सामग्री पर जाएँ

आपस्तम्बसंहिता

विकिस्रोतः तः


आपस्तम्बसंहिता ।

प्रथमाऽध्यायः ।

आपस्तम्ब प्रवक्ष्यामि प्रायश्चित्तविनिर्णयम् ।
दूषितानां हितार्थाय वर्णानामनुपूर्वशः ।। 1.1 ।।
परेषां परिवादेषु निवृत्तमृषिमत्तमम् ।
विविक्तदेश मासोनमात्मविद्यापरायणम् ।। 1.2 ।।
अनन्यमनमं शान्तं सत्त्वस्थं यागवित्तमम् ।
आपस्तम्बमृषिं सर्व्वे समेत्य मुनयोऽब्रुवन् ।। 1.3 ।।
भगवन् मानवा सर्व्वे असन्मार्गे स्थिता यदा ।
चरेदुर्द्धर्म्मकार्य्याणां तेषां ब्रूहि विनिष्कृतिम् ।। 1.4 ।।
यताऽवश्यं गृहस्थेन गवादिपरिपालनम् ।
कृषिकर्मादि चापत्‌सु द्विजामन्त्रणमेव च ।। 1.5 ।।
देयञ्चानाथकेऽवश्यं विप्रादीनाञ्च भेषजम् ।
बालानां स्तन्यपानादिकार्य्यञ्च परिपालनम् ।। 1.6 ।।
एवं कृते कथञ्चित् स्यात् प्रमादो यद्यकामतः ।
गवादीना ततोऽस्माकं भगवन्‌ ब्रूहि निष्कृतिम् ।। 1.7 ।।
एवमुक्तः क्षणं ध्यात्वा प्रणिपातादधोमुखः ।
दृष्ट्वा ऋषोनुवाचेदमापस्तम्बः सुनिश्चितम् ।। 1.8 ।।
बालानां स्तनपानादिकार्य्ये दोषो न विद्यते ।
विपत्तावपि विप्राणामामन्त्रणचिकित्‌मने ।। 1.9 ।।
गवादोनां प्रवक्ष्यामि प्रायश्चित्तं रूजादिषु ।
केचिदाह्वनं दाषाऽत्र देहधारणभेषजे ।। 1.10 ।।
औषधं लवणञ्चैव स्नेहपुष्ट्यान्नभोजनम् ।
प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ।। 1.11 ।।
अतिरिक्तं न दातव्यं काले स्वल्पन्तु दापयेत् ।
अतिरिक्ते विपन्नानां कृच्छ्रमेघ बिधीयते ।। 1.12 ।।
त्र्यहं निरशनात् पादः पादश्चायाचितं त्र्यहम् ।
पादः सायं त्राहं पादः प्रातर्भोज्यं तथा त्र्यहम् ।। 1.13 ।।
प्रातः सायं दिनार्द्धञ्च पादोनं सायविर्ज्जितम् ।। 1.14 ।।
प्रातः पादं चरेच्छूद्रः सायं वैश्यस्य दापयेत् ।
अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणस्य च ।। 1.15 ।।
पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहौनञ्च चरेत् सर्वं निपातने ।। 1.16 ।।
घण्टाभरणदोषेण गोस्तु यत्र विपद्यते ।
चरेदर्द्धव्रतं तत्र भूषनार्थं कृतं हि तत् ।। 1.17 ।।
दमने वा निरोधे वा सङ्घाते चैव योजने ।
स्तम्भशृङ्खलपाशैश्च मृते पादोनमाचरेत् ।। 1.18 ।।
पाषाणैर्लगुड़ैर्वापि शस्त्रेणान्येन वा बलात् ।
निपातयन्ति ये गास्तु तेषां सर्व्वं बिधीयते ।। 1.19 ।।
प्राजापत्यं चरेद्विप्रः पादोनं क्षत्रियश्चरेत् ।
कृच्छ्रार्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ।। 1.20 ।।
द्वौ मासौ दापयेद्बत्‌सं द्वौ मासौ द्वौ स्तने दुहेत् ।
द्वौ मासावैकवेलायां शेषकाले यथारूचि ।। 1.21 ।।
दमतामर्द्धमासेन गोस्तु यत्र विपद्यते ।
सशिखं वपनं कृत्वा प्राजापत्यं समाचरेत् ।। 1.22 ।।
हलमष्टगवं धर्म्म्यं षड़्‌गवं जौवितार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवञ्च जिघांसिनाम् ।। 1.23 ।।
अतिवाहातिदोहाभ्यां नासिकाभेदने तथा ।
नदीपर्व्वतसंरोधे मृते पादोनमाचरेत् ।। 1.24 ।।
न नारिकेलवालाभ्यां न मुञ्जेन न चर्म्मणा ।
एभिर्गास्तु न बध्नीयाद्‌वद्धा परवशो भवेत् ।। 1.25 ।।
कुशैः काशैश्च बन्धीयाद्‌वृषभं दक्षिणामुखम् ।
पादलग्नाग्निदोषेषु प्रायश्चित्तं न विद्यते ।। 1.26 ।।
व्यापन्नानां बहूनान्तु रोधने बन्धनेऽपि च ।
भिषङमिथोपचारे च द्विगुणं गोव्रतं चरेत् ।। 1.27 ।।
शृङ्गभङ्गेऽस्थिभह्गे च लाङ्गुलस्य चे कर्त्तने ।
सप्तरात्रं पिवद्‌दुग्धं यावत् स्वस्था पुनर्भवेत् ।। 1.28 ।।
गोमूत्रेण तु सम्मिश्रं यावकं भक्षयेद्द्विजः ।
एतद्विमिश्रितञ्चैवमुक्तञ्चोशनसा स्वयम् ।। 1.29 ।।
देवद्रोण्यां विहारेषु कूपेष्वायतनेषु च ।
एषु गोषु विपन्नेषु प्रायश्चित्तं न विद्यते ।। 1.30 ।।
एका पादात्तवहुभिर्द्दैवाद्व्यापादिता क्वचित् ।
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ।। 1.31 ।।
यन्त्रणे गोश्चिकित्‌सार्थे मूढ़गर्भविमोचने ।
यत्ने कृते विपत्तिश्चेत् प्रायश्चित्तं न विद्यते ।। 1.32 ।।
सरोम प्रथमे पादे द्वितीये श्मश्रुकर्त्तनम् ।
तृतीये तु शिखा धार्य्या सशिखन्तु निपातने ।। 1.33 ।।
मर्व्वान् केशान् ममुद्धत्य च्छेदयेदङ्गुलिद्वयम् ।
एवमेव तु नारोणां शिरमो मुण्डनं स्मृतम् ।। 1.34 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे प्रथमोऽध्यायः ।। 1 ।।

द्वितीयोऽध्यायः ।

कारूहस्तगतं पुण्यं यच्च ग्रामाद्विनिः मृतम् ।
स्त्रीवालवृद्ध चरितं प्रत्यक्षादृष्टमेव च ।। 2.1 ।।
प्रापखरण्येषु जलेऽथ सीरे द्रोण्यां जलं यच्च विनिसृतम्भवेत् ।
श्वपाकचाण्डाल्‌परिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः ।। 2.2 ।।
न दुष्येत् सन्तता धारा वातोद्धताश्च रेणवः ।
स्त्रिया वृद्धाश्च वालाश्च न दुष्यन्ति कदाचन ।। 2.3 ।।
आत्मशय्या च वस्त्रञ्च जायापत्यं कमण्डलुः ।
आत्मनः शुचिरेतानि परेषामशुचीनि तु ।। 2.4 ।।
अन्येश्तु खानिताः कूपास्तड़ागानि तथैव च ।
एषु स्नात्वा च पीत्वा च पञ्चगव्येन शुध्यति ।। 2.5 ।।
उच्छिष्टमशुचित्वञ्च यच्च विष्ठानुलेपनम् ।
सर्व्वं शुध्यति तोयेन तत्तीयं केन शुध्यति ।। 2.6 ।।
सूर्य्यरश्मिनिपातेन मारूतस्पर्शनेन च ।
गवां मूत्रपुरीषेण तत्तोयं तेन शुध्यति ।। 2.7 ।।
अस्थिचर्म्मादियुक्तन्तु खराश्वोष्ट्रापदूषितम् ।
ऊद्धरेदुदकं सर्व्वं शोधनं परिमार्ज्जनम् ।। 2.8 ।।
कूपो मूत्रपुरीषेणष्ठीवनेनापि दूषितः ।
श्वशृगालखरोष्ट्रैश्च क्रव्यादैश्च जुगुप्तितः ।। 2.9 ।।
उद्धृत्यैव च तत्तोयं सप्त पिण्डान् समुद्धरेत् ।
पञ्चगव्यं मृदा पूतं कूपे तच्छोधनं स्मृतम् ।। 2.10 ।।
वापीकूपड़तागानां दूषितानाञ्च शोधनम् ।
कुम्भानां शतमुद्धृत्य पञ्चगव्यं ततः क्षिपेत् ।। 2.11 ।।
यश्च कूपात् पिवेत्तोयं ब्राह्मणः शवदूषितात् ।
कथं तत्र विशुद्धिः स्यादिति मे संशयो भवेत् ।। 2.12 ।।
अक्लिन्नेनाप्यभिन्नेन शवेन परिदूषिते ।
पीत्वा कूपे ह्यहोरात्रं पञ्चगव्येन शुध्यति ।। 2.13 ।।
क्लिन्ने भिन्ने शवे चैव तत्रस्थं यदि तत् पिवेत् ।
शुद्धिश्चान्द्रायणं तस्य तप्तकृच्छ्रमथापि वा ।। 2.14 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ।। 2 ।।

तृतीयोऽध्यायः ।

अन्त्यजातेरविज्ञातो निवसेद्‌यश्च वेश्मनि ।
सम्यग् ज्ञात्वा तु कालेन द्विजाः कुर्व्वन्त्यनुग्रहम् ।। 3.1 ।।
चान्द्रायणं पराको वा द्विजातीनां विशोधनम् ।
प्राजापत्यन्तु शूद्रस्य शेषं तदनुसारतः ।। 3.2 ।।
यैर्भुक्तं तत्र पक्वान्नं कृच्छ्रं तेषां प्रदापयेत् ।
तेषामपि च यैर्भुक्तं कृच्छ्रपादं प्रदापयेत् ।। 3.3 ।।
कूपैकपानैर्दुष्टानां स्पर्शेन शवदूषिणाम् ।
तेषामेकोपवासेन पञ्चगव्येन शोधनम् ।। 3.4 ।।
बालो वृद्धस्तथा रोगी गर्भिणी वापि पीड़िता ।
तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम् ।। 3.5 ।।
अशीतिर्यस्य वर्षाणि बालो वाप्यनषोड़शः ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो व्याधित एव च ।। 3.6 ।।
न्यूनैकादशवर्षस्य पञ्चवर्षाधिकस्य च ।
चरेद्‌गुरूः सुहृद्वापि प्रायश्चित्तं विशोधनम् ।। 3.7 ।।
अथवा क्रियमाणेषु येषामार्त्तिः प्रदृश्यते ।
शेषसम्पादनाच्छूद्धिर्विपत्तिनं भवेद्यथा ।। 3.8 ।।
क्षुधा व्याधितकायानां प्राणो येषां विपद्यते ।
येन रक्षन्ति भक्तेन तेषां तत् किल्विषं भवेत् ।। 3.9 ।।
पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणमैर्विना ।
अपूर्णेऽष्वपि कालेषु शोधयन्ति द्विजोत्तमाः ।। 3.10 ।।
समाप्तमिति नो वाच्यं त्रिषु वर्णेषु कर्हिचित् ।
विप्रसम्पादनं कार्य्यमुत्‌पन्ने प्राणसंशये ।। 3.11 ।।
सम्पादयन्ति यद्विप्राः स्नानतौर्थं फलञ्च तत् ।
सम्यक् कर्त्तुरपायं स्याद्‌व्रती च फलमाप्नुयात् ।। 3.12 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे तृतीयोऽध्यायः ।। 3 ।।

चतुर्थीऽध्यायः ।

चाण्डालकूपभाण्डेषु योऽज्ञानात् पिवते जलम् ।
प्रायश्चित्तं कथं तस्य वर्णे वर्णे विधीयते ।। 4.1 ।।
चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः ।
तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ।। 4.2 ।।
भुक्त्वोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा ।
प्रमादात् स्पर्शनं गच्छेत्तत्र कुर्य्याद्विशोधनम् ।। 4.3 ।।
गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ।
जपंस्त्रिरात्रमश्रूलं पञ्चगव्येन शुध्यति ।। 4.4 ।।
चाण्डालेन यदा स्पृष्टो विण्मूत्रे च कृते द्विजः ।
प्रायश्चित्तं त्रिरात्रं स्याद्भुक्तोच्छिष्टः षड़ाचरेत् ।। 4.5 ।।
पानमैथुनसम्पर्के तथा मूत्रपुरीषयोः ।
सम्पर्कं यदि गच्छेत्तु उदक्या चान्त्यजैस्तथा ।। 4.6 ।।
तथैरेव यदा स्पृष्टः प्रायश्चित्तं कथम्भवेत् ।
बोजने च त्रिरात्रं स्यात् पाने तु त्र्यहमेव च ।। 4.7 ।।
मैथुने पादकृच्छ्रं स्यात्तथा मूत्रपुरीषयोः ।
दिनमेकं तथा मूत्रे पुरीषे तु दिनत्रयम् ।। 4.8 ।।
एकाहं तत्र निर्द्दिष्टं दन्तधावनभक्षणे ।। 4.9 ।।
वृक्षारुढ़े तु चाण्डाले द्विजस्तत्रैव तिष्ठति ।
फलानि भक्षयेत्तस्य कथं शुद्धिं विनिर्द्दिशेत् ।। 4.10 ।।
ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ।
एकरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 4.11 ।।
येन केनचिदुच्छिष्टः अमेध्यं स्पृशते द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 4.12 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ।। 4 ।।

पञ्चमोऽध्यायः ।

चाण्डालेन यदा स्पृष्टो द्विजवर्णः कदाचन ।
अनभ्युक्ष्य पिवेत्तोयं प्रायश्चित्तं कथं भवेत् ।। 5.1 ।।
ब्राह्मणस्तु त्रिरात्रेण पञ्चमव्येन शुध्यति ।
क्षत्रियस्तु द्विरात्रेण गञ्चगव्येन शुध्यति ।। 5.2 ।।
चतुर्थस्य तु वर्णस्य प्रायश्चित्तं न वै भवेत् ।
व्रतं नास्ति तपो नास्ति होमो नैव च विद्यते ।। 5.3 ।।
पञ्चगव्यं न दातव्यं तस्य मन्त्रविवर्ज्जनात् ।
ख्यापयित्वा द्विजानान्तु शूद्रो दानेन शुध्यति ।। 5.4 ।।
ब्राह्मणस्य यदोच्छिष्टमश्रात्यज्ञानतो द्विजः ।
अहोरात्रन्तु गायत्र्यां जपं कृत्वा विशुध्यति ।। 5.5 ।।
उच्छिष्टं वैश्यजातीनां भुङ्‌क्तेऽज्ञानाद्द्विजो यदि ।
शङ्खपुष्पीपयः पीत्वा त्रिरात्रेणैव शुध्यति ।। 5.6 ।।
ब्राह्मण्या सह योऽश्रीयादुच्छिष्टं वा कदाचन ।
न तत्र दोषं मन्यन्ते नित्यमेव मनीषिणः ।। 5.7 ।।
उच्छिष्टमितरस्त्रीणामश्रीयात् पिवतेऽपि वा ।
प्राजापत्येन शुद्धिः स्याद्भगवानङ्गिराव्रवीत् ।। 5.8 ।।
अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ।
चान्द्रायणं तदर्द्धार्द्धं ब्रह्मक्षत्रविशां विधिः ।। 5.9 ।।
विण्मूत्रभक्षमे विप्रस्तप्तकृच्छ्रं समाचरेत् ।
श्वकाकोच्छिष्टभोगे च प्राजापत्यविधिः स्मृतः ।। 5.10 ।।
उच्छिष्टः स्मृशते विप्रो यदि कश्चिदकामतः ।
शुनः कुक्कुटशूद्रांश्च मद्यभाण्डं तथैव च ।। 5.11 ।।
पक्षिणाधिष्ठितं यच्च यदमेध्यं कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 5.12 ।।
वैश्येन च यदा स्पृष्ट उच्छिष्टेन कदाचन ।
स्नानं जपञ्च त्रैकाल्यं दिनस्यान्ते विशुध्यति ।। 5.13 ।।
विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।
स्नात्वाचम्य विशुद्धः स्यादापस्तम्बोऽव्रवीन्मुनिः ।। 5.14 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे पञ्चमोऽध्यायः ।। 5 ।।

षष्ठोऽध्यायः ।

अत ऊर्द्धं प्रवक्ष्यामि नीलीवस्त्रस्य यो विधिः ।
स्त्रीणां क्रीड़ार्थसम्भोगे शयनीये न दुष्यति ।। 6.1 ।।
पालने विक्रये चैव तद्‌वृत्तेरूपजीवने ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ।। 6.2 ।।
स्नानं दानं दपो होमः स्वाध्यायः पितृतर्पणम् ।
पञ्चयज्ञा वृथा तस्य नीलीवस्त्रस्य धारणात् ।। 6.3 ।।
नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 6.4 ।।
रोमकूपैर्यदा गच्छेद्रसो नील्यास्तु कर्हिचित् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ।। 6.5 ।।
नीलीदारू यदा भिद्न्याद्‌ब्राह्मणस्य शरीरकम् ।
शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ।। 6.6 ।।
नीलीमध्ये यदा गच्छेत् प्रमादाद्‌ब्राह्मणः क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 6.7 ।।
नीलीरक्तेन वस्त्रेण यदन्नमुपनीयते ।
अभोज्यं तद्द्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ।। 6.8 ।।
भक्षयेद्‌यश्च नीलीन्तु प्रमादाद्‌ब्राह्मणः कचित् ।
चान्द्रायणेन शुद्धिः स्यादापस्तम्वोऽव्रव्रीन्मुनिः ।। 6.9 ।।
यावत्यां वापिता नीलि तावती चाशुचिर्म्मही ।
प्रमाणं द्वादशाब्दानि अत ऊर्द्धं शुचिर्भवेत् ।। 6.10 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे यष्ठोऽध्यायः ।। 6 ।।

सप्तमोऽध्यायः ।

स्नानं रजखलायास्तु चतुर्थेऽहनि शस्यते ।
वृत्ते रजसि गम्या स्त्री नानिवृत्ते कथञ्चन ।। 7.1 ।।
रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्त्तते ।
अशुद्धास्तु न तेनेह तासां वैकारिकं हि तत् ।। 7.2 ।।
साध्वाचारा न सा तावद्रजो यावत्र प्रवर्त्तते ।
वृत्ते रजसि साध्वी स्याद्‌गृहकर्म्मणि चैन्द्रिये ।। 7.3 ।।
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनौ ।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।। 7.4 ।।
अन्त्यजातिश्वपाकेन संस्पृष्टा वै रजस्वला ।
अहानि तान्यतिक्रम्य प्रायश्चित्तं प्रकल्पयेत् ।। 7.5 ।।
त्रिरात्रमुपवासः स्यात् पञ्चगव्यं विशोधनम् ।
निशां प्राप्य तु तां योनिं प्रजाकारञ्च कारयेत् ।। 7.6 ।।
रजस्वलां त्यजेत् स्पृष्टां शुना च श्वपचेन च ।
त्रिरात्रोपोषिता भूत्वा पञ्चगव्येन शुध्यति ।। 7.7 ।।
प्रथमेऽहनि षड़्‌रात्रं द्वितीये तु त्र्यहन्तथा ।
तृतीये चोपवासस्तु चतुर्थे वह्निदर्शनात् ।। 7.8 ।।
विवाहे वितते यज्ञे संस्कारे च कृते तथा ।
रजस्वला भवेत् कन्या संस्कारस्तु कथम्भवेत् ।। 7.9 ।।
स्नापयित्वा तदा कन्यामन्यैर्व्वस्त्रैरलङ्कृतम् ।
पुनः प्रत्याहुतिं हुत्वा शेषं कर्म्म समाचरेत् ।। 7.10 ।।
रजस्वला तु संस्पृष्टा प्लवकुक्कुटवायसैः ।
सा त्रिरात्रोपवासेन पञ्चगव्येन शुध्यति ।। 7.11 ।।
उच्छिष्टेन तु संस्पृष्टा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते विप्रस्तथा दानेन शुध्यति ।। 7.12 ।।
एकशाखासमारुढ़ा चाण्डाली वा रजस्वला ।
ब्राह्मणेन समं तत्र सवासाः स्नानमाचरेत् ।। 7.13 ।।
रजस्वलायाः संस्पर्शः कथञ्चिज्जायते शुना ।
रजोदिनात्तु यच्छेषस्तदुपोष्य विशुध्यति ।। 7.14 ।।
अशक्ता चोपवासे तु स्नानं पश्चात् समाचरेत् ।
तत्राप्यशक्ता चैकेन पञ्चगव्यं पिवेत्ततः ।। 7.15 ।।
उच्छिष्टस्तु यदा विप्रः स्पृशेन्मद्यं रजस्वलाम् ।
मद्यं स्पृष्ट्वा चरेत् कृच्छ्रं तदर्द्धन्तु रजस्वलाम् ।। 7.16 ।।
उदक्यां सूतिकां विप्र उच्छिष्टः स्पृशते यदि ।
कृच्छ्रार्द्धन्तु चरेद्विप्र प्रायश्चित्तं विशोधनम् ।। 7.17 ।।
चाण्डालैः श्वपर्चर्व्वापि आत्रेयी स्पृशते यदि ।
शेषाहात् फालकृष्टेन पञ्चगव्येन शुध्यति ।। 7.18 ।।
उदक्या ब्राह्मणी शूद्रामुदक्यं स्पृशते यदि ।
अहोरात्रोषिता भूत्वा पञ्चगव्येनः शुध्यति ।। 7.19 ।।
एवञ्च क्षत्रियां वैश्यां ब्राह्मणी चेद्रजस्वलाम् ।
सचेलप्लवनं कृत्वा दिनस्यान्ते घृतं पिवेत् ।। 7.20 ।।
स्ववर्णेषु तु नारीणां सद्यः स्नानं विधीयते ।
एवमेव विशुद्धिः स्यादापस्तम्बोऽव्रवीन्मुनिः ।। 7.21 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे सप्तमोऽध्यायः ।। 7 ।।

अष्टमोऽध्यायः ।

भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते ।
सुराविण्मूत्रसंस्पृष्टं शुध्यते तापलेखनैः ।। 8.1 ।।
गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि तु ।
दशभिः क्षारैः शुध्यन्ति श्वकाकोपहतानि च ।। 8.2 ।।
शौचं सुवर्णनारीणां वायुसूर्य्येन्दुरश्मिभिः ।। 8.3 ।।
रेतः स्पृष्टं शवस्पृष्टमाविकन्तु प्रदुष्यति ।
अद्भिर्मृदा च तन्मात्रं प्रक्षाल्य च विशुष्यति ।। 8.4 ।।
शुद्धमन्नमविप्रस्य पञ्चरात्रेण जीर्य्यति ।
अन्नं व्यञ्जनसंयुक्तमर्द्धमासेन जीर्य्यति ।। 8.5 ।।
पयस्तु दधि मासेन पण्मासेन घृतं तथा ।
संवत्सरेण तैलन्तु कोष्ठे जीर्य्यति वा नवा ।। 8.6 ।।
भूञ्जते ये तु शूद्रान्नं मासमेकं निरन्तरम् ।
इह चन्मनि शूद्रत्वं जायन्ते ते मृताः शुनि ।। 8.7 ।।
शूद्रान्नं शूद्रसम्पर्कं शूद्रेणैव सहासनम् ।
शूद्राज् ज्ञानागमः कञ्चिज्ज्वलन्तमपि पातयेत् ।। 8.8 ।।
आहिताग्निस्तु यो विप्रः शूद्रान्नान्न निवर्त्तते ।
तथा तस्य प्रणश्यन्ति आत्मा ब्राह्म त्रयोऽग्नयः ।। 8.9 ।।
शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।
यस्यान्नं तस्य ते पुत्रा अत्राच्छुक्रस्य सम्भवः ।। 8.10 ।।
शूद्रान्नेनीदरस्थेन यः कश्चिन्मियते द्विजः ।
स भवेच्छुकरो ग्राम्यो मृतः श्वा वाथ जायते ।। 8.11 ।।
ब्राह्मणस्य सदा भुङ्‌क्ते क्षत्रियस्य तु पर्व्वणि ।
वैश्यस्य यज्ञदीक्षायां शूद्रस्य न कदाचन ।। 8.12 ।।
अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् ।
वैश्वस्याप्यन्नमेवान्नं शूद्रस्य रूधिरं स्मृतम् ।। 8.13 ।।
वैश्वदेवेन होमेन देवाताभ्यर्च्चनैर्ज्जपैः ।
अमृतं तेन विप्रान्नमृग्यजुः सामसंस्कृतम् ।। 8.14 ।।
व्यवहारानुरुपेण धर्म्मेण च्छलवर्ज्जितम् ।
क्षत्रियस्य पयस्तेन भूतानां यच्च पालनम् ।। 8.15 ।।
स्वकर्म्मणा च वृषबैरनुसृत्यात्मशक्तितः ।
खलयज्ञातिथित्वेन वैश्यान्नं तेन संस्कृतम् ।। 8.16 ।।
अज्ञानतिमिरान्धस्य मद्यपानरतस्य च ।
रूधिरं तेन शूद्रान्नं विधिमन्त्रविवर्जितम् ।। 8.17 ।।
आममांसं मधु घृतं धानाः क्षीरं तथैव च ।
गुड़ं तक्रं समं ग्राह्यं निवृत्तेनापि शूद्रतः ।। 8.18 ।।
शाकं मासं मृणालानि तुम्बुरूः शक्तवस्तिलाः ।
रसाः फलानि पिण्याकं प्रातिग्राह्या हि सर्व्वतः ।। 8.19 ।।
आपत्‌काले तु विप्रेण बुक्तं शूद्रगृहे यदि ।
मनस्तापेण शुध्येत द्रुपदां वा शतं जपेत् ।। 8.20 ।।
द्रव्यपाणिश्च शूद्रेण स्पृष्टाच्छिष्टेन कर्हिचित् ।
तद्द्विजेन न भोक्तव्यमापस्तम्वाऽब्रवौन्मुनिः ।। 8.21 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रेऽष्टमोऽध्यायः ।। 8 ।।

नवमोऽध्यायः ।

भुञ्जानस्य तु विप्रस्य कदाचित् स्रवते गुदम् ।
उच्छिष्टस्याशुचेस्तस्य प्रायश्चित्तं कथं भवेत् ।। 9.1 ।।
पूर्वं शौचन्तु विर्वर्त्त्य ततः पश्चादुपस्पृसेत् ।
आहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। 9.2 ।।
अशित्वा सर्वमेवान्नमकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वा त्रिरात्रन्तु यवान् पीत्वा विशुध्यति ।। 9.3 ।।
प्रमृतं यवशस्येन पलमेकन्तु सर्पिषा ।
पलानि पञ्च गोमूत्रे नातिरिक्तवदाशयेत् ।। 9.4 ।।
अलेह्यानामपेयानामभक्ष्याणाञ्च भक्षणे ।
रेतामूत्रापुरीषाणां प्रायश्चित्तं कथम्भवेत् ।। 9.5 ।।
पद्मादुम्बरविल्वाश्च कुशाश्वत्थपलाशकाः ।
एतेषामुदकं पीत्वा यड़्‌रात्रेण विशुध्यति ।। 9.6 ।।
ये प्रत्यवसिता विप्राः प्रव्रज्याग्निजलादिषु ।
अनाशकनिवृत्ताश्च गृहस्यत्वं चिकीर्षतः ।। 9.7 ।।
चप्युस्त्रीर्णि कृच्छ्राणि त्रीणि चान्द्रायणानि वा ।
जातकर्म्मादिभिः सर्वैः पुनः संस्कारभागिनः ।
तेषां सान्तपनं कृच्छ्रं आन्द्रायणमयापि वा ।। 9.8 ।।
यद्वेष्टितं काकवलाकचिल्ले रमेध्यलिप्तञ्च भवेच्छरीरम् ।
श्रोत्रे मुखे च प्रविशेच्च सम्यक् स्नानेन लेपोपहतस्य शुद्धिः ।। 9.9 ।।
ऊर्द्धं नाभेः कगौ मुक्त्वा यदङ्गमुपहन्यते ।
ऊर्द्धं स्नानमधः शौचं मार्जनेनैव शुध्यति ।। 9.10 ।।
उपानहावमेध्यं वा यस्य संस्पृशते सुखम् ।
मृत्तिकाशोधनं स्नानं पञ्चगव्यं विशोधनम् ।। 9.11 ।।
दशाहाच्छुध्यते विप्रो जन्महानौ खयोनिषु ।
षड़्‌भिस्त्रिभिरथैकेन क्षत्रविटशूद्रयोनिषु ।। 9.12 ।।
उपनीतं यदा त्वन्नं भोक्तारं समुपस्थितम् ।
अपीतवन् समुत्‌सृष्टं न दद्यान्नैव होमयेत् ।। 9.13 ।।
अन्ने भोजनसन्पन्ने मक्षिकाकेशदूषिते ।
अनन्तरं स्पृशेदापस्तच्चन्नं भस्मना स्पृशेत् ।। 9.14 ।।
शुष्कमांसमयञ्चान्नं शूद्रान्नं वाप्यकामतः ।
भुक्त्वा कृच्छ्रं चरेद्विप्रो ज्ञानात् कृच्छ्रत्रयं चरेत् ।। 9.15 ।।
अभुक्ते मुञ्चते यश्च भुञ्जन यञ्चापि मुच्यते ।
भाक्ता च भोजकश्चैव षङ्‌तथा गच्छति दुष्कृतम् ।। 9.16 ।।
यच्च भुङ्‌क्ते तु भुक्तं वा दुष्टं वापि विशेषतः ।
अहोरात्राषितो भूत्वा पञ्चगव्येन शुध्यति ।। 9.17 ।।
उदके चोदकस्यस्तु स्थलस्थश्च स्थले शुचिः ।
पादौ स्थाप्योभयत्रैव आचम्योभयतः शुचिः ।। 9.18 ।।
उत्तौर्य्याचम्य डदकादवतौर्य्य उपस्पृशेत् ।
एवन्त श्रेयसा युक्तो वरूणेनाभिपूज्यते ।। 9.19 ।।
अग्न्यागारे गवां गोष्टे ब्राह्मणानाञ्च सन्निधौ ।
स्वाध्याये भोजने चैव पादुकानां विसर्जनम् ।। 9.20 ।।
जन्मप्रभृति-संस्कारे श्मशानान्ते च भोजनम् ।
असपिण्डेर्न कर्त्तव्यं चूड़ाकार्य्ये विशेषतः ।। 9.21 ।।
याजकान्नं नवश्राद्धं संग्रहे चैव भोजनम् ।
स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ।। 9.22 ।।
ब्रह्मौदने च श्राद्धे सीमन्तोन्नयने तथा ।
अन्नश्राद्धे मृतश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ।। 9.23 ।।
अप्राजाता तु नारी स्यान्नाश्रीयादेव तद्‌गृहे ।
अत भुञ्जीत मोदाद् यः पूयसं नरकं व्रजेत् ।। 9.24 ।।
अल्पेनापि हि शुल्केन पिता कन्यां ददाति यः ।
रौरवे बहुवर्षाणि पुरौषं मूत्रमश्रुते ।। 9.25 ।।
सीधनानि च ये मोहादुपजीयन्ति बान्धवाः ।
स्वर्गं यानानि वस्त्राणि ते पापा यान्त्यधोगितम् ।। 9.26 ।।
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्च्चसम् ।
असंस्कुतन्तु यो भुङ्‌क्ते स भुङ्‌क्ते पृथिवीमलम् ।। 9.27 ।।
मृतके सूतके चैव गृहीते शशिभास्करे ।
हस्ति च्छायान्तु यो भुङ्‌क्ते पापः स पुरूषो भवेत् ।। 9.28 ।।
पुनर्भूः पुनरेता च रेतोधाः कामचारिणी ।
आसां प्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ।। 9.29 ।।
मातृघ्नश्च पितृघ्नश्च ब्रह्मघ्नो गुरूतल्पगः ।
विशेषाद्भक्तमेतेषां भुक्त्वा चान्द्रायणं चरेत् ।। 9.30 ।।
रजकव्याधशैलूषवेणुचर्म्मोपजीविनाम् ।
भुक्त्वैषां ब्राह्मणश्चान्नं शुद्धिं चान्द्रायणेन तु ।। 9.31 ।।
उच्छिष्टोच्छिष्टसंस्पृष्टं शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।। 9.32 ।।
ब्राह्मणस्य सदाकालं शूद्रप्रेषणकारिणः ।
भूमावन्नं प्रादतव्यं यथैव श्वा तथैव सः ।। 8.33 ।।
अनुदकेष्वरण्येषु चौरव्याघ्राकुले पथि ।
कृत्वा मूत्रं पुरीषञ्च द्रव्यहस्तः कथं शुचिः ।। 9.34 ।।
भूमावन्नं प्रतिष्ठाप्य कृत्वा शौचं यथार्हतः ।
उत्‌मङ्गे गृह्य पक्वान्नमुपस्पृश्य ततः शुचिः ।। 9.35 ।।
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वा त्रिरात्रन्तु गव्यं पीत्वा विशुध्यति ।। 9.36 ।।
उदक्यां यदि गच्छेत्तु ब्राह्मणो मदमोहितः ।
चान्द्रायणेन शुध्येत ब्राह्मणानाञ्च भोजनैः ।। 9.37 ।।
मुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा ।
प्रमादाद्यदि संस्पृष्टो ब्राह्मणो ज्ञानदुर्व्वलः ।। 9.38 ।।
स्नात्वा त्रिषवणं नित्यं ब्रह्मचारी धराशयः ।
स त्रिरात्रोभिदानो भूत्वा पञ्चगव्येन शुध्यति ।। 9.39 ।।
चण्डालेन तु संस्पृष्टो यश्चापः पिवति द्विजः ।
अहोरात्रोषितो भूत्वा त्रिषवणेन शुध्यति ।। 9.40 ।।
सायं प्रातस्त्वहोरात्रं पादं कृच्छ्रस्य तं विदुः ।
सायं प्रातस्यथैवेकं दिनद्वयमयाचितम् ।। 9.41 ।।
दिनद्वयञ्च नाश्रीयात् कृच्छ्रार्द्धं तद्विधीयते ।
प्रायश्चित्तं लघु ह्येतत्र्यायेषु तु यथार्हतः ।। 9.42 ।।
कृष्णजिनतिलग्राही हस्तश्वानाञ्च विक्रयी ।
प्रेतनिर्यातकश्चैव न भूयः पुरूषो भवेत् ।। 9.43 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे नवमोऽध्यायः ।। 9 ।।

दशमोऽध्यायः ।

आचान्तोऽप्यशुचिस्तावद्यावन्नोद्धियते जलम् ।
उद्धृतेऽप्यशुचिस्तावद्यावद्भूमिर्न लिप्यते ।। 10.1 ।।
भूमावपि च लिप्तायां तावत् स्यादशुचिः पुमान् ।
आसनादुत्थितस्तस्माद् यावन्नाक्रमते महीम् ।। 10.2 ।।
न यमं यममित्याहुरात्मा वै यम उच्यते ।
आत्मा संयमितो येन तं यमः किं करिष्यति ।। 10.3 ।।
न तथासिस्तथा तीक्ष्ण सर्पो वा दुरधिष्ठितः ।
यथा क्रधो हि जन्तूनां शरीरस्थो विनाशकः ।। 10.4 ।।
क्षमा गुणो हि जन्तुनामिहामूत्र सुखप्रदः ।
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ।। 10.5 ।।
न शक्तिशास्त्राभिरतस्य मोक्षो न चैव रम्यावमथप्रियस्य ।
न भोजनाच्छादनतत्परस्य एकान्तशीलस्य दृढ़व्रतस्य ।। 10.6 ।।
मक्षो भवेत् प्रोतिनिवर्त्तकस्य अध्यात्मयोगैकरतस्य सम्यक् ।
मोक्षो भवेन्नित्यमहिंसकस्य स्वाध्याययोमागमानसस्य ।। 10.7 ।।
क्रोधयुक्तो यद्यजते यज्जुहोति यदर्च्चति ।
सर्व्व हरति तत् तस्य आमकुम्भ इवादकम् ।। 10.8 ।।
अपमानात्तपीवृद्धिः सम्बानात्तपसः क्षयः ।
अर्च्चितः पूजितो विप्रो दुग्धा गौरिव सोदति ।। 10.9 ।।
आप्यायते यथा धेनुस्तृणैरमृतसम्भवैः ।
एवं जपैश्च होमैश्च पुण्यैराप्यायते द्विजः ।। 10.10 ।।
मातृवत् परदारांश्च परद्रव्याणि लोष्ट्रवत् ।
आत्मवत् सर्व्वभूतानि यः पश्यति स पश्यति ।। 10.11 ।।
रजकव्याधशैलूषवेणुचर्म्मोपजीविनाम् ।
यो भुङ्‌क्ते भक्तमेतेषां प्राजापत्यं विशोधनम् ।। 10.12 ।।
अगम्यागमनं कृत्वा अभक्षस्य च भक्षणम् ।
शुद्धि चान्द्रायणं कृत्वा अथवोक्तं यथैव च ।। 10.13 ।।
अग्निहोत्रं त्यजेद्यस्तु स नरो वीरहा भवेत् ।
तस्य शुद्धिर्बिधातव्या नान्या चान्द्रायणदृते ।। 10.14 ।।
विवाहोत्स यज्ञेषु अन्तरामृतसूतके ।
सद्यः शुद्धिं विजानीयात् पूर्व्वं सङ्क्षल्पितं चरेत् ।। 10.15 ।।
देवद्रोण्यां विवाहेषु यज्ञेषु प्रततेषु च ।
कल्पितं सिद्धमन्त्राद्यं नाशौचं मृतसूतके ।। 10.16 ।।
इत्यापस्तम्बीये धर्म्मशास्त्रे दशमोऽध्यायः ।। 10 ।।


*************-------------
"https://sa.wikisource.org/w/index.php?title=आपस्तम्बसंहिता&oldid=399599" इत्यस्माद् प्रतिप्राप्तम्