आपस्तम्ब-धर्मसूत्रम्

विकिस्रोतः तः
Jump to navigation Jump to search

आपास्तम्बधर्मसूत्रम्

आपास्तम्बधर्मसूत्रम् अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः १ धर्मज्ञसमयः प्रमाणम् २ वेदाश्च ३ चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः ४ तेषां पूर्वस्पूर्वो जन्मतः श्रेयान् ५ अशूद्रा णामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि ६ शुश्रूषा शूद्र स्येतरेषां वर्णानाम् ७ पूर्वस्मिन्पूर्वस्मिन्वर्णे निःश्रेयसम्भूयः ८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः १४ तस्मै न द्रुह्येत्कदा चन १५ स हि विद्यातस्तं जनयति १६ तच्छ्रेष्ठं जन्म १७ शरीरमेव मातापितरौ जनयतः १८ वसन्ते ब्राह्मणमुपनयीत रीष्मे राजन्यं शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् १९ अथ काम्यानि २० सप्तमे ब्रह्मवर्चसकामम् २१ अष्टम आयुष्कामम् २२ नवमे तेजस्कामम् २३ दशमेऽन्नाद्यकामम् २४ एकादश इन्द्रि यकामम् २५ द्वादशे पशुकामम् २६ आ षोडशाद्ब्राह्मणस्यानात्यय आ द्वाविंशात्क्षत्रियस्या चतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः २७ अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् २८ अथोपनयनम् २९ ततः संवत्सरमुदकोपस्पर्शनम् ३० अथाध्याप्यः ३१ अथ यस्य पिता पितामह इति अनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ३२ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ३३ तेषामिच्छतां प्रायश्चित्तम् ३४ यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः ३५ अथोपनयनं तत उदकोपस्पर्शनम् ३६ १

प्रतिपूरुसं संख्याय संवत्सरान्यावन्तोऽनुपेताः स्युः १ सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इति एताभिर्यजुस्पवित्रेण सामपवित्रेणाङ्गिरसेणेति २ अपि वा व्याहृतीभिरेव ३ अथाध्याप्यः ४ अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तुताः ५ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६ अथ गृहमेधोपदेशनम् ७ नाध्यापनम् ८ ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९ तत ऊर्ध्वं प्रकृतिवत् १० उपेतस्याचार्यकुले ब्रह्मचारिवासः ११ अष्टाचत्वारिंशद्वर्षाणि १२ पादूनम् १३ अर्धेन १४ त्रिभिर्वा १५ द्वादशावरार्ध्यम् १६ न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति १७ १८ आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः १९ हितकारी गुरोरप्रतिलोमयन्वाचा २० अधासनशायी २१ नानुदेश्यं भुञ्जीत २२ तथा क्षारलवणमधुमांसानि २३ अदिवास्वापी २४ अगन्धसेवी २५ मैथुनं न चरेत् २६ उत्सन्नश्लाघः २७ अङ्गानि न प्रक्षालयीत २८ प्रक्षालयीत त्वशुचिलिप्तानि गुरोरसंदर्शे २९ नाप्सु श्लाघमानः स्नायाद्यदि स्नायाद्दण्डवत् ३० जटिलः ३१ शिखाजटो वा वापयेदितरान् ३२ मौञ्जी मेखला त्रिवृद्ब्राह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ३३ ज्या राजन्यस्य ३४ मौञ्जी वायोमिश्रा ३५ आवीसूत्रं वैश्यस्य ३६ सैरी तामली वेत्येके ३७ पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति ३८ वासः ३९ शाणीक्षौमाजिनानि ४० कषायं चैके वस्त्रमुपदिशन्ति ४१ २

माञ्जिष्ठं राजन्यस्य १ हारिद्रं वैश्यस्य २ हारिणमैणेयं वा कृष्णं ब्राह्मणस्य ३ कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ४ रौरवं राजन्यस्य ५ बस्ताजिनं वैश्यस्य ६ आविकं सार्ववर्णिकम् ७ कम्बलश्च ८ ब्रह्मवृद्धिमिच्छन्नजिनान्येव वसीत क्षत्रवृद्धिमिच्छन्वस्त्राण्येवोभयवृद्धिमिच्छन्नुभयमिति हि ब्राह्मणम् ९ अजिनं त्वेवोत्तरं धारयेत् १० अनृत्तदर्शी ११ सभाः समाजांश्चागन्ता १२ अजनवादशीलः १३ रहश्शीलः १४ गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि १५ स्त्रीभिर्यावदर्थसंभाषी १६ मृदुः १७ शान्तः १८ दान्तः १९ ह्रीमान् २० दृढधृतिः २१ अग्लांस्नुः २२ अक्रोधनः २३ अनसूयुः २४ सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५ स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१ तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२ नानुमानेन भैक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु २७ भवत्पूर्वया ब्राह्मणो भिक्षेत २८ भवद्मध्यया राजन्यः २९ भवदन्त्यया वैश्यः ३० तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१ तेन प्रदिष्टं भुञ्जीत ३२ विप्रवासे गुरोराचार्यकुलाय ३३ तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४ नात्मप्रयोजनश्चरेत् ३५ भुक्त्वा स्वयममत्रं प्रक्षालयीत ३६ न चोच्छिष्टं कुर्यात् ३७ अशक्तौ भूमौ निखनेत् ३८ अप्सु वा प्रवेशयेत् ३९ आर्याय वा पर्यवदध्यात् ४० अन्तर्धिने वा शूद्रा य ४१ प्रोषितो भैक्षादग्नौ कृत्वाभुञ्जीत ४२ भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३ आहवनीयार्थे च ४४ तं भोजयित्वा यदुच्छिष्टम् ४५ ३

यदुच्छिष्टं प्राश्ति १ हविरुच्छिष्टमेव तत् २ यदन्यानि द्र व्याणि यथालाभमुपहरति दक्षिणा एव ताः ३ स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ४ न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ५ यथा क्षारलवणमधुमांसानीति ६ एतेनान्ये नियमा व्याख्याताः ७ श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८ दृश्यते चापि प्रवृत्तिकारणम् ९ प्रीतिर्ह्युपलभ्यते १० पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ११ धर्मविप्रतिपत्तावभोज्यम् १२ सायं प्रातरुदकुम्भमाहरेत् १३ सदारण्यादेधानाहृत्याधो निदध्यात् १४ नास्तमिते समिद्धारो गच्छेत् १५ अग्निमिद्ध्वा परिसमूह्य समिध आदध्यात्सायं प्रातर्यथोपदेशम् १६ सायमेवाग्निपूजेत्येके १७ समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या १८ प्राक् तु याथाकामी १९ नाग्न्युदकशेषेण वृथाकर्माणि कुर्वीताचामेद्वा २० पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च नाचामेत् २१ स्वप्नं च वर्जयेत् २२ अथाहरहराचार्यं गोपायेद्धर्मार्थयुक्तैः कर्मभिः २३ स गुप्त्वा संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति २४ प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि बोधयेत् २५ अनिवृत्तौ स्वयं कर्माण्यारभेत २६ निवर्तयेद्वा २७ अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति २८ स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्य सर्वाणि कर्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे २९ ४

इति प्रथमः पटलः

नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ऽब्रह्माप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्यायत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहं भो इति १२ समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३ प्रोष्य च समागमे १४ स्वर्गमायुश्चेप्सन् १५ दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् १६ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् १७ उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८ सदैवाभिवादनम् १९ उपसंग्राह्य आचार्य इत्येके २० दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१ उभाभ्यामेवोभावभिपीडयत उपसंग्राह्याव् इत्येके २२ सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३ तथा गुरुकर्मसु २४ मनसा चानध्याये २५ आहूताध्यायी च स्यात् २६ ५

सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य १ अनुज्ञातः संविशेत् २ न चैनमभिप्रसारयीत ३ न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ४ न चास्य सकाशे संविष्टो भाषेत् ५ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ६ अनूत्थाय तिष्ठन्तम् ७ गच्छन्तमनुगच्छेत् ८ धावन्तमनुधावेत् ९ न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् १० अध्वापन्नस्तु कर्मयुक्तोवासीदेत् ११ न चेदुपसीदेत् १२ देवमिवाचार्यमुपासीताविकथयन्न् अविमना वाचं शुश्रूषमाणोऽस्य १३ अनुपस्थकृतः १४ अनुवाति वीतः १५ अप्रतिष्टब्धः पाणिना १६ अनपश्रितोऽन्यत्र १७ यज्ञोपवीती द्विवस्त्रः १८ अधोनिवीतस्त्वेकवस्त्रः १९ अभिमुखोऽनभिमुखम् २० अनासन्नोऽनतिदूरे २१ यावदासीनो बाहुभ्याम्प्राप्नुयात् २२ अप्रतिवातम् २३ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् २४ यथावकाशं बहवः २५ तिष्ठति च नासीतानासनयोगविहिते २६ आसीने च न संविशेत् २७ चेष्टति च चिकीर्षन्तच्छक्तिविषये २८ न चास्य सकाशेऽन्वक्स्थानिनमुपसंगृह्णीयात् २९ गोत्रेण वा कीर्तयेत् ३० न चैनं प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ३१ अपि चेत्तस्य गुरुः स्यात् ३२ देशात्त्वासनाच्च संसर्पेत् ३३ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ३४ यस्मिंस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ऽप्याचार्यस्य ३५ भुक्त्वाचास्य सकाशे नानूत्थायोच्छिष्टं प्रयच्छेत् ३६ आचामेद्वा ३७ किं करवाणीत्यामन्त्र्य ३८ ६

उत्तिष्ठेत्तूष्णीं वा १ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् २ न प्रेक्षेत नग्नां स्त्रियम् ३ ओषधिवनस्पतीनामाच्छिद्य नोपजिघ्रेत् ४ उपानहौ छत्रं यानमिति च वर्जयेत् ५ न स्मयेत ६ यदि स्मयेतापिगृह्य स्मयेतेति हि ब्राह्मणम् ७ नोपजिघ्रेत् स्त्रियं मुखेन ८ न हृदयेन प्रार्थयेत् ९ नाकारणादुपस्पृशेत् १० रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ११ यां विद्यां कुरुते गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः १२ यानन्यान्पश्यतोऽस्योपसंगृह्णीयात् तदा त्वेत उपसंग्राह्याः १३ गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा १४ समावृत्तो मात्रे दद्यात् १५ माता भर्तारं गमयेत् १६ भर्ता गुरुम् १७ धर्मकृत्येषु वोपयोजयेत् १८ कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति १९ विषमगते त्वाचार्य उग्रतः शूद्र तो वाहरेत् २० सर्वदा शूद्र त उग्रतो वाचार्यार्थस्याहरणं धार्म्यमित्येके २१ दत्वा च नानुकथयेत् २२ कृत्वा च नानुस्मरेत् २३ आत्मप्रशंसां परगर्हामिति च वर्जयेत् २४ प्रेषितस्तदेव प्रतिपद्येत २५ शास्तुश्चानागमाद्वृत्तिरन्यत्र २६ अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७ तथा समादिष्टेऽध्यापयति २८ वृद्धतरे च सब्रह्मचारिणि २९ उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३० समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१ ७

यथा ब्रह्मचारिणो वृत्तम् १ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २ उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३ स्वैरिकर्मसु च ४ यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५ तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६ स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७ उच्चैस्तरां नासीत ८ तथा बहुपादे ९ सर्वतः प्रतिष्ठिते १० शय्यासने चाचरिते नाविशेत् ११ यानमुक्तोऽध्वन्यन्वारोहेत् १२ सभानिकषकटस्वस्तरांश्च १३ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४ व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५ आपद्यर्थं ज्ञापयेत् १६ सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७ विप्रोष्य च तदहरेव पश्येत् १८ आचार्यप्राचार्यसंनिपाते प्राचार्यायओपसंगृह्योपसंजिघृक्षेदाचार्यम् १९ प्रतिषेधेदितरः २० लुप्यते पूजा चास्य सकाशे २१ मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२ मातरं पितरमाचर्यमग्नींश्च गृहाणि च रिक्तपाणिर्नोपगछ्हेद्रा जानं चेन्न श्रुतमिति २३ तस्मिन्गुरोर्वृत्तिः २३ पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६ आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७ अपराधेषु चैनं सततमुपालभेत २८ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९ निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३० ८

इति द्वितीयः पटलः

श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत १ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २ अर्धपञ्चमांश्चतुरो मासानित्येके ३ निगमेष्वध्ययनं वर्जयेत् ४ आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५ श्मशाने सर्वतः शम्याप्रासात् ६ ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७ ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८ श्मशानवच्छूद्र पतितौ ९ समानागार इत्येके १० शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११ तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२ ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३ अन्तःशवम् १४ अन्तश्चाण्डालम् १५ अभिनिर्हृतानां तु सीम्न्यनध्यायः १६ संदर्शने चारण्ये १७ तदहरागतेषु च ग्रामं बाह्येषु १८ अपि सत्सु १९ संधावनुस्तनिते रात्रिम् २० स्वप्नपर्यान्तं विद्युति २१ उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः २२ दह्रेऽपररात्रे स्तनयित्नुना २३ ऊर्ध्वमर्धरात्रादित्येके २४ गवां चावरोधे २५ वध्यानां च यावता हन्यन्ते २६ पृष्ठारूढः पशूनां नाधीयीत २७ अहोरात्रावमावास्यासु २८ ९

चातुर्मासीषु च १ वैरमणो गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः २ तथा संबन्धेषु ज्ञातिषु ३ मातरि पितर्याचार्य इति द्वादशाहाः ४ तेषु चोदकोपस्पर्शनं तावन्तं कालम् ५ अनुभाविनां च परिवापनम् ६ न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ७ अथापि ब्राह्मणं रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपिधानं यच्छिखेति ८ सत्रेषु तु वचनाद्वपनं शिखायाः ९ आचार्ये त्रीनहोरात्रानित्येके १० श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ११ सब्रह्मचारिणीत्येके १२ श्रोत्रियाभ्यागमेऽधिजिगांसमानो ऽधीयानो वानुज्ञाप्याधीयीत १३ अध्यापयेद्वा १४ गुरुसंनिधौ चाधीहि भो इत्युक्त्वाधीयीत १५ अध्यापयेद्वा १६ उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च १७ अधीयानेषु वा यत्रान्यो व्यवेयादेतमेव शब्दमुत्सृज्याधीयीत १८ श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे वादित्रशब्दा रोदनगीतसामशब्दाश्च १९ शाखान्तरे च साम्नामनध्यायः २० सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् २१ छर्दयित्वा स्वप्नान्तम् २२ सर्पिर्वा प्राश्य २३ पूतीगन्धः २४ शुक्तं चात्मसंयुक्तम् २५ प्रदोषे च भुक्त्वा २६ प्रोदकयोश्च पाण्योः २७ प्रेतसंकप्तंचान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८ आ च विपाकात् २९ अश्राद्धेन तु पर्यवदध्यात् ३० १०

काण्डोपाकरणे चामातृकस्य १ काण्डसमापने चापितृकस्य २ मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३ पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ४ तथौषधिवनस्पतिमूलफलैः ५ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६ उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ७ वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८ ग्रामारण्ययोश्च सन्धौ ९ महापथे च १० विप्रोष्य च समध्ययनं तदहः ११ स्वैरिकर्मसु च १२ यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३ तावन्तं कालं नाधीयीताध्यापयेद्वा १४ सन्ध्योः १५ तथा वृक्षमारूढः १६ अप्सु चावगाढः १७ नक्तं चापावृते । तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते १८ दिवा चापिहिते १९ अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः २० नित्यप्रश्नस्य चाविधिना २१ तस्य विधिः २२ अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायमुत्सृजन्वाचा २३ मनसा चानध्याये २४ विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५ श्राद्धभोजन एवैके २६ विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्तस्त्र्यमनध्यायः २७ यावद्भूमिर्व्युदकेत्येके २८ एकेन द्वाभ्यां वैतेषामाकालम् २९ सूर्याचन्द्र मसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३० अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१ मुहूर्तं विरते वाते ३२ सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ३३ नक्तं चारण्येऽनग्नावहिरण्ये वा ३४ अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५ प्रदोषे च ३६ सार्वकालिकमाम्नातम् ३७ यथोक्तमन्यदतः परिषत्सु ३८ ११

इति तृतीयः पटलः

तपः स्वाध्याय इति ब्राह्मणम् १ तत्र श्रूयते । स यदि तिष्ठन्न् आसीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति २ अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात्स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ३ तस्य शाखान्तरे वाक्यसमाप्तिः ४ अथ यदि वातो वा वायात्स्तनयेद्वा विद्योतेत वावस्फूर्जेद्वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो हैवास्यैतदहः स्वाध्याय उपात्तो भवति ५ एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ६ अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ७ आर्यसमयो ह्यगृह्यमानकारणः ८ विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ९ ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते १० यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११ तदनुवर्तमानो नरकाय राध्यति १२ अथ ब्राह्मणोक्ता विधयः १३ तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४ अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५ १२

देवेभ्यः स्वाहाकार आ काष्ठात्पितृभ्यः स्वधाकार ओदपात्रात्स्वाध्याय इति १ पूजा वर्णज्यायसां कार्या २ वृद्धतराणां च ३ हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४ न समावृत्ते समादेशो विद्यते ५ ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६ विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७ यज्ञेषु चैतदादयः प्रसवाः ८ लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ९ नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति परिहाप्य १० अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ११ न बहिर्वेदे गतिर्विद्यते १२ समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३ नित्यमर्हन्तमित्येके १४ न गतिर्विद्यते १५ वृद्धानां तु १६ ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७ ब्रह्म वर्धत इत्युपदिशन्ति १८ निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९ एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २० तच्छास्त्रैर्विप्रतिषिद्धम् २१ निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते २२ १३

अग्निहोत्रमतिथयः १ यच्चान्यदेवं युक्तम् २ अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ३ न चास्मिन्दोषं पश्येत् ४ यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ५ मातरि पितर्याचार्यवच्छुश्रूषा ६ समावृत्तेन सर्वे गुरव उपसंग्राह्याः ७ प्रोष्य च समागमे ८ भ्रातृषु भगिनीषु च यथापूर्वमुपसंग्रहणम् ९ नित्या च पूजा यथोपदेशम् १० ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ११ तूष्णीं वोपसंगृह्णीयात् १२ दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभिवादनमर्हति १३ ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् १४ विषमगतायागुरवे नाभिवाद्यम् १५ अन्वारुह्य वाभिवादयीत १६ सर्वत्र तु प्रत्युत्थायाभिवादनम् १७ अप्रयतेन नाभिवाद्यम् १८ तथाप्रयताय १९ अप्रयतश्च न प्रत्यभिवदेत् २० पतिवयसः स्त्रियः २१ न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत २२ सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना २३ मातरमाचार्यदारं चेत्येके २४ दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता २५ कुशलमवरवयसं वयस्यं वा पृच्छेत् २६ अनामयं क्षत्रियम् २७ अनष्टं वैश्यम् २८ आरोग्यं शूद्र म् २९ नासंभाष्य श्रोत्रियं व्यतिव्रजेत् ३० अरण्ये च स्त्रियम् ३१ १४

इति चतुर्थः पटलः

उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् १ भूमिगतास्वप्स्वाचम्य प्रयतो भवति २ यं वा प्रयत आचामयेत् ३ न वर्षधारास्वाचामेत् ४ तथा प्रदरोदके ५ तप्ताभिश्चाकारणात् ६ रिक्तपाणिर्वयस उद्यम्याप उपस्पृशेत् ७ शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ८ नग्नो वा ९ नाप्सु सतः प्रयमणम्विद्यते १० उत्तीर्य त्वाचामेत् ११ नाप्रोक्षितमिन्धनमग्नावादध्यात् १२ मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो मन्येत १३ तथा तृणकाष्ठेषु निखातेषु १४ प्रोक्ष्य वास उपयोजयेत् १५ शूनोपहतः सचेलोऽवगाहेत १६ प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति १७ अग्निं नाप्रयत आसीदेत् १८ इषुमात्रादित्येके १९ न चैनमुपधमेत् २० खट्वायां च नोपदध्यात् २१ प्रभूतैधोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धार्म्यो ब्राह्मणस्य २२ मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान्रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाचम्य प्रयतो भवति २३ १५

तिष्ठन्न् आचामेत्प्रह्वो वा १ आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः २ त्रिरोष्ठौ परिमृजेत् ३ द्विरित्येके ४ सकृदुपस्पृशेत् ५ द्विरित्येके ६ दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि याण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च ७ अथाप उपस्पृशेत् ८ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत् ९ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत् १० न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भिर्यावन्न हस्तेनोपस्पृशति ११ य आस्याद्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२ ये भूमौ न तेष्वाचामेदित्येके १३ स्वप्ने क्षवथौ शृङ्खाणिकाश्र्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत् १४ आर्द्रं वा शकृदोषधीर्भूमिं वा १५ हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६ दद्भिरपूपस्य नापच्छिन्द्यात् १७ यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८ तथानुत्थितायां सूतिकायाम् १९ अन्तःशवे च २० अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् २१ अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् २२ यस्मिंश्चान्ने केशः स्यात् २३ अन्यद्वामेध्यम् २४ अमेध्यैरवमृष्टम् २५ कीटो वामेध्यसेवी २६ मूषकलाङ्गं वा २७ पदा वोपहतम् २८ सिचा वा २९ शुना वापपात्रेण वा दृष्टम् ३० सिचा वोपहृतम् ३१ दास्या वा नक्तमाहृतम् ३२ भुञ्जानं वा ३३ १६

यत्र शूद्र उपस्पृशेत् १ अनर्हद्भिर्वा समानपङ्क्तौ २ भुञ्जानेषु व यत्रानूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ३ कुत्सयित्वा वा यत्रान्नं दद्युः ४ मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ५ न नावि भुञ्जीत ६ तथा प्रासादे ७ कृतभूमौ तु भुञ्जीत ८ अनाप्रीते मृण्मये भोक्तव्यम् ९ आप्रीतं चेदभिदग्धे १० परिमृष्टं लौहं प्रयतम् ११ निर्लिखितं दारुमयम् १२ यथागमं यज्ञे १३ नापणीयमन्नमश्नीयात् १४ तथा रसानाममांसमधुलवणानीति परिहाप्य १५ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय १६ कृतान्नं पर्युषितमखाद्यापेयानाद्यम् १७ फाणित-पृथुक-तण्डुल-करम्ब-भरुजसक्तु-शाक-मांस-पिष्ट-क्षीरविकारौषधि-वनस्पति-मूल-फल-वर्जम् १९ शुक्तं चापरयोगम् २० सर्वं मद्यमपेयम् २१ तथैलकं पयः २२ उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति २३ धेनोश्चानिर्दशायाः २४ तथा कीलालौषधीनां च २५ करञ्जपलण्डुपरारीकाः २६ यच्चान्यत्परिचक्षते २७ क्याक्वभोज्यमिति हि ब्राह्मणम् २८ एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् २९ धेनुअनडुहोर्भक्ष्यम् ३० मेध्यमानडुहमिति वाजसनेयकम् ३१ कुक्कुटो विकिराणाम् ३२ प्लवः प्रतुदाम् ३३ क्रव्यादः ३४ हंसभासचक्रवाकसुपर्णाश्च ३५ क्रुञ्चक्रौञ्चवार्ध्राणसलक्षंनवर्जम् ३६ पञ्चनखानां गोधाकच्छपश्वाविट्शल्यकखण्गशशपूतिखषवर्जम् ३७ अभक्ष्यश्चेटो मत्स्यानाम् ३८ सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये विकृता यथा मनुष्यशिरसः ३९ १७

इति पञ्चमः पटलः

मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यूतिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि १ एतान्यपि नानन्तेवास्याहृतानीति हारीतः २ आमं वा गृह्णीरन् ३ कृतान्नस्य वा विरसस्य ४ न सुभिक्षाः स्युः ५ स्वयमप्यवृत्तौ सुवर्णं दत्त्वा पशुं वा भुञ्जीत ६ नात्यन्तमन्ववस्येत् ७ वृत्तिं प्राप्य विरमेत् ८ त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समावृत्तेन न भोक्तव्यम् ९ प्रकृत्या ब्राह्मणस्य भोक्तव्यं कारणादभोज्यम् १० यत्राप्रायश्चित्तं कर्मासेवते प्रायश्चित्तवति ११ चरितनिर्वेषस्य भोक्तव्यम् १२ सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्र वर्जमित्येके १३ तस्यापि धर्मोपनतस्य १४ सुवर्णं दत्वा पशुं वा भुञ्जीत नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् १५ सङ्घान्नमभोज्यम् १६ परिक्रुष्टं च १७ सर्वेषां च शिल्पाजीवानाम् १८ ये च शस्त्रमाजीवन्ति १९ ये चाधिम् २० भिषक् २१ वार्धुषिकः २२ दीक्षितोऽक्रीतराजकः २३ अग्नीषोमीयसंस्थायामेव २४ हुतायां वा वपायां दीक्षितस्य भोक्तव्यम् २५ यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्न् इति हि ब्राह्मणम् २६ क्लीबः २७ राज्ञां प्रैषकरः २८ अहविर्याजी २९ चारी ३० अविधिना च प्रव्रजितः ३१ यश्चाग्नीनपास्यति ३२ यश्च सर्वान्वर्जयते सर्वान्नी च श्रोत्रियो निराकृतिर्वृषलीपतिः ३३ १८

मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युपवेशयते तावन्तं कालम् १ क अश्यान्नः २ य ईप्सेदिति कण्वः ३ पुण्य इति कौत्सः ४ यः कश्चिद्दद्यादिति वार्ष्यायणिः ५ यदि ह रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन निर्दोषो भवति ६ शुद्धा भिक्षा भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ७ सर्वतोपेतं वार्ष्यायणीयम् ८ पुण्यस्येप्सतो भोक्तव्यम् ९ पुण्यस्याप्यनीप्सतो न भोक्तव्यम् १० यतः कुतश्चाभ्युद्यतं भोक्तव्यम् ११ नाननियोगपूर्वमिति हारीतः १२ अथ पुराणे श्लोकावुदाहरन्ति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः । न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यत इति १३ चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः । कुलटायाः षण्ढकस्य च तेषामन्नमनाद्यम् १४ अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकर इति १५ १९

इति षष्ठः पटलः

नेमं लौकिकमर्थं पुरस्कृत्य धर्मांश्चरेत् १ निष्फला ह्यभ्युदये भवन्ति २ तद्यथाम्रे फलार्थे निर्मिते छाया गन्ध इत्यनूत्पद्येते । एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ३ नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ४ अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ५ न धर्माधर्मौ चरत आवं स्व इति । न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म इति ६ यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मो यद्गर्हन्ते सोऽधर्मः ७ सर्वजनपदेष्वेकान्तसमाहितमार्याणाम्वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत ८ एवमुभौ लोकावभिजयति ९ अविहिता ब्राह्मणस्य वणिज्या १० आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ११ मनुष्यान्रसान्रागान्गन्धानन्नं चर्म गवां वशां श्लेष्मोदके तोक्मकिण्वे पिप्पलिमरीचे धान्यं मांसमायुधं सुकृताशां च १२ तिलतण्डुलांस्त्वेव धान्यस्य विशेषेण न विक्रीणीयात् १३ अविहितश्चैतेषां मिथो विनिमयः १४ अन्नेन चान्नस्य मनुष्याणां च मनुस्यै रसानां च रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् १५ अक्रीतपण्यैर्व्यवहरेत १६ २०

मुञ्जबल्बजैर्मूलफलैः १ तृणकाष्ठैरविकृतैः २ नात्यन्तमन्ववस्येत् ३ वृत्तिं प्राप्य विरमेत् ४ न पतितैः संव्यवहारो विद्यते ५ तथापपात्रैः ६ अथ पतनीयानि ७ स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनम्मातुः पितुरिति योनिसंबन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ८ गुर्वीसखिं गुरुसखिं च गत्वान्यांश्च परतल्पान् ९ नागुरुतल्पे पततीत्येके १० अधर्माणां तु सततमाचारः ११ अथाशुचिकराणि १२ शूद्र गमनमार्यस्त्रीणाम् १३ प्रतिषिद्धानां मांसभक्षणम् १४ शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादसाम् १५ मनुष्याणां मूत्रपुरीषप्राशनम् १६ शूद्रो च्छिष्टमपपात्रागमनं चार्याणाम् १७ एतान्यपि पतनीयानीत्येके १८ अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति १९ दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्वर्जयेत्त्वेनं धर्मेषु २० २१

इति सप्तमः पटलः

अध्यात्मिकान्योगाननुतिष्ठेन्न्यायसंहिताननैश्चारिकान् १ आत्म-लाभान्न परं विद्यते २ तत्रात्मलाभीयाञ्श्लोकानुदाहरिष्यामः ३ पूः प्राणिनः सर्व एव गुहाशयस्य । अहन्यमानस्य विकल्मषस्य । अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ४ यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ५ आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व नाहितम् । अथान्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ६ सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गो ऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्शुचिः । स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ७ तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ८ २२

आत्मन्पश्यन्सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १ निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २ दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४ क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ५ अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रो हः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६ २३

इति अष्टमः पटलः

क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् १ शतं वैश्ये २ दश शूद्रे ३ ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ४ स्त्रीषु चैतेषामेवम् ५ पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः ६ ब्राह्मणमात्रं च ७ गर्भं च तस्याविज्ञातम् ८ आत्रेयीं च स्त्रियम् ९ तस्य निर्वेषः १० अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ११ तस्य पन्था अन्तरा वर्त्मनी १२ दृष्ट्वा चान्यमुत्क्रामेत् १३ खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत १४ कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् १५ सा वृत्तिः १६ अलब्धोपवासः १७ गाश्च रक्षेत् १८ तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः १९ द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः २० आजिपथे वा कुटिम्कृत्वा ब्राह्मणगव्योपजिगीषंआणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः २१ आश्वमेधिकं वावभृथमवेत्य मुच्यते २२ धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव २३ गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् २४ नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते २५ २४

गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिशमनावृत्तिं व्रजेत् १ ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात् २ सुरापोऽग्निस्पर्शा सुरां पिबेत् ३ स्तेनः प्रकीर्णकेशोऽए मुसलमादाय राजानं गत्वा कर्माचक्षीत । तेनैनं हन्याद्वधे मोक्षः ४ अनुज्ञातेऽनुज्ञातारमेनः ५ अग्निं वा प्रविशेत्तीक्ष्णं वा तप आयच्छेत् ६ भक्तापचयेन वात्मानं समाप्नुयात् ७ कृच्छ्रसंवत्सरं वा चरेत् ८ अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामकृत्वा चतुर्थकाला मितभोजनाः स्युरपोऽभ्यवेयुः सवनानुकल्पम् ९ स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुन्दते १० प्रथमं वर्णं परिहाप्य प्रथमं वर्णं हत्वा संग्रामं गत्वावतिष्ठेत । तत्रैनं हन्युः ११ अपि वा लोमानि त्वचं मांसमिति हावयित्वाग्निं प्रविशेत् १२ वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् १३ २५ धेन्वनडुहोश्चाकारणात् १ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २ अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३ शूद्र स्य सप्तरात्रमभोजनम् ४ स्त्रीणां चैवम् ५ येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राणहिंसायाम् ६ अनार्यवपैशुनप्रतिषिद्धाअचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रा यां च रेतः सिक्त्वायोनौ च दोषवच्च कर्माभिसंधिपूर्वं कृत्वानभिसंधिपूर्वं वाब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वान्यैर्वा पवित्रैर्यथा कर्माभ्यासः ७ गर्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८ तस्य शूद्रः प्राश्नीयात् ९ मिथ्याअधीतप्रायश्चित्तम् १० संवत्सरमाचार्यहिते वर्तमानो वाचं यच्छेत्स्वाध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे भिक्षाचर्ये च ११ एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि वक्ष्यामः १२ काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति जपेद्वा १३ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेदप्राणायामशो वा १४ २६

श्रावण्यां पौर्णमास्यां तिलभक्स उपोष्य वा श्वोभूते महानदमुदकमुपस्पृश्य सावित्र्या समित्सहस्रमादध्याज् जपेद्वा १ इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् २ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ३ तत्सप्तरात्रेणावाप्यते ४ हेमन्तशिशिरयोर्वोभयोः संध्योरुदकमुपस्पृशेत् ५ कृच्छ्रद्वादशरात्रं वा चरेत् ६ त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहं त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किंचनेति कृच्छ्रद्वादशरात्रस्य विधिः ७ एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसंवत्सरः ८ अथापरम् । बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नत्पारायणैः कृतप्रायश्चित्तो भवति ९ अनार्यां शयने बिभ्रेद्ददद्वृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतप् १० यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः । चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापम् ११ २७

इति नवमः पटलः

यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भवतीति कौत्सहारीतौ तथा कण्वपुष्करसादी १ सन्त्यपवादाः परिग्रहेष्विति वार्ष्यायणिः २ शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ३ अतिव्यपहारो व्यृद्धो भवति ४ सर्वत्रानुमतिपूर्वमिति हारीतः ५ न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६ न चास्माद्भोगानुपयुञ्जीत ७ यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८ माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९ न तु धर्मसंनिपातः स्यात् १० अधर्माहृतान्भोगाननुज्ञाय न वयं चाधर्मश्चेत्यभिव्याहृत्याधोनाभ्युपरिजान्वाछाद्य त्रिषवणमुदकमुपस्पृशन्नक्षीराक्षारालवणं भुञ्जानो द्वादश वर्षाणि नागारं प्रविशेत् ११ ततः सिद्धिः १२ अथ संप्रयोगः स्यादार्यैः १३ एतदेवान्येषामपि पतनीयानाम् १४ गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५ मिथ्यैतदिति हारीतः १६ यो ह्यात्मानं परं वाभिमन्यतेऽभिशस्त एव स भवति १७ एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८ दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९ स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २० अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१ २८

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१ एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२ यः प्रमत्तो हन्ति प्राप्तं दोषफलम् २ सह संकल्पेन भूयः ३ एवमन्येष्वपि दोषवत्सु कर्मसु ४ तथा पुण्यक्रियासु ५ परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६ यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७ अथाभिशस्ताः समवसाय चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः ८ पुत्रान्संनिष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ह्यस्मत्स्वार्याः संप्रत्यपत्स्यतेति ९ अथापि न सेन्द्रि यः पतति १० तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११ मिथ्यैतदिति हारीतः १२ दधिधानीसधर्मा स्त्री भवति १३ यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४ अभीचारानुव्याहारावशुचिकरावपतनीयौ १५ पतनीयाविति हारीतः १६ पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादशाहं सप्ताहं त्र्यहमेकाहम् १७ इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः १८ २९

इति दशमः पटलः

विद्यया स्नातीत्येके १ तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २ विद्याव्रतेन चेत्येके ३ तेषु सर्वेषु स्नातकवद्वृत्तिः ४ समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५ अथ स्नातकव्रतानि ६ पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ७ संध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ८ विप्रतिषेधे श्रुतिलक्षणं बलीयः ९ सर्वान्रागान्वाससि वर्जयेत् १० कृष्णं च स्वाभाविकम् ११ अनूद्भासि वासो वसीत १२ अप्रतिकृष्टं च शक्तिविषये १३ दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य १४ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय १५ छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् १६ स्वां तु छायामवमेहेत् १७ न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे पथ्यप्सु च १८ तथा ष्ठेवनमैथुनयोः कर्माप्सु वर्जयेत् १९ अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् २० अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् २१ अग्निमपो ब्राह्मणं गा देवता द्वारं प्रतीवातं च शक्तिविषये नाभिप्रसारयीत २२ अथाप्युदाहरन्ति २३ ३०

प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति १ आराच्चावसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वा २ अस्तमिते च बहिर्ग्रामादारादावसथाद्वा मूत्रपुरीषयोः कर्म वर्जयेत् ३ देवताभिधानं चाप्रयतः ४ परुषं चोभयोर्देवतानां राज्ञश्च ५ ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ६ हस्तेन चाकारणात् ७ गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ८ स्पृहतीं च गां नाचक्षीत ९ संसृष्टां च वत्सेनानिमित्ते १० नाधेनुमधेनुरिति ब्रूयात् । धेनुभव्येत्येव ब्रूयात् ११ न भद्रम्भद्र मिति ब्रूयात् । पुण्यं प्रशास्तमित्येव ब्रूयात् १२ वत्सतन्तीं च नोपरि गच्छेत् १३ प्रेङ्खावन्तरेण च नातीयात् १४ नासौ मे सपत्न ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्द्विषन्तं भ्रातृव्यं जनयेत् १५ नेन्द्र-धनुरिति परस्मै प्रब्रूयात् १६ न पततः संचक्षीतः १७ उद्यन्तमस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८ दिवादित्यः सत्त्वानि गोपायति नक्तं चन्द्रमास्तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमिच्छेत्प्रायत्य ब्रह्मचर्यकाले चर्यया च १९ सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः २० न कुसृत्या ग्रामं प्रविशेत् । यदि प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्रीम् २१ नाब्राह्मणायोच्छिष्टं प्रयच्छेत् । यदि प्रयच्छेद्दन्तान्स्कुप्त्वा तस्मिन्न् अवधाय प्रयच्छेत् २२ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् २३ ३१

प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् १ मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत २ शयानश्चाध्यापनं वर्जयेत् ३ न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ४ अनाविःस्रगनुलेपणः स्यात् ५ सदा निशायां दारं प्रत्यलंकुर्वीत ६ सशिरा वमज्जनमप्सु वर्जयेत् ७ अस्तमिते च स्नानम् ८ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ९ स्तुतिं च गुरोः समक्षं यथा सुस्नातमिति १० आ निशाया जागरणम् ११ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः १२ मनसा वा स्वयम् १३ ऊर्ध्वमर्धरात्रादध्यापनम् १४ नापररात्रमुत्थायानध्याय इति संविशेत् १५ काममपश् शयीत १६ मनसा वाधीयीत १७ क्षुद्रा न्क्षुद्रा चरितांश्च देशान्न सेवेत १८ सभाः समाजांश्च १९ समाजं चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् २० नगरप्रवेशनानि च वर्जयेत् २१ प्रश्नं च न विब्रूयात् २२ अथाप्युदाहरन्ति २३ मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्राद न कुमालनाय रुदन्ह मृत्युर्व्युवाच प्रश्नमिति २४ गार्दभं यानमारोहणे विषमारोहणावरोहणानि च वर्जयेत् २५ बाहुभ्यां च नदीतरम् २६ नावां च सांशयिकीम् २७ तृणच्छेदनलोष्टविमर्दनाष्ठेवनानि चाकारणात् २८ यच्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते २९ ३२

इत्येकादशः पटलः इति प्रथमोऽध्यायः

पाणिग्रहणादधि गृहमेधिनोर्व्रतम् १ कालयोर्भोजनम् २ अतृप्तिश्चान्नस्य ३ पर्वसु चोभयोरुपवासः ४ औपवस्तमेव कालान्तरे भोजनम् ५ तृप्तिश्चान्नस्य ६ यच्चैनयोः प्रियं स्यात्तदेतस्मिन्न् अहनि भुञ्जीयाताम् ७ अधश्च शयीयाताम् ८ मैथुनवर्जनं च ९ श्वोभूते स्थालीपाकः १० तस्योपचारः पार्वणेन व्याख्यातः ११ नित्यं लोक उपदिशन्ति १२ यत्र क्व चाग्निमुपसमाधास्यन्स्यात्तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाद्भिरवोक्ष्याग्निमुपसमिन्ध्यात् १३ उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वान्यदुपदध्यात् १४ नित्यमुदधानान्यद्भिररिक्तानि स्युर्गृहमेधिनोर्व्रतम् १५ अहन्यसंवेशनम् १६ ऋतौ च संनिपातो दारेणानुव्रतम् १७ अन्तरालेऽपि दार एव १८ ब्राह्मणवचनाच्च संवेशनम् १९ स्त्रीवाससैव संनिपातः स्यात् २० यावत्संनिपातं चैव सहशय्या २१ ततो नाना २२ उदकोपस्पर्शनम् २३ १

अपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानाम् १ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् २ ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्र व्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३ यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४ एतेन दोषफलपरिवृद्धिरुक्ता ५ स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल् लोके परिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ६ एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ७ यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ८ अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ९ २

इति प्रथमः पटलः

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १ भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २ केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३ आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः ४ तेषां स एवाचमनकल्पः ५ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६ उदकोपस्पर्शनं च सह वाससा ७ अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८ परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९ सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १० तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११ गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२ तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३ उत्तमस्यैकरात्रमुपवासः १४ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५ औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६ उभयतः परिषेचनं यथा पुरस्तात् १७ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८ सति सूपसंसृष्टेन कार्याः १९ अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २० उदधानसंनिधौ नवमेन २१ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२ उत्तरपूर्वदेशेऽगारस्योत्तरेश्चतुर्भिः २३ ३

शय्यादेशे कामलिङ्गेन १ देहल्यामन्तरिक्षलिङ्गेन २ उत्तरेणापिधान्याम् ३ उत्तरेर्ब्रह्मसदने ४ दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५ रौद्र उत्तरो यथा देवताभ्यः ६ तयोर्नाना परिषेचनं धर्मभेदात् ७ नक्तमवोत्तमेन वैहायसम् ८ य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९ अग्रं च देयम् १० अतिथीनेवाग्रे भोजयेत् ११ बलान्वृद्धान्रोगसंबन्धान्स्त्रीश्चान्तर्वत्नीः १२ काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३ अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४ एवंवृत्तावनन्तलोकौ भवतः १५ ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६ अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् १७ राजन्यवैश्यौ च १८ शूद्र मभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९ दासा वा राजकुलादाहृत्यातिथिवच्छूद्र म्पूजयेयुः २० नित्यमुत्तरं वासः कार्यम् २१ अपि वा सूत्रमेवोपवीतार्थे २२ यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशममत्रेभ्यो लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्रा य निनयेत् । एवं वास्तु शिवं भवति २३ ब्राह्मण आचार्यः स्मर्यते तु २४ आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५ अनुगमनं च पश्चात् २६ तत ऊर्ध्वं ब्राह्मण एवाग्रे गतौ स्यात् २७ ४

सर्वविद्यानामप्युपनिषदामुपाकृत्यानध्ययनं तदहः १ अधीत्य चाविक्रमणं सद्यः २ यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेत् । एवमुभयोः शिवं भवति ३ समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य तस्योपसंगृह्य न बीभत्समान उदकमुपस्पृशेत्पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् ४ आसने शयने भक्ष्ये भोज्ये वाससि वा संनिहिते निहीनतरवृत्तिः स्यात् ५ तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ६ अन्यं वा समुदेतम् ७ स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ८ संनिहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ९ दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् १० वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य वर्जयेत् ११ श्रेयसां च १२ सर्वभूतपरीवादाक्रोशांश्च १३ विद्यया च विद्यानाम् १४ यया विद्यया न विरोचेत पुनराचार्यमुपेत्य नियमेन साधयेत् १५ उपाकरणादोत्सर्जनादध्यापयितुर्नियमः ।लोमसंहरणं मांसं श्राद्धं मैथुनमिति च वर्जयेत् १६ ऋत्वे वा जायाम् १७ यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च युक्तः स्यात् । एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति १८ मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान्परिवृञ्जानो ऽमृतत्वाय कल्पते १९ ५

इति द्वितीयः पटलः

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १ साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २ अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३ धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ४ स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५ तस्य पूजायां शान्तिः स्वर्गश्च ६ तमभिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७ शक्तिविषये नाबहुपादमासनं भवतीत्येके ८ तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावित्येके ९ अन्यतरोऽभिषेचने स्यात् १० तस्योदकमाहारयेन्मृन्मयेनेत्येके ११ नोदकमाचारयेद् असमावृत्तः १२ अध्ययनसांवृत्तिश्चात्राधिका १३ सान्त्वयित्वा तर्पयेद्र सैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४ आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५ अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६ उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७ इदा३मिति भूय उद्धरेत्येव ब्रूयात् १८ द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९ पाप्मानं हि स तस्य भक्षयतीति विज्ञायते २० ६

स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः १ योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः २ ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ३ पयोपसेचनमन्नमग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ४ प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते ५ स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति ६ यदनुतिष्ठत्युदवस्यत्येव तत् ७ यत्सान्त्वयतति सा दक्षिणा प्रशंसा ८ यत्संसाधयति ते विष्णुक्रमाः ९ यदुपावर्तते सोऽवभृथः १० इति हि ब्राह्मणम् ११ राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् १२ आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य तर्पयंस्त्विति १३ पुराग्निहोत्रस्य होमादुपांशु जपेत् । व्रात्य यथा ते मनस्तथास्त्विति । व्रात्य यथा ते वशस्तथास्त्विति । व्रात्य यथा ते प्रियं तथास्त्विति । व्रात्य यथा ते निकामस्तथास्त्विति १४ यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज होष्यामि । इत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह १५ एकरात्रं चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमितांल् लोकानभिजयतीति विज्ञायते १६ असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यात् । एवमस्य समृद्धं भवति १७ ७

इति तृतीयः पटलः

येन कृतावसथः स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः १ शेषभोज्यतिथीनां स्यात् २ न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ३ नात्मार्थमभिरूपमन्नं पाचयेत् ४ गोमधुपर्कार्हो वेदाध्यायः ५ आचार्य ऋत्विक् स्नातको राजा वा धर्मयुक्तः ६ आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ७ दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ८ अभाव उदकम् ९ षडङ्गो वेदः १० छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति ११ शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दः । तत्र संख्या विप्रतिषिद्धा १२ अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः १३ अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य १४ ८

श्वोभूते यथामनसं तर्पयित्वा संसाधयेत् १ यानवन्तमा यानात् २ यावन्नानुजानीयादितरः ३ अप्रतीभायां सीम्नो निवर्तेत ४ सर्वान्वैश्वदेवे भागिनः कुर्वीता श्वचाण्डालेभ्यः ५ नानर्हद्भ्यो दद्यादित्येके ६ उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ७ सर्वाण्युदकपूर्वाणि दानानि ८ यथाश्रुति विहारे ९ ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः १० काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ११ तथा चात्मनोऽनुपरोधं कुर्याद्यथा कर्मस्वसमर्थः स्यात् १२ अथाप्युदाहरन्ति । अष्टौ ग्रासा मुनेर्भक्षः षोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः १३-१ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नतामिति १३-२ ९

इति चतुर्थः पटलः

भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपः १ तत्र गुणान्समीक्ष्य यथाशक्ति देयम् २ इन्द्रि यप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् । न तदाद्रि येत ३ स्वकर्म ब्राह्मणस्याध्ययनमध्यापनम्यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ४ अन्यच्चापरिगृहीतम् ५ एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ६ क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्यवाणिज्याधिकम् ७ नाननूचानमृत्विजं वृणीते न पणमानम् ८ अयाज्योऽनधीयानः ९ युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम् १० न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ११ शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् १२ तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानं गमयेत् १३ राजा पुरोहितं धर्मार्थकुशलम् १४ स ब्राह्मणान्नियुञ्ज्यात् १५ बलविशेषेण वधदास्यवर्जं नियमैरुपशोषयेत् १६ १०

इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डम्प्रणयेत् १ न च संदेहे दण्डं कुर्यात् २ सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ३ एवंवृत्तो राजोभौ लोकावभिजयति ४ राज्ञः पन्था ब्राह्मणेनासमेत्य ५ समेत्य तु ब्राह्मणस्यैव पन्थाः ६ यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर्दातव्यः ७ वर्णज्यायसां चेतरेर्वर्णैः ८ अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ९ धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ १० अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ११ धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत १२ अन्यतराभावे कार्या प्राग् अग्न्याधेयात् १३ आधाने हि सती कर्मभिः संबध्यते येषामेतदङ्गम् १४ सगोत्राय दुहितरं न प्रयच्छेत् १५ मातुश्च योनिसंबन्धेभ्यः १६ ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजासहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणालंकृत्य १७ आर्षे दुहितृमते मिथुनौ गावौ देयौ १८ दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् १९ मिथः कामात्सांवर्तेते स गान्धर्वः २० ११

शक्तिविषयेण द्र व्याणि दत्वा वहेरन्स आसुरः १ दुहितृमतः प्रोथयित्वा वहेरन्स राक्षसः २ तेषां त्रय आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ३ यथा युक्तो विवाहस्तथा युक्ता प्रजा भवति ४ पाणिसमूढं ब्राह्मणस्य नाप्रोक्षितमभितिष्ठेत् ५ अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ६ ब्राह्मणांश्च ७ अनुज्ञाप्य वातिक्रामेत् ८ अग्निमपश्च न युगपद्धारयीत ९ नानाग्नीनां च संनिवापं वर्जयेत् १० प्रतिमुखमग्निमाह्रियमाणम्नाप्रतिष्ठितं भूमौ प्रदक्षिणीकुर्यात् ११ पृष्ठतश्चात्मनः पाणी न संश्लेषयेत् १२ स्वपन्न् अभिनिम्रुक्तो नाश्वान्वाग्यतो रात्रिमासीत । श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् १३ स्वपन्न् अभ्युदितो नाश्वान्वाग्यतोऽहस्तिष्ठेत् १४ आ तमितोः प्राणमायच्छेदित्येके १५ स्वप्नं वा पापकं दृष्ट्वा १६ अर्थं वा सिषाधयिषन् १७ नियमातिक्रमे चान्यस्मिन् १८ दोषफलसंशये न तत्कर्तव्यम् १९ एवमध्यायानध्याये २० न संशये प्रत्यक्षवद्ब्रूयात् २१ अभिनिम्रुक्ताभ्युदितकनखिश्यावदाग्रदिधिषुदिधिषूपतिपर्याहितपरीष्टपरिवित्तपरिविन्न-परिविविदानेषु चोत्तरोत्तरस्मिन्न् अशुचिक रनिर्वेषो गरीयान्गरीयान् २२ तच्च लिङ्गं चरित्वोद्धार्यमित्येके २३ १२

इति पञ्चमः पटलः

सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १ दायेनाव्यतिक्रमश्चोभयोः २ पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ३ तत्रापि दोषवान्पुत्र एव ४ उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५ अथाप्युदाहरन्ति । इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ६-१ रेतोधाः पुत्रं नयति परेत्य यमसादने । तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२ च् अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः । जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता कुरुते तन्तुमेतमिति ६ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ७ तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ८ तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ९ दानं क्रयधर्मश्चापत्यस्य न विद्यते १० विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्मिथुया कुर्यादिति ११-१ तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२ एकधनेन ज्येष्ठं तोषयित्वा १२ १३

जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १ पुत्राभावे यः प्रत्यासन्नः सपिण्डः २ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ३ दुहिता वा ४ सर्वाभावे राजा दायं हरेत ५ ज्येष्ठो दायाद इत्येके ६ देशविशेषे सुवर्णम्कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ७ रथः पितुः परीभाण्डं च गृहे ८ अलंकारो भार्याया ज्ञातिधनं चेत्येके ९ तच्छास्त्रैर्विप्रतिषिद्धम् १० मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते ११ अथापि तस्माद्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीत्येकवच्छ्रुयते १२ अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनां सह चरन्तीति तस्मात्स्नातकस्य मुखं रेभायतीव तस्माद्बस्तश्च श्रोत्रियश्चस्त्रीकामतमाविति १३ सर्वे हि धर्मयुक्ता भागिनः १४ यस्त्वधर्मेण द्र व्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीत १५ जाया अपत्योर्न विभागो विद्यते १६ पाणिग्रहणाद्धि सहत्वं कर्मसु १७ तथा पुण्यफलेषु १८ द्र व्यपरिग्रहेषु च १९ न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २० १४

एतेन देशकुलधर्मा व्याख्याताः १ मातुश्च योनिसंबन्धेभ्यः पितुश्चा सप्तमात्पुरुषाद्यावता वा संबन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्परिहाप्यापरिसंवत्सरान् २ मातापितरावेव तेषु ३ हर्तारश्च ४ भार्यायां परमगुरुसंस्थायां चाकालमभोजनम् ५ आतुरव्यञ्जनानि कुर्वीरन् ६ केशान्प्रकीर्य पांसूनोप्येकवाससो दक्षिणामुखाः सकृदुपमज्जयोत्तीर्योपविशन्ति ७ एवं त्रिः ८ तत्प्रत्ययमुदकमुत्सिच्याप्रतीक्षा ग्राममेत्य यत्स्त्रिय आहुस्तत्कुर्वन्ति ९ इतरेषु चैतदेवैक उपदिशन्ति १० शुचीन्मन्त्रवतः सर्वकृत्येषु भोजयेत् ११ देशतः कालतः शौचतः सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२ यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३ न क्षारलवणहोमो विद्यते १४ तथावरान्न संसृष्टस्य च १५ अहविष्यस्य होम उदीचीनमुष्णं भस्मापोह्य तस्मिञ्जुह्यात्तद्धुतमहुतं चाग्नौ भवति १६ न स्त्री जुहुयात् १७ नानुपेतः १८ आन्नप्राशनाद्गर्भा नाप्रयता भवन्ति १९ आ परिसंवत्सरादित्येके २० यावता या दिशो न प्रजानीयुः २१ ओपनयनादित्यपरम् २२ अत्र ह्यधिकारः शास्त्रैर्भवति २३ सा निष्ठा २४ स्मृतिश्च २५ १५

इति षष्ठः पट्लः

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिंल् लोके भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच १ प्रजानिःश्रेयसा च २ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ३ मासि मासि कार्यम् ४ अपरपक्षस्यापराह्नः श्रेयान् ५ तथापरपक्षस्य जघन्यान्यहानि ६ सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितृऋन्प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ७ प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ८ द्वितीये ऽस्तेनाः ९ तृतीये ब्रह्मवर्चसिनः १० चतुर्थे क्षुद्र पशुमान् ११ पञ्चमे पुमांसः । बह्वपत्यो न चानपत्यः प्रमीयते १२ षष्ठेऽध्वशीलोऽक्षशीलश्च १३ सप्तमे कर्षे राद्धिः १४ अष्टमे पुष्टिः १५ नवम एकखुराः १६ दशमे व्यवहारे राद्धिः १७ एकादशे कृष्णायसं त्रपुसीसम् १८ द्वादशे पशुमान् १९ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यः । युवमारिणस्तु भवन्ति २० चतुर्दश आयुधे राद्धिः २१ पञ्चदशे पुष्टिः २२ तत्र द्र व्याणि तिलमाषा व्रीहियवा आपो मूलफलानि २३ स्नेहवति त्वेवान्ने तीव्रतरा पितृऋणां प्रीतिर्द्राघीयांसं च कालम् २४ तथा धर्माहृतेन द्र व्येण तीर्थे प्रतिपन्नेन २५ संवत्सरं गव्येन प्रीतिः २६ भूयांसमतो माहिषेण २७ एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् २८ १६

खड्गोपस्तरणे खड्गमांसेनानन्त्यं कालम् १ तथा शतबलेर्मत्स्यस्य मांसेन २ वार्ध्राणसस्य च ३ प्रयतः प्रसन्नमनाः सृष्टो भोजयेद्ब्राह्मणान्ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् ४ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५ एतेनान्तेवासिनो व्याख्याताः ६ अथाप्युदाहरन्ति ७ संभोजनी नाम पिशाचभिक्षा नैषा पितॄन्गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ८ इहैव संभुञ्जती दक्षिणा कुलात्कुलं विनश्यतीति ९ तुल्यगुणेषु वयोवृद्धः श्रेयान्द्र व्यकृशश्चेप्सन् १० पूर्वेद्युर्निवेदनम् ११ अपरेद्युर्द्वितीयम् १२ तृतीयमामन्त्रणम् १३ त्रिःप्रायमेके श्राद्धमुपदिशन्ति १४ यथा प्रथममेवं द्वितीयं तृतीयं च १५ सर्वेषु वृत्तेषु सर्वतः समवदाय शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद्यथोक्तम् १६ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् १७ उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते १८ काममुद्ध्रियतां काममग्नौ क्रियतामित्यत्तिसृष्ट उद्धरेद्जुहुयाच्च १९ श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते २० श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः शूद्रो त्पन्नो ब्राह्मण्यामित्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषणा भवन्ति २१ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति २२ न च नक्तं श्राद्धं कुर्वीत २३ आरब्धे चाभोजनमा स मापनात् २४ अन्यत्र राहुदर्शनात् २५ १७

इति सप्तमः पटलः

विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् १ कृष्णधान्यं शूद्रा न्नं ये चान्येनाश्यसंमताः २ अहविष्यमनृतं क्रोधं येन च क्रोधयेत् । स्मृतिमिच्छन्यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत् ३ अधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः स्थानासनिकः संवत्सरमेतद्व्रतं चरेत् । एतदष्टाचत्वारिंशत्संमितमित्याचक्षते ४ नित्यश्राद्धम् ५ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ६ तत्र नवानि द्र व्याणि ७ यैरन्नं संस्क्रियते येषु च भुज्यते ८ तानि च भुक्तवद्भ्यो दद्यात् ९ समुदेतांश्च भोजयेत् १० न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११ एवं संवत्सरम् १२ तेषामुत्तमं लोहेनाजेन कार्यम् १३ मानं च कारयेत्प्रतिच्छन्नम् १४ तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितृऋनित्युपदिशन्ति १६ कृताकृतमत ऊर्ध्वम् १७ श्राद्धेन हि तृप्तिं वेदयन्ते पितरः १८ तिष्येण पुष्टिकामः १९ १८

गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्रक्षाल्य मुखं कर्णौ प्राश्य च यद्वातो नातिवाति तदासनोऽजिनं बस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणामुखो भुञ्जीत १ अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपदिशन्ति २ औदुम्बरश्चमसः सुवर्णनाभः प्रशास्तः ३ न चान्येनापि भोक्तव्यः ४ यावद्ग्रासं संनयन् ५ अस्कन्दयन् ६ नापजहीत ७ अपजहीत वा ८ कृत्स्नं ग्रासं ग्रसीत सहाङ्गुष्ठम् ९ न च मुखशब्दं कुर्यात् १० पाणिं च नावधूनुयात् ११ आचम्य चोर्ध्वौ पाणी धारयेदा प्रोदकीभावात् १२ ततो ऽग्निमुपस्पृशेत् १३ दिवा च न भुञ्जीतान्यन्मूलफलेभ्यः १४ स्थालीपाकानुदेश्यानि च वर्जयेत् १५ सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत १६ नैय्यमिकं तु श्राद्धं स्नेहवदेव दद्यात् १७ सर्पिर्मांसमिति प्रथमः कल्पः १८ अभावे तैलं शाकमिति १९ मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान्भोजयेत् २० १९

मासिश्राद्धे तिलानां द्रो णं द्रो णं येनोपायेन शक्नुयात्तेनोपयोजयेत् १ समुदेतांश्च भोजयेन्न चातद्गुणायोच्छिष्टं दद्युः २ उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराजमिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ३ एवमहरहरा परस्मात्तिष्यात् ४ द्वौ द्वितीये ५ त्रींस्तृतीये ६ एवं संवत्सरमभ्युच्चयेन ७ महान्तं पोषं पुष्यति ८ आदित एवोपवासः ९ आत्ततेजसां भोजनं वर्जयेत् १० भस्मतुषाधिष्ठानम् ११ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् १२ प्रेङ्खोलनं च पादयोः १३ जानुनि चात्याधानं जङ्घायाः १४ नखैश्च नखवादनम् १५ स्फोटनानि चाकारणात् १६ यच्चान्यत्परिचक्षते १७ योक्ता च धर्मयुक्तेषु द्र व्यपरिग्रहेषु च १८ प्रतिपादयिता च तीर्थे १९ यन्ता चातीर्थे यतो न भयं स्यात् २० संग्रहीता च मनुष्यान् २१ भोक्ता च धर्माविप्रतिषिद्धान्भोगान् २२ एवमुभौ लोका वभिजयति २३ २०

इत्यष्टमः पटलः

चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्यमिति १ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति २ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ३ सर्वेषामनूत्सर्गो विद्यायाः ४ बुद्ध्वा कर्माणि यत्कामयेत तदारभेत ५ यथा विद्यार्थस्य नियम एतेनैवान्तमनूपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ६ अथ परिव्राजः ७ अत एव ब्रह्मचर्यवान्प्रव्रजति ८ तस्योपदिशन्ति ९ अनग्निरनिकेतः स्यादशर्माशरणो मुनिः स्वाध्यायैवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहोऽनमुत्रश्चरेत् १० तस्य मुक्तमाच्छादनं विहितम् ११ सर्वतः परिमोक्षमेके १२ सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् १३ बुद्धे क्षेमप्रापणम् १४ तच्छास्त्रैर्विप्रतिषिद्धम् १५ बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत १६ एतेन परं व्याख्यातम् १७ अथ वानप्रस्थः १८ अत एव ब्रह्मचर्यवान्प्रव्रजति १९ तस्योपदिशन्ति २० एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः २१ स्वाध्याय एवोत्सृजमानो वाचम् २१ २१

तस्यारण्यमाच्छादनं विहितम् १ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् २ अन्ततः प्रवृत्तानि ३ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ४ तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः ५ अथ वानप्रस्थस्यैवानुपूर्व्यमेक उपदिशन्ति ६ विद्यां समाप्य दारं कृत्वाग्नीनाधाय कर्माण्यारभते सोमावरार्ध्यानि यानि श्रूयन्ते ७ गृहान्कृत्वा सदारः सप्रजः सहाग्निभिर्बहिर्ग्रामाद्वसेत् ८ एको वा ९ शिलोञ्छेन वर्तयेत् १० न चात ऊर्ध्वं प्रतिगृह्णीयात् ११ अभिषिक्तश्च जुहुयात् १२ शनैरपोऽभ्यवेयादभिघ्नन्न् अभिमुखमादित्यमुदकमुपस्पृशेत् १३ इति सर्वत्रोदकोपस्पर्शनविधिः १४ तस्य द्वंद्वं द्र व्याणामेक उपदिशन्ति पाकार्थभोजनार्थवासिपरशुदात्रकाजानाम् १५ द्वंद्वानामेकैकमादायेतराणि दत्वारण्यमवतिष्ठेत १६ तस्यारण्येनैवात ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च १७ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः १८ सर्वं चोपांशु सह स्वाध्यायेन १९ नारण्यमभ्याश्रावयेत् २० अग्न्यर्थं शरणम् २१ आकाशे स्वयम् २२ अनुपस्तीर्णे शय्यासने २३ नवे सस्ये प्राप्ते पुराणमनुजानीयात् २४ २२

भूयांसं वा नियममिच्छन्न् अन्वहमेव पात्रेण सायं प्रातरर्थमाहरेत् १ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनिश्रयेत्तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः २ अथ पुराणे श्लोकावुदाहरन्ति ३ अष्टाशीतिसहस्राणि ये प्रजामीशिरर्षयः । दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे ४ अष्टाशीतिसहस्राणि ये प्रजां नेषिरर्षयः । उत्तरेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ५ इत्यूर्ध्वरेतसां प्रशंसा ६ अथापि संकल्पसिद्धयो भवन्ति ७ यथा वर्षं प्रजादानं दूरे दर्शनं मनोजवता यच्चान्यदेवं युक्तम् ८ तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टानाश्रमानेतानेके ब्रुवते ९ त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीसंबन्धान्युच्चैर्नीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमाणमिति मन्यन्ते १० यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरुषसंस्कारो विधीयते ११ ततः परमनन्त्यं फलं स्वर्ग्यशब्दं श्रूयते १२ २३

अथाप्यस्य प्रजातिममृतमाम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृतमिति १ अथापि स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २ ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३ एवमवरोऽवरः परेषाम् ४ आ भूतसंप्लवात्ते स्वर्गजितः ५ पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६ अथापि प्रजापतेर्वचनम् ७ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्न् इति ८ तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९ नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १० तदेतेन वेदितव्यम् ११ प्रजापतेरृषीणामिति सर्गोऽयम् १२ तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा ज्वलन्त्य उपलभ्यन्ते १३ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्तवन्तं लोकं जयति संकल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् १४ २४

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्वक्ष्यामः १ दक्षिणाद्वारं वेश्म पुरं च मापयेत् २ अन्तरस्यां पुरि वेश्म ३ तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४ दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५ सर्वेष्वेवाजस्रा अग्नयः स्युः ६ अग्निपूजा च नित्या यथा गृहमेधे ७ आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८ तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९ गुरूनमात्यांश्च नातिजीवेत् १० न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपेद्युग्मान्वैभीतकान्यथार्थान् १२ आर्याः शुचयः सत्यशीला दीवितारः स्युः १३ आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४ क्षेमकृद्रा जा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते १५ २५

इति नवमः पटलः

भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्तांल् लोकानभिजयति १ ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति २ एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ३ ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये निदध्यात् ४ तेषां पुरुषास्तथागुणा एव स्युः ५ सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ६ क्रोशो ग्रामेभ्यः ७ तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ८ धार्म्यं शुल्कमवहारयेत् ९ अकरः श्रोत्रियः १० सर्ववर्णानां च स्त्रियः ११ कुमाराश्च प्राग् व्यञ्जनेभ्यः १२ ये च विद्यार्था वसन्ति १३ तपस्विनश्च ये धर्मपराः १४ शूद्र श्च पादावनेक्ता १५ अन्धमूकबधिररोगविष्टाश्च १६ ये व्यर्था द्र व्यपरिग्रहैः १७ अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः १८ बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः १९ संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य २० कुमार्यां तु स्वान्यादाय नाश्यः २१ अथ भृत्ये राज्ञा २२ रक्ष्ये चात ऊर्ध्वं मैथुनात् २३ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् २४ २६

चरिते यथापुरं धर्माद्धि संबन्धः १ सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २ कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३ तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४ अविशिष्टं हि परत्वं पाणेः ५ तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६ नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भणादपत्यात् ७ नाश्य आर्यः शूद्रा याम् ८ वध्यः शूद्र आर्यायाम् ९ दारं चास्य कर्शयेत् १० सवर्णायामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति ११ एवमभ्यासे पादः पादः १२ चतुर्थे सर्वम् १३ जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् १५ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७ नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८ आ समापत्तेः १९ असमापत्तौ नाश्यः २० आचार्य ऋत्विक् स्नातको राजेति त्राणं स्युरन्यत्र वध्यात् २१ २७

इति दशमः पटलः

क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहार्यः १ अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् २ तथा पशुपस्य ३ अवरोधनं चास्य पशूनाम् ४ हित्वा व्रजमादिनः कर्शयेत्पशून्नातिपातयेत् ५ अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६ प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ७ पुनः प्रमादे सकृदवरुध्य ८ तत ऊर्ध्वं न सूर्क्षेत् ९ परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः १० विदुषो वाससः परिमोषणम् ११ अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः १२ प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति १३ २८

प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः १ यो भूय आरभते तस्मिन्फलविशेषः २ कुटुम्बिनौ धनस्येशते ३ तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ४ विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ५ संदेहे लिङ्गतो दैवेनेति विचित्य ६ पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते राजवत्युभयतः समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ७ अनृते राजा दण्डं प्रणयेत् ८ नरकश्चात्राधिकः सांपराये ९ सत्ये स्वर्गः सर्वभूतप्रशंसा च १० सा निष्ठा या विद्या स्त्रीषु शूद्रे षु च ११ आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति १२ कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३ तत्र लक्षणम् । सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत । एवमुभौ लोकावभिजयति १४ स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक इत्येके १५ २९

इत्येकादशः पटलः इति द्वितीयोऽध्यायः समाप्तं चेदमापस्तम्बीयधर्मसूत्रम्