आम्नायस्तोत्रम्

विकिस्रोतः तः
आम्नायस्तोत्रम्
अज्ञातः
१९५३

॥ आम्नायस्तोत्रम् ॥

चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः ।
चतुरोथ मठान् कृत्वा शिष्यान्संस्थापयद्विभुः ॥ १
चकार संज्ञामाचार्यश्चतुरां नामभेदतः ।
क्षेत्रं च देवतां चैव शक्तिं तीर्थं पृथक्पृथक् ॥ २
सम्प्रदायं तथाम्नायभेदं च ब्रह्मचारिणाम् ।
एवं प्रकल्पयामास लोकोपकरणाय वै ॥ ३
दिग्भागे पश्चिमे क्षेत्रं द्वारकाशारदामठः ।
कीटवाळस्सम्प्रदाय स्तीर्थाश्रमपदे उभे ॥ ४
देवस्सिद्धेश्वरश्शक्ति र्भद्रकाळीति विश्रुता ।
स्वरूपब्रह्मचार्याख्य आचार्यः पद्मपादकः ॥ ५
विख्यातं गोमतीतीर्थं सामवेदश्च तद्गतम् ।
जीवात्मपरमात्मैक्यबोधो यत्र भविष्यति ॥ ६
विख्यातं तन्महावाक्यं वाक्यं तत्त्वमसीतिच ।
द्वितीयः पूर्वदिग्भागे गोवर्धनमठः स्मृतः ॥ ७

आम्नायस्तोत्रम् ४८७

भोगवालस्सम्प्रदाय स्सत्रारण्यवने पदे । तस्मिन् देवो जगन्नाथः पुरुषोत्तमसंज्ञितः ॥ ८ क्षेत्रं च वृषला देवी सर्वलोकेषु विश्रुता । प्रकाश ब्रह्मचारीति हस्तामलकसंज्ञितः ॥ ९ आचार्यः कथितस्तत्र नाम्ना लोकेषु विश्रुतः । खातं महोदधिस्तीर्थं ऋग्वेदस्समुदाहृतः ॥ १० महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्मचोच्यते । उत्तरस्यां श्रीमठस्स्यात् क्षेत्रं बदरिकाश्रमम् ॥ ११ देवो नारायणो नामशक्तिः पूर्णगिरीतिच । सम्प्रदायोनन्दवाळस्तीर्थं चाळकनन्दिका ॥ १२ आनन्दब्रह्मचारीति गिरिपर्वतसागराः । नामानि तोटकाचार्यो वेदोधर्वणसंज्ञिकः ॥ १३ महावाक्यं च तत्रायमात्मा ब्रह्मेति कीर्त्यते । तुरीयो दक्षिणस्यां च शृङ्गेर्यां शारदामठः ॥ १४ मलहानिकरं लिङ्गं विभाण्डकसुपूजितम् ।

यत्रास्ते ऋष्यशृङ्गस्य महर्षेराश्रमो महान् ॥ १५

४८८ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:

वराहो देवता तत्र रामक्षेत्रमुदाहृतम् ।
तीर्थं च तुङ्गभद्राख्यं शक्तिः श्रीशारदेति च ॥ १६
आचार्यस्तत्र चैतन्य ब्रह्मचारीति विश्रुतः ।
वार्तिकादि ब्रह्मविद्या कर्ता यो मुनिपूजितः ॥ १७
सुरेश्वराचार्य इति साक्षाद्ब्रह्मावतारकः ।
सरस्वती पुरी चेति भारत्यारण्यतीर्थकौ ॥ १८
गिर्याश्रममुखानि स्युस्सर्वनामानि सर्वदा ।
सम्प्रदायो भूरिवाळो यजुर्वेद उदाहृतः ॥ १९
अहं ब्रह्मास्मीति तत्र महावाक्यमुदीरितम् ।
चतुर्णां देवताशक्ति क्षेत्रनामान्यनुक्रमात् ॥ २०
महावाक्यानि वेदांश्च सर्वमुक्तं व्यवस्थया ।
इति श्रीमत्परमहंसपरिव्राजकभूपतेः ॥ २१
आम्नायस्तोत्रपठनादिहामुत्र च सद्गतिम् ।
प्राप्यान्ते मोक्षमाप्नोति देहान्ते नात्र संशयः ॥ २२

इत्याम्नायस्तोत्रम् ॥

"https://sa.wikisource.org/w/index.php?title=आम्नायस्तोत्रम्&oldid=320219" इत्यस्माद् प्रतिप्राप्तम्