ईशादिविंशोत्तरशतोपनिषदः/उपनिषद-११-२०
ब्रह्मबिन्दूपनिषत् ॥१२॥
[सम्पाद्यताम्]अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् ।तदेव हि त्रिपाद्रामचन्द्राख्यं नः परा गतिः ॥
ॐ सह नाववत्विति शान्तिः ॥
ॐ मनो हि द्विविधं प्रोक्तं शुद्धंचाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥१॥
मन एवमनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्॥२॥
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मान्निर्विषयं नित्यं मनःकार्यं मुमुक्षुणा ॥३॥
निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्यु-न्मनीभावं तदा तत्परमं पदम् ॥४॥
तावदेव निरोद्धव्यं यावद्धृदि गतं-----Page-----------------१४२--क्षयम् । एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥५॥१॥
नैव चिन्त्यंन वाचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा॥६॥
स्वरेण संधयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावोनाभाव इष्यते ॥७॥
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्ब्रह्माह-मिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥८॥
निर्विकल्पमनन्तं च हेतुवृत्तान्त-बर्जितम् । अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥९॥
न निरोधो नचोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता॥१०॥२॥
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयाद्व्यती-तस्य पुनर्जन्म न विद्यते ॥११॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१२॥
घटसंवृतमाकाशं लीय-माने घटे यथा । घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥१३॥
घटव-द्विविधाकारं भिद्यमानं पुनः पुनः । तद्भग्नं न च जानाति स जानाति चनित्यशः ॥१४॥
शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भिन्ने तमसिचैकत्वमेकमेवानुपश्यति ॥१५॥३॥
शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्ष-रम् । तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥१६॥
द्वे विद्ये वेदितव्येतु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥१७॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थ-मशेषतः ॥१८॥
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानंलिङ्गिनस्तु गवां यथा ॥१९॥
घृतमिव पयसि निगूढं भूते भूते च वसतिविज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥२०॥
ज्ञाननेत्रंसमादाय चरेद्वह्निमतः परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम्॥२१॥
सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वनुग्राहकत्वेन तदस्म्यहंवासुदेवः तदस्म्यहं वासुदेव इति ॥२२॥४॥
सह नाववत्विति शान्तिः ॥इत्यथर्ववेदीया ब्रह्मबिन्दूपनिषत्समाप्ता ॥१२॥
कैवल्योपनिषत् ॥१३॥
[सम्पाद्यताम्]कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥ॐ सह नाववत्विति शान्तिः ॥ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्र-----Page------------------१४३--ह्यविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापंव्यपोह्य परात्परं पुरुषं याति विद्वान् ॥१॥
तस्मै स होवाच पितामहश्चश्रद्धाभक्तिध्यानयोगादवैहि ॥२॥
न कर्मणा न प्रजया धनेन त्यागेनैकेअमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति॥३॥
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । तेब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥४॥
विविक्तदेशे चसुखासनस्थः शुचिः समग्रीवशिरःशरीरः । अन्त्याश्रमस्थः सकलेन्द्रियाणिनिरुध्य भक्त्या स्वगुरुं प्रणम्य ॥५॥
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्यमध्ये विशदं विशोकम् । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतंब्रह्मयोनिम् ॥६॥
तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनि-र्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥७॥
स ब्रह्मा स शिवःसेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालोऽग्निः सचन्द्रमाः ॥८॥
स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तंमृत्युमत्येति नान्यः पन्धा विमुक्तये ॥९॥
सर्वभूतस्थमात्मानं सर्वभूतानिचात्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥१०॥
आत्मानमरणिंकृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥११॥
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादि-विचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥१२॥
स्वप्ने स जीवः सुखदुःख-भोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोऽभि-भूतः सुखरूपमेति ॥१३॥
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपितिप्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ॥ आधा-रमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥१४॥
एतस्माज्जायतेप्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥१५॥
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यंतत्त्वमेव त्वमेव तत् ॥१६॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माह-मिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥१७॥
त्रिषु धामसु यद्भोग्यं भोक्ताभोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥१८॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्मा-द्वयमस्म्यहम् ॥१९॥
अणोरणियानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥२०॥
अपाणि-----Page------------------१४४--पादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः । अहं विजानामिविविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥२१॥
वेदैरनेकैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रि-यबुद्धिरस्ति ॥२२॥
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति नचाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥२३॥
इति कैवल्योपनिषदि प्रथमः खण्डः ॥१॥
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् । यः शतरुद्रीय-मधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आत्मपूतो भवति ससुरापानात्पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात्पूतो भवतिस कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति अत्याश्रमी सर्वदासदृद्वा जपेत् ॥ अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवंविदित्वैनं कैवल्यं फलमश्नुते कैवल्यं फलमश्नुत इति ॥२४॥
इति कैवल्योपनिषदि द्वितीयः खण्डः ॥२॥
ॐ सह नाववत्विति शान्तिः ॥इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥१३॥
जाबालोपनिषत् ॥१४॥
[सम्पाद्यताम्]जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषांभूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानांब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वैकुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ अत्र हि जन्तोःप्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवतितस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥१॥
इति प्रथमः खण्डः ।अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहंविजानीयामिति ॥ स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-----Page------------------१४५--न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठितैति वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीतिसर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति सर्वानिन्द्रियकृतान्पा-पान्नाशयतीति तेन नासी भवतीति ॥ कतमच्चास्य स्थानं भवतीति । भ्रुवो-र्घ्राणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति ॥ एतद्वैसंधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति । सोऽविमुक्तंज्ञानमाचष्टे यो वै तदेतदेवं वेदेति ॥२॥
इति जाबालोपनिषत्सु द्वितीयः खण्डः ॥२॥
अथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति ॥ स होवाचयाज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्ह वा अमृतोभवतीति ॥ एवमेवतद्याज्ञवल्क्यः ॥३॥
इति जाबालोपनिषत्सु तृतीयः खण्डः ॥३॥
अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् संन्यासमनु-ब्रूहीति ॥ स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् गृही भूत्वावनी भवेत् वनी भूत्वा प्रव्रजेत् ॥ यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वावनाद्वा ॥ अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरन-ग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ॥ तद्धैके प्राजापत्यामेवौष्टं कुर्वन्ति ॥तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥ अग्निर्ह वै प्राणः प्राणमेवैतया करोतिपश्चात्त्रैधातवीयामेव कुर्यात् ॥ एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥अयं ते योनिरृत्वियो यतो जातो अरोचथाः ॥ तं जानन्नग्न आरोहाथा नोवर्धय रयिम् इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥ एष वा अग्नेर्योनिर्यः प्राणः प्राणंगच्छ स्वाहेत्येवमेवैतदाह ॥ ग्रामादग्निमाहृत्य पूर्ववदग्निमाघ्रापयेत् ॥ यद्यग्निंन विन्देदप्सु जुहुयात् ॥ आपो वै सर्वा देवताः । ॐसर्वाभ्यो देवताभ्योजुहोमि स्वाहेति हुत्वा समुद्धृत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रस्त्रय्येवंविन्देत् ॥ तद्ब्रह्मैतदुपासितव्यम् ॥ एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥४॥
इति जाबालोपनिषत्सु चतुर्थः खण्डः ॥४॥
अथ हैनमत्रिः पप्रच्छ ॥ याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्क्य अयज्ञोप-वीती कथं ब्राह्मण इति ॥ स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं यआत्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् ॥ वीराध्वाने वाऽनाशके वाऽपां-----Page-----------------१४६--प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिव्राड् विवर्णवासा मुण्डोऽपरि-ग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ॥ यद्यातुरः स्यान्मनसा वाचावा संन्यसेत् ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमे-वैष भगवन्निति वै याज्ञवल्क्यः ॥५॥
इति जाबालोपनिषत्सु पञ्चमः खण्डः ॥५॥
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रे-परैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रि-दण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ यथा जातरूपधरो निर्द्वन्द्वो निष्परि-ग्रहस्तत्तत्त्वब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकालेविमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृण-कूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झर-स्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभ-कर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसोनामेति ॥६॥
इति जाबालोपनिषत्सु षष्ठः खण्डः ॥६॥
ॐ पूर्णमद इति शान्तिः ॥इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ॥१४॥
हंसोपनिषत् ॥१५॥
[सम्पाद्यताम्]हंसाख्योपनिषत्प्रोक्तनादादिर्यत्र विश्रमेत् ।तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥
ॐ पूर्णमद इति शान्तिः ॥
ॐ गौतम उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधोहि केनोपायेन जायते ॥१॥
सनत्सुजात उवाच । विचार्य सर्ववेदेषु मतंज्ञात्वा पिनाकिनः । पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥२॥
अना-ख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । हंसस्य गतिविस्तारं भुक्तिमुक्तिफल-प्रदम् ॥३॥
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे शान्तायदान्ताय गुरुभक्ताय । हंसहंसेति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते ॥-----Page-----------------१४७--यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमत्येति । गुदमवष्टभ्या-धाराद्बायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहत-मतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमि-त्येवं सर्वदा ध्यायन्नथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशं सवै ब्रह्म परम त्मेत्युच्यते ॥१॥
अथ हंस ऋषिः अव्यक्तगायत्री छन्दः ।परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कील-कम् । षट्संख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट्शतान्यधिकानि भव-न्ति । सूर्याय सोमाय निरञ्जनाय निराभासाय तनुसूक्ष्म प्रचोदयादितिअग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । एवं कृत्वा हृदये-ऽष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावॐकारः शिरो बिन्दुस्तु नेत्रंमुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः । पश्यत्यनागा-रश्च शिष्टोभयपार्श्वे भवतः । एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदंव्याप्तम् । तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्या-दयो भवन्ति याम्ये क्रूरे मतिः नैरृत्ये पापे मनीषा वारुण्यां क्रीडा वायव्येगमनादौ बुद्धिः सौम्ये रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरेजाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो नादेलीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते । एवं सर्वंहंसवशात्तस्मान्मनो विचार्यते । स एव जपकोट्यां नादमनुभवति एवंसर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः ।घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थम् । पञ्चमस्तन्त्रीनादः । षष्ठस्तालनादः । स-प्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ।नवमं परित्यज्य दशममेवाभ्यसेत् । प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्ज-नम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः । पञ्चमे स्रवते तालु षष्ठेऽमृ-तनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥ अदृश्यं नवमे देहंदिव्यचक्षुस्तथाऽमलम् । दशमं परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥ तस्मिन्मनोविलीयते मनसि संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्व-त्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥ॐ वेदप्रवचनं वेदप्रवचनमिति ॥२॥
ॐ पूर्णमद इति शान्तिः ॥इत्यथर्ववेदे हंसोपनिषत्समाप्ता ॥१५॥
Page-----------------१४८--
आरुणिकोपनिषत् ॥१६॥
[सम्पाद्यताम्]आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥ॐ आप्यायन्त्विति शान्तिः ॥ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गत्वोवाच । केन भगवन्कर्माण्य-शेषतो विसृजानीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखांयज्ञोपवीतं च यागं च सूत्रं च स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोक-जनलोकतपोलोकसत्यलोकं चातलपातालवितलसुतलरसातलतलातलमहातल-ब्रह्माण्डं च विसर्जयेद्दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजे-दिति ॥१॥
गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीनुदराग्नौसमारोपयेत् । गायत्रीं च स्ववाचाग्नौ समारोपयेदुपवीतं भूमावप्सु वाविसृजेत् । कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रंविसृजेत् । दण्डांश्च लौकिकाग्नींश्च विसृजेदिति होवाच । अत ऊर्ध्वममन्त्र-वदाचरेत् । ऊर्ध्वगमनं विसृजेत् । त्रिसंध्यादौ स्नानमाचरेत् । संधिंसमाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिष-दमावर्तयेदिति ॥२॥
खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रं ब्रह्म सूत्रमहमेव विद्वां-स्त्रिवृत्सूत्रं त्यजेद्विद्वान्यं एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेतित्रिः कृत्वाऽभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायौजःसखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति ।अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवद-शनमाचरेत् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षतो३ हे रक्षतो३ हे रक्षत इति ॥३॥
अथातः परमहंसपरिव्राजकानामासन-शयनादिकं भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाबुपात्रं दारुपात्रं वा कामक्रोध-हर्षरोषलोभमोहदम्भदर्पासूयाममत्वाहंकारादीनपि त्यजेत् । वर्षासु ध्रुव-शीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा चरेद्द्वावेव वा चरे-दिति ॥४॥
खलु वेदार्थं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् ।पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्रामंप्रविशन्ति पाणिपात्रमुदरपात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्य-सेत् ॥ खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमौदुम्बरं दण्ड-मजिनं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः-----Page-----------------१४९--परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्य-वो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनंबेदानुशासनं वेदानुशासनमिति ॥५॥
ॐ आप्यायन्त्विति शान्तिः ॥इत्यथर्ववेदीयारुणिकोपनिषत्समाप्ता ॥१६॥
गर्भोपनिषत् ॥१७॥
[सम्पाद्यताम्]यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ॐ स ह नाववत्विति शान्तिः ॥ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षङ्गुणयोगयुक्तम् ॥ तत्सप्तधातु त्रिमलंद्वियोनि चतुर्विधाहारमयं शरीरम् ॥ भवति पञ्चात्मकमिति कस्मात् पृथिव्या-पस्तेजोवायुराकाशमित्यस्मिन्पञ्चात्मके शरीरे । का पृथिवी का आपः किंतेजः को वायुः किमाकाशम् । तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णंतत्तेजो यत्संचरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ तत्र पृथिवीनाम धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्व्यूहने आकाशमवकाश-प्रदाने ॥ पृथुस्तु श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसनेनासिकाऽऽघ्राणे उपस्थश्चानन्दनेऽपानमुत्सर्गे बुद्ध्या बुद्ध्यति मनसा संकल्पयतिवाचा वदति ॥ षडाश्रयमिति कस्मात् मधुराम्ललवणतिक्तकटुकषायरसा-न्विन्दते ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । इष्टानिष्टा शब्द-संज्ञाप्रणिधानाद्दशविधा भवन्ति ॥१॥
शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलःपाण्डुर इति ॥ सप्तधातुकमिति कस्मात् यथा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥परस्परं सौम्यगुणत्वात्षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदोमेदसः स्नावा स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्जः शुक्रं जुक्रशोणितसंयोगादा-वर्तते गर्भो हृदिव्यवस्थानीति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थानेवायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥२॥
क्रतुकाले संप्रयोगादेक-रात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेणपिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः संपद्यते मास-त्रयेण पादप्रदेशो भवति ॥ अथ चतुर्थे मासेऽङ्गिउ!ल्यजठरकटिप्रदेशो भवति ॥-----Page-----------------१५०--पञ्चमे मासे पृष्ठवंशो भवति ॥ षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति ॥सप्तमे मासे जीवेन संयुक्तो भवति ॥ अष्टमे मासे सर्वसंपूर्णो भवति ॥ पितूरेतोऽतिरिक्तात्पुरुषो भवति मातू रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्य-त्वान्नपुंसको भवति ॥ व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति ॥अन्योन्यवायुपरिपीडितशुक्रद्वध्याद्द्विधा तनूः स्यात्ततो युग्माः प्रजायन्ते ॥पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर्गन्धरसादिज्ञाना ध्यानात्क्षरमक्षरंमोक्षं चिन्तयतीति । तदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरेतस्यैव देहिनाम् ॥ अथ मात्राऽशितपीत नाडीसूत्रगतेन प्राण आप्यायते ॥अथ नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्मभवति शुभाशुभं च कर्म विन्दति ॥३॥
नानायोनिसहस्राणि दृष्ट्वा चैव ततोमया ॥ आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ जातस्यैव मृतस्यैवजन्म चैव पुनः पुनः ॥ अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ य-न्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्यामि गतास्ते फ-लभोगिनः ॥ यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा समाश्रये ॥ अशुभक्षयकर्तारंफलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुच्यामि तं प्रपद्ये महेश्वरम् ॥ अशुभक्ष-यकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारा-यणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामिध्याये ब्रह्म सनातनम् ॥ अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि संप्राप्तो यन्त्रेणा-पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्य तदा नस्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥४॥
शरीरमिति कस्मात् साक्षा-दग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति ॥ तत्र कोष्ठाग्निर्नामाशि-तपीतलेह्यचोष्यं पचतीति ॥ दर्शनाग्नी रूपादीनां दर्शनं करोति ॥ ज्ञानाग्निःशुभाशुभं च कर्म विन्दति यस्तत्र ॥ त्रीणि स्थानानि भवन्ति हृदये दक्षिणा-ग्निरुदरे गार्हपत्यं मुखादाहवनीयात्मा यजमानो बुद्धिः पत्नीं मनो ब्रह्मा नि-धाय लोभादयः पशवो धृतिर्दीक्षा संतोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मे-न्द्रियाणि हवींषि शिरः कपालं केशा दुर्भा मुखमन्तर्वेदिः चतुष्कपालं शिरःषोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं संधिशतं सनवकंस्नायुशतं सप्त शिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानिषष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं-----Page-----------------१५१--कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात्पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥५॥
ॐ स ह नाववत्विति शान्तिः ।इति गर्भोपनिषत्समाप्ता ॥१७॥
नारायणाथर्वशिरौपनिषत् ॥१८॥
[सम्पाद्यताम्]मायातत्कार्यमखिलं यद्बोधाद्यात्यपह्नवम् ।त्रिपान्नारायणाख्यं तत्कलये स्वात्ममात्रतः ॥ॐ स ह नाववत्विति शान्तिः ॥ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ॥ नारायणात्प्राणोजायते मनः सर्वेन्द्रियाणि च ॥ खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥नारायणाद्ब्रह्मा जायते ॥ नारायणाद्रुद्रो जायते ॥ नारायणादिन्द्रो जायते ॥नारायणात्प्रजापतिः प्रजायते ॥ नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणिच्छन्दांसि ॥ नारायणादेव समुत्पद्यन्ते ॥ नारायणात्प्रवर्तन्ते ॥ नारायणे प्रली-यन्ते ॥ एतदृग्वेदशिरोऽधीते ॥१॥
अथ नित्यो नारायणः ॥ ब्रह्मा नारायणः ॥शिवश्च नारायणः ॥ शक्रश्च नारायणः ॥ कालश्च नारायणः ॥ दिशश्च नारा-यणः ॥ विदिशश्च नारायणः ॥ ऊर्ध्वं च नारायणः ॥ अधश्च नारायणः ॥अन्तर्बहिश्च नारायणः ॥ नारायण एवेदं सर्वं यद्भूतं यञ्च भव्यम् ॥ निष्क-लङ्को निरञ्जनो निर्बिकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽ-स्ति कश्चित् ॥ य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॥ यएतद्यजुर्वेदशिरोऽधीते ॥२॥
ॐमित्यग्रे व्याहरेत् ॥ नम इति पश्चात् ॥नारायणायेत्युपरिष्टात् ॥ ॐमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे ॥ नाराय-णायेति पञ्चाक्षराणि ॥ एतद्वै नारायणस्याष्टाक्षरं पदम् ॥ यो ह वै नारायण-स्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति ॥ विन्दते प्राजापत्यं राय-स्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ॥ एतत्सामवेदशिरो-ऽधीते ॥३॥
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् ॥ अकार उकारो मकारैति ॥ ता अनेकधा समभवत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसार-बन्धनात् ॥ ॐ नमो नारायणायेति मंत्रोपासको वैकुण्ठभुवनं गमिष्यति ॥तदिदं पुण्डरीकं विज्ञानघनं ॥ तस्मात्तडिदाभमात्रम् ॥ ब्रह्मण्यो देवकीपुत्रो-----Page-----------------१५२--ब्रह्मण्यो मधुसूदनः ॥ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ॥ सर्वं-भूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्म ओम् ॥ एतदथर्वशिरोयोऽधीते ॥४॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानोदिवसकृतं पापं नाशयति ॥ तत्सायंप्रातरधीयानोऽपापो भवति ॥ मध्यंदिन-मादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते ॥ सर्ववेदपारा-यणपुण्यं लभते ॥ नारायणसायुज्यमवाप्नोति ॥ श्रीमन्नारायणसायुज्यमवा-प्नोति य एवं वेद ॥५॥
ॐ स ह नाववत्विति शान्तिः ॥॥ इति नारायणाथर्वशिरौपनिषत्समाप्ता ॥१८॥
महानारायणोपनिषत् ॥१९॥
[सम्पाद्यताम्]ॐ नमो महते नारायणाय ॥ अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठेमहतो महीयान् । शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः॥१॥
यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः ।तदेव भूतं तदु भव्यमानमिदं तदक्षरे परमे व्योमन् ॥२॥
येनावृतं खं चदिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च । यदन्तः समुद्रे कवयोपदन्ति तदक्षरे परमे प्रजाः ॥३॥
यतः प्रसूता जगतः प्रसूती तोयेन जीवा-न्विससर्ज भूम्याम् । यत ओषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि॥४॥
अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥५॥
तदेवर्तं तदु सत्यमाहुस्त-देव ब्रह्म परमं कवीनाम् । इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्तिभुवनस्य नाभिः ॥६॥
तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्र-ममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥७॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-दधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥८॥
अर्धमासा मासाऋतवः संवत्सरश्च कल्पताम् । स आपः प्रदुघे उभे इमे अन्तरिक्षमथो सुवः॥९॥
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्यनाम महद्यशः ॥१०॥
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च-नैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति ॥११॥
अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ ॥१२॥
इति श्रीमहानारायणोपनिषदि प्रथमः खण्डः ॥१॥
Page-----------------१५३--एष हि देवः प्र दिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । सविजायमानः स जनिष्यमाणः प्रत्यङ्मुखस्तिष्ठति सर्वतोमुखः ॥१॥
विश्व-तश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति संपतत्रैर्द्यावापृथिवी जनयन्देव एकः ॥२॥
वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान्यत्र विश्वं भवत्येकनीडम् । यस्मिन्निदं सं च वि चैकं स ओतः प्रोतश्च विभुःप्रजासु ॥३॥
प्र तद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु ।त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुः पितासत् ॥४॥
स नो बन्धु-र्जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतत्वमान-शानास्तृतीये धामान्यभ्यैरयन्त ॥५॥
परि द्यावापृथिवी यन्ति सद्यः परिलोकान्परि दिशः परि सुवः । ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्त-त्प्रजासु ॥६॥
परीत्य लोकान्परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च ।प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव ॥७॥
सदसस्पतिमद्भुतंप्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥८॥
उद्वीप्यस्व जातवेदोऽ-पध्नन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिशः ॥९॥
मा नोहिंसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परि-पातय ॥१०॥
इति श्रीमहानारायणोपनिषदि द्वितीयः खण्डः ॥२॥
तत्पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात् ॥१॥
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥२॥
तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि । तन्नो वृषभः प्रचोदयात् ॥३॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥४॥
षण्मुखाय विद्महे महासेनाय धीमहि । तन्नः षष्ठः प्रचोदयात् ॥५॥
पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥६॥
वैश्वानराय विद्महे लालेलाय धीमहि । तन्नो अग्निः प्रचोदयात् ॥७॥
भास्कराय विद्महे दिवाकराय धीमहि । तन्नः सूर्यः पचोदयात् ॥८॥
दिवा-कराय विद्महे महाद्युतिकराय धीमहि । तन्न आदित्यः प्रचोदयात् ॥९॥
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् ॥१०॥
तीक्ष्ण शृंगाय विद्महे वक्रपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ॥११॥
कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि । तन्नो दुर्गा प्रचोदयात् ॥१२॥
महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात् ॥१३॥
सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥१४॥
Page-----------------१५४--तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥१५॥
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥१६॥
नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः प्रचोदयात् ॥१७॥
चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ॥१८॥
इति श्रीमहानारायणोपनिषदि तृतीयः खण्डः ॥३॥
सहस्रपरमा देवी शतमूला शतांकुरा । सर्वं हरतु मे पापं दुर्वा दुःस्वप्नना-शिनी ॥१॥
दूर्वा अमृतसम्भूताः शतमूलाः शतांकुराः । शतं मे घ्नन्तिपापानि शतमायुर्विवर्धति ॥२॥
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि ।एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥३॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्तेवसुन्धरे । शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥४॥
उद्धृतासि वराहेणकृष्णेन शतबाहुना । भूमिर्धेनुर्धरित्री च धरणी लोकधारिणी । तेन याब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥५॥
मृत्तिके हर मे पापं यन्मया दुष्कृतंकृतम् । त्वया हतेन पापेन जीवामि शरदः शतम् ॥६॥
वाचा कृतं कर्मकृतंमनसा दुर्विचिन्तितम् । त्वया हतेन पापेन गच्छामि परमां गतिम् । मृत्तिकेदेहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥७॥
गन्धद्वारां दुराधर्षां नित्यपुष्टांकरीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥८॥
ॐ भूर्लक्ष्मी-र्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् ॥९॥
पद्मप्रभेपद्मसुन्दरि धर्मरतये स्वाहा ॥१०॥
हिरण्यशृंगं वरुणं प्रपद्ये तीर्थं मे देहियाचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥११॥
यन्मे मनसावाचा कर्मणा वा दुष्कृतं कृतम् । तन्मे इन्द्रो वरुणो बृहस्पतिः सविता चपुनन्तु पुनः पुनः ॥१२॥
सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मैभूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥१३॥
इति श्रीमहानारायणोपनिषदि चतुर्थः खण्डः ॥४॥
नमोऽग्नयेऽसुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥ य-दपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् ॥१॥
अत्याशनादतीपानाद्यच्चौग्रात्प्रतिग्रहात् । तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥२॥
सोऽहमपापोविरजो निर्मुक्तो मुक्तिकिल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् ॥३॥
इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधेवितस्तयार्जीकीये शृणुह्या सुषोमया ॥४॥
ऋतं च सत्यं चाभीद्धात्तपसोऽ-ध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥५॥
समुद्रादर्णवादधि-----Page-----------------१५५--संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥६॥
सूर्या-चन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः॥७॥
यत्पृथिव्या रजः स्वमान्तरिक्षे विरोदसी । इमास्तदापो वरुणः पुना-त्वघमर्षणः ॥८॥
एष सर्वस्य भूतस्य भव्ये भुवनस्य गोप्ता । एष पुण्यकृतांलोकानेष मृत्यो हिरण्मयः । द्यावापृथिव्योर्हिरण्मयं संशृतं सुवः । स नःसुवः संशिशाधि ॥९॥
आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्मा-हमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥१०॥
अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामवमर्षणस्तस्मात्पापात्प्र-मुच्यते ॥११॥
रजो भूमिस्त्वमाँरोदयस्व प्रवदन्ति धीराः । पुनन्तु ऋषयःपुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः ॥१२॥
इति श्रीमहानारायणोपनिषदि पञ्चमः खण्डः ॥५॥
अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रेअधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥१॥
जातवेदसे सुनवामसोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुंदुरितात्यग्निः ॥२॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषुजुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः ॥३॥
अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवातोकाय तनयाय शंयोः ॥४॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुर्न नावादुरितातिपर्षि । अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥५॥
पृतनाजितं सहमानमग्निमुग्रं हुवेम परमात्सधस्थात् । स नः पर्षदतिदुर्गाणिविश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥६॥
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्चहोता नव्यश्च सत्सि । स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सोभगमायजस्व॥७॥
परस्ताद्यशो गुहासु मम सुपर्णपक्षाय धीमहि । शतबाहुना पुनरजायतसुवो राजा सधस्था त्रीणि च ॥८॥
इति श्रीमहानारायणोपनिषदि षष्ठः खण्डः ॥६॥
ॐ भूरग्नये पृथिव्यै स्वाहा । भुवो वायवेऽन्तरिक्षाय स्वाहा । सुवरादित्या-य दिवे स्वाहा । घूर्भुवःसुवश्चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधापितृभ्यो भूर्भुवः सुवरग्निरोम् ॥१॥
भूरन्नमग्नये पृथिव्यै स्वाहा । भुवोऽन्नंवायवेऽन्तरिक्षाय स्वाहा । सुवरन्नमादित्याय दिवे स्वाहा । भूर्भुवःसुवरन्नं च-न्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूभुवःसुवरन्नमोम् ॥२॥
Page-----------------१५६--
भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षायच महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवःसुव-श्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधापितृभ्यो भूर्भुवःसुवर्महरोम् ॥३॥
पाहि नो अग्न एनसे स्वाहा । पाहि नोविश्ववेदसे स्वाहा ॥ यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा॥४॥
यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्छन्दांस्याविवेश । सतां शक्यःप्रोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्राय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्योभूर्भुवःसुवश्छन्द ॐ ॥५॥
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धार-यिता भूयासं कर्णयोः श्रुतं मा च्योढ्वं ममामुष्य ॐ ॥६॥
इति श्रीमहानारायणोपनिषदि सप्तमः खण्डः ॥७॥
ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दानं तपो यज्ञस्तपो भूर्भुवःसुवर्ब्रह्मैतदुपास्यैतत्तपः ॥१॥
यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवंपुण्यस्य कर्मणो दूराद्गन्धो वाति । यथासिधारां कर्तेऽवहितामवक्रामेद्यद्युवेह वेहवा विह्वलिष्यामि कर्तं पतिष्यामीत्येवमनृतादात्मानं जुगुप्सेत् ॥२॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यतिवीतशोको धातुः प्रसादान्महिमानमीशम् ॥३॥
सप्त प्राणाः प्रभवन्तितस्मात्सप्तार्चिषः समिधः सप्त जिह्वाः । सप्त इमे लोका येषु चरन्ति प्राणागुहाशया निहिताः सप्त सप्त ॥४॥
अतः समुद्रा गिरयश्च सर्वे अस्मात्स्यन्दन्तेसिन्धवः सर्वरूपाः । अतश्च विश्वा ओपधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्त-रात्मा ॥५॥
इति श्रीमहानारायणोपनिषद्यष्टमः खण्डः ॥८॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनोगृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥१॥
अजामेकां लोहित-शुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेतेजहात्येनां भुक्तभोगामजोऽन्यः ॥२॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदि-षदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतंबृहत् ॥३॥
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा ।प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी ॥४॥
विध-र्तारं हवामहे वसोः कुविद्वनाति नः । सवितारं नृचक्षसम् ॥५॥
अद्या नोदेव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्नियं सुव ॥६॥
विश्वानिदेव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव ॥७॥
मधु वाता ऋतायते-----Page-----------------१५७--मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥८॥
मधुनक्तमुतोषसोमधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता ॥९॥
मधुमान्नो वनस्पतिर्म-धुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥१०॥
घृतं मिमिक्षे घृतमस्ययोनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभवक्षि हव्यम् ॥११॥
समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् ।घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥१२॥
वयं नाम प्रब्र-वामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुः-शृंगोऽवमीद्गौर एतत् ॥१३॥
इति श्रीमहानारायणोपनिषदि नवमः खण्डः ॥९॥
चत्वारि शृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धोवृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥१॥
त्रिधा हितं पणिभिर्गुह्य-मानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकंस्वधया निष्टतक्षुः ॥२॥
यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति ॥३॥
यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इवस्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥४॥
न कर्मणा न प्रजयाधनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजतेयद्यतयो विशन्ति ॥५॥
वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयःशुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥६॥
दह्रं विपाप्मं वरं वेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तन्नापि दह्रं गगनंविशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् ॥७॥
यो वेदादौ स्वरः प्रोक्तो वेदा-न्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥८॥
अजोऽन्यःसुविभा नाभिः सर्वमस्यैव ॥९॥
इति श्रीमहानारायणोपनिषदि दशमः खण्डः ॥१०॥
सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमंप्रभुम् ॥१॥
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषस्त-द्विश्वमुपजीवति ॥२॥
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् । नारायणंमहाज्ञेयं विश्वात्मानं परायणम् ॥३॥
नारायणः परं ब्रह्मतत्त्वं नारायणः परः ।नारायणः परो ज्योतिरात्मा नारायणः परः ॥४॥
नारायणः परो ध्याताध्यानं नारायणः परः । परादपि परश्चासु तस्माद्यस्तु परात्परः ॥५॥
यच्चकिञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥६॥
Page-----------------१५८--
अनन्तमव्ययं कविं समुद्रेतं विश्वशम्भुवम् । पद्मकोशप्रतीकाशंसुषिरं चाप्यधोमुखम् ॥७॥
अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति ।हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥८॥
सततं तु शिराभिस्तु लम्बत्या-कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ॥९॥
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः । सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः॥१०॥
सन्तापयति स्वं देहमापादतलमस्तकम् । तस्य मध्ये वह्निशिखाअणीयोर्ध्वा व्यवस्थिता ॥११॥
नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा ।नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥१२॥
तस्याः शिखाया मध्ये पर-मात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥१३॥
अथातो योग जिह्वा मे मधुवादिनी । अहमेव कालो नाहं कालस्य ॥१४॥
नारायणः स्थितो व्यवस्थितश्चत्वारि च ॥१५॥
इति श्रीमहानारायणोपनिषदि एकादशः खण्डः ॥११॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णर्पिगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वैनमः ॥१॥
आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचांमण्डलं स ऋचां लोकोऽथ य एष एतस्मिन्मण्डले अर्चिषि पुरुषस्तानि यजूंषिस यजुषां मण्डलं स यजुषां लोकोऽथ य एष एतस्मिन्मण्डले अर्चिर्दीप्यतेतानि सामानि स साम्नां मण्डलं स साम्नां लोकः सैषा त्रय्येव विद्या तपतिय एषोऽन्तरादित्ये हिरण्मयः पुरुषः ॥२॥
आदित्यो वै तेज ओजो बलंयशश्चक्षुःश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशः । प्राणोलोकपालकः । किं तत्सत्यमन्नमायुरमृतो जीवो विश्वः । कतमः स्वयम्भूः प्रजा-पतिः संवत्सर इति । संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिः ।ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समान-लोकतामाप्नोति य एवं वेदेत्युपनिषत् ॥३॥
इति श्रीमहानारायणोपनिषदि द्वादशः खण्डः ॥१२॥
घृणिः सूर्य आदित्य ओम् ॥ अर्चयन्ति तपः सत्यं मधु क्षरन्ति तद्ब्रह्म तदापआपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥१॥
सर्वो वै रुद्रस्तस्मै रुद्रायनमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमो नमः । विश्वं भूतं भव्यं भुवनं चित्रंबहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥२॥
कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे । वोचेम शन्तमं हृदे ॥ सर्वो ह्येषरुद्रस्तस्मै रुद्राय नमो अस्तु ॥६॥
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्य-रूपाय हिरण्यपतये । अम्बिकापतये उमापतये नमो नमः ॥४॥
Page-----------------१५९--
यस्य वैकंकत्यग्निहोत्रहवणी भवति प्रतिष्ठिताः प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्यै॥५॥
कृणुष्व पाज इति पञ्च ॥६॥
अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽ-सुरास्तेषां सर्वभूतानां माता मेदिनी पृथिवी महती मही सावित्री गायत्रीजगत्युर्वी पृथ्वी बहुला विश्वा भूता । कतमा का या सा सत्येत्यमृतेतिवसिष्ठः ॥७॥
इति श्रीमहानारायणोपनिषदि त्रयोदशः खण्डः ॥१३॥
आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणो वा आपः पशव आपो अन्न-मापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दांस्यापो ज्योतींष्यापोयजूंष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवःसुवराप ओम् ॥१॥
आपःपुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातुमाम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापो असतां चप्रतिग्रहं स्वाहा ॥२॥
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्योरक्षन्ताम् । यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्नाअहस्तदवलुम्पत यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सत्ये ज्योतिषिजुहोमि स्वाहा ॥३॥
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्योरक्षन्ताम् । याया पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेणशिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सूर्येज्योतिषि जुहोमि स्वाहा ॥४॥
अहर्नो अत्यपीपरद्रात्रिर्नो अतिपारयद्रात्रिर्नोअत्यपीपरदहर्नो अतिपारयत् ॥५॥
इति श्रीमहानारायणोपनिषदि चतुर्दशः खण्डः ॥१४॥
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां माता इदंब्रह्म जुषस्व नः ॥ ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोम् ॥ गायत्रीमावाहयामिसावित्रीमावाहयामि सरस्वतीमावाहयामि ॥१॥
ॐ भूः । ॐ भुवः । ॐस्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यंभर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापोज्योतीरसोऽमृतंब्रह्म भूर्भुवःस्वरोम् ॥२॥
ॐ भूर्भुवः सुवर्महर्जनस्तपः सत्यं मधु क्षरन्ति ।तद्ब्रह्म । तदाप आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥३॥
ॐ तद्ब्रह्म ।ॐ तद्वायुः । ॐतदात्मा । ॐ तत्सर्वम् । ॐ तत्पुरॐ नमः ॥४॥
उत्तमेशिखरे देवी भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञाता गच्छ देवि यथासुखम् -----Page-----------------१६०--॥५॥
ॐ अन्तश्चरसि भूतेषु गुहायां विश्वमूर्तिषु । त्वं यज्ञस्त्वं विष्णुस्त्वंवषट्कारस्त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः ॥६॥
अमृतोपस्तरणमसि ॥७॥
प्राणे निविष्टोऽमृतं गुहोमि प्राणाय स्वाहा । अपाने निविष्टोऽमृतं जुहोमिअपानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि व्यानाय स्वाहा । उदानेनिविष्टोऽमृतं जुहोमि उदानाय स्वाहा । समाने निविष्टोऽमृतं जुहोमि समा-नाय स्वाहा ॥८॥
प्राणे निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय ।प्राणाय स्वाहा ॥ अपाने निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय । अपा-नाय स्वाहा ॥ व्याने निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय । व्यानायस्वाहा ॥ उदाने निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय । उदानायस्वाहा ॥ समाने निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय । समानायस्वाहा ॥९॥
अमृतापिधानमसि । ब्रह्मणि स आत्मामृतत्वाय ॥१०॥
इति श्रीमहानारायणोपनिषदि पंचदशः खण्डः ॥१५॥
श्रद्धायां प्राणे निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व ॥ अपाने निविश्यामृतं हुतम् । अपानमन्नेनाप्यायस्व ॥ व्याने निविश्यामृतं हुतम् । व्यान-मन्नेनाप्यायस्व ॥ उदाने निविश्यामृतं हुतम् । उदानमन्नेनाप्यायस्व ॥समाने निविश्यामृतं हुतम् । समानमन्नेनाप्यायस्व ॥ ब्रह्मणि स आत्मामृत-त्वाय ॥१॥
प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्व ॥२॥
अंगुष्ठमात्रः पुरुषो अंगुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातिविश्वभुक् ॥३॥
मेधा देवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना ।त्वया जुष्टा जुषमाणा दुरुक्तान् बृहद्वदेम विदथे सुवीराः ॥ त्वया जुष्ट ऋषि-र्भवतु देवी त्वया ब्रह्मा गतश्रीरुत त्वया । त्वया जुष्टश्चित्रं विन्दते वसु सानो जुषस्व द्रविणेन मेधे ॥४॥
मेधां मे इन्द्रो ददातु मेधां देवी सरस्वती ।मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ ॥५॥
अप्सरासु च या मेधा गन्ध-र्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् ॥६॥
आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसापिन्वमाना सा मां मेधा सुप्रतीका जुषताम् ॥७॥
इति श्रीमहानारायणोपनिषदि षोडशः खण्डः ॥१६॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भजस्व मांभवोद्भवाय नमः ॥१॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्रायनमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनायनमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥२॥
अघोरेभ्योऽथ घोरेभ्यो घोरे घोरतरेभ्यः । सर्वतः सर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥३॥
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥४॥
Page-----------------१६१--
ईशानःसर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तुसदाशिवोम् ॥५॥
ब्रह्म मेतु माम् । मधु मेतु माम् । ब्रह्म मेऽव मधु मेतु माम् ।यस्ते सोम प्रजावत्सोऽभि सो अहम् । दुःस्वप्नहन्दुरुष्वहा । यांस्ते सोम प्राणां-स्ताञ्जुहोमि ॥ त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नन्ति येब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥६॥
ब्रह्ममेधया मधुमेधया ब्रह्म मेऽव मधुमेधया ॥ अद्या नो देव सवितः प्रजाव-त्सावीः सौभगं । परा दुःष्वप्नियं सुव ॥ विश्वानि देव सवितर्दुरितानि परा-सुव । यद्भद्रं तन्न आसुव ॥ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तुनः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते घ्नन्ति ये ब्राह्म-णास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥७॥
ॐब्रह्ममेधवा मधुमेधवा ब्रह्म मेऽव मधुमेधवा ॥ बह्मा देवानां पदवीः कवीना-मृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्र-मत्येति रेभन् ॥ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।नृषद्वरसदृतसद्भ्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ य इमं त्रिसु-पर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपणपठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥८॥
इति श्रीमहानारायणोपनिषदि सप्तदशः खण्डः ॥१७॥
देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसिस्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसिस्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृमतस्यावयजनमसि स्वाहा । यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमसिस्वाहा । यच्चाहमेनो विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमसि स्वाहा ।यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्सुषुप्तश्च जाग्रत-श्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा ॥१॥
कामोऽकार्षीन्नाहं करोमि कामः करोति कामः कर्ता कामः कारयिता । एतत्तेकाम कामाय स्वाहा ॥२॥
मन्युरकार्षीन्नाहं करोमि मन्युः करोति मन्युःकर्ता मन्युः कारयिता । एतत्ते मन्यो मन्यवे स्वाहा ॥३॥
इति श्रीमहानारायणोपनिषद्यष्टादशः खण्डः ॥१८॥
Page-----------------१६२--तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः । तिलाः पुनन्तु मेपापं यत्किञ्चिद्दुरितं मयि स्वाहा । यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृ-तम् । दुःस्वप्नं दुर्जनस्पर्शं तिलाः शान्तिं कुर्वन्तु स्वाहा । चौरस्यान्नं नवश्राद्धंब्रह्महा गुरुतल्पगः । गोस्तेयं सुरापानं भ्रूणहत्यां तिलाः शमयन्तु स्वाहा ।गणान्नं गणिकान्नं कुष्टान्नं पतितान्नं भुक्त्वा वृषलीभोजनम् । श्रद्धा प्रजा चमेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा । श्रीश्च पुष्टिश्चानृण्यं ब्रह्मण्यं बहुपुत्रि-णम् । श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा ॥१॥
अग्नयेस्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । ध्रुवाय भूमाय स्वाहा । ध्रुवक्षितये स्वा-हा । धूमाय स्वाहा । अच्युतक्षितये स्वाहा । अग्नये स्विष्टकृते स्वाहा । धर्मायस्वाहा । अधर्माय स्वाहा । अद्भ्यः स्वाहा । ओषधिवनस्पतिभ्यः स्वाहा ।रक्षोदेवजनेभ्यः स्वाहा । गृह्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अव-सानपतिभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । कामाय स्वाहा । अन्तरिक्षायस्वाहा । यदेजति जगति यच्च चेष्टति नान्यो भागो यत्नान्मे स्वाहा । पृथिव्यैस्वाहा । अन्तरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसेस्वाहा । नक्षत्रेभ्यः स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतयेस्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्यः । नमो रुद्राय पशुपतये स्वाहा ।देवेभ्यः स्वाहा । पितृभ्यः स्वधा अस्तु । भूतेभ्यो नमः । मनुष्येभ्यो हन्ता ।परमेष्ठिने स्वाहा ॥२॥
इति श्रीमहानारायणोपनिषद्येकोनविंशः खण्डः ॥१९॥
ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्ठाः । तेभ्यो बलिंपुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा ॥१॥
सजोषा इन्द्र स-गणो मरुद्भिः सोमं पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूंरपमृधो नुदस्वाथाभ-यं कृणुहि विश्वतो नः ॥२॥
त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवंशूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥३॥
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतिभिर्वि-द्विषो विमृधो जहि ॥४॥
स्वस्तिदा विशाम्पतिर्वृत्रहा विमृधो वशी । वृषे-न्द्रः पुर एतु नः सोमपा अभयंकरः ॥५॥
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवोन सनिता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वागद्भिर्विह्वयामहे ॥६॥
तर-णिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥७॥
उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥८॥
विष्णुमुखा वै देवाश्छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन् ॥९॥
श्री मे भजत । अलक्ष्मी मे नश्यत ॥१०॥
Page-----------------१६३--
महाँ इन्द्रो वज्रबाहुः षोडशी शर्मयच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान्द्वेष्टि ॥११॥
शरीरंयज्ञः शमलं कुसीदं तस्मिन्त्सीदतु योऽस्मान्द्वेष्टि ॥१२॥
वरुणस्य स्कम्भनमसिवरुणस्य स्कम्भसर्जनमसि । उन्मुक्तो वरुणस्य पाशः ॥१३॥
त्रीणि पदा वि-चक्रमे विष्णुर्गोपा अदाभ्यः । इतो धर्माणि धारयन् ॥१४॥
प्राणापानव्या-नोदानसमाना मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा॥१५॥
वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिसंकल्पा मे०॥१६॥
शिरःपाणिपादपार्श्वपृष्ठोदरजंघाशिश्नोपस्थपायवो मे०॥१७॥
त्वक्चर्ममांस-रुधिरस्नायुमेदोस्थिमज्जा मे०॥१८॥
शब्दस्पर्शरसरूपगन्धा मे०॥१९॥
पृथिव्यप्तेजोवाय्वाकाशा मे०॥२०॥
अन्नमयप्राणमयमनोमयविज्ञानमयानन्द-मया मे०॥२१॥
विचिटि स्वाहा ॥२२॥
खखोल्काय स्वाहा ॥२३॥
उत्तिष्ठ पुरुषाहरितपिंगल लोहिताक्ष देहि देहि ददापयिता मे शुध्यन्ताम् ।ज्योतिरहं ०॥२४॥
शुक्रशोणितओजांसि मे शुध्यन्ताम् । ज्योतिरहं विरजाविपाप्मा भूयासं स्वाहा ॥२५॥
इति श्रीमहानारायणोपनिषदि विंशः खण्डः ॥२०॥
ॐ स्वाहा ॥१॥
सत्यं परं परं सत्यं सत्येन न सुवर्गाल्लोकाच्चयवन्ते कदा-चन सतां हि सत्यं तस्मात्सत्ये रमन्ते ॥ तप इति तपो नानशनात्परं यद्धि परंतपस्तद्दुर्धर्षं तद्दुराधर्षं तस्मात्तपसि रमन्ते ॥ दम इति नियतं ब्रह्मचारिण-स्तस्माद्दमे रमन्ते ॥ शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते ॥ दानमितिसर्वाणि भूतानि प्रशंसन्ति दानान्नातिदुष्करं तस्माद्दाने रमन्ते ॥ धर्म इतिधर्मेण सर्वमिदं परिगृहीतं धर्मान्नातिदुश्चरं तस्माद्धर्मे रमन्ते ॥ प्रजननमितिभूयांसस्तस्माद्भूयिष्ठाः प्रजायन्ते तस्माद्भूयिष्ठाः । प्रजनने रमन्ते ॥ अग्नेयैत्याहुस्तस्मादग्नय आधातव्याः ॥ अग्निहोत्रमित्याहुस्तस्मादग्निहोत्रे रमन्ते ॥यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते ॥मानसमिति विद्वांसस्तस्माद्विद्वांस एव मानसे रमन्ते ॥ न्यास इति ब्रह्माब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपांसि न्यासएवात्यरेचयत् । य एवं वेदेत्युपनिषत् ॥२॥
इति श्रीमहानारायणोपनिषदि एकविंशः खण्डः ॥२१॥
प्राजापत्यो हारुणिः सौपर्णेयः प्रजापतिं पितरमुपससार किं भगवन्तः परमंवदन्तीति । तस्मै प्रोवाच सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यंवाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं वदन्ति । तपसा देवा-----Page-----------------१६४--देवतामग्र आयंस्तपसऋषयः सुवरन्वविन्दंस्तपसा सपत्नान्प्रणुदामारातीस्तपसिसर्वं प्रतिष्ठितं तस्मात्तपः परमं वदन्ति । दमेन दान्ताः किल्बिषमवधून्वन्तिद्रमेन ब्रह्मचारिणः सुवरगच्छन्दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्मा-द्दमः परमं वदन्ति । शमेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्ववि-न्दन् । शमो भूतानां दुराधर्षं शमे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति ।दानं यज्ञानां वरूथं दक्षिणा लोके दातारं सर्वभूतान्युपजीवन्ति दानेनारातीर-पानुदन्त दानेन द्विषन्तो भित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमंवदन्ति । धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्टं प्रजा उपसर्पन्ति धर्मेणपापमपनुदन्ति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति । प्रजननं वै प्रतिष्ठालोके साधुप्रजावांस्तन्तुं तन्वानः पितॄणामनृणो भवति तदेव तस्यानृणं तस्मा-त्प्रजननं परमं वदन्ति । अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्यमृक्पृथिवी रथन्तरमन्वाहार्यपचनो यजुरन्तरिक्षं वामदेव्यमाहवनीयः सामसुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति । अग्निहोत्रं सायम्प्रातर्गृहाणांनिष्कृतिः स्विष्टं सुहुतं यज्ञक्रतूनां प्रायणं सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्नि-होत्रं परमं वदन्ति ॥१॥
इति श्रीमहानारायणोपनिषदि द्वाविंशः खण्डः ॥२२॥
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गता यज्ञेनासुरानपानुदन्तयज्ञेन हि द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति ।मानसं वै प्राजापत्यं पवित्रं मानसेन मनसा साधु पश्यति मानसा ऋषयः प्रजाअसृजन्त मानसे सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति । न्यास इत्याहुर्म-नीषिणो ब्रह्माणम् । ब्रह्मा विश्वः कतमः । स्वयम्भूः प्रजापतिः संवत्सर इति ।संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स एव परमेष्ठी ब्रह्मात्मा । या-भिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयःप्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसाश्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्याचित्तं चित्तेन स्मृतिः स्मृत्या स्मारं स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति ।तस्मादन्नं ददन्त्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनोमनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः । स वा एष पुरुषः पञ्चधापञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्चसर्वैः सर्वमिदं जगत् ॥१॥
इति श्रीमहानारायणोपनिषदि त्रयोविंशः खण्डः ॥२३॥
Page-----------------१६५--
स भूतं स च भव्यं जिज्ञासासक्तिपूरितं जारयिष्ठाः । श्रद्धासत्यो महस्वां-स्तपसोपरिष्टाज्ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् ।तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ॥१॥
वसुरण्यो विभूरसि प्राणे त्वम-सि सन्धाता ब्रह्मन् त्वमसि विश्वसृक् तेजोदास्त्वमस्यग्नेर्वर्चोदास्त्वमसि सूर्य-स्य द्युम्नोदास्त्वमसि चन्द्रमसः । उपयाम गृहीतोऽसि । ब्रह्मणे त्वा महसओमित्यात्मानं युञ्जीत । एतद्वै महोपनिषदं देवानां गुह्यम् । य एवं वेदब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानमित्युपनिषत् ॥२॥
इति श्रीमहानारायणोपनिषदि चतुर्विंशः खण्डः ॥२४॥
तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्म उरो वेदिर्लोमानिबर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयितादक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत् । यावद्ध्रियते सा दीक्षा यदश्नाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदोयत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं तदाहवनीयो याद्याहुती-राहुती यदस्य विज्ञानं तज्जुहोति यत्सायम्प्रातरत्ति तत्समिधो यत्सायम्प्रातर्म-ध्यन्दिनं च तानि सवनानि । ये अहोरात्रे ते दर्शपूर्णमासौ ये अर्धमासाश्चमासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्चतेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः । एतद्वै जरामर्यमग्नि-होत्रं सत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्यसायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसःसायुज्यं गच्छति । एतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयतितस्माद्ब्राह्मणो महिमानमाप्नोति तस्माद्ब्राह्मणो महिमानमाप्नोतीत्युपनिषत् ॥१॥
इति श्रीमहानारायणोपनिषदि पञ्चविंशः खण्डः ॥२५॥
इत्याथर्वणीया महानारायणोपनिषत्समाप्ता ।
परमहंसोपनिषत् ॥२०॥
परमहंसोपनिषद्वेद्यापारसुखाकृति ।त्रैपादश्रीरामतत्त्वं स्वमात्रमिति चिन्तये ॥ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥ अथ योगिनां परमहंसानां कोऽयं मार्गस्तेषां का स्थितिरितिनारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके-----Page-----------------१६६--दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः स एव वेद-पुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते तस्मा-दहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादीञ्छिखायज्ञोपवीतेस्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनंच स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् । तच्च न मुख्योऽस्तिकोऽयं मुख्य इति चेदयं मुख्यः । न दण्डं न शिखां न यज्ञोपवीतंन चाच्छादनं चरति परमहंसो न शीतं न चोष्णं न सुखं न दुःखंन मानावमाने च षडूर्मिवर्जं निन्दागर्वमत्सरदम्भदर्पेच्छाद्वेषसुखदुःख-कामक्रोधलोभमोहहर्षासूयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृश्यतेयतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन नित्यनिवृत्तस्त-न्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दविज्ञानघन एवास्मि ।तदेव मम परमधाम तदेव शिखा च तदेवोपवीतं च । परमात्मात्मनोरेकत्व-ज्ञानेन तयोर्भेद एव विभग्नः सा संध्या ॥ सर्वान्कामान्परित्यज्य अद्वैते परम-स्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ॥ काष्ठदण्डो धृतो येनसर्वाशी ज्ञानवर्जितः । तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः । भिक्षा-मात्रेण यो जीवेत्स पापी यतिवृत्तिहा । स याति नरकान्घोरान्महारौरव-संज्ञकान् । इदमन्तरं ज्ञात्वा स परमहंस आशाम्बरो ननमस्कारो नस्वधा-कारो न निन्दा न स्तुतिर्यादृच्छिको भवेद्भिक्षुः । नावाहनं न विसर्जनंन मन्त्रं न ध्यानं नोपासनं च न लक्ष्यं नालक्ष्यं न पृथङ्नापृथगहं न न त्वंन सर्वं चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनां नैव परिग्रहेन्न लोकं नाव-लोकं च चाबाधकः क इति चेद्बाधकोऽस्त्येव यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टंच स ब्रह्महा भवेद्यस्माद्भिक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पौल्कसो भवेद्यस्मा-द्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत्तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टंच स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता व्यावर्तन्ते दुःखे नोद्विग्नःसुखे न स्पृहा त्यागो रागे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च ।सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते । यत्पूर्णानन्दैकबोध-स्तद्ब्रह्मैवाहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवति ॥ॐ पूर्णमद इति शान्तिः ॥ इति परमहंसोपनिषत्समाप्ता ॥
Page-----------------१६७--