आग्निवेश्यगृह्यसूत्रम्/प्रश्नः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमः प्रश्नः

उपनयनं व्याख्यास्यामः सप्तमे वर्षे ब्राह्मणमुपनयीतैकादशवर्षे राजन्यं द्वादशे वर्षे वैश्यम् । वसन्ते ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अशितस्य कुमारस्य केशान् वापयित्वा स्नातयलङ्कृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवने प्रागुदक्प्रवणे समे वा देशे उद्धत्यावोक्ष्य सिकताभिः स्थण्डिलं कृत्वोल्लिख्याग्निं मथित्वा लौकिकं वाहृत्य निधाप्योपसमादधाति । प्रागग्रैर्दर्भैः परिस्तृणात्यपिवोदगग्राः पश्चात् पुरस्ताच्च भवन्ति । दक्षिणानुत्तरान् करोत्युत्तरानधरान् यदि प्रागुदगग्राः । दक्षिणेनाग्निं ब्रह्मायतने दर्भान् सँस्तीर्य मयि गृह्णामि यो नो अग्निः इति द्वाभ्यामात्मानमग्निं गृहीत्वोत्तरेणाग्निं दर्भान् सँस्तीर्याथास्य द्रव्याणि प्रयुनक्ति । अश्मानमहतं वासोऽजिनं मौञ्जीमेखलां त्रिवृतां ब्राह्मणस्य ज्यां राजन्यस्य आविकं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्यैकविंशतिदारुमिध्ममस्येत्याहुतिपरिमाणं वा । एतस्मिन् शम्याः परिधीनिध्म उपसन्नह्यति । दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयं येन चान्यानि प्रोक्ष्यते तच्च सकृदेवसर्वाणि यथोपपदं वा एतस्मिन् काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं दक्षिणातिक्रम्य ब्रह्मासनात् तृणं निरस्याप उपस्पृश्याग्निमभिमुखमुपविशति । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रे पवित्रे कृत्वा अन्येन नखाच्छित्त्वाद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वा उदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्य यथा पुरस्ताद् बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति । दर्वीं निष्टप्य सम्मृज्य पुनर्निष्टप्य निदधाति । समाग्रानभ्युक्ष्याग्नावादधाति । आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य अवद्योत्य दर्भतृणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वा उदगुद्वास्याङ्गारान् प्रत्यूह्य उदगग्राभ्यां पवित्राभ्यां पुनराहार माज्यं त्रिरुत्पूय पवित्रे अग्नावादधाति । शम्याभिः परिधिभिः परिदधात्यपरेणाग्निजुदीचीनकुम्भां मध्यमां निदधाति । दक्षीणेनाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् उत्तरेणाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् अपरेणाग्निं प्राङ्मुख उपविशति । दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते । अथ परिषिञ्चति । अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुयन्यस्व इति उत्तरतः प्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्येध्यमाज्येनाभ्यज्याभ्यादधाति । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इति अथ दर्व्या जुहोति । उत्तरं परिधिसन्धिमन्ववहृत्य प्रजापतये यनसे स्वाहा इति मनसा ध्यायन् दक्षिणाप्राञ्चमुदञ्चमृजुं सन्ततं जुहोति । दक्षिणं परिधिसन्धिमन्ववहृत्य इन्द्राय स्वाहा इति प्राञ्चमुदञ्चमृजुम् आघारावाघार्याज्यभागौ जुहोति । अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे । सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे । तावन्तरेणेतराहुतीर्जुहोति । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारयाग्नौ सँराधन्यै यजे स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा इति । सर्वदर्वीहोमानामेष कल्पः १
मन्त्रान्ते नित्यः स्वाहाकारोऽमन्त्रास्वमुष्मै स्वाहेति । यथादैवतम् भूर्भुवस्स्वरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च । आयुर्दा अग्न इत्येषः । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिवन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति । इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः अयासन् हव्यमूहिषे अयानो धेहि भेषजं स्वाहा । प्रजापतय इत्येषा । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धेऽसंसक्तामितराभिराहुतिभिर्जुहोति । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युयजुह्वति पुरस्तात् स्विष्टकृतः । चित्तं च स्वाहा चित्तिश्च स्वाहा । इति जयाञ्जुहोति । चित्ताय स्वाहा । चित्तये स्वाहा इति वा । अग्निर्भूतानामधिपतिस्स मावतु इत्यभ्यातानान् । अस्मिन् ब्रह्मन्नस्मिन् क्षत्र इत्यभ्यातानेष्वनुयुञ्जति । पितरः पितामहाः परेऽवरे इति प्राचीनावीती जुहोत्युपतिष्ठति । ऋताषाड् ऋतधामा इति राष्ट्रभृतः । पर्यायमनुद्रुत्य तस्मै स्वाहा इति पूर्वामाहुतीं जुहोति । ताभ्यस्स्वाहा इत्युत्तराम् । अग्रेणोत्तरं परिधिसन्धिमश्मानं निधाय दक्षिणेन पादेन कुमारमास्थापयति आतिष्ठेममश्मानमश्मेव त्वँ स्थिरो भव । प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । इत्येतेन । अहतं वासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व इति । परिधाप्याभिमन्त्रयते परीदं वासो अधिता स्वस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन् ॥ इत्येनं मेखलया त्रिः प्रदक्षिणं परिदधाति । द्विरित्येके । या दुरितात् परिबाधमाना शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानां सुभगा मेखलेयम् । इत्युत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति । अथास्मा अजिनमुत्तरीयं करोति । मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधत्स्व । असावदितिस्ते कक्ष्यां वध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय इति । कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य वस्ताजिनं वैश्यस्य । अथैनं परिददाति । परीयमिन्द्रं ब्रह्मणे महे श्रोत्राय दध्यसि । यथैनं जरिमाणे यो ज्योक् श्रोत्रे अधिजागरत् । इति ब्राह्मणम् । परीममिन्द्रं ब्रह्मणे महे राष्ट्राय दध्मसि । यथैनं जरिमाणे यो ज्योग्राष्ट्रे अधिजागरत् । इति राजन्यम् । परीममिन्द्रं ब्रह्मणे महे पोषाय दध्मसि । यथैनं जरिमाणे यो ज्योक् पोषे अधिजागरत् । इति वैश्यम् अप्रेणाग्निमुदञ्चम् उपवेश्याहुतोच्छेषं प्राशयति । त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । इत्येतैः सन्नद्धैः । पृषदाज्यमेके प्राशयति । योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि इति प्राश्नन्तं समीक्षते । प्राशयत्येके । आचान्तमुपस्पर्शयित्वाभिमन्त्रयते शतमिन्नु शरदो अन्ति देवा यत्रानश्चक्रा जरसम् तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । इति २
आगम्त्रा समगन्महि प्रसुमृत्युं युयोतन । अरिष्टास्सञ्चरेमहि स्वस्ति चरतादिह स्वस्त्या गृहेभ्यः इति प्रदक्षिनमग्निम् परिक्रामन्तमभिमन्त्रयते । अथैनमभिव्याहारयति ब्रह्मचर्यमागाम् उप मा नयस्व । ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः इति । तं पृच्छति । को नामासि इति । असौ इत्याचष्टे यथानामा भवति । स्वस्ति देव सवितरहं येनामुना ऋचमधीय इति नाम निगृह्णाति । शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः इत्यद्भिर्मार्जयते ३
अथास्य दक्षिणेन हस्तेन दक्षिणमंसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमध्यास्य न्नुपनयते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यामुपनयेऽसौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निस्ते हस्तमग्रहीत् । सोमस्ते हस्तमग्रहीत् । सविता ते हस्तमग्रहीत् । सरस्वती ते हस्तमग्रहीत् । पूषा ते हस्तमग्रहीत् । बृहस्पतिस्ते हस्तमग्रहीत् । मित्रस्ते हस्तमग्रहीत् । वरुणस्ते हस्तमग्रहीत् । त्वष्टा ते हस्तमग्रहीत् । धाता ते हस्तमग्रहीत् । विष्णुस्ते हस्तमग्रहीत् । प्रजापतिस्ते हस्तमग्रहित् । इति मन्त्रैर्दक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं प्रतिमन्त्रं गृह्णाति । सविता त्वाभिरक्षतु । मित्रस्त्वमसि शर्मणा । अग्निराचार्यस्तव । देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासौ । अपोऽशान सपिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः इत्येनं संशास्ति ॥ अथास्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपरि अन्ववमृश्य हृदयदेशमभिमृशति मम हृदयं हृदयं ते अस्तु । मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व । बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसंगृहस्व । मयि चित्तानि सन्तु ते । मयि सामीच्यमस्तु ते । मह्यं वाचं नियच्छतात् । इति । प्राणानां ग्रन्थिरसि । स मा विस्रस इति नाभिदेशम् । भूर्भुवःस्वःसुप्रजाः प्रजया भूयासम् । सुवीरो वीरैः सुवर्चा वर्चसा सुपोषा पोषैः सुमेधाः मेधया सुब्रह्मा ब्रह्मचारिभिः । इत्येनमभिमन्त्र्य भूरृक्षु त्वा अग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽसौ । भुवो यजुष्षु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽसौ । स्वस्सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽसौ । विष्णुतस्ते प्रियोऽसान्यसौ । अनलस्य ते प्रियोऽसान्यसौ । इदं वत्स्यावः । प्राण आयुषि वत्स्यावः । प्राण आयुषि वसासौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतोदधाद् इति दक्षिणे कर्णे जपित्वा । आयुर्दा अग्न इत्युत्तरे । अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि याँ स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसञ्चरन्ति तां स्वस्तिमनुसञ्चरासौ प्राणस्य ब्रह्मचार्य
भूरसौ इत्युभयत्रानुषजति ।
मेधां म इन्द्रो दधातु मेधां देवी सरस्वती
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ
इति तस्य मुखेन मुखं सन्निधाय जपति । अथैनं परिददाति कशकाय त्वा
परिददामि । अन्तकाय त्वा परिददामि । अघोराय त्वा परिददामि । यमाय त्वा परिददामि । गदाय त्वा परिददामि । मखाय त्वा परिददामि । वशिन्यै त्वा परिददामि । पृथिव्यै त्वा सवैश्वानरायै परिददामि । अद्भ्यस्त्वा परिददामि । ओषधीभ्यस्त्वा परिददामि । वनस्पतिभ्यस्त्वा परिददामि । विश्वेभ्यस्त्वा भूतेभ्यः परिददामि । सर्वेभ्यस्त्वा देवेभ्यः परिददामि । सर्वाभ्यस्त्वा देवताभ्यः परिददामि । अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति । यद्यनुपेतस्त्र्यहे पर्यपेते । सद्यः पुष्करसादिः । अप्रेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । आदित्यायाञ्जलिं कृत्वा आचार्यम् उपसंगृह्य दक्षिणतः कुमार उपविश्य अधीहि भोः इत्युक्त्वा । अथासौ सावित्रीं भो अनुब्रूहि इति । गणानां त्वा गणपतिँ हवामह इत्येनमभिमन्त्र्य अथास्मै पच्छोऽग्रेऽन्वाहाथार्धर्चशोऽथ सन्तताम् । भूः तत् सवितुर्वरेण्यम् । भुवः भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः स्वः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् इति ३
अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रा घृताक्ता अभ्याधापयति । अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इत्येकाम् । अग्नये समिधौ इति द्वे । अग्नये समिध इति चतस्रः । अथ परिषिञ्चति यथा पुरस्ताद् अन्वमंस्थाः मासावीः इति मन्त्रान्तान् सन्नमयति । अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्यग्निं वायो व्रतपत इति वायुम् आदित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । अत्र गुरवे वरं ददाति । उदायुषा इत्युत्थाप्य सूर्यैष ते पुत्रस्तं ते परिददामि इति परिदाय तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतम् । जीवेम शरदश्शतम् । नन्दाम शरदश्शतम् । मोदाम शरदश्शतम् । भवाम शरदश्शतम् । शृणवाम शरदश्शतम् । प्रब्रवाम शरदश्शतम् । अजीताः स्याम शरदश्शतम् । ज्योक् च सूर्यं दृशे इत्यादित्यमुपतिष्ठते । अग्निष्ट आयुः प्रतरां कृणोतु । अग्निष्टे पुष्टिं प्रतरां दधातु । इन्द्रो मरुद्भिरिह ते ददातु । आदित्यस्ते वसुभिरादधातु । इति दण्डं प्रदायामत्रं प्रयच्छति । अथाह भिक्षाचर्यं चर इति । स मातरमेवाग्रे भिक्षेत । अतोऽन्येषु रातिकुलेष्वाहृत्य भैक्षमिति प्राह । यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुवृधो वर्धमानमनुजायन्तां बहवस्सुजातम् इति प्रथमवास्यमस्यादत्ते । उपस्थितेऽन्न ओदनस्पापूपानां सक्तूनां समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा इति । सर्वत्रैवमनादिष्टदेवतममुष्मै स्वाहा अमुष्मै स्वाहेति । यथादैवतमादिष्टदैवतम् । एतेषामेवासां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहा इति । त्रिवृता अन्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिं वाचयित्वा त्र्यहव्रतं चरत्यक्षारलवणमशमीधान्यं भुञ्जानः अधश्शायी अमृण्मयपायी अशूद्रोच्छिष्टमधुमांसाशी अदिवास्वापी उभौ कालौ भिक्षाचर्यमुदकुम्भमित्याहरन्नहरहः काष्ठकलाम् । उभौ कालौ सायं सायं वा समिधोऽभ्यादधाति । यथाह तद्वसवो गौर्यम् इति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति । यथा पुरस्ताद्व्याहृतीभिः समिधोऽभ्यादधागि एकैकशः समस्ताभिश्च । एषा ते अग्न समित्तया वर्धस्व चाप्यायस्व वर्धिषिमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो दधातु मेधां देवी सरस्वती । मेधां मे अश्विनावुधावाधत्तां पुष्करस्रजौ स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्तां स्वाहा इति । तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् । यत्ते अग्ने तेज इत्येतैः मन्त्रैः उपतिष्ठते मयि मेधां मयि प्रजाम् इति च । त्र्यहे पर्यपेते तथैव त्रिवृतान्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैर्मन्त्रैः । एतद् व्रतमेवात ऊर्ध्वम् आचार्यकुलवास्य श्नात्यक्षारलवणमशमीधान्यमिति । दण्डी जटी मेखली शिखाजटो वा स्यात् । काषायमजिनं वा वस्ते न स्त्रियमुपैत्यष्टाचत्वारिंशद्वर्षाणि द्वादश यावद्ग्रहणं वा न त्वेवाव्रतः स्यात् । काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति काण्डर्षिद्वितीयम् इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अथैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ४
उपनयनं मन्त्रान्त आगन्त्रासमगन्महि
अयसप्त चत्वारि
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने प्रथमोऽध्यायः

द्वितीयोऽध्यायः

श्रवणापक्षस्य ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म । अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति प्रजापतये काण्डऋषये स्वाहा । सोमाय काण्डऋषये स्वाहा । अग्नये काण्डऋषये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा । स्वयम्भुवे काण्डऋषये स्वाहा इति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदम् अथर्ववेदं सदसस्पतिमिति हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । अथातः काण्डान्युच्यन्ते पौरोडाशिकं याजमानं होतारं हौत्रं पितृमेधमिति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि । आध्वर्यवं ग्रहदाक्षिणानि समिष्टयजूंषि अवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि । आग्न्याधेयं पुनराधेयम् अग्निहोत्रमग्न्युपस्थानं सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजमारुणकेतुकमाग्निकमिति सब्राह्मणानि सानुब्राह्मणान्याग्नेयानि । राजसूयं पशुबन्धा इष्टयो नक्षत्रेष्टयो वा दिवश्श्येनयोऽपाघाः सात्रायण उपहोमाः सूक्तान्यौपानुवाक्यायाज्याश्वमेधपुरुषमेधसौत्रामण्यच्छिद्राणि पशुहौत्रम् उपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि । स्वायंभुवं स्वाङ्काङ्के पठितो विधिरिति स्वयंभूश्चात्र दैवतं सर्वभूतपतिरिति । अथ कारीरिव्रतं चतूरात्रमक्षारलवणमशमीधान्यं भूमौ भुञ्जीत पशुवदिति । अथ कारीरिर्णां मारुतं देवा वसव्या अग्ने मारुतमिति देवाश्शर्मण्या इत्याद्यौषध्यनुवाकमधीयानो नात्र भुञ्जीत पशुवदिति । अथ कारीराव्रतम् युञ्जानः प्रथममारभ्य औषध्यनुवाकं प्रथममधीयानो नात्र भूमौ भुञ्जीत पशुवदिति यदि वा क्रममधीयानः १
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । सगणाः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखाः सुखावगाहास्तदवगाह्याघमर्षणेन त्रीन् प्राणायामान् धारयित्वा सपवित्रैः पाणिभिः आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयन्ते । स्नात्वा दर्भानन्योन्यस्मै सम्प्रयच्छन्तो दित्सन्त इवान्योन्यम् । ततः शुचौ समे देशे प्राचीनप्रवणे प्रागग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मणे प्रजापतयेऽग्नये वायवे सोमाय सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्यो ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति देवगणानाम् । विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः काश्यप इत्येते सप्त ऋषयः । निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय काश्यपाय । वसिष्ठकाश्यपयोरन्तराळे अरुन्धत्यै कल्पयन्ति । दक्षिणत एकवेद्यन्ते अगस्त्याय कल्पयन्ति । उत्तरतः कृष्णद्वैपायनाय जतुकर्णाय तरुक्षाय तृणविन्दवे वर्मिणे वरूथिने वाजिने श्रवसे सत्रश्रवसे सुश्रवसे स्तुतश्रवसे सोमशुष्मायणाय सनत्वानाय बृहदुक्थाय वामदेवाय वाजराज्ञाय हरितराज्ञाय उदमायाय गौतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय सत्यंजयाय वभ्रवे त्रिवर्णाय त्रिवर्षाय त्रिधातवे पराशराय विष्णवे रुद्राय स्कन्दाय काशीश्वराय जराय धर्माय अर्थाय कामाय क्रोधाय वसिष्ठाय इन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे विधात्रे मृत्यवे सवित्रे सावित्र्यै ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणेभ्य इति । दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनाय फलिङ्गवे तित्तिरायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्यो ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति । स्वं स्वं पितृभ्यः पितामहेभ्यः मातृभ्यः पितामहीभ्यः प्रपितामहीभ्यः मातामहेभ्यो मातुः पितामहेभ्यो मातुः प्रपितामहेभ्यो मातामहीभ्यो मातुः पितामहीभ्यो मातुः प्रपितामहीभ्यः कल्पयाम्यमुं कल्पयाम्यमुं कल्पयामीत्यासनेन अमुं तर्पयामि अमुं तर्पयामीत्युदकेन अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः अमुष्मै स्वाहा अमुष्मै स्वाहेत्यन्नेन अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति फलोदकेनामुष्मै नमोऽमुष्मै नमोऽमुष्मै नम इत्युपस्थायापरेण वेदिं स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति हुत्वा प्रथमोत्तमानुवाकावधीते काण्डादीन् वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । काण्डात्काण्डात् प्ररोहन्ती इति द्वाभ्याम् उदकान्ते दूर्वी रोपयेत् । उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशम् आतमितोराजिं धावन्ति । प्रत्येत्यापूपैः सक्तुभिरोदनेन ब्राह्मणांश्च तर्पयन्ति । एवं पारायणसमाप्तौ काण्डादिदूर्वारोपणान्तमुदधिधावनवर्जं नित्यमेवाद्भिर्देवानृषीन् पितॄंश्च तर्पयन्ति तर्पयन्ति २
अथातोऽवान्तरदीक्षां व्याख्यास्यामः । उदगयनापूर्यमाणपक्षे पुण्ये नक्षत्रे केशान् वापयित्वा स्नात्वाशित्वा अग्निमौदुम्बरीश्चतस्रः समिधोऽहतं वासो दर्भानाज्यं च उदकुम्भमित्येतान् समादाय बहिर्ग्रामाद् उत्तरां दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वां शान्तिं कुत्वाथ परिषिच्याभ्यज्य समिधोऽभ्यादधाति पृथिवी समित् इत्येताभिश्चतसृभिः । अथ परिषिच्य अग्ने व्रतपते शुक्रियेभ्यो व्रतं चरिष्यामि इति देवता उपस्थाप्याहतेन वाससा शिरः समुखमभिवेष्टयति चितः स्थ परिचितः परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः । इन्द्रस्य स्यूरसि इन्द्रस्य ध्रुवमसि ऐन्द्रमसि इन्द्राय त्वा इत्युत्तरां शान्तिं कृत्वा वाचो यम्य ग्रामं प्रविशति । तिष्ठन्नासीनो वा जागरणम् । अथ श्वोभूते एतामेव दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वां शान्तिं कृत्वा वयः सुपर्णा इति विसृज्य वास आदित्यमुपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगाद् इति । एताननुवीक्षयन्त्यग्निमादित्यमश्मानमुदकुम्भं हिरण्यं गां भूमिमिति । उत्तरां शान्तिं कृत्वा संवत्सरं व्रतं चरति द्वादशरात्रमेकाहं वा । अष्टम्यां पर्वणि कालस्नानम् । अथ यद्यमेध्यं पश्येद् अबद्धं मनो दरिद्रम् इति अथ यद्यभिवर्षेयुः उन्दतीर्बलं धत्त इति जपति । अधश्शय्या गुरुशुश्रूषा । शुक्रियाण्यधीयीत । एतामेव दिशमुपनिष्क्रम्याछदिर्दर्शेऽग्निमुपसमाधाय परिस्तीर्य मदन्तीरधिश्रित्य पूर्वो शान्तिं कृत्वा द्यौः समिद् इत्येताभिश्चतसृभिः औदुम्बरीः समिध आधायाथ परिषिच्य आदित्य व्रतपते शुक्रियेभ्यो व्रतमचारिषम् इत्येताभिर्देवता उपस्थाय गुरवे गां ददाति । उत्तरां शान्तिं कृत्वा व्रतसमाप्तो भवति ३
श्रवणापक्षस्य
तैषीपक्षस्य अथातोऽवान्तरदीक्षा त्रीणि
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

वेदमधीत्य स्नास्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं च क्षुरं च पालाशीं च समिधं दारूणि चोपस्तरणं वृकलांश्च दन्तधावनं च शीताश्चोष्णाश्चापः सर्वसुरभिपिष्टं चन्दनं चाहतं वासः सान्तरं च प्रावारं वादरमणिं स्वर्णोपहितं सूत्रम् च प्रवर्तौ चाज्यं च दर्वी च मालां चादर्शं चाञ्जनं च दण्डं च छत्रं चोपानहौ चानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । स्नानस्य मीमांसा । रोहिण्यां स्नायादित्येकम् । प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्ये एव नक्षत्रे स्नातं भवति अथो सर्वान् रोहान् रोहति इति । तिष्ये स्नायादित्येकम् । बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवति अथो बृहस्पतिप्रसूतोऽसानि इति । उत्तरयोः फल्गुन्योः स्नायादित्येकम् । भगस्य वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नार्तं भवति अथो भग्योऽसानि इति । हस्ते स्नायादित्येकम् । सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवति अथो सवितृप्रसूतोऽसानि इति । चित्रायां स्नायादित्येकम् । ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे स्नातं भवति अथो चित्रोऽसानि इति । विशाखायोः स्नायादित्येकम् । ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवति अथो विशाखोऽसानीति प्रजया पशुभिः इति । एतेषाम् एकतमस्मिन् नक्षत्रे १
पुरादित्यस्योदयाद् व्रजं प्रपद्येत । नैनमेतदहरादित्योऽभितपेत् । तदहःस्नातानां मुखं वा एतत्तेजसा यशसा तपति । अन्तर्लोम्ना चर्मणा व्रजमभिनिघ्नते तम् । पूर्वार्धे व्रजस्याग्निमुपसमाधाय अथाहरेदेतान् सम्भारान् सकृदेव सर्वान् यत् सह सर्वाणि मानुषाणि इत्येततस्माद् ब्राह्मणात् । परिस्तीर्योत्तरतः पालाशीं समिधमुपसाद्य दक्षिणतो नापितस्तिष्ठति । आमध्यन्दिनं भिक्षां दद्यात् । अपीह गां पचेद् वशा चेत् स्याद् अत्रैताम् । पालाशीं समिधमाज्येनाक्त्वा मध्यन्दिनेऽभ्यादधाति इमं स्तोममर्हते जातवेदसे रधमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा इति अथापरेणाग्निमुदीचीप्रतिषेवणामेरकामास्तृणाति । तस्यामुदीचीनशिरा निपद्यते त्र्यायुषं कश्यपस्यागस्त्यस्य त्र्यायुषं जमदग्नेस्त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् इति । उद्यमानमनुमन्त्रयते शिवा मे भव शङ्करा इति । क्षुरमनुमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः इति उप्यमानमनुमन्त्रयते यत्क्षुरेण वृश्चयसि वप्ता वपसि केशश्मश्रु वर्चया मे मुखं मा म आयुः प्रमोषीः इति । श्मश्रूण्यग्रे वप्त्वाथोपपक्षावथ केशान् यथोपपादमङ्गानि । तद्ध्येषा जरसा पूर्वा आयुषे प्रयान्ति । पूर्वायुषेऽन्नादा भवन्ति । यस्मादेवं विद्वांसो लोमानि वपन्ते तस्मान्नु हेत्यु विद्वान् काममेव लोमानि वापयेत् । कामं नु नखानि निकृत्य लोमानि वापयेत् । स यदि लोमानि वापयिष्यमाणो भवति तानि ब्रह्मचारिणे प्रयच्छन्नाह इमानि प्राचीं हृत्वा गोष्ठे वा दर्भस्तम्बे वा निधत्ताद् इति । तानि स निदधाति २
अथापरेणाग्निं प्रागुपविश्य मेखलां विस्रंसयति इमं विष्यामि वरुनस्य पाशम् इति । स यस्तत्र रातिः स्यात् तस्मै प्रयच्छन्नाह इमां प्राचीं हृत्वा न्यग्रोधे वौदुम्बरे वा निधत्ताद् इति । तामु स तत्र निदधाति इदमहममुष्यामुष्यायणस्य पाप्मानमपगूहाम्युत्तरस्य द्विषद्भ्य इति वृकलैः प्रधाव्य दन्तान् प्रधावते । अन्नाद्याय व्यूहध्वे भगो राजा यमागमत् । स मे मुखं प्रसर्पतु आयुषे च भगाय च इति । अथोभयीरपः सन्निषिञ्चति उष्णासु शीता आनयति देवमानुषस्य व्यावृत्त्या इति तासामञ्जलिना त्रिरभिषिञ्चति आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः षोढा विहितो वै पुरुष इत्येतस्माद् ब्राह्मणात् । निधाय एतद्वासः स्वा मा तनूराविश इति सान्तरं वासः परिधत्ते । अथैतस्य सर्वसुरभिषः समुदायुत्याञ्जलिना त्रिः परिषिञ्चति नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो वा अभिग्राहिणीः इति । एवं चन्दनस्य । एवमेवात ऊर्ध्वं निधाय एतद्वासः स्वा मा तनूराविश इत्यहतं वासः परिधत्ते । एवमासङ्ग्यमेवमुष्णीषमेवमेवात ऊर्ध्वम् । अथैनं बादरमणिं सुवर्णोपहितं मूत्रे प्रोत्य दर्व्यामादाय दर्वीदण्डसूत्रेण पर्यस्य जुहोति ३
इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा पितुरिव नामाग्रहं सा मा करोतु सोमवर्चसं करोतु सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा इति । अथैनमुदपात्रे परिप्लावयति विश्वा उत त्वया वयम् इति । अपाशोऽसि इत्युक्त्वाक्ष्णया परिहरति । वध्यं हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै इत्येतस्माद् ब्राह्मणात् । अथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यायाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति आयुष्यं वर्चस्यं रायस्पोषमुद्भिदम् । इदं हिरण्यं वर्चसे जैत्र्यायाविशतादिमं रयिं स्वाहा इति । द्वितोयां जुहोति शुनमिवाहं हिरण्यस्य पितुरिव नामाग्रहम् । तं मा करोतु सोमवर्चसं करोतु सूर्यवर्चसं ब्रह्मवर्चसिनमन्नादं करोतु स्वाहा इति । तृतीयां जुहोति उच्चैर्वाजि पृतनासाहं सभासाहं धनञ्जयम् । सर्वाः समृद्धीरृद्धय हिरण्ये याः समाहिताः स्वाहा इति । चतुर्थी जुहोति विराजं च स्वराजं च अभिश्रीर्या च नो गृहे । श्री राष्ट्रस्य या मुखे तया मा संसृज स्वाहा इति । पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु शूद्रेष्वहमस्मि यशस्तपाः स्वाहा इति । अथैनावुदपात्रे परिप्लावयति विश्वा उत त्वया वयम् इति । अपाशोऽसि इत्युक्त्वान्यतरं प्रवर्तं प्रक्षाल्य दक्षिणे कर्णे आमूहति ४
आयुष्यं वर्चस्यम् इत्येताभिः पञ्चभिः सहानुकरोति ऋतुभिस्त्वार्तवैः संवत्सरस्य धायसा तैस्त्वा सहानुकरोमि इति । एवमेवोचरम् । अपाशोऽसि इत्युक्त्वाक्ष्णयैव स्रजं परिहरति शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखं हि मम शोभय भूयांसं च भगं कुरु । यां मे जहार जमदग्निः श्रद्धायै रागायान्यै । इमां तां मतिमुञ्चेऽहमायुषे च भगाय च इति । आदर्शे समवेक्षते यन्मे मनः परागतमात्मानमादर्शे परिपश्यति । इदं तत्पुनराददेऽहमायुषे च भगाय च इति । अथाञ्जनेनारुक्ते यदाञ्जनं ग्रैककुदं जातं हिमवत उपरि । तेन मां चायुष्यं वर्चस्यं मे अस्तु इति । दण्डमादत्ते सखा मे गोपाय इति । छत्रमादत्ते द्यौरसि सुपर्णोऽन्तरिक्षान्मा गोपाय इति । अथोपानहावुपमुञ्चते द्यौरसि इति दक्षिणां पृथिव्यसि इत्युत्तराम् । दिशमुपनिष्क्रम्य दिशमुपतिष्ठते देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् इति। मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् इति चन्द्रमसमुपस्थायैव दिशो यत्र कामयते तदेति ५
वेदमधीत्य पुरादित्यस्योदयाद् अथापरेणाग्निंप्रागुपविश्य इयमोषधे
त्रायमाणा आयुष्यं वर्चस्यमित्येताभिः पञ्चभिरिति ।
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः

इतरत् समावर्तनम् । अथेतरत् तूष्णीमेव तीर्थे स्नात्वोदेति । अथास्मायार्योपवेशनमाहार्योदकमाहारयति । तत् प्रतीक्षते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदुपस्पृश्य प्राक् सेक्तवा इत्याह । तस्मादन्यदाहारयति । तेनास्य पादौ प्रक्षाळ्याथास्मै मध्वाहारयति । तत् प्रतीक्षते । यन्मधुनो मधव्यं प्रियं परममन्नादो रूपं तेनाहं मधुनो मधव्येन प्रियेण परेणान्नादोऽसानि इति प्रतिगृह्णाति । प्रियः प्रजानामधिपतिः पशूनाम् इति ब्राह्मणम् प्रियः पशूनामधिपतिः प्रजानाम् इति राजन्यम् । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै दध्याहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अस्मा ओदनमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै मन्थमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै गामुपाकरोति तामुद्रासृजत कुरुतेति वा । अथास्मै तदहं पुत्रो वा भ्रातरो वान्तेवासी वोपनयेतेयं वा सैव सहते । यदि वा रथं लभते रथन्तरमसि इति दक्षिणं चक्रमभिमृशति बृहदसि इत्युत्तरं वामदेव्यमसि इति मध्यमम् । आरुह्य प्रवर्तमानमनुमन्त्रयते अयं वामश्विना रथो मा दुःखे मा सुखे रिषद् इति । स यदि शब्दं कुर्यात् प्रतिबुध्य यज्ञोपवीतं कृत्वा अप आचम्य भूमिमभिमृशति मयि धृतिं मयि विधृतिं मयि स्वधृतिं मयि रन्तिं मयि रमतिं मयि पुष्टिं पुष्टिपतिर्दधातु इति १
इतरदेकम्
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेष्यम् । समर्यमा संभगो नो निनीयात् सञ्जास्पत्यं सुयममस्तु देवाः । अयं कूर्चः । मयि गृह्णाम्यग्रे अग्निं रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः । यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्या ँ! आविवेश । तमात्मन् परिगृह्णीमहे वयं मा सो अस्माँ अवहाय परागात् । भूर्भुवःस्वः । प्रजापतिः स्त्रियां यशो मुष्कयोरदधात् सपम् । कामस्य तृप्तिमानन्दं तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दो मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपं स्त्रियै पुमान् यथा स्त्री तृप्यति पुंसि प्रिये प्रिया । एवं भगस्य तृप्याणि यज्ञस्य काम्यः प्रियाम् । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति । आपस्तत् सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन । या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसा संध्ययन्त्वायुष्मतीदं परिधत्स्व वासः । परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व । परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासु जीवती । अनया सह मया कर्माणि कर्तव्यानि । प्रजाश्चोत्पादयितव्याः । तदर्थमेनां परिणेष्ये । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अद्भ्यो नमः अग्नये नमः । आत्मने नमः । अदितेऽनुमन्यस्व । अनुमतेऽनुमन्यस्व । सरस्वतेऽनुमन्यस्व । देवसवितः प्रसुव । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । प्रजापतये स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणि स्वाहा । यानूची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया अग्नौ संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा १
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । विरूपाक्षाय स्वाहा । दन्तान् जये स्वाहा । विरूपाक्षमहं यजे निजङ्घं शबळोदरम् । यो मायं परिबाधते श्रियै पुष्ट्यै च तस्मै स्वाहा । परिबाध मा विबाधिष्ठा मा विबाध विबाधिथाः निरृत्यै त्वा पुत्रमाहुः स नः कर्माणि साधय स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधापयासिषं स्वाहा । यावन्तो वेदास्त्वयि जातवेदः स्त्रियं चोद्घ्नन्ति पुरुषस्य कर्म तेभ्य एतद्भूयते भागधेयं ते मा तृप्तास्तर्पयन्तु कामैः स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे स्वाहा । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः स्वाहा । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामः । विदेयमेनद्धृदये निविष्टं स्वाहा । इष्टेभ्यः स्वाहा । वषट्निष्टेभ्यः स्वाहा । भेषजं दुरिष्ठ्यै स्वाहा । निष्कृत्यै स्वाहा । दौराध्यै स्वाहा । देवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा । समृद्ध्यै स्वाहा । चित्ताय स्वाहा । चित्तये स्वाहा । आकूताय स्वाहा । आकूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञानाय स्वाहा । मनसे स्वाहा । शक्वरीभ्यः स्वाहा । दर्शाय स्वाहा । पूर्णमासाय स्वाहा । बृहते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु । तस्मै विशः सयनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा । अग्निर्भूतानामधिपतिः स मावतु स्वाहा । पितरःपितामहाः इन्द्रो ज्येष्ठानामधिपतिः स मावतु स्वाहा । यमः पृथिव्या अधिपतिः स मावतु स्वाहा । वायुरन्तरिक्षस्याधिपतिः स मावतु स्वाहा । सूर्यो दिवोऽधिपतिः स मावतु स्वाहा । चन्द्रमा नक्षत्राणामधिपतिः स मावतु स्वाहा । बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावतु स्वाहा । मित्रः सत्यानामधिपतिः स मावतु स्वाहा । वरुणोऽपामधिपतिः स मावतु स्वाहा । समुद्रः स्रोत्यानामधिपतिः स मायतु स्वाहा । अन्नँ साम्राज्यानामधिपति तन्मावतु स्वाहा । सोम ओषधीनामधिपतिः स मावतु स्वाहा । सविता प्रसवानामधिपतिः स मावतु स्वाहा । रुद्रः पशूनामधिपतिः स मावतु स्वाहा । त्वष्टा रूपाणामधिपतिः स मावतु स्वाहा । विष्णुः पर्वतानामधिपतिः स मावतु स्वाहा । मरुतो गणानामधिपतयस्ते मावन्तु स्वाहा । पितरः पितामहाः परेऽवरे ततास्ततामहा इह मावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा । ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽपसरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो बह्वयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । अग्निरेतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयँ राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात् स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुद्ध्यतामियं स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा २
स्तनन्धयतस्ते पुत्रान् सविताभिरक्षतु । आ वाससः परिधानाद् बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा । अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा । ब्राह्मणं देवकृतं कल्पमानं तेन हन्ये निषदः पिशाचात् । क्रव्यादो मृत्युरधरान् पातयामि दीर्घमायुस्तव जीवन्तु पुत्रान् स्वाहा । शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । हस्तेन हस्तं गृभ्णामि सौभगत्वाय मया पत्या जरदष्टिर्यथासत् । भगो अर्यमा सविता पुरन्धिस्ते त्वा देवा अदुर्मह्यं पत्नीम् । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । यां पूषन् शिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् । सोमोऽददाद् गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशूंश्च मह्यं पुत्रांश्च ददात्वग्निरथो त्वा असावहम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुर्योऽहं मनुष्यजाः । सरस्वति प्रेदमव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः । आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । ३
इमान् लाजानावपामि समृद्धिकरणान्मम मम तुभ्यं च संवननं तदग्निरनुमन्यताम् । भगेन त्वा संसृजामि मासरेन सुरामिव । इयं नार्युपब्रूते अग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमं मे वरुण श्रुधी इवमद्या च मृडय । त्वामवस्युराचके स्वाहा । तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह वोध्युरुशंस मा न आयुः प्रमोषीः स्वाहा । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् स्वाहा । स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा । त्वमग्ने अयास्ययासन्मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा । प्रजापते न त्वदेतान्पन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां स्वाहा । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः स्वाहा । पुनरग्निश्चक्षुरदात् पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः स्वाहा । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मधु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । यत्पाकत्रा मनसा दीनदक्षान यज्ञस्य मन्वते मर्त्तासः । अग्निष्टद्धीता क्रतुविद्विजानन् यजिष्ठो देवाँ क्रतुशो यजाति स्वाहा । पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा । भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःस्वर्महरॐ स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा । यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा अदितेऽन्वमंस्थाः । अनुमतेऽन्वमंस्थाः । सरस्वतेऽन्वमंस्थाः । देव सवितः प्रासावीः । अग्ने व्रतपते व्रतम् चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । अमूहमस्मि सा त्वं सा त्वमस्यमूहम् ऋगहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । मम हृदये हृदयं ते अस्तु । मम चित्ते चित्तमस्तु ते । मम वाचमेकमनाः शृणु । मामेवानुव्रता सहच्रया मया भव । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्देवगन्धर्वो वित्तः संवननं तेन संवनिनौ स्वः । एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्धेतु षड् रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मां योष्ठाः । सप्तऋषयः प्रथमां कृत्तिकानामरुन्धतीम् । ध्रुवतां ये ह निन्युः । षट् कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । ध्रुवं नमस्यामि मनसा ध्रुवेण ध्रुवं नो सख्यं दीर्घमायुश्च भूयात् । अद्रुग्धावस्मिंश्च परे च लोके ध्रुवं प्रविष्टौ स्याम शरणं सुखार्तौ । शन्न एधि द्विपदे शं चतुष्पदे । इह गावो निषीदन्त्विद्दाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो अधिपूषा निषीदतु ४
अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामितो नाशयामसि स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि यास्यै पुत्रघ्नी तनूस्तामितो नाशयामसि स्वाहा । आदित्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनूस्तामितो नाशयामसि स्वाहा । सर्व प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी पुत्रघ्नी पशुघ्नी निन्दिता तनूस्तामितो नाशयामसि स्वाहा । अग्ने व्रतपते व्रतमचारिषम् इत्यादि व्रतानां व्रतपते व्रतमचारिषम् इत्यन्तम् । आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु । युवाभ्यां दम्पतिभ्यां स्वस्ति । तशिने त्वाभिमृशामि हस्तेनाविद्विषाणिना । यथा न विद्वषेमहि न हि ये च कदाचन । ऋषभेण स्कन्दामि व्यस्य योनिं पतिरेतो गृहाण । पुमांस्त्री जायतां गर्भो अन्तः । आ ते योनिं गर्भ एतु पुमांसं गर्भमाधत्स्व । यन्तुभ्यं शिमिवाससि पुमांस्ते पुत्रो नारितं पुमाननुजायताम् । स संवधतां गर्भो दशमे मासि सूतवे ५
अनृक्षराऋजवःसन्तुपन्था युक्तोव
हजानवेद स्तनन्धयतस्तेपुत्रान् इमाल्लाँजानावपामि अग्रेप्रायश्चित्ते पञ्च ।
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः

अथ षष्ठोऽध्यायः

अथ समावृत्ते भार्यामुपयच्छेत । प्रजानन्तुं मा व्यवच्छेत्सीः । इति गुरुशासनात् सर्वाङ्गिनीं मनोज्ञां यवीयसीं ब्रह्मचारिणीं कन्याम् असगोत्रां मातुरसपिण्डाम् अनुक्तामगर्हितां नक्षत्रनदीवृक्षाभिधानासंयुक्ताम् । अथ दूतान् प्रहिणोति अनृक्षरा ऋजव इति । वधूमन्तं याचयति अमुष्मै अमुकगोत्राय अमूममुकगोत्रीं धर्मप्रजार्थं वधूं ददातु इति । तथेत्युक्ते वधूम् । आपूर्यमाणपक्षे पुण्ये नक्षत्रे शोभनान्यगाराणि कल्पयित्वा बद्धकौतुकः कृतमङ्गलस्वस्त्ययनः पदातिर्वधूगृहं गत्वा गृहीतमधुपर्कः उद्धननाद्यसम्भारसम्भरणान् कृत्वा लाजानश्मानमहतं वासश्च संभृत्य ब्रह्मप्रवेशनाद्यापरिधानान्तं करोति । एतस्मिन् काले वधूं बद्धकौतुकां कृतपुर्ण्यानिनीं यज्ञोपवीतिनीमाचान्तामग्नेरुत्तरेण परेण च गत्वा दक्षिणतः प्राचीं तिष्ठन्तीं वरोऽग्नेरुत्तरेण पूर्वेण च गत्वा पुरस्तात् प्रत्यक् तिष्ठन् सपवित्रेन पाणिना व्याहृतिभिः प्रजापतिः स्त्रियाम् इति षड्भिरेनां दक्षिणत उदङ्मुखस्तिष्ठन् अमूम् अमुकगोत्रीम् अमुष्मै अमुकगोत्राय तुभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामि इति वधूमताद्भिर्दत्तां प्रतिगृह्णाति स्त्रीधनं च । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा यथाप्रपन्नमपरेणाग्निमुपवेश्याथैनामहतं चासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन् इति तिसृभिः । परीदं वास इत्येतया अभिमन्त्रयते । अथैनामाचान्तां दक्षिणतः प्राचीमुपवेश्य तस्यामन्वारब्धायां गन्धादिनाग्निमलङ्कृत्य परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतः प्राचीनं देव सवितः प्रसुव इति सर्वतःप्रदक्षिणं परिषिच्य ऊर्ध्वे समिधावनूयाजार्थं चादधाति । इध्मादेवोद्धृत्य दक्षिणं परिधिमग्निं चान्तरेण उत्तरं परिधिं चाग्निं चान्तरेन प्रणीताप्रणयनेऽनूयाजार्थं चादधाति । अयं त इध्मम् अक्त्वाभ्यादधाति । अप उपस्पृश्य इध्मस्य मूलमुपसंस्पृश्य दर्व्या जुहोति प्रजापतये स्वाहा इत्युदञ्चम् इन्द्राय स्वाहा इति प्राञ्चम् आघाराचाघार्य । आज्यभागौ जुहोति अग्नये स्वाहा इति उत्तरतः सोमाय स्वाहा इति दक्षिणतः । मध्ये व्याहृतिभिर्हुत्वा या तिरश्ची निपद्यसेऽहम् इति त्रयोदशहुतीर्जुहोति १
अथाष्टौ समृद्धिहोमान् जुहोति इष्टेभ्यः स्वाहा इति । अथ जयाञ्जुहोति चित्तं च चित्तिश्च इत्येवं वा जुहोति । नानास्रुवाहुतीः चित्ताय स्वाहा चित्तये स्वाहा इत्येवम् । अथाभ्यातानाञ्जुहोति अग्निर्भूतानामधिपतिः स मावतु स्वाहा इति । अथ प्राचीनावीतं कृत्वाधिवदते पितरः पितामहा इति । उपवीती भूयो भवति । स एवमेतान् सप्तदशाभ्यातानान् साधिवादान् जुहोति । अथ स्वाहाकृताः षड् राष्ट्रभृतो जुहोति । ऋताषाडृतधामा इति । अग्निरेतु प्रथम इति षट् प्रधानाहुतीर्जुहोति । शन्नो देवीरभिष्टय इत्युभौ मार्जयते । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णात्यभीवलोमानि देवस्य त्वा इति । अथोपोत्थापयति भगो अर्यमा इत्येताभिः पञ्चभिः । अत्रासौशब्दप्रथमया नाम गृह्णीयात् । उत्तरेणोत्तरार्धपरिधिसन्धिपश्यानं निधाय दक्षिणेन पादेन वधूमास्थापयति आतिष्ठेममश्मानम् इति । विश्वा उत त्वया वयम् इति प्रदक्षिणमग्निं परिक्रामतः । अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानावपति । त्रिः पञ्चावत्तिनाम् । इमान् लाजानावपामि इति । अभिघार्य दर्व्या संसृजति भगेन त्वा संसृजामि इति । अथ जुहोति इयं नारी इति २
एवं द्वितीयमास्थाप्य परीत्य जुहोति । तथा तृतीयम् । यथायतनमुपवेश्य अनूयाजसमिधमादाय दर्व्या वारुण्यौ चाग्निवारुण्यौ मेषजवनस्पतिं प्राजापत्यं सौविष्टकृतं च हुत्वा पुरस्तात् स्विष्टकृतं प्रायश्चित्तं जुहोति यन्म आत्मन इति पञ्च । पाहि नो अग्न एनस इति चैषोऽनुवाकः । अत्र महाव्याहृतिभिर्हुत्वा भूरग्नये च पृथिव्यै च महते च स्वाहा इति अत्रैव प्रणवं जुहुयाद् व्याहृतिभिः समस्ताभिश्च । अथ मध्यमं परिधिमक्त्वा दक्षिणार्धे च अप उपस्पृश्य उत्तरार्धं च परिस्तरणेभ्योऽर्धमर्धमादाय दर्व्यामग्रयनक्ति मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि दर्व्यामग्रं मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि आज्यस्थाल्यां मूलं मध्यं चाग्रं च दर्व्याम् । अथैकं तृणं निधायाप उपस्पृश्य शिष्टमग्नौ प्रहरेत् । नात्यग्रं प्रहरेत् यदत्यग्रं प्रहरेद् इति ब्राह्मणम् । त्रिरुद्यत्य तृणमप्यनुप्रहरेत् । अङ्गुलिं त्रिरुद्यम्य प्राणस्थानं चक्ष्वादि संमिश्य परिधीनादाय मध्यमं प्रथमं प्रहरेत् । युगपद् दक्षिणमुत्तरं च । ऊर्ध्वे समिधौ प्रहरति । उत्तरार्धमङ्गारेषूपोहति । संस्रावेणाभिजुहुयात् । अथ परिषिञ्चति । यथा पुरस्ताद् अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमति । प्रणीताप्रणयनमादायाग्रेणाग्निं परिहृत्य दक्षिणेनाग्निं चापरेणाग्निं चाश्मनो देशे निधाय यथाशक्ति दक्षिणां ब्रह्मणे दत्त्वा प्रागादि प्रतिदिशं तूष्णीं मार्जयते । किञ्चिदवसिच्य हस्तेन मार्जयेत् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन कयानश्चित्र आभुवद् इति तिसृभिः प्राजापत्यं पवित्रम् इति द्वाभ्याम् । एतस्मिन् काले ब्रह्मा यथाप्रपन्नमुपनिष्क्रामणमिति । प्रायश्चित्तादि आ ब्रह्मण उपनिष्क्रामणात् सर्वदर्वीहोमानामेष समानम् । अत्र गुरवे वरं ददाति । अथ देवतामुपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्येतैः । अमूहमस्मि इत्यथास्या दक्षिणे कर्णे जपति । अथास्या दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपरि अवमृश्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु इति द्वाभ्याम् । अथापरेणाग्निमिदंविष्णुक्रमात् प्रक्रामति एकमिषे विष्णुस्त्वान्वेतु इति । मनाग् दक्षिणं पूर्वे पादं प्रहरति । सव्येनानुनिष्क्रामति । अत्रैव सप्तमं पदं विक्रमते । नाग्निमति प्रच्यवते । सखायौ सप्तपदावभूव इति सप्तमे पदे जपति । अथापरेणाग्निमुदङ्मुखस्तिष्ठन् सप्तऋषीनुपनिष्ठते सप्त ऋषयः प्रथमां कृत्तिकानाम् इति । अथ ध्रुवमुपतिष्ठते ध्रुवं नमस्यामि इति । मुहूर्तमुपविश्य औपासनाग्निमाहवनीयाकारे कुण्डे निधायात्र सदस्या आशीर्यादं कुर्यन्ति । अथ व्रजं प्रपद्यते । अथास्या दक्षिणेन हस्तेन दक्षिणं पाणिं परिगृह्य दक्षिणां द्वारेयीमभिमृशति शन्न एधि द्विपदे शं चतुष्पद इति । एवमुत्तराम् । अगारं प्रविश्यानडुहे चर्मण्युत्तरे लोम्न्युपविशति इह गावो निषीदन्तु इति । ज्ञातिसम्भाषावासाते । ब्रह्मचारिणावलंकुर्वणौ त्र्यहं व्रतं चरेयातामक्षारलवणमशमीधान्यं भुञ्जानावधःशायिनावसंवर्तमानौ सहचर्याताम् । सायंप्रातरौपासने जुहोति व्रीहिभिर्यवैर्वा । सायं प्रथममग्निमुपसमाधाय परिस्तीर्य प्रक्षाळ्य स्थालीं निष्टप्य सम्मृज्य एकमुष्टिं व्रीहीनोप्य पर्यग्नि कृत्वा गन्धपुष्पैरग्निमलंकृत्य इन्द्रायाग्रये यमाय निरृत्यै वरुणाय वायवे सोमायेशानायेति प्रागादि प्रतिदिशं पश्चादात्मानमलंकृत्य अप उपस्पृश्य सपवित्रपाणिः अदितेऽनुमन्यस्व इति परिषिच्य समिधमभ्याधाय प्रज्वलयित्वा हस्तेन व्रीहीन् जुहुयाद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातः । अदितेऽन्वमंस्था इति परिषिच्य कनीयस्तस्य पूर्वं हुत्वोत्तरं भूयो जुहुयाद् इति ब्राह्मणम् । एवमौपासने जुहोति । अथापरं पत्नीं भोजयेत् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । प्रायश्चित्तं जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा इति त्र्यहे पर्यपेते निश्यग्निप्रतिष्ठापनादि प्रसिद्धं दार्विहोमिकमा राष्ट्रभृद्भ्यो विवाहप्रकृतिं नयेल्लाजादिसम्भारवर्जं प्रतितद्दमार्जनवामःपरिधानवर्जम् एवमेष सर्वेषां विवाहप्रकृतिम् । आकालं प्रायश्चित्तं जुहोति अग्ने प्रायश्चित्त इति चतसृभिः । वारुण्यादि समानम् । व्रतविसर्गः । अथ व्रतं विमृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैः । अथ पुण्याहं वाचयित्वा आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु इति । युवाभ्यां दम्पतिभ्यां स्वस्ति इति प्रतिवचनम् । अथास्या उपस्थमभिमृशति शिवेन त्वाभिमृशामि इति । प्रतिसंविशति ऋषभेण स्कन्दामि इति । रत्यन्तं कृत्वा जपेत् आ ते योनिं गर्भ एतु इति तिसृभिः । एवमेव मासि मास्यृतुबेललायां संतिष्ठते भार्योपयमनम् ३
अथसमावृत्तेभार्यामुपयच्छेत अथाष्टौसमृद्धिहोमाञ्जुहोति एवंद्वितीयमास्थाप्य त्रीणि
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

अथातः स्थागरमलङ्कारं वक्ष्यामः । आदर्शं चाञ्जनं चाहतं वासः सर्वसुरभितं व्रीहीन् दृषदुपले इत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । पाणिग्रहणादूर्ध्वं श्वोभूते श्वश्रूर्वा श्वशुरो वा स्यालो वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य शुचि शुक्लमनार्द्रमाच्छाद्य सुप्रक्षाळितपाणिपादावप आचम्य पवित्रपाणी स्थण्डिलस्यापरार्धे दम्पती उपविशत । पूर्वार्धे व्रीहीनवकीर्य दृषदुपले प्रतिष्ठाप्याहतेन वाससा परिवेष्टयति । गन्धपुष्पधूपदीपैः यवाक्षततण्डुलैरभ्यर्च्य पुरस्ताद् दशहोतारं सगृहं जपति चित्तिः स्रुग् इति चतुर्होतारं दक्षिणतः पृथिवी इति पञ्चहोतारं पश्चाद् अग्निर्होता इति षड्ढोतारमुत्तरतः सूर्यं ते चक्षुः इति सप्तहोतारमुपरिष्टाद् महाहविर्होता इति । एतस्मिन् काले वरस्य भगिन्यपरेण दृषदुपलाभ्यां प्राङुपविश्य सर्वसुरभितं पिष्ट्वा देवताभ्यो निवेद्याञ्जनेनाङ्क्ते । आदर्शमवेक्षत्वा शेषेण दुहितरमलङ्कृत्य मुखे अग्निर्यजुर्भिः सेनेन्द्रस्य इति पश्चाज्जामातरम् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । सा प्रिया भवति । प्रियो हैव भवति इति ब्राह्मणम् १
अथ वैश्वदेवस्यान्नसावौपासनेऽग्नौ जुहुयात् । गृह्येऽग्नौ वा । अग्नये स्वाहा इति सायम् । सूर्याय स्वाहा इति प्रातः । सोमाय धन्वन्तरयेऽनुपतये प्रजापतये विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्योऽग्नये स्विष्टकृते स्वाहा इति । अथ बलिहरणं यथादिशं हरेत् ब्रह्मणे ब्रह्मपुरुषेभ्य इन्द्रायेन्द्रपुरुषेभ्योऽग्नये यमाय यमपुरुषेभ्यो निरृत्यै वरुणाय वरुणपुरुषेभ्यो वायवे सोमाय सोमपुरुषेभ्य ईशानाय इति । अथ गृहदेवताभ्यो बलिं हरति । उलूखलमुसलाभ्याम् इति उलूखलमुसले दृषदुपलाभ्याम् इति दृषदुपले उदधान्या इत्युदधान्याम् ओषधिवनस्पतिभ्याम् इति द्वारे अन्तरिक्षे दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तम् । दक्षिणतः प्राचीनावीती पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः स्वधा पितृभ्य इति । शेषं दक्षिणा निनयेत् २
अथातः पञ्चदश्यां प्रातर्होमं हुत्वा इध्माबर्हिश्च सम्भृत्य उक्तलक्षणेनेध्ममिध्मप्रव्रश्चनं च योक्त्रेण सन्नह्य यत्र भुक्तं मन्यते तन्निदधात्यग्निमन्वादधाति । अपरेणाग्निं प्राचीनाग्राश्चतस्रः समिध आदधाति । तावुभाभ्यां हताभ्यामादाययाग्नावादधाति । तूष्णीमुपस्थायापरे समिधावादधाति । श्वो यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थायापकालहोमं हुत्वा अग्निं परिस्तीर्य तां रात्रिमनश्नन्नपरेणाग्निमुदक्च्छिराः संविशति । श्वोभूते यथोदितं स्नानं कृत्वा प्रातर्होमं च प्रागादिप्रतिदिशं दर्भैः परिस्तृणाति प्रागुदगग्रैः । दक्षिणानुत्तरान् करोत्युत्तरान् अधरान् । ततःप्रभृति सम्भारसम्भरणान् कृत्वा व्रीहीन् चरुस्थालीं जुहूं च मेक्षणं च सम्भृत्य ब्रह्मप्रवेशनाद्या प्रणीताभ्यः कृत्वा प्रोक्षणीं च संस्कृत्य व्रीहीन् निर्वपति अपरेणाग्निं तिरःपवित्रं जुह्वाः । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि अग्नीषोमाभ्याम् इति पौर्णमास्याम् अग्नये जुष्टं निर्वपामि इन्द्राग्निभ्याम् इत्यमाचास्यायां त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य तिरःपवित्रं स्थाल्यामावपति । तस्मिन्नग्नौ श्रपयित्वा दर्वीनिष्टपनकाले जुहूं च निष्टप्य निदधाति । आज्यं च संस्कृत्याभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृति व्याहृतिपर्यन्तं कृत्वा हविषा जुहोति । आग्नेयमग्नीषोमीयं सौविष्टकृतम् इति पौर्णमास्याम् । आग्नेयमैन्द्राग्नं सौविष्टकृतम् इत्यमावास्यायाम् । आज्येन जुहूमुपस्तीर्य द्विरवद्यति सकृदभिघारयति । त्रिः पञ्चावत्तिनाम् । सौविष्टकृतं सकृदुपस्तृणाति सकृदवद्यति । द्विः पञ्चावत्तिनाम् । द्विरभिघारयति । अवत्ते स्विष्टकृति पार्वणहोमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणं प्राणाय सुराधसे पूर्णमासाय स्वाहा पूर्णा पश्चादुत पूर्णा इति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहा यत्ते देवा अदधुर्भागधेयम् इत्यमावास्यायाम् । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभ्यामाहुतिभ्यां जुहोति । मेक्षणं चानुइप्रहृत्याप उपस्पृश्य जुहूमद्भिः पूरयित्वा प्राचीनावीत्यवाचीनपाणिः दक्षिणापवर्गं सकृदन्तरपरिधिसंक्षाळनं निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं स्वर्गे लोकेऽबिभरत् पिन्वमानं स्वाहा इति । निर्णिज्य स्रुवं च निष्टप्य बहिःपरिध्यपां पूर्णां स्रुचं जुहोत्यु त्तरापवर्गम् इमं समुद्रं शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिंसीः परमे व्योमन् स्वाहा इति । इध्मसन्नहनमप उपस्पृश्य जुहुयात् । वारुण्यादिजयप्रभृति सिद्धमा धेनुवरप्रदानात् । पुरस्तात् स्विष्टकृतमिध्मप्रव्रश्चनं प्रक्षिपेत् । सन्तिष्ठते दर्शपूर्णमासः सन्तिष्ठते दर्शपूर्णमासः ३
व्रीह्याग्रयणेन वा यक्ष्यमाणो भवति आश्वयुज्यां पौर्णमास्यां कार्त्तिक्यां शातभिषज्यां वा । अन्वाधानकाले यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थाय सम्भारसम्भरणकाले नवधान्यं संभृत्याकूपतोयेन पोषितं निर्वपणकाल इन्द्राग्निभ्यां जुष्टं निर्वपामि विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टं निर्वपामि इति होमकाल ऐन्द्राग्नं वैश्वदेवं द्यावापृथिव्यं सौविष्टकृतम् इति । वरप्रदानकाले प्रथमजं वत्सं दक्षिणां ददाति । शेषं प्रसिद्धं स्थालीपाकवत् । हुतशेषमन्नं प्राश्नाति भद्रान्नः श्रेयः समनैष्ट देवा इति । एवमेव संवत्सरस्यर्तुषु तदृतुफलमिश्रेणान्नेन प्रत्यृतु होतव्यम् । प्रधानकाले मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्च इषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च इति षडृतुद्वन्द्वं यजेत । स्विष्टकृत्प्रभृतिवत् शेषं च ४
अथातःस्थागरमलङ्कारं अथवैश्वदेवस्य अथातःपञ्चदश्यां व्रीह्याग्रयणेन चत्वारि
इत्याग्निवेश्यगृह्यसूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः
प्रथमः प्रश्नः समाप्तः