ईशादिविंशोत्तरशतोपनिषदः/उपनिषद‌-०१-१०

विकिस्रोतः तः
Jump to navigation Jump to search


ईशादिविंशोत्तरशतोपनिषदः

॥ ॐ तत्सत् ॥

ईशावास्योपनिषत्[सम्पाद्यताम्]

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥१॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐईशा वास्यमिदँ सर्वं यत्किंच जगत्यां जगत् ॥ तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्घनम् ॥१॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः ॥ एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥

असूर्या नाम ते लोका अन्धेन तमसावृताः ॥ ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनः ॥३॥

अनेजदेकं मन्सो जवीयो नैनद्देवा आप्नुवन्प्रुर्वमर्षत् ॥ तद्धावतोऽन्यान्त्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥

तदेजति तन्नैजति तद्दूरे तद्वन्तिके॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य याह्यतः ॥५॥

यस्तु सर्वानि भूतान्यात्मन्येबानुपश्यति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥

यस्मिन्सर्वानि स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँशुद्धमपापविद्धम् ॥७॥

कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥

विद्यां चाविद्यां च यस्तद्वेदोभयँ स ह ॥ अविद्द्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥११॥

अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥१२॥

अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥

संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥१४॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ॥ तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥


Page-----------------२--


वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् ॥ ॐ क्रमो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भुयिष्ठां ते नमौक्तिं विधेम ॥१८॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शन्तिः शान्तिः शान्तिः ॥

इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा ॥१॥

केनोपनिषत्[सम्पाद्यताम्]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ॥ केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचँ स उ प्राणस्य प्राणः ॥ चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि ॥ इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥३॥

यद्वाचानभ्युदितं येन वागभ्युद्यते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥

यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदँ श्रुतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥

इति केनोपनिषत्सु प्रथमः खण्डः ॥१॥

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ॥ यदस्य त्वं यदस्य च देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥९॥१॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ॥ यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥१०॥२॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥ अविज्ञातं विजानतां विज्ञातमविजानताम् ॥११॥३॥


Page-----------------३--

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ॥ आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥१२॥४॥

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ॥ भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥१३॥५॥

इति द्वितीयः खण्डः ॥२॥

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥१४॥१॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥१५॥२॥

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥१६॥३॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा अहमस्मीति॥१७॥४॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदँ सर्वं दहेयं यदिदं पृथिव्यामिति ॥१८॥५॥

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥१९॥ ॥६॥

अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति॥२०॥७॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥२१॥८॥

तस्मिंस्त्वयि किं वीर्यमित्यपींदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥२२॥१॥

तस्मै तृणं निदधावेतदादत्स्वेति तदुप प्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥२३॥१०॥

अथेन्द्रमब्रुवन्मघवन्नेतद्विजनीहि किमेतद्यक्षमिति ॥ तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥२४॥११॥

स तस्मिन्नेवाकाशे स्रियमाजगाम बहुशोभमनामुमाँ हैमवतिं ताँ होवाच किमेतद्यक्षमिति ॥२५॥१२॥

इति तृतीयः खण्डः ॥३॥

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति ॥२६॥१॥

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्तेन ह्येनन्नेदिष्ठं पस्पृशुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति॥२७॥२॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥२८॥३॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा ३ इतीन्न्यमीमिषदा ३ इत्यधिदैवतम् ॥२१॥४॥

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्षणं संकल्पः ॥३०॥५॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाऽभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥३१॥६॥

उपनिषदं भो ब्रूहीत्युक्ता य उपनिषद्ब्राहीं वाव त उपनिषदमब्रूमेति ॥३२॥७॥


Page-----------------४--

तस्यै तपो दमः कर्मेति प्रतिष्टा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥३३॥८॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥३४॥१॥

इति चतुर्थः खण्डः ॥४॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति सामवेदीया केनोपनिषत्समाप्ता ॥२॥

॥ ॐ तत्सत् ॥

कठोपनिषत्[सम्पाद्यताम्]

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह विर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ॥ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ॥ तस्य ह नचिकेता नाम पुत्र आस ॥१॥

तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥२॥

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥३॥

स होवाच पितरं तत कस्मै मां दास्यसीति ॥ द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥४॥

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ॥ किँ स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥५॥

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ॥ सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥६॥

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ॥ तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥

आशाप्रतीक्षे सङ्गतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ॥ एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥८॥

तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व॥९॥

शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो ॥ त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥१०॥

यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ॥ सुखँ रात्रीः शयिता वीतमन्युस्त्वां दद्दशिवान्मृत्युमुखात्प्रमुक्तम् ॥११॥

स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति ॥ उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके॥१२॥


Page-----------------५--

स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम् ॥ स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥१३॥

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ॥ अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथ वा ॥ स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥१५॥

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ॥ तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥१६॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ॥ ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥१७॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँ श्चिनुते नाचिकेतम् ॥ स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१८॥

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्षयन्ति जनासस्तृतीयं वरं न चिकेतो वृणीष्व ॥१९॥

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ॥ एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥२०॥

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः ॥ अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥२१॥

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ ॥ वक्ता चास्य त्वाद्दगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥२२॥

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् ॥ भूमेर्महदायतनं बृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥२३॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ॥ महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥२४॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामाँश्छन्दतः प्रार्थयस्व ॥ इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ॥ आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥२५॥

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः ॥ अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥२६॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ॥ जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥२७॥

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ॥ अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥२८॥

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्संपराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥२९॥

इति प्रथमेऽध्याये प्रथमा वल्ली ॥१॥


Page-----------------६--

अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँसिनीतः ॥ तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः ॥ श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥२॥

स त्वं प्रियान्प्रियरूपाँश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः ॥ नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ॥ विद्याभीप्सनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥४॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पणिडतंमन्यमानाः ॥ दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥५॥

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥६॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ॥ आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥७॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ॥ अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्ह्यतर्क्यमणुप्रमाणात् ॥८॥

नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ट ॥ यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्गो भूयान्नचिकेतः प्रष्टा ॥९॥

जानाम्यहँ शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ॥ ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥१०॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ॥ स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥११॥

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् ॥ अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥१२॥

एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ॥ स मोदते मोदनीयँ हि लब्ध्वा विवृतँ सद्म नचिकेतसं मन्ये ॥१३॥

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ॥ अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥१४॥

सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति ॥ यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् ॥१५॥

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ॥ एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१६॥

एतदालम्बनँ श्रेष्ठमे तदालम्बनं परम् ॥ एतदालम्बनं ज्ञात्व ब्रह्मलोके महीयते ॥१७॥


Page------------------७--


जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ॥ अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१८॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ॥ अभौतौ न विजनीतो नायं हन्ति न हन्यते॥१९॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो ग्र्हायाम् ॥ तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥२०॥

आसीनो दूरं ब्रजति शयानो याति सर्वतः ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥२१॥

अशरीरँशरीरेष्वनवस्थेष्ववस्थितम् ॥ महन्तं विभुमात्मानं मत्वा धीरो न शोचि ॥२२॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुन श्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥२३॥

नाविरतो दुश्चरितान्नाशान्तो नासमहितः ॥ नाशान्तमानसो वपि प्रज्ञानेनैनमाप्नुयात् ॥२४॥

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ॥ मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥२५॥

इति प्रथमोऽध्याये द्वितीया वल्ली ॥२॥

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ॥ छायातपौ ब्रह्मविदो वदन्ति पन्चाग्नयो ये च त्रिणाचिकेताः ॥१॥

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ॥ अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥२॥

आत्मनं रथिनं विद्धि शरीरं रथमेव तु ॥बुद्धिं तुसारथिं विद्धि मनः प्रग्रहठ मेव च ॥३॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ॥ तस्येन्द्रिए!याण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥ तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ॥ न स तत्पदमाप्नोति सँ सारं चाधिगच्छति॥७॥

यस्तु विज्ञावान्भवति समनस्कः सदा शुचिः ॥ स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥८॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ सोऽध्वनः प्रारमाप्नोति तद्विष्णोः परं पदम् ॥९॥

इन्द्रियेभ्या परा ह्यर्था अर्थेभ्यश्च परं मनः ॥ मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥१०॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः॥११॥

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ॥ दृश्यते त्वग्रयया बुद्ध्या सूक्षमया सूक्षमदर्शिभिः ॥१२॥

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यछेज्ज्ञान आत्मनि ॥ ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥१३॥


Page-----------------८--

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ॥ क्षुरस्य धारा निशिता दुरत्यया दुर्गं यथस्तत्कवयो वदन्ति ॥१४॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च य त् ॥ अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखत्प्रमुच्यते ॥१५॥

नचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ॥ उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥१६॥

य इमं परं गुह्यं श्रावयेद्ब्रह्मसंसदि ॥ प्रयतः श्राद्धकाले वा तदाननत्याय कल्पते तदाननत्यय कल्पत इति ॥१७॥


इति प्रथमाध्याये तृतीया वल्ली समाप्ता ॥३॥

इति प्रथमोऽध्यायः समाप्तः ॥१॥

पराञ्चि खानि व्यतृणत्स्वयं भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ॥ कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥१॥

परचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ॥ अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥२॥

येन रूपं रसं गन्धं शब्दान्स्पर्शाँ श्च मैथुनान् ॥ एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै तत् ॥३॥

स्वप्नान्तं शोचति ॥४॥

य् इमं मध्वदं वेद अत्मनं जीवमन्तिकात् ॥ ईशानं भूतभव्यस्य शोचति ॥४॥

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ॥ इशानं भूतभव्यस्य न ततो विजुगुप्सते एतद्वै तत् ॥५॥

यः पूर्वं तपसो जातमद्भ्यः पूर्वमजयत ॥ गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यते एतद्वै तत् ॥६॥

या प्राणेन संभवत्यदितिर्देवतामयी ॥ गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत एतद्वै तत् ॥७॥

अरण्योर्निहितो जतवेदा गर्भ इव सुभृतो गर्भिणीभिः ॥ देवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः एतद्वै तत् ॥८॥

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ॥तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन एतद्वैतत् ॥९॥

यदेवेह तदमुत्र यदमुत्र तदन्विह ॥ मृत्योः स मृत्युमप्नोति य इह नानेव पश्यति ॥१०॥

मनसैवेदमप्तव्यं नेह नानास्ति किंचन ॥मृत्योः स मृत्यु गच्छति य इह नानेव पश्यति ॥११॥

अङ्गुष्ठामात्रः पुरुषो मध्य आत्मनि तिष्ठति ॥ईशानो भूतभव्यस्य न ततो विजुगुप्सते एतद्वै तत् ॥१२॥

अङ्गुष्ठमात्रह् पुरुषो ज्योतिरिवाधूमकः ॥ ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वै तत् ॥१३॥

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥ एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावति ॥१४॥

यथोदकं शुद्धे शुद्धमासिक्तं तादृजेव भवति ॥एवं मुनेर्विजानत आत्मा भवति गौतम ॥१५॥

इति द्वितीयेऽध्याये प्रथमा वल्ली समप्ता ॥१॥४॥


Page------------------९--

पुरमेकादशद्वारमजस्यावक्रचेतसः ॥ अनुष्टाय न शोचति विमुक्तश्च विमुच्यते एत्द्वै तत् ॥१॥

हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ॥ नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२॥

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ॥ मध्ये वामनमासीनं विश्वेदेवा उपासते ॥३॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ॥ देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वै तत् ॥४॥

न प्राणेन नपानेन मर्त्यो जीवति कश्चन ॥ इतरेण तु जीवन्ति यस्मिन्नेताबुपाश्रितौ ॥५॥

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनतनम् ॥ यथा च मरणं प्राप्य आत्मा भवति गौतम ॥६॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥ स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥७॥

य एष सुप्तेसु जागर्ति कामं कामं पुरुषो निर्मिमणः ॥ तदेव शुक्रं तद्ब्र्ह्म तदेवामृतमुच्यते ॥ तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति क्श्चन एतद्वै तत् ॥८॥

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥ एकस्तथा सर्वभूतन्तरात्मा रूपं रुपं प्रतिरूपो बहिश्च ॥९॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥ एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥१०॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ॥ एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुः खेन बाह्याः॥११॥

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यह् करोति ॥ तमात्मस्थं येऽनुपश्यन्ति घीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥

नित्योऽनित्यानां चेतनश्चेतनानामेको बुहूनां यो विदधाति कामान् ॥ तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥१३॥

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ॥ कथं नु तद्विजानीयां किमु भाति विभाति वा ॥१४॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ तमेव बान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभति ॥१५॥

इति द्वितीयेऽध्याये द्वितीया वल्ली समप्ता ॥२॥४॥

। ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ॥ तदेव शुक्रं तत्ब्रह्म तदेवामृतमुच्यते ॥ तत्स्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्वन एतद्वै तत् ॥१॥

यदिदं किं च जगत्सर्वं प्राण एजति निः सृतम् ॥ महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥२॥

भयादस्याग्निस्तपति भयात्तपति सूर्यः ॥ भयादिन्द्रश्च वायुश्च मृत्युर्धावति पन्चमः ॥३॥

इह चेदशकद्बोद्धुं प्राक् शरीर्सय विविस्रसः ॥ ततः सर्गेसु लोकेषु शरीरत्वय कल्पते ॥४॥

यथादर्थे तथात्मनि यथा स्वप्ने तथा पितृलोके ॥ यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥५॥


Page------------------१०--

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ॥पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥६॥

इन्द्रियेभ्यः परं मनो मनसः स्त्त्वमुत्तमम् ॥ सत्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥७॥

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ॥ यं ज्ञात्वा मुच्यते जन्तुर्मृतत्वं च गच्छति॥८॥

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ॥ हृदा मनीषी मनसाऽभिक्लृप्तो य एतद्विदुरसृतास्ते भवन्ति ॥९॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥ बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥१०॥

तां योगमिति मन्यन्ते स्तिरामिन्द्रियधारणाम् ॥ अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥११॥

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ॥ अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते॥१२॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ॥ अस्तीत्येवोपलब्धस्य तत्वभावः प्रसीदति ॥१३॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ॥ अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नते ॥१४॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रनथयः ॥ अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥१५॥

शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिः सृतैका ॥ तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥१६॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ॥तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ॥ तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥१७॥

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ॥ ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥

इति द्वितीयेऽध्याये तृतीया वल्ली समाप्ता ॥३॥६।

इति द्वितीयोऽध्यायः ॥२॥

ॐ सह् नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति यजुर्वेदीया कठोपनिषत्समाप्ता ॥३॥

॥ ॐ तत्सत् ॥

प्रश्नोपनिषत्[सम्पाद्यताम्]

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौशल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कत्यायन्स्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलदमुपसन्नाः ॥१॥

तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥

अथा कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजयन्त इति ॥३॥

तस्मै स होवाच प्रजकमो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते ॥ रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रशिमषु संनिधत्ते यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान् रशिमषु संनिधत्ते ॥६॥

स एष वैस्वानरो विस्वरूपः प्राणोऽग्निरुदयते ॥ तदेतद्दचाभ्युक्तम् ॥७॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ॥ सहस्ररशिमः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ॥ तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ॥ त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ॥ एष ह वै रयिर्यः पितृयाणः ॥९॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमनिवष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ॥अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेते ऋषयः शुक्ल ईष्टं कुर्वन्तीतर इतरस्मिन्॥१२॥

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥१४॥

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ॥ तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् ॥१५॥


Page------------------१२--

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥

इति प्रथमः प्रश्नः ॥१॥

अथ हैनं भर्गवो वैदर्भिः पप्रच्छठ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च ॥ते प्रकाश्याभिवदन्ति वयमेतद्बाणवष्टभ विधारयामः ॥२॥

तान्वरिष्ठः प्राण अवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामिति ॥ तेऽश्रद्दधाना बभूवुः ॥३॥

सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते तस्मिण्श्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते तस्मिं श्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवनेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं यत् ॥५॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ॥ ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥६॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ॥ तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ॥ ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥

इन्द्रस्त्वं प्राण रेजसा हद्रोऽसि परिरक्षिता ॥ त्वमन्तरिक्षे चरसि सुर्यस्त्वं ज्योतिषां पतिः ॥९॥

यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः ॥ आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥

व्रात्यस्त्वं प्राणैकृषिरत्ता विश्वस्य सत्पतिः ॥ वयमाद्यस्य दातारः पिता त्वं मातिरिश्व नः ॥११॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च च्क्षुषि ॥ या च मन्सि सं तता शिवां तां कुरु मोत्क्रमीः ॥१२॥

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ॥ मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥

इति द्वितीयः प्रश्नः ॥२॥

अथ हैनं कौसल्यश्चाश्वलयनः पप्रच्छ ॥ भगवन्कुत एष प्राणो जायते कथमयात्यस्मिञ्छरीर शात्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं ब्राह्ममभिधत्ते कथमध्यात्ममिति ॥१॥

तस्मै स होवाचातिप्रश्नापृच्छसि ब्रह्मिष्टोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥

आत्मन एष प्राणो जायते ॥ यथैषा पुरुषे छायैनस्मिन्नेतदातत मनोकृतेनायात्यस्मिञ्छरीरे ॥३॥


Page------------------१३--

यथा सम्राडे वाधिदृतान्विनियुङ्के एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥४॥

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनसिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः ॥ एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥

हृदि ह्येष आत्मा ॥ अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥६॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥७॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्वानः ॥ पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टब्यान्तरा यदाकाशः स समानो वायुर्व्यानः॥८॥

तेजो ह व उदानस्तस्मादुपशान्ततेजाः ॥ पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥९॥

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति ॥१०॥

य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥११॥

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ॥ अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥१२॥

इति तृतीयः प्रश्नः ॥३॥

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ॥ भगवन्नेतस्मिन्पुरुषे कानि स्व पन्ति कान्यस्मिन् जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥

तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनःपुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मन्स्येकीभवति ॥ तेन तर्ह्येष पुरुषो न शृणो ति न पश्यति न जिघ्रति न रसयते न स्पृशते नभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति ॥ गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्राणयनादाहवनीयः प्राणः ॥३॥

यदुच्छ्वासनिः श्वासावेतावाहुती समं नयतीति स समानः ॥ मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं द्दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोतो देशदिगन्तरैश्च प्रत्यनु भूतं पुनः पुनः प्रत्यनुभवति द्दृष्टं चाद्दृ च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥५॥

स यद तेजसभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिन्छरीर एतत्सुखं भवति ॥६॥


Page-----------------१४--

स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते ॥ एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥७॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च र सयितव्यं च त्वक् च स्पर्शयितव्यं च वाहक् च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पयुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चहक्कारश्चहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥

एष हिद्रष्टा स्प्रष्टा श्रोता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥

परमेवाक्षरम् प्रतिपद्यते स यो ह वै तद्च्छयमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति ॥ तदेष श्लोकः ॥१०।

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ॥ तद्क्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥


इति चतुर्थः पश्नः ॥४॥

अथ हैनं शैब्यः सत्यकामः पप्रच्छ ॥ स यो ह वै तद्ठगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत ॥ कतमं वाव स तेन लोकं जयतीति ॥१॥

तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदॐकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥२॥

स यद्येकमत्रमभिध्यायीत स तेनैव संवेदितस्तूर्णभेव जगत्यमभिसंपद्यते ॥ तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपस ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥३॥

अथ यदि द्विमात्रेण मन्सि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ॥ स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥४॥

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः ॥ यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनत्परात्परं पुरिशयं पुरुषमीक्षते ॥ तदेतौ श्लोकौ भवतः ॥५॥

तिस्रो मत्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ॥ क्रियासु ब्राह्माभ्यन्तरमध्यमसु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमॐकारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥

इति पञ्चमः प्रश्नः ॥५॥


Page-----------------१५--

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ॥ भगवन्धिरण्यनाभः कौसल्यो रजपुत्रो ममुपेत्यैतं प्रश्नमपृच्छत ॥ षोडशकलं भरद्वज पुरुषं वेत्थठतमहं कुमरमब्रुवं नाहमिमं वेद ॥ यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति ॥ समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् ॥ स तूष्णीं रथमरुह्य प्रवव्राज ॥ तं त्वा पृच्छामि क्वासौ पुरुष इति॥१॥

तस्मै स होवाच ॥ इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेतह् षोडशकलाः प्रभवन्तीति ॥२॥

स ईक्षांचक्रे ॥ कस्मिन्नहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथीवीन्द्रियं मनोऽन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोक लोकेषु च नाम च ॥४॥

यथेमा नद्यः स्यन्दमनाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नमरूपे समुद्र इत्येवं प्रोच्यते ॥ एवमेवास्य परिद्रष्टुरिमाः पोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति ॥ तदेष श्लोकः ॥५॥

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥

तन्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥

ते तम्र्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायः परं पारं तारयसीति ॥ नमः परमृषिभ्यो नमः परमृषिभ्याः ॥८॥


इति ष्ठः प्रश्नः ॥६॥

ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रम् पश्येमक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द धातु ॥ ॐ शान्तिः शन्तिः शान्तिः ॥ इत्यथर्ववेदीया प्रश्नोपनिषत्समप्ता ॥

॥ ॐ तत्सत् ॥

मुण्डकोपनिषत्[सम्पाद्यताम्]

ॐ भद्रम् कर्णेभिः शृणुयाम देवा भद्रं पश्येमक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो बृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शन्तिः ॥


Page------------------१६--

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ॥ स ब्रह्म विद्यं सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥१॥

अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्यम् ॥ स भरद्वजय सत्यवहाय वदुपसन्नः पप्रच्छ ॥ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम् भवतीति ॥३॥

कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥ अथ परा यया तदक्षरमधिगम्यते ॥५॥

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति ॥ यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ॥७॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजयते ॥ अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥८॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ॥ तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥९॥

इति प्रथममुण्डके प्रथमः खण्डः ॥१॥

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ॥ तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥१॥

यदा लेलायते हृर्चिः समिद्धे हव्यवाहने ॥ तदाज्यथागावन्तरेणाहुतीः प्रतिपादयेच्छ्रद्धया हुतम् ॥२॥

यस्याग्निहोत्रमदर्शमपौर्णमसमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ॥ अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥३॥

काली कराली च मनोजवा च सुलोहिता य च सुधूम्रवर्णा ॥ स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥४॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ॥ तन्नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां परिरेकोऽधिवासः ॥५॥

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रशिमभिर्यजमानं वहन्ति ॥ प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्त-स्स् मवरं येषु कर्म ॥ एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥७॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पणिडतंमन्यमानाः ॥ जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमान यथान्धाः ॥८॥

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ॥ यत्कर्मिणो न प्रवेद-----Page------------------१७--

यन्ति रागात्तेनातुराः क्षीणलोकाश्चयवन्ते ॥९॥

इष्टोपूर्तं मन्यमाना वरिष्ठं नान्यछ्रेयो वेदयन्ते प्रमूढाः ॥ नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥१०॥

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ॥ सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥११॥

परीक्षय लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायन्नास्त्यकृतः कृतेन ॥ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पानणिः श्रोत्रियं ब्रह्मनिष्ठम्॥१२॥

त्स्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमन्विताय ॥ येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥१३॥

इति प्रथममुण्डके द्वितीयः खण्डः ॥२॥

इति प्रथममुण्डकं समाप्तम् ।

तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ॥ तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥१॥

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ॥ अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥२॥

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ॥ खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥३॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ॥ वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥४॥

तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्यम् ॥ पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः ॥५॥

तस्मादृचः साम यजूँषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ॥ संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥६॥

तस्माच्च देवा बुहुधा संप्रसूताः साध्या मनुष्याः पशवो वयाँसि ॥ प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥७॥

सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः ॥ सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥८॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ॥ अतश्च सर्वा ओषधयो रसश्च येनैष भूतै स्तिष्टते ह्यन्तरात्मा ॥९॥

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ॥ एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥१०॥

इति द्वितीयमुण्डके प्रथमः खण्डः ॥१॥

आविः संनिहितं गुहचरं नम महत्पदमत्रैतत्समार्पितम् ॥ एजत्प्राणन्निमिषच्च यदेतज्जानथा सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥१॥


Page------------------१८--

यदर्चिम्द्य दणुभोऽणु च यस्मँल्लोका निहिता लोकिनश्च ॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाज्ननः ॥ तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥२॥

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं क्युपासानिशितं संधयीत ॥ आयम्य तद्भावगतेन चेतसा लस्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्ल्क्ष्यमुच्यते ॥ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥४॥

यस्मिन्द्यौः पृयिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ॥ तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥

अरा इव रथनाभौ संहता यत्र नाड्यः ॥ स एषोऽन्तश्चरते बहुधा जायमानः ॥ ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पराय तमसः परस्तात् ॥६॥

यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ॥ दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय ॥ तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥७॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥ क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥८॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ॥ तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥९॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१०॥

ब्रह्मैवेदममृतं पुरस्ता[Ê]ह्म पश्चा[Ê]ह्मन् बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ॥ दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥७॥


Page-----------------१९--

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ॥ ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ॥ प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ॥ तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥१०॥

इति तृतीयमुण्डके प्रथमः खण्डः ॥१॥

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ॥ उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥१॥

कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ॥ पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥२॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥३॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ॥ एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ॥ ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥५॥

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ॥ ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥६॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रति देवतासु ॥ कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥७॥

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ॥ तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥८॥

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ॥ तरति शोक्तं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥९॥

तदेतदृचाऽभ्युक्तम् ॥ क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ॥ तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥१०॥

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते ॥ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥११॥

इति तृतीयमुण्डके द्वितीयः खण्डः ॥२॥

devi upanishad ?[सम्पाद्यताम्]

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्ध-----Page------------------२०--


Page-----------------२१--


Page-----------------२२--

यदमुष्य रूपं यावमुष्य गेष्ठणौ तौ गेष्णौ यन्नामठ तन्नाठम ॥५॥

स एषठ ये चैतस्मादर्वाञ्चोठ लोकास्तेठ चेष्टे मनुष्यकामानां चेति तठ इमे वीणायांठ गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥६॥

अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्तँठश्चाप्नोति देवकामाँठश्च ॥७॥

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँठश्चाप्नोति मनुठष्ठयकामाँठश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥८॥

कं ते कामठमाठगायानीत्येष ह्येव कामामानस्येष्ठेठ य एवं विद्वान्साम गायति साम गायठति ॥९॥

इति प्रथमाध्याये सप्तमः खण्डः ॥७॥

त्रयो होद्गीथे कुशला बभूबुःठ शिलकः शालावत्यश्चैकितयठनो दात्म्यःठ प्रवाहणो जैवलिरिति ते होचुठरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां क्दाम इति ॥१॥

तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतांठ ब्राह्मणयोर्वदतोर्वाच्ँ श्रोष्यामीति ॥२॥

स ह शिलकः शालावत्यश्चैकितायनं दत्म्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥३॥

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य कागतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥४॥

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमलिनयेदिति होवाच स्वर्गं वयं लिक्ँ सामाभिर्संठस्थापयामः स्वर्गस्स्ताँव्ँ हि सामेठति ॥५॥

त्ँ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यलीति मूर्धा ते विपतेदिति ॥६॥

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययंठ लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयंठ लोक्ँ सामाभिठस्ँ स्थापयामः प्रतिष्ठास्ँ स्ताव्ँ हि सामेति ॥७॥

त्ँ ह प्रयाठहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विठद्धीति होवाच ॥८॥

इति प्रथमाध्याऽष्टमः खण्डः ॥८॥

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानिठ भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायातैत्तिरीयोपनिषत् ॥७॥


Page------------------२३--

तैत्तिरीयोपनिषत्[सम्पाद्यताम्]

? where are 5 anuvaks?

स य एषोऽन्तर्हृदय् आकाशः ॥ तस्मिन्नयं पुरुषो मनोमयः ॥ अमृतो हिरण्मयः ॥ अन्तरेण तालुके ॥ य एष स्तन इस्वावलम्बते ॥ सेन्द्रयोनिः ॥ यत्रासौ केशान्तो विवर्तते ॥ व्य्पोह्य शीर्षकपाले ॥ भूरित्यग्नौ प्रतितिष्ठति ॥ भुव इति वायौ ॥१॥

सुवरित्यादित्ये ॥ मह इति ब्रह्मणि ॥ आप्नोति स्वाराह्ज्यम् ॥ आप्नोति मनसस्पतिम् ॥ वाक्पतिश्चक्षुष्पतिः ॥ श्रोत्रपतिर्विज्ञानपतिः ॥ एतत्ततो भवति ॥ आकाशशरीरं ब्रह्म ॥ स्त्यात्म प्राणारामं मनआनन्दम् ॥ शान्तिसमृद्धममृतम् ॥ इति प्राचीनयोग्योपास्स्व ॥२॥

[Ê]वायावमृतमेकं च ठ ॥

इति शीक्षाध्याये षष्ठोऽनुवाकः ॥६॥

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ॥ अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ॥ आप ओषधयो वनस्पतय आकाश आत्मा ॥ इत्यधिभूतम् ॥ अथाध्यात्मम् ॥ प्राणो व्यानोऽपान उदानः समानः ॥ चक्षुः श्रोत्रं मनो वाक् त्वक् ॥ चर्म माँसँ स्रावास्थि मज्जा ॥ एतदधिविधाय ऋषिरवोचत् ॥ पाङ्क्तं वा इदँ सर्वम् ॥ पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥१॥

ठसर्वमेकं चठ ॥ इति शीक्षाध्याये सप्तमोऽनवाकः ॥७॥

ओमिति ब्रह्म ॥ ओमितीदँसर्वम् ॥ ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ॥ ओमिति सामानि गायन्ति ॥ ओँ शोमिति शस्राणि शँसन्ति ॥ ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ॥ ओमिति ब्रह्मा प्रसौति ॥ ओमित्यग्निहोत्रमनुजानाति ॥ ओमिति ब्रह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवारीति ॥ ब्रह्मैवोपाप्नोति ॥१॥

ठॐदशठ ॥ इति शीक्षाध्यायेऽष्टमोऽनुवाकः ॥८॥

ऋतिं च स्वाध्यायप्रवचने च ॥ सत्यं च स्वाध्यायप्रवचरे च ॥ तपश्च स्वाध्यायप्रवचने च ॥ दमश्च स्वाद्यायप्रवचने च ॥ शमश्च स्वाध्यायप्रवचने च ॥ अग्नयश्च स्वाध्यायप्रवचे च ॥ अग्निहोत्रं च स्वाध्यायप्रवचने च ॥ अतिथयश्च स्वाद्यायप्रवचने च ॥ मानुषं च स्वाध्यायप्रवचने च ॥ प्रजा च स्वाध्यायप्रवचने च ॥ प्रजनश्च स्वाध्यायप्रवचने च ॥ प्रजातिश्च स्वाध्यायप्रवचने च ॥ सत्यमिति सत्यचा राथीतरः ॥ तप इति तपोनित्यः पौरुशिष्टिः ॥ स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ॥ तद्धि तपस्तद्धि तपः ॥६॥

ठप्रजा च स्वाध्यायप्रवचने च षट् चठ ॥

इति शीक्षाध्याये नवमोऽनुवाकः ॥९॥


Page-----------------२४--

अहं वृक्षस्य रेरिवा ॥ कीर्तिः पृष्ठं गिरेरिव ॥ ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ॥ द्रविणँ सवर्धसम् ॥ सुमेधा अमृतोक्षितः ॥ इति त्रिशक्कोर्वेदानुवचनम् ॥१॥

ठअहँ षट्ठ॑॥

इति शीक्षाद्याये दशमोऽनुवाकः ॥

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति ॥ सत्यं वद ॥ धर्मं चर ॥ स्वाध्यायान्मा प्रमदः ॥ आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ॥ सत्यान्न प्रमदितव्यम् ॥ धर्मांन्न प्रमदितव्यम् ॥ कुशलान्न प्रमदितव्यम् ॥ भूत्यै न प्रमदितव्यम् ॥ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥१॥

देवपितृकार्याभ्यां न प्रमदितव्यम् ॥ मातृदेवो भव ॥ पितृदेवो भव ॥ आचार्यदेवो भव ॥ अथितिदेवो भव ॥ यन्यनवद्यानि कर्माणि ॥ तानि सेवितव्यानि ॥ नो इतराणि ॥ यान्यस्माकँ सुचरितानि ॥ तानि स्वयोपास्यानि॥२॥

नो इतराणि ॥ ये के चास्मच्छ्रेयाँ सो ब्राह्मणाः ॥ तेषां त्वयाऽसने न प्रश्चसितव्यम् ॥ श्रद्धया देयम् ॥ अर्श्रद्धयाऽदेयम् ॥ श्रिया देयम् ॥ ह्निया देयम् ॥ भिया देयम् ॥ संविदा देयम् ॥ अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥३॥

ये तत्र ब्राह्मणाः संसर्शिनः ॥ युक्ता आयुक्तः ॥ अलूक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् ॥ तथा तत्र वर्तेथाः ॥ अथाभ्याख्यातेषु ॥ ये तत्र ब्राह्माणाः संमर्शिनः ॥ युक्ता आयुक्ताः॥ अलूक्षा धर्मकामाः स्युः ॥ यथा ते तेषु वर्तेरन् ॥ तथा तेषु वर्तेथाः ॥ एष आदेशः ॥ एष उपदेशः ॥ एषा वेदोपनिषत् ॥ एतदनुशासनम् ॥ एवमुपासितव्यम् ॥ एवमु चैतदुपास्यम् ॥४॥

ठस्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन् सप्त च॑ठ॥

इति शीक्षाध्याये एकादशोऽनुवाकः ॥११॥

शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो वृहस्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥ त्वामेव प्रत्यक्षं ब्रह्मावादिषम् ॥ ऋतमवादिषम् ॥ सत्यमवादिषम् ॥ तन्मामावीत् ॥ तद्वक्तारमावीत् ॥ आवीन्माम् ॥ आवीद्वक्तारम्॥१॥

ॐ शान्तिः शान्तिः शान्तिः ॥ ठस्त्यमवादिषं पञ्च च॑ठ ॥

इति शीक्षाध्याये द्वादशोऽनुवाकः ॥१२॥

शं नः शीक्षाँ सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यृतं चाहं वेदमनूच्य शं नो द्वादस ॥१२॥

शं नो मह इत्यादित्यो नो इतराणि

त्रयोविँशतिः ॥२३॥

ॐ शं रोमित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो वृहस्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥ स्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि ॥ तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥ अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि प्रथमः शीक्षाध्यायः समाप्तः ॥१॥

अथ ब्रह्मवल्ल्यध्यायः ॥२॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ ब्रह्मविदाप्नोति परम् ॥ तदेषाऽभ्युक्ता ॥ सत्यं ज्ञानमनन्तं ब्रह्म ॥ यो वेद निहितं गुहायां परमे व्योमन् ॥ सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ॥ तस्माद्वा एतस्मादात्मन् आकाशः सम्भूतः ॥ आकाशाद्वायुः ॥ वायोरग्निः ॥ अग्नेरापः ॥ अभ्द्यः पृथिवी ॥ पृथिव्या ओषधयः ॥ ओषवी भोऽन्नम् ॥ अन्नात्पुरुषः ॥ स वा एष पुरुषोऽन्नरसमयः ॥ तस्येदमेव शिरः ॥ अयं दक्षिणः पक्षः ॥ अयमत्तरः पक्षः ॥ अयमात्मा ॥ इदं पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥

इति ब्रह्मवल्ल्यध्याये प्रथमोऽनुवाकः ॥१॥

अनाद्वै प्रजाः प्रजायन्ते ॥याः काश्च पृथिवीँ श्रिताः ॥ अथो अन्नेनैव जीवन्ति ॥ अथैनदपि यन्त्यन्ततः ॥ अन्नँ हि भूतानां ज्येष्ठम् ॥ तस्मात्सर्वौ षधमुच्यते ॥ सर्वं वै तेऽन्नमाप्नुवन्ति ॥ येऽन्नं ब्रह्मोपासते ॥ अन्नँ हि भूतानां ज्येष्ठम् ॥ तस्मात्सर्वौषधमुच्यते ॥ अन्नाद्भूतानि जायन्ते ॥ जातन्यन्नेन वर्धन्ते ॥ अद्यतेऽत्ति च भूतनि तस्मादन्नं तदुच्यते इति ॥ तस्माद्वा एत स्मादन्नरसमयात् ॥ अन्योऽन्तर आत्मा प्राणमयः ॥ तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य प्राण एव शिरः ॥ व्यानो दक्षिणः पक्षः ॥ अपान उत्तरः पक्षः ॥ आकाश आत्मा ॥ पृथिवी पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥ इति ब्रह्मवल्लध्याये द्वितीयोऽनुवाकः ॥२॥

प्राणं देवा अनु प्राणन्ति ॥ मनुष्याः पशवश्च ये ॥ प्राणो हि भूतानामायुः ॥ तस्मात्सर्वायुषमुच्यते ॥ सर्वमेव त आयुर्यन्ति ॥ ये प्राणं ब्रह्मोपासते ॥ प्राणो हि भूतानामायुः ॥ तस्मात्सर्वायुषमुच्यते इति ॥ तस्ये ष एव


Page-----------------२६--

शारीर आत्मा ॥ यः पूर्वस्य ॥ तस्माद्वा एतस्मात्प्राणमयात् ॥ अन्योऽन्तर आत्मा मनोमयः ॥ तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य यजुरेव शिरः ॥ ऋग् द्क्षिणः पक्षः ॥ सामोत्तरः पक्षः ॥ आदेश आत्मा ॥ अथर्वाङ्गरसः पुच्छं प्रतिष्ठा ॥ तद्प्येष श्लोको भवति ॥ इति ब्रह्मवल्लयध्याये तृतीयोऽनुवाकः ॥३॥


यतो वाचो निवर्तन्ते ॥ अप्राप्य मनसा सह ॥ आनन्दं ब्रह्मणो विद्वान् ॥ न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा ॥ यः पूर्वस्य ॥ तस्माद्वा एतस्मान्मनोमयात् ॥ अन्योऽन्तर आत्मा विज्ञानमयः ॥ तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुर्षविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य श्रद्धैव शिरः ॥ ऋतं दक्षिणः पक्षः ॥ सत्यमुत्तरः पक्षः ॥ योग आत्मा ॥ महः पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥ इति ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः ॥४॥


विज्ञानं यज्ञं तनुते ॥ कर्माणि तनुतेऽपि च ॥ विज्ञानं देवाः सर्वे ॥ ब्रह्म ज्येष्ठमुपासते ॥ विज्ञानं ब्रह्म चेद्वेद ॥ तस्माच्चेन्न प्रमाद्यति ॥ शरीरे पाप्मनो हित्वा ॥ सर्वान्कामान्समश्नुत इति ॥ तस्यैष एव शारीर आत्मा ॥ यः पूर्वस्य ॥ तस्माद्वा एतस्माद्विज्ञानमयात् ॥ अन्योऽन्तर आत्मानन्दमयः ॥ तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य प्रियमेव शिरः ॥ मोदो दक्षिणः पक्षः ॥ प्रमोद उत्तरः पक्षः ॥ आनन्द आत्मा ॥ ब्रह्म पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥ इति ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः ॥५॥

असन्नेव स भवति ॥ असद्बृह्मोति वेद चेत् ॥ अस्ति ब्रह्मोति चेद्वेद ॥ सन्तमेनं ततो विदुरिति ॥ तस्यैष एव शारीर आत्मा ॥ यः पूर्वस्य ॥ अथातोऽनुप्रश्नाः ॥ उताविद्वानमुं लोकं प्रेत्य ॥ कश्चन गच्छती ३॥

आहो विद्वानमुं लोकं प्रेत्य ॥ कश्चित्समश्नुता ३॥

सोऽकामयत ॥ बहु स्यां प्रजायेयेति ॥ स तपोऽतप्यत ॥ स तप्स्तह्वा ॥ इदँ सर्वमसृजत ॥ यदिदं किंच ॥ तत्सृष्ट्वा ॥ तदेवानुप्राविशत् ॥ तदनु प्रविश्य ॥ सच्च तुच्चाभवत् ॥ निरुक्तं चानिरुक्तं च ॥ निलयनं चानिलयनं च ॥ विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् ॥ यदिदं किंच ॥ तत्सत्यमित्याचक्षते ॥ तदप्येष श्ल्को भवति ॥ इति ब्रह्मवल्ल्यध्याये षष्ठोऽनुवाकः ॥६॥



Page-----------------२७--

असद्वा इदमग्र आसीत् ॥ ततो वै सदजायत ॥ तदात्मानँ स्वयमकुरुत ॥ तस्मात्तत्सुकृतमुच्यत इति ॥ यद्वै तत्सुकृतम् ॥ रसो वै सः ॥ रसँ ह्येवायं लबध्वानन्दी भवति ॥ को ह्येवान्यात्कः प्राण्यात् ॥ यदेष आकाश आनन्दो न स्यात् ॥ एष ह्येवानन्दयाति ॥ यदा ह्येवैष एतस्मिन्न दृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ॥ अथ सोऽभयं गतो भवति॥ यदा ह्येवैष एतस्मिन्नुदरमन्तरं कृरुते ॥ अथ तस्य भयं भवति ॥ तत्त्वे व भयं विदुषोऽमन्वानस्य ॥ तदप्येष श्लोको भवति ॥ इति ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ॥७॥

भीषाऽस्माद्वातः पवेते ॥ भीषोदेति सूर्यः ॥ भीषाऽस्मादग्निश्चेन्द्रश्च ॥ मृत्युर्धावति पञ्चम इति ॥ सैषाऽऽनन्दस्य मीमाँसा भवति ॥ युवा स्यात्साधुयुवाध्यायकः ॥ आआशिष्ठो द्रढिष्ठो बलिष्ठः ॥ तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ॥ स एको मानुष आनन्दः ॥ ते ये शतं मानुषा आनन्दाः ॥ स एको मनुष्यगन्धर्वाणामानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ॥ स एको देवगन्धर्वाणामानन्दः ॥ श्रोत्रियस्य वाकामहतस्य ॥ ते ये शतं देवगन्धर्वाणामानन्दाः ॥ स एकः पितॄणां चिरलोकलोकाननामानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः ॥ स एक आजानजानां देवानामानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतमाजानजानां देवानामानन्दाः ॥ स एकः कर्मदेवानां देवानामानन्दः ॥ ये कर्मणा देवान्पियन्ति ॥ श्रोत्रियस्य चाकामहतस्य॥ ते ये शतं कर्मदेवानां देवानामानन्दाः ॥ स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं देवानामानन्दाः ॥ स एक इन्द्रस्यानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतमिन्द्रस्यानन्दाः ॥ स एको बृहस्पतेरानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं बृहस्पतेरानन्दाः ॥ स एकः प्रजापतेरानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं प्रजापतेरानन्दाः ॥ स एको ब्रह्मण आनन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ स यश्चायं पुरुषे ॥ यश्चासावादित्ये ॥ स एकः ॥ स य एवंवित् ॥ अस्माल्लोकात्प्रेत्य ॥ एतमन्नमयमात्मानमुपसंक्तामति ॥ एतं प्राणमयमात्मानमुपसंक्तामति ॥ एतं मनोमयमात्मानमुपसंक्तामति ॥ एतं विज्ञानमयमात्मानमुपसंक्रामति ॥ एतमानन्दमयमात्मानमुपसंक्तामति ॥ तदप्येष श्लोको भवति॥ इति ब्रह्मवल्लयध्यायेऽष्टमोऽनुवाकाः ॥८॥


यतो वाचो निवर्तन्ते ॥ अप्राप्य मनसा सह् ॥ आनन्दं ब्रह्मणो विद्वान् ॥ न बिमेति कुतश्चनेति ॥ एतँ ह वाव न तपति किमहँ साबु नाकरवम् ॥


Page-----------------२८--

किमहं पापमकरवमिति ॥ स य एवं विद्वानेते आत्मानँ स्पृणुते ॥ उमे ह्येवैष एते आत्मानँ स्पृणुते ॥ य एवं वेद ॥ इत्युपनिषत् ॥ इति ब्रह्मवल्लयध्याये नवमोऽनुवाकः ॥९॥

ब्रह्मविदिदमेकविँ शतिरन्नादन्नरसमयात्प्राणो व्यानोऽपान आकाशः पृथिवी युच्छँ षड्विँ शतिः प्राणं यजुरृक् सामादेशोऽथर्वाङ्गिरसः पुच्छं द्वाविँशतिर्यतः श्रद्धर्तँ सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वाविँ शतिरसन्नेवाथाष्टाविँ शतिरसत्षोडश भीषाऽस्मान्मानुषो मनुष्यगन्धर्वाणां देवगन्धर्वाणां पितॄणां चिरलोकलोकानामाजानजानां कर्मदेवानां ये कर्मणा देवानामिन्द्रस्य ब्रृहस्पतेः प्रजापतेर्ब्रह्मणः । स यश्च संक्तामत्येकपञ्चाशद्यतः कुतश्च नैतमेकादश नव ॥ ब्रह्मविद्य एवं वेदेत्युपनिषत् ॥ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह् वीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति द्वितीयो ब्रह्मवल्ल्यध्यायः ॥२॥

अथ भृगुवल्लयध्यायः ॥३॥

हरिः ॐ ॥ स ह नाववतु ॥ सह नौ भुनक्तु ॥ स ह वीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ भृगुर्वै वारुनिः ॥ वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ तस्मा एतत्प्रोवाच ॥ अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ॥ तँ होवाच ॥ यतो वा इमानि भूतानि जायन्ते ॥ येन जातानि जीवन्ति ॥ यत्प्रयन्त्यभिसंविशन्ति ॥ तद्विजिज्ञासस्व तद्ब्रति ॥ स तपोऽतप्यत ॥ स तपस्तह्वा ॥ इति भृगुवल्लयध्याये प्रथमोऽनुवाकः ॥१॥

अन्नं ब्रह्मेति व्यजानात् ॥ अन्नाध्द्येव खल्विमानि भूतानि जायन्ते ॥ अन्नेन जातानि जीवन्ति ॥ अन्नं प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ तँ होवाच ॥ तपसा ब्रह्म विजिज्ञासस्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तठवा ॥ इति भृगुवल्लय ध्याये द्वितीयोऽनुवाकः ॥२॥

इति भृगुवल्लयध्याये द्वितीयोऽनुवाकः ॥२॥

प्राणो ब्रह्मेति व्यजानात् ॥ प्राणाध्द्येव कल्विमानि भूतानि जायन्ते ॥ प्राणेन जातानि जीवन्ति ॥ प्राणं प्रयन्त्यभिसम्विशन्तीति ॥ तद्विज्ञाय ॥ पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ तँ होवाच ॥ तपसा ब्रह्म विजिज्ञासस्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तप्त्वा ॥ इति भृगुवल्लध्याये तृतीयोऽनुवाकः ॥३॥



Page-----------------२९--

मनो ब्रह्मेति व्यजानात् ॥ मनसो ह्येव खलिवमानि भूतानि जायन्ते ॥ मनसा जातानि जीवन्ति ॥ मनः प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥ पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ तं होवाच ॥ तपसा ब्रह्म विजिज्ञासस्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपतठव इति भृगुवल्लध्याये चतुर्थोऽनुवाकः ॥४॥

विज्ञानं ब्रह्येति व्यजानात् ॥ विज्ञानाध्द्येव खलिवमानि भूतानि जायन्ते ॥ विज्ञानेन जातानि जीवन्ति ॥ विज्ञानं प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥ पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ तँ होवाच ॥ तपसा ब्रहम विजिज्ञासस्व ॥ तपो ब्रह्येति ॥ स तपोऽतप्यत ॥ स तपस्तठवा ॥ इति भृगुवल्लयध्याये पञ्चमोऽनुवाकः ॥५॥

आनन्दो बह्मेति व्यजानात् ॥ आनन्दाध्द्येव खलिवमानि भूतनि जायन्ते ॥ आनन्देन जातानि जीवन्ति ॥ आनन्दं प्रयन्त्यभिसंविशन्तीति ॥ सैषा भार्गवी वारुणी विद्या ॥ परमे व्योमन् प्रतिष्ठिता ॥ य एवं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो भवति ॥ महान् भवति प्रजया पशुभिब्रह्मवर्चसेन ॥ महान् कीर्त्या ॥ इति भृगुल्लयध्याये षष्टोऽनुवाकः ॥६॥

अन्नं न निन्द्यात् ॥ तहृतम् ॥ प्राणो वा अन्नम् ॥ शरीरमन्नादम् ॥ प्राणे शरीरं प्रतिष्ठितम् ॥ शरीरे प्राणः प्रतिष्ठितः ॥ तदेतदन्नमन्ने प्रतिष्ठितम् ॥ स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो भवति ॥ महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान् कीर्त्या ॥ इति भृगुवल्लयध्याये सप्तमोऽनुवाकः ॥७॥

अन्नं न परिचक्षीत ॥ तह्रतम् ॥ अपो वा अन्नम् । ज्योतिरन्नादम् ॥ अप्सु ज्योतिः प्रतिष्ठितम् ॥ ज्योतिष्यापः प्रतिष्ठिताः ॥ तदेतदन्नमन्ने प्रतिष्ठितम् ॥ स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अननवानन्नादो भवति ॥ महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान्कीर्त्या ॥ इति भृगुवल्लयध्याये अष्टमोऽनुवाकः ॥८॥

अन्नं बहु कुर्वीत ॥ तह्रतम् ॥ पृथिवी वा अन्नम् ॥ आकाशोऽन्नादः ॥ पृथिव्यामाकाशः प्रतिष्ठितः ॥ आकाशे पृथिवी प्रतिष्ठिता ॥ तदेतदन्नमन्ने प्रतिष्ठितम् ॥ स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो भवति ॥ महन्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान्कीर्त्या ॥ इति भृगुवल्लयध्याये नवमोऽनुवाकः ॥९॥


Page-----------------३०--

न कंचन वसतौ प्रत्याचक्षीत ॥ तह्रठतम् ॥ तस्माद्यया कया च चिधया बह्वन्नं प्राप्नुयात ॥ अराध्यस्मा अन्नमित्याचक्षते ॥ एतद्वै मुखतोऽन्नँराद्धम्॥ मुखतोऽस्मा अन्नँ राध्यते ॥ एतद्वै मध्यतोऽन्नँ राद्धम् ॥ मध्यतोऽस्मा अन्नँ राध्यते ॥ एतद्वा अन्ततोऽन्नँ राद्धम् ॥ अन्ततोऽस्मा अन्नँ राध्यते॥१॥

य एवं वेद ॥ क्षेम इति वाचि ॥ योगक्षेम इति प्राणापानयोः ॥ कर्मेति हस्तयोः ॥ गतिरिति पादयोः ॥ विमुक्तिरिति पायौ ॥ इति मानुषीः समाज्ञाः ॥ अथ दैवीः ॥ तृप्तिरिति वृष्टौ ॥ बलमिति विद्युति ॥२॥

यश इति पशुषु ॥ ज्योतिरिति नक्षत्रेषु ॥ प्रजापतिरमृतमानन्द इत्युपस्थे ॥ सर्वमित्याकाशे ॥ तत्प्रतिष्ठेत्युपासीत ॥ प्रतिष्ठावान् भवति ॥ तन्मह इत्युपासति ॥ महान् भवति ॥ तन्मन इत्युपासीत ॥ मनवान् भवति ॥३॥

तन्नम इत्युपासीत ॥ नम्यन्तेऽस्मै कामाः ॥ तत्ब्रठह्मेत्युपासीत ॥ ब्रह्मवान् भवति ॥ तत्ब्रह्मणः परिमर इत्युपासीत ॥ पर्येणं म्रियन्ते द्विषन्तः सपत्नः ॥ परि येऽप्रिया भ्रातृव्याः ॥ स यश्चायं पुरुषे ॥ यश्चासावादित्ये ॥ स एकः ॥४॥

स य एवंवित् ॥ अस्माल्लोकात्प्रेत्य ॥ एतमन्नमयमात्मानमुपसंक्रम्य ॥ एतं प्राणमयमात्मानमुपसंक्रम्य ॥ एतं मनोमयमात्मानमुपसंक्रम्य ॥ एतं विज्ञानमयमात्मानमुपसंक्रम्य ॥ एतमानन्दमयमात्मानमुपसंक्रम्य ॥ इताँ ल्लोकान्कामान्नी कामरूप्यनुसंचरन् ॥ एतत्सास गायन्नास्ते ॥ हा ३ वु हा ३ वु हा३ वु ॥५ । अहमन्नमहमन्नमहमन्नम् ॥ अहमन्नादोऽ ३ हमन्नादो ३ हमन्नादः ॥ अहँ श्लोककृदहँ श्लोककृदहं श्लोककृत् ॥ अहमस्मि प्रथमजा ऋता ३ स्य ॥ पूर्वं देवेभोऽमृतस्य ना ३ भायि ॥ यो मा ददाति स इदेवमा ३ वाः ॥ अहमन्नमन्नमदन्तमा ३ द्मि ॥ अहं भुवनमभ्यभवा ३ म् ॥ सुवर्नज्योतीः । य एवं वेदः इत्युपनिषत् ॥६॥

ठराध्यते विद्युति मानवान्भवत्येको हा ३ वु य एवं वेदैकं चठ ॥ इति भृगुवल्लयध्याये दशमोऽनुवाकः ॥१०॥

भृगुस्तस्मेऐ! यतो वै विशन्ति तद्विजिज्ञासस्व तठयोदशान्नं प्राणं मनो विज्ञानमिति तद्विज्ञाय तं तपसा द्वादश द्वादशानन्द इति सैषा दशान्नं न लिन्द्यात् प्राणः शरीरमन्नं न परिचक्षीतापो ज्योतिरन्नं बहु कुर्वीत पृथिव्यामाकाश एकादशैकादश ॥ न कंचनैकषष्टिरेकान्नविँ शति रेकान्नविँ शतिः ॥ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्वि नावधीतम्स्तु माविद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥॥ इति भृगुवल्लयध्यायः समाप्तः ॥३॥


Page-----------------३१--

शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मने ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि॥

तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥ अवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥॥ इति तैत्तिरीयोपनिषत्संपूर्णा ॥७॥

॥ॐ तत्सत् ॥

ऐतरेयोपनिषत्[सम्पाद्यताम्]

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शन्तिः ॥ आत्मा व इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् स ईक्षत लोकान्नु सृजा इति ॥१॥

स इमांल्लोकानसृजत ॥ अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः ॥ पृथिवी मरो या अधस्तात्ता आपः ॥२॥

स ईक्षतेमे नु लोका लोकपलान्नु सृजा इति ॥ सोऽभ्द्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥३॥

तमभ्यतपत्तस्याभितप्तसय मुखं निरभिद्यत यथाण्डम् ॥ मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्देशस्त्वङ्निभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥४॥

इति प्रथमः खण्डः ॥१॥

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति॥१॥

ताभो जामानयन्ता अब्रुवन्न वै नोऽयमलमिति ॥ ताभोऽश्वमानयत्तः अब्रुवन्न वै नोऽयमलमिति ॥२॥

ताभ्याः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतम् ॥ ता अब्रवीद्यथाऽऽयतनं प्रविशतेति ॥३॥

अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो


Page-----------------३२--

लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥४॥

तमशनापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ॥ ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौआ! करोमीति ॥ तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः ॥५॥

इति द्वितीयः खण्डः ॥२॥


स ईक्षतेमे नु लोकाश्च लोकपालाश्चन्नमेभ्यः सृजा इति ॥१॥

सोऽपोऽभ्यतपत् ताभोऽभितप्ताभ्यो मूर्तिरजायत ॥या वै सा मूर्तिरजायताऽन्नं वै तत् ॥२॥

तदेनत्सृष्टं पराङत्यजिघांसत् तद्वाचाऽजिघृश्चत्तन्नाशक्नोद्वाचा ग्रहीतुम् ॥ स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥३॥

तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् ॥ स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् ॥४॥

त्च्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् ॥ स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत् ॥५॥

तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छोत्रेण ग्रहीतुम् ॥ स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ॥६॥

तत्त्वचाऽजिघृक्षत् तन्नाशक्नोस्वचा ग्रहीतुम् ॥ स यद्धैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥७॥

तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् ॥ स यद्धैनन्मनसाऽग्रहैष्यध्द्यात्वा हैवान्नमत्रप्स्यत् ॥८॥

तच्छिश्ने नाजिघृक्षत्तन्नाशक्नोच्छिश्नेन ग्रहितुम् ॥ स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत् ॥९॥

तदपनेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ॥१०॥

स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति ॥ स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥११॥

स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ॥ सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम् ॥ त स्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥१२॥

स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वाव्दिषदिति ॥ स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ॥१३॥

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ॥ परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥१४॥

इति तृतीयः खण्डः ॥३॥

इत्यैतरेये द्वितीयारण्यके चतुर्थोऽध्यायः ॥४॥


Page-----------------३३--

उपनिषत्सु प्रथमोऽध्यायः ॥१॥

पुरुषे ह वा अयमादितो गर्भो भवति ॥ यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजःसंभूतमात्मन्येवात्मानं बिभिर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथं जन्म ॥१॥

तत् स्त्रिया आत्मभूयं गच्छति यथास्वमङ्गं तथा ॥ तस्मादेनां न हिनस्ति साऽस्यैतमात्मानमत्र गतं भावयति ॥२॥

सा भावयित्री भावयितव्या भवति तं स्रि गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥३॥

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेऽथास्याऽयमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥४॥

तदुक्तमृषिणा ॥ गर्भे नु सन्नन्वेषाम वेदमहं देवानां जनिमानि विश्वा ॥ शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥५॥

स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥६॥

इति चतुर्थः खण्डः ॥४॥

इत्यैतरेयारण्यके पञ्चमोऽध्यायः ॥५॥

उपनिषत्सु द्वितीयोऽध्यायः ॥२॥

कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥१॥

यदेतद्धृदयं मनश्चैतत् ॥ संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्घृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥२॥

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश अपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव ॥ बीजानीतरणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च पतन्नि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्टितं प्रज्ञानेत्रो कोकः प्रज्ञा प्रतिष्टा प्रज्ञानं ब्रह्म॥३॥

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ इत्योम् ॥४॥

इति पञ्चमः खण्डः ॥५॥

इत्यैतरेयारण्यके षष्ठोऽध्यायः ॥६॥

उपनिषत्सु तृतीयोऽध्यायः ॥३॥

अ उ ९


Page-----------------३४--

वाङ्मे मनसि प्रतिष्टिता मनो मे वाचि प्रतिष्ठितमाविराविर्म एधि ॥ वेदस्य स आणीस्वः श्रुतं मे मा प्रहासीरनेना-धीतेनाहोरात्रान् संदधाम्पृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्थिः ॥

इत्यैतरेयोपनिषत् संपूर्णा ॥८॥

ॐ तत्सत् ॥

छान्दोग्योपनिषत्[सम्पाद्यताम्]

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ॐ शान्तिः शान्तिः शान्तिः ॥

ओमित्येतदक्षरमुद्गीथमुपासीत ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥१॥

एषां भूतानां पृथिवी रसः पृथिव्या अपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः सान्न उद्गीथो रसः ॥२॥

स एष रसानाँठ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥३॥

रसः ॥२॥

स एष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥३॥

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥४॥

वागेवर्क् प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ तद्वा एतन्मिथुनं यद्वाक् च प्रणश्चर्क् च साम च ॥५॥

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँसृज्यते यदां वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥६॥

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥७॥

तद्वा एतदनु ज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥८॥

तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति श्ँ सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥९॥

तेनोभौ कुरुतो यश्चैतदेवं वेद यक्ष न वेद ॥ नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥१०॥

इति प्रथमाध्याये प्रथमः खण्डः ॥१॥

देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजहुरने


Page-----------------३५--


Page-----------------३६--

तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥३॥

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृठचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम

स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥४॥

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपान्स्ताँनि

करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥५॥

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं

थमन्ने हीद्ँ सर्व्ँ स्थितम् ॥६॥

द्यौरेवोदन्तरिक्षं शीः पृथिवी थमादित्य

एवोद्वायुर्गीरग्निस्थ्ँ सामवेद एवोद्यजुर्वेदो जीरृग्वेदस्थं दुग्धेऽस्मै

वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षरण्युपास्त उद्गीथ इति ॥७॥

अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥८॥

यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥९॥

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्त्ँ स्तोममुपधावेत् ॥१०॥

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥११॥

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्ठद्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥१२॥

इति प्रथमाध्याये तृतीयः खण्डः ॥३॥

ॐमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥१॥

देवा वै मृत्योर्बिभ्यतस्त्रठयीं विद्यां प्राविश्स्तेँ छन्दोभिरच्छादयन्यदेभिराच्छादय्स्तँच्छन्दसां छन्दस्त्वम् ॥२॥

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृठचि साम्नि यजुषि । ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥३॥

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येव्ँ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥४॥

स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षर्ँ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥५॥

इति प्रथमाध्याये चतुर्थः खण्डः ॥४॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥१॥

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीँठस्त्वं पर्यावर्तयाद्वहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥२॥

अथाध्यात्मं य एवायं मुख्यः


Page-----------------३७--

तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाँठस्त्वं भूमानमभितस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाँठस्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥४॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥५॥

इति प्रथमाध्याये पञ्चमः खण्डः ॥५॥

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृठच्यध्यूढ्ँ साम गीयत इयमेव साऽग्निरमस्तत्साम ॥१॥

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम् गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥२॥

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥३॥

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥४॥

अथ यदेतदादित्यस्य शुक्लं भाःठ सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते ॥५॥

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत्सामाऽथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वाठत्सर्व एव सुवर्णः ॥६॥

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥७॥

तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥८॥

इति प्रथमाध्याये षष्ठः खण्डः ॥६॥

अथाध्यात्मं वागेवर्क् प्राणः साम तदेतदेतस्यामृच्यठयध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते ॥ वागेव सा प्राणोऽमस्तत्साम ॥१॥

चक्षरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते ॥ चक्षुरेव साऽऽत्माऽमस्तत्साम ॥२॥

श्रोत्रमेवर्ङ्नठमनः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते ॥ श्रोत्रठमेव सा मनोऽमस्तत्साम ॥३॥

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम् तत्साम तदेतदेतस्यामृच्यध्यूढ्ँ साम तस्मादृच्यध्यूढ्ँ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साऽथ् यन्नीलं परः कृष्णं तदमस्तत्साम ॥४॥

अथ य एषोऽन्वठरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुकथं तद्यजुस्तद्ब्रठह्म तस्यैतस्य तदेव रूपं


Page-----------------३८--

यदमुष्य रूपं यावमुष्य गेष्ठणौ तौ गेष्णौ यन्नामठ तन्नाठम ॥५॥

स एषठ ये चैतस्मादर्वाञ्चोठ लोकास्तेठ चेष्टे मनुष्यकामानां चेति तठ इमे वीणायांठ गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥६॥

अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्तँठश्चाप्नोति देवकामाँठश्च ॥७॥

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँठश्चाप्नोति मनुठष्ठयकामाँठश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥८॥

कं ते कामठमाठगायानीत्येष ह्येव कामामानस्येष्ठेठ य एवं विद्वान्साम गायति साम गायठति ॥९॥

इति प्रथमाध्याये सप्तमः खण्डः ॥७॥

त्रयो होद्गीथे कुशला बभूबुःठ शिलकः शालावत्यश्चैकितयठनो दात्म्यःठ प्रवाहणो जैवलिरिति ते होचुठरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां क्दाम इति ॥१॥

तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतांठ ब्राह्मणयोर्वदतोर्वाच्ँ श्रोष्यामीति ॥२॥

स ह शिलकः शालावत्यश्चैकितायनं दत्म्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥३॥

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य कागतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥४॥

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमलिनयेदिति होवाच स्वर्गं वयं लिक्ँ सामाभिर्संठस्थापयामः स्वर्गस्स्ताँव्ँ हि सामेठति ॥५॥

त्ँ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यलीति मूर्धा ते विपतेदिति ॥६॥

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययंठ लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयंठ लोक्ँ सामाभिठस्ँ स्थापयामः प्रतिष्ठास्ँ स्ताव्ँ हि सामेति ॥७॥

त्ँ ह प्रयाठहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विठद्धीति होवाच ॥८॥

इति प्रथमाध्याऽष्टमः खण्डः ॥८॥

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानिठ भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्याया-----Page------------------३९--

नाकाठशः परायणम् ॥१॥

स एष परोवठरीयानुद्गीथः स एषोऽनन्तः परोवरीपोठ हास्य भवति परोवरीयसो ह लोकाञ्जगठति य एतदेवं विद्वान्परोक्रीयाँठ समुद्गीथमुपास्तेठ ॥२॥

त्ँ हैतमतिधन्ठवा शौनक उदरशाण्डिस्याठयोक्त्वोठवाव यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति ॥३॥

तथामुष्मिँल्लोके लोक इति स य एतदेवं विद्वानुपास्ते परोबठरीय एव हास्यास्मिँल्लोके जीवनं भवति तथामुष्मिँल्लोके लोक इति लोके लोक इति ॥४॥

इति प्रथमाध्याये नवमः खण्डः ॥१॥

मटचीहतेषु कुरुष्वायिठक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणकठ उवास ॥१॥

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे त्ँ होवाच ॥ नेतोऽन्ये विद्यन्ते यच्चठ ये म इम उपनिहिता इति ॥२॥

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीत्ँ स्यादिति होवाच ॥३॥

न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥४॥

स ह खादित्बातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥५॥

स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राँठ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥६॥

तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वाऽमुं यज्ञं विततमेयाय ॥७॥

तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥८॥

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥९॥

एवमे वोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥१०॥

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिते ॥११॥

इति प्रथमाध्याये दशमः खण्डः ॥१०॥

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीश्ठयुषस्तिरस्मि चाक्रायण इति होवाच ॥१॥

स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अहमविऽत्त्यान्यानवृषि ॥२॥

भगवाँ स्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥३॥

अथ हैनं प्रस्तोतोपससादःठ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि


Page-----------------४०--

मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥४॥

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥५॥

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥६॥

आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥७॥

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥८॥

अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥९॥

इति प्रथमाध्याय एकादशः खण्डः ॥११॥

अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥१॥

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायाम वा इति ॥२॥

तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥३॥

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः स्ँ रब्धाः सर्पन्तीत्येव माससृपुस्ते ह समुपविश्य हिंचक्रुः ॥४॥

ॐ३ मदा३ मॐ३ पिबा३ मॐ३ देवो वरुणः प्रजापतिः सविता२ न्नमिहा२ ऽऽहरदन्नपते३ न्नमिहा२ ऽऽहरा२ ऽऽहरो३ मिति ॥५॥

इति प्रथमाध्याये द्वादशः खण्डः ॥१२॥

अयं वाव लोको हाउ!कारो वायुर्हिआ!कारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकारः ॥१॥

आदित्य ऊकारो निहव एकारो विश्वेदेवा औहिओ!कारः प्रजापतिर्हिंकारः प्राणः स्वरोऽन्नं या वाग्विराट्ठ ॥२॥

अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥३॥

दुग्धेऽस्मै वान्ठदोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेव्ँ साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥४॥

इति प्रथमाध्याये त्रयोदशःठ खण्डः ॥१३॥

इति प्रथमोऽध्यायेःठ ॥१॥


Page-----------------४१--


Page-----------------४२--

प्रतिहारः पुरुषो निधनम् ॥१॥

भवन्ठित हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविध्ँ सामोपास्ते ॥२॥

इति द्वितीयाध्याये षष्ठः खण्डः ॥६॥

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयाँठसि वैतानि ॥१॥

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥२॥

इति द्वितीयाध्याये सप्तमः खण्डः ॥७॥

अथ सप्तविधस्य वाचि सप्तविध्ँ सामोपासीत यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥१॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥२॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेव विठद्वाठन्वाचि सप्तविध्ँ सामोपास्ते ॥३॥

इति द्वितीयाध्यायेऽष्टमः खण्डः ॥८॥

अथ खल्वमुमादित्य्ँ सप्तविध्ँ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥१॥

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिंकुर्वन्ति हिंकारभाजिनो ह्येतस्य साम्नःठ ॥२॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रश्साँकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३॥

अथ यत्सङ्गववेलायाँठ स आदिस्तदस्यठ वयाँठस्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥४॥

अथ यत्संप्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥५॥

अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥६॥

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्ष्ँ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥७॥

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्य्ँ सप्तविध्ँ सामोपास्ते ॥८॥

इति द्वितीयाध्याये नवमः खण्डः ॥९ ठ॥


Page-----------------४३--

अथ खल्वात्मसंमितमतिमृत्यु सप्तविध्ँ सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥१॥

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥२॥

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥३॥

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविँठशतिरक्षराणि॥४॥

एकविँठशत्यादित्यमाप्नोत्येकविँठशो वा इतोऽसावादित्यो द्वाविँठशेन परमादित्याजठयति तन्नाकं तद्विशोकम् ॥५॥

आप्नोतीहादित्यस्य जयं परो हास्याठदित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविध्ँ सामोठपास्ते सामोपास्ते ॥६॥

इति द्वितीयाध्याये दशमः खण्डः ॥१०॥

मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥१॥

स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणीभवति सर्वमायुरेति ज्योग्नीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्ब्रठतम् ॥२॥

इति द्वितीयाध्याये एकादशः खण्डः ॥११॥

अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्ठयति तन्निधन्ँ स्शाँम्ठयति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् ॥१॥

स य एवमेतद्रभन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न प्रत्वठैठङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये द्वादशः खण्डः ॥१२॥

उपमन्त्रयते स हिंकारो ज्ञपठयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥१॥

स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्नीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये त्रयोदशः खण्डः ॥१३॥

उद्यन्हिंकार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये पोतम् ॥१॥

स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्नीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये चतुर्दशः खण्डः ॥१४॥


Page-----------------४४--

अभ्राणि संप्लवन्ते स हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्॥१॥

स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाँठश्च सुरूपाठँशच पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या वर्षन्तं नो निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये पञ्चदशः खण्डः ॥१५॥

वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥१॥

स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये षोडशः खण्डः ॥१६॥

पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥१॥

स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये सप्तदशः खण्डः ॥१७॥

अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनठता रेवत्यः पशुषु प्रोताः ॥१॥

स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्यायेऽष्टादशः खण्डः ॥१८॥

लोम हिंकारस्त्वक्प्रस्तावो माँठसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥१॥

स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाऽङ्गीभवति नाङ्गेन ठविहूर्च्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो नाश्नीयादिति वा ॥२॥

इति द्वितीयाध्याये एकोनविंशः खण्डः ॥१९॥

अग्निर्हिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिंठहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥१॥

स य एवमेतद्राजनं देठवतासु प्रोतं वेदैतासामठेव देवतासाँठ सलोकताँठ सर्ष्टिताँ सायुज्यं गच्छति


Page-----------------४५--

सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥२॥

इति द्वितीयाध्याये विंशः खण्डः ॥२०॥

त्रयी विद्या हिंकारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयाँठसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥१॥

स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्व्ँ ह भवति ॥२॥

तदेष श्लोकः ॥ यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥३॥

यस्तद्वेद स वेद सर्व्ँ सर्वा देशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रतम् ॥४॥

इति द्वितीयाध्याये एकविंशः खण्डः ॥२१॥

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥१॥

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥२॥

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालमेठतेन्द्र्ँ शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥३॥

अथ यद्येनमूष्मसूपालभेठत प्रजापतिँठ शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येन्ँ स्पर्शेषूपालभेत मृत्युँठ शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥४॥

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥५॥

इति द्वितीयाध्याये द्वाविंशः खण्डः ॥२२॥

त्रठयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मस्स्थोँऽमृतत्वमेति ॥१॥

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्तवन्त भूर्भुवः स्वरिति ॥२॥

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमॐकारेण सर्वा वाक् संतृण्णॐकार एवेद्ँ सर्वमॐकार एवेद्ँ सर्वम् ॥३॥

इति द्वितीयाध्याये त्रयोविंशः खण्डः ॥२३॥


Page-----------------४६--

ब्रठह्मठवादिनो वदन्ति यद्वसूनां प्रातः सवन्ँ रुद्राणां माध्यन्दिन्ँ ठठठमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥१॥

क्वठ तर्हि यजमानम्ठय लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥२॥

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदठख उपविठश्य स वाठसव्ँ सामाभिगायति ॥३॥

लो३ कद्वारमपावा ३ र्णू ३३ पश्येम त्वा वय्ँ रा३ ३ ३ ३ ३ हुं ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥४॥

अथ जुठहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥५॥

अत्र यजमानः परस्ताद्गायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवन्ँ संप्रयच्छन्ति ॥६॥

पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुठख उपविश्य स रौद्र्ँ सामाभिगायति ॥७॥

लो३ कद्वारमपावा३ र्णू ३३ पश्येम त्वा वयं वैरा ३३३३३ हुं ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति॥८॥

अथ जुहोति नमो वायवेठऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥९॥

अत्र यजमानः पठरठस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यठन्दिन्ँ सवन्ँ संप्रयच्छन्ति ॥१०॥

पुरा तृतीयसवनस्योपाकरणाज्जघनेमाठहवनीयस्योदङ्मुख उपविश्य स आदित्य्ँ स वैश्वदेव्ँ सामाभिगाठयति ॥११॥

लो३ कद्वारमपा वा ३ र्णू ३३ पश्येम त्वा वय्ँ स्वारा ३३३३३ हुं ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥१२॥

आदित्यमथ वैश्वदेवं लो३ कद्वारमपावा ३ र्णू ३३ पश्येम त्वा वय्ँ साम्ना ३३३३३ हुं ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥१३॥

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिभ्ठद्यो लोकक्षिभ्ठद्यो लोकं मे यजमानाय विन्दत ॥१४॥

एष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपहतपरिघमित्युक्त्वोत्तिष्ठति ॥१५॥

तस्मा आदित्याश्च विश्वे च देवास्तृतीय्ँ सवन्ँ संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥१६॥

इति द्वितीयाध्याये चतुविशः खण्डः ॥२४॥

इति द्वितीयोऽध्यायः ॥२॥


Page-----------------४७--

अथ तृतीयोऽध्यायः ॥३॥

ॐ असौ वा आदित्यो देवमधुठ तस्य द्यौठरिव तिरश्चीनव्ँ शोऽन्तरिक्षमपूठपो मरीचयः पुत्राः ॥१॥

तस्ठय येठ प्रानोठ रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्ठपं ता अमृता आपस्ता वा एता ऋचः॥२॥

एतमृग्वेदमभ्ठयतप्ँ स्तस्याभिठतप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाठठ रसोऽजायत ॥३॥

तब्ठद्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहित्ँ रूपम् ॥४॥

इति तृतीयाध्याये प्रथमः खण्डः ॥१॥

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूँठष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥१॥

तनि वा एतानि यजूँठष्येतं यजुर्वेदमभ्यतप्ँ स्तस्याभिठतप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य्ँ रसोऽजायत ॥२॥

तव्ठद्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्ल्ँ रूपम् ॥३॥

इति तृतीयाध्याये द्वितीयः खण्डः ॥२॥

अथ येठऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥१॥

तानि वा एतानि सामान्येत्ँ सामवेदमभ्यतप्ँ स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमनाद्य्ँ रसोऽजायत ॥२॥

तव्ठद्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्ण्ँ रूठपम् ॥३॥

इति तृतीयाध्याये तृतीयः खण्डः ॥३॥

अथ येऽस्ठयोदञ्चो रश्मयठस्ता एवास्ठयोदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं साठ अमृता आपः ॥१॥

ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतप्ँ स्तस्याभितप्तठस्य यठशस्तेज इन्द्रियं वीर्यमन्नाद्य्ँ रठसोऽजायत ॥२॥

तव्ठद्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्ण्ँ रूपम् ॥३॥

इति तृतीयाध्याये चतुर्थः खण्डः ॥४॥

अथ येऽस्योर्ठठर्ठठयस्ता एवास्योर्ध्वाठ मधुनाड्यो गुह्याठ एवादेठ मधुकृठतो ब्रह्मैवठ पुष्पं ता अमृता आपः ॥१॥

ते वा एते गुह्या आदेशा एतद्ठठठयतप्ठँस्तस्याभ्ठतप्तस्यठयशस्तेज इन्द्रियं वीर्यमन्नाद्य्ँ रसोऽजायतठ ॥२॥

ठठठठठदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इवठ॥३॥



Page-----------------४८--

ते वा एते रसानाँठ रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥४॥

इति तृतीयाध्याये पञ्चमः खण्डः ॥५॥

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥

स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्य्ँ स्वाराज्यं पर्येता ॥४॥

इति तृतीयाध्याये षष्ठः खण्डः ॥६॥

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥

स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति॥३॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्य्ँ स्वाराज्यं पर्येता ॥४॥

इति तृतीयाध्याये सप्तमः खण्डः ॥७॥

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मखेन न वै देवा अश्नन्ति त पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥

स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं विशत्येतस्माद्रूपादुदेति ॥३॥

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यनामेव तावदाधिपत्य्ँ स्वाराज्यं पर्येता ॥४॥

इति तृतीयाध्यायेऽष्टमः खण्डः ॥८॥

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥

स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपा-----Page------------------४९--

दुदेति ॥३॥

स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य्ँ स्वाराज्यं पर्येता ॥४॥

इति तृतीयाध्याये नवमः खण्डः ॥९॥

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥

स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेताऽर्वाङस्तमेता साध्यनामेव तावदाधिपत्य्ँ स्वाराज्यं पर्येता ॥४॥

इति तृतीयाध्याये दशमः खण्डः ॥१०॥

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥१॥

न वै तत्र न निम्लोच नोदियाय कदाचन ॥ देवास्तेनाह्ँ सत्येन मा विराधिषि ब्रह्मणेति ॥२॥

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥३॥

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥४॥

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूठयात्प्रणाय्याय वाऽन्तेवासिने ॥५॥

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥६॥

इति तृतीयाध्याये एकादशः खण्डः ॥११॥

गायत्री वा इद्ँ सर्वं भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इद्ँ सर्वं भूतं गायति च त्रायते च ॥१॥

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँठ हीद्ँ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥२॥

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥३॥

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥४॥

सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥५॥

तावानस्य महिमा ततो ज्यायाँठश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति॥६॥

यद्वै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥७॥

अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै अ। उ। ४


Page-----------------५०--

सोऽन्तः पुरुष आकाशः ॥८॥

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनीँ श्रियं लभते य एवं वेद ॥९॥

इति तृतीयाध्याये द्वादशः खण्डः ॥१२॥

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥१॥

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्र्ँ स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥२॥

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥३॥

अथ योऽस्योदङ् सुषिः स समानस्तन्मनः स पर्जनयस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥४॥

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद॥५॥

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु कोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सँ स्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥७॥

इति तृतीयाध्याये त्रयोदशः खण्डः ॥१३॥

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उंपासीत । अथ खलु क्रतुमयः पुरुषो यथात्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥१॥

मनोमयः प्राणशरीरो भरूपः सत्यंसकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥२॥

एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा एष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरीक्षाज्यावान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥३॥

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्माऽन्तर्हृदय एतद्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥४॥

इति तृतीयाध्याये चतुर्दशः खण्डः ॥१४॥


Page-----------------५१--

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिल्ँ स एष कोशो वसुधानस्तस्मिन्विश्वमिद्ँ श्रितम् ॥१॥

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोद्ँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोद्ँ रुदम् ॥२॥

अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रपद्येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुनऽमुना ॥३॥

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इद्ँ सर्व भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥४॥

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥५॥

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥६॥

अथ यदवोच्ँ स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥७॥

इति तृतीयाध्याये पञ्चदशः खण्डः ॥१५॥

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँठशतिवर्षाणि-तत्प्रातः सवनं चतुर्विँ शत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीद्ँ सर्वं वासयन्ति ॥१॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिन्ँ सवनमनुसंतनुतेति माऽहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥२॥

अथ यानि चतुश्चत्वारिँठ शर्षाणि तन्माध्यन्दिन्ँ सवनं चतुश्चत्वारिँठशदक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिन्ँ सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीद्ँ सर्व्ँ रोदयन्ति ॥३॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिन्ँ सवनं तृतीयसवनमनुसन्तनुतेति माऽहं प्राणानाँठ रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति॥४॥

अथ यान्यष्टाचत्वारिँठशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिँठ शदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावाऽऽदित्या एते हीद्ँ सर्वमाददते ॥५॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥६॥

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामाति स ह षोडशंवर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥७॥

इति तृतीयाध्याये षोडशः खण्डः ॥१६॥


Page-----------------५२--

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षा ॥१॥

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥२॥

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥३॥

अथ यत्तपो दानमार्जवमहिँठ सा सत्यवचनमिति ता अस्य दक्षिणाः ॥४॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥५॥

तद्धैतद्धोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतन्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणस्ँ शितमसीति तत्रैते द्वे ऋचौ भवतः ॥६॥

आदित्प्रत्नस्य रेतस उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तर्ँ स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥७॥

इति तृतीयाध्याये सप्तदशः खण्डः ॥१७॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥१॥

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥२॥

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥३॥

प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥४॥

चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥५॥

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥६॥

इति तृतीयाध्यायेऽष्टादशः खण्डः ॥१८॥

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥१॥

तद्यद्रजत्ँ सेयं पृथिवी यत्सुवर्ण्ँ सा द्यौर्यज्जरायु ते पर्वता यदुल्ब्ँ स मेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदक्ँ स समुद्रः ॥२॥

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि च सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च


Page-----------------५३--

भूतानि सर्वे चैव कामाः ॥३॥

स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेन्ँ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥४॥

इति तृतीयाध्याये एकोनविंशः खण्डः ॥१९॥

इति तृतीयोऽध्यायः ॥३॥

अथ चतुर्थोऽध्यायः ॥४॥

ॐ जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽत्स्यन्तीति ॥१॥

अथ ह ह्ँ सा निशायामतिपेतुस्तद्धैव्ँ ह्ँ सो ह्ँ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥२॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्त्ँ सयुग्वानमिव रैक्वमात्थेति यो नु कथ्ँ सयुग्वा रैक्व इति ॥३॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेन्ँ सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥४॥

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथ्ँ सयुग्वा रेक्व इति ॥५॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेन्ँ सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥६॥

स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय त्ँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥७॥

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यह्ँ ह्यरा ३ इति ह प्रतिजज्ञे स ह क्षत्ताऽविदमिति प्रत्येयाय ॥८॥

इति चतुर्थाध्याये प्रथमः खण्डः ॥१॥

तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे त्ँ हाभ्युवाद ॥१॥

रैक्वेमानि षट् शतानि गवामयं निष्कोऽयमश्वतरीरथो नु म एतां भगवो देवताँठ शाधि यां देवतामुपास्स इति ॥२॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥३॥

त्ँ हाभ्युवाद रैक्वेद्ँ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥४॥

तस्या


Page-----------------५४--

ह मुखमुपोद्ठठठवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैठते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥५॥

इति चतुर्थाध्याये द्वितीयः खण्डः ॥२॥

वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥१॥

यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥२॥

अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण्ँ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त इति ॥३॥

तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥४॥

अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥५॥

स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥६॥

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायाऽऽत्मा देवानां जनिता प्रजानाँठ हिरण्यद्ष्ट्रोँ बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनठमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति॥७॥

तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृतं तस्मात्सवासु दिक्ष्वन्नमेव दश कृत्ँ सैषा विराडन्नादी तयेद्ँ सर्वं दृष्ट्ँ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥८॥

इति चतुर्थाध्याये तृतीयः खण्डः ॥३॥

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥१॥

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यैवने त्वामलभेठ साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रुवीथा इति ॥२॥

सह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्य भगवति वत्स्याम्युपेयां भगवन्तमिति ॥३॥

त्ँ होवाच किंगोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातर्ँ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह्ँ सत्यकामो जाबालोऽस्मि भो इति ॥४॥

त्ँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिध्ँ सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता


Page-----------------५५--

अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्न्ठँ संपेदुः ॥५॥

इति चतुर्थाध्याये चतुर्थः खण्डः ॥४॥

अथ हैनमृषभोऽभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्र्ँ स्मः प्रापय न आचार्यकुलम् ॥१॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥२॥

स य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥३॥

इति चतुर्थाध्याये पञ्चमः खण्डः ॥५॥

अग्निष्टे पादें वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राडुपोपविवेश ॥१॥

तमग्निरभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥३॥

स य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँठश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥४॥

इति चतुर्थाध्याये षष्ठः खण्डः ॥६॥

ह्ँ सस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥१॥

त्ँ ह्ँ स उपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥३॥

स य एतमेवं विद्वाँठश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥४॥

इति चतुर्थाध्याये सप्तमः खण्डः ॥७॥

मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोप-----Page------------------५६--

विवेश ॥१॥

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥३॥

स य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाँठ श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥४॥

इति चतुर्थाध्यायेऽष्टमः खण्डः ॥८॥

प्राप हाऽऽचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥१॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँठ स्त्वेव मे कामे ब्रूयात् ॥२॥

श्रुत्ँ ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन वीयायेति वीयायेति ॥३॥

इति चतुर्थाध्याये नवमः खण्डः ॥९॥

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार स ह स्माऽन्यानन्तेवासिनः समावर्तय्ँ स्त्ँ ह स्मैव न समावर्तयति ॥१॥

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाऽग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे॥२॥

स ह व्याधिनाऽनशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नाठसीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥३॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥४॥

प्राणो ब्रह्म कं ब्रह्म स्वं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥५॥

इति चतुर्थाध्याये दशमः खण्डः ॥१०॥

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्नीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँठ श्च लोकेऽमुष्मिँठ श्च य एतमेवं विद्वानुपास्ते ॥२॥

इति चतुर्थाध्याये एकादशः खण्डः ॥११॥


Page-----------------५७--

अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥२॥


इति चतुर्थाध्याये द्वादशः खण्डः ॥१२॥

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति जास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँठश्च लोकेऽमुष्मिँठ श्च य एतमेवं विद्वानुपास्ते ॥२॥

इति चतुर्थाध्याये त्रयोदशः खण्डः ॥१३॥

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल ३ इति ॥१॥

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वाऽनुशशासेति को भ्यूदे किं नु सोम्यं किल तेऽवोचन्निति ॥२॥

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥३॥

इति चतुर्थाध्याये चतुर्दशः खण्डः ॥१४॥

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥१॥

एत्ँ संयद्वाम इत्याचक्षत एत्ँ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥२॥

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥३॥

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥४॥

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्नठ आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँठस्तान्मासेभ्यः संवत्सर्ँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥५॥

इति चतुर्थाध्याये पञ्चदशः खण्डः ॥१५॥


Page-----------------५८--

एष ह वै यज्ञो योऽयं पवत एष ह यन्निद्ँ सर्व पुनाति यदेष यन्निद्ँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥१॥

तयोरन्यतरां मनसा स्ँ स्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्गातान्यतराँठ स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥२॥

अन्यतरामेव वर्तनीँठ स्ँ स्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजनठ्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यझो रिष्यति यज्ञ्ँ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥३॥

अथ यत्रोपाकृते प्रातरनुवाकेन पुरा परिधानीयाया ब्रह्मा व्यववदत्युभे एव वर्तनी स्ँ स्कुर्वन्ति न हीयतेऽन्यतरा ॥४॥

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥५॥

इति चतुर्थाध्याये षोडशः खण्डः ॥१६॥

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँठ रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥१॥

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ रसान्प्रावृहदग्नेरृचो वायोर्यजूँ षि सामान्यादित्यात् ॥२॥

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥३॥

तद्यद्यृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्ट्ँ संदधाति ॥४॥

अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्ट्ँ संदधाति ॥५॥

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्ट्ँ संदधाति ॥६॥

तद्यथा लवणेन सुवर्ण्ँ संदध्यात्सुवर्णेन रजत्ँ रजतेन त्रपु त्रपुणा सीस्ँ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥७॥

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्ट्ँ संदधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥८॥

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविद्ँ ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥९॥

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमान्ँ सर्वाश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥१०॥

इति चतुर्थाध्याये सप्तदशः खण्डः ॥१७॥

इति चतुर्थोऽध्यायः ॥४॥


Page-----------------५९--

अथ पञ्चमोऽध्यायः ॥५॥

ॐ ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥१॥

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥२॥

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिँठश्च श्लोकेऽमुष्मिँठश्च चक्षुर्वाव प्रतिष्ठा ॥३॥

यो ह वै संपदं वेद स्ँ हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव संपत् ॥४॥

यो ह वा आयतनं वेदायतन्ँ ह स्वानां भवति मनो ह वा आयतनम् ॥५॥

अथ ह प्राणा अह्ँ श्रेयसि व्यूदिरेऽह्ँ श्रेयानस्म्यह्ँ श्रेयानस्मीति ॥६॥

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति॥७॥

सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥८॥

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥९॥

श्रोत्र्ँ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तोठ मनसैवमिति प्रविवेश ह श्रोत्रम् ॥१०॥

मनो होच्चक्राम तत्संवत्सरम् प्रोठष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः॥११॥

अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पङ्वीशशङ्क्तून्संखिदेदेवमितरान्प्राणान्समखिदत्त्ँ हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥१२॥

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठाऽसीति ॥१३॥

अथ हैनं श्रोत्रमुवाच यदह्ँ संपदस्मि त्वं तत्संपदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥१४॥

न वै वाचो न चक्षूँठषि न श्रोत्राणि न मनाँठसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥१५॥

इति पञ्चमाध्याये प्रथमः खण्डः ॥१॥

स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमाश्वभ्य आशकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ठठनाम प्रत्यक्षं न ह वा एवंविदि किंच-----Page------------------६०--

नानन्नं भवतीति ॥१॥

स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥२॥

तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥३॥

अथ यदि महज्जिगमिषेदमावास्यायां दिक्षित्वा पौर्णमास्याँठ रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥४॥

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनथेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत्संपदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥५॥

अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिद्ँ स हि ज्येष्ठः श्रेष्ठो राजाऽधिपतिः स मा ज्यैष्ठ्य्ँ श्रैष्ठ्य्ँ राज्यमाधिपत्यं गमयत्वहमेवेद्ँ सर्वमसानीति ॥६॥

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह् इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठ्ँ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य क्सँं! चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥७॥

तदेष श्लोकः ॥ यदा कर्मसु काम्येषु स्त्रिय्ँ स्वप्नेषु पश्यति ॥ समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शन इति ॥८॥

इति पञ्चमाध्याये द्वितीयः खण्डः ॥२॥

श्वेतकेतुर्हारुणेयः पञ्चालानाँठ समितिमेयाय त्ँ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाऽशिषत्पितेत्यनु हि भगव इति ॥१॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त ३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥२॥

वेत्थ यथासौ लोको न संपूर्यत ३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥३॥

अथानु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात्कथ्ँ सोऽनुशिष्टो ब्रुवीतेति स हाऽऽयस्तः पितुरर्धमेयाय थोँवाचाऽननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति॥४॥

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकं च नाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकं च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥५॥

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्ता-----Page------------------६१--

यार्हांचकार स ह प्रातः सभाग उदेयाय त्ँ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तेठवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥६॥

त्ँ ह चिरं वसेत्याज्ञापयांचकार त्ँ होवाच यथा मा त्वं गौतमावदो यथयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥७॥

इति पञ्चमाध्याये तृतीयः खण्डः ॥३॥

असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥१॥

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वठति तस्या आहुतेः सोमो राजा संभवति ॥२॥

इति पञ्चमाध्याये चतुर्थः खण्डः ॥४॥

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा हादनयो विस्फुलिङ्गाः ॥१॥

तस्मिन्नेतस्मिन्नग्नौ देवाः सोम्ँ राजानं जुह्वति तस्या आहुतेर्वर्ष्ँ संभवति ॥२॥

इति पञ्चमाध्याये पञ्चमः खण्डः ॥५॥

पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥१॥

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्न्ँ संभवति ॥२॥

इति पञ्चमाध्याये षष्ठः खण्डः ॥६॥

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥१॥

तस्मिँन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ॥२॥

इति पञ्चमाध्याये सप्तमः खण्डः ॥७॥

योषा वाव गौतमाग्निठस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥१॥

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ॥२॥

इति पञ्चमाध्यायेऽष्टमः खण्डः ॥८॥

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥१॥

स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥२॥

इति पञ्चमाध्याये नवमः खण्डः ॥९॥


Page-----------------६२--

तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्नठ आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँठ स्तान् ॥१॥

मासेभ्यः संवत्सर्ँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥२॥

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासाँठ स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥३॥

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥४॥

तस्मिन्यावत्संपातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥५॥

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥६॥

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥७॥

अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीय्ँ स्थानं तेनासौ लोको न संपूर्यते तस्माज्जगुप्सेत तदेष श्लोकः ॥८॥

स्तेनो हिरण्यस्य सुरां पिब्ँ श्च गुरोस्तल्पमावसन्ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचर्ँ स्तैरिति ॥९॥

अथ ह य एतानेवं पञ्चाग्नीन्वेद न स ह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥१०॥

इति पञ्चमाध्याये दशमः खण्डः ॥१०॥

प्राचीनशाल औषठमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशार्लांठ महाश्रोत्रियाः समेत्य मीमाँठ सां चक्रुः को नु आत्मा किं ब्रह्मेति ॥१॥

ते ह संपादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति त्ँ हन्ताभ्यागच्छामेति त्ँ हाभ्याजग्मुः ॥२॥

स ह संपादयां चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥३॥

तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्रतीममात्मानं वैश्वानरमध्येति त्ँ हन्ताभ्यागच्छामेति त्ँ हाभ्याजग्मुः ॥४॥

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार स ह प्रातः संजिहान उवाच न मे स्तेनो


Page-----------------६३--

जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवभ्द्योठ दास्यामि वसन्तु भगवन्त इति ॥५॥

ते होचुर्येन हैवार्थेन पुरुषश्चरेत्त्ँ हैव वदेदात्मानमेवेमं वैश्वानर्ँ संप्रत्यध्येषि तमेव नो ब्रूहीति ॥६॥

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥७॥

इति पञ्चमाध्याये एकादशः खण्डः ॥११॥

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये द्वादशः खण्डः ॥१२॥

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥१॥

प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये त्रयोदशः खण्डः ॥१३॥

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये चतुर्दशः खण्डः ॥१४॥

अथ होवाच जन्ँ शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बठहुलोऽसि प्रजया च धनेन च ॥१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं


Page-----------------६४--

पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये पञ्चदशः खण्डः ॥१५॥

अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्व्ँ रयिमान्पुष्टिमानसि ॥१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये षोडशः खण्डः ॥१६॥

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥१॥

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥२॥

इति पञ्चमाध्याये सप्तदशः खण्डः ॥१७॥

तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वाँठसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥१॥

तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥२॥

इति पञ्चमाध्यायेऽष्टादशः खण्डः ॥१८॥

तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीय्ँ स यां प्रथमामाहुतिं जुहुयात्तं जुयुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥१॥

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

इति पञ्चमाध्याये एकोनविंशः खण्डः ॥१९॥

अथ यां द्वितीयां जुहुयात्तां जुहुयाव्द्यानाय स्वाहेति व्यानस्तृप्यति ॥१॥


Page-----------------६५--

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

इति पञ्चमाध्याये विंशः खण्डः ॥२०॥

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥१॥

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्या नु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

इति पञ्चमाध्याय एकविंशः खण्डः ॥२१॥

अथ यां चतुर्थींठ जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥१॥

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

इति पञ्चमाध्याये द्वाविंशः खण्डः ॥२२॥

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥१॥

उदाने तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

इति पञ्चमाध्याये त्रयोविंशः खण्डः ॥२३॥

स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्ठस्यात् ॥१॥

अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वाठत्मसु हुतं भवति ॥२॥

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव्ँ हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥३॥

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुत्ँ स्यादिति तदेष श्लोकः ॥४॥

यथेह क्षुधिता बाला मातरं पर्युपासते । एव्ँ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥५॥

इति पञ्चमाध्याये चतुर्विंशः खण्डः ॥२४॥

इति पञ्चमोऽध्यायः ॥५॥

अ। उ। ५


Page-----------------६६--

षष्ठोऽध्यायः ॥६॥

ॐ श्वेतकेतुर्हाऽऽरुणेय आस त्ँ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यंठ न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥१॥

स ह द्वादशवर्षं उपेत्य चतुर्विँठशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय त्ँ ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥२॥

येनाश्रुत्ँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥३॥

यथा सोम्यैकेन मृत्पिण्डेन सर्वठ मृन्मयं विज्ञात्ँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥४॥

यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञात्ँ स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥५॥

यथा सोम्यैकेन नखनिकृन्तनेन सर्वठ कार्ष्णायसं विज्ञात्ँ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेव्ँ सोम्य स आदेशो भवतीति ॥६॥

न वै नूनं भगवन्तस्त एतदवेदिषुर्यध्द्येतदवेदिष्यन् कथं मे नावक्ष्यन्निति भगवाँठ स्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥७॥

इति षष्ठाध्याये प्रथमः खण्डः ॥१॥

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥१॥

कुतस्तु खलु सोम्यैव्ँ स्यादिति होवाच कथमसतः सज्जायेतेति ॥ सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥२॥

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत ॥ तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥३॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षप्ति तदेव भूयिष्ठमन्नं भवत्यभ्द्य एव तदध्यन्नाद्यं जायते ॥४॥

इति षष्ठाध्याये द्वितीयः खण्डः ॥२॥

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुभ्दिज्जमिति॥१॥

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥२॥

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥३॥

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा नु खलु सोम्येमास्तिस्रो देवतास्त्रिवृन्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥४॥

इति षष्ठाध्याये तृतीयः खण्डः ॥३॥


Page-----------------६७--


Page-----------------६८--

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः काममपः पिबापोमयः प्राणो न पिबतो विठच्छेत्स्यत इति ॥१॥

स ह पञ्चदशाहानि नाऽऽशाथ हैनमुठपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूँठषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥२॥

त्ँ होवाच यथा सोम्य महतोऽभ्याठतस्यैकोऽङ्गारः स्व्ठद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेव्ँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्यशाठनाथ मे विज्ञास्यसीति ॥३॥

स हाशाथ हैनमुपससाद त्ँ ह यत्किंच ठप्रच्छ सर्व्ँ ह प्रतिपेठदे ॥४॥

त्ँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बठहु दहेत् ॥५॥

एव्ँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाभूत्साऽन्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमय्ँ हि सोम्य मन आपोमयः प्राठणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥६॥

इति षष्ठाध्याये सप्तमः खण्डः ॥७॥

उद्दालको हाऽऽरुणिः श्वेठतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेन्ँ स्वपितीत्याचक्षते स्व्ँ ह्यपीतो भवति ॥१॥

स यथा शकुनिः सूठत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्रणमेवोपश्रयते प्राणबन्धन्ँ हि सोम्य मन इति ॥२॥

अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतित्ँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥३॥

तस्य क्व मूल्ँ स्यादन्यत्रान्नाठदेवमेव खलु सोम्यान्नेन शुङ्गेनपो मूलमन्विच्छाभ्दिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥४॥

अथ यत्रतत्पुरुषः पिपासति नाम तेज एव तठत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तठत्रैतदेव शुङ्गमुत्पतित्ँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥५॥

तस्य क्व मूल्ँ स्यादन्यत्राभ्द्योठऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुठङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृन्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते


Page-----------------६९--

मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥६॥

स य एषोऽणिमैठतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥७॥

इति षष्ठाध्यायेऽष्टमः खण्डः ॥८॥

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँठ रसान्सठ वहारमेकताँ रसं गमयन्ति ॥१॥

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्ठयेमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति ॥२॥

त इह व्याघ्रो वा सिँठहो वा वृको वा वरहो वा कीटो वा पतङ्गो वा द्शोँ वा मशको वा यद्यठवन्ति तदाभवन्ति ॥३॥

स य एषोऽणिमैतदात्ठठमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥४॥


इति षष्ठाध्याये नवमः खण्डः ॥९॥

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति॥१॥

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत अगाच्छामह इति त इह व्याघ्रो वा सिँठहो वा वृठको वा वराहो वाकीटो वा पतङ्गो वा द्शोँ वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥२॥

स य एषोऽणिमैतदात्म्यमिद्ँ सर्वठ तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याये दशमः खण्डः ॥१०॥

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद्यो मध्येऽभ्या हन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्ठमनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥१॥

अस्य यदेकाँ शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वंठ जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्वोठति होवाच ॥२॥

जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्मयमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याय एकादशः खण्डः ॥११॥

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्ठधीति भिन्नं भगव इति किमत्र


Page-----------------७०--

पश्यसीत्यठव्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किंचन भगव इति ॥१॥

त्ँ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्न्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ॥२॥

स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याये द्वादशः खण्डः ॥१२॥

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार त्ँ होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥१॥

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत्संवर्तते त्ँ होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति ॥२॥

स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याये त्रयोदशः खण्डः ॥१३॥

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिठजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाऽधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥१॥

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ब्राठमं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसंद्येतैवमेवॄए!हाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ॥२॥

स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याये चतुर्दशः खण्डः ॥१४॥

पुरुष्ँ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥१॥

अथ यदास्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥२॥

स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥

इति षष्ठाध्याये पञ्चदशः खण्डः ॥१५॥


Page-----------------७१--

पुरुष्ँ सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स तह्यतेऽथ हन्यते ॥१॥

अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥२॥

स यथा तत्र नादाह्येतैतदात्मयमिद्ँ सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ॥३॥

इति षष्ठाध्याये षोडशः खण्डः ॥१६॥

इति षष्ठोऽध्यायः ॥६॥

अथ सप्तमोऽध्यायः ॥७॥

ॐ ॥ अधीहि भगव इति हापससाद सनत्कुमारं नारदस्त्ँ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥१॥

ऋग्वेदं भगवोऽध्येमि यजुर्वेद्ँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य्ँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥२॥

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुत्ँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामिठ तं मा भगवाञ्छोकस्य पारं तारयत्विति त्ँ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥३॥

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥४॥

स यो नाम ब्रह्मेत्युपास्ते यावन्नम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥५॥

इति सप्तमाध्याये प्रथमः खण्डः ॥१॥

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद्ँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य्ँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँठ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँठश्च


Page-----------------७२--

मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्वान्याकीटपतङ्गपिपीलक धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति॥१॥

स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये द्वितीयः खण्डः ॥२॥

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राँठश्च पशूँठश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥१॥

स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेठत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये तृतीयः खण्डः ॥३॥

संकल्पो वाव मनसो भूतान्यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥१॥

तानि ह वा एतानि संकल्पैकायननि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाँ संक्लृप्त्यै वर्ष्ँ संकल्पते वर्षस्य संक्लृप्त्या अन्न्ँ संकल्पतेऽन्नस्य संक्लृप्त्यै प्राणाः संकल्पन्ते प्राणानाँठ संक्लृप्त्यै मन्त्राः संकल्पन्ते मन्त्राणाँठ संक्लृप्त्यै कर्माणि संकल्पन्ते कर्मणाँठ संक्लृप्त्यै लोकः संकल्पते लोकस्य संक्लृप्त्यै सर्व्ँ संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥२॥

स यः संकल्पं ब्रह्मेत्युपास्ते क्लृप्तान्वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवर्तिठ यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥३॥

इति सप्तमाध्याये चतुर्थः खण्डः ॥४॥

चित्तं वाव संकल्पाद्भूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥१॥



Page-----------------७३--

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेथमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्त्ँ ह्येवैसामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥२॥

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्द्यतिठ यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥३॥

इति सप्तमाध्याये पञ्चमः खण्डः ॥५॥

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्त स्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाँठशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाँठशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥१॥

स यो ध्यानं ब्रह्मेत्युपास्ते यावध्द्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवाठन्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये षष्ठठः खण्डः ॥६॥

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद्ँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य्ँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँठ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँठश्च मनुष्याँठश्च पशूँठश्च वयाँठसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥१॥

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये सप्तमः खण्डः ॥७॥

बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता


Page-----------------७४--

भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौबलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च बयाँठसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥१॥

स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्यायेऽष्टमः खण्डः ॥८॥

अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दशरात्रीर्नाश्नीयाद्यद्यु ह जीवेदथवाऽद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याऽऽयै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपाठस्स्वेति॥१॥

स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रंठह्मत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये नवमः खण्डः ॥९॥

आपो वावान्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद् द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाँठसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥१॥

स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वाआ न्कामाँठस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽभ्द्यो भूय इत्यभ्द्योठ वा भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये दशमः खण्डः ॥१०॥

तेजो वावाभ्द्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युभ्दिराह्वाठदाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तेज उपास्स्वेति ॥१॥

स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्द्यठति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति


Page-----------------७५--

यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याय एकादशः खण्डः ॥११॥

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्ठयग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥१॥

स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्द्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये द्वादशः खण्डः ॥१२॥

स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान्विजानाति स्मरेण पशून् स्मरसुपास्स्वेति ॥१॥

स यः स्मरं ब्रह्मत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये त्रयोदशः खण्डः ॥१३॥

आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राँठश्च पशूँठश्चेत्च्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥१॥

स य आशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामाः समृध्द्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥२॥

इति सप्तमाध्याये चतुर्दशः खण्डः ॥१४॥

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्व्ँ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः॥१॥

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि


Page-----------------७६--

ब्राह्मणहा वै त्वमसीति ॥२॥

अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहाऽसीति न भ्रातृहाऽसीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥३॥

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवदी भवति तं चेद्ब्रयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥४॥

इति सप्तमाध्याये पञ्चदशः खण्डः॥१५॥

एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्बेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याये षोडशः खण्डः ॥१६॥

यदा वै शिजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥१॥


इति सप्तमाध्याये सप्तदशः खण्डः ॥१७॥

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्यायेऽष्टादशः खण्डः ॥१८॥

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याय एकोनविंशः खण्डः ॥१९॥

यदा वै निस्तिष्ठत्यथ श्रद्दधात्ति नानिस्तिष्ठञ्श्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याये विंशः खण्डः ॥२०॥

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याय एकविंशः खण्डः ॥२१॥

यदा वै सुखं लभतेऽथ करोति नसुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याये द्वाविंशः खण्डः ॥२२॥

यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥१॥

इति सप्तमाध्याये त्रयोविंशः खण्डः ॥२३॥


Page-----------------७७--

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानातिठ तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ँ स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति॥१॥

गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित इति ॥२॥

इति सप्तमाध्याये चतुर्विंशः खण्डः ॥२४॥

स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेद्ँ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेद्ँ सर्वमिति ॥१॥

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेद्ँ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्ठमरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्ठ भवति तस्य सर्वेषु लोकेषु कामचारो भवति । अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाँठ सर्वेषु लोकेष्वकामचारो भवति ॥२॥

इति सप्तमाध्याये पञ्चविंशः खण्डः ॥२५॥

तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेद्ँ सर्वमिति ॥१॥

तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताँठ सर्व्ँ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विँठशतिराहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनात्कुमारस्त्ँ स्कन्द इत्याचक्षते त्ँ स्कन्द इत्याचक्षते ॥२॥

इति सप्तमाध्याये षङ्विंशः खण्डः ॥२६॥

इति सप्तमोऽध्यायः ॥७॥


Page-----------------७८--

अष्टमोऽध्यायः ॥८॥

ॐ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥१॥

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥२॥

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥३॥

तं चेद्ब्रूयुरस्मिँठश्चेदिदं ब्रह्मपुरे सर्व्ँ समाहित्ँ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोत् प्रध्व्ँसते वा किं ततोऽतिशिष्यत इति ॥४॥

स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्माऽपहतपापप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥५॥

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजठत्येताँठश्च सत्यान् कामाँठस्तेषाँठ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताँठश्च सत्यान् कामाँठस्तेषाँठ सर्वेषु लोकेषु कामचारो भवति ॥६॥

इत्यष्टमाध्याये प्रथमः खण्डः ॥१॥

स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते ॥१॥

अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते ॥२॥

अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते ॥३॥

अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते ॥४॥

अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते ॥५॥

अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महीयते॥६॥

अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन संपन्नो महीयते ॥७॥

अथ यदि गीतवादितलोककामो भवति संकल्पादेवास्य गीतवादिते समुत्तिष्ठतस्तेन गीतवादितलोकेन


Page-----------------७९--

संपन्नो महीयते ॥८॥

अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन संपन्नो महीयते ॥९॥

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते ॥१०॥

इत्यष्टमाध्याये द्वितीयः खण्डः ॥२॥

त इमे सत्याः कामा अनृतपिधानास्तेषाँठ सत्यानाँठ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥१॥

अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥२॥

स वा एष आत्मा हृदि तस्यतैदेव निरुक्त्ँ हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्ग लोकमेति ॥३॥

अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥४॥

तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभेठ यच्छति यदनेनोभेठ यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥५॥

इत्यष्टमाध्याये तृतीयः खण्डः ॥३॥

अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय नैत्ँ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृत्ँ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥१॥

तस्माद्वा एत्ँ सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एत्ँ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥२॥

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँठ सर्ठवेषु लोकेषु कामचारो भवति ॥३॥

इत्यष्टमाध्याये चतुर्थः खण्डः ॥४॥

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते॥१॥

अथ यत्सन्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥२॥

अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष


Page-----------------८०--

ह्याठत्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत्तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीय्ँ सरस्तसश्वत्थः सोमसवनस्तदपराजिता पूब्रह्मणः प्रभुविमित्ँ हिरण्ठमयम् ॥३॥

तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषांठ सर्वेषु लोकेषु कामचारो भवति ॥४॥

इत्यष्टमाध्याये पञ्चमः खण्डः ॥५॥

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥१॥

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेचैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥२॥

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवति ॥३॥

अथ यन्नैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥४॥

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥५॥

तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङठन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥६॥

इत्यष्टमाध्याये षष्ठः खण्डः ॥६॥

य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्ठवाँठश्च लोकानामोति सर्वाँठश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच॥१॥

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाँठश्च लोकानाप्नोति सर्वाँठश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥२॥

तौ ह द्वात्रिँठशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाँठश्च लोकानाप्नोति सर्वाँठश्च कामान्यस्त-----Page------------------८१--

मात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥३॥

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥४॥

इत्यष्टमाध्याये सप्तमः खण्डः ॥७॥

उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति ॥१॥

तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥२॥

तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥३॥

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति॥४॥

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाँठ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति स्ँ स्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥५॥

इत्यष्टमाध्यायेऽष्टमः खण्डः ॥८॥

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥१॥

नाहमत्र भोग्यं पश्यामीति स समित्पाणिः पुनरेयाय त्ँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥२॥

एवमेवैष मघव अ। उ। ६


Page-----------------८२--


Page-----------------८३--


Page-----------------८४--

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति छान्दोग्योपनिषत्संपूर्णा ॥९॥

बृहदारण्यकोपनिषत्[सम्पाद्यताम्]

ॐ पूर्णमदः पूर्णमिदं पून्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ उषा वा अश्वस्य मेध्यस्य शिरः ॥ सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्नेर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य ॥ द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्छमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नश्चत्राण्यस्थीनि नभो मँ सानि । ऊवध्यँ सिकताः सिन्धवो गुदा यवृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोवञ्जधनार्धो तद्वि जृम्भ्ते तद्विद्योतते यद्विधूनुते तत्स्तन यति यन्मेहति तद्वर्षपि वाजेवास्य वाक् ॥१॥

अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्र्रेनं पश्चान्महिमाऽन्वजायत तस्यपरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः संबभूवतुः । हयो भूत्वा देवानवहद्वाजी जान्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥२॥


इति प्रथमाध्याये प्रथमं ब्राह्मणम् ॥१॥

नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् । अशनाययाऽशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदवार्कस्यार्कत्वं कँ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥१॥

आपो वा अर्कस्तद्यदपाँ शर आसीत्तत्समहन्यत ॥ सा

पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥२॥

स त्रे धात्मानं व्यक्य्रुतादित्यं तृतीयं वायुं तृतीयँ स एष प्रानास्त्रे धा विहितः । तस्य प्राची दिकिशरोऽसौ चासौ चेर्मौ । अथास्य प्रतीचि दिक्पुच्छमसौ चासौ च सवध्यौ दक्षिणा चोदीची च पार्श्वे द्यौ पृष्ठमन्तरिक्षमुदरमियमुरः स


Page-----------------८५--

एषोऽप्सु प्रातिष्ठितो यत्र क्क चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥३॥

सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनँ समभवर्दशनाया मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः । यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जतमभिव्याददात्स भाणकरोत्सैव वागभवत् ॥४॥

स ऐक्षत यदि वा इममभिमँ स्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदँ सर्वमसृजत यदिदं किंचर्चो यजूँ षि सामानि च्छन्दाँ सि यज्ञानप्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वँ सर्वस्यै त स्याता भवति सर्वमस्यान्नं भवति य एवमेतददिते रदितित्वं वेद ॥५॥

सोऽकमयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरँ श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥६॥

सोऽकमयत मेध्यं म इदँ स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमे ध्यस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तँ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त ॥एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥७॥

इति प्रथमाध्याये द्वितीयं ब्राह्मणम् ॥२॥

द्वया ह प्राजापत्या देवाश्वासुराश्व । ततः कानीयसा एव देवा ज्यायसा असुरास्तु एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥१॥

ते ह वाचमूछुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायद्यत् कल्याणं वदति तदात्मने ॥ ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥२॥

अथ ह प्राणमूछुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत् कल्याणं जिघ्र्ति तदात्मने । ते विदुरनेन वै न उद्गात्राऽस्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥३॥

अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायन् । यश्वक्षुपि


Page-----------------८६--

भोगस्तं देवेभ्य आगायद्यठत्कल्याणं पश्यति तदात्मने । ते विदुनेन वै न उ द्गात्राऽत्वेष्यन्तीति तममिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥४॥

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति तेभ्वः श्रोत्रमुदगायद्यःठ श्रोत्रे भोगस्तं देवेम्य आगायद्यत्कल्याणँ शृणोति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपँ शृणोति स एव स पाप्मा ॥५॥

अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत् कत्याणँ संकल्पयति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपँ मंकल्पयति स एव स पाप्मैवसु खल्वेता देवताः पाप्मभिरुपासृजत्नेठवमेनाः पाप्मनाऽविध्यन् ॥६॥

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तदभिद्रुत्य पाप्मनाविव्यत्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वँ सेतैवँहैव विध्वँठसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥७॥

ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः ॥८॥

सा वा एषा देवता दूर्नाम दूरँ ह्यस्या मृत्युर्दूरँ ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥१॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयांचकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियात्नान्तमियात्नेत्पाप्मानं मृत्युमन्ववायानीति ॥१०॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥११॥

स वै वाचमेव प्रथभामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥१२॥

अथ प्राणमत्यवहत्स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥१३॥

अथ चक्षुरत्यवहत्तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्मोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥१४॥

अथ श्रोत्रमत्यवहत्तद्यदा मृत्युमत्यमुच्वत ता दिशोऽभवँ स्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥१५॥

अथ मनोऽत्यवहत्तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवँ ह चा एनमेषा देवता मृत्युमतिवहति य एवं वेद॥१६॥

अथात्मनेऽन्नाद्यमागायद्यद्धिठ किंचान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति ॥१७॥

ते देवा क्षब्रुवन्नेतावद्वा इदँ सर्वं यदन्नं तदात्मन


Page-----------------८७--

आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माऽभिसंविशतेति तथेति तँ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवँ ह वा एनँ स्वा अभिसंविशन्ति भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवंविदँ स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति॥१८॥

सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः प्राणो वा अङ्गानाँ रसः प्राणो हि वा अङ्गानाँ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानाँ रसः ॥१८॥

एष उ एव बृहस्पतिर्वाग् वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः ॥२०॥

एष उ एव ब्रह्मणस्पतिर्वाग् वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥२१॥

एष उ एव साम वाग् वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यँ सलोकतां य एवमेतत्साम वेद ॥ २२॥

एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदँ सर्वसुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥२३॥

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नूवाचायं त्यस्य राजा मूर्धानां विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनो-दगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति ॥२४॥

तस्य हैतस्यमाम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यंकरिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसंपन्नयार्त्विज्यं कुर्यात्तस्माद्यज्ञेस्वरवन्तं दिद्दक्षन्त एव । अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेत-त्साम्नः स्वं वेद ॥२५॥

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्यसुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णंवेद ॥२६॥

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वैवागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैकआहुः ॥२७॥

अथातः पवमानानामेवाभ्यारोहः स वै खलु प्रस्तोता सामप्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्गमय तमसो मा ज्यो-तिर्गमय मृत्योर्माऽमृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा अस-त्सदमृतं मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गम-येति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्माऽमृतं गमयामृतं मां कुर्वित्येवैतठदाहमृस्वोर्माऽमृतं गमयेति नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणितेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वूठणीत यं कामं कामयेत तँ स एषठ-----Page-----------------८८--एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैठत-ल्लोकजिदेव न हैवालोक्यताया आशाऽस्ति य एवमेतत्साम वेद ॥२८॥

इति प्रथमाघ्याये तृतीयं ब्राह्मणम् ॥३॥

आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहंनामाभवत्तस्मादप्येठतर्ह्यामन्त्रितोऽहमयमित्ये-वाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पा-प्मठन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद॥१॥

सोऽबिभेत्तस्मादेकाकी बिमेति स हायमीक्षांचक्रे यन्मदन्यन्नास्तिकस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यठभेष्यद्द्विठतीयाद्वै भयंभवति ॥२॥

स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् । सहैतावानास यथा स्त्रीपुमाँ सौ संपरिष्वक्तौ स इममेवात्मानं द्वेधाऽपातय-त्ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व हति ह स्माह याज्ञ-वल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव ताँ समभवत्ततो मनुष्या अजा-यन्त ॥३॥

सा हेयमीक्षांचक्रे कथं नु माऽऽत्मन एव जनयित्वा संभवति हन्ततिरोऽसानीति सा गौरभवद्दषभ इतरस्ताँ समेवाभवत्ततो गावोऽजायन्त वड-वेतराऽभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ताँ समेवाभवत्तत एकशफ-मजायताऽजेतराभवद्वस्त इतरोऽविरितरा मेष इतरस्ताँ समेवाभवत्ततोऽजाव-योऽजायन्तैवमेव यदिदं किंच मिथुनमा पिपीलिकाम्यस्तत्सर्वमसृजत ॥४॥

सोऽवेदहं वाव सृष्टिरस्म्यहँ हीदँ सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्याँ हा-स्यैतस्यां भवति य एवं वेद ॥५॥

अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यांचाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः । तद्य-दिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः ।अथ यत्किंचेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदँ सर्वमन्नं चैवा-न्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्नणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृज-ताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्याँ हास्यैतस्यां भवतिय एवं वेद ॥६॥

तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रिय-तासौ नामायमिदँ रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रिय-तेऽसौनामायमिदँरूप इति स एष इह प्रविष्टः । आनखाग्रेभ्यो यथाक्षुरः क्षुर-आनेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये तं न पश्यन्ति । अकृत्स्नो हि सप्राणन्नेव प्राणो नाम भवति । वदन् वाक् पश्यँश्चक्षुः शृण्वन् श्रोत्रं मन्वानोमनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो-----Page-----------------८९--ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पद-नीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्दे-देवं कीर्तिँ श्लोकं विन्दते य एवं वेद ॥७॥

तदेतत्प्रेयः पुत्रात्प्रेयो वित्ता-त्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणंब्रूयात् प्रियँ रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स यआत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥८॥

तदाहुर्य-ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्माऽवेद्यस्मात्तत्सर्वम-भवदिति ॥९॥

ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति ।तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणांतथा मनुष्याणां तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवँ सूर्यश्चेति ।तदिदमप्येतर्हि य एवं वेदाऽहं ब्रह्मास्मीति स इदँ सर्वं भवति तस्य ह नदेवाश्चनाभूत्या ईशते । आत्मा ह्येषाँ स भवत्यथ योऽन्यां देवतामुपास्तेऽन्यो-ऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवँ स देवानाम् । यथा ह वै बहवःपशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादी-यमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः॥१०॥

ब्रह्म वा इदमग्र आसीदेकमेव तदेकँ सन्न व्यभवत् । तच्छ्रेयोरूपमत्य-सृजत क्ष्त्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमोमृत्युरीशान इति । तस्मात् क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादु-पास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्य-द्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एनँहिनस्ति स्वाँ स योनिमृच्छति स पापीयान् भवति यथा श्रेयाँसँहिँ-सित्वा ॥११॥

स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानिगणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥१२॥

सनैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै पूषेयँ हीदँ सर्वं पुष्यतियदिदं किंच ॥१३॥

स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान् बलीयाँसमाशँसतेधर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात् सत्यं वदन्तमाहुर्धर्मंवदतीति धर्मं वा वदन्तँ सत्यं वदतीत्येतध्द्येवैतदुभयं भवति ॥१४॥

तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रि-ग्रेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्तेब्राह्मणे मनुष्येष्वेताभ्याँ हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्मा-----Page------------------९०--ल्लोकात्स्वं लोकमद्दष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽन-नूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धा-स्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्तेन हास्य कर्म क्षीयते । अस्माध्द्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥१५॥

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेनदेवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजा-मिच्छते तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनु-ष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदावयाँस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोका-यारिष्टिमिच्छेदेवँ हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितंमीमाँसितम् ॥१६॥

आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मेस्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छँ श्चनातो भूयो विन्देत्तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथवित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्र एवतावन्मन्यते तस्यो कृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मा-नुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवँ श्रोत्रेण हि तच्छृणोत्यात्मैवास्यकर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषःपाङ्क्तमिदँ सर्वं यदिदं किंच तदिदँ सर्वमाप्नोति य एवं वेद ॥१७॥

इति प्रथमाध्याये चतुर्थं ब्राह्मणम् ॥४॥

यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता । एकमस्य साधारणं द्वे देवान-भाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्तस्मिन्सर्वं प्रतिष्ठितं यच्चप्राणिति यच्च न । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा । यो वैतामक्षिर्तिवेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः॥१॥

यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाऽजनय-त्पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एत-दुपास्ते न स पाप्मनो व्यावर्तते मिश्रँ ह्येतत् । द्वे देवानभाजयदिति हुतं चप्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति ।तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रेमनुष्याश्च पशवश्चोपजीवन्ति तस्मात् कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्तिस्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन् सर्वं प्रतिष्ठितंयच्च प्राणिति यच्च नेति पयसि हीदँ सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।-----Page-----------------९१--तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदह-रेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वँ हि देवेभ्योऽन्नाद्यं प्रय-च्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः सहीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः सहीदमन्नं धिया धिया जनयते । कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्तिप्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत्स देवानपिगच्छति स ऊर्जमुपजीवतीतिप्रशँसा ॥२॥

त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्य-त्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यतिमनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धी-र्भीरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यःकश्च शब्दो वागेव सैषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानःसमानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयःप्राणमयः ॥३॥

त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकःप्राणोऽसौ लोकः ॥४॥

त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणःसामवेदः ॥५॥

देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरःप्राणो मनुष्याः ॥६॥

पिता माता प्रजैत एव मन एव पिता वाङ्माताप्राणः प्रजा ॥७॥

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किंच विज्ञातंवाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥८॥

यत्किंच विजिज्ञास्यंमनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति ॥९॥

यत्किंचा-विज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति ॥१०॥

तस्यै वाचः पृथिवी शतीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवीतावानयमग्निः ॥११॥

अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्य-स्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनँ समैतां ततः प्रा-णोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवतिय् एवं वेद ॥१२॥

अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्त-द्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽ-नन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्तँ स लोकं जयत्यथ यो हैतान-नन्तानुपास्तेऽनन्तँ स लोलं जयति ॥१३॥

स एष संवत्सरः प्रजापतिःषोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रि-भिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्याँ रात्रिमेतया षोडश्या कलया-----Page-----------------९२--सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेताँ रात्रिं प्राणभृतःप्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥१४॥

योवै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्त-मेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयतेतदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मनाचेज्जीवति प्रधिनाऽगादित्येवाहुः ॥१५॥

अथ त्रयो वाव लोका मनुष्यलोकःपितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणाकर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानाँ श्रेष्ठस्तस्माद्विद्यांप्रशँसन्ति ॥१६॥

अथातः संप्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्मत्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वैकिंचानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषाँ सर्वेषां यज्ञैत्येकता ये वै के च लोकास्तेषाँ सर्वेषां लोक इत्येकतैतावद्वा इदँ सर्व-मेतन्मा सर्वँ सन्नयमितोऽभुनजदिति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्त-स्मादेनमनुशासति स यदेवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमावि-शति । स यद्यनेन किंचिदक्ष्णयाऽकृतं भवति तस्मादेनँ सर्वस्मात्पुत्रो मुञ्चतितस्मात्पुत्रो नाम स पुत्रेणैवास्मिँल्लोके प्रतितिष्ठत्यथिए!नमेते देवाः प्राणा अमृताआविशन्ति ॥१७॥

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वा-ग्यया यद्यदेव वदति तत्तद्भवति ॥१८॥

दिवश्चैनमादित्याच्च दैवं मन आवि-शति तद्वै दैवं मनोयेनानन्द्येव भवत्यथो न शोचति ॥१९॥

अद्भ्यश्चैनं चन्द्र-मसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः संचरँश्चासंचरँश्च नव्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवँस यथैतां देवताँ सर्वाणि भूतान्यवन्त्येवँ हैवंविदँ सर्वाणि भूतान्यवन्ति ।यदु किंचेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वैदेवान् पापं गच्छति ॥२०॥

अथातो व्रतमीमाँसा प्रजापतिर्ह कर्माणिससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्यास्येवाहमिति वाग्दध्रे द्रक्ष्या-म्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथकर्म तानिमृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्द्ध पस्माच्छ्राम्यत्येववाक् आम्यति चक्षुः आम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राण-स्तानि ज्ञातुं दध्निरे । अयं चै नं श्रेष्ठो यः संचरँश्चासंचरँश्च न व्यथतेऽथो नरिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवँस्तस्मादेत-----Page-----------------९३--एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवतिय एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्य-ध्यात्मम् ॥२१॥

अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमि-त्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतँ स यथैषांप्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवतान वायुः सैषाऽनस्तमिता देवता यद्वायुः ॥२२॥

अथैष श्लोको भवति यत-श्चोदेति मूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तंदेवाश्चक्रिरे धर्मँ स एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्यकुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नु-वदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यँ सलोकतांजयति ॥२३॥

इति प्रथमाध्याये पञ्चमं ब्राह्मणम् ॥५॥

त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हिसर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाँ सामैतद्धि सर्वैर्नामभिः सममेतदेषांब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥१॥

अथ रूपाणां चक्षुरित्येतदेषामुक्थ-मतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषाँ सामैतद्धि सर्वै रूपैः सममेतदेषांब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥

अथ कर्मणामात्मेत्येतदेषामुक्थ-मतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषाँ सामैतद्धि सर्वैः कर्मभिः सममे-तदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयँ सदेकमयमात्माऽऽत्मोएकः सन्नेतत्त्रयं तदेतदमृतँ सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यंताभ्यामयं प्राणश्छन्नः ॥३॥

इति प्रथमाध्याये षष्ठं ब्राह्मणम् ॥६॥

इति प्रथमोऽध्यायः ॥१॥

द्वितियोऽध्यायः ॥२॥

ॐ ॥ दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्मते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां बाचि दद्मो जनको जनकैति चै जना धावन्तीति ॥१॥

स होवाच गार्ग्यो य एवासावादित्ये पुरुषएतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः-----Page-----------------९४--सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपा-स्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥२॥

स होवाच गार्ग्यो यएवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति सहोवाचाजातशत्रुर्मा मैतस्मि-न्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स यएतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥३॥

सहोवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एत-मेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवतिं ॥४॥

सहोवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति सय एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥५॥

सहोवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचा-जातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वैकुष्ठोऽपराजिता सेनेति वा अहमेत-मुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥६॥

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति सय एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥७॥

सहोवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचा-जातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा क्षहमेतमुपास इति स यएतमेवमुपास्ते प्रतिरूपँ हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्मा-ज्जायते ॥८॥

स होवाच गार्ग्यो य एवायमादर्से पुरुष एतमेवाहं ब्रह्मोपासैति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा जोचिष्णुरिति वा अहमेतमु-पास हति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भव-त्यथो यैः संनिगच्छति सर्वाँस्तानतिरोचते ॥९॥

स होवाच गार्ग्यो यएवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातश-त्रुर्मा मैतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमु-पास्ते सर्वँ हैवास्मिँल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥१०॥

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इतिस य एतमेवमुपास्ते द्वितीयवान् ह भवति नास्माद्गणश्छिद्यते ॥११॥

सहोवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-----Page------------------९५--चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृस्युरिति वा अहमेतमुपास इति स यएतमेवमुपास्ते सर्वँ हैवास्मिँल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति॥१२॥

स होवाच गार्म्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपासैति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमु-पास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजाभवति स ह तूष्णीमास गार्ग्यः ॥१३॥

स होवाचाजातशत्रुरेतावन्नू ३ इत्येता-वद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति ॥१४॥

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्रह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीतिव्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषँ सुप्तमाजग्म-तुस्तमेतैर्नामभिरामन्त्रयांचके बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौतं पाणिना पेषं बोधयांचकार स होत्तस्थौ ॥१५॥

स होवाचाजातशत्रुर्य-त्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादितितदु ह न मेने गार्ग्यः ॥१९॥

स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्यएष विज्ञानमयः पुरुषस्तदेषां प्राणाबनां विज्ञानेन विज्ञानमादाय य एषोऽन्त-र्हृदय आकाशस्तस्मिञ्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नामतद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतँ श्रोत्रं गृहीतंमनः ॥१७॥

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजोभवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वेशरीरे यथाकामं परिवर्तते ॥१८॥

अथ यदा सुषुप्तो भवति यदा न कस्य-चन चेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्तेताभिः प्रत्यवसृत्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महा-ब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥१९॥

स यथोर्ण-नाभिस्तन्तुनोच्चरेद्यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वेप्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥२०॥

इति द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥१॥

यो ह वै शिशुँ साधानँ सप्रत्याधानँ सस्थूणँ सदामं वेद सप्त हद्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवा-धानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥१॥

तमेताः सप्ताक्षितय उपतिष्ठन्ते-----Page-----------------९६--तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनँ रुद्रोऽन्वायत्तोऽथ या अक्षन्ना-पस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेने-न्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद॥२॥

तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितंविश्वरूपम् । तस्याऽऽसत ॠषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मि-न्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्याऽऽसतॠषयः सप्त तीर इति प्राणा वा ॠषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संवि-दानेति वाग्ध्यष्टमी ब्रह्मणा संवित्ते ॥३॥

इमावेव गोतमभरद्वाजावयमेवगोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयंजमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचाह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवतिय एवं वेद ॥४॥

इति द्वितीयाध्याये द्वितीयं ब्राह्मणम् ॥२॥

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्चत्यं च ॥१॥

तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्त-स्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतोह्येष रसः ॥२॥

अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यं तस्यैतस्या-मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरु-षस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥३॥

अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्रा-णाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्यमर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥४॥

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्या-मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्यह्येष रसः ॥५॥

तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथापाण्ड्वाविकं यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तँ सकृ-द्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेनि नेति नह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयँ सत्यस्य सत्यमिति प्राणा वै सत्यंतेषामेष सत्यम् ॥६॥

इति द्वितीयाध्याये तृतीयं ब्राह्मणम् ॥३॥


Page-----------------९७--

मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्ततेऽनया कात्यायन्याऽन्तं करवाणीति ॥१॥

सा होवाच मैत्रेयी यन्नु म इयंभगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितँ स्यादमृतत्वस्य तुनाऽऽशास्ति वित्तेनेति ॥२॥

सा होवाच मैत्रेयी येनाहं नामृता स्यं किमहंतेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥३॥

स होवाच याज्ञवल्क्यःप्रिया बतारे नं सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्यतु मे निदिध्यासस्वेति ॥४॥

स होवाच न वा अरे पत्युः कामाय पतिःप्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामायजाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणांकामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वाअरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । नवा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियंभवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामायलोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवः प्रिया भवन्त्यात्म-नस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानिप्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वाअरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियंभवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्योमैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदँ सर्वं विदि-तम् ॥५॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादा-द्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तंपरादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेदसर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवाइमानि भूतानीदँ सर्वं यदयमात्मा ॥६॥

स यथा दुन्दुभेर्हन्यमानस्य नबाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दोगृहीतः ॥७॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रह-णाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥८॥

स यथावीणायैवाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणा-वादस्य वा शब्दो गृहीतः ॥९॥

स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनि- अ उ ७-----Page-----------------९८--श्चरन्स्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवे-दोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुवया-ख्यानानि व्या ख्यानान्यस्थैवैतानि सर्वाणि निश्वसितानि ॥१०॥

स यथासर्वासामपाँ समुद्र एकायनमेवँ सर्वेषाँ स्पर्शानां त्वगेकायनमेवँ सर्वेषांगन्धानां नासिके एकायनमेवँ सर्वेषाँ रसानां जिह्वैकायनमेवँ सर्वेषाँरूपाणां चक्षुरेकायनमेवँ सर्वेषाँ शब्दानाँ श्रोत्रमेकायनमेवँ सर्वेषाँसंकल्पानां मन एकायनमेवँ सर्वासां विद्यानाँ हृदयमेकायनमेवँ सर्वेषांकर्मणाँ हस्तावेकायनमेवँ सर्वेषामानन्दानामुपस्थ एकायनमेवँ सर्वेषांविसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वनां पादावेकायनमेवँ सर्वेषां वेदानांवागेकायनम् ॥११॥

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानु-विलीयेत न हास्योद्ग्रहणायेव स्याद्यतो यतस्त्वाददीत लवणमेवैवं वा अर इदंमहद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवाऽनु-विनश्यति न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥१२॥

साहोवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञाऽस्तीति स होवाच याज्ञ-वत्क्योठ न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥१३॥

यत्रहि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितरैतरँ शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरंविजानाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केनकँ शृणुयात्तत्केन कमभिवदेत्तत् केन कं मन्वीत तत् केन कं विजानीयाद्ये-नेदँ सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानी-यादिति ॥१४॥

इति द्वितीयाध्याये चतुर्थ ब्राह्मणम् ॥४॥

इयं पृथिवी सर्वेषां मूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चा-यमस्यां पृथिव्यां तेजोमयोऽमृतमयः पृरुषो यश्चायमध्यात्मँ शारीरस्तेजोम-योऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥१॥

इमा आपः सर्वेषां भूतानां मध्वासामपाँ सर्वाणि भूतानि मधु यश्चायमा-स्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ रेतसस्तेजोमयोऽमृतमयःपुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥२॥

अयमग्निःसर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नै तेजोमयो-ऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेवस योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥३॥

अयं वायुः सर्वेषां भूतानां-----Page-----------------९९--मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयःपुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमा-त्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥४॥

अयमादित्यः सर्वेषां भूतानां मध्व-स्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयःपुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय-मात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥५॥

इमा दिशः सर्वेषां भूतानां मध्वासांदिशाँ सर्वाणि भूतानि मधु यश्चायमामु दिक्षु तेजोमयोऽमृतमयः पुरुषोयश्चायमध्यात्मँ श्रोत्रः प्रातिश्रुत्कस्तेजोमयोऽभृतमयः पुरुषोऽयमेव स योऽय-मात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥६॥

अयं चन्द्रः सर्वेषां भूतानां मध्वस्यचन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिँ श्चन्द्रे तेजोमयोऽमृतमयः पुरुषोयश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेद-ममृतमिदं ब्रह्मेदँ सर्वम् ॥७॥

इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतःसर्वाणि भृतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चाय-मध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदंब्रह्मेदँ सर्वम् ॥८॥

अयँ स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयिवोःसर्वाणि भुतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषोयश्चायमध्यात्मँ शाब्दः सौवरस्तेजोमयोऽभृतमयः पुरुषोऽयमेव स योऽय-मात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥९॥

अयमाकाशः सर्वेषां भूतानां सध्व-स्याकाशस्य सर्वाणि भूतानि मधू यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयःपुरुषो यश्चायमध्यात्मँ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स यो-ऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥१०॥

अयं धर्मः सर्वेषां भूतानां मध्व-स्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषोयश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृ-तमिदं ब्रह्मेदँ सर्वम् ॥११॥

इदँ सत्यँ सर्वेषां भूतानां मध्वस्यसस्यस्य सर्वाणि भूतानि मधु यश्चाऽयमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषोयश्चाऽयमध्यात्मँ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेद-ममृतमिदं ब्रह्मेदँ सर्वम् ॥१२॥

इदं मानुषँ सर्वेषां भूतानां मध्वस्यमानुषस्य सर्वाणि भूतानि मधु यश्चाऽयमस्मिन्मानुषे तजोमयोऽमृतमयः पुरु-षोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥१३॥

अयमास्मासर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनितेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स-----Page-----------------१००--योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥१४॥

स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाँ राजा तद्यथा रथनाभौ च रथनेमौ चाराःसर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाःसर्वे प्राणाः सर्व एत आत्मानः समपिताः ॥१५॥

इदं वै तन्मधु दध्यङ्ङा-थर्वणोऽश्विभ्यामृवाच तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दँ स उग्र-माविष्कृणोमि तन्यतुर्न वृष्टिं । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्रयदीमुवाचेति ॥१६॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिःपश्यन्नवोचदाथर्वणायाश्विना दघीचेऽश्व्यँ शिरः प्रत्यैरयतम् । स वां मधुप्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥१७॥

इदं वै तन्मधु दध्य-ङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतद्दषिः पश्यन्नवोचत् । पुरश्चक्रे द्विपदः पुरश्चक्रेचतुष्पदः पुरः स पक्षी भूत्चा पुरः पुरुष आविशदिति । स वा अयं पुरुषःसर्वासु पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥१८॥

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचद्रूपँरूपंप्रतिरूपो बभूव तदस्य रूपं प्रतिचक्ष्णाय । इन्द्रो मायाभिः पुरुरूप ईयतेयुक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनिचानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभू-रित्यनुशासनम् ॥१९॥

इतिद्वितीयाध्याये पञ्चमं ब्राह्मणम् ॥५॥

अथ वँशः पौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौतिमाष्यो गौप-वनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यःकौशिकाच्च गौतमाच्च गौतमः ॥१॥

आग्निवेश्यादाग्निवेश्यः शाण्डिल्याच्चा-नभिम्लाताच्चानभिम्लात आनभिम्लातादानभिम्लात आनभिम्लातादानभि-म्लातो गौतमाद्गौतमः सैतवप्राचीनयोग्याभ्याँ सैतवप्राचीनयोग्यौ पारा-शर्यात्पाराशर्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वा-जाद्भारद्वाजः पाराशर्यात् पाराशर्यो बैजवापायनाद्बैजवापायनः कौशिकायनेःकौशिकायनिः ॥२॥

घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणःपाराशर्यात् पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासु-रायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रे-यादात्रेयो माण्टेर्माण्टिगौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्बात्स्यः शाण्डि-ल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहा-रितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवा-----Page------------------१०१--द्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गि-रस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्या-मश्विनौ दघीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योःप्राध्वँसनान्मृत्युः प्राध्वँसनः प्रध्वँसनात्प्रध्वँसन एकर्षेरेकर्षिर्विप्र-चित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगःपरमेष्टिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥३॥

इति द्वितीयाध्याये षष्ठं ब्राह्मणम् ॥६॥

इति द्वितीयोऽध्यायः ॥२॥

तृतीयोऽध्यायः ॥३॥

ॐ ॥ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानांब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूवकःस्विदेषां ब्राह्मणानामनूचानतम इति स ह गवाँ सहस्रमवरुरोध दश दशपादा एकैकस्याः शृङ्गयोराबद्घाठ बभूवाउ! ॥१॥

तान्होवाच ब्राह्मणा भग-वन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इतिता होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्यवैदेहस्य होताऽश्वलो बभूव स हैनं पप्रच्छ त्वं नु ख्लु नो याज्ञवल्क्य ब्रह्मि-ष्ठोऽसी३ इति स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्मैति तँ ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥२॥

याज्ञवल्क्येति होवाचयदिदँ सर्वं मृत्युनाऽऽप्तँ सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमति-मृच्यत इति होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक् सोऽय-माग्निः स होता स मुक्तिः साऽतिमुक्तिः ॥३॥

याज्ञवल्क्येति होवाच यदिदँसर्वमहोरात्राभ्यामाप्तँ सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयो-राप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्य-दिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः साऽतिमुक्तिः ॥४॥

याज्ञ-वल्क्येति होवाच यदिदँ सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ सर्वं पूर्वपक्षापर-पक्षाभ्यामभिपन्नं केन यजमानाः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्र-र्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः सौद्गाता स मुक्तिः साऽतिमुक्तिः ॥५॥

याज्ञवल्क्येति होवाच यदिदमन्तरिक्ष-----Page------------------१०२--मनारम्बणमिव केनाऽऽक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मण-र्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः सब्रह्मा स मुक्तिः साऽतिमुक्तिरित्यतिमोक्षा अथ संपदः ॥६॥

याज्ञ-वल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृ-भिरिति कतमास्तास्तिस्र हति पुरोऽनुवाक्या च याज्या च शस्यैव तृतीयाकिं ताभिर्जयतीति यत्किंचेदं प्राणभृदिति ॥७॥

याज्ञवल्क्येति होवाच कत्य-यमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति याहुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीतिया हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जवति दीप्यत इति हि देवलोकोया हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुताअधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥८॥

याज्ञ-वल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायती-त्येकयेति कतमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्त-सेव स तेन लोकं जयति ॥९॥

याज्ञवल्क्येति होवाच कत्ययमद्योद्गाता-ऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्याच याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनु-वाक्याऽपानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरो-नुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकँ शस्यया ततो ह होताऽश्वलौपरराम ॥१०॥

इति तृतीयाध्याये प्रथमं ब्राह्मणम् ॥१॥

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाःक्त्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाःकतमे त इति ॥१॥

प्राणो वै ग्रहः सोऽपानेनाऽतिग्राहेण गृहीतोऽपानेन हिगन्धाञ्जिघ्रति ॥२॥

वाग्वै ग्रहः स नाम्नाऽतिग्राहेण गृहीतो वाचा हि नामा-न्यभिवदति ॥३॥

जिह्वा वै ग्रहः स रसेनाऽतिग्राहेण गृहीतो जिह्वया हिरसान्विजानाति ॥४॥

चक्षुवैंठ ग्रहः स रूपेणाऽतिग्राहेण गृहीतश्चक्षुवा हिरूपाणि पश्यति ॥५॥

श्रोत्रं वै ग्रहः स शब्देनाऽतिग्राहेण गृहीतः श्रोत्रेणहि शब्दाञ्छृणोति ॥६॥

मनो वै ग्रहः स कामेनाऽतिग्राहेण गृहीतोमनसा हि कामान्कामयते ॥७॥

हस्तौ वै ग्रहः स कर्मणाऽतिग्राहेण गृहीतोहस्ताभ्याँ हि कर्म करोति ॥८॥

त्वग्वै ग्रहः स स्पर्शेनाऽनिग्राहेण गृहीत-स्स्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥९॥

याज्ञ-----Page------------------१०३--वल्क्येति होवाच यदिदँ सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युर्स्न्न-मित्यग्निवैं मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥१०॥

याज्ञवल्क्येतिहोवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाचयज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याछ्मायत्याध्मातो मृतः शोते॥११॥

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीतिनामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥१२॥

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षु-रादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीँ शरीरमाकाशमात्मौषधीर्लोमानि वन-स्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्कायं तदा पुरुषो भवतीत्याहरसोम्य हस्तमार्तभागाऽऽवामेवैतस्य वेदिष्यावो न नावेतत् सजन इति तौहोत्क्रम्य मन्त्रयांचक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशँसतुःकर्म हैव तत्प्रशशँसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेतिततो ह जारत्कारव आर्तभाग उपरराम ॥१३॥

इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥२॥

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाःपर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम तस्यामीद्दुहिता गन्धर्वगृहीतातमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाऽऽङ्गिरस इति तं यदा लोकानाम-न्तानपृच्छामाथैनमब्रूम क्क पारिक्षिता अभवन्निति क्क पारिक्षिता अभवन् सत्वा पृच्छामि याज्ञवल्क्य क्क पारिक्षिता अभवन्निति ॥१॥

सहोवाचोवाचवै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनोगच्छन्तीति द्वात्रिँशतं वै देवरथाह्न्यान्ययं लोकस्तँ समन्तं पृथिवी द्विस्ता-वत्पर्येति ताँ समन्तं पृथिवीं द्बिस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारायावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवेप्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिववै स वायुमेव प्रशशँ स तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युंजयति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम ॥२॥

इति तृतीयाध्याये तृतीयं ब्राह्मणम् ॥३॥

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरो-क्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इत्येष त आत्मा सर्वान्तरःकतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरोयोऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त -----Page-----------------१०४--आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मासर्वान्तरः ॥१॥

स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्वमे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टे-र्द्रष्टारं पश्येर्न श्रुतेः श्रोतारँ शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्वि-ज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चा-क्रायण उपरराम ॥२॥

इति तृतीयाध्याये चतुर्थं ब्राह्मणम् ॥४॥

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षा-दपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः ।कतमो याज्ञवल्क्य सर्वान्तरो योऽशयनायापिपासे शोकं मोहं जरां मृत्युम-त्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्चलोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणाया वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्माद् ब्राह्मणः पाण्डित्यंनिर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ सुनिरमैनं च मौनंच निर्विद्याऽथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तंततो ह कहोलः कौषीतकेय उपरराम ॥१॥

इति तृतीयाध्याये पञ्चमं ब्राह्मणम् ॥५॥

अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदँ सर्वम-प्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीतिकस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्त-रिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्व-ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्चप्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोता-श्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलो-केषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषुगार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीतिकस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि माऽतिप्राक्षीर्माते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि माऽतिप्राक्षीरितिततो ह गार्गी वाचक्नव्युपरराम ॥१॥

इति तृतीयाध्याये षष्ठं ब्राह्मणम् ॥६॥


Page-----------------१०५--

अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसामपतञ्चलस्य काप्यस्य गृहेषुयज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता तम-पृच्छाम कोऽसीति सोऽब्रवीत् कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्चलं काप्यंयाज्ञिकाँ श्च वेत्थ नु त्वं कात्य तत्सूत्रं येनायं च लोकः परश्च लोकःसर्वाणि च भूतानि संद्दब्धानि भवन्तीति सोऽब्रवीत्पतञ्चलः काप्यो नाहंतद्भगवन्वेदेति सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकाँ श्च वेत्थ नु त्वं काप्य तम-न्तर्यामिणं य इमं च लोकं परं च लोकँ सर्वाणि च भूतानि योऽन्तरोयमयतीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन्वेदेति सोऽब्रवीत्पतञ्चकंकाप्यं याज्ञिकाँ श्चयोवैतत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्सलोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्र-वित्तदहं वेद तच्चेत्त्वंयाज्ञवल्क्य सूत्रमविद्वाँस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसेमूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति योवा इदं कश्चिद्ब्रयाद्वेद वेदेतियथा वेत्थ तथाब्रूहीति ॥१॥

स होवाच वायुर्वैगौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणिच भूतानि संदृबधानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रँ सिषता-स्याङ्गानीति वायुना हि गौतम सूत्रेण संदृबधानि भवन्तीत्येवमेवैतद्याज्ञव-ल्क्यान्तर्यामिणं ब्रूहीति ॥२॥

यः पृथिव्या तिष्ठन् पृथिव्या अन्तरो यंपृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मा-न्तर्याम्यमृतः ॥३॥

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरंपोऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥४॥

योऽग्नौ तिष्ठन्नग्नेत-न्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्त-र्याम्यमृतः ॥५॥

योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेदयस्यान्तरिक्षँ शरीरं योऽन्तरिक्षमन्तरो यमयत्येष ते आत्मान्तर्याम्यमृतः॥६॥

यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं योवायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥७॥

यो दिवि तिष्ठन्दिवो-ऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मा-न्तर्यास्यमृतः ॥८॥

य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो नवेदयस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥९॥

यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो देशो-ऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥१०॥

यश्चन्द्रतारके तिष्ठँश्चन्द्र-तारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकँ शरीरं यश्चन्द्रतारक-----Page------------------१०६--मन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥११॥

य आकाशे तिष्ठन्नाका-शादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमय-त्येष त आत्मान्तर्याम्यमृतः ॥१२॥

यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमोन वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥१३॥

यस्तेजसि तिष्ठँस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरोयमयत्येष त आत्मान्तर्याम्यमृत इत्यधिदैवतमथाधिभूतम् ॥१४॥

यःसर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्यसर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्या-म्यमृत इत्यधिभूतमथाध्यात्मम् ॥१५॥

यः प्राणे तिष्ठन्प्राणादन्तरो यंप्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्या-म्यमृतः ॥१६॥

यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ् न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥१७॥

यश्चक्षुषितिष्ठँश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येषत आत्मान्तर्याम्यमृतः ॥१८॥

यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यँ श्रोत्रं नवेद यस्य श्रोत्रँ शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥१९॥

यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरंयो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥२०॥

यस्त्वचि तिष्ठँ-स्त्वचोऽन्तरो यं त्वङ् न वेद यस्य त्वक् शरीरं यस्त्वचमन्तरो यमयत्येष तआत्मान्तर्याम्यमृतः ॥२१॥

यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानंन वेद यस्य विज्ञानँ शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्या-म्यमृतः ॥२२॥

यो रेतसि तिष्ठन् रेतसोऽन्तरो यँ रेतो न वेद यस्य रेतःशरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतःश्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्तिश्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्य-मृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥२३॥

इति तृतीयाध्याये सप्तमं ब्राह्मणम् ॥७॥

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामितौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छगार्गीति ॥१॥

सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहोवोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्तेकृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति पृच्छ-----Page-----------------१०७--गार्गीति ॥२॥

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्या यद-न्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिँस्तदोतंच प्रोतं चेति ॥३॥

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक् पृथिव्या यद-न्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतंच प्रोतं चेति ॥४॥

सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवो-चोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥५॥

सा होवाच यदूर्ध्वं याज्ञवल्क्यदिवो यदवाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि-ष्यच्चेत्याचक्षते कस्मिँस्तदोतं च प्रोतं चेति ॥६॥

स होवाच यदूर्ध्वं गार्गिदिवो यदवाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्य-च्चेत्याचक्षतेठ आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्चप्रोतश्चेति ॥७॥

स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलम-नण्वहस्वमदीर्घमलोहितमस्नेहम च्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्ध-मचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तद-श्नाति किंचन न तदश्नाति कश्चन ॥८॥

एतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावा-पृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ताअहोरात्राण्यर्धमासा मासा ॠतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वाअक्षरस्य प्रशासने गार्गि प्राध्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रती-च्योऽन्या यांयां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याःप्रशँसन्ति यजमानं देवा दविँ पितरोऽन्वायत्ताः ॥९॥

यो वा एतदक्षरंगार्ग्यविदित्वाऽस्मिँल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तव-देवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणोऽथय एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥१०॥

तद्वा एत-दक्ष्रंरं गार्ग्यदृष्टं द्रष्ट्रश्रुतँ श्रो त्रमतं मच्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृनान्यदतोऽस्ति श्रोतृ नान्यद्रतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नुखल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥११॥

सा होवाच ब्राह्मणा भगव-न्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमंकश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥१२॥

इति तृतीयाध्यायेऽष्टमं ब्राह्मणम् ॥८॥


Page-----------------१०८--

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैवनिविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविधुच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिँशदित्यो-मिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवायाज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावि-त्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध हत्योमिति होवाचकत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री चशता त्रयश्च त्री च सहस्रेति ॥१॥

स होवाच महिमान एवैषामेतेत्रयस्त्रिँशत्त्वेव देवा इति कतमे ते त्रयस्त्रिँशदित्यष्टौ वसव एकादशरुद्रा द्वादशादित्यास्त एकत्रिँशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिँशाविति ॥२॥

कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्चनक्षत्राणि चैते वसव एतेषु हीदं सर्वँ हितमिति तस्माद्वसव इति ॥३॥

कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरान्मर्त्यादु-त्कामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥४॥

कतम आदित्याइति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदँ सर्वमाददाना यन्तिते यदिदँ सर्वमाददाना यन्ति तस्मादादित्या इति ॥५॥

कतम इन्द्रःकतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नु-रित्यशनिरिति कतमो यज्ञ इति पशव इति ॥६॥

कतमे षडित्यग्निश्च पृथिवीच वायुश्चान्तरिक्षं चादित्यश्च द्यौश्चैते षडेते हीदँ सर्वँ षडिति ॥७॥

कतमेते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौद्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥८॥

तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदँ सर्वमध्यार्ध्नोत्ते-नाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥९॥

पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनःपरायणँ स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनःपरायणं यमात्थ य एवायँ शारीरः पृरुषः स एष वदैव शाकल्य तस्य कादेवतेत्यमृतमिति होवाच ॥१०॥

काम एव यस्यायतनँ हृदयं लोको मनो-ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्यात् । याज्ञ-वल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवायं काम-मयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥११॥

रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्या-त्मनः परायणँ स वै वेदिता स्तात् । याज्ञवल्क्य वेद वा अहं तं पुरुषँसर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥१२॥


Page-----------------१०९--

आकाश एव यस्यायतनँओत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वैवेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थय एवायँ श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेतिदिश इति होवाच ॥१३॥

तम एव यस्यायतनँ हृदयं लोको मनोज्योतिर्योवै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँस वै वेदिता स्यात् । याज्ञवल्क्य वेदवा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषःस एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥१४॥

रूपाण्येवयस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परा-यणँ स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनःपरायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देव-तेत्यसुरिति होवाच ॥१५॥

आप एव यस्यायतनँ हृदयं लोको मनोज्यो-तिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्यात् याज्ञवल्क्यवेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः सएष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥१६॥

रेत एवयस्यायतनँ हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परा-यणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणंयमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेतिप्रजापतिरिति होवाच ॥१७॥

शाकल्येति होवाच याज्ञवल्क्यस्त्वाँ स्विदिमेब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥१८॥

याज्ञवल्क्येति होवाचशाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेदस देवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥१९॥

किंदेवतोऽस्यांप्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इतिचक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यतिकस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानातिहृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥२०॥

किंदेव-तोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञैति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेतिश्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ ह्येव दक्षिणाप्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धांजानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥२१॥


Page-----------------११०--

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमितिहृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मितैति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥२२॥

किंदेव-तोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुःसत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदयैति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमे-वैतद्याज्ञवल्क्य ॥२३॥

किंदेवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निःकस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नुहृदयं प्रतिष्ठितमिति ॥२४॥

अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्म-न्यासै यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनद्दद्युर्वयाँसि वैनद्विमथ्नीरन्निति ॥२५॥

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठितैत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रति-ष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेतिनेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितोन व्यथते न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाःस यस्तान्पुरुषान्निरुह्य प्रस्युह्यात्यक्रामत्तं त्वौपनिषदं पृच्छामि तं चेन्मे नविवक्ष्यसि मूर्धा ते विपतिष्यतीति । तँ ह न मेने शाकल्यस्तस्य ह मूर्धाविपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥२६॥

अथहोवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मापृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते हब्राह्मणा न दधृषुः ॥२७॥

तान् हैतैः श्लोकैः पप्रच्छ ॥ यथा वृक्षो वनस्पति-स्तथैव पुरुषोऽमृषा ॥ तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ त्वचएवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ॥ तस्मात्तदा तृण्णात्प्रैति रसो वृक्षादिवा-ऽऽहतात् ॥ माँसान्यस्य शकराणि किनाटँ स्नाव तत्स्थिरम् ॥ अस्थीन्यन्तरतोदारूणि मज्जा मज्जोपमा हृता ॥ यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ॥मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ रेतस इति मा वोचत जीव-तस्तत्प्रजायते ॥ धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य संभवः ॥ यत्समूलमावृहे-युर्वृक्षं न पुनराभवेत् ॥ मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥-----Page-----------------१११--आत एव न जायते को न्देवं जनयेत्पुनः ॥ विज्ञानमानन्दं ब्रह्म रातिर्दातुःपरायणं तिष्ठमानस्य तद्विद इति ॥२८॥

इति तृतीयाध्याये नवसं ब्राह्मणम् ॥९॥

इति तृतीयोऽध्यायः ॥३॥

चतुर्थोऽध्यायः ॥४॥

ॐ जनको हवैदेह आसांचक्रेऽथ ह याज्ञवल्क्य आवव्राज । तँ होवाचयाज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति । उभयमेव सम्राडितिहोवाच ॥१॥

यत्ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे जित्वाशैलिनिर्वाग्वै ब्रह्मेतियथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतोहि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्स-म्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदु-पासीत । का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति होवाच । वाचा वै सम्राड्ठवन्धुः प्रज्ञायत ॠग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणंविद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानिष्टँ हुतमाशितंपायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञा-यन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्तिदेवो भूत्वा देवानप्येति य एवं विद्वानेतदूपास्ते । हस्त्यृषभँ सहस्रं ददामीतिहोवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्यहरेतेति ॥२॥

यदेव ते कश्चिदब्रबीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनःप्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्र-वीत्याणो वै ब्रह्मेत्यप्राणतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां नमेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायत-नमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एवसम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्यप्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामायप्राणो वै सम्राट् परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवोभूत्वा देवानप्येति य एवंविद्वानेतदुपास्ते हस्त्यृषभँ सहस्रं ददामीति होवाचजनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति-----Page-----------------११२--॥३॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेतियथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतोहि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठं न मेऽब्रवीदित्येकपाद्वा एतत्स-म्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येन-दुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वैसम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वैसम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वादेवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभँ सहस्रं ददामीति होवाचजनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्यहरेतेति ॥४॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतोभारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भार-द्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनंप्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्र-मेवायतनमाकाशः प्रतिष्ठाऽनन्त इत्वेनदुपासीत काऽनन्तता याज्ञवल्क्य दिशएव सम्राडितिहोवाच तस्माद्वै सम्राडपियां कां च दिशं गच्छति नैवास्या अन्तंगच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रँ श्रोत्रं वै सम्राट् परमं ब्रह्मनैनँ श्रोत्रं जहानि सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति यएवं विद्वानेतदुपास्ते हस्त्पृषभँ सहस्रं ददामीति होवाच जनको वैदेहः सहोवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥५॥

यदेव तेकश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथामातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसोहि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वाएतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽ-नन्द इत्येनदुपासीत का क्षानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाचमनसा वै सम्राट् म्रिऽयमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दोमनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वण्येनं भूतान्यभिक्षरन्तिदेवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभँ सहस्रं ददा-मीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नान-नुशिष्य इरेतेतिं ॥६॥

यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धःशाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छा-----Page------------------११३--कल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किँ स्यादित्यब्रवीत्तु ते तस्या-यतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञ-वल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थिततायाज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूताना-मायतनँ हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणिभूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनँ हृदयं जहातिसर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्तेहस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवक्ल्यःपिता मेऽमन्यत नाननुशिष्य हरेतेति ॥७॥

इति चतुर्थाध्याये प्रथमं ब्राह्मणम् ॥१॥

ॐ जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु माशाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वासमाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्न-धीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेदयत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवा-लिति ॥१॥

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धँसन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः॥२॥

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् तयोरेष सँस्तावोय एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्दो-ऽथैनयोरेतत्प्रावरण यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः संचरणीयैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हितानाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येव ताभिर्वा एतदास्रवदास्रवतितस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥३॥

तस्यप्राची दिक् प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीचि दिक् प्रत्यञ्चःप्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चःप्राणाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्माऽगृह्मो नहि गृह्यते-ऽशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्यतेऽसितो न व्यथते ग रिष्यत्यभयंवै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जंनको वैदेहोऽभयंत्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहाअयमहमस्मि ॥४॥

इति चतुर्थाध्याये द्वितीयं ब्राह्मणम् ॥२॥


Page-----------------११४-- जनकँ ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्ज-नकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ सह कामप्रश्नमेव वब्रे तँ हास्मै ददौ तँ ह सम्राडेव पूर्वं पप्रच्छ ॥१॥

याज्ञवल्क्यकिंज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योति-षास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥२॥

अस्तमित आदित्येयाज्ञवल्क्य किंजोतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रम-सैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥३॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इत्य-ग्निरेवास्य ज्योतिर्भवतीत्यग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विप-ल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥४॥

अस्तिमित आदित्ये याज्ञवल्क्य चन्द्रम-स्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीतिवाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपियत्र स्वः पाणिर्न विनिर्ज्ञायतिऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैत-द्याज्ञवल्क्य ॥५॥

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्ते-ऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्या-त्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥६॥

कतम आ-त्मेतियोऽयं विज्ञानमयः प्रानेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौलोकावनुसंचरति ध्यायतीव लोलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रा-मतो मृत्यो रूपाणि ॥७॥

स वा अयं पुरुषो जायमानः शरीरमभिसंपद्य-मानः पाप्मभिः सँ सृज्यते स उत्कामन् म्रियमाणः पाप्मनो विजहाति॥८॥

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानंच सन्ध्यं तृतीयँ स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्य-तीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममा-क्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्यसर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्यो-तिषा प्रस्वपित्यत्रायं पुरुषः स्वयंज्योतिर्भवति ॥९॥

न तत्र रथा न रथ-वोगा न पन्थानो भवन्त्यथ रथात्रथयोगान्पथः सृजते न तत्रानन्दा मुदःप्रमुदो भवन्त्यथानन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पृष्करिष्यःस्रवन्त्यो भवन्त्यथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥१०॥

तदेते श्लोका भवन्ति ॥ स्वप्नेन शारीरमभिप्रहत्याऽसुप्तः सुप्तानभिचाकशीति ॥शूक्रमादाय पुनरेतिस्थानँ हिरणमयः पुरुष एकहँसः ॥११॥

प्राणेन-----Page-----------------११५--रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामँहिरणमयः पुरुष एकहँसः ॥१२॥

स्वप्नान्त उच्चावचमीयमानो रूपाणिदेवः कुरुते बहूनि । उतेव स्बीभिः सह मोदमानो जक्षदुतेवापि भयानिपश्यन् ॥१३॥

आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतंबोधयेदित्याहुः ॥ दुर्भिषज्यँ होस्मै भवति यमेष न प्रतिपद्यते । अथो स्वल्वा-हुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायंपुरुषः स्वयंज्योतिर्भवति सोऽहं भगवते सहस्नं ददाम्यत उर्ध्वं विमोक्षायब्रूहीति ॥१४॥

स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यंच पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव स यत्तत्र किंचित्प-श्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहंभगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥१५॥

स वा एषएतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रति-योन्याद्रवति बुद्धान्तायैव स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गोह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्नं ददाम्यत ऊर्ध्वंविमोक्षायैव ब्रूहीति ॥१६॥

स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वाइष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥१७॥

तद्यथा महामत्स्य उभे कूलेऽनुसंचरति पूर्वं चापरं चैवमेवायं पुरुष एतावु-भावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥१८॥

तद्यथास्मिन्नाकाशेश्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः सँहत्य पक्षौ संलयायैव ध्रियतएवमेवायं पुरुषा एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयतेन कंचन स्वप्नं पश्यति ॥१९॥

ता वा अस्यैता हिता नाम नाड्यो यथाकेशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरि-तस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययतिगर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देवैव राजेवाहमेवेदँ सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥२०॥

तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयँ रूपम् । तद्यथा प्रियया स्बियासंपरिष्वक्तो न बाह्यं किंचन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मनासंपरिष्वक्तो न बाह्यं किंचन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाम-मकामँ रूपँ शोकान्तरम् ॥२१॥

अत्र पिताऽपिता भवति माताऽमातालोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहा-ऽभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽता-----Page------------------११६--पसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्यभवति ॥२२॥

यद्वै तन्न-पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्ट्वर्दृष्टेर्विपरि-लोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्॥२३॥

यद्वौ तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुर्घ्रातेर्विपरिलोपोविद्यतेऽविनाशित्वान्नतु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥२४॥

यद्वै तन्न रसयते रसयन्वै तन्न रसयते नहि रसयितू रसयतेर्विपरिलोपोविद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥२५॥

यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपविलोपो विद्यतेऽविना-शित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥२६॥

यद्वै तन्नशृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशि-त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥२७॥

यद्वै तन्नमनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशि-त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥२८॥

यद्वै तन्नस्पृशति स्पृशन्वै तन्न स्पृशति नहि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशि-त्वान्न तु तद्द्विऽतीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥२९॥

यद्वै तन्न विजा-नाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते-ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥३०॥

वत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्य-द्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥।३१॥

सलिल एको द्रष्टाऽद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुश-शास याज्ञवल्क्य एषास्य पस्मा गतिरेषास्य परमा संपदेषोऽस्य परमो लोकएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति॥३२॥

स यो मनुष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्य-कैर्भोगैः संपन्नतमः स मनुष्याणां परम आनन्दोऽथये शतं मनुष्याणामानन्दाःस एकः पितॄणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकानामा-नन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकःकर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये शतं कर्मदेवाना-मानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथयोऽवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोकआनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एत परम आनन्द एष ब्रह्म-----Page------------------११७--लोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वंविमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयांचकार मेधावी राजा सर्वेभ्योमाऽन्तेभ्य उदरौत्सीदिति ॥३३॥

स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वादृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥३४॥

तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायँ शारीर आत्मा प्राज्ञेनात्मना-न्वारूढमुत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥३५॥

स यत्रायमणिमानंन्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वौदुम्बरं वा पिप्पलंवा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एम्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायंप्रतियोन्याद्रवति प्राणायैव ॥३६॥

तद्यथा राजानमायान्तमुग्राः प्रत्येनसःसूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्वयमागच्छतीत्येवँ हैवं-विदँ सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥३७॥

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येव-मेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासीभवति ॥३८॥

इति चतुर्थाध्याये तृतीयं ब्राह्मणम् ॥३॥

स यत्रायमात्माऽबल्यं न्येत्य संमोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्तिस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषःपुरुषः पराङ् पर्यावर्ततेऽथारूपज्ञो भवति ॥१॥

एकीभवति न पश्यतीत्या-हुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकीभवति नवदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवतिन स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृतयस्याग्रं प्रद्योततेतेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदे-शेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्वँ सर्वे प्राणा अनूत्का-मन्ति स विज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी सम-न्वारमेते पूर्वप्रज्ञा च ॥२॥

तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रम-माक्रम्यात्मानमुपसँहरत्येवमेवायमात्मेदँ शरीरं निहत्याऽविद्यां गमयित्वाऽ-न्यमाक्रममाक्रम्यात्मानमुपसँहरति ॥३॥

तद्यथा पेशस्कारी पेशसो मात्रा-मपादायान्यन्नवतरं कल्याणतरँ रूपं तनुत एवमेवायमात्मेदँ शरीरं निह-त्याऽविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरँ रूपं कुरुते पिञ्यं वागान्धर्वं वावैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥४॥

स वा अयमात्माब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो-----Page-----------------११८--वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽ-क्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदंमयोऽदोमय इति यथा-कारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवतिपुण्यः पुण्येन कर्मणा भवति पापः पापेन ॥ अथो खल्वाहुः काममय एवायंपुरुष इति स यथाक्रामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुतेपत्कर्म कुरुते तदभिसंपद्यते ॥५॥

तदेष श्लोको भवति ॥ तदेव सक्तः सह कर्म-णैति लिङ्गं मनो यत्र निषक्तमस्य ॥प्रात्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् ॥तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽ-कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्र-ह्याप्येति ॥६॥

तदेष श्लोक्रो भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदिश्रिताः ॥ अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥ तद्यथाऽहिनिर्ल्वयनीवल्मीके मृता प्रत्यस्ना शयीतैवमेवेदँ शरीरँ शेतेऽथायमशरीरोऽमृतः प्राणोब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥७॥

तदेतेश्लोका भवन्ति ॥ अणुः पन्था विततः पुराणो माँ स्पृष्टोऽनुवित्तो मयैव ॥ तेनघीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥८॥

तस्मिञ्छुक्लमुतनीलमाहुः पिङ्गलँ हरितं लोहितं च ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैतिब्रह्मवित्पुण्यकृत्तैजसश्च ॥९॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततोभूय इव ते तमो य उ विद्यायाँ रताः ॥१०॥

अनन्दा नाम ते लोका अन्धेनतमसाऽऽवृताः ॥ ताँ स्ते प्रेत्याभिगच्छन्त्यविद्वाँसोऽबुधो जनाः ॥११॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ॥ किमिच्छन्कस्य कामाय शरीरम-नुसंज्वरेत् ॥१२॥

यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्संदेह्ये गहने प्रविष्टः ॥स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥१३॥

इहैवसन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ॥ ये तद्विदुरमृतास्ते भवन्त्य-थेतरे दुःखमेवापियन्ति ॥१४॥

यदैतमनुपश्यत्यात्मानं देवमञ्जसा ॥ईशानं भूतभव्यस्य न ततो विजुगुत्सते ॥१५॥

यस्मादर्वाक्संवत्सरोऽहोभिःपरिवर्तते ॥ तद्देवा ज्योतिषां ज्येतिरायुर्होपासतेऽमृतम् ॥१६॥

यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः ॥ तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्॥१७॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनोविदुः ॥ ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥१८॥

मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥१९॥

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ॥ विरजः पर आकाशादज आत्मा महा-----Page------------------११९--न्ध्रुवः ॥२०॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ नानुष्यायाद्व-हूञ्छब्दान्वाचो विग्लापनँ हि तदिति ॥२१॥

स वा एष महानजआत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिन्छेतेसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नोएवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्वि-धरण एषां लोकानामसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तियज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनोलोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वैतत्पूर्वे विद्वाँसः प्रजां न कामयन्तेकि प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणा-याश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येवपुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोमे ह्मेते एषणे एव भवतः ॥स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हिसज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमि-त्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥२२॥

तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनी-यान् ॥ तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मा-देवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानंपश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनंपाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणोभवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहंभगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥२३॥

स वा एषमहानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥२४॥

स वाएष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयँ हि वै ब्रह्मभवति य एवं वेद ॥२५॥

इति चतुर्थाध्याये चतुर्थं ब्राह्मणम् ॥४॥

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च तयोर्हमैत्रेयी ब्रह्मवादिनी बभूब स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्व-द्दृठत्तमुयाकरिष्यन् ॥१॥

मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽ-हमस्मात्स्धानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥२॥

साहोवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहंतेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं-----Page-----------------१२०--तथैव ते जीवितँ स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥३॥

साहोवाचमैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्देद तदेव मेब्रूहीति ॥४॥

स होवाच याज्ञवल्क्यः प्रिया वै स्वलु नो भवती सतीप्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्या-सस्वेति ॥५॥

स होवाच न वा अरे पत्यूः कामाय पतिः प्रियो भवत्या-त्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाता प्रियाभवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामायपुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्यकामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरेपशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति ।न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाःप्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामायदेवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तुकामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणिभवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामायसर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यःश्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मतेविज्ञात इदँ सर्वं विदितम् ॥६॥

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेदअत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोका-न्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनोवेदान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्य-त्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूता-नीदँ सर्वं यदयमात्मा ॥७॥

स यथा दुन्दुमेर्हन्यमानस्य न बाह्याञ्छब्दा-ञ्छक्नयाद्ग्रहणाय दुन्दुमेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥८॥

सयथा शङ्गस्य ध्मायमानस्य न बाह्यञ्छब्दान्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेनशङ्खध्मस्य वा शब्दो गृहीतः ॥९॥

स यथा वीणायै वाद्यमानायै न बाह्मा-ञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥१०॥

स यथार्द्रैधाग्नेरम्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्यमहतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः-----Page-----------------१२१--पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टँ हुत-माशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणिनिश्वसितानि ॥११॥

स यथा सर्वासामपाँ समुद्र एकायनमेवँ सर्वेषाँस्प-र्शानां त्वगेकायनमेवँ सर्वेषां गन्धानां नासिके एकायनमेवँ सर्वेषाँ रसा-नां जिह्वैकायनमेवँ सर्वेषाँ रूपाणां चक्षुरेकायनमेवँ सर्वेषाँ शब्दानाँश्रोत्रमेकायनमेवँ सर्वेषाँ संकल्पानां मन एकायुनमेवँ सर्वासां विद्यानाँहृदयमेकायनमेवँ सर्वेषां कर्मणाँ हस्तावेकायनमेवँ सर्वेषामानन्दानामु-पस्थ एकायनमेवँ सर्वेषां विसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वनां पादा-वेकायनमेवँ सर्वेषां वेदानां वागेकायनम् ॥१२॥

स यथा सैन्धवघनो-ऽनन्तरोऽबाह्मःठ कृत्स्रोठ रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्मः कृत्स्रःप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञा-ऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥१३॥

सा होवाच मैत्रेय्यत्रैव मा भ-गवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति स होवाच न वा अरेऽहंमोहं ब्रवीम्यविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा ॥१४॥

यत्र हि द्वैतमिवभवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरँ रसयतेतदितर इतरमभिवदति तदितर इतरँ शृणोति तदितर इतरं मनुते तदितरैतरँ स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कंपश्येत्तत्केन कं जिघ्रेत्तत्केन कँ रसयेत्तत्केन कमभिवदेत्तत्केन कँ शृणुयात्त-त्केन कं मन्वीत तत्केन कँस्पृशेत्तत्केन कं विजानीयाद्येनेदँ सर्व विजानातितं केन विजानीयात्स एष नेति नेत्यात्माऽगृह्मो न हि गृह्मतेऽशीर्यो न हि शी-र्यतेऽसङ्गो नहि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजा-नीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञव-ल्क्यो विजहार ॥१५॥

इति चतुर्थाध्याये पञ्चमं ब्राह्मणम् ॥५॥

अथ वँशः पौतिमाष्यात्यौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौति-माष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्या-च्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥१॥

आग्निवेश्यादाग्निवेश्योगार्ग्याद्गार्ग्यो गार्ग्याद्गार्ग्यो गौतमाद्गौतमः सैतवात्सैतवः पाराशर्यायणात्पारा-शर्यायणो गार्ग्यायणाद्गार्ग्यायण उद्दालकायनादुद्दालकायनो जाबालायनाज्जा-बालायनो माध्यन्दिनायनान्माध्यन्दिनायनः सौकरायणात्सौकरायणः काषा-षणात्काषायणाः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिः ॥२॥


Page-----------------१२२--वृतकौशिकाद्धतकौक्षिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जा-तूकर्ण्याज्जाठतूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणस्वैवणेस्वैवणिरौपजन्धनेरौ-पजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौ-तमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कै-शोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गाल्वो विदर्भीकौण्डिन्या-द्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्वाभ्रवः पथः सौभरात्पन्थाःसौभरोऽयास्यादाङ्गिरसादयास्य आङ्गरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्व-रूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोदैवादथर्वादैवो मृत्योः प्राध्वँसनान्मृत्युः प्राध्वँसनः प्रध्वँ सनात्प्रध्वँसनएकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्वृष्टिः सनारोः सनारुः सनातनात्स-नातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥३॥

इति चतुर्थाध्याये षष्ठं ब्राह्मणम् ॥६॥

चतुर्थोऽध्यायः ॥४॥

पञ्चमोऽध्यायः ॥५॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य् पूर्णमादाय पूर्णमेवाव-शिष्यते ॥ ॐ खं ब्रह्म खं पुराणम् वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥१॥

इति पञ्चमाध्याये प्रथमं ब्राह्मणम् ॥१॥

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या अमुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच दैति व्यज्ञासिष्टा ३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥१॥

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैत-देवाक्षरमुवाच द इति व्यज्ञासिष्टा ३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥२॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नोभवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा ३ इति व्यज्ञासि-ष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषादैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयँक्षिक्षेद्दमं दानं दयामिति ॥३॥

इति पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥२॥

एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्ञ्यक्षरँहृदयमिति हृ इत्येकम-----Page------------------१२३--क्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वा-श्चान्ये व य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥१॥

इति पञ्चमाध्याये तृतीयं ब्राह्मणम् ॥३॥

तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यंब्रह्मेति जयतीमाँल्लोकान् जित इन्न्वसावसद्य एवमेतं महद्यक्षं प्रथमजंवेद सत्यं ब्रह्मेति सत्यँ ह्येव ब्रह्म ॥१॥

इति पञ्चमाध्याये चतुर्थं ब्राह्मणम् ॥४॥

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिंप्रजापतिर्देवाँस्ते देवाः सत्यमेवोपासते तदेतत्ञ्यक्षरँ सत्यमिति स इत्येक-मक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदे-तदनृतमुभयतःसत्येन परिगृहीतँ सत्यभूयमेव भवति नैवं विद्वाँसमनृतँहिनस्ति ॥१॥

तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डलो पुरुषोयश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्र-तिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यतिनैनमेते रश्मयः प्रत्यायन्ति ॥२॥

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरितिशिर एकँ शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरितिप्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहातिच य एवं वेद ॥३॥

योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकँ शिरएकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्टा द्वे प्रतिष्ठेद्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥४॥

इति पञ्चमाध्याये पञ्चमं ब्राह्मणम् ॥५॥

मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा सएष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच ॥१॥

इति पञ्चमाध्याये षष्ठं ब्राह्मणम् ॥६॥

विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेतिविद्युद्ध्येव ब्रह्म ॥१॥

इति पञ्चमाध्याये सप्तमं ब्राह्मणम् ॥७॥

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारःस्व-धाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्लारं च हन्तकारंमनुष्याः स्वधाकारं पितरस्तस्याः प्राण ॠषभो मनो वत्सः ॥१॥

इति पञ्चमाध्यायेऽष्टमं ब्राह्मणम् ॥८॥


Page-----------------१२४--अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पञ्यते यदिदमद्यते तस्यैषघोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनंघोषँ शृणोति ॥१॥

इति पञ्चमाध्याये नवमं ब्राह्मणम् ॥९॥

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीतेयथा रथचक्रस्य स्वं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्रविजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छतितस्मै स तत्र विजिहीते यथा दुन्दुमेः खं तेन स ऊर्ध्व आक्रमते स लोकमाग-च्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥१॥

इति पञ्चमाध्याये दशमं ब्राह्मणम् ॥१० एतद्वै परमं तपो यद्व्याठहितस्तप्यते परमँ हैव लोकं जयति य एवं वेदैतद्वैपरमं तपो यं प्रेतमरण्यँ हरन्ति परमँ हैव लोकं जयति य एवं वेदैतद्वैपरमं तपो यं प्रेतमग्नावभ्यादधति परमँ हैवं लोकं जयति य एवं वेद ॥१॥

इति पञ्चमाध्याय एकादशं ब्राह्मणम् ॥११॥

अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येकआहुस्तन्न तथा शुष्यति वै प्राण ॠतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वापरमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किँस्विदेवैवं विदुषे साधु कुर्यांकिमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरे-कधाभूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्नेहीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणिभूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्तेय एवं वेद ॥१॥

इति पञ्चमाध्याये द्वादशं ब्राह्मणम् ॥१२॥

उक्थं प्राणो वा उक्थं प्राणो हीदँ सर्वमुत्थापयत्युद्धास्मादुक्थविद्वीरस्ति-ष्ठत्युक्थस्य सायुज्यँ सलोकतां जयति य एवं वेद ॥१॥

यजुः प्राणो वैयजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानिश्वैष्ठ्याय यजुषः सायुज्यँ सलोकतां जयति य एवं वेद ॥२॥

साम प्राणोवै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणिभूतानि श्वैष्ठ्याय कल्पन्ते साम्नः सायुज्यँ सलोकतां जयति य एवं वेद॥३॥

क्षत्रं प्राणो वै क्षत्रं हि त्रायते हैनं प्राणः क्षणितोः प्रक्षत्रमत्रमाप्नोतिक्षत्रस्य सायुज्यँ सलोकतां जयति य एवं वेद ॥४॥

इति पञ्चमाध्याये त्रयोदशं ब्राह्मणम् ॥१३॥


Page-----------------१२५-- भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरँ ह वा एकं गायञ्यै पदमेतदुहैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदंवेद ॥१॥

ऋचो यजूँषि सामानीत्यष्टावक्षराण्यष्टाक्षरँ ह वा एकं गा-यत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या-एतदेवं पदं वेद ॥२॥

प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरँ ह वाएकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयतियोऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं पतोरजा य यषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इतिसर्वसु ह्येवैष रज उपर्युपरि तपत्येवँ हैव श्रिया यशसा तपति योऽस्याएतदेवं पदं वेद ॥३॥

सैषा गायत्र्येतस्मिँस्तुरीये दर्शते पदे परोरजसिप्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुवैं सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानींद्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमितितस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रति-ष्ठित तस्मादाहुर्बलँ सत्यादोगीय इत्येवस्वैषा गायत्र्यध्यात्मं प्रतिष्ठिता साहैषा गयाँस्तत्रे प्राणा वै गयास्तत्प्राणाँस्तत्रे तद्यद्गयाँस्तत्रे तस्माद्गायत्रीनाम स यामेवामूँ सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणाँस्वा-यते ॥४॥

ताँ हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूमैति न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदिह वा अप्येवंविद्वह्णिवप्रतिगृह्णाति न हैव तद्गायञ्याठ एकंचन पदं प्रति ॥५॥

स य इमाँस्वीं-ल्लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयीविद्या यस्तावत्प्रतिगृह्णीयात्मोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणियस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयंदर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णी-यात् ॥६॥

तस्या उपस्थानं गायञ्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसिनहि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदितियं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृद्ध्यतेयस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥७॥

एतद्ध वै तज्जनको वैदेहोबृडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीबिदब्रूथा अथ कथँ हस्तीभूतोवहसीति मुखँह्यस्याः सम्राण्न विदांचकारेति होवाच तस्या अग्निरेव मुखंयदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहत्येवँ हैवैवंविद्य-----Page------------------१२६--द्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतःसंभवति ॥८॥

इति पञ्चमाध्याये चतुर्दशं ब्राह्मणम् ॥१४॥

हिरण्मयेन पात्रेण सत्यस्यापिहिपं मुखं । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।पूषन्नेकर्षे यम मूर्य प्राजापत्य व्यूह रशमीन्समूह तेजो यत्ते रूपं कल्याण-तमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदंभस्मान्तँ शरीरम् । ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहु-राणमेनो भूयिष्ठां ते नम उठक्तिं विधेम ॥१॥

इति पञ्चमाध्याये पञ्चदशं ब्राह्मणम् ॥१५॥

इति पञ्चमोऽध्यायः ॥५॥

षष्ठोऽध्यायः ॥६॥

ॐ ॥ यो चै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वैज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च यैषां बुभूषति य एवं वेद॥१॥

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठःस्वानां भवस्यपि च येषां बुभूषति य एवं वेद ॥२॥

यो ह वै प्रतिष्ठां वेदप्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुवैंठ प्रतिष्ठा चक्षुषा हि समे च दुर्गे चप्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥३॥

यो ह वैसंपदं वेद सँ हास्मै पद्यते यं कामं कामयते श्रोत्रं वै संपच्छ्रोत्रे हीमे सर्वेठवेदा अभिसंपन्नाः सँहास्मै पद्यते यं कामं कामयते य एवं वेद ॥४॥

योह वा आयतनं वेदायतनँ स्वानां भवत्यायतनं जनानां मनो वा आयतन-मायतनँ स्वानां भवत्यायतनं जनानां य एवं वेद ॥५॥

यो ह वै प्रेजातिंवेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशु-भिर्य एवं वेद ॥६॥

ते हेमे प्राणा अहँश्रेयसे विवदमाना ब्रह्म जग्मुस्त-द्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्कान्त इदँ शरीरं पापीयोमन्यते स वो वसिष्ठ इति ॥७॥

वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्यो-वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा कला अवदन्तो वाचाप्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसा प्रजाय-----Page------------------१२७--माना रेतसैवमजीविष्मेति प्रविवेश ह वाक् ॥८॥

चक्षुर्होच्चक्राम तत्संवत्मरंप्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाऽन्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसाप्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः ॥९॥

श्रोत्रँ होच्चक्रामतत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाबधिरा अ शृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषाविद्वाँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् ॥१०॥

मनो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमितिते होचुर्यथा मुग्धा अविद्वाँसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्य-न्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश हमनः ॥११॥

रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकतमदृते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेनवदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसैवमजीवि-ष्मेति प्रविवेश ह रेतः ॥१२॥

अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयःसैन्धवः पड्वीशशङ्कून्संवृहेदेवँ हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगवौत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे वलिं कुरुतेति तथेति॥१३॥

सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीतियद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहँ संपदस्मित्वं तत्संपदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीतिमनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नंकिं वास इति यदिदं किंचा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमायोवास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं परिगृहीतं य एवमेतदन-स्यान्नं वेद तद्विद्वाँसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेवतदनमनग्नं कुर्वन्तो मन्यन्ते ॥१४॥

इति षष्ठाध्याये प्रथमं ब्राह्मणम् ॥१॥

श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिंप्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा ३ इति स भो ३ इतिप्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥१॥

वेत्थ यथेमाः प्रजाःप्रयत्यो विप्रतिपद्यन्ता ३ इति नेति होवाचवेत्थो यथेमं लोकं पुनरापद्यन्ता३-----Page-----------------१२८--इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्नसंपूर्यता ३ इतिनेतिहैवोवाच वेत्थो यतिथ्यामाहुत्याँ हुतायामापः पुरुषवाचोभूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वायथःप्रतिपदंपितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि नॠषेर्वचः श्रुतम् । द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानाम् । ता-भ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकंचन वेदेतिहोवाच ॥२॥

अथैनं वसत्योपमन्त्रयांचक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव सआजगाम पितरं तँ होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोचैति कथँ सुमेध इति पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत्ततो नैकंचन वेदेतिकतमे त इतीम इति ह प्रतीकान्युदाजहार ॥३॥

स होवाच तथा नस्त्वंतात जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्र-तीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्रप्रवाहणस्य जैवलेरास तस्मा आसनमाहृत्योदकमाहारयांचकाराथ हास्माअर्घ्यं चकार तँ होवाच वरं भगवते गौतमाय दद्म इति ॥४॥

स होवाचप्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥५॥

स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥६॥

स होवाचविज्ञायते हास्ति हिरण्यस्यापात्तं गो अश्वानां दासीनां प्रवाराणां परिधानस्यमा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्योभूदिति स वै गौतम ती-र्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपाय-नकीर्त्योवास ॥७॥

स होवाच तथा नस्त्वं गौतम माऽपराधास्तव च पिता-महा यथेयं विद्येतः पूर्वं न कस्मिँ श्चन ब्राह्मण उवास तां त्वहं तुभ्यं व-क्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥८॥

असौ वै लोकोऽ-ग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तर-दिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमोराजा संभवति ॥९॥

पर्जन्यो वाग्निर्गौतम तस्य संवत्सर एव समिदभ्राणिधूमो विद्युदर्चिरशनिरङ्गारा हादुनयो वि स्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाःसोमँ राजानं जुह्वति तस्या आहुत्यै वृष्टिः संभवति ॥१०॥

अयं वै लोको-ऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणिविस्फुलिङ्गास्तस्मिन्नेतस्मिन्नेग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नँ संभ-वति ॥११॥

पुरुषो वाऽग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चि-श्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्याआहुत्यै रेतः संभवति ॥१२॥

योषा वा अग्निर्गौतम तस्या उपस्थ एव-----Page-----------------१२९--समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलि-ङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः संभवति सजीवति यावज्जीवत्यथ यदा म्रियते ॥१३॥

अथैनमग्नये हरन्ति तस्याग्निरे-वाग्निर्भवति समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फु-लिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वर-वर्णः संभवति ॥१४॥

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाँ स्त्यमु-पासते तेऽर्चिरभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्ष-ण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतंतान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराःपरावतो वसन्ति तेषां न पुनरावृत्तिः ॥१५॥

अथ ये यज्ञेन दानेन तपसालोकाञ्जयन्ति ते धूममभिसंभवन्ति धूमाद्रात्रिँ रात्रेरपक्षीयमाणपक्षमप-क्षीपमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोका-च्चन्द्रं ते चन्द्रं प्रात्यान्नं भवन्ति ताँस्तत्र देवा यथा सोमँ राजानमाप्याय-स्वापक्षीयस्वेत्येवमेनाँस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशम-भिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नंभवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युत्थायिनस्तएवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदंदन्दशूकम् ॥१६॥

इति षष्टाध्याये द्वितीयं ब्राह्मणम् ॥२॥

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वाद-शाहमुपसद्व्रती भूत्वौदुम्बरे कँसे चमसे वा सर्वौषधं फलानीति संभृत्यपरिसभुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यँ सँस्कृत्य पुँसानक्षत्रेण मन्थँ संनीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो ध्नन्तिपुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्प-यन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारयायजे सँराधनीमहँ स्वाहा ॥१॥

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वामन्थे सँस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थेसँस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमव-नयति चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयतिश्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति मनसेस्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति रेतसे स्वाहे-----Page------------------१३०--त्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ॥२॥

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थेसँस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति भूःस्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे सँ-स्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति भूर्भुवःस्वःस्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे सँ-स्रवमवनयति क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति भूताय स्वा-हेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे सँ-स्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति सर्वाय स्वा-हेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे सँ-स्रवमवनयति ॥३॥

अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्त-ब्धमस्येकसभमसि हिंकृतमसि हिंक्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रा-वितमसि प्रत्याश्रावितमस्यार्द्रे संदीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योति-रसि निधनमसि संवर्गोऽसीति ॥४॥

अथैनमुद्यच्छत्यामँस्यामँहि ते महिस हि राजेशानोऽधिपतिः स माँ राजेशानोऽधिपतिं करोत्विति ॥५॥

अथैन-माचामति तत्सवितुर्वरेण्यम् । मधु वाता ॠतायते मधु क्षरन्ति सिन्धवः ।माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसोमधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नःप्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमाँ३ अस्तु सूर्यः । माध्वीर्गावो भवन्तुनः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदँ सर्वंभूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराःसंविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणामेक-पुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वँशं जपति ॥६॥

तँहैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापिय एनँ शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छास्वाः प्ररोहेयुः पलाशानीति॥७॥

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिनौक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररो-हेयुः पलाशानीति ॥८॥

एतमु हैव मधुकः पैङ्ग्यश्चलाय भागवित्तयेऽन्ते-वासिन उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाःप्ररोहेयुः पलाशानीति ॥९॥

एतमु हैव चूलो भागवित्तिर्जानकय आय-स्थूणायान्तेवासिन उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्जायेर-ञ्छाखाः प्ररोहेयुः पलाशानीति ॥१०॥

एतमु हैव जानकिरायस्थूणः सत्य-----Page------------------१३१--कामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चे-ज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥११॥

एतमु हैव सत्यकामो जाबा-लोऽन्तेवासिभ्य उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाःप्ररोहेयुः पलाशानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥१२॥

चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्याउपमन्थन्यौ दश ग्राम्याणि आन्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रिय-ङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान् पिष्टान्द धनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति ॥१३॥

इति षष्ठाध्याये तृतीयं ब्राह्मणम् ॥३॥

एवं वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनांपुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥१॥

स ह प्रजा-पतिरीक्षांचक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियँ समृजे ताँ सृष्ट्वाऽधौपास्त तस्मात्स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपा-रयत्तेनैनामभ्यसृजत् ॥२॥

तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणेसमिद्धो मध्यतस्तौ मुष्कौ स यावान् ह वै वाजपेयेन यजमानस्य लोकोभवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासाँ स्त्री-णाँ सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः सुकृतंवृञ्जते ॥३॥

एतद्ध स्म वै तद्विद्वानुद्दालक्र आरुणिराहैतद्द स्म वै-त्तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवोमर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इद-मविद्वाँसोऽधोपहासं चरन्तीति बहु वा इदँ सुप्तस्य वा जाग्रतो वा रेतःस्कन्दति ॥४॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सी-द्यदोषधीरप्यसरद्यदपः । इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुन-र्भगः । पुनरग्निर्धिष्णया यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेणस्तनौ वा भ्रुवौ वा निमृज्यात् ॥५॥

अथ यद्युदक आत्मानं पश्येत्तदभिम-त्रयेत मयि तेज इन्द्रियं यशो द्रविणँ सुकृतमिति श्रीर्ह वा एषा स्त्रीणांयन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥६॥

साचेदस्मै न दद्यात्काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात्काममेनां यष्ट्यावा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एवभवति ॥७॥

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति-----Page-----------------१३२--यशस्विनावेव भवतः ॥८॥

स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठायमुखेन मुखँ संधायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्संभवसि हृदयादधि-जायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥९॥

अथ यामिच्छेन्न गर्भे दधीतेति तस्यामर्थं निष्ठाय मुखेन मुस्वँ संधायाभिप्रा-ण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥१०॥

अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखँ संधायापान्याभि-प्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥११॥

अथयस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमँशरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान्ममसमिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूँस्तआददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समि-द्धेऽहौषीराशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृ-तोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणाः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेणनोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥१२॥

अथ यस्य जायामार्तवं वि-न्देत्ञ्यठहं कँसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्याञ्निठराव्रान्तआप्लुत्य व्रीहीनवघातयेत् ॥१३॥

स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदम-नुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामी-श्वरौ जनयितवै ॥१४॥

अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायेत द्वौवेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नी-यातामीश्वरौ जनयितवै ॥१५॥

अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षोजायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्त-मश्नीयातामीश्वरौ जनयितवै ॥१६॥

अथ य इच्छेद्दुहिता मे पण्डिता जायेतसर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयि-तवै ॥१७॥

अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितांवाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति माँसौदनंपाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा ॥१८॥

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्य-ग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्यप्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनांत्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥१९॥

अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वँ सा त्वमस्यमोऽहं सामाहमस्मि ॠक्त्वं-----Page-----------------१३३--द्यौरहं पृथिवी त्वं तावेहि सँरभावहै सह रेतो दधावहै पुँसे पुत्राय वित्तयैति ॥२०॥

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इतितस्यामर्थं निष्ठाय मुखेन मुखँ संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिंकल्पयतु त्वष्टा रूपाणि पिँशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्क-रस्रजौ ॥२१॥

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भं हवामहेदशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशांयथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥२२॥

सोष्यन्तीमद्भिरभ्युक्षतियथा वायुः पुष्करिणीँ समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतुजरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेणसावराँ सहेति ॥२३॥

जातेऽग्निमुपसमाधायाङ्क आधाय कँसे पृषदाज्य्सँं!नीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।अत्योपसंद्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणाँस्त्वयिमनसा जुहोमि स्वाहा । यत्कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्वि-ष्टकृद्विद्वान्स्विष्टँ सुहुतं करोतु नः स्वाहेति ॥२४॥

अथास्य दक्षिणं कर्णम-भिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतँ संनीयानन्तर्हितेन जातरूपेणप्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयिदधामीति ॥२५॥

अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नामभवति ॥२६॥

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो योमयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वतितमिह धातवे करिति ॥२७॥

अथास्य मातरमभिमन्त्रयते । इलोऽसि मैत्राव-रुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदितितं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्राप-च्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥२८॥

इति षष्ठाध्याये चतुर्थं ब्राह्मणम् ॥४॥

अथ वँशः । पौतिमाषीपुत्रं कात्यायनीपुत्रात् कात्यायनीपुत्रो गौतमीपु-त्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्र औप-स्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्याय-नीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्र-पदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥१॥

आत्रेयीपुत्रादात्रे-यीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रा


Page------------------१३४--

त्पाराशरीपुत्रो वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणी-पुत्राद्वार्कारुणीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रःशौङ्गीपुत्राच्छौङ्गीपुत्रः सांकृतीपुत्रात्सांकृतीपुत्र आलम्बायनीपुत्रादालम्बायनी-पुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रा-न्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिलोपुत्राच्छाण्डिली-पुत्रो राथीतरीपुत्राद्राथीतरीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः क्रौञ्चिकीपु-त्राठभ्यां क्रौञ्चिकीपुत्रो वैदभृतीपुत्राद्वैदभृतीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रःप्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः सांजीवीपुत्रात्सांजीवीपुत्रः प्राश्नीपुत्रा-दासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥२॥

याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेःकुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसि-ताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्क-श्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याअम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूँषिठ वाजसनेयेन याज्ञव-ल्क्येनाख्यायन्ते ॥३॥

समानमा सांजीवीपुत्रात्सांजीवीपुत्रो माण्डू-कायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वाम-कक्षायणाद्वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद्वात्स्यः कुश्रेः कुश्रिर्य-ज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयःप्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥४॥

इति षष्ठाध्याये पञ्चमं ब्राह्मणम् ॥५॥

इति षष्ठोऽध्यायः ॥६॥

॥ इति बृहदारण्यकोपनिषत्समाप्ता ॥१०॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तुमा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥