ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-१०१-११०

विकिस्रोतः तः
Jump to navigation Jump to search

याज्ञवल्क्योपनिषत् ॥१०१॥[सम्पाद्यताम्]

संन्यासज्ञानसंपन्ना यान्ति यद्वैष्णवं पदम् ।तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥१॥

ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥

अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यास-मनुब्रूहीति कथं संन्यासलक्षणम् । स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्यगृही भवेत् । गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्र-जेद्गृहाद्वा वनाद्वा । अथ पुनर्व्रती वाऽव्रती वा स्नातको वाऽस्नातको वाउत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । तदेके प्राजाप-त्यामेवेष्टिं कुर्वन्ति । अथवा न कुर्यादाग्नेय्यामेव कुर्यात् । अग्निर्हिप्राणः । प्राणमेवैतया करोति । त्रैधातवीयामेव कुर्यात् । एतयैव त्रयोधातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिरृत्विजो यतो जातोअरोचथाः । तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणा-ग्निमाजिघ्रेत् । एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहे-त्येवमेवैतदाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् । यदग्निं न विन्देदप्सुजुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यंहविरनामयम् । मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् । शिखां यज्ञो-पवीतं छित्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् । एवमेवैतद्भगवन्निति वै याज्ञ-वल्क्यः ॥१॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपोवीती कथं ब्राह्मण इति ।स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याच-म्यायं विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणोब्रह्मभूयाय भवति । एष पन्थाः परिव्राजकानां वीराध्वनि वाऽनाशके वापांप्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा । एष पन्था ब्रह्मणा हानुवित्तस्तेनेति-----Page-----------------६०२--स संन्यासी ब्रह्मविदिति । एवमेवैष भगवन्निति वै याज्ञवल्क्य । तत्र परम-हंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेवहारी-तकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः परस्त्रीपुर-पराङ्मुखास्त्रिदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्त-श्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् । यथा जातरूपधरानिर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः प्राणसंधार-णार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वाकरपात्रेण वा कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः पात्रान्तरशून्योजलस्थलकमण्डलुरबाधकरहःस्थलनिकेतनो लाभालाभौ समौ भूत्वा शून्या-गारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिनगिरिकु-हरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्यप्रयत्नः शुभाशुभकर्मनिर्मूलनपरःसंन्यासेन देहत्यागं करोति स परमहंसो नामेति । आशाम्बरो ननमस्कारोनदारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः परिव्राट् परमेश्वरो भवति । अत्रैतेश्लोका भवन्ति--यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । तस्मै प्रणामःकर्तव्यो नेतराय कदाचन ॥१॥

प्रमादिनो बहिश्चित्ताः पिशुनाः कलहो-त्सुकाः । संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ॥२॥

नामादिभ्यःपरे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वये । प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणातदा ॥३॥

ईश्वरो जीवकलया प्रविष्टो भगवानिति । प्रणमेद्दण्डवद्भूमावा-श्वचण्डालगोखरम् ॥४॥

मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे । स्नाय्व-स्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥५॥

त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृ-त्वा विलोचने । समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥६॥

मेरुशृङ्गतटो-ल्लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥७॥

श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्डैवान्धसः ॥८॥

केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृता-ग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥९॥

ज्वलना अतिदूरेऽपि सरसा अपिनीरसाः । स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥१०॥

कामनाम्नाकिरातेन विकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥११॥

जन्मपल्वलमत्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारीबडिश-----Page------------------६०३--पिण्डिका ॥१२॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । दुःखशृङ्खलयानित्यमलमस्तु मम स्त्रिया ॥१३॥

यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्वभोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥१४॥

अल-भ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । लब्धो हे गर्भपातेन प्रसवेन च बाधते॥१५॥

जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । उपनीतेऽप्यविद्यत्वमनु-द्वाहश्च पण्डिते ॥१६॥

यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । पुत्रदुःखस्यनास्त्यन्तो धनी चेन्म्रियते तदा ॥१७॥

न पाणिपादचपलो न नेत्रचपलोयतिः । न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥१८॥

रिपौ बद्धे स्वदेहेच समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥१९॥

अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्यपरिपन्थिनि ॥२०॥

नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।कोपस्य मम वैराग्यदायिने दोषबोधिने ॥२१॥

यत्र सुप्ता जना नित्यंप्रबुद्धस्तत्र संयमी । प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥२२॥

चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं चिदहमेते च लोका-श्चिदिति भावय ॥२३॥

यतीनां तदुपादेयं पारहंस्यं परं पदम् । नातःपरतरं किंचिद्विद्यते मुनिपुङ्गव ॥२४॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ पूर्णमद इति शान्तिः ॥इति याज्ञवल्क्योपनिषत्समाप्ता ॥१०१॥

वराहोपनिषत् ॥१०२॥[सम्पाद्यताम्]

श्रीमद्वराहोपनिषद्वेद्याखण्डसुखाकृति ।त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥ अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार । तद-वसाने वराहरूपी भगवान्प्रादुरभूत् । स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति ।सोदतिष्ठत् । तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सका-शात्स्वप्नेऽपि न याचे । समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानिब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः । अतस्त्वद्रूपप्रतिपादिकां ब्रह्म-विद्यां ब्रूहीति होवाच । तथेति स होवाच वराहरूपी भगवान् । चतुर्विंशति-----Page------------------६०४--तत्त्वानि केचिदिच्छन्ति वादिनः । केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनिच ॥१॥

तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु । ज्ञानेन्द्रियाणिपञ्चैव श्रोत्रत्वग्लोचनादयः ॥२॥

कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयःक्रमात् । प्राणादयस्तु पञ्चैव पञ्च शब्दादयस्तथा ॥३॥

मनोबुद्धि-रहंकारश्चित्तं चेति चतुष्टयम् । चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः॥४॥

एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च । पृथिव्यापस्तथा तेजोवायुराकाशमेव च ॥५॥

देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः । अवस्था-त्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः ॥६॥

आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयोविदुः । पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् ॥७॥

षड्भावविकृति-श्चास्ति जायते वर्धतेऽपि च । परिणामं क्षयं नाशं षड्भावविकृतिं विदुः॥८॥

अशना च पिपासा च शोकमोहौ जरा मृतिः । एते षडूर्मयः प्रोक्ताःषट्कोशानथ वच्मि ते ॥९॥

त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत ।कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च ॥१०॥

एतेऽरिषड्वा विश्वश्चतैजसः प्राज्ञ एव च । जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् ॥११॥

प्रार-ब्धागाम्यर्जितानि कर्मत्रयमितीरितम् । वचनादानगमनविसर्गानन्दपञ्चकम्॥१२॥

संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा । मुदिता करुणा मैत्रीउपेक्षा च चतुष्टयम् ॥१३॥

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः ।तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥१४॥

आहत्य तत्त्वजातानां षण्ण-वत्यस्तु कीर्तिताः । पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् ॥१५॥

वराह-रूपिणं मां ये भजन्ति मयि भक्तितः । विमुक्ताज्ञानतत्कार्या जीवन्मुक्ताभवन्ति ते ॥१६॥

ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः । जटी मुण्डीशिखी वापि मुच्यते नात्र संशयः ॥१७॥

इति ॥इति वराहोपनिषत्सु प्रथमोऽध्यायः ॥१॥

ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् । वरिष्ठां ब्रह्मविद्यां त्वमधीहिभगवन्मम ॥१॥

एवं स पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः । स्ववर्णाश्रम-धर्मेण तपसा गुरुतोषणात् ॥२॥

साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ।नित्यानित्यविवेकश्च इहामुत्र विरागता ॥३॥

शमादिषट्कसंपत्तिर्मुमुक्षातां समभ्यसेत् । एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् ॥४॥

विहायसाक्षिचैतन्ये मयि कुर्यादहंमतिम् । दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम्-----Page-----------------६०५--॥५॥

ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना । अतिवर्णाश्रमं रूपं सच्चिदा-नन्दलक्षणम् ॥६॥

यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति । अहमेवसुखं नान्यदन्यच्चेन्नैव तत्सुखम् ॥७॥

अमदर्थं न हि प्रेयो मदर्थं न स्वतःप्रियम् ।परप्रेमास्पदतया मा न भूवमहं सदा ॥८॥

भूयासमिति यो द्रष्टा सोऽहंविष्णुर्मुनीश्वर । न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ॥९॥

स्वप्रकाशंतमात्मानमप्रकाशः कथं स्पृशेत् । स्वयं भातं निराधारं ये जानन्ति सुनि-श्चितम् ॥१०॥

ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः । स्वपूर्णात्मा-तिरेकेण जगज्जीवेश्वरादयः ॥११॥

न सन्ति नास्ति माया च तेभ्यश्चाहंविलक्षणः । अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् ॥१२॥

स्वयंप्रकाश-मात्मानं नैव मां स्प्रष्टुमर्हति । सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम्॥१३॥

ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् । भासमानमिदं सर्वं मान-रूपं परं पदम् ॥१४॥

पश्येन्वेदान्तमानेन सद्य एव विमुच्यते । देहात्म-ज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ॥१५॥

आत्मन्येव भवेद्यस्य स नेच्छ-न्नपि मुच्यते । सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् ॥१६॥

ब्रह्मानन्दंसदा पश्यन्कथं बध्येत कर्मणा । त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम्॥१७॥

त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः । सर्वगं सच्चिदात्मानं ज्ञान-चक्षुर्निरीक्षते ॥१८॥

अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् । प्रज्ञानमेवतद्ब्रह्म सत्यप्रज्ञानलक्षणम् ॥१९॥

एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ।तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ॥२०॥

विदित्वा स्वात्मनो रूपं नबिभेति कुतश्चन । चिन्मात्रं सर्वगं नित्यं संपूर्णं सुखमद्वयम् ॥२१॥

साक्षाद्ब्रह्मैवनान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः । अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमर्यजगत् ॥२२॥

अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् । अनन्तेसच्चिदानन्दे मयि वाराहरूपिणि ॥२३॥

स्थितेऽद्वितीयभावः स्यात्को बद्धःकश्च मुच्यते । स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् ॥२४॥

नैवदेहादिसंघातो घटवद्दृशिगोचरः । स्वात्मनोऽन्यदिवाभातं चराचरमिदंजगत् ॥२५॥

स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय । स्वस्वरूपं स्वयंभुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ॥२६॥

अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्व-लक्षणम् । ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् ॥२७॥

पश्यन्नपि सदानैव पश्यति स्वात्मनः पृथक् । मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥२८॥


Page-----------------६०६--यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् । परमार्थैकविज्ञानं सुखात्मानंस्वयंप्रभम् ॥२९॥

स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः । स धीरः स तुविज्ञेयः सोऽहंतत्त्वं ऋभो भव ॥३०॥

अतः प्रपञ्चानुभवः सदा न हिस्वरूपबोधानुभवः सदा खलु । इति प्रपश्यन्परिपूर्णवेदनो न बन्धमुक्तो न चबद्ध एव तु ॥३१॥

स्वस्वरूपानुसंधानान्नृत्यन्तं सर्वसाक्षिणम् । मुहूर्तंचिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते ॥३२॥

सर्वभूतान्तरस्थाय नित्यमुक्त-चिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥३३॥

त्वं वाऽहमस्मिभगवो देव तेऽहं वै त्वमसि । तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने॥३४॥

नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च । किं करोमि क्व गच्छामिकिं गृह्णामि त्यजामि किम् ॥३५॥

यन्मया पूरितं विश्वं महाकल्पाम्बुनायथा । अन्तःसङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् । सर्वसङ्गनिवृत्तात्मा समामेति न संशयः ॥३६॥

अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिवसुनारीं त्यक्तुवामो विरागी । विषमिव विषयादीन्मन्यमानो दुरन्ताञ्जगतिपरमहंसो वासुदेवोऽहमेव ॥३७॥

इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ।अहं सत्यं परं ब्रह्म मत्तः किंचिन्न विद्यते ॥३८॥

उप समीपे यो वासोजीवात्मपरमात्मनोः । उपवासः स विज्ञेयो न नु कायस्य शोषणम् ॥३९॥

कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् । वल्मीकताडनादेव मृतः किं नुमहोरगः ॥४०॥

अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहंब्रह्मेतिचेद्वेद साक्षात्कारः स उच्यते ॥४१॥

यस्मिन्काले स्वमात्मानं योगी जानातिकेवलम् । तस्मात्कालात्समारभ्य जीवन्मुक्तो भवेदसौ ॥४२॥

अहंब्रह्मेतिनियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च॥४३॥

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । बाह्यचिन्ता न कर्तव्यातथैवान्तरचिन्तिका । सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो ॥४४॥

संकल्पमात्रकलनेन जगत्समग्रं संकल्पमात्रकलने हि जगद्विलासः । संकल्प-मात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व ॥४५॥

मच्चि-न्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् । मदेकपरमो भूत्वा कालं नय महा-मते ॥४६॥

चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं चिदहमेतेच लोकाश्चिदिति भावय ॥४७॥

रागं नीरागतां नीत्वा निर्लेपो भवसर्वदा । अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा ॥४८॥

श्रुत्युत्पन्नात्मविज्ञान-----Page------------------६०७--प्रदीपो बाध्यते कथम् । अनात्मतां परित्यज्य निर्विकारो जगत्स्थितौ ॥४९॥

एकनिष्ठतयान्तःस्थसंविन्मात्रपरो भव । घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ॥५०॥

एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ । या च प्रागात्मनो मायातथान्ते च तिरस्कृता ॥५१॥

ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः । माया-तत्कार्यविलये नेश्वरत्वं न जीवता ॥५२॥

ततः शुद्धश्चिदेवाहं व्योमवन्निरुपा-धिकः । जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ॥५३॥

ईक्षणादिप्रवेशान्तासृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥५४॥

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः । लोकाग्रतादिसांख्यान्ताजीवविश्रान्तिमाश्रिताः ॥५५॥

तस्मान्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः ।कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥५६॥

अद्वितीयब्रह्मतत्त्वं नजानन्ति यथा तथा । भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम्॥५७॥

उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् । स्वप्नस्थराज्यभिक्षाभ्यांप्रबुद्धः स्पृशते खलु ॥५८॥

अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥५९॥

बुद्धेः पूर्णविकासोऽयंजागरः परिकीर्त्यते । विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥६०॥

सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते । संचारधर्मरहिते मयि स्वप्नोन विद्यते ॥६१॥

सुषुप्तिकाले सकले विलीने तमसावृते । स्वरूपं महदा-नन्दं भुङ्क्ते विश्वविवर्जितः ॥६२॥

अविशेषेण सर्वं तु यः पश्यति चिदन्व-यात् । स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥६३॥

दीर्घस्वप्नमिदंयत्तद्दीर्घं वा चित्तविभ्रमम् । दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् ।सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ॥६४॥

आरोपितस्य जगतःप्रविलापनेन चित्तं मदात्मकतया परिकल्पितं नः । शत्रून्निहत्य गुरुषट्कगणा-न्निपाताद्गन्धद्विपो भवति केवलमद्वितीयः ॥६५॥

अद्यास्तमेतु वपुराशशि-तारमास्तां कस्तावतापि मम चिद्वपुषो विशेषः । कुम्भे विनश्यति चिरं सम-वस्थिते वा कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥६६॥

अहिनिर्ल्वयनीसर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥६७॥

एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्या-ज्ञाने सहेतुके । नेति नेतीति रूपत्वादशरीरो भवत्ययम् ॥६८॥

शास्त्रेण-----Page-----------------६०८--न स्यात्परमार्थदृष्टिः कार्यक्षमं पश्यति चापरोक्षम् । प्रारब्धनाशात्प्रतिभान-नाश एवं त्रिधा नश्यति चात्ममाया ॥६९॥

ब्रह्मत्वे योजिते स्वामिञ्जीव-भावो न गच्छति । अद्वैते बोधिते तत्त्वे वासना विनिवर्तते ॥७०॥

प्रार-ब्धान्ते देहहानिर्मायेति क्षीयतेऽखिला । अस्तीत्युक्ते जगत्सर्वं सद्रसं ब्रह्मतद्भवेत् ॥७१॥

भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् । मरुभूमौ जलंसर्वं मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥७२॥

अज्ञानमेव न कुतो जगतः प्रसङ्गो जीवेशदेशिकविकल्पकथातिदूरे । एकान्त-केवलचिदेकरसस्वभावे ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥७३॥

बोधचन्द्रमसिपूर्णविग्रहे मोहराहुमुषितात्मतेजसि । स्नानदानयजनादिकाः क्रिया मोचना-वधि वृथैव तिष्ठते ॥७४॥

सलिले सैन्धवं यद्वत्साम्यं भवति योगतः ।तथाऽऽत्ममनसोरैक्यं समाधिरिति कथ्यते ॥७५॥

कुर्लभो विषयत्यागो दुर्लभंतत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७६॥

उत्पन्न-शक्तिबोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेव प्रकाशते॥७७॥

रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं नसिद्ध्यति भूतले ॥७८॥

मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।बद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि ॥७९॥

इन्द्रियाणां मनो नाथोमनोनाथस्तु मारुतः । मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय ॥८०॥

निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् । उच्छिन्नसर्वसंकल्पो निःशे-षाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि मनसां वागगोचरः ॥८१॥

पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि ब्रह्मावलोकनधियं न जहाति योगी । सङ्गीत-ताललयवाद्यवशं गतापि मौलिस्थकुम्भपरिरक्षणधीर्नटीव ॥८२॥

सर्व-चिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमि-च्छता ॥८३॥

इति ॥इति वराहोपनिषत्सु द्वितीयोऽध्यायः ॥२॥

नहि नानास्वरूपं स्यादेकं वस्तु कदाचन । तस्मादखण्ड एवास्मि यन्मद-न्यन्न किंचन ॥१॥

दृश्यते श्रूयते यद्यब्रह्मणोऽन्यन्न तद्भवेत् । नित्यशुद्धवि-मुक्तैकमखण्डानन्दमद्वयम् । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥२॥

आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं घनचित्प्रकाशः । मेधा यथा व्योमन च स्पृशन्ति संसारदुःखानि न मां स्पृशन्ति ॥३॥

सर्वं सुखं विद्धि-----Page-----------------६०९--सुदुःखनाशात्सर्वं च सद्रूपमसत्यनाशात् । चिद्रूपमेव प्रतिभानयुक्तं तस्माद-खण्डं मम रूपमेतत् ॥४॥

न हि जनिर्मरणं गमनागमौ न च मलं विमलंन च वेदनम् । चिन्मयं हि सकलं विराजते स्फुटतरं परमस्य तु योगिनः॥५॥

सत्यचिद्घनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलम-द्वयं शिवं तत्सदाऽहमिति मौनमाश्रय ॥६॥

जन्ममृत्युसुखदुःखवर्जितंजातिनीतिकुलगोत्रदूरगम् । चिद्विवर्तजगतोऽस्य कारणं तत्सदाऽहमिति मौन-माश्रय ॥७॥

पूर्णमद्वयमखण्डचेतनं विश्वभेदकलनादिवर्जितम् । अद्वितीय-परसंविदंशकं तत्सदाऽहमिति मौनमाश्रय ॥८॥

केनाप्यबाधितत्वेन त्रिकाले-ऽप्येकरूपतः । विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम ॥९॥

निरुपाधि-कनित्यं यत्सुप्तौ सर्वसुखात्परम् । सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम॥१०॥

दिनकरकिरणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेति ।घनतरभवकारणं तमो यद्धरिदिनकृत्प्रभया न चान्तरेण ॥११॥

मम चरण-स्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः । न हि मरणप्रभव-प्रणाशहेतुर्मम चरणस्मरणादृतेऽस्ति किंचित् ॥१२॥

आदरेण यथा स्तौतिधनवन्तं धनेच्छया । तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥१३॥

आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु । तथा मत्संनिधावेव समस्तं चेष्टतेजगत् ॥१४॥

शुक्तिकाया यथा तारं कल्पितं मायया तथा । महदादि-जगन्मायामयं मय्येव केवलम् ॥१५॥

चण्डालदेहे पश्वादिस्थावरे ब्रह्म-विग्रहे । अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् ॥१६॥

विनष्टदिग्भ्रमस्या-पि यथापूर्वं विभाति दिक् । तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि॥१७॥

न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति । न चित्तं नैव माया चन च व्योमादिकं जगत् ॥१८॥

न कर्ता नैव भोक्ता च न च भोजयितातथा । केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः ॥१९॥

जलस्य चलनादेवचञ्चलत्वं यथा रवेः । तथाऽहंकारसंबन्धादेव संसार आत्मनः ॥२०॥

चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् । हन्त चित्तमहत्तायां कैषा विश्वासतातव ॥२१॥

क्व धनानि महीपानां ब्राह्मणः क्व जगन्ति वा । प्राक्तनानिप्रयातानि गताः सर्गपरम्पराः । कोटयो ब्रह्मणां याता भूपां नष्टाः पराग-वत् ॥२२॥

स चाध्यात्माभिमानोऽपि विदुषोऽप्यासुरत्वतः । विदुषोऽप्यासुर-----Page------------------६१०--श्चेत्स्यान्निष्फलं तत्त्वदर्शनम् ॥२३॥

उत्पाद्यमाना रागाद्या विवेकज्ञान-वह्निना । यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥२४॥

यथा सुनिपुणःसम्यक् परदोषेक्षणे रतः । तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात्॥२५॥

अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति । द्रव्यमन्त्रक्रियाकाल-युक्त्याप्नोति मुनीश्वर ॥२६॥

नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।आत्मनाऽऽत्मनि संतृप्तो नाविद्यामनुधावति ॥२७॥

ये केचन जगद्भावास्ता-नविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥२८॥

द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्तिकाश्चन ॥२९॥

सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनःसिद्धि-वाञ्छायां कथमर्हत्यचित्ततः ॥३०॥

इति ॥इति वराहोपनिषत्सु तृतीयोऽध्यायः ॥३॥

अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति ।तथेति च होवाच । सप्तभूमिषु जीवन्मुक्ताश्चत्वारः । शुभेच्छा प्रथमा भूमिकाभवति । विचारणा द्वितीया । तनुमानसी तृतीया । सत्त्वापत्तिस्तुरीया ।असंसक्तिः पञ्चमी । पदार्थभावना षष्ठी । तुरीयगा सप्तमी । प्रणवात्मिकाभूमिकाऽकारोकारमकारार्धमात्रात्मिका । स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारा-दयश्चतुर्विधाः । तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः । अकारस्थूलांशे जाग्र-द्विश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः । उकार-स्थूलांशे स्वप्नविश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तु-रीयः । मकारस्थूलांशे सुषुप्तविश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः ।साक्ष्यंशे तत्तुरीयः । अर्धमात्रास्थूलांशे तुरीयविश्वः । सूक्ष्मांशे तत्तैजसः ।बीजांशे तत्प्राज्ञः । साक्ष्यंशे तुरीयतुरीयः । अकारतुरीयांशाः प्रथमद्वितीय-तृतीयभूमिकाः । उकारतुरीयांशा चतुर्थी भूमिका । मकारतुरीयांशा पञ्चमी ।अर्धमात्रातुरीयांशा षष्ठी । तदतीता सप्तमी । भूमित्रयेषु विहरन्मुमुक्षुर्भवति ।तुरीयभूम्यां विहरन्ब्रह्मविद्भवति । पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति ।षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति । सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठोभवति । तत्रैते श्लोका भवन्ति -- ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।विचारणा द्वितीया तु तृतीया तनुमानसी ॥१॥

सत्त्वापत्तिश्चतुर्थी स्यात्ततो-----Page------------------६११--ऽसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥२॥

स्थितः किंमूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभे-च्छेत्युच्यते बुधैः ॥३॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचार- प्रवृत्तिर्या प्रोच्यते सा विचारणा ॥४॥

विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषुरक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥५॥

भूमिकात्रितया-भ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥६॥

दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्ति-नामिका ॥७॥

भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्त-राणां बाह्यानां पदार्थानामभावनात् ॥८॥

परप्रयुक्तेन चिरं प्रत्ययेनावबो-धनम् । पदार्थभावना नाम षष्ठी भवति भूमिका ॥९॥

षड्भूमिकाचिरा-भ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥१०॥

शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् । तथावद्वेद बुद्ध्येदं जगज्जाग्रतिदृश्यते ॥११॥

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नव-ल्लोकं तुर्यभूमिसुयोगतः ॥१२॥

विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ।सत्त्वावशेष एवास्ते हे निदाघ दृढीकुरु ॥१३॥

पञ्चभूमिं समारुह्य सुषुप्ति-पदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ॥१४॥

अन्तर्मुखतयानित्यं बहिर्वृत्तिपरोऽपि सन् । परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥१५॥

कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः । सप्तमी गाढसुप्त्याख्या क्रम-प्राप्ता पुरातनी ॥१६॥

यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः । केवलंक्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥१७॥

अन्तःशून्यो बहिःशून्यः शून्य-कुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥१८॥

मा भवग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टंतन्मयो भव ॥१९॥

द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथ-माभासमात्मानं केवलं भज ॥२०॥

यथास्थितमिदं यस्य व्यवहारवतोऽपिच । अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥२१॥

नोदेति नास्तमा-याति सुखे दुःखे मनःप्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥२२॥

यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः सजीवन्मुक्त उच्यते ॥२३॥

रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्यो-मवदच्छन्नः स जीवन्मुक्त उच्यते ॥२४॥

यस्य नाहंकृतो भावो बुद्धिर्यस्यन लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥२५॥

यस्मान्नो-----Page------------------६१२--द्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तः स जीवन्मुक्तौच्यते ॥२६॥

यः समस्तार्थजालेषु व्यवहार्थपि शीतलः । परार्थेष्विवपूर्णात्मा स जीवन्मुक्त उच्यते ॥२७॥

प्रजहाति यदा कामान्सर्वांश्चित्त-गतान्मुने । मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते ॥२८॥

चैत्यवर्जित-चिन्मात्रे पदे परमपावने । अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते॥२९॥

इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरतिस जीवन्मुक्त उच्यते ॥३०॥

सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते ।आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव ॥३१॥

शिवो गुरुः शिवो वेदःशिवो देवः शिवः प्रभुः । शिवोऽस्म्यहं शिवः सर्वं शिवादन्यन्न किंचन ॥३२॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचोविग्लापनं हि तत् ॥३३॥

शुको मुक्तो वामदेवोऽपि मुक्तस्ताभ्यां विनामुक्तिभाजो न सन्ति । शुकमार्गं येऽनुसरन्ति धीराः सद्यो मुक्तास्ते भव-न्तीह लोके ॥३४॥

वामदेवं येऽनुसरन्ति नित्यं मृत्वा जनित्वा च पुनःपुन-स्तत् । ते वै लोके क्रममुक्ता भवन्ति योगैः सांख्यैः कर्मभिः सत्त्वयुक्तैः॥३५॥

शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते । शुको विहङ्गमः प्रोक्तोवामदेवः पिपीलिका ॥३६॥

अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा ।महावाक्यविचारेण सांख्ययोगसमाधिना ॥३७॥

विदित्वा स्वात्मनो रूपंसंप्रज्ञातसमाधितः । शुकमार्गेण विरजाः प्रयान्ति परमं पदम् ॥३८॥

यमाद्यासनजायासहठाभ्यासात्पुनःपुनः । विघ्नबाहुल्यसंजात अणिमादिवशा-दिह ॥३९॥

अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले । पुनर्वासनयैवायंयोगाभ्यासं पुनश्चरन् ॥४०॥

अनेकजन्माभ्यासेन वामदेवेन वै पथा ।सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् ॥४१॥

द्वाविमावपि पन्थानौब्रह्मप्राप्तिकरौ शिवौ । सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः । अत्र को मोहःकः शोक एकत्वमनुपश्यतः ॥४२॥

यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रव-र्तते । तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥४३॥

खेचरा भूचराः सर्वेब्रह्मविद्दृष्टिगोचराः । सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरधैः ॥४४॥

इति ॥इति वराहोपनिषत्सु चतुर्थोऽध्यायः ॥४॥

अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छ योगाभ्यासविधिमनुब्रूहीति ।तथेति स होवाच । पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः । काठिन्यं-----Page-----------------६१३--पृथिवीमेका पानीयं तद्द्रवाकृति ॥१॥

दीपनं च भवेत्तेजः प्रचारो वायु-लक्षणम् । आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता ॥२॥

षट्शतान्यधि-कान्यत्र सहस्राण्येकविंशतिः । अहोरात्रवहैः श्वासैर्वायुमण्डलघाततः ॥३॥

तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् । तद्वदापो गणापाये केशाःस्युः पाण्डुराः क्रमात् ॥४॥

तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये ।वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥५॥

इत्थंभूतं क्षयान्नित्यंजीवितं भूतधारणम् । उड्याणं कुरुते यस्मादविश्रान्तं महाखगः ॥६॥

उड्डियाणं तदेव स्यात्तत्र बन्धोऽभिधीयते । उड्डियाणो ह्यसौ बन्धो मृत्यु-मातङ्गकेसरी ॥७॥

तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः ।अग्नौ तु चालते कुक्षौ वेदना जायते भृशम् ॥८॥

न कार्या क्षुधि-तेनापि नापि विण्मूत्रवेगिना । हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा॥९॥

मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् । लयमन्त्रहठा योगा योगोह्यष्टाङ्गसंयुतः ॥१०॥

यमश्च नियमश्चैव तथा चासनमेव च । प्राणायाम-स्तथा पश्चात्प्रत्याहारस्तथा परम् ॥११॥

धारणा च तथा ध्यानं समाधि-श्चाष्टमो भवेत् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥१२॥

क्षमाधृतिर्मिताहारः शौचं चेति यमा दश । तपः सन्तोषमास्तिक्यं दानमीश्वर-पूजनम् ॥१३॥

सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् । एते हि नियमाःप्रोक्ता दशधैव महामते ॥१४॥

एकादशासनानि स्युश्चक्रादि मुनिसत्तम । चक्रंपद्मासनं कूर्मं मयूरं कुक्कुटं तथा ॥१५॥

वीरासनं स्वस्तिकं च भद्रं सिंहासनंतथा । मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः ॥१६॥

सव्योरु दक्षिणेगुल्फे दक्षिणं दक्षिणेतरे । निदध्यादृजुकायस्तु चक्रासनमिदं मतम् ॥१७॥

पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः । प्राणायामः स्वनाडीभिस्तस्मान्नाडीःप्रचक्षते ॥१८॥

शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् । तन्मध्ये पायु-देशात्तु द्व्यङ्गुलात्परतः परम् ॥१९॥

मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते ।मेढ्रान्नताङुलादूर्ध्वं नाडीनां कन्दमुच्यते ॥२०॥

चतुरङ्गुलमुत्सेधं चतुरङ्गुल-मायतम् । अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः ॥२१॥

तत्रैवनाडीचक्रं तु द्वादशारं प्रतिष्ठितम् । शरीरं ध्रियते येन वर्तते तत्र कुण्डली॥२२॥

ब्रह्मरन्ध्रं सुषुम्ना या वदनेन पिधाय सा । अलम्बुसा सुषुम्नायाःकुहूर्नाडी वसत्यसौ ॥२३॥

अनन्तरारयुग्मे तु वारुणा च यशस्विनी ।-----Page-----------------६१४--दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥२४॥

तदन्तरारयोः पूषावर्तते च पयस्विनी । सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥२५॥

शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते । उत्तरे तु सुषुम्नाया इडाख्यानिवसत्यसौ ॥२६॥

अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता । प्रदक्षिण-क्रमेणैव चक्रस्यारेषु नाडयः ॥२७॥

वर्तन्ते द्वादश ह्येता द्वादशानिल-वाहकाः । पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥२८॥

पटमध्यं तुयत्स्थानं नाभिचक्रं तदुच्यते । नादाधारा समाख्याता ज्वलन्ती नादरूपिणी॥२९॥

पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः । कुण्डल्या पिहितं शश्व-द्ब्रह्मरन्ध्रस्य मध्यमम् ॥३०॥

एवमेतासु नाडीषु धरन्ति दश वायवः ।एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः ॥३१॥

समग्रीवशिरः कायःसंवृतास्यः सुनिश्चलः । नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् ॥३२॥

स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः । अपानं मुकुलीकृत्य पायुमाकृष्यचोन्मुखम् ॥३३॥

प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् । स्वात्मानं चश्रियं ध्यायेदमृतप्लावनं ततः ॥३४॥

कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते ।मनसा चिन्तितं कार्यं मनसा येन सिद्ध्यति ॥३५॥

जलेऽग्निज्वलनाच्छा-खापल्लवानि भवन्ति हि । नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया ॥३६॥

मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने । शोषयित्वा तु सलिलं तेनकायं दृढं भवेत् ॥३७॥

गुदयोनिसमायुक्त आकुञ्चत्येककालतः । अपान-मूर्ध्वगं कृत्वा समानोऽन्ने नियोजयेत् ॥३८॥

स्वात्मानं च श्रियं ध्यायेदमृत-प्लावनं ततः । बलं समारभेद्योगं मध्यमद्वारभागतः ॥३९॥

भावयेदूर्ध्व-गत्यर्थं प्राणापानसुयोगतः । एष योगो वरो देहे सिद्धिमार्गप्रकाशकः ॥४०॥

यथैवापां गतः सेतुः प्रवाहस्य निरोधकः । तथा शरीरगा च्छाया ज्ञातव्यायोगिभिः सदा ॥४१॥

सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः । बन्ध-स्यास्य प्रसादेन स्फुटीभवति देवता ॥४२॥

एवं चतुष्पथो बन्धो मार्गत्रय-निरोधकः । एकं विकासयन्मार्गं येन सिद्धाः सुसङ्गताः ॥४३॥

उदानमू-र्ध्वगं कृत्वा प्राणेन सह वेगतः । बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः॥४४॥

अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः । बन्धत्रयमनेनैवसिद्ध्यत्यभ्यासयोगतः ॥४५॥

दिवारात्रमविच्छिन्नं यामे यामे यदा यदा । अने-नाभ्यासयोगेन वायुरभ्यसितो भवेत् ॥४६॥

वायावभ्यसिते वह्निः प्रत्यहं-----Page-----------------६१५--वर्धते तनौ । वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते ॥४७॥

अन्नस्य परि-पाकेन रसवृद्धिः प्रजायते । रसे वृद्धिङ्गते नित्यं वर्धन्ते धातवस्तथा ॥४८॥

धातूनां वर्धनेनैव प्रबोधो वर्धते तनौ । दह्यन्ते सर्वपापानि जन्मकोट्यर्जि-तानि च ॥४९॥

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य बिन्दु-रूपस्य स्थानं तद्धि प्रकाशकम् ॥५०॥

यत्र कुण्डलिनी नाम परा शक्तिःप्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥५१॥

यस्मादुत्पद्यतेबिन्दुर्यस्मान्नादः प्रवर्धते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥५२॥

मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् । कण्ठादुपरि मूर्धान्तं शांभवंस्थानमुच्यते ॥५३॥

नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः ।जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः ॥५४॥

हंसः शक्तेरधिष्ठानंचराचरमिदं जगत् । निर्विकल्पः प्रसन्नात्मा प्राणायामं समभ्यसेत् ॥५५॥

सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् । वेद्यं समुद्धरेन्नित्यं सत्यसंधान-मानसः ॥५६॥

रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् । दृश्यमाने परेलक्ष्ये ब्रह्मणि स्वयमाश्रितः ॥५७॥

बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः ।पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् ॥५८॥

एवमभ्यासचित्तश्चेत्समुक्तो नात्र संशयः । कुम्भकेन समारोप्य कुम्भकेनैव पूरयेत् ॥५९॥

कुम्भेन कुम्भयेत्कुम्भं तदन्तःस्थः परं शिवम् । पुनरास्फालयेदद्य सुस्थिरंकण्ठमुद्रया ॥६०॥

वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ । समहस्तयुगंभूमौ समं पादयुगं तथा ॥६१॥

वेधकक्रमयोगेन चतुष्पीठं तु वायुना ।आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः ॥६२॥

पुटद्वयं समाकृष्य वायुःस्फुरति सत्वरम् । सोमसूर्याग्निसंबन्धाज्जानीयादमृताय वै ॥६३॥

मेरु-मध्यगता देवाश्चलन्ते मेरुचालनात् । आदौ संजायते क्षिप्रं वेधोऽस्य ब्रह्म-ग्रन्थितः ॥६४॥

ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ । विष्णु-ग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ ॥६५॥

रुद्रग्रन्थिं ततो भित्त्वाछित्त्वा मोहमलं तथा । अनेकजन्मसंस्कारगुरुदेवप्रसादतः ॥६६॥

योगाद-भ्यासात्ततो वेधो जायते तस्य योगिनः । इडापिङ्गलयोर्मध्ये सुषुम्नानाडि-मण्डले ॥६७॥

मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् । ह्रस्वो दहतिपापानि दीर्घो मोक्षप्रदायकः ॥६८॥

आप्यायनः प्लुतो वापि त्रिविधोच्चा-----Page------------------६१६--रणेन तु । तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ॥६९॥

अवाच्यं प्रणव-स्याग्रं यस्तं वेद स वेदवित् । ह्रस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगत्रं प्लुतम् । द्वाद-शान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥७०॥

सर्वविघ्नहरश्चायं प्रणवः सर्व-दोषहा । आरम्भश्च घटश्चैव पुनः परिचयस्तथा ॥७१॥

निष्पत्तिश्चेति कथिता-श्चतस्रस्तस्य भूमिकाः । कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥७२॥

आन्तरंकर्म कुरुते यत्रारम्भः स उच्यते । वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम्॥७३॥

यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः । न सजीवो ननिर्जीवः काये तिष्ठति निश्चलम् । यत्र वायुः स्थिरः खे स्यात्सेयं प्रथम-भूमिका ॥७४॥

यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः । सहजः कुरुतेयोगं सेयं निष्पत्तिभूमिका ॥७५॥

इत्येतदुपनिषदं योऽधीते सोऽग्नि-पूतो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतोभवति । स जीवन्मुक्तो भवति । तदेतदृचाभ्युक्तम् -- तद्विष्णोः परमं पदं सदापश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसःसमिन्धते । विष्णोर्यत्परमं पदमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥इति वराहोपनिषत्सु पञ्चमोऽध्यायः ॥५॥

ॐ स ह नाववत्विति शान्तिः ॥इति वराहोपनिषत्समाप्ता ॥१०२॥


शाट्यायनीयोपनिषत् ॥१०३॥[सम्पाद्यताम्]

शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥१॥

ॐ पूर्णमद इति शान्तिः ॥हरिः ॐ ॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषया-सक्तं मुक्त्यै निर्विषयं स्मृतम् ॥१॥

समासक्तं सदा चित्तं जन्तोर्विषयगो-चरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥२॥

चित्तमेव हिसंसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥३॥

नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम । विष्णुक्रान्तं वासुदेवंविजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥४॥

अथाह यत्परं ब्रह्म सनातनं-----Page-----------------६१७--ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्त उपरतस्तितिक्षुर्योऽनूचानोह्यभिजज्ञौ समानः ॥५॥

त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमेयत्र कुत्र । अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥६॥

त्रिदण्डमुपवीतं च वासःकौपीनवेष्टनम् । शिक्यं पवित्रमित्येतद्बिभृयाद्याव-दायुषम् ॥७॥

पञ्चेतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः । न त्यजेद्याव-दुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥८॥

विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेवच । तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥९॥

त्रिदण्डं वैष्णवं लिङ्गंविप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥१०॥

अथखलु सोम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधाभवन्ति । सर्व एते विष्णुलिङ्गिनः शिखिनोपवीतिनः शुद्धचित्ता आत्मानमा-त्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तःसुशीलिनः पुण्यश्लोका भवन्ति । तदेतदृचाभ्युक्तम् -- कुटीचको बहूदकश्चापिहंसः परमहंस इति वृत्त्या च भिन्नाः । सर्व एते विष्णुलिङ्गं दधाना वृत्त्याव्यक्तं बहिरन्तश्च नित्यम् । पञ्चयज्ञा वेदशिरःप्रविष्टाः क्रियावन्तोऽमी संगताब्रह्मविद्याम् । त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः संन्यस्तपुष्पा रसमेवाश्नुवानाः ।विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति ॥११॥

त्रिसंध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा । उपस्थानं पञ्चयज्ञान्कुर्यादामर-णान्तिकम् ॥१२॥

दशाभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा । गायत्रीजप-यज्ञश्च त्रिसंध्यं शिरसा सह ॥१३॥

योगयज्ञः सदैकाग्र्यभक्त्या सेवा हरे-र्गुरोः । अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥१४॥

नानोपनिषद-भ्यासः स्वाध्यायो यज्ञ ईरितः । ॐमित्यात्मानमव्यग्रो ब्रह्मण्यग्नौ जुहोतियत् ॥१५॥

ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः । ज्ञानदण्डा ज्ञान-शिखा ज्ञानयज्ञोपवीतिनः ॥१६॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्म-यम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥१७॥

अथ खलु सोम्यैतेपरिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति । कामक्रोधलोभमोहदम्भदर्पा-सूयाममत्वाहंकारादींस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्षैव तिष्ठासेत् । छिद्यमानो न ब्रूयात् । तदैवं विद्वांस इहैवामृता भवन्ति ।तदेतदृचाभ्युक्तम्--बन्धुपुत्रमनुमोदयित्वानवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।प्राचीमुदीचीं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी शिखी मुण्डी-----Page-----------------६१८--चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥१८॥

अयाचितं याचितंवोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् । क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-माच्छादनं स्यादहतं वा विमुक्तः ॥१९॥

ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधोनाक्षं जातु शिखां न वापयेत् । चतुरो मासान्ध्रुवशीलतः स्यात्स यावत्सुप्तो-ऽन्तरात्मा पुरुषो विश्वरूपः । अन्यानथाष्टौ पुनरुत्थितेऽस्मिन्स्वकर्मलिप्सुर्वि-हरेद्वा वसेद्वा ॥२०॥

देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षित-शीलवृत्तः । अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥२१॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु-संज्वरेत् ॥२२॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्या-याद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥२३॥

बाल्येनैव हि तिष्ठासेन्नि-र्विद्य ब्रह्मवेदनम् । ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥२४॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्रब्रह्म समश्नुते ॥२५॥

अथ खलु सोम्येदं पारिव्राज्यं नैष्ठिकमात्मधर्मं योविजहाति स वीरहा भवति । स ब्रह्महा भवति । स भ्रूणहा भवति । स महा-पातकी भवति । य इमां वैष्णवीं निष्ठां परित्यजति स स्तेनो भवति । सगुरुतल्पगो भवति । स मित्रध्रुग्भवति । स कृतघ्नो भवति । स सर्वस्माल्लो-कात्प्रच्युतो भवति । तदेतदृचाभ्युक्तम् -- स्तेनः सुरापो गुरुतल्पगामी मित्रध्रु-गेते निष्कृतेर्यान्ति शुद्धम् । व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्नशुध्येदखिलैरात्मभासा ॥२६॥

त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमंसेवते नाश्रमं वा । प्रत्यापत्तिं भजते वाऽतिमूढो नैषां गतिः कल्पकोट्यापिदृष्टा ॥२७॥

त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् । मोक्षाश्रमा-त्परिभ्रष्टो न गतिस्तस्य विद्यते ॥२८॥

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे नतिष्ठति । तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥२९॥

अथ खलुसोम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशीभवति । स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति ।स ब्रह्मज्ञो भवति । स सर्वज्ञो भवति । स स्वराड् भवति । स परं ब्रह्मभगवन्तमाप्नोति । स पितॄन्संबन्धिनो बान्धवान्सुहृदो मित्राणि च भवादु-त्तारयति । तदेतदृचाभ्युक्तम् -- शतं कुलानां प्रथमं बभूव तथा पराणां-----Page-----------------६१९--त्रिशतं समग्रम् । एते भवन्ति सुकृतस्य लोके येषां कुले संन्यसतीह विद्वान्॥३०॥

त्रिंशत्पराँस्त्रिंशदपराँस्त्रिंशच्च परतः परान् । उत्तारयति धर्मिष्ठःपरिव्राडिति वै श्रुतिः ॥३१॥

संन्यस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।तारिताः पितरस्तेन इति वेदानुशासनम् ॥३२॥

अथ खलु सोम्येमं सना-तनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् । नानूचानाय नानात्मविदेनावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः ।तदेतदृचाभ्युक्तम् -- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽह-मस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥३३॥

यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्नायसम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥३४॥

अध्यापिता ये गुरुं नाद्रि-यन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुर्भोजनीयस्तथैवचान्नं न भुनक्ति श्रुतं तत् ॥३५॥

गुरुरेव परो धर्मो गुरुरेव परा गतिः ।एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति । तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटा-म्बुवत् ॥३६॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित्परंप्रेयादिति बेदानुशासनम् ॥३७॥

इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ पुर्णमद इति शान्तिः ॥इति शाट्यायनीयोपनिषत्समाप्ता ॥१०३॥

हयग्रीवोपनिषत् ॥१०४॥[सम्पाद्यताम्]

स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन् ब्रह्मविद्यां वरिष्ठांयया चिरात्सर्वपापं व्यपोह्य ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति । ब्रह्मोवाच हय-ग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । स सर्वैश्वर्य-वान्भवति । त एते मन्त्राः--विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यंनमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥१॥

ऋग्यजुःसामरूपाय वेदा-----Page------------------६२०--हरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥२॥

उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । सर्ववेदमयाचिन्त्य सर्वं बोधय बोधयस्वाहा स्वाहा नमः ॥३॥

ब्रह्मात्रिरविसवितृभार्गवा ऋषयः । गायत्रीत्रिष्टुबनुष्टुप्-छन्दांसि । श्रीमान्हयग्रीवः परमात्मा देवतेति । ल्हौ मिति बीजम् ।सोऽहमिति शक्तिः । ल्हू मिति कीलकम् । भोगमोक्षयोर्विनियोगः ।अकारोकारमकारैरङ्गन्यासः । ध्यानम् । शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतु-र्भुजम् । संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥ ॐ श्रीमिति द्वे अक्षरे । ल्हौ-मित्येकाक्षरम् । ॐ नमो भगवत इति सप्ताक्षराणि । हयग्रीवायेतिपञ्चाक्षराणि । विष्णव इति त्रयक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि ।प्रयच्छ स्वाहेति पञ्चाक्षराणि । हयग्रीवस्य तुरीयो भवति ॥४॥

ॐ श्रीमितिद्वे अक्षरे । ल्हौ मित्येकाक्षरम् । ऐमैमैमिति त्रीण्यक्षराणि । क्लींक्लीमिति द्वे अक्षरे । सौः सौरिति द्वे अक्षरे । ह्रीमित्येकाक्षरम् । ॐ नमोभगवत इति सप्ताक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि । प्रयच्छस्वाहेति पञ्चाक्षराणि । पञ्चमो मनुर्भवति ॥५॥

इति हयग्रीवोपनिषत्सु प्रथमोपनिषत् ॥१॥

हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा महेश्वराय महेश्वरःसंकर्षणाय संकर्षणो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छ-दिति हकारॐसकारोमकारॐ त्रयमेकस्वरूपं भवति । ल्हौ बीजाक्षरंभवति । बीजाक्षरेण ल्हौं रूपेण तज्जापकानां संपत्सारस्वतौभवतः । तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति । दिक्पालानां राज्ञांनागानां किन्नराणामधिपतिर्भवति । हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयःस्वतः स्वस्वकर्मणि प्रवर्तन्ते । सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमंमन्त्रराजात्मकं भवति । ल्हौं हयग्रीवस्वरूपो भवति । अमृतंकुरु कुरु स्वाहा । तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्चभवति । ल्हौं सकलसाम्राज्येन सिद्धिं कुरु कुरु स्वाहा ।तानेतान्मन्त्रान्यो वेद अपवित्रः पवित्रो भवति । अब्रह्मचारी सुब्रह्मचारीभवति । अगम्यागमनात्पूतो भवति । पतितसंभाषणात्पूतो भवति । ब्रह्म-हत्यादिपातकैर्मुक्तो भवति । गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रवि-शति । प्रज्ञानमानन्दं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महा-वाक्यैः प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति । स्वरव्यञ्जनभेदेन द्विधा-----Page-----------------६२१--एते । अथानुमन्त्राञ्जपति । यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥१॥

गौरी-र्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदीबभूवुषी सहस्राक्षरा परमे व्योमन् ॥२॥

ओष्ठापिधाना नकुली दन्तैःपरिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः॥३॥

ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता । आसूर्यस्यदुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥४॥

य इमां ब्रह्मविद्यामेकादश्यांपठेद्धयग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ॐ नमोब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वंममामुष्य ओमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति हयग्रीवोपनिषत्सु द्वितीयोपनिषत् ॥२॥

इति हयग्रीवोपनिषत्समाप्ता ॥१०४॥

दत्तात्रेयोपनिषत् ॥१०५॥[सम्पाद्यताम्]

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।त्रिपान्नारायणाकारं दत्तात्रेयमुपास्महे ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥हरिः ॐ ॥

सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहिभगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्त्विकं मामकं धामोपास्वेत्याह । सदादत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति नारायणेनैवंविवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेयं ध्यात्वा सद्वदति ।दमिति हंसः । दामिति दीर्घं तद्बीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति ।तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् । गायत्रीछन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव दत्तबीजस्थंसर्वं जगत् । एतदेवैकाक्षरं व्याख्यातम् । व्याख्यास्ये षडक्षरम् । ओमितिद्वितीयम् । ह्रीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् ।द्रामिति षट्कम् । षडक्षरोऽयं भवति । योगानुभवो भवति । गायत्री छन्दः ।सदाशिव ऋषिः । दत्तात्रेयो देवता । द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रे-----Page------------------६२२--याम नम इत्यष्टाक्षरः । दत्तात्रेयायेति सत्यानन्दचिदात्मकम् । नम इतिपूर्णानन्दकविग्रहम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।दत्तात्रेयायेति कीलकम् । तदेव बीजम् । नमः शक्तिर्भवति । ओमिति प्रथ-मम् । आमिति द्वितीयम् । ह्रीमिति तृतीयम् । क्रोमिति चतुर्थम् । एहीतितदेव वदेत् । दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः ।सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः ।संबुद्धिरिति कीलकम् । द्रमिति हृदये । ह्रीं क्लीमिति शीर्षे । एहीति शिखा-याम् । दत्तेति कवचे आत्रेयेति चक्षुषि । स्वाहेत्यस्त्रे । तन्मयो भवति । यएवं वेद । षोडशाक्षरं व्याख्यास्ये । प्राणं देयम् । मानं देयम् । चक्षुर्देयम् ।श्रोत्रं देयम् । षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रो न देयो भवति । अतिसे-वापरभक्तगुणवच्छिष्याय वदेत् । ओमिति प्रथमं भवति । ऐमिति द्वितीयम् ।क्रोमिति तृतीयम् । क्लीमिति चतुर्थम् । क्लूमिति पञ्चमम् । ह्रामिति षष्ठम् ।ह्रीमिति सप्तमम् । ह्रूमित्यष्टमम् । सौरिति नवमम् । दत्तात्रेयायेति चतुर्दशम् ।स्वाहेति षोडशम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।ॐ बीजम् । स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् । ओमिति हृदये । क्लां क्लींक्लूमिति शिखायाम् । सौरिति कवचे । चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे । योनित्यमधीयानः सच्चिदानन्दसुखी मोक्षी भवति । सौरित्यन्ते श्रीवैष्णव इत्यु-च्यते । तज्जापी विष्णुरूपी भवति । अनुष्टुप् छन्दो व्याख्यास्ये । सर्वत्र संबु-द्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुनेबालपिशाच ज्ञानसागर ॥१॥

इत्युपनिषत् । अनुष्टुप् छन्दः । सदाशिवऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति हृदये । हरे कृष्णेति शीर्षे । उन्मत्ता-नन्देति शिखायाम् । दायक मुन इति कवचे । दिगम्बरेति चक्षुषि । पिशा-चज्ञानसागरेत्यस्त्रे । अनुष्टुभोऽयं मयाधीतः । अब्रह्मजन्मदोषाश्च प्रण-श्यन्ति । सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥१॥

इति दत्तात्रेयोपनिषत्सु प्रथमः खण्डः ॥१॥

ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसंतुष्टायमहाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्तपिशाचवेषा-येनि महायोगिनेऽवधूनायेति अनसूयानन्दवधेनायात्रिपुत्रायेति सर्वकाम-----Page------------------६२३--फलप्रदाय ओमिति व्याहरेत् । भवबन्धमोचनायेति ह्रीमिति व्याहरेत् ।सकलविभूतिदायेति क्रोमिति व्याहरेत् । साध्याकर्षणायेति सौरिति व्याहरेत् ।सर्वमनःक्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् । चिरंजीविनेवषडिति व्याहरेत् । वशीकुरु वशीकुरु वौषडिति व्याहरेत् । आकर्षयाकर्षयहुमिति व्याहरेत् । विद्वेषय विद्वेषय फडिति व्याहरेत् । उच्चाटयोच्चाटय ठठेतिव्याहरेत् । स्तम्भय स्तम्भय खखेति व्याहरेत् । मारय मारय नमः संपन्नायनमः संपन्नाय स्वाहा पोषय पोषय परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धि च्छिन्धिग्रहान्निवारय निवारय व्याधीन्निवारय निवारय दुःखं हरय हरय दारिद्र्यंविद्रावय विद्रावय देहं पोषय पोषय चित्तं तोषय तोषयेति सर्वमन्त्रसर्वयन्त्र-सर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः शिवायेत्युपनिषत् ॥२॥

इति दत्तात्रेयोपनिषत्सु द्वितीयः खण्डः ॥२॥

य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।ओमिति बीजम् । स्वाहेति शक्तिः । द्रामिति कीलकम् । अष्टमूर्त्यष्टमन्त्राभवन्ति । यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति ।गायत्र्या शतसहस्रं जप्तं भवति । महारुद्रशतसहस्रजापि भवति । प्रणवायुत-कोटिजप्तो भवति । शतपूर्वाञ्छतापरान्पुनाति । स पङ्क्तिपावनो भवति ।ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरु-षादिदानैः प्रपापानतः पूतो भवति । अशेषपापान्मुक्तो भवति । भक्ष्या-भक्ष्यपापैर्मुक्तो भवति । सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणोभवति । तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते । स जीव-न्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति दत्तात्रेयोपनिषत्सु तृतीयः खण्डः ॥३॥

इति दत्तात्रेयोपनिषत्समाप्ता ॥१०५॥

गारुडोपनिषत् ॥१०६॥[सम्पाद्यताम्]

विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥१॥

ॐ भद्रं कर्णेभिरिति शान्तिः ।हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां नारदाय प्रोवाचनारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्का-----Page------------------६२४--मेभ्यः शिष्येभ्यः प्रायच्छत् । अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।गायत्री छन्दः । श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे ममसकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।श्रीमहागरुडाय तर्जनीभ्यां स्वाहा । पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीवि-ष्णुवल्लभाय अनामिकाभ्यां हुम् । त्रैलोक्यपरिपूजिताय कनिष्ठिकाभ्यांवौषट् । उग्रभयंकरकालानलरूपाय करतलकरपृष्ठाभ्यां फट् । एवं हृदया-दिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । स्वस्तिको दक्षिणं पादंवामपादं तु कुञ्चितम् । प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥१॥

अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः । तक्षकाः कटिसूत्रं तु हारःकार्कोट उच्यते ॥२॥

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके । शङ्खः शिरः-प्रदेशे तु गुलिकस्तु भुजान्तरे ॥३॥

पौण्ड्रकालिकनागाभ्यां चामराभ्यांसुवीजितम् । एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥४॥

कपिलाक्षंगरुत्मन्तं सुवर्णसदृशप्रभम् । दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥५॥

आजानुतः सुवर्णाभमाकण्ठ्योस्तुहिनप्रभम् । कुङ्कुमारुणमाकण्ठं शतचन्द्र-निभाननम् ॥६॥

नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् । दंष्ट्राकराल-वदनं किरीटमुकुटोज्ज्वलम् ॥७॥

कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥८॥

एवं ध्यायेत्त्रिसंध्यासुगरुडं नागभूषणम् । विषं नाशयते शीघ्रं तूलराशिमिवानलः ॥९॥

ओ-मीमॐ नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय विष्णुवल्लभाय त्रैलोक्य-परिपूजिताय उग्रभयंकरकालानलरूपाय वज्रनखाय वज्रतुण्डाय वज्र-दन्ताय वज्रदंष्ट्राय वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि श्रीम-हागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां विषं दूषय दूषय स्पृष्टानांनाशय नाशय दन्दशूकानां विषं दारय दारय प्रलीनं विषं प्रणाशय प्रणाशयसर्वविषं नाशय नाशय हन हन दह दह पच पच भस्मीकुरु भस्मीकुरु हुं फट्स्वाहा ॥ चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक । पृथ्वीमण्डलमुद्राङ्ग श्रीम-हागरुडाय विषं हर हर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओमीं सच-रति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी विषदूषिणी विष-शोषणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं विषंप्रनष्टं विषं हतं ते ब्रह्मणा विषं हतम्रिन्द्रस्य वज्रेण स्वाहा ॥ ॐ नमो-----Page-----------------६२५--भगवते महागरुडाय विष्णुवाहनाय त्रैलोक्यपरिपूजिताय वज्रनखवज्र-तुण्डाय वज्रपक्षालंकृतशरीराय एह्येहि महागरुड विषं छिन्धि च्छिन्धि आवे-शयावेशय हुं फट् स्वाहा ॥ सुपर्णोऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षुःस्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छंछन्दास्यङ्गानि धिष्णिया शफा यजूंषि नाम ॥ सुपर्णोऽसि गरुत्मान्दिवं गच्छसुवः पत ओमीं ब्रह्मविद्याममावास्यायां पौर्णमास्यायां पुरोवाच सचरति सच-रति तर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टंविषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्यवज्रेण स्वाहा ॥ ततस्त्रयम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयम् ।सचरति सचरति तर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टंविषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ।यदि वासुकिदूतोऽसि यदि वा वासुकः स्वयम् । सचरति सचरति तर्त्कारीमर्त्कारी विशनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतंते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयम् । सचरति सचरतितर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्यवज्रेण विषं हतं ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि कर्कोटकदूतोऽसियदि वा कर्कोटकः स्वयम् । सचरति सचरति तर्त्कारी मर्त्कारी विषनाशिनीविषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमि-न्द्रस्य वज्रेण स्वाहा ॥ यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयम् । सचरति सच-रति तर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्यवज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि महापद्मक-दूतोऽसि यदि वा महापद्मकः स्वयम् । सचरति सचरति तर्त्कारी मर्त्कारीविषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं तेब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि शङ्खकदूतोऽसि यदि वा शङ्खकःस्वयम् । सचरति सचरति तर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणी हतं विषंनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयम् । सचरति सचरति तर्त्कारीमर्त्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्यवज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि पौण्ड्रकालिक-----Page------------------६२६--दूतोऽसि यदि वा पौण्ड्रकालिकः स्वयम् । सचरति सचरति तर्त्कारी मर्त्कारीविषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेणविषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि नागकदूतोऽसि यदिवा नागकः स्वयम् । सचरति सचरति तर्त्कारी मर्त्कारी विषनाशिनी विषदूषिणीविषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमि-न्द्रस्य वज्रेण स्वाहा ॥ यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानांयदि स्थावरजङ्गमानां सचरति सचरति तर्त्कारी मर्त्कारी विषनाशिनी विष-दूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं तेब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । अतन्तवासुकितक्षककर्कोटकपद्मकमहा-पद्मकशङ्खक्रगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां महानागानां महा-नागादिरूपाणां विषतुण्डानां विषदन्तानां विषदंष्ट्राणां विषाङ्गानां विष-पुच्छानां विश्वचाराणां वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानांगृहगोधिकानां घ्रणसानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां तार्णानांपर्णानां काष्ठदारुवृक्षकोटरस्थानां मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानांदुष्टकीटकपिश्वानमार्जारजम्बुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानांशस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषां भूतवेतालकूष्माण्ड-पिशाचप्रेतराक्षसयक्षभयप्रदानां विषतुण्डदंष्ट्राणां विषाङ्गानां विषपुच्छानांविषाणां विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी हतंविषं नष्टं विषमन्तःप्रलीनं विप्रनष्टं विषं हतं ते ब्रह्मणा विषमिन्द्रस्यवज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा यावज्जीवं नहिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् । सहस्रं ब्राह्मणान् ग्राहयित्वा मनसा मोचयेत् ।सर्पाञ्जले न मुञ्चन्ति । तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मे-त्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ भद्रं कर्णेभिरिति शान्तिः ॥इति श्रीगरुडोपनिषत्समाप्ता ॥१०६॥


Page-----------------६२७--

कलिसंतरणोपनिषत् ॥१०७॥[सम्पाद्यताम्]

यद्दिव्यानाम स्मरतां संसारो गोष्पदायते ।सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ॥१॥

ॐ स ह नाववत्विति शान्तिः ॥हरिः ॐ ॥ द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन्कलिसंतरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणुयेन कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारण-मात्रेण निर्धूतकलिर्भवति । नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाचहिरण्यगर्भः । हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्णकृष्ण कृष्ण हरे हरे ॥१॥

इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।नातः परतरोपायः सर्ववेदेषु दृश्यते ॥२॥

इति षोडशकलावृतस्य जीव-स्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डली-वेति । पुनर्नारदः पप्रच्छ भगवन्कोऽस्य विधिरिति । तं होवाच नास्य विधि-रिति । सर्वदा शुचिरशुचिर्वा पठन्ब्राह्मणः सलोकतां समीपतां सरूपतां सायु-ज्यतामेति । यदाऽस्य षोडशीकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।तरति वीरहत्याम् । स्वर्णस्तेयात्पूतो भवति । पितृदेवमनुष्याणामपकारात्पूतोभवति । सर्वधर्मपरित्यागपापात्सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्योमुच्यते इत्युपनिषत् ॥३॥

हरिः ॐ तत्सत् ॥ॐ स ह नाववत्विति शान्तिः ॥इति श्रीकलिसंतरणोपनिषत्समाप्ता ॥१०७॥


जाबाल्युपनिषत् ॥१०८॥[सम्पाद्यताम्]

जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् ।पारमैश्वर्यविभवं रामचन्द्रपदं भजे ॥१॥

ॐ आप्यायन्त्विति शान्तिः ॥हरिः ॐ ॥

अथ हैनं भगवन्तं जाबालिं पैप्पलादिः पप्रच्छ भगवन्मे ब्रूहिपरमतत्त्वरहस्यम् । किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति ।स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाज्ञातमिति । पुनः स तमुवाच-----Page-----------------६२८--कुतस्त्वया ज्ञातमिति । पुनः स तमुवाच षडाननादिति । पुनः स तमुवाचतेनाथ कुतो ज्ञातमिति । पुनः स तमुवाच तेनेशानादिति । पुनः स तमुवाचकथं तस्मात्तेन ज्ञातमिति । पुनः स तमुवाच तदुपासनादिति । पुनः सतमुवाच भगवन्कृपया मे सरहस्यं सर्वं निवेदयेति । स तेन पृष्टः सर्वंनिवेदयामास तत्त्वम् । पशुपतिरहंकाराविष्टः संसारी जीवः स एव पशुः ।सर्वज्ञः पञ्चकृत्यसंपन्नः सर्वेश्वर ईशः पशुपतिः । के पशव इति पुनः सतमुवाच जीवाः पशव उक्ताः । तत्पतित्वात्पशुपतिः । स पुनस्तं होवाचकथं जीवाः पशव इति । कथं तत्पतिरिति । स तमुवाच यथा तृणाशिनोविवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः स्वस्वामि-बध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः ।तज्ज्ञानं केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव । तत्प्रकारःकथमिति । कुत्र कुत्र धार्यम् । पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्मसंगृह्याग्निरिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन संसृज्यत्र्यायुषमिति शिरोललाटवक्षःस्कन्धेष्विति तिसृभिस्त्र्यायुषैस्त्रियम्बकैस्तिस्रोरेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति ।तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय । अथ सनत्कुमारः प्रमाणं पृच्छाति ।त्रिपुण्ड्रधारणस्य त्रिधा रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च । याऽस्यप्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिःऋग्वेदः प्रातःस्वनं प्रजापतिर्देवो देवतेति । याऽस्य द्वितीया रेखा सा दक्षि-णाग्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनंविष्णुर्देवो देवतेति । याऽस्य तृतीया रेखा साऽऽहवनीयो मकारस्तमो द्यौर्लोकःपरमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रंभस्मना करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापात-कोपपातकेभ्यः पूतो भवति । स सर्वान्देवान्ध्यातो भवति । स सर्वेषु तीर्थेषुस्नातो भवति । स सकलरुद्रमन्त्रजापी भवति । न स पुनरावर्तते न सपुनरावर्तते ॥ इति ॥ ॐ सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥ॐ आप्यायन्त्विति शान्तिः ॥इति श्रीजाबाल्युपनिषत्समाप्ता ॥१०८॥


Page-----------------६२९--

गणेशपूर्वतापिन्युपनिषत् ॥१०९॥[सम्पाद्यताम्]

गणेशं प्रमथाधीशं निर्गुणं सगुणं विभुम् ।योगिनो यत्पदं यान्ति तं गौरीनन्दनं भजे ॥१॥

ॐ नमो वरदाय विघ्नहर्त्रे ॥ अथातो ब्रह्मोपनिषदं व्याख्यास्यामः । ब्रह्मादेवानां सवितुः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । धाता वसूनां सुरभिःसृजानां नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ॥ धाता देवानां प्रथमं हि चेतोमनो वनानीव मनसाऽकल्पयद्यः । नमो ब्रह्मणे ब्रह्मपुत्राय तुभ्यं ज्येष्ठायाथर्व-पुत्राय धन्विने ॥१॥

ॐ प्रजापतिः प्रजा असृजत । ताः सृष्टा अब्रुवन्कथमन्नाद्या अभवन्निति । स त्रेधा व्यभजद्भूर्भुवःस्वरिति । स तपोऽतप्यत ।स ब्रह्मा स विष्णुः स शिवः स प्रजापतिः सेन्द्रः सोऽग्निः समभवत् । सतूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । सोऽपश्यदात्मनाऽऽत्मानंगजरूपधरं देवं शशिवर्णं चतुर्भुजं यतो वा इमानि भूतानि जायन्ते यतोवायन्ति यत्रैव यन्ति च । तदेतदक्षरं परं ब्रह्म । एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च । खं वायुरापो ज्योतिः पृथिवी विश्वस्य धारिणी । पुरुषएवेदं विश्वं तपो ब्रह्म परामृतमिति ॥२॥

सोऽस्तुवत नमो ब्रह्मणे नमोब्राह्मणेभ्यो नमो वेदेभ्यो नमो देवेभ्यो नम ऋषिभ्यो नमः कुल्येभ्यः प्रकु-ल्येभ्यो नमः सवित्रे प्रसवित्रे नमो भोज्याय प्रकृष्टाय कपर्दिने चक्रायचक्रधरायान्नायान्नपतये शिवाय सदाशिवाय तुर्याय तुरीयाय भूर्भुवःस्वःपतेरायस्पते वाजिपते गोपते ऋग्यजुःसामाथर्वाङ्गिरःपते नमो ब्रह्मपुत्रायेति॥३॥

सोऽब्रवीद्वरदोऽस्म्यहमिति । स प्रजापतिरब्रवीत्कथमिमेऽन्नाद्याःस्युरिति । स होवाच ब्रह्मपुत्रस्तपस्तेपे सिद्धक्षेत्रे महायशाः । स सर्वस्य वक्तासर्वस्य ज्ञातासीति । स होवाच तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्वमिति ।ते प्रत्याययुः । स होवाच किमेतदिति । ते होचुः कथं वयमन्नाद्या भवामैति । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । स एतमानुष्टुभंमन्त्रराजमपश्यत् । यदिदं किञ्च सर्वमसृजत । तस्मात्सर्वमानुष्टुभमित्याचक्षतेयदिदं किञ्च । अनुष्टुभा वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीव-न्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति । तस्यैषा भवति -- अनुष्टुप्प्रथमा भवत्यनुष्टुबु-----Page------------------६३०--त्तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषाछन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति स पश्यति ।स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति --एको देवः प्रापको यो वसूनां श्रिया जुष्टः सर्वतोभद्र एषः । मायादेवोबलगहनो ब्रह्मारातीस्तं देवमीडे दक्षिणास्यम् ॥ आ तू न इन्द्र क्षुमन्तंचित्रं ग्राभं सङ्गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्रकृत्वस्तुष्टाव ॥४॥

अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादिमहायोगिवेदविद्भिरुपा-सितम् ॥ द्रुहिणादिमदेवेशषट्पदालिविराजितम् । लसत्कर्णं महादेर्वगजरूपधरं शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वव्रे । सतथेति होवाच । तदेष श्लोकः--स संस्तुतो दैवतदेवसूनुः सुतं भृगोर्वाक्य-मुवाच तुष्टः । अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥अथ तस्य षडङ्गानि प्रादुर्बभूवुः । स होवाच जपध्वमानुष्टुभं मन्त्रराज षट्-पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति भवतीति यूयमन्नाद्याभवेयुरिति । तदेतन्निदर्शनम्--गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनाम-तिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा नः शृण्वन्नूतिभिः सीद शश्वत्॥५॥

ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीम इति । स एतमानुष्टुभंषट्पदं मन्त्रराज कथयाञ्चक्रे । स साम भवति । ऋग्वै गायत्री यजुरुष्णिग-नुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्राः सामादित्या इति ।स षट्पदो भवति । साम वै षट्पदः । ससागरां सप्तद्वीपां सपर्वतां वसु-न्धरां तत्साम्नः प्रथमं पादं जानीयाद्रायस्पोषस्य दातेति । तेन सप्तद्वीपा-धिपो भवति भूःपतित्वं च गच्छति । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षंद्वीतीयं पादं जानीयान्निधिदातेति । तेन धनदादिकाष्ठापतिर्भवति भुवःप-तित्वं च गच्छति । वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादंजानीयादन्नदो मत इति । तेन देवाधिपत्यं स्वःपतित्वं च गच्छति । ऋग्य-जुःसामाथर्वाङ्गिरोगणसेवितं ब्रह्मलोकं तुर्यं पादं जानीयाद्रक्षोहण इति ।तेन देवाधिपत्यं ब्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूहसेवितं विष्णु-लोकं तत्साम्नः पञ्चमं पादं जानीयाद्बलगहन इति । तेन सर्वदेवाधिपत्यंविष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तात्माम्नःषष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्सोऽमृतत्वं च-----Page-----------------६३१--गच्छति । सत्यलोकाधिपत्यं च गच्छति ॥६॥

ऋग्यजुःसामाथर्वाश्चत्वारः पादाभवन्ति । रायस्पोषस्य दाता चेति प्रथमः पादो भवति ऋग्वै प्रथमः पादः ।निधिदाताऽन्नदो मत इति द्वितीयः पादः यजुर्वै द्वितीयः पादः । रक्षोहणोवो बलगहन इति तृतीयः पादः साम वै तृतीयः पादः । वक्रतुण्डाय हुमितिचतुर्थः पादः अथर्वश्चतुर्थः पादोऽथर्वश्चतुर्थः पाद इति ॥७॥

इति गणेशपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥

स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानि विराट् स्वराट्सम्राट् तत्साम्नः प्रथमं पादं जानीयात् । ऋग्यजुःसामाथर्वरूपः सूर्योऽन्त-रादित्ये हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् । य ओषधीनांप्रभविता तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । यो ब्रह्मातत्साम्नश्चतुर्थं पादं जानीयात् । यो हरिस्तत्साम्नः पञ्चमं पादं जानीयात् ।यः शिवः स परं ब्रह्म तत्साम्नोऽन्त्यं पादं जानीयात् । यो जानीते सोऽमृतत्वंच गच्छति परं ब्रह्मैव भवति । तस्मादिदमानुष्टुभं साम यत्र क्वचिन्नाचष्टे ।यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वेति ॥१॥

तस्यहि षडङ्गानि भवन्ति--ॐ हृदयाय नमः शिरसे स्वाहा शिखायै वषट्कवचाय हुं । नेत्रत्रयाय वौषट् अस्त्राय फडिति प्रथमं प्रथमेन द्वितीयं द्वितीयेनतृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन षष्ठं षष्ठेन प्रत्यक्षरमुभयतोमाया लक्ष्मीश्च भवति । माया वा एषा वैनायकी सर्वमिदं सृजतिसर्वमिदं रक्षति सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं वेद । स मृत्युं जयति ।स पाप्मानं तरति । स महतीं श्रियमश्नुते । सोऽभिवादी षट्कर्मसंसिद्धोभवत्यमृतत्वं च गच्छति । मीमांसन्ते ब्रह्मवादिनो ह्रस्वा वा दीर्घा वा प्लुतावेति । यदि ह्रस्वा भवति सर्वपाप्मानं तरत्यमृतत्वं च गच्छति । यदि दीर्घाभवति महतीं श्रियमाप्नुयादमृतत्वं च गच्छति । यदि प्लुता भवति ज्ञानवान्भवत्यमृतत्वं च गच्छति । तदेतदृषिणोक्तं निदर्शनम् -- स ईं पाहि यऋजीषी तरुद्रः स श्रियं लक्ष्मीमौपलाम्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युतआहुस्तां विद्यां ब्रह्मयोनिस्वरूपाम् ॥ तामिहायुषे शरणं प्रपद्ये । क्षीरोदार्णव-शायिनं कल्पद्रुमाधःस्थितं वरदं व्योमरूपिणं प्रचण्डदण्डदोर्दण्डं वक्रतुण्ड-स्वरूपिणं पार्श्वाधःस्थितकामधेनुं शिवोमातनयं विभुम् । रुक्माम्बरनिभा-काशं रक्तवर्णं चतुर्भुजम् । कपर्दिनं शिवं शान्तं भक्तानामभयप्रदम् ॥-----Page-----------------६३२--उन्नतप्रपदाङ्गुष्ठं गूढगुल्फं सपार्ष्णिकम् । पीनजंघं गूढजानुं स्थूलोरुं प्रोन्नम-त्कटिम् ॥ निम्ननाभिं कम्बुकण्ठं लम्बोष्ठं लम्बनासिकम् । सिद्धिबुद्ध्युभया-श्लिष्टं प्रसन्नवदनाम्बुजम् ॥ इति संसर्गः ॥२॥

अथ छन्दोदैवतम् ।अनुष्टुप्छन्दो भवति द्वात्रिंशदक्षरानुष्टुब भवति । अनुष्टुभा सर्वमिदंसृष्टमनुष्टुभा सर्वमुपसंहृतम् । शिवोमायुतः परमात्मा वरदो देवता । तेहोचुः कथं शिवोमायुत इति । स होवाच भृगुपुत्रः प्रकृतिपुरुषमयो हि सधनद इति प्रकृतिर्माया पुरुषः शिव इति । सोऽयं विश्वात्मा देवतेति ।तदेतन्निदर्शनम् --इन्द्रो मायाभिः पुरुहूत ईडे शर्वो विश्वं माययास्विद्दधार । सोऽजः शेते मायया स्विद्गुहायां विश्वं न्यस्तं विष्णुरेको विजज्ञे ॥तदेतन्माया हंसमयी देवानाम् ॥ सर्वेषां वा एतद्भूतानामाकाशः परायणम् ।सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते जातानि जीवन्त्याकाशंप्रयन्त्यभिसंविशन्ति । तस्मादाकाशबीजं शिवो विद्यात् । तदेतन्निदर्शनम् --हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्यो-मसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदिति ॥३॥

अथाधिष्ठानम्--मध्ये बिन्दुं त्रिकोणं तदनु ऋतुगणं वसुदलं द्वादशारं षोडशकर्णिकेति ।मध्ये बीजात्मकं देवं यजेत् । वामदक्षिणे सिद्धिर्बुद्धिः । अग्रे कामदुघाषट्कोणे सुमुखादयः षड्विनायकाः । वसुदले वक्रतुण्डाद्यष्टविनायकाः ।द्वादशारे बटुको वामनो महादशकमहोदरौ सुभद्रो माली वरो राम उमाशिवः स्कन्दो नन्दी । तद्बाह्येऽणिमादिसिद्धयः । षोडशारे दिक्पालाःसायुधा इति ॥४॥

अथ प्रसारः--य एतेन चतुर्थीषु पक्षयोरुभयोरपि ।लक्षं जुहुयादपूपानां तत्क्षणाद्घनदो भवेत् ॥ सिद्धौदनं त्रिमासं तु जुह्वदग्ना-वनन्यधीः । तावज्जुह्वत्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् ॥ उच्चाटयेद्विभीतैश्चमारयेद्विषवृक्षजैः । वश्याय पङ्कजैर्विद्वान्धनार्थी मोदकैर्हुनेत् ॥ एवं ज्ञात्वाकृतकर्मा भवति कृतकर्मा भवतीति ॥५॥

इति गणेशपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥

अथ होवाच भृगुपुत्रस्तन्त्रं विजिज्ञासितव्यमिति । मूले शून्यंविजानीयात् । शून्यं वै परं ब्रह्म । तत्र सतारं समायं साम न्यसेत्त्रिरेखं भवतित्रयो हीमे लोकास्त्रयो हीमे वेदाः । ऋग्वै भूः सा माया भवति । यजुर्वैभुवः स शिवो भवति । साम वै स्वः स हिरण्यगर्भो भवति । षट्कोणं-----Page-----------------६३३--भवति षड् हीमे लोकाः षड्ढा ऋतवो भवन्ति । तत्र तारमायारमामारविश्वेश-धरणीक्रमान्न्यसेत् । अष्टपत्रं भवत्यष्टाक्षरा गायत्री भवति ब्रह्मगायत्रींन्यसेत् । द्वादशपत्र भवति द्वादशादित्या भवन्ति ते स्वरा भवन्ति । स्वरान्ज्ञात्वादित्यलोकमश्नुते । षोडशपत्रं भवति षोडशकलो वै पुरुषो वर्णो ह वैपुरुषः स लोकाधिष्ठितो भवत्यनुष्टुब् वै पुरुषः ॥१॥

स होवाच भृगुपुत्रएतमानुष्टुभं मन्त्रराजं साङ्गं सप्रसृतिकं समायं साधिष्ठानं सतन्त्रं यो जानातिस भूतिमान् भवति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥२॥

इति गणेशपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥

इत्याथर्वणीया गणेशपूर्वतापिन्युपनिषत्समाप्ता ॥१०९॥

गणेशोत्तरतापिन्युपनिषत् ॥११०॥[सम्पाद्यताम्]

ॐ ॥ ओमित्येकाक्षरं ब्रह्मेदं सर्वम् । तस्योपव्याख्यानम् । सर्वं भूतं भव्यंभविष्यदिति सर्वमोङ्कार एव । एतच्चान्यच्च त्रिकालातीतं तदप्योङ्कार एव ।सर्वं ह्येतद्गणेशोऽयमात्मा ब्रह्मेति । सोऽयमात्मा चतुष्पात् । जागरितस्थानोबहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ।स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयःपादः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतितत्सुषुप्तम् । सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखःप्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्यप्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञंनाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैका-त्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स गणेश आत्माविज्ञेयः । सदोज्ज्वलो विद्यातत्कार्यहीनः स्वात्मबन्धरहितः सर्वदोषरहितआनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहमेवेति सम्भाव्या-हमॐ तत्सत्परं ब्रह्म विघ्नराजश्चिदात्मकः सोऽहमॐ तद्विनायकं परं ज्योतीरसोऽहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् । विनायकोऽहमित्येतत्त-त्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं प्रमोदो वै न संशयः ॥इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य-----Page-----------------६३४--इति । एतदेव परं ध्यानमेतदेव परं तपः । विनायकस्य यज्ज्ञानं पूजनंभवमोचनम् ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्यकलां नार्हन्ति षोडशीम् ॥इति गणेशोत्तरतापिन्युपनिषत्सु प्रथमोपनिषत् ॥१॥

ॐ ॥ स विष्णुः स शिवः स ब्रह्मा सेन्द्रः सेन्दुः स सूर्यः स वायुःसोऽग्निः स ब्रह्मायमात्मने सर्वदेवाय आत्मने भूताय आत्मन इति मन्यन्ते ।ॐ सोऽहं ॐ सोऽहं ॐसोऽहमिति । ॐ ब्रह्मन् ॐ ब्रह्मन् ॐ ब्रह्मन्निति ।ॐ शिवं ॐ शिवं ॐ शिवमिति । तं गणेशं तं गणेशमिदं श्रेष्ठम् ।ॐ गणानां त्वा गणपतिः । सप्रियाणां त्वा प्रियपतिः । सनिधीनां त्वा निधि-पतिः । ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोद-यात् । ॐ तद्गणेशः । ॐ सद्गणेशः । ॐ परं गणेशः । ॐ ब्रह्म गणेशः ।गणनाकारो नादः । एतत्सर्वो नादः । सर्वाकारो नादः । एतदाकारो नादः ।महान्नादः । स गणेशो महान् भवति । सोऽणुर्भवति । स बन्द्यो भवति ।स मुख्यो भवति । स पूज्यो भवति । रूपवान् भवति । अरूपवान्भवति । द्वैतो भवति । अद्वैतो भवति । स्थावरस्वरूपवान् भवति । जङ्गम-स्वरूपवान् भवति । सचेतनविचेतनो भवति । सर्वं भवति । स गणेशोऽ-व्यक्तो योऽणुर्यः श्रेष्ठः स वै वेगवत्तरः । अह्रस्वाह्रस्वश्च । अतिह्रस्वातिह्रस्वा-तिह्रस्वश्च । अस्थूलास्थूलास्थूलश्च । ॐ न वायुर्नाग्निर्नाकाशो नापः पृथिवीन च । न दृश्यं न दृश्यं न दृश्यम् । न शीतं नोष्णं न वर्षं च । न पीतं नपीतं न पीतम् । न श्वेतं न श्वेतं न श्वेतम् । न रक्तं न रक्तं न रक्तम् । न कृष्णंन कृष्णं न कृष्णम् । न रूपं न नाम न गुणम् । न प्राप्यं गणेशं मन्यन्ते ।स शुद्धः स शुद्धः स शुद्धो गणेशः । स ब्रह्म स ब्रह्म स ब्रह्म गणेशः । सशिवः स शिवः स शिवो गणेशः । इन्द्रो गणेशो विष्णुर्गणेशः सूर्यो गणेशएतत्सर्वं गणेशः । स निर्गुणः स निरहङ्कारः स निर्विकल्पः स निरीहः सनिराकार आनन्दरूपस्तेजोरूपमनिर्वाच्यमप्रमेयः पुरातनो गणेशो निगद्यते ।स आद्यः सोऽक्षरः सोऽनन्तः सोऽव्ययो महान्पुरुषः । तच्छुद्धं तच्छबलंततः प्रकृतिमहत्तत्त्वानि जायन्ते । ततश्चाहङ्कारादिपञ्चतन्मात्राणि जायन्ते ।ततः पृथ्व्यप्तेजोवाच्वाकाशपञ्चमहद्भूतानि जायन्ते । पृथिव्या ओषधयओषधीभ्योऽन्नमन्नाद्रेतस्ततः पुरुषस्ततः सर्वं ततः सर्वं ततः सर्वं जगत् ।-----Page-----------------६३५--सर्वाणि भूतानि जायन्ते । देवा नु जायन्ते । ततश्च जीवन्ति । देवा नुजीवन्ति । यज्ञा नु जीवन्ति । सर्वं जीवति । स गणेश आत्मा विज्ञेयः ।इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्यैति ॥इति गणेशोत्तरतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥२॥

ॐ ॥ गणेशो वै ब्रह्म तद्विद्यात् । यदिदं किञ्च सर्वं भूतं भव्यं जायमानंच तत्सर्वमित्याचक्षते । अस्मान्नातः परं किञ्चित् । यो वै वेद स वेद ब्रह्मब्रह्मैवोपाप्नोति । तत्सर्वमित्याचक्षते । ब्रह्मविष्ण्वादिगणानामीशभूतमित्याहतद्गणेश इति । तत्परमित्याह यमेते नाप्नुवन्ति पृथिवी सुवर्चा युवतिःसजोषाः । यद्वै वाङ् नाक्रामति मनसा सह नाग्निर्न पृथ्वी न तेजोन वायुर्न व्योम न जलमित्याह । नेन्द्रियं न शरीरं न नाम न रूपम् । नशुक्लं न रक्तं न पीतं न कृष्णमिति । न जाग्रन्न स्वप्नो न सुषुप्तिर्न वैतुरीया । तच्छुद्धमप्राप्यमप्राप्यं च । अज्ञेयं चाज्ञेयं च । विकल्पासहिष्णुतत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे । दिवमनन्तशीर्षैर्दिशमनन्त-करैर्व्योमानन्तजठरैर्महीमनन्तपादैः स्वतेजसा बाह्यान्तरीयान्व्याप्य तिष्ठती-त्याह । तद्वै परं ब्रह्म गणेश इत्यात्मानं मन्यन्ते । तद्वै सर्वतः पश्यति स्म नकिञ्चिद्ददर्श । ततो वै सोऽहमभूत् । नैकाकिता युक्तेति गुणान्निर्ममे । नाभेरजः स वै ब्रह्मा । मुखात्सत्त्वं स वै विष्णुः । नयनात्तमः स वै हरः ।ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिम् । ब्रह्मोवाच नाहं वेद्मि । गणेशौवाच मद्देहे ब्रह्माण्डान्तर्गतं विलोकय तथादिधामेव कुरु सृष्टिम् । अथब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं विलोकयति स्म । समुद्रान् सरितःपर्वतान् वनानि महीं दिवं पातालं च नरान् पशून्मृगान्नागान् हयान्गोव्रजान् सूर्याचन्द्रमसो नक्षत्राण्यग्नीन् वायून्दिशस्ततो वै सृष्टिमचीकरत् ।ततश्चात्मानमिति मन्यते स्म । न वै मत्तः परं किञ्चिदहमेव सर्वस्येश इतियावद्वदति तावत्क्रूरा अजायेरन् । महद्देहा जिह्वया भुवं लिहाना दंष्ट्राव्याप्ता-काशा महच्छब्दा ब्रह्माणं हन्तुमुद्युक्ताः । तान्दृष्ट्वाबिभ्यत्तत्संस्मार ।ततश्चाग्रे कोटिसूर्यप्रतीकाशमानन्दरूपं गजवक्त्रं विलोकयति स्म । तुष्टावाथगणेश्वरम् । त्वं निर्माता क्ष्माभृतां सरितां सागराणां स्थावराणां जङ्गमानांच । त्वत्तः परतरं किञ्चिन्नैवास्ति जगतः प्रभो । कर्ता सर्वस्य विश्वस्य पात-----Page------------------६३६--संहारकारकः । भवानिदं जगत्सर्वं त्र्याप्यैव परितिष्ठति ॥ इति स्तुत्वाब्रह्माणं तदुवाच ब्रह्मंस्तपस्व तपस्वेत्युक्त्वाऽन्तर्हिते तस्मिन् ब्रह्मा तपश्चचार ।किपत्स्वतीतेष्वनेहःसु तपसि स्थिते ब्रह्मणि पुरो भूत्वोवाच । प्रसन्नोऽहंप्रसन्नोऽहं वरान् वरय । श्रुत्वैवं वचोन्मील्य नयने यावत्पुरः पश्यतितावद्गणेशं ददर्श । स्तौति स्म । त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं प्रजापतिस्त्व-मिन्द्रस्त्वं सूर्यस्त्वं सोमस्त्वं गणेशः । त्वया व्याप्तं चराचरं त्वदृते न हिकिञ्चन । ततश्च गणेश उवाच । त्वं चाहं च न वै भिन्नौ कुरु सृष्टिंप्रजापते । शक्तिं गृहाण मद्दत्तां जगत्सर्जनकर्मणि ॥ ततो वै गृहीतायांशस्त्वा ब्रह्मणः सृष्टिरजायत । ब्राह्मणो वै मुखाज्जज्ञे बाह्वोः क्षत्रमूर्वोर्वैश्यःपद्भ्यां शूद्रश्चक्षुषो वै सूर्यो मनसश्चन्द्रमा अग्निर्वै मुखात्प्राणाद्वायुर्नाभेर्व्योमशीर्ष्णो द्यौः पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकानकल्पयन्निति । ततो वैसत्त्वमुवाच त्वं वै विष्णुः पाहि पाहि जगत्सर्वम् । विष्णुरुवाच न मेशक्तिः । सोवाच गृहाणेमां विद्याम् । ततो वै सत्त्वं तामादाय जगत्पातिस्म । हरमुवाच कुरु हर संहारम् । जगद्धरणाद्धरो भव । हरश्चात्मान-मित्यवैति स्म न वै मत्परं किञ्चिद्विश्वस्यादिरहं हर इति गर्वं दधौ यावत्ता-वद्व्याप्तं व्योम गजवक्त्रैर्महच्छब्दैर्हरं हर्तुमुद्युक्तैः । हरो वै विलोक्य रुदतिस्म । रोदनाद्रुद्रसंज्ञः । ततस्तं पुरुषं स्मृत्वा तुष्टाव त्वं ब्रह्मा त्वं कर्ता त्वंप्रधानं त्वं लोकान् सृजसि रक्षसि हरसि । विश्वाधारस्त्वमनाधारोऽनाधेयोऽनिर्देश्योऽप्रतर्क्यो व्याप्येदं सर्वं तिष्ठसीति स्तवनाद्विनायकं ददर्श । ततश्चतं ननाम । गणेश उवाच कुरु हर हरणम् । तद्वै संहर्ताऽभूद्रुद्रः । य एवंवेद स गणेशो भवति । इत्युपनिषत् ॥इति गणेशोत्तरतापिन्युपनिषत्सु तृतीयोपनिषत् ॥३॥

ॐ ॥ गणेशो वै सदजायत तद्वै परं ब्रह्म । तद्विदाप्नोति परम् । तदेषा-भुक्ता यदनादिभूतं यदनन्तरूपं यद्विज्ञानरूपं यद्देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेन वै कार्यं करणं न तत्समश्चाधिकश्च दृश्यः । सूर्योऽस्माद्भीत उदेति । वातो-ऽस्माद्भीतः पवते । अग्निर्वै भीतस्तिष्ठति । तच्चित्स्वरूपं निर्विकारमद्वैतं च ।तन्मायाशबलमजनीत्याह । अनेन यथा तमस्ततश्चोमिति ध्वनिरभूत् । सवै गजाकारः । अनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरितिगणेश इति प्रधानमिति च मायाशबलमिति च । एतस्माद्वै महत्तत्त्वमजा-----Page------------------६३७--यत । ततः कराग्रेणाहङ्कारं सृष्टवान् । स वै त्रिविधः सात्त्विको राजसस्ताम-सश्चेति । सात्त्विकी ज्ञानशक्तिः । राजसी क्रियाशक्तिः । तामसी द्रव्य-शक्तिः । तामस्याः पञ्चतन्मात्रा अजायन्त पञ्चभूतान्यजायन्त । राजस्याःपञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवश्चाजायन्त । सात्त्विक्यादिशो वायुः सूर्यो वरुणोऽश्विनाविति ज्ञानेन्द्रियदेवता अग्निरिन्द्रो विष्णुःप्रजापतिर्मित्र इति कर्मेन्द्रियदेवताः । इदमादिपुरुषरूपम् । परमात्मनःसूक्ष्मशरीरमिदमेवोच्यते । अथ द्वितीयम् । पञ्चतन्मात्राः पञ्चसूक्ष्मभूतान्यु-पादाय पञ्चीकरणे कृते पञ्चमहाभूतान्यजायन्त । अवशिष्टानां पञ्चपञ्चाशानांकल्पारम्भसमये भूतविभागे चैतन्यप्रवेशादहमित्यभिमानः । तस्मादादि-गणेशो भवानुच्यते । ततो वै भूतेभ्यश्चतुर्दश लोका अजायेरन् । तदन्तर्गत-जीवराशयः स्थूलशरीरैः सह विराडित्युच्यते । इति द्वितीयम् । राजसोब्रह्मा सात्त्विको विष्णुस्तामसो वै हरः । त्रयं मिलित्वा परस्परमुवाच अह-मेव सर्वस्येश इति । ततो वै परस्परमसहमानाश्चोर्ध्वं जग्मुः । तत्र नकिञ्चिद्ददृशुः । ततश्चाधःप्रदेशे दशदिक्षु भ्रमन्तो न किञ्चित्पश्यन्ति स्म ।ततो वै ध्यानस्थिता अभूवन् । ततश्च हृद्देशे महान्तं पुरुषं गजवक्त्रमसंख्य-शीर्षमसंख्यपादमनन्तकरं तेजसा व्याप्ताखिललोकं ब्रह्ममूर्धानं दिक्श्रवणंब्रह्माण्डगण्डं चिद्व्योमतालुकं सत्यजननं च जगदुत्पत्त्यपायोन्मेषनिमेषं सोमा-र्काग्निनेत्रं पर्वतेशरदं पुण्यापुण्योष्ठं ग्रहोडुदशनं भारतीजिह्वं शक्रघ्राणंकुलगोत्रांसं सोमेन कण्ठं हरशिरोरुहं सरिन्नदभुजमुरगाङ्गुलिकमृक्षनखं श्रीहृ-त्कमाकाशनाभिकं सागरोदरं महीकटिदेशं सृष्टिलिङ्गकं पर्वतेशोरुं दस्रजा-नुकं जठरान्तःस्थितयक्षगन्धर्वरक्षःकिन्नरमानुषं पातालजंघकं मुनिचरणंकालाङ्गुष्ठकं तारकाजाललाङ्गुलं दृष्ट्वा स्तुवन्ति स्म । यतो वा इमानि भूतानिजायन्ते यतोऽग्निः पृथिव्यप्तेजो वायुर्यत्कराग्राद्ब्रह्मविष्णुरुद्रा अजायन्त यतोवै समुद्राः सरितः पर्वताश्च यतो वै चराचरमिति स्तवनात्प्रसन्नो भूत्वो-वाचाऽहं सर्वस्येशो मत्तः सर्वाणि भूतानि मत्तः सर्वं चराचरं भवन्तो वै नमद्भिन्ना गुणा मे वै न संशयः । गुणेशं मां हृदि संचिन्त्य राजस त्वंजगत्कुरु सात्त्विक त्वं पालय तामस त्वं हरेत्युक्त्वान्तर्हितः । स वै गणेशःसर्वात्मा विज्ञेयः सर्वदेवात्मा वै स एकः । य एवं वेद स गणेशोभवति । इत्युपनिषत् ।इति गणेशोत्तरतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥४॥


Page-----------------६३८--

ॐ ॥ देवा ह वै रुद्रमब्रुवन् कथमेतस्योपासनम् । स होवाच रुद्रो गणकोनिचृद्गायत्री श्रीगणपतेरेनं मन्त्रराजमन्योन्याभावात्प्रणवस्वरूपस्यास्य परमा-त्मनोऽङ्गानि जानीते स जानाति सोऽमृतत्वं च गच्छति । योऽधीते स सर्वंतरति । य एनं मन्त्रराज गणपतेः सर्वदं नित्यं जपति सोऽग्निं स्तम्भयति सौदकं स्तम्भयति स वायुं स्तम्भयति स सूर्यं स्तम्भयति स सर्वान्देवान्स्तम्भ-यति स विषं स्तम्भयति स सर्वोपद्रवान्स्तम्भयति । इत्युपनिषत् । य एनंमन्त्रराजं नित्यमधीते स विघ्नानाकर्षयति देवान्यक्षान् रोगान् ग्रहान्मनुष्यान्सर्वानाकर्षयति । स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं समहर्लोकं स जनोलोकं स तपोलोकं स सत्यलोकं स सप्तलोकं स सर्वलोकंजयति । सोऽग्निष्टोमेन यजते सोऽत्यग्निष्टोमेन स उक्थ्येन स षोडशीयेनस वाजपेयेन सोऽतिरात्रेण सोऽप्तोर्यामेण स सर्वैः क्रतुभिर्यजते । य एनंमन्त्रराजं वैघ्नराजं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीतेसोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते सकल्यानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणवमधीते । य एनंमन्त्रराजं गाणेशं वेद स सर्वं वेद स सर्वं वेद । स वेदसमः स मुनिसमः सनागसमः स सूर्यसमः सोऽग्निसम इति । उपनीतैकाधिकशतं गृहस्थैकाधि-कशतं वानप्रस्थकाधिकशतं रुद्रजापकसमम् । यतीनामेकाधिकशतमथर्व-शिरःशिखाध्यापकसमम् । रुद्रजापकैकाधिकशतमथर्वशिरःशिखाध्यापकैकाधि-कशतं गाणेशतापिनीयोपनिषदध्यापकसमम् । मन्त्रराजजापकस्य यत्र रवि-सोमौ न तपतो यत्र वायुर्नक्षत्राणि न वाति भान्ति यत्राग्निर्मृत्युर्न दहतिप्रविशति यत्र मोहो न दुःखं सदानन्दं परानन्दं समं शाश्वतं सदाशिवं परंब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्रं ब्रह्मणस्पतिमेकाक्षरमेवं पर-मात्मानं बाह्यान्ते लब्धांशं हृदि समावेश्य किञ्चिज्जप्त्वा ततो न जपो नमाला नासनं न ध्यानावाहनादि । स्वयमवतीर्णो ह्ययमात्मा ब्रह्म सोऽहमात्माचतुष्पात् । बहिःप्रज्ञः प्रविविक्तभुक् तैजसः । यत्र सुप्तो न कञ्चन कामंकामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । तत्रैकीभूतः प्रज्ञानघन एवा-नन्दभुक् चेतोमुखः प्राज्ञः । एष सर्वेश्वरः सर्वान्तर्यामी एष योनिः सर्व-भूतानाम् । न बहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनमव्यपदेश्यम-व्यवहार्यमग्राह्यमलक्षणमचिन्त्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतमेवं-----Page-----------------६३९--चतुष्पादं ध्यायन् स एवात्मा भवति । स आत्मा विज्ञेयः सदोज्ज्वलोऽविद्या-तत्कार्यहीनः स्वात्मबन्धरहितो द्वैतरहितो निरस्ताविद्यातमोमोहाहङ्कार-प्रधानमहमेव सर्वमिति सम्भाव्य विघ्नराजब्रह्मण्यमृते तेजोमये परंज्योतिर्मयेसदानन्दमये स्वप्रकाशे सदोदिते नित्ये शुद्धे मुक्ते ज्ञेश्वरे परे ब्रह्मणि रमतेरमते रमते रमते । य एवं गणेशतापनीयोपनिषदं वेद स संसारं तरति घोरंतरति दुःखं तरति विघ्नांस्तरति महोपसर्गं तरति । आनन्दो भवति स नित्योभवति स शुद्धो भवति स मुक्तो भवति स स्वप्रकाशो भवति स ईश्वरोभवति स मुख्यो भवति स वैश्वानरो भवति स तैजसो भवति स प्राज्ञोभवति स साक्षी भवति स एव भवति स सर्वो भवति स सर्वो भवतीति ।इत्युपनिषत् । ॐ स ह नाववतु ॥इति गणेशोत्तरतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥५॥

ॐ ॥ अथोवाच भगवती गौरी ह वै रुद्रमेतस्य मन्त्रराजस्यानुष्ठानविधिं मेब्रूहीति स होवाच रुद्रो विधिं लब्धांशं गुरुदेवतयोरालभ्य मनसा पुष्पंनिवेद्योपक्रम्य भूतोत्सारणमासनबन्धाद्यात्मरक्षासुनियमभूतशुद्धिप्राणस्थापन-प्रणवावर्तनमातृपूजनान्तर्मातृकान्तर्यागादि सम्पाद्यात्र केचन समन्त्रं मूलवै-दिककल्पैरुपक्रमं ग्रहणसमर्पणनिवेदनानि बाह्येऽन्यथेति महार्थ्यं शंखं त्रिपा-द्योर्गन्धादिना पूजितयोः स्थाप्य पात्रासादनं दक्षिणोपक्रमेण पाद्यार्ध्याचमन-मधुपर्कपुनराचमननिवेदनपात्राणि संस्थासु यथोपदिष्टं चतुर्थ्योः पर्वणि संस्थासुयथाविधि स्थाप्य निवेदने प्रक्षालनमेव ततोऽर्वाक् पञ्चामृतपात्राणि रिक्तं चमूलेनालभ्य निवेदिन्यार्घ्योदकेनात्मानं पात्राणि सम्भारं च प्रोक्ष्य पात्राति-रिक्तानि महार्घ्योदकेन सर्वनिवेदनं करशुद्धिं मूलासुनियमं यथोक्तर्षिच्छन्दो-दैवतं स्मृत्वा विनियोगश्च नित्ये पूजाङ्गो जपो जपाङ्गा पूजा जप इत्यङ्गुष्ठव्याप-कस्वान्ताष्टाङ्गदण्डिमुण्डिन्यासादि कृत्वा मुखमवेक्ष्यात्मानं देवरूपिणं सम्भाव्यमूर्ध्नि पुष्पं दत्त्वा पीठं सम्पूज्यासनं दत्त्वा ऋष्यादि कृत्वा ध्यात्वा हृदया-म्भोजे योगिनोऽत्र जपन्ति । स्वान्ताम्भोजाद्देवमावाह्य मुद्रां दर्शयित्वादेवस्य सकलीकरणाङ्गुष्ठहृदयार्पिन्या स्वान्ते मुद्रां निवेद्य पात्राणि च मूलेनदत्त्वा रिक्ते पञ्चामृतं संयोज्य तेन पञ्चवारं सकृद्वाऽभिषिच्य नित्येन संतर्प्यकल्पस्तवनादिपुरुषसूक्तरुद्राध्यायघोषशान्त्यादिना मूलेन चाभिषिच्य सर्वपूजांनिवेद्य दीपं त्रिर्भ्राम्य सव्येनाप्लाव्य महानैवेद्यपीठावरणान्युपसंहृत्य दर्शयेत् ।-----Page-----------------६४०--ताम्बूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धूपादित्रयभक्ष्यादि निवेद्य मुद्राः सर्वोप-चारस्य दर्शयित्वा निवेदनमिदमासनं नमः पाद्ये एषोऽर्घ्यः स्वाहेति दक्षिण-करेऽर्घ्ये इदं स्वधेति पुरस्त्रिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेषुॐ पुष्पाणि नमः पुष्पेष्वेष धूपो दीपो नमो धूपदीपयोः समर्पयामीति नैवे-द्यफलताम्बूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाञ्जलिर्नम इति मालाया-मिति परमं रहस्यमप्रकाश्यं बीजं य एवं वेद स सर्वं वेद स सर्वं वेद ।वर्णार्थं लब्धांशेन मन्त्रार्थेन च पीठावरणदेवतावधानेन वा जपति स जपति ।मुख्यं लब्धांशमासनं मृदुलं भुक्तरिक्तवासःकौसुम्भमाञ्जिष्ठरक्तकम्बलचित्रमृ-गव्याघ्राजिनं वा यथोक्तमुक्तान्यतरैरासनान्तरयोजनास्फटिककमलभद्राक्षमणि-मुक्ताप्रवालरुद्राक्षकुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनंचन्दनालेपो धूपेनाभिमन्त्र्य पृथगभिमन्त्रणं सद्योजातैः पञ्चभिः प्राणस्थापन-जीवनतर्पणगुप्तानि च स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवि-त्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्यां तिललड्डुकैःसप्तम्यां शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिन्पर्वणि महत्यार्च-यन्ति तेऽर्चयन्ति । मोदकपृथुकलाजसक्तुरम्भाफलेक्षुनारीकेलापूपानन्यानि चयथोपदिष्टमाहुतिभिर्जुहोति । जपश्च प्राक्प्रवणे होमोऽन्यथोपास्यः । एवं यःकरोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्नोति मुक्तिं विन्दति भुक्तिं भुनक्तिवाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति योऽधीतेसोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तोभवति स प्रकाशो भवति स दयावान्भवति ज्ञानवान्भवत्यानन्दवान्भवतिविज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं भवत्यमृतत्वं भवतीति ।ॐ सहनाववत्विति शान्तिः ॥

इति गणेशोत्तरतापिन्युपनिषत्सु षष्ठोपनिषत् ॥६॥

इत्याथर्वणीया गणेशतापिन्युपनिषत्समाप्ता ॥११०॥


Page-----------------६४१--