आलम्बनपरीक्षा

विकिस्रोतः तः
आलम्बनपरीक्षा
आचार्यदिङ्नागः


नमः सर्वबुद्धबोधिसत्त्वेभ्यः

यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः(=अणवः) कारणं भवेत् ।
अतदाभतया तस्या नाक्षवद्विषयः स तु(अणवः) ॥ १ ॥

यदाभासा न तस्मात्सा द्रव्याभावात्द्विचन्द्रवत् ।
एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः ॥ २ ॥

साधनं सञ्चिताकारमिच्छन्ति किल केचन ।
अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ ३ ॥

भवेद्धटशरावादेस्तथा सति समा मतिः ।
आकारभेदाद्भेदश्चेत्, नास्ति तु द्रव्यसत्यणौ ॥ ४ ॥

प्रमाणभेदाभावात्सः, अद्रव्येऽस्ति ततः स हि ।
अणूनां परिहारे हि तदाभज्ञानविप्लवात् ॥ ५ ॥

यदन्तर्ज्ञेयरूपं तु वहिर्वदवभासते ।
सोऽर्थो विज्ञानरूपत्वात्तत्प्रत्ययतयापि च ॥ ६ ॥

एकांशः प्रत्ययोऽवीतात्शक्त्यर्पणात्क्रमेण[वा] ।
सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम् ॥ ७ ॥

सा चाविरुद्धा विज्ञप्तेरेवं विषयरूपकम् ।
प्रवर्ततेऽनादिकालं शक्तिश्चान्योन्यहेतुके ॥ ८ ॥


इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षाप्रकरणकारिका समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=आलम्बनपरीक्षा&oldid=339349" इत्यस्माद् प्रतिप्राप्तम्