अष्टाङ्गसंग्रहः सूत्रस्थानम् अध्याय ३१-४०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ एकत्रिंशोऽध्यायः।

अस31.1
अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस31.2
चतुर्विधो भवति गण्डूषः।
स्नैहिकः शमनः शोधनो रोपणश्च।
तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामयघ्नाः।
रोपणस्त्वास्यव्रणघ्नः।
शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः॥

अस31.3
तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः।
तिक्तकषायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथासितोदकक्षौद्रक्षीरेक्षुरस घृतादिभिः शमनः।
कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः।
रोपणस्तु कषायमधुरशीतैर्यथास्वं चोपदिष्टैः॥

अस31.4
अपि च।
दन्तहर्षे दन्तचाले मुखरोगे च वातिके।
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्॥

अस31.5
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा।
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे॥

अस31.6
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा।
वैशद्यं जनयत्यास्ये सन्दधाति मुखे व्रणान्॥

अस31.7
दाहतृष्णाप्रामनं मधुगण्डूषधारणम्।
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाश्नम्॥

अस31.8
तदेवालवणं शीतं मुखशोषहरं परम्।
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्॥

अस31.9
अथ निवाते सातपे सुखोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्योऽनभ्यवहरन् धारयेत्।
कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत्।
अयमेव च कवलगण्डूषयोर्विशेषः॥

अस31.10
मुखे सञ्चार्यते या तु सा मात्रा कवलः स्मृतः।
असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः॥

अस31.11
पुनश्च स्वेदमर्दनान्याचरेत्।
एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते।
तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्घ्राणनेत्रता भेषजस्य वानुपहतिः कफेन।
एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत्।
यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः।
तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं, मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्।
तेषां यथास्वं प्रतिकुर्वीत॥

अस31.12
प्रतिसारणं तु त्रिविधम्।
गण्डूषोदितानां द्रव्याणाम्।
रसक्रिया कल्कश्चूर्णश्च।
तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम्।
अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति॥

अस31.13
मुखालेपोऽपि त्रिविधो दोषघ्नो विषघ्नो वर्ण्यश्च।
त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः।
न चालिप्तमुखोऽतिभाष्यहास्यक्रोधशोकरोदनखादनाग्न्यातपदिवास्वप्नान् सेवेत।
कण्डूत्वक्शोषपीनसदृष्ट्युपघातभयात्।
न च शुष्यन्नुपेक्षितव्यः।
शुष्को हि छविं दूषयति।
तमार्दयित्वापनयेत्।
आलेपान्ते च मुखमभ्यज्यात्॥

अस31.14
न तु योज्यो रात्रिजागरितानीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम्।
सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति।
स्वस्थस्य तु दृष्टिबलं पुण्ड्द्रीककान्तवक्त्रतां च करोति॥

अस31.15
मूर्धतैलं पुनश्चतुर्धा भिद्यते।
अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति।
यथोत्तरं ते बलिनः तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः॥

अस31.16
शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुखं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात्।
अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुखाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात्।
ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुखोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम्।
तावच्च धार्यो यावत् कर्णमुखनासास्रुतिर्वेदनोपशमो वा भवति।
विशेषतो वातजेषु विकारेषु दशमात्रासहस्राणि।
पित्तरक्तजेष्वष्टौ।
षट् कफजेषु।
सहस्रमरोगकर्मणि।
ततोऽपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुखं मर्दयेत्।
उष्णाम्बुना स्नातं यथार्हं भोजयेत्।
स्नेहोक्तं चास्याचारमादिशेत्।
एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति।
भवति चात्र॥

अस31.17
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु।
अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु॥

अस31.18
परिषेकः पिचुः केशशातस्फुटनधूपने।
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे।
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे॥

अस31.19
कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान्।
जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्॥

अस31.20
धारयेत् पूरणं कर्णे कर्णमूलं विमर्दयन्।
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने॥

अस31.21
यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्।
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता॥
इति एकत्रिंशोऽध्यायः॥

अथ द्वात्रिंशोऽध्यायः।

अस32.1
अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस32.2
आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः।
नानाद्रव्यकल्पनया च रागाश्रुघर्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम्।
अव्यकेतेस्वेवंगुणमेव पक्ष्मपरिहारेणाक्षिकेशालेपनम्।
तञ्च पुनर्बिडालकसंज्ञम्॥

अस32.3
तयोरकालो रात्रिः।
कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा।
निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्त्यवसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत्।
एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते।
आश्च्योतितं च मृदुना चैलेन शोधयेत्।
अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत्।
आश्च्योतनं च तयोः कोष्णम्।
सुशीतं पित्तरक्तविषेषु।
तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत्।
अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति।
अतिशीतं स्तम्भाश्रुघर्षनिस्तोदान्।
अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वघर्षान्।
ऊनप्रमाणं न रोगशान्तिम्।
अपरिस्रुतमश्रुघर्षवेदनाः॥

अस32.4
नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम्॥

अस32.5
यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाघनत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छएदैः पक्वलिङ्गमुपलक्षितं भवति।
तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम्।
न दोषवेगोदये।
न चानिर्हृतदोषे।
तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च॥

अस32.6
तत्तु लेखनं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति।
तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेखनम्॥

अस32.7
तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम्॥

अस32.8
सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम्॥

अस32.9
स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतांपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम्॥

अस32.10
प्रसादन एव चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते।
षड्विधं वा प्रतिरसभेदादञ्जनम्।
द्विविधमेव वा तीक्ष्णं मृदु च॥

अस32.11
कल्पना तु त्रिविधा।
पिण्डो रसक्रिया चूर्णश्च।
यथापूर्वं ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषुक्रमात्तान् प्रयोजयेत्।
तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य।
रसक्रिया विडङ्गमात्रा।
तद्द्विगुणा मृदोः।
चूर्णो द्विशलाकः।
मृदोस्त्रिशलाकः॥

अस32.12
पात्रे तु कुर्यात् सौवर्णे मधुरम्।
राजतेऽम्लम्।
मेषशृङ्गमये लवणम्।
कांस्ये तिक्तम्।
वैदूर्यमयेऽश्ममये वा कटुकम्।
ताम्रमय आयसे वा कषायम्।
नलप्लक्षपद्मस्फटिकशङ्खाद्यन्यतमे शीतम्।
एवमव्यापन्नगुणं भवति।
वर्तिघर्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायता त्र्यङ्गुलविस्तीर्णा॥

अस32.13
शलाकाः पञ्च कनकरजतताम्रलोहोद्भवा अङ्गुली च।
तत्राद्ये प्रसादनेऽञ्जने स्नेहने च।
मध्या लेखने।
अन्त्ये रोपणे।
मृदुत्वादङ्गुल्यत्र प्रधानतमा।
अतः सरुजेऽक्ष्णि सैव प्रयोज्या।
शेषा दशाङ्गुला राजमाषस्थूलाः।
सुश्लक्ष्णास्तनुमध्या मुखयोर्मुकुलाकाराः कलायपरिमण्डलाश्च॥

अस32.14
अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम्।
तथा सततं नैव वा॥

अस32.15
सरुजे चाक्ष्णि प्राक् पश्चादितरस्मिन्।
अन्यथाञ्जनोद्वेगसङ्कुचितेऽन्तः सम्यगौषधं नानुप्रविशेत्।
ततैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः॥

अस32.16
न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदत्तनस्यरात्रिजागरितवेगितरुदितपिपासित ज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु।
एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृछ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत्॥

अस32.17
अथ समसुखोपविष्टस्योपविष्टो वामांगुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधःकनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितक्ष्णिमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमघट्टितमनात्रान्तं च।
चूर्णे तु गतागतं कुर्यात्।
अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः।
ततोऽञ्जनानुगमनायानुन्मीलयन् शनैश्शनैरन्तश्चक्षुः सञ्चारयेत्।
एवमक्ष्यनुगच्छति।
वर्त्मनी किञ्चिच्चालयेत्।
न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्।
बाष्पोत्क्लिष्टदोषस्तम्भभयात्।
अपि च॥

अस32.18
अपेतौषधसंरम्भं निर्वृतं नयनं यदा।
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥

अस32.19
सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम्।
ऊर्ध्ववर्त्मनि सङ्गृह्य शनैः शोध्यं समन्ततः॥

अस32.20
दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यं च लोचनम्।
वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा॥

अस32.21
तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत्।
यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः।
तस्य तीक्ष्णमञ्जनं धूमं वा पुनरवचारयेत्।
एतदेव दुर्विरिक्ताक्षिलक्षणं साधनं च।
अतिविरेकात् सन्तापनिस्तोदशूलस्तम्भघर्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि।
तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा।
सम्यग्विरेकाद्यथास्वमामयोपशमः।
सुखोन्मीलननिमीलनवातातपसहत्वानि चेति।
भवति चात्र॥
रोपणादिष्वपि तथा योगादीननुचिन्तयेत्।
दोषोदयानुसारेण प्रतिकुर्वीत तेषु च॥
इति द्वात्रिंशोऽध्यायः॥

अथ त्रयत्रिंशोऽध्यायः।

अस33.1
अथातस्तर्पणपुटपाकविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस33.2
यन्नयनं परिताम्यति परिसुष्कं रूक्षं स्तब्धं जिह्मं निम्नमाविलमवनद्धं शीर्णपक्ष्म तथा कृच्छ्रोन्मीलसिरोत्पातसिराहर्षर्जुनशुष्कतिमिराभिष्यन्दाधिमन्थान्यतोवातवातपर्ययशुष्काल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत्।
न त्वशान्तोपद्रवेऽक्ष्णि नातिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च।
तद्वत् पुटपाकमपि॥

अस33.3
अथ दिवसस्याष्टमे भागे गते शेषे वा निवातातपरयोधूमे कृतनीलपीतान्यतरयवनिके वेश्मनि जीर्णभक्तस्य सुखशयनगतस्य उत्तानस्य मृदितमाषपिष्टकल्केन नेत्रकोशाद् बहिर्द्व्यङ्गुलोच्छ्रायाधारौ परिमण्डलावसम्बादौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वं क्षीरं सर्पिः सर्पिर्मण्डं वावसेचयेत्।
यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च।
ततः शनैरस्योन्मेषमाचरतो मात्रां गणयेत्।
वर्त्मजेषु विकारेषु शतं सन्धिजेषु त्रीणि शुक्लजेषु पञ्च कृष्णजेषु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमन्थेषु।
प्रतिदोषं तु वाते सहस्रं पित्ते षट् शतानि कफे पञ्च स्वस्थकर्मणि च॥

अस33.4
ततोऽस्यापाङ्गदेशे शलाकया द्वारं कृत्वा स्नेहं भाजने स्रावयेत्।
आधारौ चापनीय यवकल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशान्तये यथार्हं धूमं पाययेत्।
सुखोदकप्रक्षालितमुखं चैनं यथाव्याधि भोजयेत्।
आतपाकाशभास्वद्दर्शनानि च परिहरेत्॥

अस33.5
अनेन विधिना प्रत्यहं वायावेकान्तरं रक्तपित्तयोद्र्व्यन्तरं कफे स्वस्थे च।
यथादोषोत्कर्षं संसर्गसन्निपातयोः।
एवमेकाहं त्र्यहं पञ्चाहं वा कुर्यादातृप्तेर्वा।
तृप्तातृप्तातितृप्तलिङ्गानि तु क्रमात् स्वास्थ्यवातकफविकारैरादिशेत्॥

अस33.6
यदा तु सम्यग्योगप्राप्तं तर्पणं भवति तदा तद्विधेष्वेव रोगेषु पुटपाकं विदध्यात्।
स त्रिविधः।
स्नेहनो लेखनः प्रसादनश्च॥

अस33.7
तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः तथा स्वादुद्रव्यैश्च क्षीरपिष्टै रूक्षेऽक्ष्णि प्रयोजयेत्॥

अस33.8
लेखनं जाङ्गलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशङ्खताम्रायस्समुद्रफेनकासीसस्रोतोजसैन्धवादिभिश्च लेखनद्रव्यैर्दधिमस्तुमधुपिष्टैः स्निग्धे॥

अस33.9
प्रसादनीयं तु जाङ्गलमृगपक्षियकृद्धृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः।
स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफविरुद्धः॥

अस33.10
अथ बिल्वमात्रं वेशवारीकृतं मांसपिण्डं तन्मात्रेणैवौषधपिण्डेन संसृज्यैरण्डवटोत्पलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुञ्जसूत्रान्यतमेन बध्नीयात्।
मृत्प्रलेपनं चात्र द्व्यङ्गुलोत्सेधं कृत्वा धवधन्वमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमालपाटलीना मन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत्।
अग्निवर्णं चैनमपनीय विगतमृत्सूत्रपत्रं कृत्वा वस्त्रेण पीडयेत्।
तेन रसेन सायं तर्पणवत् पूरयेन्नेत्रे।
धारयेच्च स्नेहने शतद्वयं मात्राणां लेखने शतं प्रसादने त्रीणि शतानि॥

अस33.11
तप्रणवदेव धूमपानं प्रसादनवर्ज्यम्।
सुखोष्णौ च पूर्वौ।
शीतः प्रसादनः।
पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः।
द्विगुणश्च तर्पणपुटपाकयोः परिहारः।
बद्धाक्षैश्च मालतीमल्लिकाकुसुमैर्निवसेत्।
तथा पक्वातिसारेऽपि पुटपाकस्यायमेव विधिरिति।
भवति चात्र श्लोकः॥

अस33.12
सेकेऽञ्जने तर्पणे च पुटपाके च ये गदाः।
जायेरन् विधिविभ्रंशाद्यथास्वं तान् प्रसाधयेत्॥
इति त्रयस्त्रिंशोऽध्यायः॥

अथ चतुस्त्रिंशोऽध्यायः।

अस34.1
अथातो यन्त्रशस्त्रविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस34.2
मनःशरीराबाधकराणि शल्यानि।
तेषां नानाविधानां शल्यानां नानादेशनिविष्टानामाहरणेऽभ्युपायो यन्त्राण्यर्शोभगन्दरादिषु शस्त्रक्षाराग्न्यवचारणे शेषाङ्गरक्षणे च।
तथा बस्तिप्रणयनादौ शृङ्गालाबुघटिकादयो जाम्बवौष्ठादीनि।
अन्यान्यपि चानेकरूपाण्यनेककर्माणि स्वस्थातुरोपकरणानि।
अतः कर्मवशात्तेषामियत्तावधारणमशक्यम्॥

अस34.3
अन्ये पुनरेकोत्तरं यन्त्रशतमित्याचक्षते।
इह पुनः समासतः षोढा निर्दिश्यन्ते।
तद्यथा स्वस्तिकसन्दंशतालनाडीशलाकाख्यान्यनुयन्त्राणि च॥

अस34.4
तत्र स्वस्तिकयन्त्राणि कङ्कसिंहगृध्रकुररादिविविधव्यालमुखान्याकारानुगताभिधानानि प्रायशो लौहान्यष्टादशाङ्गुलानि।
मसूराकारप्रान्तैः कण्ठे कीलैरवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थिविनष्टशल्योद्धरणार्थानि।
तेषां सिंहव्याघ्रभुजङ्गमकरादिमुखानि दृश्यवारङ्गेषु शल्येषु प्रयोजयेत्।
इतरेषु तु यथायोगं व्रणाकारानुरोधेन कङ्ककाककुररादिमुखानि॥

अस34.5
सनिबन्धनो निर्निबन्धनश्च षोडशाङ्गुलौ सन्दंशौ द्वौ भवतः।
तौ त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते।
तथान्यः सन्दंशः षडङ्गुलोऽर्धाङ्गुलविस्तृतो वक्रद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्मव्रणाधिमांसाहरणे॥

अस34.6
तद्वच्च मुचुटी।
सा तु सूक्ष्मदन्तर्जुर्द्विभुजा मूले रुचकनद्धा वलयपीडनात् छिन्नार्मशेषगम्भीरव्रणाधिमांसाहरणे॥

अस34.7
तालयन्त्रे अपि द्वे द्वादशाङ्गुले मत्स्यगलतालकवदेकतालकद्वितालके कर्णनाडीशल्याहरणार्थे॥

अस34.8
नाडीयन्त्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजनान्येनकतोमुखान्येकतोमुखानि च भवन्ति।
स्रोतोगतशल्यदर्शनार्थमाहरणार्थं क्रियासौकर्यार्थमाचूषणार्थं चेति।
तानि स्रोतोद्वारपरिणाहानि तथायोगप्रदीर्घाणि च कुर्यात्॥

अस34.9
कण्ठशल्यदर्शनार्थं नाडीं दशाङ्गुलायतां पञ्चाङ्गुलपरिणाहां द्विकर्णस्य तु वारङ्गस्य सङ्ग्रहार्थं त्रिच्छिद्रमुखां नाडीं तत्प्रमाणतः कुर्यात्।
तथा चतुष्कर्णस्य पञ्चच्छिद्रमुखाम्।
शल्यनिर्घातिनीं तु पद्मकर्णिकाकारशीर्षां द्वादशाङ्गुलां त्र्यङ्गुलसुषिराम्॥

अस34.10
आर्शोयन्त्रं त्रिविधम्।
ताम्रायोहैमं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं हस्ततलायतमेकं पञ्चाङ्गुलानि परिणाहेन पुंसां षङ्गुलानि स्त्रीणाम्।
द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि।
तथा हि सुखेन दर्शनं शस्त्रक्षाराग्न्यनतिक्रमश्च।
छिद्रं तु त्र्यङ्गुलायतमङ्गुष्ठोदरविस्तारम्। यदङ्गुलमवशिष्टं तस्याधोऽर्धाङ्गुलमुपरि तथार्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकम्।
तृतीयं तु तादृशमेव शम्याख्यं पार्श्वच्छिद्ररहितं पीडनार्थम्।
भगन्दरे तु छिद्रादूर्ध्वमोष्ठमपनीय कुर्वीत।
तद्वच्च घ्राणार्शोऽर्बुदयन्त्रं नाड्याकारं द्व्यङ्गुलायतमेकच्छिद्रं प्रदेशिनीपरीणाहम्॥

अस34.11
तथाङ्गुलीत्राणकमङ्गुलीप्रवेशितं किञ्चित्स्थूलवृत्तौष्ठमूर्ध्वाधश्छिद्रं गोस्तनाकृति चतुरङ्गुलं दान्तं शार्ङ्गं वार्क्षं वा।
तद्दृढेन सूत्रेण मणिबन्धप्रतिबद्धमास्यविस्रावणे योज्यम्॥

अस34.12
योनिव्रणदर्शने यन्त्रं षोडशाङ्गुलम्।
मध्ये सुषिरं चतुर्भित्तं चतुश्शलाकं सञ्चारिण्यामुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्त्रं मूले शलाकाक्रमणादूर्ध्वविकासि च।
नाडीव्रणप्रक्षालनाभ्यञ्जनयन्त्रे षडङ्गुले बस्तियन्त्राकारे मुखतोऽकर्णिके मूलमुखयोरङ्गुष्ठकलायप्रवेशस्रोतसी।
दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीं वा युञ्ज्यात्।
स्नेहबस्त्युत्तरबस्तिप्रधमनधूममूत्रवृद्धिनिरुद्धमणिप्रभृतिषु यथास्वमेव यन्त्राण्युक्तानि॥

अस34.13
शृङ्गं तु ह्रस्वमध्यदीर्घमष्टादशद्वादशाङ्गुलायतं त्र्यङ्गुलप्रवेशमुखमग्रे सर्षपोपलच्छिद्रं तनुचर्मनद्धं चूचुकाकारमुखं च।
तद्वातविषरक्ताम्बुदुष्टस्तन्यचूषणार्थम्।
श्लेष्मरक्ताचूषणार्थस्त्वलाबुः।
स द्वादशाङ्गुलदीर्घोऽष्टादशाङ्गुलपरिणाहस्त्रिचतुरङ्गुलवृत्तसमुच्छ्रितमुखः परिवेष्टितदीप्तकुशबल्वजपिचुगर्भश्च प्रयोज्यः।
तद्वदेव च मानकर्माभ्यां घटी।
सा तु गुल्मोन्नमनविलयनार्थं च॥

अस34.14
शलाकायन्त्राण्यपि नानाकृतीनि नानार्थानि यथायोगं दैर्घ्यपरिणाहानि च भवन्ति।
तेषामेषणकर्मणी द्वे गण्डूपदमुखे।
स्रोतोगतशल्याहरणार्थेऽष्टाङ्गुलनवाङ्गुले द्वे मसूरदलमुखे।
षट् शङ्कवः।
तेषां व्यूहनक्रियौ द्वादशषोडशाङ्गुलौ द्वावहिफणामुखौ।
तथा चालनार्थे दशद्वादशाङ्गुलौ शरपुङ्खमुखौ।
आहरणार्थे बडिशमुखौ।
तथा गर्भशङ्कुः शङ्कुतुल्योऽष्टादशाङ्गुलः प्रणताग्रो मूडगर्भाहरणे।
तथा सर्पफणावदेवाग्रवक्रं तदाख्यमश्मर्याहरणार्थम्।
तथा दन्तनिर्घातनं चतुरङ्गुलं शरपुङ्खमुखं स्थूलवृत्तप्रान्तम्॥

अस34.15
षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्रमार्जनक्रियासु।
तेषामपि दूरासन्नघ्राणव्रणोपयोगिनी षट् सप्ताङ्गुले द्वे।
पायौ दशद्वादशाङ्गुले।
कर्णशोधनं स्रुवमुखमश्वत्थपत्राग्रम्।
तथा क्षाराग्निकर्मार्थे जाम्बवोष्ठानि द्वादशाष्टाङ्गुलानि क्रमाद्व्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि॥

अस34.16
शलाकाश्च स्थूलसूक्ष्मदीर्घह्रस्वमध्याः।
आन्त्रवृद्धौ त्वर्धेन्दुवक्रा मध्योर्ध्वनिर्गतशलाकाः।
दहने नासार्शोऽर्बुदयोः कोलास्थिदलमात्रमुखा वेल्लितौष्ठा।
क्षारविषौषधप्रणिधानाय च दर्व्यस्तिस्रोऽष्टाङ्गुला दर्व्याकाराः कनिष्ठिकानामिकामध्यमाङ्गुलिनखपरिमाणनिम्नमुखास्तथाञ्जलिसंस्थानाः।
उत्तरबस्त्यञ्जनादिषु यथायथमेवोपदिष्टानि॥

अस34.17
अनुयन्त्राण्ययस्कान्तरज्जुचर्मान्त्रवस्त्राश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तमुखशाखानखबालाश्वकालपाकहर्षभयानि॥

अस34.18
एतानि देहे सर्वस्मिन् देहस्यावयवेऽपि वा।
सन्धौ कोष्ठधमन्यां च यथायोगं प्रयोजयेत्॥

अस34.19
यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनपरिवर्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यथनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणौजूकरणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि बाहुल्येनचतुर्विंशतिर्भवन्ति॥

अस34.20
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्।
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च॥

अस34.21
शस्त्राणि तु षड्विंशतिर्भवन्ति।
तद्यथा दन्तलेखनमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्रकुशापत्राटीमुखान्तर्मुखशरारीमुखत्रिकूर्चकुठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चखजैषिणीबडिशनखशस्त्राणि चेति।
प्रायश्च तानि षडङ्गुलानि सुध्मातावर्तितायोघटितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुखाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्धचतुर्थभागफलानि।
तानि व्याधिदेशवशात् प्रयुञ्जीत।
तेषां नामभिरेवाकृतयः प्रायेण यन्त्रवद्व्याख्याताः॥

अस34.22
तत्र त्रयमाद्यं लेखने।
वृद्धिपत्रादीनि त्रीणि पाटने।
चत्वारि भेदने।
मण्डलाग्रादीन्यष्टौ छेदने।
कुशपत्रादीनि पञ्च प्रच्छाने।
कुठारिकादीनि षट् व्यधने।
तेषामाराव्रीहिमुखे भेदने छेदने च।
सूच्यः सीवने।
सूचीकूर्चः कुट्टने।
खजो मथने।
एषिण्येषणे भेदने च।
बडिशो ग्रहणे।
नखशस्त्रमुद्धरणे।
छेद्यभेद्यलेख्यप्रच्छानेषु च।
इति द्वादशाविधे शस्त्रकर्मण्युपयोगः॥

अस34.23
विशेषतस्तु दन्तलेखनं सुप्रबन्धवच्चतुरस्रमेकधारं दन्तशर्करालेखने।
मण्डलाग्रं प्रदेशिन्यन्तर्नखविस्तृतफलं तल्लेखनच्छेदनयोर्वर्त्मरोगोत्सन्नदन्तमांसदुर्निविष्टव्रणगलशुण्डिकादिषु प्रयोज्यम्॥

अस34.24
वृद्धिपत्रं क्षुराकारं तत्तून्नते गम्भीरे वा श्वयथावृजुसूच्यग्रमिष्टम्।
विपरीते तु पृष्ठतोऽवनतधारम्॥

अस34.25
अङ्गुलिशस्त्रकं मुद्रिकानिर्गतमुखं वृद्धिपत्रमण्डलाग्राध्यर्धधारान्यतमतुल्यार्धाङ्गुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणार्पणवृत्तमुद्रिकं दृढसूत्रप्रतिबन्धं कण्ठरोगेषु प्रयुज्यते॥

अस34.26
कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्था।
सर्पवक्त्रं वक्रमर्धाङ्गुलफलं घ्राणकर्णार्शोऽर्बुदच्छेदनार्थम्।
करपत्रं दशाङ्गुलं द्व्यङ्गुलविस्तारं सूक्ष्मदन्तं खरधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थम्।
कुशपत्राटीमुखे द्व्यङ्गुलफले।
अन्तर्मुखमर्धचन्द्राकारमध्यर्धाङ्गुलफलम्॥

अस34.27
कुठारिका पृथुदण्डा गोदन्ताकारा अर्धाङ्गुलफलास्थ्याश्रितसिराव्यधार्था।
व्रीहिमुखमध्यर्धाङ्गुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च।
शलाकोभयतोमुखी कुरबकमुकुलाग्रा ताम्रमयी लिङ्गनाशव्यधनार्था॥

अस34.28
आरा चतुरस्रार्धाङ्गुलवृत्तमुखा तावत्प्रवेशा बहलकर्णपालीव्यथार्था पक्वामशोफसन्देहभेदनार्था च।
कर्णव्यधनं त्र्यङ्गुलायतमङ्गुलसुषिरं घनं यूथिकामुकुलाग्रम्॥

अस34.29
सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः।
तत्र मांसलेष्ववकाशेषु त्र्यङ्गुला त्र्यस्रा।
सन्ध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यङ्गुला वृत्ता पक्वामाशययोर्मर्मसु च सार्धद्व्यङ्गुला धनुर्वक्रा व्रीहिमुखा च॥

अस34.30
सूचीकूर्चो वृत्तैकमूलोऽग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्टश्वित्रव्यङ्गेन्द्रलुप्तसुप्तादिषु।
खजस्त्वर्धाङ्गुलायताष्टकण्टकमुखस्ताम्रो लौहो वा नासाभ्यन्तरगतशोणितमोक्षणार्थः।
एषण्या द्वे सुश्लक्ष्णस्पर्शे तयोरेकाष्टाङ्गुला गतिकोथशल्यस्राववत्सु व्रणेषु सुषिरान्वेषणे।
अन्या सूचीसंस्थाना क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगन्दरगतीनां च भेदने।
बडिशोऽत्यवनतमुखः सूचीतीक्ष्णाग्रो ग्रहणे गलशुण्डिकार्मादेः।
नखशस्त्रमष्टाङ्गुलमेकतोऽश्वकर्णमुखमन्यतो वत्सदन्तमुखं सूक्ष्मशल्योद् वृतौ॥

अस34.31
अणुशस्त्राणि तु जलौकःक्षाराग्निसूर्यकान्तकाचस्फटिककुरुचिन्दनखशाकशोफालिकादिखरपत्रसमुद्रफेनशुष्कगोमयादीनि।
स्वबुद्ध्या च विकल्प्य विविधानि यन्त्रशस्त्राणि तत्कर्माणि चोपकल्पयेत्।
हस्त एव चात्र प्रधानतमस्तदधीनत्वाद्यन्त्रशस्त्राणाम्॥

अस34.32
तत्र दीर्घह्रस्वस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौ यन्त्रदोषाः।
अत्राद्याः पञ्च कुण्ठखण्डखरधाराश्चेत्यष्टावेव शस्त्रदोषाः।
अन्यत्र करपत्रात्॥

अस34.33
तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु उदकेन मांसच्छेदनेषु।
तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत॥

अस34.34
धारा पुनः छेदनानां मासूरी लेखनानामर्धमासूरी।
व्यधनानां विस्रावणानां च कैशिकी॥

अस34.35
तेषां छेदनभेदनलेखनानि वृन्तसाधारणे भागे प्रदेशिनीमध्यमाङ्गुष्ठैः सुसमाहितो गृह्णीयात्।
वृन्ताग्रे विस्रावणानि प्रदेशिन्यङ्गुष्ठाङ्गुलीभ्याम्।
हस्ततलप्रच्छादितवृन्ताग्रं व्रीहिमुखं मुखे।
मूलेष्वाहरणार्थानि।
पाशस्योपरि मध्ये लघुसन्दंशं कर्तरीं च।
शेषाण्यपि यथायोगं क्रियासौकर्येण॥

अस34.36
निशातनी तु तेषां सुश्लक्ष्णा शिला माषमुद्गप्रभा।
धारासंस्थापनं च शाल्मलीफलकम्॥

अस34.37
न चाधिगतशास्त्रोप्यकृतयोग्यः सुबहुशो वाप्यदृष्टकर्मा शस्त्रकर्माणि प्रवर्त्तेत।
सिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य।
तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात्।
तथा घटपार्श्वस्रोतस्यम्भोभिः पूर्णेन नेत्रेण बस्तिपीड्Aनयोग्याम् मृदुमांसखण्डेष्वग्निक्षारावचरणयोग्याम्।
पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम्।
अपि च॥

अस34.38
युक्तकारी भिषग् बुभूषुः पुरुषं संपूर्णगात्रमविषहतमदीर्घव्याधिपीडितं निष्कृष्टदृष्टान्त्रमावहन्त्यामापगायां मुञ्जबल्बजवेष्टितं पञ्जरस्थमप्रकाशे देशे कोथयेत्।
तं सम्यक्प्रकुथितं चोद्घृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैश्शनैरवघृष्य त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गसिरास्नाय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत्॥

अस34.39
इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत्।
समागतं तदुभयं भूयो ज्ञानं विवर्धयेत्॥

अस34.40
स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः।
क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥

अस34.41
विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः।
शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः॥
इति चतुस्त्रिंशोऽध्यायः।

अथ पञ्चत्रिंशोऽध्यायः।

अस35.1
अथातो जलौकोविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस35.2
नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत्॥

अस35.3
तास्तु द्विविधाः सविषा निर्विषाश्च।
तत्र दुष्टाम्बुसर्पमण्डूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थूलचपलपिच्छिलाः स्थूलमध्यरोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः।
तद्दंशाद्दाहशोफपाककण्डूपिटकाविसर्पज्वरमूर्छश्वित्रोत्पत्तिः।
तत्र विषपित्तरक्तहरां क्रियां कुर्वीत।
पद्मोत्पलसौगन्धिकादिसुगन्धिविमलविपुलसलिलशैवालजाः शैवालश्यावा नीलोर्ध्वराजयो वृत्ताश्च निर्विषाः॥

अस35.4
सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि।
तत्र चतुष्पञ्चषडङ्गुला नृषु योजयेत्।
गजवाजिष्वपराः।
तासु सुकुमारास्तनुत्वचोऽल्पशिरस्का बृहदधरकायाश्च स्त्रियः।
विपरीताः पुमांसोऽर्धचन्द्राकृतिपुरोवृत्ताश्च।
तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः।
स्त्रियो विपरीतेषु।
जलौकसस्त्वार्द्रचर्माह्युपायैर्गृहीत्वा सुरभिपङ्कगर्भे नवे घटे स्थापयेत्।
शृङ्गाटककशेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्।
लालादिकोथपरिहारार्थमेवं च त्र्यहात् त्र्यहादूर्ध्वं पूर्वमन्नपानमपनीयान्यद्दद्यात्।
पञ्चाहाच्च तद्विध एव घटान्तरे ताः सञ्चारयेत्।
तासां तु दुष्टशोणितासम्यग्वमनात् प्रततपातनाच्च मूर्च्छा भवति।
तासामम्भोभिः पूर्णभाजनस्थानामचेष्टयाहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत्।
इतरास्तु हरिद्रासर्षपकल्काम्भसि मुक्तपुरीषा अवन्तिसोमे तक्रे वा पुनराश्वासिता जले सुखोपविष्टस्य संविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुखं विरूक्ष्य दंशदेशं योजयेत्।
अलगन्तीषु क्षीरघृतनवनीतरुधिरान्यतमबिन्दून् न्यसेत् प्रच्छेद्वा।
अश्वखुरवच्च वक्त्रं निवेश्योन्नतस्कन्धा दशन्ति।
यदा च शिशुवच्छ्वसन्त्यो शिरःस्पन्दोर्मिवेगैः पिबन्ति तदार्द्रवाससावच्छादयेत्।
सेचयेच्चाम्भसाल्पाल्पम्।
यथा च हंसः क्षीरोदकात् क्षीरमादत्ते।
तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राग् दुष्टमसृक्।
यदा च तद्दंशे तोदः कण्डूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत्।
लौल्याच्च दंशममुञ्चन्त्याः क्षौद्रं लवणचूर्णं वा मुखे दद्यात्॥

अस35.5
पतितां तु तण्डुलकण्डनोपदिग्धगात्रां तैललवणाभ्यक्तमुखीं आपुच्छादामुखमनुलोमं शनैः पीडयन् सम्यग्वामयेत्।
ततः पूर्ववत् सन्निदध्यात्।
सप्तरात्रं च ताः पुनर्न पातयेत्।
अशुद्धे तु रक्ते मधुना गुडेन वा दंशात् किञ्चिदवघट्टयन् स्रावयेत्।
स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिःपिचुनावगुण्ठयेत्।
स्थितरक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सघृतैः प्रदेहैः प्रदिह्यात्॥

अस35.6
तत्र योगादीन् सिराव्यधवदुपलक्षयेत्।
प्रतिकुर्वीत च।
दुष्टरक्तापगमात् श्वयथुशैथिल्यं दाहरागशूलोपशमश्च।
रक्तपित्तेन दुष्टमलाबुघटिकाभ्यां न निर्हरेदग्निसंयोगाद्वातकफाभ्यां च दुष्टं निर्हरेत्।
तथा कफेन न शृङ्गेण स्कन्नत्वात्।
वातपित्ताभ्यां तु दुष्टं निर्हरेत्।
अथ प्रच्छाद्याङ्गं तनुवस्त्रपटलावनद्धप्रान्तेन शृङ्गेणाचूषेत्।
तथा प्रदीप्तापिचुगर्भाभ्यामलाबुघटिकाभ्यामिति।
भवन्ति चात्र श्लोकाः॥

अस35.7
गात्रं बध्वोपरिदृढं रज्ज्वा पट्टेन वा समम्।
स्नायुसन्ध्यस्थिमर्माणि त्यजन्प्रच्छानमाचरेत्॥

अस35.8
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः।
न गाढघनतिर्यग्भिर्न पदे पदमाच्रेत्॥

अस35.9
प्रच्छानेनैकदेशस्थं सुप्तं शृङ्गादिभिर्हरेत्।
ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः॥

अस35.10
प्रच्छानं पिण्डिते वास्यादवगाढे जलौकसः।
त्वक्स्थेऽलाबुघटीशृङ्गं सिरैव व्यापकेऽसृजि।
वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्॥

अस35.11
स्रुतासृजः प्रदेहाद्यः शीतैः स्याद्वायुकोपतः।
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्॥
इति पञ्चत्रिंशोऽध्यायः।

अथ षट्त्रिंशोऽध्यायः।

अस36.1
अथातः सिराव्यधविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस36.2
बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु सिराव्यधः प्रधानम्।
अमुना हि ते समूलाः शोषमायान्ति केदारसेतुभेदेन शाल्यादय इव।
तथा च॥

अस36.3
सिराव्यधश्चिकित्सार्धं संपूर्णं वा चिकित्सितम्।
शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते॥

अस36.4
यथा रक्तमधिष्ठानं विकाराणां विकारिणाम्।
अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः॥

अस36.5
तत्राम्बु शारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रञ्जितमिन्द्रगोपाकारं च शशशोणितगुञ्जाफलालक्तपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमसंहतमशीतोष्णं गुरु पित्तैकचयप्रकोपोपशमं सौम्याग्रेयं प्रकृत्या रक्तमाहुः।
तथा दोषम्।
दूष्यमिति केचित्।
उभयात्मकमन्ये॥

अस36.6
तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुखायुषां योनिः।
इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यन्दाधिमन्थशुक्लार्मतिमिररक्तराजीशिरस्तोदभेददाहकण्डूकर्णरोगमुखपाकपूतिघ्राणास्योपदेहत्वगुल्मप्लीहविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटकाश्लीपदोपदंशशङ्खशोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशाङ्गगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्छायसन्यासकम्पतन्द्रादीनाम्।
ये च शीतोष्णस्निग्धरूक्षाद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रान्ताः साध्या अपि न सिध्यन्ति।
ते च रक्तप्रकोपजाः तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विध्येत्॥

अस36.7
न तु स्नेहपीतकृतपञ्चकर्मान्यतमगर्भिणीसूतिकाजीर्णकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिघातातिस्रुतरक्तादुष्टरक्तास्निग्धातिस्निग्धास्विन्नाक्षेपकपक्षाघातातिसारच्छर्दिश्वासकासोदररक्तपित्तार्शःपाण्डुरोगसर्वाङ्गशोफपीडितानाम्।
न चाव्यधनीयाश्चायन्त्रितानुत्थिताः सिराः न तिर्यङ्न चातिशीतोष्णवर्षवाताभ्रेषु।
तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवन्त्यतिस्रवन्ति वा सम्यक्स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते।
न त्वेष निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु।
प्रतिरोगं तु व्यधं प्रति विभागः॥

अस36.8
शिरोनेत्ररोगेषु लालाट्यामुपनास्यामपाङ्ग्यां वा कर्णरोगेषु परितः कर्णौ।
नासारोगेषु नासाग्रे।
प्रतिश्याये तु नासाललाटस्थाः।
मुखरोगेषु जिह्वौष्ठहनुतालुगाः।
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खमूर्धगाः।
अपस्मारे हनुसन्धिमध्यगाः।
उन्मादेतूरोऽपाङ्गललाटगाः।
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरस्थाः।
चतुर्थके स्कन्धाधोगतामन्यतरपार्श्वाश्रयाम्।
तृतीयकेऽंसयोरन्तरे त्रिकसन्धिमध्यगताम्।
प्रवाहिकायां शूलिन्यां श्रोण्याः समन्तात् द्व्यङ्गुले।
निर्वृत्तोपदंशशुक्रव्यापत्सु मेढ्रे।
गलगण्डः ऊर्मूलसंश्रिताम्।
गृद्ध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले।
अपच्यामिन्द्रबस्तेरधस्तात् द्व्यङ्गुले।
क्रोष्टुकणीर्षे सक्थिवातरुजासु च गुल्फस्योपरिष्टाच्चतुरङ्गुले।
श्लीपदेषु यथास्वं वक्ष्यते।
दाहहर्षचिप्पवातशोणितवातकण्टकविदारिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मण उपरिष्टात् द्व्यङ्गुले।
एतेनेतरसक्थिबाहू व्याख्यातौ।
विशेषतस्तु वामभागाभ्यन्तरतो बाहुमध्ये प्लीहोदरे।
एवमेव दक्षिणे बाहौ यकृदाख्ये।
तथा कासश्वासयोरप्यादिशन्ति।
गृध्रस्यामिव विश्वाच्याम्।
बाहुशोषापबाहुकयोरप्येके।
अदृश्यमानासु त्वेतास्वतिवृद्धस्य व्याधेरन्यव्याध्युक्तानामपि यथासन्नं व्यधः॥

अस36.9
प्रागेव चोपकल्पयेच्छयनासनोदकुम्भवस्त्रपट्टादि।
तथा यथालाभं च तगरैलाशीतशिवकुष्ठपाठाविडङ्गभद्रदारुत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालचूर्णमसृक्स्रावणाय।
असृक् स्थापनाय च लोद्ध्रमधुकप्रियङ्गुपत्तङ्गगैरिकरसाञ्जनशाल्मलीशङ्खयवगोधूममाषचूर्णम्।
वट्Aअश्वत्थाश्वकर्णपलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिन्दुकत्वगङ्कुरनिर्यासश्रीवेष्टकमृत्कपालमृणालाञ्जनचूर्णम्।
क्षौममषीलाक्षासमुद्रफेनचूर्णं वा।
तथान्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणम्।
सज्जोपकरणो हि विद्यो न मोहमाप्नेति॥

अस36.10
अथ कृतस्वस्त्ययनमातुरं व्याधिबलसात्म्याद्यवेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्वा मुहूर्तमात्रमाश्वासितं पूर्वाह्णेऽपराह्वे वाङ्गारतापोष्णबाष्पान्यतरेण स्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत्।
केशान्ते च प्लोतचर्मवल्कलपट्टान्यतमेन बध्नीयात्।
ततश्चायतेन वस्त्राङ्गुष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्ये निपीडयेद्दन्तैश्च दन्तान्।
गण्डौ चाध्मापयेत्।
पुरुषश्चैनं पृष्ठत ऊर्ध्वस्थः वस्त्रकृकाटिकान्तरन्यस्तयन्वस्त्रं प्राणानबाधमानो यन्त्रयेदित्येषोऽन्तर्मुखवर्ज्यानां सिराणां व्यधने यन्त्रविधिः।
ततश्चास्य वैद्योऽङ्गुष्ठविष्टब्धया मध्यमयाङ्गुल्या सिरां ताडयेत्।
उत्थिताञ्च स्पन्दमानां स्पर्शदां वाभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदण्डां कृत्वा सिरामध्येन्यस्य लक्षयित्वा च तथैव च मध्यमयाङ्गुल्या ताडयेदङ्गुष्ठोदरेण वा पीडयेत्।
गूडबहलत्वक्प्रतिच्छन्नायामङ्गुष्ठपीडनादुन्नमनमुपलक्षयेत्।
उत्कसनेन क्रोधसंरम्भेण चापूर्यन्ते सिराः।
अङ्गुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुखेनोपनासिकां विध्येत्॥

अस36.11
उन्नमितविदष्टाग्रजिह्वस्याधो जिह्वायाः।
विवृतास्यस्य तालुनि दन्तमूले च।
ग्रीवासिरासु स्तनयोरुपरि यन्त्रयेत्।
उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः।
बाहुभ्यामवलम्बमानस्य पार्श्वयोः।
उन्नतमेढ्रस्य मेढ्रे।
श्रोणिपृष्ठस्कन्धेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य।
विश्वाचीगृध्रस्योरनाकुञ्चिते कूर्परे जानुनि च सुखोपविष्टस्य गूढाङ्गुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशस्योपरि चतुरङ्गुले प्लोताद्यन्यतमेन च बध्वा हस्तसिराम्।
एवमेकपादं सुसंस्थितं स्थापयित्वान्यपादमीषत्सङ्कुचितं तस्योपरि निधाय जानुसन्धेरधोहस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां विध्येत्।
तत्र तत्र च तैस्तैरुपायैर्विकल्प्य यन्त्रयेत्॥

अस36.12
तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुखेन।
अतोऽन्यथार्धयवमात्रं व्रीहिमात्रं वा।
अस्थ्नामुपरिकुठारिकयार्धयवमात्रम्।
सर्वत्र चानुत्तानावगाढमृज्वसङ्कीर्णं मर्माद्यनुपघातिसिरामध्ये शस्त्रमाशु पातयेत्॥

अस36.13
एकप्रहाराभिहता धारया या स्रवेदसृक्।
मुहूर्तरुद्धा तिष्ठेच्च सम्यग्विद्धेति तां विदुः॥

अस36.14
अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः।
सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते॥

अस36.15
सम्यग्विद्धानामपि च सिराणामवहनकारणानि मूर्छा भयं यन्त्रशैथिल्यमतिगाढत्वमत्याशितता क्षामत्वं कुण्ठशस्त्रव्यधो मूत्रितोच्चारितत्वं दुःस्विन्नता कफावृतव्रणद्वारता चेति।
अथाप्रवृत्तिकारणं यथास्वमुपलक्ष्य प्रतिकुर्यात्।
तगरादिचूर्णेन च तैललवणप्रगाढेन सिरामुखमवचूर्णयेत्।
पृष्ठमध्ये चातुरं पीडयेत्।
एवं साधु वहति।
सम्यक् प्रवृत्ते कफानिलोपशमनरक्ताविच्छेदनार्थष्मुणलवणतैलबिन्दुभिः सिरामुखं सिञ्चेत्॥

अस36.16
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका।
सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्॥

अस36.17
यस्य तु स्रवति रक्ते मूर्छा जायते तस्य विमुच्य यन्त्रं शीतसलिलार्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुखेन वचसा च समाश्वासयन्नुपशमय्य मूर्छां पुनः स्रावयेत्।
पुनर्मूर्छत्यपरेद्युस्त्र्यहेऽपि वा।
परं तु रुधिरावसेचनप्रमाणं प्रस्थः।
अतोऽन्यथा व्याधिदेहर्तुबलमपेक्षेत॥

अस36.18
तत्र फेनिलमरुणं श्यावमच्छं रूक्षमस्कन्दि कषायानुरसं लोहगन्धि वेगस्रावि शीतं च रक्तं वातात्।
गृहधूमाञ्जनोदककृष्णं पीतं हरितं विस्रं मत्स्यगन्धि कटुत्वान्मक्षिकानिष्टमौष्ण्यादस्कन्दि सचन्द्रकं गोमूत्राभं च पित्तात्।
कोविदारपुष्पगैरिकोदकापाण्डु शीतं स्निग्धं स्कन्दि घनं पिच्छिलं तन्तुमद् व्रणद्वारावसादि लवणरसं वसागन्धि च कफात्।
द्वन्द्वसङ्कीर्णं संसर्गात्।
कंसनीलमाविलं दुर्गन्धं च सन्निपातात्।
शुद्धमुक्तं प्राक्।
ततः स्रुतरक्तस्य व्यधमनुलोममङ्गुष्ठेनोपरुध्य शनैश्शनैर्यन्त्रमपनीयाश्वासयेत्।
सतैलं च प्लोतं सिरामुखे दत्वा बध्नीयात्।
संवेशयेच्चैनम्॥

अस36.19
अतिष्ठति तु रक्ते सिरामुखं सन्धातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्याङ्गुल्यग्रेण पीडयेत्।
शाल्मल्युपोदकापिच्छां वा व्रणमुखे दत्वा गाढं बध्नीयात्।
मधूच्छिष्टप्रलिप्तं वा पट्टम्।
शीताम्बुनावसिञ्चेत्।
शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत्।
पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य सिरां विध्वा रुधिरमामं घृतभृष्टं वा पानं दद्यात्।
तेनैव वा दर्भपादमृदितेनानुवासयेत्।
स्निग्धैश्च यूषरसैर्भोजयेत्।
व्यधादनन्तरं वा पुनस्तामेव सिरां विध्येत्।
सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्।
सङ्कोचयितुं वा सिरामुखं तप्तशलाकया दहेत्।
न च क्षणमप्युपेक्षेत।
क्षीणरक्तस्य हि वायुर्मर्माण्युपसङ्गृह्य मूर्छासंज्ञानाशाशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मापाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति।
मरणं वा॥

अस36.20
प्राणः प्राणभृतां रक्तं तत्क्षयात् क्षीयतेऽनलः।
वर्धनं चानिलस्तस्माद्युक्त्या बृंहणमाचरेत्॥

अस36.21
अशुद्धं तु रक्तमपराह्णेऽन्येद्युर्वा पुनः स्रावयेत्।
ततोऽपि शेषं सर्वथा वाप्यविस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत्।
मासमात्रं वा स्नेहादिभिरुपचर्य पुनर्विध्येत्।
दुर्व्यधातिव्यधकुटिततिर्यग्व्यधादेर्व्यधदोषाद्व्यापदो याः स्युस्ता यथास्वं साधयेदिति।
भवति चात्र॥

अस36.22
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्।
दोषाः प्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक् स्यात्॥

अस36.23
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्।
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः॥

अस36.24
प्रसन्नवर्णेन्द्रियमिन्द्रिथार्थानिच्छन्तमव्याहतपक्तृवेगम्।
सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥
इति षट्त्रिंशोऽध्यायः।

अथ सप्तत्रिंशोऽध्यायः।

अस37.1
अथातः शल्याहरणविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस37.2
त्रिविधा हि गतिः शल्यानामूर्ध्वमधस्तिर्यक् च।
सा पुनः प्रत्येकमृजुवक्रभेदेन द्विविधा॥

अस37.3
तत्र ध्यामं पिटकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुद्गतं मृदुमांसं च व्रणं सशल्यं विद्यात्॥

अस37.4
विशेषतस्तु त्वग्गते शल्ये विवर्णः शोफो भवत्यायतः कठिनश्च।
मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषः पाकश्च॥

अस37.5
पेश्यन्तरस्थे शोफवर्ज्यं मांसप्राप्तवत्।
सिरागते सिराध्मानं शूलं च।
स्नावगते स्नावजालावक्षेपणं संरम्भश्चोग्ररुक्॥

अस37.6
स्रोतोगते स्रोतसां स्वकर्मगुणहानिः।
धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गपीडा हृल्लासश्च।
अस्थिगते विविधा वेदनाः शोफश्च॥

अस37.7
सन्धिगतेऽस्थिवच्चेष्टोपरोधश्च।
अस्थिसन्धिगतेऽस्थिपूर्णता सङ्घर्षो बलवांश्च॥

अस37.8
कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनानि च व्रणमुखाद्भवन्ति।
मर्मगते मर्मविद्धवत्॥

अस37.9
यथायथं चोपदिष्टैः परिस्रावैस्त्वगादिषु शल्यमुपलक्षयेत्।
सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यविस्पष्टानि भवन्ति॥

अस37.10
शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यन्ते।
दोषप्रकोपव्यवायव्यायामाभिघातेभ्यश्च प्रचलितानि पुनराबाधयन्ति॥

अस37.11
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयचूर्णमर्दितायां त्वचि यत्र संरम्भो वेदना वा भवति।
यत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते।
प्रलेपो वा शुष्यति।
तत्र शल्यं जानीयात्।
मांसप्रनष्टे स्नेहादिभिः क्रियाभिरातुरमुपपादयेत्।
कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र यत्र संरम्भं वेदनां वा जनयति तत्र शल्यम्॥

अस37.12
एवं कोष्ठास्त्निपेशीविवरेष्वपि॥

अस37.13
सिरास्रोतोधमनीस्नावप्रणष्टे खण्डचक्रमश्वयुक्तं रथमारोप्यातुरं विषमेऽध्वनि शीघ्रं नयेत्।
ततः संरम्भादिभिर्जानीयात्॥

अस37.14
सन्धिप्रणष्टे स्नेहस्वेदोपपन्नं सन्धिं प्रसारणाकुञ्चनबन्धनपीडनैरुपाचरन् पूर्ववदवगच्छेत्।
अस्थिप्रणष्टे स्निग्धस्विन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपचरंस्तद्वदुपलक्षयेत्॥

अस37.15
मर्मप्रणष्टे त्वनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति॥

अस37.16
सामान्यलक्षणं तूच्छ्रितहस्तिस्कन्धाश्वमाद्रुरोहणद्रुतयानलङ्घनप्लवनव्यायामैर्जम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्मलशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति।
यत्र वा स्वल्पेऽप्यायासे स्वापो गौरवं घट्टनं शोफो वा स्यात्तत्र शल्यमादिशेत्॥

अस37.17
समासतश्चतुर्विधं शल्यं भवति।
वृत्तद्वित्रिचतुरस्रभेदेन।
तददृश्यमानं वृत्तसंस्थानादनुमिमीत॥

अस37.18
सर्वशल्यानां महतामाहरणे द्वावेवोपायौ प्रतिलोमोऽनुलोमश्च॥

अस37.19
तत्र प्रतिलोममर्वाचीनमानयेदनुलोमं पराचीनम्।
तिर्यग्गतं यतः सुखाहार्यं भवति।
ततः छित्वापहरेत्॥

अस37.20
प्रतिलोममनुत्तुण्डितं छेदनीयं पृथुमुखं च शल्यं निर्घातयेत्।
तथा कक्ष्यावङ्क्षणोरःपरशुकान्तरपतितानि॥

अस37.21
नैव चाहरेद्विशल्यघ्नं मर्मप्रणष्टं वाशोफवेदनं पाकविरहितम्॥

अस37.22
अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत्।
तदशक्यं यथायथं यन्त्रेण।
तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाग्निघृतमधुप्रभृतिभिः स्वेदयित्वावदह्य तर्पयित्वा सर्पिर्मधुभ्यां बध्वाचारिकमादिशेत्।
सिरास्नावलग्नं शलाकाग्रेणाभिमोच्याहरेत्।
हृदयेऽभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्याहरेत्।
यथामार्गं दुराहरमन्यतोऽप्येवमाहरेत्॥

अस37.23
अस्थिविवरप्रणष्टमस्थिविदष्टं वावगृह्य पद्भ्यां पुरुषं यन्त्रेणापकर्षेत्।
अशक्यमेवं वा बलवद्भिः सुगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वान्यतश्च पञ्चाङ्ग्या सुसंयतस्याश्वस्य वक्त्रकटके बध्नीयात्।
अथैनमेवं कशया ताडयेद्यथोन्नमयञ्छिरो वेगेन।
शल्यमुद्धरति॥

अस37.24
दृढां वा वृक्षशाखामवनम्य तम्यां पूर्ववद् बध्वोद्धरेत्॥

अस37.25
दुर्बलवारङ्गं तु कुशाभिर्बध्वा।
श्वयथुग्रस्तवारङ्गमुत्पीड्य श्वयथुम्॥

अस37.26
अदेशोत्तुण्डितमश्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव॥

अस37.27
कर्णवत्तु यन्त्रेण विमृदितकर्णं कृत्वा।
नाडीयन्त्रेण व बहुमुखेन यथास्वमुपसङ्गृह्य शलाकायन्त्रेणान्येन वा पूर्ववदाहरेत्।
अनुलोममकर्णमनल्पव्रणमुखमयस्कान्तेन।
पक्वाशयगतं विरेचनेन॥

अस37.28
वातविण्मूत्रगर्भसङ्गं प्रवाहणेन दुष्टवातविषस्तन्यादीन्यास्यविषाणचूषणेन॥

अस37.29
कण्ठस्रोतोगते तु शल्ये बिसं सक्तं सूत्रं कण्ठे प्रवेशयेत्।
अथ तद्गृहीतं विज्ञाय शल्यं सममेव सूत्रं बिसं चाक्षिपेत्।
बिसाभावे मृणालेऽप्ययमेव विधिः।
जातुषे तु कण्ठसक्ते कण्ठे नाडीं प्रवेशयेत्तदा चाग्नितप्तां सूक्ष्ममुखीं शलाकामथ तां गृहीतशल्यां शीताभिरद्भिः परिषिच्य स्थिरीभूतामाहरेत्।
अजातुषेऽप्येवमेव प्रतप्तां जतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकाम्।
मत्स्यकण्टकमन्यद्वा तादृगस्थिशल्यं कण्ठलग्नं सूत्रेण सूत्रप्लोतेन वा वेष्टितयांगुल्यापहरेत्।
अथवा केशोण्डुकं दृढदीर्घसूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च।
वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत्।
मृदुना वा दन्तधावनकूर्च्चेनापहरेत्।
परतो वा प्रणुदेत्।
वालोण्डुके विलग्ने तद्वत् कण्टकम्॥

अस37.30
क्षतकण्ठश्च त्रिफलाचूर्णं मधुघृतसितोपेतमनुकण्ठयन् लिह्यात्॥

अस37.31
अपां पूर्णं पुरुषमवाक्चिरसमवपीडयेद्धुनुयाद्वामयेच्च भस्मराशौ वा निखन्यादामुखात्।
अन्यथा ह्युन्मार्गगामिभिरद्भिराध्मानकासश्वासपीनसेन्द्रियोपघातज्वरादयः श्लेष्मविकारा मृत्युश्च।
तत्र यथास्वं कफे प्रतिकुर्यात्।
ग्रासशल्यमम्बुना प्रवेशयेत्।
स्कन्धे वा मुष्टिनाभिहन्यात्।

अस37.32
तथा निर्भुज्य वर्त्म वर्त्मगतमपनीय चोष्णाम्बुबाष्पस्वेदं समधुमधुकक्वाथेन सर्पिषा च परिषेकं कुर्यात्।
स्वयमपि शल्यमश्रुक्षवथुकासोद्गारमूत्रपुरीषानिलैर्नयनादिभ्योऽङ्गावयवेभ्यः पतति॥

अस37.33
कीटे कर्णस्रोतःप्रविष्टे तोदो गौरवं भरभरायमाणं च भवति स्पन्दमाने चाप्यधिकं वेदना।
तत्र सलवणेनाम्बुना मधुकयुक्तेन मद्येन वा सुखोष्णेन पूरणम्।
निर्गते च कीटे तदुत्सर्जनम्।
तत्रैव तु मृते पाककोथक्लेदा भवन्ति।
तेषु कर्णस्रावोक्तं कुर्यात्।
प्रतीनाहोक्तं च।
तोयपूर्णं कर्णं हस्तोन्मथितेन तैलाम्बुना पूरयेत्।
पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वा चूषयेत्।
भवन्ति चात्र श्लोकाः॥

अस37.34
जाउषं हेमरूप्यादिधातुजं च चिरस्थितम्।
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते॥

अस37.35
विषाणवेणुदार्वस्थिदन्तवालोपलानि तु।
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च॥

अस37.36
विषाणवेण्वयस्तालदारुशल्यं चिरादपि।
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी॥

अस37.37
शल्ये मांसावगाढे चेत् स देशो न विदह्यते।
ततस्तं मर्दनस्वेदशुद्धिकर्शनबृंहणैः॥

अस37.38
तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः।
पाचयित्वा हरेच्छल्यं पाटनैषणपीडनैः॥

अस37.39
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्।
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत्॥

अस37.40
व्रणे प्रशान्ते प्रान्तेषु नातिस्पर्शासहिष्णुषु।
अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्॥

अस37.41
काय एव परं शल्यं निजदोषमलाविलः।
शल्ये शल्यं शराद्यं तु विशेषात्तेन चिन्त्यते॥
इति सप्तत्रिंशोऽध्यायः॥

अथाष्टत्रिंशोऽध्यायः।

अस38.1
अथातः शस्त्रकर्मविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस38.2
द्विविधे हि व्याधावुपायापेक्षे निज गागन्तौ वा भेषजविषयातीते शस्त्रकर्म प्रयुज्यते॥

अस38.3
स चामयः प्रायेण श्वयथुपूर्वको भवत्यतः शोफावस्थस्यैव वातपित्तकफरक्तसंसर्गसन्निपातात्मकतामुपलक्ष्य पाकभयाद्यथास्वमुपवासलेपसेकासृङ्मोक्षकषायघृतपानशोधनानि प्रयुञ्जीत॥

अस38.4
तथाप्यनुपशाम्यति प्रविलयनम्।
अविलीयमाने चोपनाहनम्॥

अस38.5
तत्र शोफस्यामलक्षणमल्पता चाल्पोष्मरुजत्वं त्वक्सवर्णता स्थैर्यं च॥

अस38.6
पच्यमानस्तु विवर्णो बस्तिरिवाततः।
संरम्भशूलरागदाहोषारुचितृष्णाज्वरारतिस्पर्शासहत्वानिद्रतासमन्वितो विष्यन्दयति सर्पिः शोषयति प्रदेहं सर्षपकल्कोपलिप्त इव चिमिचिमायते पिपीलिकाभिरिव संसर्प्यते पीड्यत इव पाणिना घट्यत इवाङ्गुल्या ताड्यत इव दण्डेन तुद्यत इव सूचीभिर्भिद्यत इव शक्तिभिश्छिद्यत इव शस्त्रेण दश्यत इव वृश्चिकैर्दह्यत इवाग्निक्षाराभ्यां मथ्यत इवोमुल्केन॥

अस38.7
पक्वे तु गतवेगत्वं प्रम्लानता त्वक्शिथिलता वलीप्रादुर्भावः पाण्डुता मध्योन्नतताङ्गुल्यवपीडितमुक्ते प्रत्युन्नमनं बस्ताविवोदकस्य पूयस्य सञ्चरणं कण्डूः संरम्भशूलाद्युपशमश्च॥

अस38.8
शूलं नर्तेऽनिलाद्दाहः पिताच्छोफः कफोदयात्।
रागो रक्ताच्च पाकःस्यादतो दोषैः सशोणितैः॥

अस38.9
पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभाक्षितः।
वलीभिराचितः श्यावः शीर्यमाण्तनूरुहः॥

अस38.10
कफजेषु तु शोफेषु केषुचित् गम्भीरत्वाद्रक्तमेव विपच्यते।
ततश्चास्पष्टं पक्वलिङ्गं भवति।
यत्र हि त्वक्सावर्ण्यं शीतशोफतल्परुजताश्मवच्च घनता।
न तत्र मोहमुपेयात्।
तं रक्तपाकमित्याचक्षते॥

अस38.11
अथैनं सम्यक्पक्वमवधार्य भीरुवृद्धबालदुर्बलक्लीबक्षीणगर्भिणीविषार्दितशस्त्रक्षामेषु पाकोद्धतदोषेषु च पिण्डितेषु सन्धिमर्माश्रितेष्वल्पेषु वा शोफेषु तीक्ष्णोष्णद्रव्यैर्दारणं कुर्वीत।
इतरेषु तु पाटनम्॥

अस38.12
आमपाटने सिरास्नायुव्यापादनं शोणितातिप्रवृत्तिर्वेदनातिवृद्धिरवदरणं क्षतविसर्पो वा स्यात्।
भवति चात्र॥

अस38.13
पिष्ठन् पक्वे पुनः पूयः सिरास्नाय्वसृङामिषम्।
विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः॥

अस38.14
यश्छिनत्त्यममज्ञानाद्यश्च पक्वमुपेक्षते।
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ॥

अस38.15
प्राक् शस्त्राद्भोजयेदिष्टं तीक्ष्णं मद्यं च पाययेत्।
न मूर्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते॥

अस38.16
अन्यत्र मूढगर्भोदराश्मरीमुखरोगेभ्यः।
अथोपहृतयन्त्रशस्त्रक्षाराग्निजाम्बवौष्ठपिचुप्लोतपत्रसूत्रचर्मपट्टमधुस्नेहकषायालेपकल्कसेकोदकुम्भशीतोष्णोदककटाहव्यजनादिव्रणोपयोगिसर्वोपकरणमाश्रितशयनीयमुपस्थितस्थिरस्नेहबलवदवलम्बकपुरुषमिष्टेऽहनिमुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं कृतमङ्गलं भुक्तवन्तमातुरं प्राङ्मुखमुपवेश्य संवेश्य वा यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निदध्यादापूयदर्शनात्।
सकृदेवाहरेच्छस्त्रमाशु च॥

अस38.17
महत्स्वपि च पाकेषु द्व्यङ्गुलं शस्त्रपदमुक्तम्।
द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वाभिसमीक्ष्य विवृत्ते प्रदेशे वामप्रदेशिन्यैषित्वा नातिविवृत्ते गम्भीरमांसले चैषण्या।
विपरीते करीरादिनालेनातिसंवृते सूकरवालेन वा॥

अस38.18
यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च।
तत्र तत्र व्रणं कुर्यात् सुविभक्तं निराशयम्।
आयतं च विशालं च यथा दोषो न तिष्ठति॥

अस38.19
शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू।
असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते॥

अस38.20
तत्र भ्रूगण्डललाटाक्षिकूटौष्ठदन्तवेष्टमन्याकण्ठजत्रुकक्ष्याकुक्षिवङ्क्षणेषु तिर्यक्छेद इष्टः।
अन्यत्र तु सिरास्नायूपघातोऽतिवेदना चिराद् व्रणसंरोहो मांसस्कन्दी च तिर्यक्छेदात् भवन्ति॥

अस38.21
ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्तात् प्रतिपीड्याङ्गुल्या व्रणमपि प्रक्षाल्य कषायेण व्रणात् प्लोतेनाम्भोऽपनीय वेदनारक्षोघ्नैर्गुग्गुल्वगरुसर्जरसवचागौरसर्षपहिङ्गुलवणनिम्बपत्रैः सघृतैर्व्रणं धूपयित्वा यथास्वमौषधेन मधुघृततिलकल्कैश्च दिग्धां वतिं प्रणिधाय कल्केन पूरयित्वा नातिभृष्टयवसक्तुभिर्घृताक्तैर्भाजनान्तेऽम्भसा दक्षिणाङ्गुलीभिः सुमृदितैरवच्छाद्य घनां कबलिकां दत्वा सव्यदक्षिणान्यतरपार्श्वे ऋजुमनाविद्धमसङ्कुचितं मृदुपट्टं निवेश्य बध्नीयात्॥

अस38.22
वातश्लेष्मोद्भवांस्तत्र द्विस्त्रिर्वा वेष्टयेद् व्रणान्।
सकृदेव परिक्षिप्य पित्तरक्ताभिघातजान्॥

अस38.23
शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्।
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् परितो विकीर्य पर्णशबर्यादिभिरस्य रक्षां कुर्याद्रक्षोऽभिभवनिषेधार्थम्।
तेभ्यश्च बलिमुपहरेत्।
धारयेच्च शिरसा॥

अस38.24
लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्।
वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि॥

अस38.25
गुग्गुल्वादिभिरेवं शयनासनादि द्विरह्नो धूपयेत्।
तथा स्नेहोक्तं दिनचर्योक्तं चाचारमनुवर्तेत॥

अस38.26
विशेषतश्च दिवास्वप्नाद् व्रणे शोफकण्डूरागरुक्पूयवृद्धिः॥

अस38.27
स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलिते स्रुते।
शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात्॥

अस38.28
भोजयेच्चैनं यथासात्म्यं समातीतशालिषष्टिकयवगोधूमान्यतमं मुद्गमसूराढकीसतीनयूषजाङ्गलरसोपेतं जीवन्तीसुनिषण्णकतण्डुलीयकवास्तुकवार्ताकपटोलकारवेल्लकबालमूलशशाकयुक्तं दाडिमामलकसैन्धवसहितं सर्पिःस्निग्धं लघ्वल्पमुष्णोदकोत्तरं च।
एवमस्य सम्यगशितं जरामुपैति।
अजीर्णादनिलादीनां विभ्रमो बलवाअन् भवेत्।
ततः शोफरुजापाक दाहानाहानवाप्नुयात्॥

अस38.29
नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशीताम्बुमद्येक्षुक्षीरपिष्टतिलविकृतिशुष्कशाकपिशितहरितशाकाम्ललवणकटुकक्षारानूपामिषाणि वर्जयेत्॥

अस38.30
वर्गोऽयं नवधान्यादिर्व्रणिनः सर्वदोषकृत्।
मद्यं तीक्ष्णोष्णरूक्षाम्लमाशुव्यापादयेद् व्रणम्॥

अस38.31
बालोशीरैश्च वीज्येत नचैनं परिघट्टयेत्।
न तुदेन्नव कण्डूयेच्चेष्टमानश्च पालयेत्॥

अस38.32
स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रियाः।
आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति॥

अस38.33
पुनश्च तृतीयेऽहनि पक्षालनादि पूर्ववत् व्रणकर्म कुर्यात्।
द्वितीये दिवसे मोक्षणाद्विग्रथितो व्रणश्चिरादुपरोहत्युग्ररुजश्च भवति॥

अस38.34
न च विकेशिकामौषधं वातिस्निग्धरूक्षमतिश्लथमतिगाढमश्लक्ष्णं दुर्न्यस्तं वा दद्यात्।
अतिस्नेहात् क्लेदः।
अतिरौक्ष्यात् छेदो वेदना च।
अतिश्लथत्वादपरिशुद्धिः।
गाढतया संरम्भ अश्लक्ष्णत्वाद्दुर्न्यासाच्च व्रणवर्त्मोपघर्षणम्॥

अस38.35
अवश्यं साशये व्रणे विकेशिकां दद्यात्।
संपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्।
व्रणं शोधयते शीघ्रं स्थिता ह्यन्तर्विकेशिका॥

अस38.36
व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्।
भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः॥

अस38.37
यस्तु सीव्यो व्रणस्तत्र चलास्थिशल्यपांसुतृणरोमशुष्करक्तादीनपोह्य विच्छिन्नप्रविलम्बितं मांसं सन्ध्यस्थीनि च यथास्थानं सम्यक् स्थापयित्वा स्थिते रक्ते यथार्हं सूच्योपहृतेन स्नायुसूत्रवालान्यतमेन सीव्येत्।
शणाश्मन्तकमूर्वातसीनां वा वल्कैः॥

अस38.38
सीवनविकल्पास्तु समासेन चत्वारः।
तद्यथा गोष्फणिकातुन्नसीवनवेल्लितकरज्जुग्रन्थिबन्धनमिति।
तेषां नामभिरेवाकृतिविभागः।
प्रहारवशाच्चोपयोगः।
न चातिसन्निकृष्टां विप्रकृष्टामत्यल्पबहुग्राहिणीं वा सूचीं पातयेत्।
एवं सम्यक्स्यूतमवेक्ष्य मधुघृतयुक्तैरञ्जनमधुकनिम्बलोध्रप्रियङ्गुसल्लकीफलक्षौममषीचूर्णैरवकीर्य पूर्ववद् बन्धादि योजयेत्॥

अस38.39
असीव्या वङ्क्षणवक्षःकक्षादिषु प्रचलेष्वल्पमांसेषु च वायुनिर्वामिणोऽन्तर्लोहितशल्या विषाग्निक्षारकृताश्च व्रणाः॥

अस38.40
सीव्यास्तु मेदस्समुत्थिता भिन्नलिखिताः कफग्रन्थिरल्पपालिकः कर्णः सद्योव्रणाश्च।
शिरोललाटाक्षिकूटकर्णनासागण्डौष्ठकृकाटिकाबाहूदरस्फिक्पायुप्रजननमुष्कादिष्वचलेषु मांसवत्सु च प्रदेशेषु॥

अस38.41
कोशदामोत्सङ्गस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थविकायमकखट्वाचीनविबन्धवितानगोष्फणाः पञ्चाङ्गी चेति पञ्चदश बन्धविशेषाः।
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः॥

अस38.42
तत्र कोशमङ्गुलीपर्वसु विदध्यात्।
दाम सम्बाधेऽङ्गे।
उत्सङ्गं विलम्बिनि।
स्वस्तिकं सन्धिकूर्चभ्रूस्तनान्तरकुक्ष्यक्षिकपोलकर्णेषु।
अनुवेल्लितं शाखासु।
मुत्तोलीं ग्रीवामेढ्रयोः।
मण्डलं वृत्तेऽङ्गे।
स्थविकामङ्गुष्ठाङ्गुलिमेढ्राग्रमूत्रवृद्धिषु।
यमकं यमलव्रणयोः।
खट्वां हनुशङ्खगण्डेषु।
चीनमपाङ्गयोः।
विबन्धमुदरोरुपृष्ठेषु।
वितानं मूर्धादौ पृथुलेऽङ्गे।
गोष्फणं नासौष्ठचिबुकसन्धिषु।
पञ्चाङ्गीं जत्रूर्ध्वमिति।
यो यस्मिन् प्रदेशे सुनिविष्टो भवति तं तस्मिन् कुर्वीत।
न तु व्रणस्योपरि न चाबाधकरो यथा स्यात्॥

अस38.43
बन्धस्त्विष्टोऽनिले दुष्टे दुष्टे भग्ने व्रणेषु च।
तत्रान्त्ययोर्द्विधा बन्धः सव्यदक्षिणभेदतः॥

अस38.44
त्रिविधस्त्वेव सर्वत्र गाढश्लथसमत्वतः।
कफवाते घनो गाढः पित्तरक्ते तनुः श्लथः॥

अस38.45
वातपित्ते समो बन्धः कफपित्तव्रणेषु च।
तथा स्फिक्कक्ष्यावङ्क्षणोरुशिरस्सु गाढं बध्रीयात्।
शाखावदनकण्ठकर्णमेढ्रमुष्कपृष्ठपार्श्वोदरोरस्सु समम्।
अक्ष्णोः सन्धिषु च शिथिलम्॥

अस38.46
वातश्लेष्मजेषु शिथिलस्थाने समम्।
समस्थाने गाढम्।
गाढस्थाने गाढतरम्।
तथा शीतवसन्तयोस्त्र्यहात्।
पित्तरक्तेषु तु गाढस्थाने समम्।
समास्थाने शिथिलम्।
शिथिलस्थाने नैव।
तथा शरद्ग्रीष्मयोः सायं प्रातश्च।
अबध्यमानः पुनर्दंशमशकतृणकाष्ठपांसुशीतवातातपादिसम्पर्काद्विविधोपद्रवोपद्रुतो दुष्टव्रणतामुपैति।
स्नेहश्चात्र न चिरं तिष्ठति।
भेषजमचिराच्छुष्यति।
कृच्छ्रेण रोहति।
रूढे च वैवर्ण्यं भवति।
अपि च॥

अस38.47
चूर्णतं मथितं भग्नं विश्लिष्टमथ पाटितम्।
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति॥

अस38.48
उत्थानशयनाद्यासु सर्वेहासु न पीड्यते।
उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्॥

अस38.49
समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति।
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्।
प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्तु च॥

अस38.50
अजीर्णातरुणाच्छिद्रैः समन्तात् सुनिवेशितैः।
धौतैरकर्कशैः क्षीरीभूर्जार्जुनकदम्बजैः॥

अस38.51
कुष्ठिनामग्निदग्धानां पिटकामधुमेहिनाम्।
कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः॥

अस38.52
मांसपाके न बद्धव्या गुदपाके च दारुणे।
शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः॥

अस38.53
अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् क्रिमीन्।
ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्॥

अस38.54
सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे।
सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः॥

अस38.55
गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः।
प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्॥

अस38.56
उत्पद्यमानासु च तासु तास्ववस्थासु दोषादीनपेक्ष्य यथास्वमुपक्रमैरुपक्रमेत्॥

अस38.57
न चैनं त्वरमाणः सान्तर्दोषमुपसंरोहयेत्।
स ह्यल्पेनाप्यवचारेणान्तरुत्सङ्गं कृत्वा भूयो विकुरुते।
तस्मात्सुशुद्धं रोपयेत्॥

अस38.58
रूढेऽप्यजीर्णव्यायामव्यवायादीन्विवर्जयेत्।
मासान् षट् सप्त वा नॄणां विधिरेष प्रशस्यते॥

अस38.59
इतीदं व्रणमाश्रित्य दिङ्मात्रमुपदर्शितम्।
उत्तरे विस्तरस्तस्य वक्ष्यते साधनं प्रति॥
इति अष्टत्रिंशोऽध्यायः॥

अथैकोनचत्वारिंशोऽध्यायः।

अस39.1
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस39.2
क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटुकलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः क्रिम्याममेदोविषापहः सर्वशस्त्रानुशस्त्राणां च वरिष्ठः छेदनभेदनपाटनलेखनकरणाद्यतश्च सम्बाधावकाशजेषु दुःखावचारणीयशस्त्रेषु नासार्शोऽर्बुदादिषु शस्त्रेण चासिध्यस्तु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते।
स द्विविधो बाह्याभ्यन्तरपरिमार्जनभेदेन॥

अस39.3
तत्रार्शोऽर्बुदभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुखरोगकुष्ठकिलासतिलकालकादिषु बहिः परिमार्जनेन।
अन्तःपरिमार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्मरीशर्करादिषु स यथास्वमेवोपदेक्ष्यते॥

अस39.4
न तूभयोऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्वरातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचकातुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्गशूलविषमद्यपीतेषु।
मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात्।
तथा शीतोष्णवर्षदुर्दिनप्रवातेषु च॥

अस39.5
अथ बहिः परिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च।
तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्तेऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपहतं महान्तं कालमुष्ककं सुरापललसुमनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत्॥

अस39.6
दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः।
गन्तुमर्हन्त्यसङ्क्रुद्धास्त्यक्त्वेमं वासमव्ययम्॥

अस39.7
भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम्।
वृक्षं न लोभान्न क्रोधाद् ब्राह्मणार्थे विशेषतः॥

अस39.8
इति।
अथापरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारूढे सवितरि ब्राह्मणान् वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत्।
एवं च पारिभद्रपलाशाश्वकर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षास्फोतसप्तच्छदनक्तमालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्रकार्ककाकजङ्घापामार्गाग्निमन्थान् वसन्ते सङ्गृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सवान् समूलफलपत्रशाखान् खण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्ककनिचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत्।
दग्ध्वा च शान्तेऽग्नौ पृथक् सुधाशर्कराभस्म कृत्वेतरत् सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवादिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रावयेत्।
यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत्।
ततः स्नेहपाकविधिना पाचयेत्।
पच्यमाने च तस्मिंस्ताः सुधाभस्मशर्कराः क्षीरबकं शङ्खनाभिचायसे पात्रेऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात्।
ततश्च सुतरां दर्व्यावघट्टयन् विपचेत् यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वीप्रलेपी स्यात्तदैनमवतार्यायोघटे यवरशौ सुगुप्तं स्थापयेत्।
एष मध्यमः क्षारः॥

अस39.9
मृदौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत्।
तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिडस्वर्जिकाकनकक्षीरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्खशुक्तीः पूर्ववत् प्रतिवापं दद्यात्।
तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत।
क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत्।
तत्रनातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीघ्रः पिच्छिलः शिखरी सुखनिर्वाप्योऽल्परुगनभिष्यन्दी चेति दश क्षारस्य गुणाः।
दशैव च दोषाः।
तद्यथा।
अत्युष्णोऽतिशीतोऽतितीक्ष्णोऽतिमृदुरतितनुरतिघनोऽतिपिच्छिलोविसर्पी हीनौषधो हीनपाकश्चेति॥

अस39.10
तत्र क्षारकर्मण्युपहारेत् पिचुवर्तिशलाकादर्व्यञ्जलिकाघृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासनादीनि।
अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारकगृहीतस्य व्याधिं छित्वावलिख्य प्रच्छाय वा पिचुप्लोतान्यतरावगुण्ठितया शलाकया क्षारं पातयेत्।
ततो मात्राशतमुपेक्षेत।
वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षारलेपः।
घ्राणजेषु त्वर्शोऽर्बुदेष्वादित्याभिमुखस्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः।
तद्वच्छ्रोत्रजेषु।
गुदार्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव।
ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत्सर्पिर्मधुभ्यां शुक्ततुषोदकमस्तुक्षीरादिभिश्च।
ततः परं शीतमधुरैः सघृतैः प्रदिह्यात्।
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च।
स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुवर्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा।
मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम्।
एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम्।
नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा।
यथाव्याधिदोषं च व्रणमुपक्रमेत्।
तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः॥

अस39.11
तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोपशान्तौ च सम्यग्दग्धं भवति।
तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्चदुर्दग्धम्।
तत्र पुनः पातयेत्।
ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तकोपैरतिदग्धम्।
अपि च।
नेत्रेऽतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः।
घ्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च।
तद्वच्छोत्रादिष्वपि च यथास्वं व्यापत्।
गुदे विण्मूत्ररोधोऽतीसारः पुंस्त्वोपघातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः।
शकृन्मूत्रवातविधारणाशक्तिर्वा।
तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनःपुनर्निर्वापयेत्।
अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति।
भवति चात्र॥

अस39.12
अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः।
यात्याशु स्वादुतां तमादम्लैर्निर्वापयेत्तराम्॥

अस39.13
ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः॥
कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः॥

अस39.14
पाययेतातियोगेऽतस्तं शीघ्रं सघृतं दधि।
सगुडं वा दधिसरं तैलं वा ससितोपलम्॥

अस39.15
धात्रीफलकपित्थाम्लदाडिमस्वरसे घृतम्।
द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम्॥

अस39.16
दाडिमामलकाम्रातकपित्थकरमर्दकान्।
आम्राच्च मातुलुङ्गाच्च रसं मृद्वग्निना पचेत्॥

अस39.17
ततोऽतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम्।
क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति॥

अस39.18
शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः॥
इति एकोनचत्वारिंशोऽध्यायः॥

अथ चत्वारिंशोऽध्यायः।

अस40.1
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस40.2
अग्निः क्षारादपि गरीयानौषधशस्त्रक्षारैरसिद्धानां तद्दाहसिद्धेरपुनर्भवाच्च।
तत्राग्निकर्म त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु च प्रयुज्यते।
तत्र मशतिलकालकचर्मकीलसरुक्स्तब्धप्रम्लानाङ्गाभिष्यन्दाधिमन्थशिरोभ्रूशङ्खललाटरुजार्दितेषु सूर्यकान्तपिप्पल्यजाशकृद्गोदन्तशरशलाकाभिस्त्वग्दाहो यथास्वमभिष्यन्दादिषु तु भ्रूशङ्खललाटदेशेषु।
ग्रन्थ्यर्बुदार्शोभगन्दरगण्डमालाश्लीपदान्त्रवृद्धिदुष्टव्रणगतिनाड्यवगाढपूयालसकेषु जाम्बवौष्ठसूचीशलाकाघृतगुडमधुमधूच्छिष्टतैलवसाहेमताम्रायोरूप्यकांस्यैर्मांसदाहः।
सिरास्नायुसन्ध्यस्थिच्छदेशोणितातिप्रवृत्तिदन्तनाडीश्लिष्टवर्त्मोपपक्ष्मलगणलिङ्गनाशासम्यग्व्यधेषु जाम्ववौष्ठसूचीशलाकामधुमधूच्छिष्ट्Aगुडस्नेहैः सिरादिदाहः॥

अस40.3
न तु दहेद्भिन्नकोष्ठमन्तश्शोणितमनुद्धृतशल्यमनेकव्रणपीडितमुष्णे च काले तथा क्षारानर्हं च आत्ययिके तु व्याधौ कृतोष्णप्रतीकारस्य पिच्छिलमन्नमशितवतोऽग्निकर्म कुर्यात्॥

अस40.4
अथ दाहार्हमातुरं कृतस्वस्त्ययनमुपहृतसर्वोपकरणं प्राक्शिरःसंविष्टमाप्तावलम्बितं कृत्वा वैद्यो निर्धूमबृहत्स्थिरदीप्तखदिरबदराद्यङ्गारैरयोघटनप्रकारेण भस्त्रानिलाध्मातैर्व्यजनेन चोर्ध्वानिर्गच्छज्ज्वालतयापादितापद्यमानभासुराग्निवर्णैर्जाम्बवौष्ठादिभिर्व्याधिप्रदेशवशाद्वलयार्धचन्दस्वस्तिकाष्टापदबिन्दुरेखाप्रतिसारणविकल्पेन मुहुर्मुहुर्हितोपहिताभिर्वाग्भिरद्भिश्चातुरमाश्वासयन् दहेदा सम्यग्दाहलिङ्गोत्पत्तेः।
उच्छूनसुषिरप्रलूनदन्तनाडीसजन्तुदुष्टव्रणेषु तु स्नेहमधूच्छिष्टमधुगुडेः पूरयित्वा दहेत्।
सम्यग्दग्धे च मधुसर्पिषी दद्याच्छीतस्निग्धाश्च प्रदेहान्॥

अस40.5
सम्यग्दग्धलिङ्गं पुनस्सशब्दं दहनं दुर्गन्धित्वं त्वक्सङ्कोचश्च त्वग्दग्धे।
कपोतवर्णत्वमल्पशोफरुजता शुष्कसङ्कुचितव्रणता च मांसदग्धे।
कृष्णोन्नतव्रणत्वं स्थिते च रक्ते लसीकास्रुतिः सिरादग्धे।
कृष्णारुणकर्कशस्थिरव्रणता स्नाय्वादिदग्धे च।
दुर्दग्धातिदग्धयोस्तु प्रमाददग्धवल्लक्षणम्।
चिकित्सितं च॥

अस40.6
प्रमाददग्धं पुनश्चतुर्विधं भवति।
तुत्थं दुर्दग्धं सम्यग्दग्धमतिदग्धं च।
तत्र यद्विवर्णमूष्यतेऽतिमात्रं तत्तुथम्।
यत्रोत्तिष्ठन्ति स्फोटास्तीव्रोषादाहरुज श्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम्।
पक्वतालफलवर्णं समस्थितं पूर्वलक्षणयुक्तं च सम्यग्दग्धम्।
अतिदग्धे तूग्ररुजता धूमायनं मांसावलम्बनं सिरादिव्यापदो गम्भीरव्रणता ज्वरदाहतृण्मूर्छाच्छर्दयः शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपदवाः कृच्छ्रेण रोहणं रूढे च विवर्णतेति।
स्नेहदाहस्तु कष्टतरो भवति।
स हि स्नेहस्य सूक्ष्ममार्गानुसारित्वाद् दूरमनुप्रविशतीति।
भवति चात्र॥

अस40.7
तुत्थस्यग्निप्रतपनं कार्यमुष्णं च भेषजम्।
स्त्याने रक्ते हिमैर्नोष्मा निष्क्रामति यतो बहिः॥

अस40.8
वेदना वर्धते तेन रुधिरं च विदह्यते।
उष्णं निष्क्रामयत् कुर्यादूष्माणं मन्दतां रुजः॥

अस40.9
शीतामुष्णां च दुर्दग्धे क्रियां कृत्वा ततः पुनः।
घृतालेपनसेकांस्तु शीतानेवावचारयेत्॥

अस40.10
सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः।
सामृतैः सघृतैर्लेपः कल्कैर्वानूपमांसजैः॥

अस40.11
शान्तोष्मणि परं कुर्यात् पित्तविद्रधिसाधनम्।
अतिदग्धे विशीर्णानिमांसान्युद् वृत्य शीतलाम्॥

अस40.12
क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः।
तिन्दुकीत्वक्कषायैर्वा पिष्टैः साज्यैः प्रेलेपयेत्॥

अस40.13
गुडूच्याश्छादयेत् पत्रैरथवौपोदकैर्व्रणम्।
भेषजं चास्य कुर्वीत सर्वं पित्तविसर्पवत्॥

अस40.14
स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्।
शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्।
अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्॥

अस40.15
इति तन्त्रस्य हृदयं सूत्रस्थानं समाप्यते।
अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः॥

इति चत्वारिंशोऽध्यायः॥

सूत्रस्थानम् समाप्तम्॥