धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्ता योऽस्माकं प्रचोदयादित्याहु-र्ब्रह्मवादिनः । अथ भर्ग इति यो ह वा अमुष्मिन्नादित्ये निहितस्तारकोऽक्षिणिवैष भर्गाख्यः । भाभिर्गतिरस्य हीति भर्गः । भर्जयतीति वैष भर्ग इतिरुद्रो ब्रह्मवादिनः । अथ भ इति भासयतीमाँल्लोकान्र इति रञ्जयतीमानिभूतानि ग इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः प्रजास्तस्माद्भरगत्वाद्भर्गः ।शश्वत्सूयमानात्सूर्यः सवनात्सविताऽऽदानादादित्यः पवनात्पावनोऽथाऽऽपोऽ-----Page------------------१८३--प्यायनादित्येवं ह्याह । खल्वात्मनोऽऽत्मा नेताऽमृताख्यश्चेता मन्ता गन्तो-त्स्रष्टाऽऽनन्दयिता कर्ता वक्ता रसयिता घ्राता द्रष्टा श्रोता स्पृशति चविभुर्विग्नहे संनिविष्ट इत्येवं ह्याह । अथ यत्र द्वैतीभूतं विज्ञानं तत्र हिशृणोति पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेतियत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किंतदवाच्यम् ॥७॥

एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिर्विश्वसृ-ग्घिरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः सविता धाताविधाता सम्राडिन्द्र इन्दुरिति । य एष तपत्यग्निरिवाग्निना पिहितःसहस्राक्षेण हिरण्मयेनाण्डेन । एष वाव जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूते-भ्योऽभयं दत्त्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान्स्वाच्छरीरादुपलभेतै-नमिति । विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्र-रश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

तस्माद्वाएष उभयात्मैवंविदात्मन्नेवाभिध्यायत्यात्मन्नेव यजतीति ध्यानं प्रयोगस्थंमनो विद्वद्भिः ष्टुतं मनःपूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् । मन्त्रंपठति--उच्छिष्ठोच्छिष्ठोपहतं यच्च पापेन दत्तं मृतसूतकाद्वा वसोः पवित्र-मग्निः सवितुश्च रश्मयः पुनन्त्वन्नं मम दुष्कृतं च यदन्यत् । अद्भिः पुरस्ता-त्परिदधाति । प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा समानायस्वाहोदानाय स्वाहेति पञ्चभिरभिजुहोति । अथावशिष्टं यतवागश्नात्यतोऽ-द्भिर्भूय एवोपरिष्टात्परिदधात्याचान्तो भूत्वाऽऽत्मेज्यानः प्राणोऽग्निर्विश्वोऽ-सीति च द्वाभ्यामात्मानमभिध्यायेत् । प्राणोऽग्निः परमात्मा वै पञ्चवायुःसमाश्रितः । स प्रीतः प्रीणातु विश्वं विश्वभुक् । विश्वोऽसि वैश्वानरोऽसिविश्वं त्वया धार्यते जायमानम् । विशन्तु त्वामाहुतयश्च सर्वाः प्रजास्तत्रयत्र विश्वामृतोऽसीति । एवं न विधिना खल्वनेनात्ताऽन्नत्वं पुनरुपैति ॥१॥

अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथाऽन्नमन्नादश्चेत्यस्योपव्या-ख्यानम् । पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुङ्क्त इति ।तस्यायं भूतात्मा ह्यन्नमस्य कर्ता प्रधानः । तस्मात्त्रिगुणं भोज्यं भोक्ता पुरु-षोऽन्तःस्थः । अत्र दृष्टं नाम प्रत्ययम् । यस्माद्बीजसंभवा हि पशवस्तस्माद्बीजंभोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातम् । तस्माद्भोक्ता पुरुषो भोज्याप्रकृतिस्तत्स्थो भुङ्क्त इति । प्राकृतमन्नं त्रिगुणभेदपरिणामत्वान्महदाद्यं-----Page-----------------१८४--विशेषान्तं लिङ्गम् । अनेनैव चतुर्दशविधस्य मार्गस्य व्याख्या कृता भवति ।सुखदुःखमोहसंज्ञं ह्यन्नभूतमिदं जगत् । न हि बीजस्य स्वादुपरिग्रहोऽस्तीतियावन्न प्रसूतिः । तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति कौमारं यौवनं जरापरिणामत्वात्तदन्नत्वम् । एवं प्रधानस्य व्यक्ततां गतस्योपलब्धिर्भवति तत्रबुद्ध्यादीनि स्वादुनि भवन्ति । अध्यवसायसंकल्पाभिमाना इत्यथेन्द्रियार्था-न्पञ्च स्वादुनि भवन्ति । एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माण्येवं व्यक्त-मन्नमव्यक्तमन्नमस्य निर्गुणो भोक्ता भोक्तृत्वाच्चैतन्यं प्रसिद्धं तस्य । यथाऽ-ग्निर्वै देवानामन्नादः सोमोऽन्नमग्निनैवान्नमित्येवंवित् । सोमसंज्ञोऽयं भूता-त्माऽग्निसंज्ञोऽप्यव्यक्तमुखा इति ॥ वचनात्पुरुषो ह्यव्यक्तमुखेन त्रिगुणंभुङ्क्ता इति । यो हैवं वेद संन्यासी योगी चाऽऽत्मयाजी चेति । अथयद्वन्न कश्चिच्छून्यागारे कामिन्यः प्रविष्टाः स्पृशतीन्द्रियार्थांस्तद्वद्यो न स्पृशतिप्रविष्टान्संन्यासी योगी चात्मयाजी चेति ॥१०॥

परं वा एतदात्मनोरूपं यदन्नमन्नमयो ह्ययं प्राणः । अथ न यद्यश्नात्यमन्ताऽश्रोताऽस्प्रष्टाऽद्रष्टा-ऽवक्ताऽघ्राताऽरसयिता भवति प्राणांश्चोत्सृजतीस्येवं ह्याह । अथ यदि खल्व-श्नाति प्राणसमृद्धो भूत्वा मन्ता भवति श्रोता भवति स्प्रष्टा भवति वक्ताभवति रसयिता भवति घ्राता भवति द्रष्टा भवतीति । एवं ह्याह अन्नाद्वैप्रजाः प्रजायन्ते याः काश्चित्पृथिवीश्रिताः । अतोऽन्नेनैव जीवन्त्यथैतदपिय-न्त्यन्ततः ॥११॥

अथान्यत्राप्युक्तं सर्वाणि ह वा इमानि भूतान्यहरहः प्रप-तन्त्यन्नमभिजिघृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं तेनासौ तपत्यन्नेनाभि-षिक्ताः पचन्तीमे प्राणा अग्निर्वा अन्नेनाभिज्वलत्यन्नकामेनेदं प्रकल्पितंब्रह्मणा । अतोऽन्नमात्मेत्युपासीतेत्येवं ह्याह । अन्नाद्भूतानि जायन्ते जाता-न्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते ॥१२॥

अथा-न्यत्राप्युक्तं विश्वभृद्वै नामैषा तनूर्भगवतो विष्णोर्यदिदमन्नम् । प्राणो वाअन्नस्य रसो मनः प्राणस्य विज्ञानं मनस आनन्दं विज्ञानस्येत्यन्नवान्प्राणवा-न्मनस्वान्विज्ञानवानानन्दवांश्च भवति यो हैवं वेद । यावन्तीह वै भूतान्य-न्नमदन्ति तावत्स्वन्तःस्थोऽन्नमत्ति यो हैवं वेद । अन्नमेव विजरन्नमन्नं संव-ननं स्मृतम् । अन्नं पशूनां प्राणोऽन्नं ज्येष्ठमन्नं भिषक्स्मृतम् ॥१३॥

अथा-न्यत्राप्युक्तमन्नं वा अस्य सर्वस्य योनिः कालश्चान्नस्य सूर्यो योनिः कालस्य ।तस्यैतद्रूपं यन्निमेषादिकालात्संभृतं द्वादशात्मकं वत्सरमेतस्याग्नेयमर्धमर्धं-----Page-----------------१८५--वारुणम् । मघाद्यं श्रविष्ठार्धमाग्नेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तंसौम्यम् । तत्रैकैकमात्मनो नवांशकं सचारकविधं सौक्ष्म्यत्वादेतत्प्रमाणमने-नैव प्रमीयते हि कालः । न विना प्रमाणेन प्रमेयस्योपलब्धिः । प्रमेयोऽपिप्रमाणतां पृथक्त्वादुपैत्यात्मसंबोधनार्थमित्येवं ह्याह । यावत्यो वै कालस्यकलास्तावतीषु चरत्यसौ यः कालं ब्रह्मेत्युपासीत कालस्तस्यातिदूरमपसरतीत्येवंह्याह--कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च । काले चास्तं नियच्छन्तिकालो मूर्तिरमूर्तिमान् ॥१४॥

द्वे वाव ब्रह्मणो रूपे कालश्चाकालश्चाथ यःप्रागादित्यात्सोऽकालोऽकलोऽथ य आदित्याद्यः स कालः सकलः सकलस्यवा एतद्रूपं यत्संवत्सरः संवत्सरात्खल्वेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वैजाता विवर्धन्ते संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो वै प्रजापतिःकालोऽन्नं ब्रह्मनीडमात्मा चेत्येवं ह्याह । कालः पचति भूतानि सर्वाण्येवमहात्मनि । यस्मिंस्तु पच्यते कालो यस्तं वेद स वेदवित् ॥१५॥

विग्रह-वानेष कालः सिन्धुराजः प्रजानाम् । एष तत्स्थः सविताख्यो यस्मादेवेमेचन्द्रर्क्षग्रहसंवत्सरादयः सूयन्तेऽथैभ्यः सर्वमिदमन्न वा यत्किंचिच्छुभाशुभंदृश्येतेह लोके तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासी-तादित्यो ब्रह्मेत्येकेऽथैवं ह्याह । होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजा-पतिः । सर्वः कश्चित्प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥१६॥

ब्रह्म हवा इदमग्र आसीदेकोऽनन्तः प्रागनन्तो दक्षिणतोऽनन्तः प्रतीच्यनन्त उदी-च्यनन्त ऊर्ध्वं चावाङ् च सर्वतोऽनन्तः । न ह्यस्य प्राच्यादिदिशः कल्पन्तेऽथतिर्यग्वाऽवाङ् वोर्ध्वं वाऽनूह्य एष परमात्माऽपरिमितोऽजः । अतर्क्योऽचिन्त्यएष आकाशात्मा एवैष कृत्स्रक्षय एको जागर्ति । इत्येतस्मादाकाशादेषखल्विदं चेतामात्रं बोधयत्यनेनैव चेदं ध्यायतेऽस्मिंश्च प्रत्यस्तं याति ।अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपत्यग्नौ चाधूमके यज्ज्योतिश्चित्र-तरमुदरस्थोऽथ वा यः पचत्यन्नमित्येवं ह्याह । यश्चैषोऽग्नौ यश्चायंहृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति य एवं वेद॥१७॥

तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणातर्कः समाधिः षडङ्ग इत्युच्यते योगः । अनेन यदा पश्यन्पश्यतिरुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम् । तदा विद्वान्पुण्यपापे विहायपरेऽव्यये सर्वमेकी करोत्येवं ह्याह । यथा पर्वतमादीप्तं नाश्रयन्ति-----Page-----------------१८६--मृगाद्विजाः । तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥१८॥

अथान्यत्राप्युक्तं--यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियाथाश्च प्राणोनिवेशयित्वा निःसंकल्पस्ततस्तिष्ठेत् । अप्राणादिह यस्मात्संभूतः प्राणसंज्ञकोजीवस्तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं ह्याह । अचित्तं चित्तमध्य-स्थमचिन्त्यं गुह्यमुत्तमम् । तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम्॥१९॥

अथान्यत्राप्युक्तम्--अतः पराऽस्य धारणा तालुरसनाग्ननिपीडमा-द्वाङ्मनःप्राणनिरोधनाद्ब्रह्म तर्केण पश्यति यदात्मनात्मानमणोरणीयांसंद्योतमानं मनःक्षयात्पश्यति तदात्मनात्मानं दृष्ट्वा निरात्मा भवति निरात्मक-त्वादसंख्योऽयोनिश्चिन्त्यो मोक्षलक्षणमित्येतत्परं रहस्यमित्येवं ह्याह ।चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुता इति ॥२०॥

अथान्यत्राप्युक्तम्-ऊर्ध्वगा नाडी सुषुम्नाख्याप्राणसंचारिणी ताल्वन्तर्विच्छिन्ना तया प्राणॐकारमनोयुक्तयोर्ध्वमुत्क्रमेत् ।ताल्वध्यग्रं परिवर्त्य चेन्द्रियाण्यसंयोज्य महिमा महिमानं निरीक्षेत ततोनिरात्मकत्वमेति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभताइत्येवं ह्याह । परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः । तीर्त्वा पारमपारेणपश्चाद्युञ्जीत मूर्धनि ॥२१॥

अथान्यत्राप्युक्तं -- द्वे वाव ब्रह्मणी अभिध्येयेब्रह्मश्चाशब्दश्चाथ शब्देनैवाशब्दमाविष्क्रियतेऽथ तत्रोमिति शब्दोऽनेनोर्ध्व-मुत्क्रान्तोऽशब्दे निधनमेत्यथा हैषा गतिरेतदमृतमेतत्सायुज्यत्वं निर्वृतत्वंतथा चेति । अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवंवाव खल्वसावभिध्यातोमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते ।अन्यथा परे शब्दवादिनः । श्रवणाङ्गुष्ठयोगेनान्तर्हृदयाकाशशब्दमाकर्णयन्तिसप्तविधेयं तस्योपमा । यथा नद्यः किङ्किणी कांस्यचक्रकभेकविःकृन्धिकावृष्टिर्निवाते वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तंगतास्तत्र तेऽपृथग्धर्मिणोऽपृथग्विवेक्या यथा संपन्ना मधुत्वं नाना रसाइत्येवं ह्याह । द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणिनिष्णातः परं ब्रह्माधिगच्छति ॥२२॥

अथान्यत्राप्युक्तं--यः शब्दस्तदोमित्ये-तदक्षरं यदस्याग्रं तच्छान्तमशब्दमभयमशोकमानन्दं तृप्तं स्थिरमचलममृ-तमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय तदेता उपासीतेत्येवं ह्याह ।योऽसौ परापरो देवा ॐकारो नाम नामतः । निःशब्दः शून्यभूतस्तु मूर्ध्नि-----Page-----------------१८७--स्थाने ततोऽभ्यसेत् ॥२३॥

अथान्यत्राप्युक्तं--धनुः शरीरमोमित्येतच्छरःशिखाऽस्य भनस्तमोलक्षणं भित्त्वा तमोऽतमाविष्टमागच्छत्यथाविष्टं भित्त्वा-ऽलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्म तमसः पर्यमपश्यत् ।यदमुष्मिन्नादित्येऽथ सोमेऽग्नौ विद्युति विभात्यथ खल्वेनं दृष्ट्वाऽमृतत्वंगच्छतीत्येवं ह्याह । ध्यानमन्तः परे तत्त्वे लक्ष्येषु च निधीयते । अतोऽवि-शेषविज्ञानं विशेषमुपगच्छति ॥ मानसे च विलीने तु यत्सुखं चात्म-साक्षिकम् । तद्ब्रह्म चामृतं शुक्रं सा गतिर्लोक एव सः ॥२४॥

अथान्यत्रा-प्युक्तं--निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वप्न इव यः पश्यतीन्द्रिय-बिलेऽविवशः प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं विशोकंच सोऽपि प्रणवाख्यः प्रणेता भारूपो विगतनिद्रो विजरो विमृत्युर्विशोकोभवतीत्येवं ह्याह । एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा । युनक्ति युञ्जतेवाऽपि तस्माद्योग इति स्मृतः ॥ एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।सर्वभावपरित्यागो योग इत्यभिधीयते ॥२५॥

अथान्यत्राप्युक्तं--यथा वाऽप्सुचारिणः शाकुनिकः सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वावखल्विमान्प्राणानोमित्यनेनोद्धृत्यानामयेऽग्नौ जुहोत्यतस्तप्तोर्वीव सः । अथयथा तप्तोर्विसर्पिस्तृणकाष्ठसंस्पर्शेनोज्ज्वलतीत्येवं वाव खल्वसावप्राणाख्यःप्राणसंस्पर्शेनोज्ज्वलति । अथ यदुज्ज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमंपदं चैतद्रुद्रस्य रुद्रत्वमेतत्तदपरिमितधा चात्मानं विभज्य पूरयतीमाँल्लो-कानित्येवं ह्याह । वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य ।प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथाक्रमेण ॥२६॥

अथान्यत्रा-प्युक्तं--ब्रह्मणो वावैतत्तेजः परस्यामृतस्य । अशरीरस्यौष्ण्यमस्यैतद्घृतम् ।अथाऽऽविः सन्नभसि निहितं वैतदेकाग्रेणैवमन्तर्हृदयाकाशं विनुदन्ति यत्तस्यज्योतिरिव संपद्यतीत्यतस्तद्भावमचिरेणैति भूमावयस्पिण्डं निहितं यथाऽ-चिरेणैति भूमित्वम् । मृद्वत्संस्थमयस्पिण्डं यथाऽग्न्ययस्कारादयो नाभि-भवन्ति । प्रणश्यति चित्तं तथाऽऽश्रयेण सहैवमित्येवं ह्याह । हृद्याकाशमयंकीशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्चैवाग्निसूर्ययोः॥२७॥

अथान्यत्राप्युक्तं भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं धृतिदण्डंधनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा तं ब्रह्मद्वारपारं निहत्याऽऽद्यंसंमोहमौली तृष्णेर्ष्याकुण्डली तन्द्रीराघवेत्र्यभिमानाध्यक्षः क्रोधज्यं-----Page-----------------१८८--प्रलोभदण्डं धनुर्गृहीत्वेच्छामयेन चैवेषुणेमानि खलु भूतानि हन्ति तंहत्वोङ्कारप्लवेनान्तर्हृदयाकाशस्य पारं तीर्त्वाऽऽविर्भूतेऽन्तराकाशे शनकै-रवटैवावटकृद्धातुकामः संविशत्येवं ब्रह्मशालां विशेत्ततश्चतुर्जालं ब्रह्मकोशंप्रणुदेद्गुर्वागमेनेत्यतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यःस्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यतः स्वे महिम्नि तिष्ठमानंदृष्ट्वाऽऽवृत्तचक्रमिव संसारचक्रमालोकयतीत्येवं ह्याह । षड्भिर्मासैस्तुयुक्तस्य नित्यमुक्तस्य देहिनः । अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ।रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः । पुत्रदारकुटुम्बेषु सक्तस्य नकदाचन ॥२८॥

एवमुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वाऽनयाब्रह्मविद्यया राजन्ब्रह्मणः पन्थानमारूढाः पुत्राः प्रजापतेरिति संतोषं द्वंद्व-तितिक्षां शान्तत्वं योगाभ्यासादवाप्नोतीत्येतद्गुह्यतमं नापुत्राय नाशिष्यायनाशान्ताय कीर्तयेदित्यनन्यभक्ताय सर्वगुणसंपन्नाय दद्यात् ॥२९॥

ॐ शुचौ देशे शुचिः सत्त्वस्थः सदधीयानः सद्वादी सद्ध्यायी सद्याजीस्यादित्यतः सद्ब्रह्मणि सत्यभिलाषिणि निर्वृत्तोऽन्यस्तत्फलच्छिन्नपाशो निराशःपरेष्वात्मवद्विगत भयो निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । परमंवै शेवधेरिव परस्योद्धरणं यन्निष्क्रामत्वम् । स हि सर्वकाममयः पुरुषोऽ-ध्यवसायसंकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । अत्रैक आहुः--गुणः प्रकृतिभेदवशादध्यवसायात्मबन्धमुपागतोऽध्यवसायस्य दोषक्षयाद्वि-मोक्षः । मनसा ह्येव पश्यति मनसा शृणोति कामः संकल्पो विचिकित्साश्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । मुणौघैरुह्यमानः कलुषी-कृतश्चास्थिरश्चञ्चलो लुष्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयात इत्यहं सोममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानं जालेनेव खचरोऽतः पुरु-षोऽध्यवसायसंकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । तस्मान्निरध्य-वसायो निःसंकल्पो निरभिमानस्तिष्ठेदेतन्मोक्षलक्षणमेषाऽत्र ब्रह्मपदव्येषोऽत्रद्वारविवरोऽनेनास्य तमसः पारं गमिष्यति । अत्र हि सर्वे कामाः समाहिताइत्यत्रोदाहरन्ति । यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च नविचेष्टते तामाहुः परमां गतिम् ॥ एतदुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नम-स्कृत्वा यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिरे-षोऽत्र ब्रह्मपथः सौरं द्वारं भित्त्वोर्ध्वेन विनिर्गता इत्यत्रोदाहरन्ति । अनन्ता-----Page-----------------१८९--रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कटुनीलाः कपिला मृदुलो-हिताः ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्यतेन यान्ति परां गतिम् ॥ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेनदेवनिकायानां स्वधामानि प्रपद्यते ॥ ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदु-प्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ तस्मात्सर्गस्वर्गापवर्ग-हेतुर्भगवानसावादित्य इति ॥३०॥

किमात्मकानि वा एतानीन्द्रियाणिप्रचरन्त्युद्गन्ता चैतेषामिह को नियन्ता वेत्याह प्रत्याहात्मात्मकानीत्यात्माह्येषामुद्गन्ता नियन्ता वाऽप्सरसो भानवीयाश्च मरीचयो नामाथ पञ्चमीरश्मिभिर्विषयानत्ति । कतम आत्मेति । योऽयं शुद्धः पूतः शून्यः शान्तादि-लक्षणोक्तः स्वकैर्लिङ्गैरुपगृह्यः । तस्यैतल्लिङ्गमलिङ्गस्याग्नेर्यदौष्ण्यमाविष्टं चापांयः शिवतमो रस इत्येकेऽथ वाक्श्रोत्रं चक्षुर्मनः प्राण इत्येकेऽथ बुद्धिर्धृतिःस्मृतिः प्रज्ञानमित्येके । अथ ते वा एतस्यैवं यथैवेह बीजस्याङ्कुरा वाऽथधूमार्चिर्विष्फुलिङ्गा इवाग्नेश्चेत्यत्रोदाहरन्ति । बह्वेश्च यद्वत्खलु विष्फुलिङ्गाःसूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथा-क्रमेण ॥३१॥

तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाःसर्वे वेदाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति । अथयथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्यनिश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्यो-पनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि विश्वाभूतानि ॥३२॥

पञ्चेष्टको वा एषोऽग्निः संवत्सरस्तस्येमा इष्टका यो वसन्तोग्रीष्मो वर्षाः शरद्धेमन्तः स शिरःपक्षसीपृष्ठपुच्छवानेषोऽग्निः पुरुषविदः सेयंप्रजापतेः प्रथमा चितिः । करैर्यजमानमन्तरिक्षमुत्क्षिप्त्वा वायवे प्रायच्छत् ।प्राणौ वै वायुः प्राणोऽग्निस्तस्येमा इष्टका यः प्राणो व्यानोऽपानः समानौदानः स शिरःपक्षसीपृष्ठपुच्छवानेषोऽग्निः पुरुषविदस्तदिदमन्तरिक्षं प्रजाप-तेर्द्वितीया चितिः करैर्यजमानं दिवमुत्क्षिप्त्वेन्द्राय प्रायच्छदसौ वा आदित्यैन्द्रः सैषोऽग्निस्तस्येमा इष्टका यदृग्यजुःसामाथर्वाङ्गिरसा इतिहासः पुराणंस शिरःपक्षसीपुच्छपृष्ठवानेषोऽग्निः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीयाचितिः करैर्यजमानस्यात्मविदेऽवदानं करोत्यथात्मविदुत्क्षिप्य ब्रह्मणेप्रायच्छत्तत्राऽऽनन्दी मोदी भवति ॥३३॥

पृथिवी गार्हपत्योऽन्तरिक्षं दक्षि-----Page------------------१९०--णाग्निर्द्यौराहवनीयस्तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य यज्ञम् ।यतः पवमानपावकशुचिसंघातो हि जाठरस्तस्मादग्निर्यष्टव्यश्चेतव्यः स्तोतव्योऽ-भिध्यातव्यः । यजमानो हविर्गृहीत्वा देवताभिध्यानमिच्छति । हिरण्यवर्णःशकुनो हृद्यादित्ये प्रतिष्ठितः । मद्गुर्हंसस्तेजोवृषः सोऽस्मिन्नग्नौ यजामहे ॥इति चापि मन्त्रार्थं विचिनोति । तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं योबुद्ध्यन्तःस्थो ध्यायीह मनःशान्तिपदमनुसरत्यात्मन्येव धत्तेऽत्रेमे श्लोकाभवन्ति । यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते । तथा वृत्तिक्षयाच्चित्तंस्वयोनावुपशाम्यते ॥ स्वयोनावुपशान्तस्य मनसः सत्यकामतः । इन्द्रियार्थ-विमूढस्यानृताः कर्मवशानुगाः ॥ चित्तमेव हि संसारं तत्प्रयत्नेन शोधयेत् ।यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ चित्तस्य हि प्रसादेन हन्तिकर्म् शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ॥ समासक्तंयथा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येतबन्धनात् ॥ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसं-पर्काच्छुद्धं कामविवर्जितम् ॥ लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ तावन्मनो निरोद्धव्यं हृदियावद्गतक्षयम् । एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः ॥ समाधि-निर्धौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यतेवर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ अपामापोऽग्निरग्नौ वाव्योम्नि व्योम न लक्षयेत् । एवमन्तर्गतं यस्य मनः स परिमुच्यते ॥ मनएव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मोक्षेनिर्विषयं स्मृतमिति ॥ अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्रह्मणःपदव्योमानुस्मरणं विरुद्धं तस्मादग्निर्यष्टव्यश्चेतव्यः स्तोतव्योऽभिध्यातव्यः॥३४॥

नमोऽग्नये पृथिवीक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहिनमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमआदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो ब्रह्मणेसर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि । हिरण्मयेन पात्रेण सत्यस्या-पिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यवर्माय विष्णवे । योऽसावादित्येपुरुषः सोऽसावहमिति ॥ एष ह वै सत्यधर्मो यदादित्यस्यादित्यत्वंतच्छुक्लं पुरुषमलिङ्गं नभसोऽन्तर्गतस्य तेजसॐऽशमात्रंमेतद्यदादित्यस्य मध्य-----Page-----------------१९१--इवेत्यक्षिण्यग्नौ चैतद्ब्रह्मैतदमृतमेतद्भर्गः । एतत्सत्यधर्मो नभसोऽन्तर्गतस्यतेजसॐऽशमात्रमेतत् । यदादित्यस्य मध्येऽमृतं यस्य हि सोमः प्राणावाऽप्ययङ्कुरा एतद्ब्रह्मैतदमृतमेतद्भर्गः । एतत्सत्यधर्मो नभसोऽन्तर्गतस्यतेजसॐऽशमात्रमेतद्यदादित्यस्य मध्ये यजुर्दीप्यति । ओमापो ज्योतीरसोऽभृतं ब्रह्म भूर्भुवः स्वरोम् । अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् ।द्विधर्मोन्धं तेजसेन्धं सर्वं पश्यन्पश्यति ॥ नभसोऽन्तर्गस्य तेजसॐऽशमात्र-मेतद्यदादित्यस्य मध्ये उदित्वा मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तपएतदग्निरेतद्वायुरेतत्प्राण एतदाप एतच्चन्द्रमा एतच्छुक्रमेतदमृतम् । एतद्ब्रह्म-विषयमेतद्भानुरर्णवस्तस्मिन्नेव यजमानाः सैन्धव इव व्लीयन्त एषा वैब्रह्मैकताऽत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति । अंशुधारयैवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम् । यो हैवंवित्स सवित्सद्वैतवित्सैकधामेतः स्यात्तदात्मकश्च । ये बिन्दव इवाभ्युच्चरन्त्यजस्रं विद्युदि-वाभ्रार्चिषः परमे व्योमन् । तेऽर्चिषो वै यशस आश्रयवशाज्जटाभिरूपा इव कृष्णवर्त्मनः ॥३६॥

द्वे वाव खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेकंसमृद्धं चैकमथ यच्छान्तं तस्याऽऽधारं खमथ यत्समृद्धमिदं तस्यान्नंतस्मान्मन्त्रौषधाज्यामिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्तर्वेद्याम् । आस्न्य-वशिष्टैरन्नपानैश्चाऽऽस्यमाहवनीयमिति मत्वा तेजसः समृद्ध्यै पुण्यलोक-विजित्यर्थायामृतत्वाय च । अत्रोदाहरन्ति--अग्निहोत्रं जुहुयात्स्वर्गकामोयमराज्यमग्निष्टोमेनाभियजति सोमराज्यमुक्थेन सूर्यराज्यं षोडशिनास्वाराज्यमतिरात्रेण प्रजापत्यमासहस्रसंवत्सरान्तक्रतुनेति । वर्त्याधारस्नेह-योगाद्यथा दीपस्य संस्थितिः । अन्तर्याण्डोपयोगादिमौ स्थितावात्मशुचीतथा ॥३६॥

तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तन्त्रेधाऽभि-हितमग्नावादित्ये प्राणे । अथैषा नाड्यन्नबहुमित्येषाऽग्नौ हुतमादिर्त्यगमयत्यतो यो रसोऽस्नवत्स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजाइत्यत्रोदाहरन्ति यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मि-भिर्वर्षति तेनान्नं भवत्यन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह । अग्नौ प्रास्ताऽऽहुतिःसम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्ठेरन्नं ततः प्रजाः ॥३७॥

अग्निहोत्रं जुह्वानो लोभजालं भिनत्त्यतः संमोहं छित्त्वा न क्रोधान्स्तुष्वानःकाममभिध्यायमानस्ततश्चतुर्जालं ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि-----Page-----------------१९२--सौरसौम्याग्नेयसात्त्विकानि मण्डलानि भित्त्वा ततः शुद्धः सत्त्वान्तरस्थमच-लममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तंस्वतन्त्रं चैतन्यं स्वे महिम्नि तिष्ठमानं पश्यत्यत्रोदाहरन्ति । रविमध्ये स्थितःसोमः सोममध्ये हुताशनः । तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥शरीरप्रादेशाङ्गुष्ठमात्रमणोरप्यणुं ध्यात्वाऽतः परमतां गच्छत्यत्र हि सर्वेकामाः समाहिता इत्यत्रोदाहरन्ति । अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्द्विस्त्रिधा हि । तद्ब्रह्माभिष्टूयमानं महो देवो भुवनान्याविवेश । ॐ नमोब्रह्मणे नमः ॥३८॥

इति मैत्रायण्युपनिषत्सु षष्ठः प्रपाठकः ॥६॥

अग्निर्गायत्रं त्रिवृद्रथंतरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्तितपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति । अचिन्त्योऽमूर्तोगभीरो गुप्तोऽनवद्यो घनो गहनो निर्गुणः शुद्धो भास्वरो गुणभुग्भयोऽ-निर्वृत्तिर्योगीश्वरः सर्वज्ञो मेघोऽप्रमेयोऽनाद्यन्तः श्रीमानजो धीमाननिर्देश्यःसर्वसृक्सर्वस्याऽऽत्मा सर्वभुक्सर्वस्येशानः सर्वस्यान्तरान्तरः ॥१॥

इन्द्रस्त्रिष्टुप्पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत उद्यन्ति तपन्तिवर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्त्यनाद्यन्तोऽपरिमितोऽरिच्छिन्नोऽ-परप्रयोज्यः स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥२॥

मरुतोजगती सप्तदशो वैरूपं वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्तिवर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोक-मानन्दं तृप्तं स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम ॥३॥

विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या उत्तरतौद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशान्त्यन्तर्विवरेणेक्षन्त्यन्तःशुद्धः पूतःशून्यः शान्तोऽप्राणो निरात्माऽनन्तः ॥४॥

मित्रावरुणौ पङ्ङ्क्तिस्त्रिणवत्र-यास्त्रिंशौ शाक्वररैवते हेमन्तशिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्तितपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारंभारूपं विगतनिद्रं विजरं विमृत्युं विशोकम् ॥५॥

शनिराहुकेतूरगरक्षोय-क्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्वि-शन्त्यन्तर्विवरेणेक्षन्ति यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतोभान्तः क्षान्तः शान्तः ॥६॥

एष हि खल्वात्माऽन्तर्हृदयेऽणीयानिद्धोऽग्नि-----Page------------------१९३--रिव विश्वरूपोऽस्यैवान्नमिदं सर्वमस्मिन्नोता इमाः प्रजाः । एष आत्माऽपहत-पाप्मा विजरो विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसंकल्पः सत्यकामएष परमेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एष हिखल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिर्विश्वसृग्घिरण्यगर्भः सत्यं प्राणो हंसःशास्ताऽच्युतो विष्णुर्नारायणः । यश्चैषोऽग्नौ यश्चायं हृदये यश्चासावादित्ये सएष एकः । तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥७॥

अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिर्यदस्वर्ग्यैः सहस्वर्ग्यस्यैष वाट्ये पुरस्तादुक्तेऽप्यधःस्तम्बेनाश्लिष्यन्त्यथ ये चान्ये हनित्यप्रमुदिता नित्यप्रवसिता नित्ययाचका नित्यं शिल्पोपजीविनोऽथये चान्ये ह पुरयाचका अयाज्ययाजकाः शूद्रशिष्याः शूद्राश्च शास्त्रविद्वां-सोऽथ ये चान्ये ह चाटजटनटभटप्रव्रजितरङ्गावतारिणो राजकर्मणिपतितादयः । अथ ये चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थंपुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा कषाय-कुण्डलिनः कापालिनोऽथ ये चान्ये ह वृथातर्कदृष्टान्तकुहकेन्द्रजालैर्वैदिकेषुपरिस्थातुमिच्छन्ति तैः सह न संवसेत्प्रकाशभूता वै ते तस्करा अस्वर्ग्याइत्येवं ह्याह । नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः । भ्राम्यल्लोको नजानाति वेदविद्यान्तरं तु यत् ॥८॥

बृहस्पतिर्वै शुको भूत्वेन्द्रस्याभयाया-सुरेभ्यः क्षयायेमामविद्यामसृजत्तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति ।वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति वदन्त्यतो नैनामभिधीयेतान्यथैषाबन्ध्येवैषा रतिमात्रं फलमस्या वृत्तच्युतस्येव नारंभनीयेत्येवं ह्याह । दूरमेतेविपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सितं नचिकेतसंमन्ये न त्वा कामा बहवो लोलुपन्ते ॥ विद्यां चाविद्यां च यस्तद्वेदो-भयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ अविद्यायामन्तरेवेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणा परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः ॥९॥

देवासुरा ह वै य आत्मकामा ब्रह्म-णोऽन्तिकं प्रयातास्तस्मै नमस्कृत्वोचुर्भगवन्वयमात्मकामाः स त्वं नो ब्रूही-त्यतश्चिरं ध्यात्वाऽमन्यतान्यतात्मानो वै तेऽसुरा अतोऽन्यतममेतेषामुक्तंतदिमे मूढा उपजीवन्त्यभिष्वङ्गिणस्तर्याभिघातिनोऽनृताभिशंसिनः सत्यमि-वानृतं पश्यन्ति । इन्द्रजालवदित्यतो यद्वेदेष्वभिहितं तत्सत्यं यद्वेदेषूक्तं तद्वि-----Page------------------१९४--द्वांस उपजीवन्ति । तस्याद्ब्राह्मणो नावैदिकमधीयीतायमर्थः स्यादिति ॥१०॥

एतद्वाव तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं तेजस्तत्त्रेधाऽभिहितमग्नाआदित्ये प्राण एतद्वाव तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरम् ।अनेनैव तदुद्बुध्यत्युदयत्युच्छ्वसित्यजस्रं ब्रह्मधीयालम्बं वात्रैव । एतत्समीरणेप्रकाशप्रक्षेपकौष्ण्यस्थानीयमेतद्धूमस्येव समीरणे नभसि प्रशाखयैवोत्क्रम्यस्कन्धात्स्कन्धमनुसरति । अप्सु प्रक्षेपको लवणस्येव घृतस्य चौष्ण्यमिव ।अभिध्यातुर्विस्तृतिरिवैतदित्यत्रोदाहरन्ति । अथ कस्मादुच्यते वैद्युतः । यस्मा-दुच्चारितमात्र एव सर्वं शरीरं विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरि-मितं तेजः । पुरुषश्चाक्षुषो योऽयं दक्षिणेऽक्षिण्यवस्थितः । इन्द्रोऽयमस्यजायेयं सव्ये चाक्षिण्यवस्थिता । समागमस्तयोरेव हृदयान्तर्गते सुषौ ।तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥ हृदयादायता तावच्चक्षुष्य-स्मिन्प्रतिष्ठिता । सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥ मनःकायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन्मन्द्रं जनयतिस्वरम् ॥ खजाग्नियोगाद्धृदि संप्रयुक्तमणोर्ह्यणुर्द्विरणुः कण्ठदेशे । जिह्वाग्रदेशेत्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥ न पश्यन्मृत्युं पश्यति न रोगंनोत दुःखताम् । सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः । चाक्षुषःस्वप्नचारी च सुप्तः सुप्तात्परश्च यः । भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्यंमहत्तरम् ॥ त्रिष्वेकपाच्चरेद्ब्रह्म त्रिपाच्चरति चोत्तरे । सत्यानृतोपभोगार्थोद्वैतीभावो महात्मन इति द्वैतीभावो महात्मन इति ॥११॥

इति मैत्रायण्युपनिषत्सु सप्तमः प्रपाठकः ॥७॥

इति मैत्रायण्युपनिषत्समाप्ता ॥२५॥

कौषीतकिब्राह्मणोपनिषत् ॥२६॥[सम्पाद्यताम्]

श्रीमत्कौषीतकीविद्यावेद्यप्रज्ञापराक्षरम् ।प्रतियोगिविनिर्मुक्तब्रह्ममात्रं विचिन्तये ॥ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविराविर्म-र्योऽभूर्वेदसामत्साणीरृतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यग्नैळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यःशिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि । अदब्धंमन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥१॥


Page-----------------१९५--चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणिं वव्रे स ह पुत्रं श्वेतकेतुंप्रजिघाय याजयेति तं हासीनं पप्रच्छ गौतमस्य पुत्रास्ति संवृतं लोकेयस्मिन्मा धास्यस्यन्यमुताहो वाध्वा तस्य मा लोके धास्यसीति । सहोवाच नाहमेतद्वेद हन्ताचार्यं पृच्छानीति । स ह पितरमासाद्य पप्रच्छेतीतिमाऽप्राक्षीत्कथं प्रतिब्रवाणीति । स होवाचाहमप्येतन्न वेद सदस्येव वयंस्वाध्यायमधीत्य हरामहे यन्नः परे ददत्येह्युभौ गमिष्याव इति । स हसमित्पाणिश्चित्रं गार्ग्यायणिं प्रतिचक्रम उपायानीति । तं होवाच ब्रह्मार्धोऽसिगौतम यो न मानमुपागा एहि व्येव त्वा ज्ञपयिष्यामीति ॥१॥

सहोवाच ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ।तेषां प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति । एतद्वै स्वर्गस्यलोकस्य द्वारं यश्चन्द्रमास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलोवा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायतेयथाकर्म यथाविद्यम् । तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणा-दृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पित्र्यवतस्तन्मा पुंसि कर्तर्येरयध्वम् ।पुंसा कर्त्रा मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदश उपमासोद्वादशत्रयोदशेन पित्रासं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यवआभरध्वम् । तेन सत्येन तेन तपसा ऋतुरस्म्यार्तवोऽस्मि कोऽस्मि त्वम-स्मीति तमतिसृजते ॥२॥

स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छतिस वायुलोकं स आदित्यलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकंस ब्रह्मलोकं तस्य ह वा एतस्य ब्रह्मलोकस्य आरो ह्रदो मुहूर्ता येष्टिहाविजरा नदील्यो वृक्षः सालज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती द्वार-गोपौ । विभुप्रमितं विचक्षणाऽऽसन्द्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रति-रूपा च चाक्षुषी पुष्पाण्यावयतौ वै च जगान्यम्बाश्चाम्बावयवीश्चाप्सरसः ।अम्बया नद्यस्तमित्थंविदागच्छति तं ब्रह्माहाभिधावत मम यशसा विजरांवा अयं नदीं प्रापन्न वा अयं जरयिष्यतीति ॥३॥

तं पञ्च शतान्यप्सरसांप्रतियन्ति शतं चूर्णहस्ताः शतं वासोहस्ताः शतं फलहस्ताः शतमाञ्जनहस्ताःशतं माल्यहस्तास्तं ब्रह्मालंकारेणालंकुर्वन्ति स ब्रह्मालंकारेणालंकृतो ब्रह्मविद्वान्ब्रह्माभिप्रैति स आगच्छत्यारं ह्रदं तं मनसाऽत्येति । तमित्वा-----Page-----------------१९६--संप्रतिविदो मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति सआगच्छति विजरां नदीं तां मनसैवात्येति । तत्सुकृतदुष्कृते धुनुते । तस्यप्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्रथचक्रेपर्यवेक्षत एवमहोरात्रे पर्यवेक्षत एवं सुकृतदुष्कृते सर्वाणि च द्वंद्वानि सएष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति ॥४॥

स आगच्छतील्यंवृक्षं तं ब्रह्मगन्धः प्रविशति स आगच्छति सालज्यं संस्थानं तं ब्रह्मरसःप्रविंशति स आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स आगच्छति ।इन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स आगच्छति विभुप्रमितं तंब्रह्मतेजः प्रविशति स आगच्छति विचक्षणामासन्दीं बृहद्रथंतरे सामनीपूर्वौ पादौ श्यैतनौधसे चापरौ वैरूपवैराजे अनूच्यते शाक्वररैवते तिरश्चीसा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्यभूतं च भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ बृहद्रथंतरे अनूच्ये भद्रय-ज्ञायज्ञीये शीर्षण्ये ऋचश्च सामानि च प्राचीनातानानि यजूंषि तिरश्चीनानिसोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थं-वित्पादेनैवाग्र आरोहति । तं ब्रह्मा पृच्छति कोऽसीति तं प्रतिब्रूयात् ॥५॥

ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः संभूतो भार्या एतत्संवत्सरस्य तेजो भूतस्यभूतस्य भूतस्य भूतस्यात्मा त्वमात्मासि यस्त्वमसि सोऽहमस्मीति तमाहकोऽहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्चतत्सदथ यद्देवाश्च प्राणाश्च तत्त्यं तदेतया वाचाऽभिव्याहियते सत्यमित्येताव-दिदं सर्वमिदं सर्वमसि । इत्येवैनं तदाह । तदेतदृक्श्लोकेनाभ्युक्तम्--यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति स विज्ञेय ऋषिर्ब्रह्ममयोमहानिति । तमाह केन मे पौंस्यानि नामान्याप्नोषीति प्राणेनेति ब्रूयात् ।केन स्त्रीनामानीति वाचेति केन नपुंसकानीति मनसेति केन गन्धानिति प्राणे-नेत्येव ब्रूयात् । केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केनान्न-रसानिति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति केन सुखदुःखे इति शरीरे-णेति केनान्दं रतिं प्रजातिमित्युपस्थेनेति । केनेत्या इति पादाभ्यामितिकेन धियो विज्ञातव्यं कामानिति प्रज्ञयेति ब्रूयात्तमाह । आपो वै खलु मेह्यसावयं ते लोक इति सा या ब्रह्मणो जितिर्या व्यष्टिस्तां जितिं जयति तांव्यष्टिं व्यश्नुते य एवं वेद य एवं वेद ॥६॥

इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सु प्रथमोऽध्यायः ॥१॥


Page-----------------१९७--

द्वितीयोऽध्यायः ॥२॥

प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणोमनो दूतं वाक्परिवेष्ट्री चक्षुर्गोप्तृ श्रोत्रं संश्रावयितृ तस्मै वा एतस्मै प्राणायब्रह्मणे एताः सर्वा देवता अयाचमानाय बलिं हरन्ति तथो एवास्मै सर्वाणिभूतान्ययाचमानायैव बलिं हूरन्ति य एवं वेद तस्योपनिषन्न याचेदिति ।तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति । य एवैनंपुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इति । एष धर्मो याचितोभवति । अन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति । प्राणो ब्रह्मेति ह स्माहपैङ्ग्यस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताच्चक्षुरारुन्धे चक्षुःपरस्ताच्छ्रोत्रमारुन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्प्राण आरुन्धेतस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिंहरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवंवेद तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतोदत्तमश्नीयामिति य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददामत इत्येष धर्मो याचितो भवत्यन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥१॥

अथात एकधनावरोधनं यदेकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायांवा शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्यो-त्पूय दक्षिणं जान्वाच्य स्रुवेण वा चमसेन वा कंसेन वैता आज्याहुतीर्जुहोतिवाङ्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा ।प्राणो नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा ।चक्षुर्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । श्रोत्रंनाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । मनो नामदेवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । प्रज्ञा नामदेवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहेत्यथ धूमगन्धंप्रजिघ्रायाज्यलेपेनाङ्गान्यनु विमृज्य वाचंयमोऽभिप्रव्रज्यार्थं ब्रुवीत दूतंवा प्रहिणुयाल्लभते हैव ॥२॥

अथातो दैवः स्मरो यस्य प्रियो बुभूषेद्यस्यैवा एषां वै तेषामेवैकस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता आज्याहु-तीर्जुहोति वाचं ते मयि जुहोम्यसौ स्वाहा । प्राणं ते मयि जुहोम्यसौस्वाहा । चक्षुस्ते मयि जुहोम्यसौ स्वाहा । श्रोत्रं ते मयि जुहोम्यसौ स्वाहा ।-----Page-----------------१९८--मनस्ते मयि जुहोम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेत्यथ धूम-गन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनु विमृज्य वाचंयमोऽभिप्रव्रज्य संस्पर्शंजिगमिषेदपि वाताद्वा संभाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्तिहैवास्मात् ॥३॥

अथातः सांयमनं प्रातर्दनमान्तरमग्निहोत्रमितिचाचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचिजुहोति यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति ।एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्याआहुतयोऽन्तवत्यस्ताः कर्ममय्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं नजुहवांचक्रुः । उक्थं ब्रह्मेति ह स्माह श्ष्कुभृङ्गारस्तदृगित्युपासीत सर्वाणिहास्मै भूतानि श्रैष्ट्यायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानिश्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्तेतच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छस्त्राणांश्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानांश्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति । तमेतमैष्टकं कर्ममयमात्मानम-ध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होता ऋङ्मये साम-मयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ एवास्यात्मा एतदात्माभवति य एवं वेद ॥४॥

अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्तियज्ञोपवीतं कृत्वाऽप आचम्य त्रिरुदपात्रं प्रसिच्योद्यन्तमादित्यमुपतिष्ठेतवर्गोऽसि पाप्मानं मे वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानंम उद्वृङ्धीत्येतयैवावृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संवृङ्धीति ।यदहोरात्राभ्यां पापं करोति सं तद्वृङ्क्ते । अथ मासि मास्यमावास्यायां पश्चा-च्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता हरिततृणाभ्यां वाक्प्रत्यस्यति यत्तेसुसीमं हृदयमधि चन्द्रमसि श्रितं तेनामृतत्वस्येशाने माऽहं पौत्रमघं रुद्रमितिन हास्मात्पूर्वाः प्रजाः प्रैतीति नु जातपुत्रस्याथाजातपुत्रस्याप्यायस्व समेतु तेसं ते पयांसि समु यन्तु वाजा यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र ऋचोजपित्वा माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा योऽस्मान्द्वेष्टि यं चवयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्याययस्वेति दैवीमावृतमावर्त आदि-त्यस्यावृतमन्वावर्त इति दक्षिणं बाहुमन्वावर्तते ॥५॥

अथ पौर्णमास्यांपुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजाऽसि विचक्षणः-----Page-----------------१९९--पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेनमामन्नादं कुरु राजा त एकं मुखं तेन मुखेन विशोऽत्सि तेन मुखेन मामन्नादंकुरु श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन मुखेन मामन्नादं कुर्वग्निष्टएकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वयि पञ्चमंमुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु माऽस्माकंप्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेनप्रजया पशुभिरवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तैति दक्षिणं बाहुमन्वावर्तते । अथ संवेश्यञ्जायायै हृदयमभिमृशेद्यत्तेसुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं तेन माऽहंपौत्रमघं रुदमिति न हास्मात्पूर्वाः प्रजाः प्रैतीति ॥६॥

अथप्रोष्यायन्पुत्रस्य मूर्धानमभिमृशेत् । अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।आत्मा त्वं पुत्र माविथ स जीव शरदः शतमसाविति नामास्यगृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव तेजो वै पुत्रनामासिस जीव शरदः शतमसाविति नामास्य गृह्णाति येन प्रजापतिः प्रजाःपर्यगृह्णादरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति नामास्य गृह्णात्यथास्यदक्षिणे कर्णे जपत्यस्मै प्रयन्धि मघवन्नृजीषिन्नितीन्द्र श्रेष्ठानि द्रविणानिधेहीति सव्ये मा च्छित्था मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र तेनाम्ना मूर्धानमवजिघ्राम्यसाविति त्रिर्मूर्धानमवजिघ्रेद्गवां त्वा हिंकारेणाभि हिंकरोमीति त्रिर्मूर्धानमभि हिं कुर्यात् ॥७॥

अथातो दैवः परिमर एतद्वैब्रह्म दीप्यते यदग्निर्ज्वलत्यथैतन्म्रियते यन्न ज्वलति तस्यादित्यमेव तेजोगच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यदादित्यो दृश्यतेऽथैतन्म्रियते यन्नदृश्यते तस्य चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यतेयच्चन्द्रमा दृश्यते । अथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छतिवायुं प्राण एतद्वै ब्रह्म दीप्यते तद्विद्युद्विद्योततेऽथैतन्म्रियते यन्न विद्योततेतस्य वायुमेव तेजो गच्छति वायुं प्राणः । ता वा एताः सर्वा देवतावायुमेव प्रविश्य वायौ मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरत इत्यधिदैव-तमथाध्यात्ममेतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वदति तस्यचक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्चक्षुषा पश्यत्यथै-तन्म्रियते यन्न पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म-----Page-----------------२००--दीप्यते यच्छ्रोत्रेण शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजोगच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्म्रियते यन्नधायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता वा एताः सर्वा देवताःप्राणमेव प्रविश्य प्राणे मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरते तद्यदि ह वाएवं विद्वांस उभौ पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणौ दक्षिणश्चोत्तरश्च न हैवैनंस्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एनं सर्वे परिम्रियन्ते॥८॥

अथातो निःश्रेयसादानं सर्वा ह वै देवता अहंश्रेयसे विवदमानाः । अस्मा-च्छरीरादुच्चक्रमुस्तद्दारुभूतं शिश्येऽथैनद्वाक्प्रविवेश तद्वाचा वदच्छिश्य एव ।अथैनच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिश्य एवाथैनच्छ्रोत्रं प्रविवेशतद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वच्छिश्य एवाथैनम्मनः प्रविवेशतद्वाचावदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य एवाथैनत्प्राणःप्रविवेश तत्तत एव समुत्तस्थौ ते देवाः प्राणे निःश्रेयसं विदित्वा प्राणमेवप्रज्ञात्मानमभिसंभूय सहैतैः सर्वैरस्माल्लोकादुच्चक्रमुः । ते वायुप्रतिष्ठा आका-शात्मानः स्वरीयुस्तथो एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभि-संभूय सहैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठ आकाशात्मा स्वरेतिस तद्भवति यत्रैते देवास्तत्प्राप्य तदमृतो भवति यदमृता देवाः ॥९॥

अथातः पितापुत्रीयं संप्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयतिनवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेनवाससा संप्रच्छन्नः स्वयं श्येत एत्य पुत्र उपरिष्टादभिनिपद्यते इन्द्रियैरस्ये-न्द्रियाणि संस्पृश्यापि वाऽस्याभिमुखत एवासीताथास्मै संप्रयच्छति वाचंमे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधा-नीति पिता प्राणं ते मयि दध इति पुत्रः । चक्षुर्मे त्वयि दधानीति पिताचक्षुस्ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते मयिदध इति पुत्रः । अन्नरसान्मे त्वयि दधानीति पिता अन्नरसांस्ते मयि दध इतिपुत्रः । कर्माणि मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति पुत्रः ।सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्रः ।आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिंते मयि दध इति पुत्रः । इत्या मे त्वयि दधानीति पिता इत्यास्तेमयि दध इति पुत्रः । धियो विज्ञातव्यं कामान्मे त्वयि दधानीति पिता-----Page-----------------२०१--धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रः । अथ दक्षिणावुत्प्राङु-पनिष्क्रामति तं पिताऽनुमन्त्रयते यशो ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषता-मित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनाऽन्तर्धाय वसनान्तेन वा प्रच्छाद्यस्वर्गाँल्लोकान्कामानाप्नुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परि वाव्रजेद्यद्यु वै प्रेयाद्यदेवैनं समापयति तथा समापयितव्यो भवति तथासमापयितव्यो भवति ॥१०॥

इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

तृतीयोऽध्यायः ॥३॥

ॐ प्रतर्दनो ह दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम । युद्धेन च पौरुषेण च तंहेन्द्र उवाच । प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः । त्वमेव मे वृणीष्वयं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच । न वै वरोऽवरस्मैवृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथोखल्विन्द्रः सत्यादेव नेयाय । सत्यं हीन्द्रः स होवाच । मामेव विजानीह्येत-देवाहं मनुष्याय हिततमं मन्ये । यन्मां त्रिजार्नायात् । त्रिशीर्षाणं त्वाष्ट-महनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिविप्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् । तस्य मेतत्र नलोम च मा मीयते । स यो मां विजानीयान्नास्य केन च कर्मणालोको मीयते । न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्यपापं च न चकृषो मुखान्नीलं वेतीति ॥१॥

स होवाच प्राणोऽस्मि प्रज्ञात्मातं मामायुरमृतमित्युपास्स्व । आयुः प्राणः प्राणो वा आयुः प्राणएवामृतम् । यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः । प्राणेन ह्येवा-मुष्मिँल्लोकेऽमृतत्वमाप्नोति । प्रज्ञया सत्यं संकल्पम् । स यो ममायुर-मृतमित्युपास्ते सर्वमायुरस्मिँल्लोक एति । आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ।तद्धैक आहुरेकभूयं वै प्राणा गच्छन्तीति । न हि कश्चन शक्नुयात्सकृद्वाचानाम प्रज्ञापयितुं चक्षुषा रूपं श्रोत्रेण शब्दं मनसा ध्यातुमित्येकभूयं वैप्राणाः । एकैकमेतानि सर्वाण्येव प्रज्ञापयन्ति । वाचं वदन्तीं सर्वे प्राणाअनुवदन्ति । चक्षुः पश्यत्सर्वे प्राणा अनु पश्यन्ति श्रोत्रं शृण्वत्सर्वे प्राणाअनुशृण्वन्ति मनो ध्यायत्सर्वे प्राणा अनुध्यायन्ति प्राणं प्राणन्तं सर्वेप्राणा अनुप्राणन्तीति । एवमु हैतदिति हेन्द्र उवाच । अस्ति त्वेव प्राणानांनिःश्रेयसमिति ॥२॥

जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षु-----Page------------------२०२--रपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवतिमनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न इति ।एवं हि पश्याम इति । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थाप-यति । तस्मादेतदेवोऽथमुपासीत । यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा सप्राणः । सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतस्तस्यैषैव दृष्टिः । एतद्विज्ञा-नम् । यत्रैतत्पुरुषः सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति ।तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रंसर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति । स यदा प्रतिबुध्यते ।यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनःप्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः । तस्यैषैवसिद्धिः । एतद्विज्ञानम् । यत्रैतत्पुरुष आर्तो मरिष्यन्नाबल्यं न्येत्य संमोहंन्येति तदाहुः । उदक्रमीच्चित्तम् । न शृणोति न पश्यति न वाचावदति न ध्यायत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिःसहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनःसर्वैर्ध्यानैः सहाप्येति यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा विप्रति-ष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्योलोकाः ॥३॥

स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति वाग-स्मात्सर्वाणि नामान्यभिविसृजते । वाचा सर्वाणि नामान्याप्नोति प्राणोऽस्मा-त्सर्वान्गन्धानभिविसृजते प्राणेन सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणिरूपाण्यभिविसृजते चक्षुषा सर्वाणि रूपाण्याप्नोति श्रोत्रमस्मात्सर्वाञ्शब्दान-भिविसृजते श्रोत्रेण सर्वाञ्शब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यानान्यभिवि-सृजते मनसा सर्वाणि ध्यानान्याप्नोति सैषा प्राणे सर्वाप्तिः । यो वै प्राणःसा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः ।अथ खलु यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्यामः ॥॥४॥

वागेवास्या एकमङ्गमदूह्ळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा ।प्राण एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षु-रेवास्या एकमङ्गमदूह्ळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्याएकमङ्गमदूह्ळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एकमङ्ग-नदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या एकमङ्गम-----Page------------------२०३--दूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एकमङ्गमदूह्ळंतस्यस् सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या एकमङ्गमदूह्ळंतस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादावेवास्या एक-मङ्गमदूह्ळं तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्ग-मदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता भूतमात्रा ॥५॥

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति । प्रज्ञया प्राणं समारुह्यप्राणेन सर्वान्गन्धानाप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोतिप्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्शब्दानाप्नोति प्रज्ञया जिह्वां समारुह्यजिह्वया सर्वानन्नरसानाप्नोति प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्मा-ण्याप्नोति प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थंसमारुह्योपस्थेनानन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ समारुह्य पादाभ्यांसर्वा इत्या आप्नोति प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामा-नाप्नोति ॥६॥

न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञापयेत् । अन्यत्र मेमनोऽभूदित्याह । नाहमेतन्नाम प्राज्ञासिषमिति । न हि प्रज्ञापेतः प्राणो गन्धंकंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति । नहि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतद्रूपंप्राज्ञासिषमिति न प्रज्ञापेतं श्रोतं शब्दं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदि-त्याह । नाहमेतं शब्दं प्राज्ञासिषमिति न हि प्रज्ञापेता जिह्वाऽन्नरसं कंचनप्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमन्नरसं प्राज्ञासिषमिति नप्रज्ञापेतौ हस्तौ कर्म किंचन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतत्कर्मप्राज्ञासिषमिति न हि प्रज्ञापेतं शरीरं सुखं दुःखं किंचन प्रज्ञापयेदन्यत्र मेमनोऽभूदित्याह नाहमेतत्सुखं दुःखं प्राज्ञासिषमिति न हि प्रज्ञापेत उपस्थआनन्दं रतिं प्रजातिं कांचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमानन्दंन रतिं न प्रजातिं प्राज्ञासिषमिति न हि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापये-तामन्यत्र मे मनोऽभूदित्याह । नाहमेतामित्यां प्राज्ञासिषमितिं । न हि प्रज्ञापेताधीः काचन सिध्येन्न प्रज्ञातव्यं प्रज्ञायेत ॥७॥

न वाचं विजिज्ञासीतवक्तारं विद्यान्न गन्धं विजिज्ञासीत घ्रातारं विद्यान्न रूपं विजिज्ञासीत रूप-विद्यं विद्यान्न शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं विजिज्ञासीतान्नरसस्यविज्ञातारं विद्यान्न कर्म विजिज्ञासीत कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत-----Page-----------------२०४--सुखदुःखयोर्विज्ञातारं विद्यान्नानन्दं न रतिं न प्रजातिं विजिज्ञासीतानन्दस्यरतेः प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं विद्यात् । न मनो विजिज्ञा-सीत मन्तारं विद्यात् । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्राअधिभूतं यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्नभूतमात्राः स्युः । न ह्यन्यतरतो रूपं किंचन सिध्येत् । नो एतन्नाना तद्यथारथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रा-स्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरो-ऽमृतः । न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवैनमसाधु कर्मकारयति तं यमधो निनीषते । एष लोकपाल एष लोकाधिपतिरेष सर्वेशःस म आत्मेति विद्यात्स म आत्मेति विद्यात् ॥८॥

इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सुतृतीयोऽध्यायः ॥३॥

चतुर्थोऽध्यायः ॥४॥

अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽवददुशीनरेषु सवसन्मत्स्येषु कुरुपञ्चालेषु काशिविदेहेष्विति स हाजातशत्रुं काश्यमेत्योवाच ।ब्रह्म ते ब्रवाणीति तं होवाचाजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनकोजनक इति वा उ जना धावन्तीति ॥१॥

आदित्ये बृहच्चन्द्रमस्यन्नं विद्युतिसत्यं स्तनयित्नौ शब्दो वायाविन्द्रो वैकुण्ठ आकाशे पूर्णमग्नौ विषासहिरित्यप्सुतेज इत्यधिदैवतमथाध्यात्ममादर्शे प्रतिरूपश्छायायां द्वितीयः प्रतिश्रुत्काया-मसुरिति शब्दे मृत्युः स्वप्ने यमः शरीरे प्रजापतिर्दक्षिणेऽक्षिणि वाचः सव्येऽ-क्षिणि सत्यस्य ॥२॥

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपासैति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः । बृहन्पाण्डरवासा अतिष्ठाःसर्वेषां भूतानां भूर्धेति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाःसर्वेषां भूतानां मूर्धा भवति ॥३॥

स होवाच बालाकिर्य एवैष चन्द्रमसिपुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः सोमोराजाऽन्नस्यात्मेति वा अहमेतमुपास इति स यो मेवमुपासतेऽन्नस्यात्मा भवति॥४॥

स होवाच बालाकिर्य एवैष विद्युति पुरुषस्तमेवाहमुपास इतितं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपासैति स यो हैतमेवमुपास्ते तेजस आत्मा भवति ॥५॥

स होवाच-----Page-----------------२०५--बालाकिर्य एवैष स्तनयित्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मामैतस्मिन्संवादयित्ष्ठाः शब्दस्यात्मेति वा अहमेतमुपास इति स यो हैतमेव-मुपास्ते शब्दस्यात्मा भवति ॥६॥

स होवाच बालाकिर्य एवैष आकाशेपुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः पूर्णम-प्रवर्ति ब्रह्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजयापशुभिः । नो एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥७॥

स होवाचबालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैत-स्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति सयो हैतमेवमुपास्ते । जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भवति ॥८॥

स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजात-शत्रुर्मा मैतस्मिन्संवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति स यो हैत-मेवमुपास्ते विषासहिर्हैवान्वेष भवति ॥९॥

स होवाच बालाकिर्य एवैषो-ऽप्सु पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठानाम्न आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न आत्माभवतीत्यधिदैवतमथाध्यात्मम् ॥१०॥

स होवाच बालाकिर्य एवैष आदर्शेपुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रति-रूप इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्यप्रजायामाजायते नाप्रतिरूपः ॥११॥

स होवाच बालाकिर्य एवैष प्रतिश्रु-त्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाद्वितीयोऽनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दतेद्वितीयाद्द्वितीयवान्भवति ॥१२॥

स होवाच बालाकिर्य एवैष शब्दःपुरुषमन्वेति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाअसुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्यप्रजा पुरा कालात्संमोहमेति ॥१३॥

स होवाच बालाकिर्य एवैष छाया-पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठामृत्युरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्यप्रजा पुरा कालात्प्रमीयते ॥१४॥

स होवाच बालाकिर्य एवैष शारीरः पुरु-षस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रजापति-रिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया-----Page-----------------२०६--पशुभिः ॥१५॥

स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्पुरुषःसुप्तः स्वप्न्यया चरति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मि-न्संवादयिष्ठा यमो राजेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वंहास्मा इदं श्रेष्ठ्याय यम्यते ॥१६॥

स होवाच बालाकिर्य एवैष दक्षिणेऽ-क्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठानाम्न आत्माऽग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हैत-मेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥१७॥

स होवाच बालाकिर्य एवैषसव्येऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवाद-यिष्ठाः सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति सयो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥१८॥

तत उ ह बाला-किस्तूष्णीमास तं होवाचाजातशत्रुः । एतावन्नु बालाका ३ इ इत्येतावद्धीतिहोवाच बालाकिस्तं होवाचाजातशत्रुर्मृषा वै किल मा समवादयिष्ठा ब्रह्म तेब्रवाणीति । स होवाच । यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मस वै वेदितव्य इति तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीतितं होवाचाजातशत्रुः प्रतिलोमरूपमेव तत्स्याद्यत्क्षत्त्रियो ब्राह्मणमुपनयेत् ।एहि व्येव त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुष-माजग्मतुस्तं हाजातशत्रुरामन्त्रयांचक्रे । बृहन्पाण्डरवासः सोम राजन्निति ।स उ ह तूष्णीमेव शिश्ये । तत उ हैनं यष्ट्याविचिक्षेप स तत एव समु-त्तस्थौ तं होवाचाजातशत्रुः । क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्वैतदभू-त्कुत एतदागा३ दिति । तत उ ह बालाकिर्न विजज्ञे तं होवाचाजातशत्रुर्यत्रैषएतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागादिति । हिता नाम हृदयस्यनाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्ताव-दण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ति । शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति तासुतदा भवति । यदा सुप्तः स्वप्न न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवतितदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैःशब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यतेयथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नैवमेवैतस्मादात्मनःप्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥१९॥

तद्यथा क्षुरः क्षुरधानेऽवहितः स्यात् । विश्वंभरो वा विश्वंभरकुलाय एवमेवैष-----Page-----------------२०७--प्रज्ञ आत्मेदंशरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः । तमेतमा-त्मामेनत आत्मानोऽन्ववस्यन्ति यथा श्रेष्ठिनं स्वाः । तद्यथा श्रेष्ठी स्वर्भुङ्क्तेयथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते । एवं वैतमात्मानमेत आत्मानो भुञ्जन्ति । स यावद्ध वा इन्द्र एतमात्मानं नविजज्ञे तावदेनमसुरा अभिबभूबुः । स यदा विजज्ञेऽथ हत्वाऽसुरान्विजित्यसर्वेषां देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं परीयाय तथो एवैवं विद्वान्सर्वा-न्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेदय एवं वेद ॥२०॥

ऋतं वदिष्यामि । सत्यं वदिष्यामि० । वाङ्मे मनसि प्रतिष्ठितामनो मे वाचि प्रतिष्ठितमाविराविर्मर्योऽभूर्वेदसा मत्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वतिमा ते व्योम संदृशि । अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षेमा मा हिंसीः ॥१॥

ॐ शान्तिः शान्तिः शान्तिः ॥इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सुचतुर्थोऽध्यायः ॥४॥

इति कौषीतकिब्राह्मणोपनिषत्समाप्ता ॥२६॥

बृहज्जाबालोपनिषत् ॥२७॥[सम्पाद्यताम्]

यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥भद्रं कर्णेभिरिति शान्तिः ॥ॐ अपो वा इदमासीत्सलिलमेव ॥ स प्रजापतिरेकः पुष्करपर्णे समभ-वत् ॥ तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति । तस्माद्यत्पुरुषोमनसाभिगच्छति तद्वाचा वदति । तत्कर्मणा करोति । तदेषाभ्यनूक्ता ।कामस्तदग्रे समवर्तताधि । मनसा रेतः प्रथमं यदासीत् । सतो बन्धुमसतिनिरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति । उपैनं तदुपनमति । यत्कामोभवति । य एवं वेद । स तपोऽतप्यत । स तपस्तप्त्वा स एतं भुसुण्डःकालाग्रिरुद्रमगमदागत्य भो विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचत् भुसुण्डं-----Page-----------------२०८--चक्ष्यमाणं किमिति विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्प-लादेन सहोक्तमिति तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति । बृहज्जाबाला-भिधां मुक्तिश्रुतिं ममोपदेशं कुरुष्वेति । ॐ तथेति सद्योजातात्पृथिवी ।तस्याः स्यान्निवृत्तिः । तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता ।वामदेवादुदकम् । तस्मात्प्रतिष्ठा । तस्याः कृष्णवर्णा भद्रा । तद्गोमयेन भसितंजातम् । आघोराद्वह्निः । तस्माद्विद्या । तस्या रक्तवर्णा सुरभिः । तद्गोमयेनभस्म जातम् । तत्पुरुषाद्वायुः । तस्माच्छान्तिः । तस्याः श्वेतवर्णा सुशीला ।तस्या गोमयेन क्षारं जातम् । ईशानादाकाशम् । तस्माच्छान्त्यतीता ।तस्याश्चित्रवर्णा सुमनाः । तद्गोमयेन रक्षा जाता । विभूतिर्भसितं भस्मक्षरं रक्षेति भस्मानो भवन्ति पञ्च नामानि । पञ्चभिर्नामभिर्भृशमैश्वर्यकार-णाद्भूतिः । भस्म सर्वाघभक्षणात् । भासनाद्भसितम् । क्षारणादापदां क्षारम् ।भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षणाद्रक्षेति ॥इति श्रीबृहज्जाबालोपनिषत्सु प्रथमं ब्राह्मणम् ॥१॥

अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं पप्रच्छ । अग्नि-र्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एवं भस्म सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । रौद्रीघोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः शक्तिकरी तनूः । अमृतंयत्प्रतिष्ठा सा तेजोविद्या कला स्वयम् । स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी॥१॥

द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्चसोमात्मा चानलात्मिका ॥२॥

वैद्युदादिमयं तेजो मधुरादिमयो रसः ।तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥३॥

अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।अत एव हविः संतमग्नीषोमात्मकं जगत् ॥४॥

ऊर्ध्वशक्तिमयः सोम अधो-शक्तिमयोऽनलः । ताभ्यां संपुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥५॥

अग्ने-रूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । यावदग्न्यात्मके सौम्यममृतं विसृज-त्यधः ॥६॥

अत एव हि कामाग्निरधस्ताच्छक्तिरूर्ध्वगा । यावदादहनश्चो-र्ध्वमधस्तात्पावनं भवेत् ॥७॥

आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।तथैव निमग्नः सोमः शिवशक्तिपदास्पदः ॥८॥

शिवश्चोर्ध्वमयः शक्तिरूर्ध्व-शक्तिमयः शिवः । तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥९॥

असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् । अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म-----Page-----------------२०९--यत्ततः ॥१०॥

यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना । अग्नि-रित्यादिभिर्मन्त्रैर्दग्धपापः स मुच्यते ॥११॥

अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितंपुनः । अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥१२॥

योगयुक्त्या तुतद्भस्म प्लाव्यमानं समंततः । शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥१३॥

अतो मृत्युंजयायेत्थममृतप्लावनं सताम् । शिवशक्त्यमृतस्पर्शे लब्ध एवकुतो मृतिः ॥१४॥

यो वेद गहनं गुह्यं पावनं च तथोदितम् । अग्नीषोमपुटंकृत्वा न स भूयोऽभिजायते ॥१५॥

शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेनयः । प्लावयेद्योगमार्गेण गोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पतैति ॥१६॥

इति श्रीबृहज्जाबालोपनिषत्सु द्वितीयं ब्राह्मणम् ॥२॥

अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति स होवाच । विकटाङ्गा-मुन्मत्तां महाखला मलिनामशिवादिचिह्नान्वितां पुनर्धेनुं कृशाङ्गां वत्सहीनाम-शान्तामदुग्धदोहिनीं निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं संधिनींनवप्रसूतां रोगार्तां गां विहाय प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभेस्थाने वा पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणे कपिला वाधवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता कपिलागोर्भस्मोक्तं लब्धंगोभस्म नो चेदन्यगोक्षारं यत्र क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितंधार्यम् । तत्रैते श्लोका भवन्ति--विद्या शक्तिः समस्तानां शक्तिरित्यभिधीयते ।गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥१॥

गुणत्रयमिदं धेनुर्विद्या-भूद्गोमयं शुभम् । मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥२॥

वत्सस्तुस्मृतयश्चास्य तत्संभूतं तु गोमयम् । आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत्॥३॥

गावो भगो गाव इति प्राशयेत्तर्पणं जलम् । उपोष्य च चतुर्दश्यांशुक्ले कृष्णेऽथवा व्रती ॥४॥

परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥५॥

उत्थाप्य गां प्रयत्नेनगायत्र्या मूत्रमाहरेत् । सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ॥६॥

पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा । आदधीत हि गोमूत्रं गन्धद्वारेतिगोमयम् ॥७॥

अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही । गोमयं शोधयेद्वि-द्वाञ्छ्रीर्मे भजतु मन्त्रतः ॥८॥

अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् ।सं त्वा सिञ्चामि मन्त्रेण गोमूत्रं गोमये क्षिपेत् ॥९॥

पञ्चानां त्विति मन्त्रेण-----Page-----------------२१०--पिण्डानां च चतुर्दश । कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥१०॥

निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् । स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्नि-मीजयेत् ॥११॥

पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु । षडक्षरस्यसूक्तस्य व्याकृतस्य तथाक्षरैः ॥१२॥

स्वाहान्ते जुहुयात्तत्र वर्णदेवायपिण्डकान् । आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥१३॥

ततोनिधनपतये त्रयोविंशज्जुहोति च । होतव्याः पञ्च ब्रह्मणि नमो हिरण्यबाहवे॥१४॥

इति सर्वाहुतीर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः ॥ ऋतं सत्यं कद्रुद्राययस्य वैकंकतीति च ॥१५॥

एतैश्च जुहुयाद्विद्वानना ज्ञातत्रयं तथा ।व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥१६॥

इध्मशेषं तु निर्वर्त्यपूर्णपात्रोदकं तथा । पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥१७॥

ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । प्राच्यामिति दिशं लिङ्गैर्दिक्षु तोयंविनिक्षिपेत् ॥१८॥

ब्राह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् । आहरि-ष्यामि देवानां सर्वेषां कर्मगुप्तये ॥१९॥

जातवेदसमेनं त्वां पुलकैश्छादया-म्यहम् । मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत्ततः ॥२०॥

त्रिदिनं ज्वलनस्थित्यैछादनं पुलकैः स्मृतम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः॥२१॥

भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् । दिनत्रयेण यदिवा एकस्मिन्दिवसेऽथवा ॥२२॥

तृतीये वा चतुर्थे वा प्रातः स्नात्वासिताम्बरः । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥२३॥

शुक्लदन्तोभस्मदिग्धो मन्त्रेणानेन मन्त्रवित् । ॐ तद्ब्रह्मेति चोच्चार्य पौलकंभस्मसंत्यजेत् ॥२४॥

तत्र चावाहनमुखानुपचारांस्तु षोडश । कुर्याद्व्याहृति-भिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥२५॥

अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्मचोत्तरम् । अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥२६॥

संयोज्यगन्धसलिलैः कपिलामूत्रकेण वा । चन्द्रकुङ्कुमकाश्मीरमुशीरं चन्दनं तथा॥२७॥

अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः । क्षिपेद्भस्मनि तच्चूर्णमो-मिति ब्रह्ममन्त्रतः ॥२८॥

प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ । अणोरणीया-निति हि मन्त्रेण च विचक्षणः ॥२९॥

इत्थं भस्म सुसंपाद्य शुष्कमादायमन्त्रवित् । प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥३०॥

ईशानेति शिरोदेशंमुखं तत्पुरुषेण तु । ऊरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥३१॥

सद्यो-जातेन वै पादान्सर्वाङ्गं प्रणवेन तु । तत उद्धृत्य सर्वाङ्गमापादतलमस्तकम ॥३२॥


Page-----------------२११--

आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् । पुनराचम्य कर्म स्वंकर्तुमर्हसि सत्तम ॥३३॥

अथ चतुर्विधं भस्मकल्पम् । प्रथममनुकल्पम् ।द्वितीयमुपकल्पम् । उपोपकल्पं तृतीयम् । अकल्पं चतुर्थम् । अग्निहोत्र-समुद्भूतं विरजानलजमनुकल्पम् । वने शुष्कं शकृत्मंगृह्य कल्पोक्तविधिनाकल्पितमुपकल्पं स्यात् । अरण्ये शुष्कगोमयं चूर्णीकृत्यानुसंगृह्य गोमूत्रैःपिण्डीकृत्य यथाकल्पं संस्कृतमुपोपकल्पम् । शिवालयस्थमकल्पं शतकल्पं च ।इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति भगवान्कालाग्नि-रुद्रः ॥३४॥

इति श्रीबृहज्जाबालोपनिषत्सु तृतीयं ब्राह्मणम् ॥३॥

अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति । स होवाचाथ प्रणयेनविमृज्याथ सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं कारयेत्पुनरपितेनास्त्रमन्त्रेणाङ्गानि मूर्धादीन्युद्धूलयेन्मलस्नानमिदमीशानाद्यैः पञ्चभिर्मन्त्रैस्तनुंक्रमादुद्धूलयेत् । ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु । ऊरुदेशमघोरेणगुह्यकं वामदेवतः । सद्योजातेन वै पादौ सर्वाङ्गं प्रणवेन तु । आपादतलमस्तकंसर्वाङ्गं तत उद्धूल्याचम्य वसनं धौतं श्वेतं प्रधारयेद्विधिस्नानमिदम् । तत्रश्लोका भवन्ति--भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् । मस्तकात्पादप-र्यन्तं मलस्नानं पुरोदितम् ॥१॥

तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत् ।ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्नतः ॥२॥

मुखे चतुर्थवक्रेण अधीरेणा-ष्टधा हृदि । वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥३॥

अष्टावन्तेन साध्येनपदावुद्धूल्य यत्नतः । सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि ॥४॥

मुखंविना च सत्सर्वमुद्धूल्य क्रमयोगतः । संध्याद्वये निशीथे च तथा पूर्वावसा-नयोः ॥५॥

सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् । स्त्रियं नपुं-सकं गृध्रं बिडालं बकमूषिकम् ॥६॥

स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानंसमाचरेत् । देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥७॥

अशुद्धभूतले मार्गेकुर्यान्नोद्धूलनं व्रती । शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥८॥

योजितंचन्दनेनैव वारिणा भस्मसंयुतम् । चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत्॥९॥

मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनु वर्जयेत् ॥ अथ भुसुण्डो भगवन्तंकालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ । तत्रैते श्लोका भवन्ति--त्रिपुण्ड्रं कारये-त्पश्चाद्ब्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥१०॥


Page-----------------२१२--अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम् । उद्धूलयेन्मुखं विप्रः क्षत्त्रियस्तच्छि-रोदितम् ॥११॥

द्वात्रिंशत्स्थानके चार्धं षोडशस्थानकेऽथ वा । अष्टस्थाने तथाचैव पञ्चस्थानेऽपि योजयेत् ॥१२॥

उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।नासावक्त्रे गले चैवमंसद्वयमतः परम् ॥१३॥

कूर्परे मणिबन्धे च हृदयेपार्श्वयोर्द्वयोः । नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनि ॥१४॥

जङ्घाद्वयेच पादौ च द्वात्रिंशत्स्थानमुत्तमम् । अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह॥१५॥

धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽ-ष्टावितीरिताः ॥१६॥

एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः । विदध्यात्षो-डशस्थाने त्रिपुण्ड्रं तु समाहितः ॥१७॥

शीर्षके च ललाटे च कर्णे कण्ठेंऽ-सकद्वये । कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥१८॥

पृष्ठे चैकं प्रति-स्थानं जपेत्तत्राधिदेवताः । शिवं शक्तिं च सादाख्यामीशं विद्याख्यमेव च॥१९॥

वामादिनवशक्तीश्च एते षोडशदेवताः । नासत्यो दस्रकश्चैक अश्विनौद्वौ समीरितौ ॥२०॥

अथवा मूÞर्यलोके च कर्णयोः श्वसने तथा । बाहुद्वयेच हृदये नाभ्यामूर्वोर्युगे तथा ॥२१॥

जानुद्वये च पदयोः पृष्ठभागे चषोडश । शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च ॥२२॥

श्रीश्चैव हृदये-शश्च तथा नाभौ प्रजापतिः । नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥२३॥

पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः । एवं वा षोडशस्नानमष्टस्थान-मथोच्यते ॥२४॥

गुरुस्थानं ललाटं च कर्णद्वयमवान्तरम् । अंसयुग्मं चहृदयं नाभिरित्यष्टमं भवेत् ॥२५॥

ब्रह्मा च ॠषयः सप्त देवताश्च प्रकी-र्तिताः । अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥२६॥

पञ्च स्थानान्यमू-न्याहुर्भस्मतत्त्वविदो जनाः । यथासंभवतः कुर्याद्देशकालाद्यपेक्षया ॥२७॥

उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत् । ललाटे हृदये नाभौ गले च मणि-बन्धयोः ॥२८॥

बाहुमध्ये य्नाहुमूले पृष्ठे चैव च शीर्षके ॥ ललाटे ब्रह्मणेनमः । हृदये हव्यवाहनाय नमः । नाभौ स्कन्दाय नमः । गले विष्णवे नमः ।मध्ये प्रभञ्जनाय नमः । मणिबन्धे वसुभ्यो नमः । पृष्ठे हरये नमः । ककुदिशंभवे नमः । शिरसि परमात्मने नमः । इत्यादिस्थानेषु त्रिपुण्ड्रं धारयेत् ।त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् । स्मरन्नमः शिवायेति ललाटे तत्त्रि-पुण्ड्रकम् ॥२९॥

कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि । ईशाभ्यां नमैत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥३०॥

स्वच्छाभ्यां नम इत्युक्त्वा धारये-----Page------------------२१३--त्तत्प्रकोष्ठयोः । भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥३१॥

नील-कण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः । पापं नाशयते कृत्स्नमपि जन्मान्तरार्जि-तम् ॥३२॥

कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् । कर्णे तु धारणा-त्कर्णरोगादिकृतपातकम् ॥३३॥

बाह्वोर्बाहुकृतं पापं वक्षःसु मनसा कृतम् ।नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥३४॥

पार्श्वयोर्धारणात्पापं पर-ख्यालिङ्गनादिकम् । तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥३५॥

ब्रह्म-विष्णुमहेशानां त्रय्यग्नीनां च धारणम् । गुणलोकत्रयाणां च धारणं तेन वैश्रुतम् ॥३६॥

इति श्रीबृहज्जाबालोपनिषत्सु चतुर्थं ब्राह्मणम् ॥४॥

मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् । ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रंत्रियायुषम् ॥१॥

त्रियायुषाणि कुरुते ललाटे च भुजद्वये । नाभौ शिरसिहृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा ॥२॥

त्रैवर्णिकानां सर्वेषामग्निहोत्रस-मुद्भवम् । इदं मुख्यं हृहस्थानां विरजानलजं भवेत् ॥३॥

विरजानलजंचैव धार्यं प्रोक्तं महर्षिभिः । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥४॥

समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्नि-समुद्भवम् ॥५॥

अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् । यतीनांज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥६॥

अतिवर्णाश्रमाणां तुश्मशानाग्निसमुद्भवम् । सर्वेषां देवालयस्थं भस्म शिवाग्निजं शिवयोगि-नाम् । शिवालयस्थं तल्लिङ्गलिप्तं वा मन्त्रसंस्कारदग्धं वा । तत्रैते श्लोकाभवन्ति । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसित्रिपुण्ड्रं भस्मना धृतम् ॥७॥

त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः ।सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥८॥

ये भस्मधारणं त्यक्त्वा कर्मकुर्वन्ति मानवाः । तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥९॥

महापातकयुक्तानां पूर्वजन्मार्जितागसाम् । त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढंबुधाः ॥१०॥

येषां कोपो भवेद्ब्रह्मँल्ललाटे भस्मदर्शनात् । तेषामुत्पत्तिसां-कर्यमनुमेयं विपश्चिता ॥११॥

येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा ।गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥१२॥

ये भस्मधारिणं दृष्ट्वा नराःकुर्वन्ति ताडनम् । तेषां चाण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥१३॥

येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके । ते महापातकैर्युक्ता इति शास्त्रस्य-----Page-----------------२१४--निश्चयः ॥१४॥

त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते । धारयन्तिच ये भक्त्या धारयन्ति शिवं च ते ॥१५॥

धिग्भस्मरहितं भालं धिग्ग्राम-मशिवालयम् । धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥१६॥

रुद्राग्ने-र्यत्परं वीर्यं तद्भस्म परिकीर्तितम् । तस्मात्सर्वेषु कालेषु वीर्यवान्भस्म-संयुतः ॥१७॥

भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसंगमात् । भस्मस्नान-विशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥१८॥

भस्मसंदिग्धसर्वाङ्गो भस्मदीप्त-त्रिपुण्ड्रकः । भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥१९॥

इति श्रीबृहज्जाबालोपनिषत्सु पञ्चमं ब्राह्मणम् ॥५॥

अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं ब्रूहीति होवाच । अथवसिष्ठवंशजस्य शतभार्यासमेतस्य धनंजयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुणैति नाम तस्य शुचिस्मिता भार्या । असौ करुणो भ्रातृवैरमसहमानो भवानी-तटस्थं नृसिंहमगमत् । तत्र देवसमीपेऽन्येनोपायनार्थं समर्पितं जम्बीरफलंगृहीत्वाजिघ्रत्तदा तत्रस्था अशपन्पाप मक्षिको भव वर्षाणां शतमिति । सोऽपिशापमादाय मक्षिका सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदामक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यधारयन्सा मृतं पतिमादाया-रुन्धतीमगमद्भो शुचिस्मितेऽमुं जीवयेति सोवाच शोकेनालमरुन्धत्यहममुंजीवयाम्यद्य विभूतिमादायेति । एषाग्निहोत्रजं भस्म-मृत्युंजयेन मन्त्रेण मृत-जन्तौ तदाक्षिपत् । मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मितः ॥१॥

उदतिष्ठ-त्तदा जन्तुर्भस्मनोऽस्य प्रभावतः । ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत्॥२॥

भस्मैव जीवयामास काश्यां पञ्च तदाभवन् । देवानपि तथाभूतान्माम-प्येतादृशं पुरा ॥३॥

तस्मात्तु भस्मना जन्तुं जीवयामि तदानघे । इत्येवमु-क्त्वा भगवान्दधीचिः समजायत ॥४॥

त्वरूपं च ततो गत्वा स्वमाश्रमपदंययाविति ॥ इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्ये विधत्त इत्याह ।श्रीगौतमविवाहकाले तामहल्यां दृष्ट्वा सर्वे देवा कामातुरा अभवन् । तदा नष्ट-ज्ञाना दूर्वाससं गत्वा पप्रच्छुः । स तद्दोषं शमयिष्यामीत्युवाच । ततः शतरुद्रेणमन्त्रेण मन्त्रितं भस्म वै पुरा । मयापि दत्तं ब्रह्महत्यादि शान्तम् । इत्येवमुक्त्वादूर्वासा दत्तवान्भस्म चोत्तमम् । जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥५॥

शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः । निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने॥६॥

आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् । अस्य भस्मनः शक्तिमन्यां-----Page-----------------२१५--शृणु । एतदेव हरिशंकरयोर्ज्ञानप्रदम् । ब्रह्महत्यादिपापनाशकम् । महाविभूति-दमिति शिववक्षसि स्थितं नखेनादाय प्रणवेनाभिमन्त्र्य गायत्र्या पञ्चाक्षरेणाभि-मन्त्र्य हरिर्मस्तकगात्रेषु समर्पयेत् । तथा हृदि ध्यायस्वेति हरिमुवत्वा हरः स्वहृदिध्यात्वा दृष्टो दृष्ट इति शिवमाह । ततो भस्म भक्षयेति हरिमाह हरस्ततः ।भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥७॥

पृष्ट्वेश्वरं भक्तिगम्यं भस्मा-भक्षयदच्युतः । तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥८॥

वासुदेवः शुद्ध-मुक्ताफलवर्णोऽभवत्क्षणात् । तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥९॥

न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो । नमस्तेऽस्तु नमस्तेऽस्तु त्वामहंशरणं गतः ॥१०॥

त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम । भस्मधारण-संपन्नो मम भक्तो भविष्यति ॥११॥

अत एवैषा भूतिर्भूतिकरीत्युक्ता ।अस्य पुरस्ताद्वसव आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतोब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ पार्श्वयोः । तदेतदृचाभ्युक्तम्--ऋचोअक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचाकरिष्यति य इत्तद्विदुस्त इमे समासते । य एतद्बृहज्जाबालं सार्वकामिकं मोक्ष-द्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति । य एतद्बृहज्जाबालंबालो वा युवा वा वेद स महान्भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टाभवति । मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां बध्नीत । सप्तद्वीपवतीभूमिर्दक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां कांचिद्गां दद्यात्सा दक्षिणाभवति ॥१२॥

इति श्रीबृहज्जाबालोपनिषात्सु षष्ठं ब्राह्मणम् ॥६॥

अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् त्रिपुण्ड्रविधिं नोब्रूहीति । स होवाच सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यभिमन्त्र्यमानस्तोक इति समुद्धृत्य त्रियायुषमिति जलेन संमृज्य त्र्यम्बकमिति शिरो-ललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति मोक्षी भवति शतरुद्रेण यत्फलमवाप्नोतितत्फलमश्नुते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥१॥

जनको ह वैदेहःस होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुत इति । स होवाच तद्भस्म-धारणादेव मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति न सपुनरावर्तते न स पुनरावर्तते स एष भस्मज्योरिति वै याज्ञवल्क्यः ॥२॥

जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुते न वेति ।तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघजडभरतदत्तात्रेय-----Page------------------२१६--रैवतकभुसुण्डप्रभृतयो विभूतिधारणादेव मुक्ताः स्युः स एष भस्मज्योतिरितिवै याज्ञवल्क्यः ॥३॥

जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मस्नानेनकिं जायत इति । यस्य कस्यचिच्छरीरं यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वातिष्ठन्ति ब्राह्मणो वां क्षत्रियो वा वैश्यो वा शूद्रो वा तद्भस्मधारणादेतच्छ-ब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते ॥४॥

जनको ह वैदेहः पैप्पलादेन सहप्रजापतिलोकं जगाम तं गत्वोवाच भो प्रजापते त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति । तंप्रजापतिरब्रवीद्यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥५॥

अथ पैप्पलादोवैकुण्ठं जगाम तं गत्वोवाच भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति । यथैवे-श्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति विष्णुराह ॥६॥

अथ पैप्पलादः काला-ग्निरुद्रं परिसमेत्योवाचाधीहि भगवन् त्रिपुण्ड्रस्य विधिमिति । त्रिपुण्ड्रस्यविधिर्मया वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्छन्नः संसारान्मुच्यतेभस्मशय्याशयानस्तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते नस पुनरावर्तते रुद्राध्यायी सन्नमृतत्वं च गच्छति । स एष भस्मज्योतिर्विभूति-धारणाद्ब्रह्मैकत्वं च गच्छति विभूतिधारणादेव सर्वेषु तीर्थेषु स्नातो भवतिविभूतिधारणाद्वाराणस्यां स्नानेन यत्फलमवाप्नोति तत्फलमश्नुते । स एष भस्म-ज्योतिर्यस्य कस्यचिच्छरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते प्रथमा प्रजापतिर्द्वितीयाविष्णुस्तृतीया सदाशिव इति स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति॥७॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्ष-धारणविधिं । स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्तेसदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जातारुद्राक्षा इति होवाच तस्माद्रुद्राक्षाणां रुद्राक्षत्वमिति । तद्रुद्राक्षे वाग्विषयेकृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योती रुद्राक्षैति तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति ।तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति एकादशरुद्रत्वंच गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति ।एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । मूर्ध्नि चत्वारिंश-च्छिखायामेकं त्रयं वा श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्बाह्वोः षोडश षोडशद्वादश द्वादश मणिबन्धयोः षट् षडङ्गुष्ठयोस्ततः संध्यां सकुशोऽहरहरुपासी-ताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ॥८॥

इति श्रीबृहज्जाबालोपनिषत्सु सप्तमं ब्राह्मणम् ॥७॥


Page-----------------२१७--अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति स होवाच य एतद्बृहज्जा-बालं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतोभवति स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति सरुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥१॥

य एतद्बृह-ज्जाबालं नित्यमधीते सोऽग्निं स्तम्भयति स आदित्यं स्तम्भयति स सोमंस्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्त-म्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥२॥

य एतद्बृहज्जाबालंनित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति सभ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरतिस सर्वं तरति स सर्वं तरति ॥३॥

य एतद्बृहज्जाबालं नित्यमधीते सभूर्लोकं जयति स भुवर्लोकं जयति स सुवर्लोकं जयति स महर्लोकं जयतिस जनोलोकं जयति स तपोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोका-ञ्जयति स सर्वांल्लोकाञ्जयति ॥४॥

य एतद्बृहज्जाबालं नित्यमधीते सऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीतेस शाखा अधीते स कल्पानधीते स नाराशंसीरधीते स पुराणान्यधीतेस ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते ॥५॥

अनुपनीतशतमेकमेकेनो-पनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेनवानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिना तत्समं यतीनां तु शतंपूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन अथर्वशिरःशिखा-ध्यापकेन तत्सममथर्वशिरःशिखाध्यापकशतमेकमेकेन बृहज्जाबालोपनिषद-ध्यापकेन तत्समं तद्वा एतत्परं धाम बृहज्जाबालोपनिषज्जपशीलस्य यत्र नसूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्तियत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दंपरमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्रगत्वा न निवर्तन्ते योगिनः । तदेतदृचाभ्युक्तम्--तद्विष्णोः परमं पदं सदापश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसःसमिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत् ॥६॥

इति श्रीबृहज्जाबालोपनिषत्स्वष्टमं ब्राह्मणम् ॥८॥

ॐ भर्दं कर्णेभिरिति शान्तिः ॥॥ इत्यथर्ववेदीयबृहज्जाबालोपनिषत्समाप्ता ॥२७॥


Page-----------------२१८--

नृसिंहपूर्वतापनीयोपनिषत् ॥२८॥[सम्पाद्यताम्]

यत्तुर्योङ्काराग्रपराभूमिस्थिरवरासनम् ।प्रतियोगिविनिर्मुक्ततुर्यतुर्यमहं महः ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥१॥

आपो वा इदमासन्सलिलमेव स प्रजापतिरेकः पुष्करपर्णे समभवत्तस्यान्त-र्मनसि कामः समवर्ततेदं सृजेयमिति तस्माद्यत्पुरुषो मनसाऽभिगच्छति तद्वाचावदति तत्कर्मणा करोति तदेषाभ्युक्ता--कामस्तदग्रे समवर्तताधि मनसो रेतःप्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्य कवयो मनीषेत्युपैनंतदुपनमति यत्कामो भवति स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजंनारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजत यदिदं किंच तस्मात्सर्वमिदमा-नुष्टुभमित्याचक्षते यदिदं किंचानुष्टुभो वा इमानि भूतानि जायन्तेऽनुष्टुभाजातानि जीवन्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति तस्यैषा भवत्यनुष्टुप्प्रथमा भवत्य-नुष्टुबुत्तमा भवति वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति परमा वा एषाछन्दसां यदनुष्टुबिति ॥१॥

ससागरां सपर्वतां सप्तद्वीपां वसुंधरां तत्साम्नःप्रथमं पादं जानीयाद्यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं तत्साम्नो द्वितीयं पादंजानीयाद्वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीया-द्ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीतेसोऽमृतत्वं च गच्छति । ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्च-त्वारः पादा भवन्ति । किं ध्यानं किं दैवतं कान्यङ्गानि कानि दैवतानि किं छन्दःक ऋषिरिति ॥२॥

स होवाच प्रजापतिः स यो ह वै तत्सावित्रस्याष्टाक्षरंपदं श्रियाऽभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया हैवाभिषिच्यते सर्वे वेदाः प्रणवा-दिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा महा-लक्ष्मीर्यजुस्तत्साम्नोऽम्नं वेद स आयुर्यशःकीर्तिज्ञानैश्वर्यवान्भवति तस्मादिदंसाङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं प्रणवंयजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति द्वात्रिंशदक्षरं साम जानीयाद्यो जानीतेसोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात्स्त्रीशूद्रः समृतोऽधो गच्छति तस्मात्सर्वदा नाचष्टे यद्याचष्टे स आचार्यस्तेनैव मृतोऽधोगच्छति ॥३॥

स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानिप्राणा वा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराड्विराट्तत्साम्नः प्रथमं पादंजानीयादृग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं-----Page-----------------२१९--पादं जानीयाद्य ओषधीनां प्रभवति तारापतिः सोमस्तत्साम्नस्तृतीयं पादंजानीयात्स ब्रह्मा स शिवः स हरिः स इन्द्रः सोऽग्निः सोऽक्षरः परमःस्वराट् तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ।ॐ उग्रं प्रथमस्याद्यं ज्वलं द्वितीयस्याद्यं नृसिं तृतीयस्याद्यं मृत्युं चतुर्थ-स्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम यत्रकुत्रचिन्नाचष्टे यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय चेति॥४॥

क्षीरोदार्णवशायिनं नृकेसरिं योगिध्येयं परमं पदं साम जानीयाद्योजानीते सोऽमृतत्वं च गच्छति वीरं प्रथमस्यार्धान्त्यं तंसं द्वितीयस्यार्धान्त्यंहंभी तृतीयस्यार्धान्त्यं मृत्युं चतुर्थस्यार्धान्त्यं साम जानीयाद्यो जानीते सोऽमृ-तत्वं च गच्छति तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते सतेनैव शरीरेण संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेणदेवतादर्शनं करोति तस्मादिदमेव मुख्यं द्वारं कलौ नान्येषां भवति तस्मादिदंसाङ्गं साम जानीयाद्यो जानीते स मुमुक्षुर्भवति ॥५॥

ॐ ऋतं सत्यं परंब्रह्म पुरुषं नृकेसरिविग्रहम् । कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं शंकरं नीललोहि-तमुमापतिं पशुपतिं पिनांकिनं ह्यमितद्युतिमीशानः सर्वविद्यानामीश्वरः सर्वभू-तानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्यो यजुर्वेदवाच्यस्तं साम जानीयाद्यो जानीतेसोऽमृतत्वं च गच्छति । महा प्रथमान्तार्धस्याद्यम् । र्वतो द्वितीयान्तार्धस्याद्यंषणं तृतीयान्तार्धस्याद्यं नमा चतुर्थान्तार्धस्याद्यं साम जानीयाद्यो जानीतेसोऽमृतत्वं च गच्छति । तस्मादिदं सच्चिदानन्दमयं परं ब्रह्म तमेवं विद्वानमृतैह भवति । तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं चगच्छति ॥६॥

विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त तस्मा-द्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः सायुज्यं सलोकतां यन्ति तस्मादिदंसाङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । विष्णुं प्रथमस्यान्त्यंमुखं द्वितीयस्यान्त्यं भद्रं तृतीयस्यान्त्यं म्यहं चतुर्थस्यान्त्यं साम जानीयाद्योजानीते सोऽमृतत्वं च गच्छति । योऽसौ सोऽवेदयदिदं किं चात्मनि ब्रह्मण्यानु-ष्टभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । स्त्रीपुंसोर्वा य इहैव स्थातु-मपेक्षते स सर्वैश्वर्यं ददाति यत्र कुत्रापि म्रियते देहान्ते देवः परं ब्रह्म तारकंव्याचष्टे येनासावमृती भूत्वा सोऽमृतत्वं च गच्छति । तस्मादिदं साममध्यगंजपति तस्मादिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति-----Page-----------------२२०--महोओ!पनिषत् । य एतां महोपनिषदं वेद स कृतपुरश्चरणोऽपि महाविष्णुर्भवतिमहाविष्णुर्भवतीति ॥७॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु प्रथमोपनिषत्समाप्ता ॥१॥

देवा ह वै मृत्योः पाप्मभ्यः संसाराच्चाबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्यएतं मन्त्रराजं नारसिंहमानुष्टुभं प्रायच्छत्तेन वै सर्वे मृत्युमजयन्सर्वे पाप्मान-मतरन्संसाराच्चातरंस्तस्माद्यो मृत्योः पाप्मभ्यः संसाराच्च बिभीयात्स एवंमन्त्रराजं नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं जयति स पाप्मानं तरतिस संसारं तरति तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः सऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः स साम्नः प्रथमः पादोभवति द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुब्दक्षि-णाग्निः स साम्नो द्वितीयः पादो भवति तृतीया द्यौः स मकारः ससामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः स साम्नस्तृतीयः पादोभवति याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः सोऽथर्वणैर्मन्त्रै-रथर्ववेदः संवर्तकोऽग्निर्मरुतो विरोडेक ऋषिर्भास्वती सा साम्नश्चतुर्थः पादोभवति ॥१॥

अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः पादा भवन्ति एवंद्वात्रिंशदक्षराणि संपद्यन्ते द्वात्रिंशदक्षरा वा अनुष्टुब्भवति अनुष्टुभा सर्वमिदंसृष्टमनुष्टुभा सर्वमुपसंहृतं तस्य हि पञ्चाङ्गानि भवन्ति चत्वारः पादाश्चत्वा-र्यङ्गानि भवन्ति सप्रणवं सर्वं पञ्चमं भवति । ॐ हृदयाय नमः । ॐशिरसे स्वाहा । ॐ शिखायै वषट् । ॐ कवचाय हुम् । ॐ अस्त्रायफडिति प्रथमं प्रथमेन युज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थंचतुर्थेन पञ्चमं पञ्चमेन व्यतिषक्ता वा इमे लोकास्तस्माद्व्यतिषक्तान्यङ्गानिभवन्त्योमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत ॐकारो भवतीत्यक्षराणांन्यासमुपदिशन्ति ब्रह्मवादिनः ॥२॥

तस्य ह वा उग्रं प्रथमं स्थानंजानीयाद्यो जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं महाविष्णुंतृतीयं ज्वलन्तं चतुर्थं सर्वतोमुखं पञ्चमं नृसिंहं षष्ठं भीषणं सप्तमं भद्रमष्टमंमृत्युमृत्युं नवमं नमामि दशममहमित्येकादशं स्थानं जानीयाद्यो जानीतेसोऽमृतत्वं च गच्छति । एकादशपदा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदंसृष्टमनुष्टुभा सर्वमुपसंहृतं तस्मात्सर्वमिदमानुष्टुभं जानीयाद्यो जानीते सोऽ-मृतत्वं च गच्छति ॥३॥

देवा ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत-----Page-----------------२२१--उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वाना-त्मनः सर्वाणि भूतान्युद्गृह्णात्यजस्रं सृजति विसृजति विवासयत्युद्ग्राह्यतौद्ग्रह्यते । स्तुहि श्रुतं गर्तसदं युवानं मृगं नभीममुपहन्तुमुग्रम् ।मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः । तस्मादुच्यतौग्रमिति । अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना सर्वांल्लोका-न्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजतिविसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायतेदेवकामः । तस्मादुच्यते वीरमिति । अथ कस्मादुच्यते महाविष्णुमिति । यःसर्वांल्लोकान्व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डमोतप्रोतमनुप्राप्तंव्यतिषक्तो व्याप्यते व्यापयते । यस्मान्न जातः परोऽन्योऽस्ति य आविवेशभुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते सषोडशीति । तस्मादुच्यते महाविष्णुमिति । अथ कस्मादुच्यते ज्वलन्तमितियस्मात्स्वमहिम्ना सर्वाँल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि स्वतेजसाज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन्दीप्य-मानः । ज्वलञ्ज्वलिता तपन्वितपन्संदपन्रोचनो रोचमानः शोभनः शोभ-मानः कल्याणः । तस्मादुच्यते ज्वलन्तमिति । अथ कस्मादुच्यते सर्वतो-मुखमिति । यस्मादनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतोगच्छति सर्वत आदत्ते स सर्वगः सर्वतस्तिष्ठति । एकः पुरस्ताद्य इदंबभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं सांपराये नमामितमहं सर्वतोमुखम् । तस्मादुच्यते सर्वतोमुखमिति । अथ कस्मादुच्यतेनृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमःश्रेष्ठतमश्च तस्मान्नृसिंह आसीत्परमेश्वरो जगद्धितं वा एतद्रूपमक्षरं भवति । प्रतद्विष्णुः स्तवते वीर्याय मृगो नभीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषुविक्रमणेष्वधि क्षियन्ति भुवनानि विश्वा । तस्मादुच्यते नृसिंहमिति । अथकस्मादुच्यते भीषणमिति । यस्माद्यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणिभूतानि भीत्या पलायन्ते स्वयं यतः कुतश्चिन्न बिभेति । भीषाऽस्माद्वातः पवतेभीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः । तस्मादुच्यतेभीषणमिति । अथ कस्मादुच्यते भद्रमिति । यस्मात्स्वयं भद्रो भूत्वा सर्वदाभद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः-----Page-----------------२२२--शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देव-हितं यदायुः । तस्मादुच्यते भद्रमिति । अथ कस्मादुच्यते मृत्युमृत्युमिति ।यस्मात्स्वमहिम्ना स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति । यआत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य च्छायामृतंयो मृत्युमृत्युः कस्मै देवाय हविषा विधेम । तस्मादुच्यते मृत्युमृत्युमिति ।अथ कस्मादुच्यते नमामीति । यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवा-दिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थम् । यस्मिन्निन्द्रो वरुणो मित्रोअर्यमा देवा ओकांसि चक्रिरे । तस्मादुच्यते नमामीति । अथ कस्मादुच्यते-ऽहमिति । अहमस्मि प्रथमजा ऋता३ स्य । पूर्वं देवेभ्यो अमृतस्य ना३ भायि ।यो मा ददाति स इदेव मा३ वाः । अहमन्नमन्नमदन्तमा३ द्मि । अहं विश्वंभुवनमभ्यभवा३ म् । सुवर्न ज्योतीः । य एवं वेदेत्युपनिषत् ॥४॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु द्वितीयोपनिषत्समाप्ता ॥२॥

देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं चनो ब्रूहि भगव इति । स होवाच प्रजापतिर्माया वा एषा नारसिंही सर्वमिदंसृजति सर्वमिदं रक्षति सर्वमिदं संहरति । तस्मान्मायामेतां शक्तिं विद्याद्यएतां मायां शक्तिं वेद स पाप्मानं तरति सोऽमृतत्वं च गच्छति महतींश्रियमश्नुते मीमांसन्ते ब्रह्मवादिनो ह्रस्वा वा दीर्घा वा प्लुता वेति । यदिह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं च गच्छति यदि दीर्घा भवति महतींश्रियमाप्नुयादमृतत्वं च गच्छति यदि प्लुता भवति ज्ञानवान्भवत्यमृतत्वंच गच्छति । तदेतदृषिणोक्तं निदर्शनम् -- सईं पाहि य ऋजीषी तरुत्रःश्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युत आहुस्तां विद्यांब्रह्मयोनिं सरूपां तामिहायुषे शरणं प्रपद्ये । सर्वेषां वा एतद्भूतानामाकाशःपरायणं सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते । आकाशादेवजातानि जीवन्त्याकाशं प्रयन्त्यभिसंविशन्ति । तस्मादाकाशं बीजं विद्यात्त-देतदृषिणोक्तं निदर्शनम् --हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दु-रोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।य एवं वेदेति महोपनिषत् ॥१॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु तृतीयोपनिषत्समाप्ता ॥३॥


Page-----------------२२३--देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो ब्रूहिभगव इति । स होवाच प्रजापतिः प्रणवं सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्री-मित्यङ्गानि जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । ओमित्वेतदक्षरमिदंसर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमॐकार एव यच्चान्यत्त्रिकाला-तीतं तदप्यॐकार एव सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरित-स्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादःस्वप्नस्थानेऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादोयत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादएष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानांन बहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-मव्यवहार्यमग्राह्यमलक्षणमलिङ्गमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चो-पशमं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥१॥

अथसावित्री गायत्री या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरेसूर्य इति त्रीण्यादित्य इति त्रीण्येतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तय एवं वेद श्रिया हैवाभिषिच्यते । तदेतदृचाऽभ्युक्तम् --ऋचो अक्षरे परमेव्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति यैत्तद्विदुस्त इमे समासत इति । न ह वा एतस्यर्चा न यजुषा न सा-म्नाऽर्थोऽस्ति यः सावित्रीं वेदेति । ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवःकालकर्णी ।तन्नो महालक्ष्मीः प्रचोदयादित्येषा वै महालक्ष्मीर्यजुर्गायत्री चतुर्विंशत्यक्षराभवति गायत्री वा इदं सर्वं यदिदं किंच तस्माद्य एतां महालक्ष्मीं याजुषीं वेदमहतीं श्रियमश्नुते । ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहःप्रचोदयादित्येषा वै नृसिंहगायत्री वेदानां देवानां निदानं भवति य एवं वेद सनिदानवान्भवति ॥२॥

देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैर्देवः स्तुतः प्रीतोभवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । स होवाच प्रजापतिः । ॐ उंॐ यो वै नृसिंहो देवो भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः १ । ॐ ग्रंॐ यो वै नृसिंहो देवो भगवान्यश्च विष्णुस्तस्मै वै नमो नमः २ । ॐ वींॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तस्मै वै नमो नमः ३ । ॐ रंॐ यो वै नृसिंहो देवो भगवान्यश्च पुरुषस्तस्मै वै नमो नमः ४ । ॐ मं-----Page-----------------२२४--ॐ यो वै नृसिंहो देवो भगवान्यश्चेश्वरस्तस्मै वै नमो नमः ५ । ॐ हांॐ यो वै नृसिंहो देवो भगवान्या सरस्वती तस्मै वै नमो नमः ६ ।ॐ विं ॐ यो वै नृसिंहो देवो भगवान्या श्रीस्तस्मै वै नमो नमः ७ । ॐ ष्णुंॐ यो वै नृसिंहो देवो भगवान्या गौरी तस्मै वै नमो नमः ८ । ॐ ज्वंॐ यो वै नृसिंहो देवो भगवान्या प्रकृतिस्तस्मै वै नमो नमः ९ । ॐ लंॐ यो वै नृसिंहो देवो भगवान्या विद्या तस्मै वै नमो नमः १० । ॐ तंॐ यो वै नृसिंहो देवो भगवान्यश्चॐकारस्तस्मै वै नमो नमः ११ । ॐ संॐ यो वै नृसिंहो देवो भगवान्याश्चतस्रोऽर्धमात्रास्तस्मै वै नमो नमः १२ ।ॐ वं ॐ यो वै नृसिंहो देवो भगवान्ये च वेदाः साङ्गाः सशाखास्तस्मै वैनमो नमः १३ । ॐ तॐ ॐ यो वै नृसिंहो देवो भगवान्ये पञ्चाग्नयस्तस्मैवै नमो नमः १४ । ॐ मुं ॐ यो वै नृसिंहो देवो भगवान्याः सप्तव्याहृतयस्तस्मै वै नमो नमः १५ । ॐ खं ॐ यो वै नृसिंहो देवोभगवान्ये चाष्टौ लोकपालास्तस्मै वै नमो नमः १६ । ॐ नृं ॐ योवै नृसिंहो देवो भगवान्ये चाष्टौ वसवस्तस्मै वै नमो नमः १७ । ॐ सिंॐ यो वै नृसिंहो देवो भगवान्ये च रुद्रास्तस्मै वै नमो नमः १८ । ॐ हंॐ यो वै नृसिंहो देवो भगवान्ये चादित्यास्तस्मै वै नमो नमः १९ । ह्रींभिं ॐ यो वै नृसिंहो देवो भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमो नमः २० ।ॐ षं ॐ यो वै नृसिंहो देवो भगवान्यानि पञ्च महाभूतानि तस्मै वै नमोनमः २१ । ॐ णं ॐ यो वै नृसिंहो देवो भगवान्यश्च कालस्तस्मै वै नमो नमः२२ । ॐ भं ॐ यो वै नृसिंहो देवो भगवान्यश्च मनुस्तस्मै वै नमो नमः २३ ।ॐ द्रं ॐ यो वै नृसिंहो देवो भगवान्यश्च मृत्युस्तस्मै वै नमो नमः २४ । ॐ मृंॐ यो वै नृसिंहो देवो भगवान्यश्च यमस्तस्मै वै नमो नमः २५ । ॐ त्युंॐ यो वै नृसिंहो देवो भगवान्यश्चान्तकस्तस्मै वै नमो नमः २६ । ॐ मृं ॐ योवै नृसिंहो देवो भगवान्यश्च प्राणस्तस्मै वै नमो नमः २७ । ॐ त्युं ॐ योवै नृसिंहो देवो भगवान्यश्च सूर्यस्तस्मै वै नमो नमः २८ । ॐ नं ॐ योवै नृसिंहो देवो भगवान्यश्च सोमस्तस्मै वै नमो नमः २९ । ॐ मां ॐ योवै नृसिंहो देवो भगवान्यश्च विराट्पुरुषस्तस्मै वै नमो नमः ३० । ॐ म्यं ॐयो वै नृसिंहो देवो भगवान्यश्च जीवस्तस्मै वै नमो नमः ३१ । ॐ हं ॐ योवै नृसिंहो दैवो भगवान्यश्च सर्वं तस्मै वै नमो नमः ॥३२॥

इति तान्प्रजा-----Page------------------२२५--पतिरब्रवीदेतैर्द्वात्रिंशन्मन्त्रैर्नित्यं देवं स्तुवते ततो देवः प्रीतो भवति स्वात्मानंदर्शयति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति स सर्वं पश्यतिसोऽमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ॥३॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु चतुर्थोपनिषत्समाप्ता ॥४॥

देवा ह वै प्रजापतिमब्रुवन्महाचक्रं नाम चक्रं नो ब्रूहि भगव इतिसार्वकामिकं मोक्षद्वारं यद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडरंवा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड् वाऋतव ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एतेऽराःप्रतिष्ठिताः । मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशतितस्मान्मायया बहिर्वेष्टितं भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा वैगायत्री गायत्र्या संमितं भवति बहिर्मायया वेष्टितं भवति क्षेत्रं क्षेत्रं वामायैषा संपद्यते । अथ द्वादशारं द्वादशपत्रं चक्रं भवति द्वादशाक्षरा वै जगतीजगत्या संमितं भवति बहिर्मायया वेष्टितं भवति । अथ षोडशारं षोडशपत्रंचक्रं भवति षोडशकलो वै पुरुषः पुरुष एवेदं सर्वं पुरुषेण संमितं भवतिमायया बहिर्वेष्टितं भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं भवतिद्वात्रिंशदक्षरा वा अनुष्टुबनुष्टुभा संमितं भवति बहिर्मायया वेष्टितं भवत्यरैर्वाएतत्सुबद्धं भवति वेदा वा एतेऽराः पत्रैर्वा एतत्सर्वतः परिक्रामति छन्दांसिवै पत्राणि ॥१॥

तदेवं चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकंभवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं भवत्य-ष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवंभवति । षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश कला भवन्ति ।द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति । तद्वाएतत्सुदर्शनं महाचक्रं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्म-मयममृतमयं भवति । तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणत आदित्याःपश्चाद्विश्वे देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ पार्श्व-योः । तदेतदृचाऽभ्युक्तम्--ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वेनिषेदुः । यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समा-सत इति । तदेतन्महाचक्रं बालो वा युवा वा वेद स महान्भवति सगुरुर्भवति स सर्वेषां मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं कुर्यादनुष्टुभार्चनं-----Page-----------------२२६--तदेतद्रक्षोघ्नं मृत्युतारकं गुरुतो लब्धं कण्ठे बाहौ शिखायां वा बध्नति सप्त-द्वीपवती भूर्मिदक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां कांचिद्दद्यात्सा दक्षिणाभवति ॥२॥

देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य फलं नो ब्रूहिभगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीतेसोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतोभवति स सत्यपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति सरुद्रपूतो भवति स वेदपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु प्रथमोऽध्यायः ॥१॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानंतरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वंततति स सर्वं तरति ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं सोऽग्निं स्तम्भयति स वायुं स्तम्भयतिस आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्दे-वान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु तृतीयोऽध्यायः ॥३॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकंजयति स स्वर्लोकं जयति म महर्लोकं जयति स जनोलोकं जयति स तपोलोकंजयति स सत्यलोकं जयति स सर्वलोकं जयति स सर्वलोकं जयति ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु चतुर्थोऽध्यायः ॥४॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यानाकर्षयति सदेवानाकर्षयति स नागानाकर्षयति स यक्षानाकर्षयति स ग्रहानाकर्षयति ससर्वानाकर्षयति स सर्वानाकर्षयति ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु पञ्चमोऽध्यायः ॥५॥

य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते सौक्थ्येन यजते स षोडशिना यजते स वाजपेयेन यजते सोऽतिरात्रेण यजतेसोऽप्तोर्यामेण यजते योऽश्वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैःक्रतुभिर्यजते ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु षष्ठोऽध्यायः ॥६॥


Page-----------------२२७--य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स ऋचोऽधीते स यजूँष्य-धीते स सामान्यधीते सोऽथर्वाणमधीते सोऽङ्गिरसमधीते स शाखा अधीते सपुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणव-मधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु सप्तमोऽध्यायः ॥७॥

अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेनतत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिनातत्समं यतीनां च शतं पूर्णं रुद्रजापकेन तत्समं रुद्रजापिशतमेकमेकेनाथर्व-शिरःशिखाध्यायकेन तत्सममथर्वशिरःशिखाध्यायकशतमेकमेकेन मन्त्रराजजा-पकेन तत्समं तद्वा एतत्परमं धाम मन्त्रराजाध्यायकस्य यत्र सूर्यो न तपतियत्र न वायुर्वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाग्नि-र्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शाश्वतंशान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनः । तदेतदृचाभ्युक्तम्--तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षु-राततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमितितदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति ॥३॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्स्वष्टमोऽध्यायः ॥८॥

इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्समाप्ता ॥५॥

नृसिंहोत्तरतापनीयोपनिषत् ॥२९॥[सम्पाद्यताम्]

ॐ भर्दं कर्णेभिः शृणुयाम०॥१॥

स्वस्ति न इन्द्रो वृद्धश्रवाः०॥२॥

ॐ शान्तिः शान्तिः शान्तिः ॥ देवा ह वै प्रजापतिमब्रुवन्नणोरणीयांसमिममात्मानमॐकारं नो व्याच-क्ष्वेति तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्य-दिति सर्वमॐकार एव यच्चान्यत्त्रिकालातीतं तदप्यॐकार एव । सर्वं ह्येतद्ब्रह्माय-मात्मा ब्रह्म तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चात्मनोमित्येकीकृत्यतदेकमजरममरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्यतन्मयं हि तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं त्रिशरीरं परंब्रह्मानुसंदध्यात्स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वाच्चैक्यादानन्द-----Page------------------२२८--भोगाच्च सोऽयमात्मा चतुष्पाज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग एकोनविंशति-मुखः स्थूलभुक्चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः स्वप्नस्थानः सूक्ष्मप्रज्ञःसप्ताङ्ग एकोनविंशतिमुखः सूक्ष्मभुक्चतुरात्मा तैजसो हिरण्यगर्भो द्वितीयःपादो यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखश्चतुरात्माप्राज्ञ ईश्वरस्तृतीयः पाद एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्यप्रभवाप्ययौ हि भूतानां त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं चिदेकरसो ह्यय-मात्माऽथ चतुर्थश्चतुरात्मा तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पैस्त्र-यमत्रापि सुषुप्तं स्वप्नं मायामात्रं चिदेकरसो ह्यथायमादेशो न स्थूलप्रज्ञं नसूक्ष्मप्रज्ञ नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यम-लक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतंचतुर्थं मन्यन्ते स एवात्मा स विज्ञेय ईश्वरग्रासस्तुरीयतुरीयः ॥१॥

इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु प्रथमः खण्डः ॥१॥

तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्नेऽजाग्रतमसुषुप्तं सुषुप्तेऽजा-ग्रतमस्वप्नं तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं नित्यानन्तसदेकरसंह्येवं चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेर्द्रष्टा प्राणस्यद्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा ततः सर्वस्मादस्मादन्यो विलक्षणश्चक्षुषःसाक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्यसाक्षी तमसः साक्षी सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मा-त्प्रियतम आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः सुविभातमेकरसमेवाजरम-मरममृतमभयं ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरॐकारेण चैकीकुर्या-ज्जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्चतूरूपोऽकार एव चतूरूपोह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपैराप्तेरादिमत्त्वाद्वा स्थूलत्वात्सू-क्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च भवति य एवंवेद स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप उकार एव चतूरूपोह्ययमुकारः स्थूलसूक्ष्मबीजसाक्षिभिरुकाररूपैरुत्कर्षादुभयत्वाद्वां स्थूलत्वा-त्सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवतिय एवं वेद । सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वरश्चतूरूपो मकार एव चतूरूपोह्ययं मकारः स्थूलसूक्ष्मबीजसाक्षिभिर्मकाररूपैमितेरपीतेर्वा स्थूलत्वात्सूक्ष्म-----Page------------------२२९--त्वाद्वीजत्वात्साक्षित्वाच्च मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवंवेद । मात्रा मात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः स्वराट् स्वयमी-श्वरः स्वप्रकाशश्चतुरात्मोतानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा यथेदं सर्व-मन्तकाले कालाग्निसूर्य उस्रैरनुज्ञाता ह्ययमात्माऽस्य सर्वस्य स्वात्मानंददातीदं सर्वं स्वात्मानमेव करोति यथा तमः सविताऽनुज्ञैकरसो ह्ययमात्माचिद्रूप एव यथा दाह्यं दग्ध्वाऽग्निरविकल्पो ह्ययमात्माऽवाङ्मनोगोचर-त्वाच्चिद्रूपश्चतूरूप ॐकार एव चतूरूपो ह्ययमॐकार ओतानुज्ञात्रनुज्ञा-विकल्पैरॐकाररूपैरात्मैव नामरूपात्मकं हीदं सर्वं तुरीयत्वाच्चिद्रूपत्वाद्वोत-त्वादनुज्ञातृत्वादनुज्ञात्वादविकल्परूपत्वाच्चाविकल्परूपं हीदं सर्वं नैव तत्रकाचन मिदाऽस्त्यथ तस्यायमादेशोऽमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमःशिवोऽद्वैत ॐकार आत्मैव संविशत्यात्मनात्मानं य एवं वेदैष वीरोनारसिंहेन वानुष्टुभा मन्त्रराजेन तुरीयं विद्यादेष ह्यात्मानं प्रकाशयतिसर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः सदोज्ज्वलोऽविद्याकार्यहीनः स्वात्म-बन्धहरःसर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमो-मोहोऽहमेवेति तस्मादेवमेवेममात्मानं परं ब्रह्मानुसंदध्यादेष वीरो नृसिंहएव ॥२॥

इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु द्वितीयः खण्डः ॥२॥

तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमपादोभयतो भवति । द्वितीयाद्वितीयस्य तृतीया तृतीयस्य चतुर्थ्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयंचतुरात्मानसन्विप्य चतुर्थपादेन च तया तुरीयेणानुचिन्तयन्ग्रसेत्तस्य ह वाएतस्य प्रणवस्य या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मावसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति । भवति च सर्वेषु पादेषुचतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्य-जुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः पादो भवति । भवति चसर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारःस सामभिः सामवेदो रुद्रादित्या जगत्या जगत्याहवनीयः सा तृतीयः पादोभवति । भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्याऽवसा-नेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्त-कोऽग्निर्मरुतो विराडेकऋषिर्भास्वती स्मृता सा चतुर्थः पादो भवति । भवति-----Page-----------------२३०--च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्मात्रा मात्राः प्रतिमात्राःकृत्वोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत ज्ञोऽमृतो हुतसंवित्कः शुद्धःसंविष्टो निर्विघ्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वाऽसुप्रपञ्चहीनोऽथ सकलःसाधारोऽमृतमयश्चतुरात्मा सर्वमयश्चतुरात्माऽथ महापीठे सपरिवारंतमेतं चतुःसप्तात्मानं चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं संदध्यात्सप्तात्मानंचतुरात्मानमकारं ब्रह्माणं नाभौ सप्तात्मानं चतुरात्मानमुकारं विष्णुं हृदयेसप्तात्मानं चतुरात्मानं मकारं रुद्रं भ्रूमध्ये सप्तात्मानं चतुरात्मानंचतुःसप्तात्मानं चतुरात्मानमॐकारं सर्वेश्वरं द्वादशान्ते । सप्तात्मानंचतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमानन्दामृतरूपमॐकारं षोडशान्ते ।अथानन्दामृतेनैतांश्चतुर्धा संपूज्य तथा ब्रह्माणमेव विष्णुमेव रुद्रमेव विभ-क्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपानेव च संपूज्योपहारैश्चतुर्धाऽथ लिङ्गान्सं-हृत्य तेजसा शरीरत्रयम् संव्याप्य तदधिष्ठानमात्मानं संज्वाल्य तत्तेज आत्म-चैतन्यरूपं बलमवष्टभ्य तस्य गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे महासूक्ष्मंमहाकारणे च संहृत्य मात्राभिरोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत् ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु तृतीयः खण्डः ॥३॥

तं वा एतमात्मानं परमं ब्रह्मॐकारं तुरीयॐकाराग्रविद्योतमनुष्टुभा नत्वाप्रसाद्योमिति संहृत्याहमित्यनुसंदध्यादथैतमेवात्मान परमं ब्रह्मॐकारं तुरीयॐ-काराग्रविद्योतमेकादशात्मानमात्मानं नारसिंहं नत्वोमिति संहरन्ननुसंदध्यात् ।अथैतमेवात्मानं परमं ब्रह्मॐकारं तुरीयॐकाराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभासच्चिदानन्दपूर्णात्मसु नवात्मकं सच्चिदानन्दपूर्णात्मानं परमात्मानं परं ब्रह्मसंभाव्याहमित्यात्मानमादाय नमसा ब्रह्मणैकीकुर्यादनुष्टुभैव वैष उ एव न्रेषहि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा सर्वात्मासन्सर्वमत्ति नृसिंह एवैकल एष तुरीय एष एवोग्र एष एव वीर एष एवमहानेष एव विष्णुरेष एव ज्वलन्नेष एव सर्वतोमुख एष एव नृसिंह एष एवभीषण एष एव भद्र एष एव मृत्युमृत्युरेष एव नमाम्येष एवाहमेवं योगा-रूढो ब्रह्मण्येवानुष्टुभं संदध्यादॐकार इति । तदेतौ श्लोकौ भवतः -- संस्तभ्यसिंहं स्वसुतान्गुणर्धान्संयोज्य शृङ्गैरृषभस्य हत्वा । वश्यां स्फुरन्तीमसतींनिपीड्य संभक्ष्य सिंहेन स एष वीरः । शृङ्गप्रोतान्पदा स्पृष्ट्वा हत्वा तामग्र-सत्स्वयम् । नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्बभाविति ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु चतुर्थः खण्डः ॥४॥


Page-----------------२३१--अथैषो एवाकार आप्ततमार्थ आत्मन्येव नृसिंहे ब्रह्मणि वर्तत एष ह्येवा-प्ततम एष हि साक्ष्येष ईश्वरोऽतः सर्वगतो न हीदं सर्वमेष हि व्याप्ततमैदं सर्वं यदयमात्मा मायामात्रमेष एवोग्र एष हि व्याप्ततम एष एव वीरएष हि व्याप्ततम एष एव महानेष हि व्याप्ततम एष एव विष्णुरेष हिव्याप्ततम एष एव ज्वलन्नेष हि व्याप्ततम एष एव सर्वतोमुख एष हि व्याप्त-तम एष एव नृसिंह एव हि व्याप्ततम एष एव भीषण एष हि व्याप्ततमएष एव भद्र एष हि व्याप्ततम एष एव मृत्युमृत्युरेष हि व्याप्ततम एष एवनमाम्येष हि व्याप्ततम एव एवाहमेष हि व्याप्ततम आत्मैव नृसिंहो ब्रह्मभवति य एवं वेद । सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणाउत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैषो एवोकार उत्कृष्टतमार्थआत्मन्येव नृसिंहे देवे ब्रह्मणि वर्तते । तस्मादेष सत्यस्वरूपो न ह्यन्यदस्त्यमेय-मनात्मग्रकाशमेष हि स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्माऽतो नान्यप्रथाप्रा-प्तिरात्ममात्रं ह्येतदुत्कृष्टमेष एवोग्र एष ह्येवोत्कृष्ट एष एव वीर एष ह्येवोत्कृष्टएष एव महानेष ह्येवोत्कृष्ट एष एव विष्णुरेष ह्येवोत्कृष्ट एष एव ज्वलन्नेषह्येवोत्कृष्ट एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव नृसिंह एष ह्येवोत्कृष्टएष एव भीषण एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट एष एव मृत्यु-मृत्युरेष ह्येवोत्कृष्ट एष एव नमाम्येष ह्येवोत्कृष्ट एष एवाहमेष ह्येवोत्कृष्ट-स्तस्मादात्मानमेवैवं जानीयादात्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद ।सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव सम-वनीयन्ते । ब्रह्मैव सन्ब्रह्माप्येत्यथैषो एव मकारो महाविभूत्यर्थं आत्मन्येवनृसिंहे देवे परे ब्रह्मणि वर्तते तस्मादयमनल्पोऽभिन्नरूपः स्वप्रकाशो ब्रह्मैवव्याप्ततम उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं महात्रिभूत्येतदेवोग्रमे-तद्धि महाविभूत्येतदेव वीरमेतद्धि महाविभूत्येतदेव महदेतद्धि महाविभूत्ये-तदेव विष्ण्वेतद्धि महाविभूत्येतदेव ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुख-मेतद्धि महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव भीषणमेतद्धि महा-विभूत्येतदेव भद्रमेतद्धि महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेवनमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति तस्मादकारोकाराभ्यामि-ममात्मानमाप्ततममुत्कृष्टतमं चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं सर्व-प्रेमास्पदं सच्चिदानन्दमात्रमेकरसं पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्या-----Page------------------२३२--प्ततममुत्कृष्टतमं चिन्मात्रं महाविभूति सच्चिदानन्दमात्रमेकरसं परमेव ब्रह्ममकारेण जानीयादात्मैव नृसिंहो देवः परमेव ब्रह्म भवति य एवं वेद । सोऽ-कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समव-नीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति ह प्रजापतिरुवाच ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु पञ्चमः खण्डः ॥५॥

ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः पाप्मा परिजग्रास । त ऐक्षन्तहन्तैनमासुरं पाप्मानं ग्रसाम इति । त एतमेवॐकाराग्रविद्योतं तुरीयतुरीय-मात्मानमुग्रमनुग्रं वीरमवीरं महान्तममहान्तं विष्णुमविष्णुं ज्वलन्तमज्वलन्तंसर्वतोमुखमसर्वतोमुखं नृसिंहमनृसिंहं भीषणमभीषणं भद्रमभद्रं मृत्युमृत्यु-ममृत्युमृत्युं नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे तेभ्यो हासावा-सुरः पाप्मा सच्चिदानन्दघनं ज्योतिरभवत्तस्मादपक्वकषाय इममेवॐकाराग्र-विद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मासच्चिदानन्दघनं ज्योतिर्भवति । ते देवा ज्योतिष उत्तितीर्षवो द्वितीयाद्भयमेवपश्यन्तं इममेवॐकाराग्रविद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभान्विष्यप्रणवेनैव तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः सुविभातमविभातम-द्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवत् । एवंवित्स्वप्रकाशं परमेवब्रह्म भवति ते देवाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्योव्युत्थाय निरागारा निष्परिग्रहा अशिखा अयज्ञोपवीता अन्धा बधिरा मुग्धाःक्लीबा मूका उन्मत्ता इव परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवःसमा हिता आत्मारतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेवपरमं ब्रह्मात्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां व्रतमा-चरन्नॐकारे परे ब्रह्मणि पर्यवसितो भवेत्स आत्मनैवात्मानं परमं ब्रह्मपश्यति । तदेष श्लोकः--शृङ्गेष्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् ।शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देवा उदासत इति ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु षष्ठः खण्डः ॥६॥

देवा ह वै प्रजापतिमब्रुवन्भूय एव नो भगवान्विज्ञापयत्विति तथेत्यज-त्वादमरत्वादजरत्वादमृतत्वादभयत्वादशोकत्वादमोहत्वादनशनायत्वादपि-पासत्वादद्वैतत्वाच्चाकारेणेममात्मानमन्विष्योदुत्कृष्टत्वादुदुत्पादकत्वादुदुत्प्र-वेष्टत्वादुदुत्थापयितृत्वादुदुद्द्रष्टत्वादुदुत्कर्तृत्वादुदुत्पथवारकत्वादुदुद्ग्रासकत्वा-----Page------------------२३३--दुदुद्भ्रान्तत्वादुदुत्तीर्णविकृतित्वाच्चोकारेण परमं सिंहमन्विष्याकारमि-ममात्मानमुकारपूर्वार्धमाकृष्य सिंहीकृत्योत्तरार्धेन तं सिंहमाकृष्य महत्त्वा-न्महस्त्वान्मानत्वान्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वान्महाचित्त्वान्म-हानन्दत्वान्महाप्रभुत्वाच्च मकारार्थेनानेनात्मनैकीकुर्यादशरीरो निरिन्द्रि-योऽप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद ।कस्त्वमित्यहमिति होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं तस्यादिर-यमकारः स एव भवति । सर्वं ह्ययमात्मायं हि सर्वान्तरो न हीदं सर्वं निरा-त्मकमात्मैवेदं सर्व तस्मात्सर्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेद्ब्रह्मैवेदंसर्वं सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं सद्धीदं सर्वं तत्सदितिचिद्धीदं सर्वं काशते काशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति कैषेती-यमियं नेत्यवचनेनैवानुभवन्नुवाचैवमेव चिदानन्दावप्यवचनेनैवानुभवन्नुवाचसर्वमन्यदपि स परम आनन्दस्तस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयंमकारः स एव भवति तस्मान्मकारेण परमं ब्रह्मान्विच्छेत्किमिदमेवमित्युइत्येवाहाविचिकित्संस्तस्मादकारेणेममात्मानमन्विष्य मकारेण ब्रह्मणासंदध्यादुकारेणाविचिकित्सन्नशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्द-मात्रः स स्वराड् भवति य एवं वेद । ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाद्वी-रत्वान्महत्त्वाद्विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वान्मृ-त्युमृत्युत्वान्नमामित्वादहन्त्वादिति सततं ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णु-त्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वान्मृत्युमृत्युत्वान्नमामि-त्वादहंत्वादिति तस्मादकारेण परमं ब्रह्मान्विष्य मकारेण मनआद्यवितारंमनआदिसाक्षिणमन्विच्छेत्स यदैतत्सर्वमुपेक्षते तदैतत्सर्वमस्मिन्प्रविशति सयदा प्रबुध्यते तदैत्सर्वमस्मादेवोत्तिष्ठति स एतत्सर्वं निरूह्य प्रत्यूह्य संपीड्यसंज्वाल्य संभक्ष्य स्वात्मानमेषां ददात्यत्युग्रोऽतिवीरोऽतिमहानतिविष्णुरति-ज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽतिभद्रोऽतिमृत्युमृत्युरतिनमाम्य-त्यहं भूत्वा स्वे महिम्नि सदा समासस्ते तस्मादेनमकारार्थेन परेण ब्रह्मणैकी-कुर्यादुकारेणाविचिकित्सन्नशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रःस स्वराड् भवति य एवं वेद । तदेष श्लोकः -- शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेनयोजयेत् । शृङ्गमेनं परे शृङ्गे तमतेनापि योजयेत् ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु सप्तमः खण्डः ॥७॥


Page-----------------२३४--अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा सिंहोऽस्मिन्हि सर्वमयं हि सर्वा-त्माऽयं हि सर्वं नैवोतोऽद्वयो ह्ययमात्मैकल एवाविकल्पो न हि वस्तुसदयं ह्योत इव सद्घनोऽयं चिद्घन आनन्दघन एकरसोऽव्यवहार्यःकेनचनाद्वितीय ओतश्च प्रोतश्चैष ॐकार एवं नैवमिति पृष्ट ओमित्येवाहवाग्वा ॐकारो वागेवेदं सर्वं न ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमॐ-कारश्चिन्मयमिदं सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतभभयमेत-द्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यमनुज्ञाताह्ययमात्मैष ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं स्वत आत्मवन्नह्ययमोतो नानुज्ञाताऽसङ्गत्वादविकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमॐकारओमिति ह्यनुजानाति वाग्वा ओकारो वागेवेदं सर्वमनुजानाति चिन्मयोह्ययमोकारश्चिद्धीदं सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर एवैकमेवतद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवंवेदेति रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन एवायं ह्यस्मात्सर्वस्मात्पुरतःसुविभातोऽतश्चिद्घन एव न ह्ययमोतो नानुज्ञाताऽऽम्यं हीदं सर्वमस-देवानुज्ञैररसो ह्ययमोकार ॐमिति ह्येवानुजानाति वाग्वा ॐकारो वागेवह्यनुजानाति चिन्मयो ह्ययमॐकारश्चिदेव ह्यनुज्ञा तस्मात्परमेश्वर एवैकमेवतद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभ्यं हि वै ब्रह्म भवति य एवंवेदेति रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो ह्ययमॐकारोऽद्वितीय-त्वादेव चिन्मयो ह्ययमॐकारस्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोनाविकल्पोऽपि नात्र काचन भिदाऽस्ति नैवात्र काचन भिदाऽस्त्यत्र भिदा-मिव मन्यमानः शतधा सहस्रधा भिन्नो मृत्योर्मृत्युमाप्नोति तदेतदद्वयंस्वप्रकाशं महानन्दमात्मैवैतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्मभवति य एवं वेदेति रहस्यम् ॥इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्स्वष्टमः खण्डः ॥८॥

देवा ह वै प्रजापतिमब्रुवन्निममेव नो भगवन्नॐकारमात्मानमुपदिशेतितथेत्युपद्रष्टाऽनुमन्तैष आत्मा सिंहश्चिद्रूप एवाविकारो द्व्युपलब्धा सर्वत्र नह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया ह्यन्न्यदिव स वा एष आत्मापर एवैषैव सर्वं तथा हि प्राज्ञे सैषाऽविद्या जगत्सर्वमात्मा परमात्मैवस्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव ह्यत्र न विजानात्यनुभूतेर्माया च-----Page-----------------२३५--तमोरूपाऽनुभूतेस्तदेतज्जडं मोहात्मकमनन्तं तुच्छमिदं रूपमस्यास्य व्यञ्जिकानित्यनिवृत्ताऽपि मूढैरात्मेव दृष्टाऽस्य सत्त्वमसत्त्वं च दर्शयति सिद्धत्वासिद्ध-त्वाभ्यां स्वतन्त्रास्वतन्त्रत्वेन सैषा वटबीजसामान्यवदनेकवटशक्तिरेकैव । तद्यथावटबीजसामान्यमेकमनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र तत्र पूर्णंसत्तिष्ठत्येवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वाजीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति सैषा विचित्रासुदृढा बह्वङ्कुरा स्वयं गुणभिन्नाऽङ्कुरेष्वपि गुणभिन्ना सर्वत्र ब्रह्मविष्णु-शिवरूपिणी चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं सर्वत्र योनित्वमप्यभिमन्ताजीवो नियन्तेश्वरः सर्वाहंमानी हिरण्यगर्भस्त्रिरूप ईश्वरवद्व्यक्तचैतन्यः सर्वगोह्येष हैश्वरः क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः सर्वमयाः सर्वावस्थासुतथाप्यल्पाः स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वाप्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मासन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वय आनन्दः परःप्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हिब्रह्म न ह्यत्र किंचनानुभूयते नाविद्याऽनुभवात्मनि स्वप्रकाशे सर्वसाक्षिण्य-विक्रियेऽद्वये पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं पुरस्तादयोनिः स्वात्म-स्थमानन्दचिद्घनं सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्माऽन्यदपि सर्वं सर्वगंसर्वमत एव शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूप आत्मा न ह्येतन्निरात्मकमपिनात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा हि स्वमहिमस्थोनिरपेक्ष एक एव साक्षी स्वप्रकाशः किं तन्नित्यमात्माऽत्र ह्येव न विचिकित्स्य-मेतद्धीदं सर्वं साधयति द्रष्टा द्रष्टुः साक्ष्यविक्रियः सिद्धो निरविद्यो बाह्या-न्तरवीक्षणात्सुविस्पष्टस्तमसः परस्ताद्ब्रूतैष दृष्टोऽदृष्टो वेति दृष्टोऽव्यवहार्यो-ऽप्यल्पो नाल्पः साक्ष्यविशेषोऽन्योऽसुखदुःखोऽद्वयः परमात्मा सर्वज्ञो-ऽनन्तोऽभिन्नोऽद्वयः सर्वदाऽसंवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेवदृष्टः किमद्वयेन द्वितीयमेव न यूयमेव ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेवदृश्यते चेन्नात्मज्ञा असङ्गो ह्ययमात्माऽतो यूयमेव स्वप्रकाशा इदंहि सत्संविन्मयत्वाद्यूयमेव नेति होचुर्हन्तासङ्गा वयमिति होचुः कथंपश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो यूयमेव स्वप्रकाशा इतिहोवाच न च सत्संविन्माया एतौ हि पुरस्तात्सुविभातमव्यवहार्यमेवाद्वयंज्ञातो ह्येवैष विज्ञातो विदिताविदितात्पर इति होचुः स होवाच तद्वा-----Page-----------------२३६--एतद्ब्रह्माद्वयं बृहत्त्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं सूक्ष्मं परिपूर्णमद्वयं सदानन्दंचिन्मात्रमात्मैवाव्यवहार्यं केनचन तदेतदात्मानमोमित्यपश्यन्तः पश्यततदेतत्सत्यमात्मा ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यॐ सत्यंतदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्दमस्पर्शमरूपमरसमगन्धमव्यक्तमनादा-तव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्यममन्तव्यमबोद्धव्यमनहंकर्तव्य-मचेतयितव्यमप्राणयितव्यमनपानयितव्यमव्यानयितव्यमनुदानयितव्यमस-मानयितव्यमनिन्द्रियमविषयमकरणमलक्षणमसङ्गमगुणमविक्रियमव्यपदेश्य-मसत्त्वमरजस्कमतमस्कममायमप्यौपनिषदमेव सुविभातं सकृद्विभातं पुरतोऽ-स्मात्सर्वस्मात्सुविभातमद्वयं पश्यताहं स सोऽहमिति स होवाच किमेषदृष्टोऽदृष्टो वेति दृष्टो विदिताविदितात्पर इति होचुः क्वैषा कथमिति होचुःकिं तेन न किंचनेति होचुर्यूयमाश्चर्यरूपा इति न चेत्याहोमित्यनुजानीध्वंब्रूतैनमिति ज्ञातोऽज्ञातश्चेति होचुर्न चैवमिति होचुरिति ब्रूतैवैनमात्मसिद्धमितिहोवाच पश्याम एव भगवन्न च वयं पश्यामो नैव वयं वक्तुं शक्नुमो नम-स्तेऽस्तु भगवन्प्रसीदेति होचुर्न भेतव्यं पृच्छतेति होवाच कैषाऽनुज्ञेत्येषएवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इतीति ह प्रजापतिर्देवाननुश-शासानुशशासेति । तदेष श्लोकः -- ओतमोतेन जानीयादनुज्ञातारमान्तरम् ।अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेदित्युपद्रष्टारमाव्रजेदिति ॥९॥

ॐ भद्रं कर्णेभिः ० १ । ॐ स्वस्ति न इन्द्रो० २ । ॐ शान्तिः ३॥

इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु नवमः खण्डः ॥९॥

इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्समाप्ता ॥


कालाग्निरुद्रोपनिषत् ॥३०॥[सम्पाद्यताम्]

ब्रह्मज्ञानोपायतया यद्विभूतिः प्रकीर्तिता ।कालाग्निरुद्रं तमहं भजतां स्वात्मदं भजे ॥

ॐ सह नाववत्विति शान्तिः ॥

ॐ अथ कालाग्निरुद्रोपनिषदः संवर्तकोऽग्निरृषिरनुष्टुप्छन्दः श्रीकाला-ग्निरुद्रो देवता श्रीकालाग्निरुद्रप्रीत्यर्थे भस्मत्रिपुण्ड्रधारणे विनियोगः ॥ अथकालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ-अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्त्वंकिं द्रव्यं कियत्स्थानं कतिप्रमाणं का रेखा के मन्त्राः का शक्तिः किं दैवतं-----Page-----------------२३७--कः कर्ता किं फलमिति च । तं होवाच भगवान्कालाग्निरुद्रः--यद्द्रव्यं तदा-ग्नेयं भस्म सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्म वायुरिति भस्मजलमिति भस्म स्थलमिति भस्म व्योमेति भस्मेत्यनेनाभिमन्त्र्य मानस्तोकैति समुद्धृत्य मा नो महान्तमिति जलेन संसृज्य त्रियायुषमिति शिरोललाट-वक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो रेखाः प्रकुर्वीत व्रत-मेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति तस्मात्तत्समाचरेन्मुमुक्षुर्नपुनर्भवाय ॥ अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्ड्रधारणस्य त्रिधा रेखाभवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च यास्य प्रथमा रेखा सा गार्ह-पत्यश्चाकारो रजोभूर्लोकः स्वात्मा क्रियाशक्तिरृग्वेदः प्रातःसवनं महेश्वरोदेवतेति यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्त्वमन्तरिक्षमन्तरात्माचेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनं सदाशिवो देवतेति यास्य तृतीया रेखासाहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनंमहादेवो देवतेति एवं त्रिपुण्ड्रविधिं भस्मना करोति यो विद्वान्ब्रह्मचारी गृहीवानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति स सर्वेषु तीर्थेषुस्नातो भवति स सर्वान्वेदानधीतो भवति स सर्वान्देवाञ्ज्ञातो भवति ससततं सकलरुद्रमन्त्रजापी भवति स सकलभोगान्भुङ्क्ते देहं त्यक्त्वा शिवसा-युज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान्कालाग्निरुद्रः ॥यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यॐ सत्यमित्युपनिषत् ॥३०॥

ॐ सह नाववत्विति शान्तिः ॥इति कालाग्निरुद्रोपनिषत्समाप्ता ॥