आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १४

विकिस्रोतः तः
Jump to navigation Jump to search
सोम महाव्रतम्

एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमञ्चारयित्वा व्रतमनुयुज्या-नुक्रोशिने प्रब्रूयादुत्तरमहः १ महानाम्नीरग्रे २ उदगयने पूर्वपक्षे श्रोष्यन् बहिर्ग्रामात् स्थालीपाकं तिलमिश्रं श्रपयित्वाऽऽचार्याय वेदयीत ३ विदिते व्रतसंशयान् पृष्ट्वा लघुमात्राच्चेदापत्कारिताः स्युरन्वारब्धे जुहुयादग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अविराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां मोमुहद्भागधेयं मो अस्माकं मोमुहद्भागधेयं स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा । यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । अयन्नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं शत्रून् जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ स्वाहा । असूयन्त्यै चानुमत्यै च स्वाहा । प्रदात्रे स्वाहा । व्याहृतिभिश्च पृथक् ४ हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति ५ भुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापये त्वं व्रतानां व्रतपतिरसि व्रतञ्चरिष्यामि तछकेयन्तेन शकेयन्तेन राध्यासमिति ६ समाप्य संमील्य वाचं यच्छेत् कालमभिसमीक्षमाणो यदा समयिष्यादाचायण ७ एकरात्रमध्यायोपवादनात् ८ त्रिरात्रं वा नित्याध्यायेन ९ तमेव कालम-भिसमीक्षमाण आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरः स मुखं वेष्टयित्वाऽऽहैतं कालमेवंभूतोऽस्वपन् भवेति १० तङ्कालमस्वपन्नासीत ११ अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निं प्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमि-त्युत्तरतोऽग्नेः कृत्वा वत्सतरीः प्रत्यगुदगसंश्रवणेबद्ध्वा १२ पश्चादग्नेराचार्यस्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः १३ ब्रह्मचारी लेपान् परिमृज्य प्रदक्षिणमग्निमाचार्यञ्च कृत्वोपसंगृह्य पश्चादाचार्यस्योपविशेत् तृणेष्वेव प्रत्यग्दक्षिणामभिसमीक्षमाणः १४ पृष्ठेन पृष्ठं सन्धाय ब्रूयान्मनसा महानाम्नीर्भो अनुब्रूहीति १५ पुनः पृष्ट्वाऽनुक्रोशिने संमील्यैवानुब्रूयात् सपुरीषपदास्त्रिः १६ अनूच्योन्मूच्योष्णीषमादित्यमीक्षयेत् । मित्रस्य त्वा चक्षुषा प्रतीक्षे । मित्रस्य त्वा चक्षषा समोक्षे १७ मित्रस्य वश्चक्षुषानुवीक्ष इति दिशः ससंभाराः । पुनरादित्यं मित्रस्य त्वा चक्षुषा प्रतिपश्यामि योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषो हेतुरृच्छत्विति । भूमिमुपस्पृशेदग्न इडानम इडा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि । भद्रं कर्णेभिः शृणुयाम देवाः शन्न इन्द्रा ग्नी भवतामवोभिः स्तुषे जनं सुव्रतं न व्यसीभिः कया नश्चित्र आभुवदिति तिस्रः स्योना पृथिवि भवेति । समाप्य समानं सम्भारवर्जं १८ एष द्वयोः स्वाध्यायधर्मः १९ आचार्यवदेकः २० फाल्गुनाद्याऽऽश्रवणाया अनधीतपूर्वाणामध्यायः २१ तैष्याद्यधीतपूर्वाणामधीतपूर्वाणां २२


८.१४।१ एतद्विदम् ब्रह्मचारिणम् अनिराकृतिनम् संवत्सर अवमम् चारयित्वा व्रतम् अनुयुज्य अनुक्रोशिने प्रब्रूयाद् उत्तरम् अहः । (सोम महाव्रत)
८.१४।२ महानाम्नीर् अग्रे । (सोम महाव्रत)
८.१४।३ उदग् अयने पूर्व पक्षे श्रोष्यन् बहिर् ग्रामात् स्थाली पाकम् तिल मिश्रम् श्रपयित्वा आचार्याय वेदयीत । (सोम महाव्रत)
८.१४।४ विदिते व्रत संशयान् पृष्ट्वा लघु मात्राच् चेद् आपत् करिताः स्युर् अन्वारब्धे जुहुयाद् अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अधिराज एषः । (सोम महाव्रत)
८.१४।४ तस्मै जुहोमि हविषा घृतेन मा देवानाम् मोमुहद् भागधेयम् यो अस्माकम् मोमुहद् भागधेयम् स्वाहा या तिरश्ची निपद्यते अहम् विधरणी इति । (सोम महाव्रत)
८.१४।४ ताम् त्वा घृतस्य धारया यजे संराधनीम् अहम् स्वाहा । यस्मै त्वा काम कामाय वयम् संराड् यजामहे । तम् अस्मभ्यम् कामम् दत्त्वा अथ इदम् त्वम् घृतम् पिब स्वाहा । (सोम महाव्रत)
८.१४।४ अयम् नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयम् शत्रून् जयतु जर्हृषाणो अयम् वाजम् जयतु वाज सातौ स्वाहा । असूयन्त्यै च अनुमत्यै च स्वाहा । प्रदात्रे स्वाहा । व्याहृतिभिश् च पृथक् । (सोम महाव्रत)
८.१४।५ हुत्वा आह एतम् स्थाली पाकम् सर्वम् अशान इति । (सोम महाव्रत)
८.१४।६ भुक्तवन्तम् अपाम् अञ्जलि पूर्णम् आदित्यम् उपस्थापयेत् त्वम् व्रतानाम् व्रतपतिर् असि व्रतम् चरिष्यामि तत् शकेयम् तेन शकेयम् तेन राध्यासम् इति । (सोम महाव्रत)
८.१४।७ समाप्य संलील्य वाचम् यच्छेत् कालम् अभिसमीक्षमाणो यदा समयिष्याद् आचार्येण । (सोम महाव्रत)
८.१४।८ एक रात्रम् अध्याय उपपादनात् । (सोम महाव्रत)
८.१४।९ त्रिरात्रम् वा नित्य अध्यायेन । (सोम महाव्रत)
८.१४।१० तम् एव कालम् अभिसमीक्षमाण आचार्यो अहतेन वाससा त्रिः प्रदक्षिणम् शिरः समुखम् वेष्टयित्वा आह एतम् कालम् एवम् भूतो अस्वप भव इति । (सोम महाव्रत)
८.१४।११ तम् कालम् अस्वपन्न् आसीत । (सोम महाव्रत)
८.१४।१२ अनुवक्ष्यमाणे अपराजितायाम् दिश्य् अग्निम् प्रतिष्ठाप्य असिम् उद कमण्डलुम् अश्मानम् इत्य् उत्तरतो अग्नेः कृत्वा वत्सतरीम् पर्त्यग् उदग् असंश्रवणे बद्ध्वा । (सोम महाव्रत)
८.१४।१३ पश्चाद् अग्नेर् आचार्यस् तृणेषु उपविशेद् अपराजितम दिशम् अभिसमीक्षमाणः । (सोम महाव्रत)
८.१४।१४ ब्रह्म चारी लेपान् परिमृज्य प्रदक्षिणम् अग्निम् आचार्यम् च कृत्वा उपसंगृह्य पश्चाद् आचार्यस्य उपविशेत् तृणेष्व् एव प्रत्यग् दक्षिणम् अभिसमीक्षमाणः । (सोम महाव्रत)
८.१४।१५ पृष्ठेन पृष्ठम् संधाय ब्रूयान् मनसा महानाम्नीर् मो अनुब्रूहि इति । (सोम महाव्रत)
८.१४।१६ पुनः पृष्ट्वा अनुक्रोशिने सम्मील्य एव अनुब्रूयात् सपुरीष पदास् त्रिः । (सोम महाव्रत)
८.१४।१७ अनूच्य उन्मुच्य उष्णीषम् आदित्यम् ईक्षयेन् मित्रस्य त्वा चक्षुषा प्रतीक्षे मित्रस्य त्वा चक्षुषा समीक्षे । (सोम महाव्रत)
८.१४।१८ मित्रस्य वश् चक्षुषा अनुवीक्ष इति दिशः सम्भाराः । पुनर् आदित्यम् मित्रस्य त्वा चक्षुषा प्रतिपश्यामि यो अस्मान् द्वेष्टि यम् च वयम् द्विष्मस् तम् चक्षुषोर् हेतुर् ऋच्छत्व् इति । (सोम महाव्रत)
८.१४।१९ भूमिम् उपस्पृशेद् अग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति । (सोम महाव्रत)
८.१४।१९ मा ते व्योम संदृशि । भद्रम् कर्णेभिः शृणुयाम देवाः शम् न इन्द्र अग्नी भवताम् अवोभिः स्तुषे जनम् सुव्रतम् नव्यसीभिः । कया नश् चित्र आ भुवद् इति तिस्रः स्योना पृथिवि भव इति । समाप्य समानम् सम्भार वर्जम् । (सोम महाव्रत)
८.१४।१९ एष द्वयोः स्वाध्याय धर्मः । (सोम महाव्रत)
८.१४।२० आचार्यवद् एकः । (सोम महाव्रत)
८.१४।२१ फाल्गुन आद्य् आ श्रवणाया अनधीत पूर्वाणाम् अध्यायः । (सोम महाव्रत)
८.१४।२२ तैष्य् आद्य् अधीत पूर्वाणाम् अधीत पूर्वाणाम् । (सोम महाव्रत)