अष्टाङ्गसंग्रहः सूत्रस्थानम् अध्याय १-१०
सूत्रस्थानम्
प्रथमोध्यायः
[सम्पाद्यताम्]अस1.1
रागादिरोगाः सहजाः समूला येनाऽशुसर्वे जगतोऽप्यपास्ताः।
तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन्॥
अस1.2
अथात आयुष्कामीयं नामाध्यायं व्याख्यास्यामः इति ह स्मा+आहुरात्रेयादयो महर्षयः॥
अस1.3
आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः॥
अस1.4
आयुर्वेदामृतं सार्वं ब्रह्मा सनातनम्।
ददौ दक्षाय सोऽश्विभ्यां तौ शतक्रतवे ततः॥
अस1.5
धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः।
नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुम्॥
अस1.6
धन्वन्तरिभरद्वाजनिमिकाश्यपकश्यपाः।
महर्धयो महात्मानस्तथा लम्बायनादयः॥
अस1.7
शतक्रतुमुपाजग्मुः शरण्यममरेश्वरम्।
तान्दृष्ट्वैव सहस्राक्षो निजगाद यथागमम्॥
अस1.8
आयुषः पालनं वेदमुपवेदमथर्वणः।
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषैः॥
अस1.9
गतमष्टाङ्गतां पुण्यं बुबुधे यं पितामहः।
गृहीत्वा ते तमाम्रायं प्रकाश्य च परस्परम्॥
अस1.10
आययुर्मानुषं लोकं मुदिताः परमर्षयः।
स्थित्यर्थमायुर्वेदस्य तेऽथ तन्त्राणि चक्रिरे॥
अस1.11
कृत्वाऽग्निवेशहारीतभेडमाण्डव्यसुश्रुतान्।
करालादींश्च तच्छिष्यान् ग्राहयामासुरादृताः॥
अस1.12
स्वं स्वं तन्त्रं ततस्तेऽपि चक्रुस्तानि कृतानि च।
गुरून् संश्रावयामासुः सर्षिसङ्घान्सुमेधसः॥
अस1.13
तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे।
तेषामेकैकमव्यापि समस्तव्याधिसाधने॥
अस1.14
प्रतितन्त्राभियोगे तु पुरुषायुषसंक्षयः।
भवत्यध्ययनेनैव यस्मात् प्रोक्तः पुनः पुनः॥
अस1.15
तन्त्रकारैः स एवऽर्थः क्वचित् क्श्चिद्विशेषतः।
तेऽर्थप्रत्यायनपरा वचने यच्च नादृताः॥
अस1.16
सर्वतन्त्राण्यतः प्रायः संहृत्याऽष्टाङ्गसङ्ग्रहः।
अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः॥
अस1.17
हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः।
विनिगूढार्थतत्वानां प्रदेशानां प्रकाशकः॥
अस1.18
स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्तकः।
युगानुरूपसन्दर्भो विभागेन करिष्यते॥
अस1.19
नित्योपयोगि दुर्बोधं सर्वाङ्गव्यापि भावतः।
सङ्गृहीतं विशेषेण यत्र कायचिकित्सितम्॥
अस1.20
न मात्रामात्रमप्यत्र किच्चिदागमवर्जितम्।
तेऽर्थाःस ग्रन्थबन्धश्च सङ्क्षेपाय क्रमोऽन्यथा॥
अस1.21
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः।
प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदयः॥
अस1.22
उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि।
विकृताऽविकृता देहं घ्नन्ति ते वर्त्तयन्ति च॥
अस1.23
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः।
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्॥
अस1.24
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः।
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि॥
अस1.25
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः।
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्॥
अस1.26
समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः।
तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलोऽनिलः॥
अस1.27
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्।
स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः॥
अस1.28
संसर्गः सन्निपातश्च तद्वित्रिक्षयकोपतः।
तौ षोढा दशधा चोक्तावुत्कर्षादिविकल्पनात्॥
अस1.29
रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः।
सप्त दूष्या मला मूत्रशकृत्स्वेदादयोऽपि च॥
अस1.30
रसादिस्थेषु दोषेषु व्याधयः सम्भवन्ति ये।
तज्जानित्युपचारेण तानाहुर्घृतदाहवत्॥
अस1.31
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे।
गर्भोत्पादश्च कर्माणि धातूनां क्रमशो विदुः॥
अस1.32
शरीरं धारयन्त्येते धात्वाहारश्च सर्वदा।
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः॥
अस1.33
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः।
षड् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः॥
अस1.34
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्।
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते॥
अस1.35
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा।
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्॥
अस1.36
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः।
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः॥
अस1.37
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः।
इन्द्रियार्था व्यवायी च विकाषी चापरे गुणाः॥
अस1.38
व्यवायी देहमखिलं व्याप्य पाकाय कल्पते।
विकाषी विकषन् धातून् सन्धिबन्धान् विमुञ्चति॥
अस1.39
सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकीर्त्तितौ।
सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः॥
अस1.40
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्॥
अस1.41
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता।
निजागन्तुविभागेन रोगाश्च द्विविधा मताः॥
अस1.42
तेषां कायमनोभेदादधिष्ठानमपि द्विधा।
रजस्तमश्च मनसो द्वौ च दोषवुदाहृतौ॥
अस1.43
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्।
रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः॥
अस1.44
भूमिदेहप्रभेदेन देशमाहुरिह द्विधा।
जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम्।
अस1.45
साधारणं सममलं त्रिधा भूदेशमादिशेत्।
क्षणादिव्यार्ध्यवस्था च कालो भैषज्ययोगकृत्॥
अस1.46
शोधनं शमनं चेति समासादौषधं द्विधा।
शरीरजानां दोषाणां क्रमेण परमौषधम्॥
अस1.47
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु।
धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्॥
अस1.48
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः।
आयुष्कामीयशिष्यार्थदिनर्तुव्याध्यसम्भवाः॥
अस1.49
द्रवान्नज्ञानसंरक्षाविरुद्धान्नान्नपानिकाः।
मात्राशितौषधज्ञानश्रेष्ठशुध्यादिसङ्ग्रहाः॥
अस1.50
महाकषायविविधद्रव्यादिरसभेदकाः।
दोषादिज्ञानतद्भेदतत्क्रिया रोगभेषजम्॥
अस1.51
व्द्यैषधस्नेहनस्वेदशुध्यास्थापननावनम्।
धूमगण्डूषदृक्सेकतृप्तियन्त्रजलौकसः॥
अस1.52
सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः।
चत्वारिंशदिमेऽध्यायः सूत्रम् शारीरमुच्यते॥
अस1.53
पुत्रार्थगर्भावक्रान्तिचर्याव्यापच्छरीरजाः।
सिरामर्मप्रकृत्याख्या विकृताङ्गेहितामयाः॥
अस1.54
सदूता द्वादशाध्यायाः निदानं सार्वरौगिकम्।
ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम्॥
अस1.55
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च।
पाण्डुकुष्ठानिलार्त्तानां वातास्रस्य च षोडश॥
अस1.56
चिकित्साज्वरयोरस्रकासयोः श्वासयक्ष्मणोः।
वमौ मदात्ययेऽर्शस्सु विशि द्वौ द्वौ च मूत्रिते॥
अस1.57
विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु।
कुष्टश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥
अस1.58
चतुर्विशतिरध्यायाः कल्पसिद्धिरतःपरम्।
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बास्तिकल्पना॥
अस1.59
कल्पश्च सिद्धबस्तीनां सिद्धिर्बस्त्यनुवासयोः।
द्रव्यकल्पोऽष्टमः स्थानमत उत्तरमुत्तरम्॥
अस1.60
बालोपचरणे व्याधिग्रहज्ञाननिषेधने।
स्नाने पृथग्ग्रहे भूते द्वावुन्मादे स्मृतिक्षये॥
अस1.61
वर्त्मसन्धिगतौ द्वौ द्वौ दृक्तमोलिङ्गनाशिषु।
सर्वदृक्स्यन्ददृक्पाके कर्णनासामुखेषु च॥
अस1.62
मूर्ध्नि व्रणे तथा द्वौ द्वौ सद्योभङ्गे भगन्दरे।
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥
अस1.63
विषे द्वौ भुजगे कीटे द्वौ च लूतासु मूषिके।
विषे विषोपयोगे च तथाऽध्यायो रसायने॥
अस1.64
वाजीकरणमुद्दिश्य पञ्चाशोऽष्टाङ्गपूरणः।
पञ्चाशदध्यायशतं षड्भिः स्थानैः समीरितम्॥
इति प्रथमोऽध्यायः
द्वितीयोऽध्यायः
[सम्पाद्यताम्]अस2.1
अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस2.2
गुरुभक्तोऽभियुक्तोऽतियुक्तो धीस्मृतिपाटवैः।
ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः॥
अस2.3
ब्रह्मचारी जितद्वन्द्वो धीरः सुचरितः स्थिरः।
षण्मासानुषितः शक्लो लज्जाशौचकुलान्वितः॥
अस2.4
शिष्योऽध्याप्यो गतो यावदन्तं तन्त्रार्थकर्मणाम्।
नाऽकालविद्युत्स्तनिते भूकम्पे राहुदर्शने॥
अस2.5
पञ्चदश्यामचन्द्रायां परोक्षे वा गुरोः पठेत्।
नातिच्छिन्नपदं नातिमन्दं नात्युच्चनीचकैः॥
अस2.6
हीनान्यवेष आचार्यं पर्युपासीत राजवत्।
शयीत सुप्त एवास्मिन्नुत्तिष्ठेतास्य पूर्वतः॥
अस2.7
न ब्रूयात् केवलं नाम नाऽसाध्वपि विनाटयेत्।
अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः॥
अस2.8
बहुश्रुतः कालवेदी ज्ञातग्रन्थोऽर्थशास्त्रवित्।
अनाथान् रोगिणो यश्च पुत्रवत् समुपाचरेत्॥
अस2.9
गुरुणा समनुज्ञातः स भिषक्छब्दमश्नुते।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः॥
अस2.10
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम्।
यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्ज्जितः॥
अस2.11
स सत्सु गर्हामाप्नेति वधं चर्च्छति राजतः।
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे॥
अस2.12
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः।
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये॥
अस2.13
पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्।
प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः॥
अस2.14
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति।
आहूत एव यो याति सुवेषः सुनिमित्ततः॥
अस2.15
गत्वाऽतुरार्थादन्यत्र न निधत्ते मनः क्वचित्।
व्याधीन् परीक्षते सम्यङ्निदानादिविशेषतः॥
अस2.16
ह्रेपणीयां च तद्वाअर्त्तां न प्रकाशयते बहिः।
सहसा न च तस्यापि क्रियाकालमहापयन्॥
अस2.17
जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते।
नाददीताऽमिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे॥
अस2.18
ताभिश्च रहसि स्थानं परिहासं च वर्जयेत्।
आर्त्तं च नृपसद्वैद्यैर्द्विष्टं तद्वेषिणं द्विषम्॥
अस2.19
चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्।
हीनोपकरणं व्यग्रमविधेयं गतायुषम्॥
अस2.20
जिजीविषुर्व्याधितोऽपि पूर्वोक्तगुणवर्जितान्।
क्रियाविक्रयिणो वैद्यान् मृत्योरग्रेसरा हि ते॥
अस2.21
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्।
चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्॥
अस2.22
दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्।
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्॥
अस2.23
अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः।
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्ववानपि॥
अस2.24
यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः।
स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्॥
अस2.25
चिकित्सायास्तमेवातः प्रधानं कारणं विदुः।
साध्योऽसाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा॥
अस2.26
सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः।
सर्वौषधमे देहे यूनः पुंसो जितात्मनः॥
अस2.27
अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः।
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि॥
अस2.28
ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः।
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते॥
अस2.29
कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च।
असाध्यलिङ्गसङ्कीर्णस्तथा शस्त्रादिसाधनः॥
अस2.30
शेषत्वादायुषः पथ्यैर्याप्यः प्रायो विपर्यये।
दत्वाऽल्पं सुखमल्पेन हेतुना स प्रतन्यते॥
अस2.31
याति नाशेषतां रोगः कर्मणो नियतायुषः।
प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः॥
अस2.32
परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते।
तस्मादुपेक्ष्य एवासौ स्थितोऽत्यन्तविपर्यये॥
अस2.33
भ्रममोहारतिकरो दृष्टरिष्टोऽक्षनाशनः।
व्याधीन् पुरा परीक्ष्यैवमारभेत ततः क्रियाम्॥
अस2.34
स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्।
साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यताम्॥
अस2.35
विद्यादसाध्यमेवातः साध्यासाध्यसमागमम्।
नासाध्यः साध्यतां याति साध्यो यातित्वसाध्यताम्॥
अस2.36
पादापचाराद्दैवाच्च यान्त्यवस्थान्तरं गदाः।
वरमाशीविषविषं दीप्तमग्निमयोऽपि वा॥
अस2.37
उपयुञ्जीत न त्वार्त्तादामिषं कृपणाज्जनात्।
वरो भूतदया धर्म इत्यार्त्तेषु भिषग्वरः॥
अस2.38
वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते॥
इति द्वितीयोऽध्यायः
तृतीयोऽध्यायः
[सम्पाद्यताम्]अस3.1
अथातो दिनचर्यां नामाध्यायं व्याख्यास्यामः।
इति ह स्माऽहुरात्रेयादयो महर्षयः॥
अस3.2
ब्राह्मे मुहूर्ते उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्।
रक्षार्थमायुषः स्वस्थो जातवेगः समुत्सृजेत्॥
अस3.3
उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि।
वाचं नियम्य प्रयतः संवीताङ्गोऽवगुण्ठितः॥
अस3.4
प्रवर्त्तयेत् प्रचलितं न तु यत्नादुदीरयेत्।
नामेध्यमार्गमृत्भस्मगोस्थानाकीर्णगोमये॥
अस3.5
पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे।
न नारीपूज्यगोर्केन्दुवाय्वन्नाग्निजलं प्रति॥
अस3.6
न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः।
नवेगितोऽन्यकार्यः स्यान्नाजित्वासाध्यमामयम्॥
अस3.7
निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः।
अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्॥
अस3.8
लेपगन्धापहं शौचमनुत्पतिताबिन्दुभिः।
स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्युच्तान्॥
अस3.9
स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने।
रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः॥
अस3.10
प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्।
अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः॥
अस3.11
नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न्न पूतिभिः।
न फेनबुल्बुदक्षारैर्नैकहस्तार्पितैर्जलैः॥
अस3.12
नाद्रैकपाणिर्न्नामेध्यहस्तपादो न शब्दवत्।
वटासनार्कखदिरकरञ्जकरवीरजम्॥
अस3.13
सर्जारिमेदापामार्गमालतीककुभोद्भवम्।
कषायतिक्तकटुकं मूलमन्यदपीदृशम्॥
अस3.14
विज्ञातवृक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्।
कनीन्यग्रसमस्थौल्यं सुकूर्च्चं द्वादशाङ्गुलम्॥
अस3.15
प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्।
वाप्यत्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्॥
अस3.16
शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्।
लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च॥
अस3.17
तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः।
रुचिवैशद्यलघुता न भवन्ति भवन्ति च॥
अस3.18
नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्॥
अस3.19
नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्।
बिल्ववञ्चुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान्॥
अस3.20
कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून्।
पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्॥
अस3.21
स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्।
पालाशमासनं दन्तधावनं पादुके त्यजेत्॥
अस3.22
दन्तान् पूर्वमधो घर्षेत् प्रातः सिञ्चेच्च लोचनं।
तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा॥
अस3.23
प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्।
शृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम्॥
अस3.24
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्।
लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने॥
अस3.25
व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी।
चक्षुस्तेजोमयं तस्य विशेषात्च्छेलष्मतो भयम्॥
अस3.26
योजयेत्सप्तरात्रेऽस्मात् स्रावणाथ रसाञ्जनम्।
अणुतैलं ततो नस्यं ततो गण्डूषधारणम्॥
अस3.27
घनोन्नतप्रसन्नत्वक्रकन्धग्रीवास्यवक्षसः।
सुगन्धिवदनाः स्निग्धनिस्वना विमलेन्द्रियाः॥
अस3.28
निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः।
ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः॥
अस3.29
न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्।
खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः॥
अस3.30
अरोचकास्यवैरस्यमलपूतिप्रसेकजित्।
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्॥
अस3.31
प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्।
धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः॥
अस3.32
अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्।
धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्॥
अस3.33
गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्।
वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्॥
अस3.34
माल्यं न लम्बं न बहिर्न रक्तं जलजाद्दते।
नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ॥
अस3.35
रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्।
जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह॥
अस3.36
ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्।
रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम्।
अस3.37
विषमूर्च्छामदार्तानामपथ्यं शोषिणां च तत्।
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे॥
अस3.38
द्विपत्रंएकं पूगं च सचूर्णखदिरं च तत्।
उत्तिष्ठेत ततोत्यर्थमर्थेष्वर्थानुबन्धिषु॥
अस3.39
निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्।
कृषिं वाणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्॥
अस3.40
लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम्।
मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः॥
अस3.41
पाणिनाऽलभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्।
सातपत्रपदत्राणो विचरेद्युगमात्रद्दक्॥
अस3.42
निशि चात्ययिके कार्ये दण्डी मौली सहायवान्।
प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरोऽहनि॥
अस3.43
चैत्यपूज्यध्वजाशस्तच्चायाभस्मतुषाशुचीन्।
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च॥
अस3.44
मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्।
न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम्॥
अस3.45
सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न।
न हुंकुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च॥
अस3.46
नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्।
चतुष्पथं नमस्कुर्यात् प्रज्ञातांश्च वनस्पतीन्॥
अस3.47
न व्यालव्याधिताशस्तैर्नादान्दक्षुत्पिपासितैः।
न च्छिन्नपुच्छैर्नैकाक्षैगापृष्ठेन च न व्रजेत्॥
अस3.48
नाऽतिप्रगेऽतिसायं वा न नभोमध्यगे रवौ।
नासन्निहितपानीयो नातितूर्णं न सन्ततम्॥
अस3.49
न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह।
दद्याद्वर्त्माऽर्तवृद्धस्त्रीभारिचक्रद्विजन्मने॥
अस3.50
स्रानभोजनपानानि वाहेभ्यो न+आचरेत् पुरः।
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्॥
अस3.51
नाऽरोहोद्विषमं शैलं नावं संशयितां तरुम्।
निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्॥
अस3.52
न वार्यमाणः प्रविशेन्नाद्वारेण ना च+आसने।
स्वयं तिष्ठेत् परगृहे युक्तनिंद्रं न बोधयेत्॥
अस3.53
न+आचरेत् पाणिवाक्पादद्दङ्मेढ्रेदरचापलम्।
त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत्॥
अस3.54
न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत्।
अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः॥
अस3.55
यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्।
अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत्॥
अस3.56
दग्धभग्नक्षतरुजाक्लमश्रमजरापहः।
रथाक्षचर्मघटवत् भवन्त्यभ्यङ्गतो गुणाः॥
अस3.57
स्पर्शनेऽभ्याधिको वायुःस्पर्शनं च त्वगाश्रयम्।
त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः॥
अस3.58
शिरः श्रवणपादेषु तं विशेषेण शीलयेत्।
स केश्यः शीलितो मूर्ध्नि कपालेन्दिर्यतर्पणः॥
अस3.59
हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम्।
पादाभ्यङ्गस्तु तत्स्थैर्यनिद्राद्दष्टि प्रसादकृत्॥
अस3.60
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्।
वर्ज्योभ्यङ्गः कफग्रस्तक्तसंशुद्ध्यजीर्णिभिः॥
अस3.61
शरीरायासजननं कर्म व्यायाम उच्यते।
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः॥
अस3.62
विभक्तघनगात्रत्वं व्यायामादुपजायते।
वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्॥
अस3.63
अर्द्धशक्त्यानिषेव्यस्तु बलिभिः स्निग्धभोजिभिः।
शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा॥
अस3.64
तं कृत्वाऽनुसुखं देहं मर्द्दयेच्च समन्ततः।
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः॥
अस3.65
अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते।
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसं॥
अस3.66
गजं सिंह इव+आकर्षन् भजन्नति विनश्यति।
उद्वर्त्तनं कफहरं मेदसः प्रविलायनम्॥
अस3.67
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्।
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्॥
अस3.68
कण्डूमलश्रमस्वेदतन्द्रातृङ्दाहपाप्मजित्।
उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः॥
अस3.69
तेनैव तूत्तमाङ्गस्य बलहृत् केशचक्षुषाम्।
नाऽनाप्लुत्य शिरः स्नायान्न जलेऽल्पे न शीतले॥
अस3.70
नोदकावतरणस्वप्नान् नग्नो न च+आचरेत्।
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि॥
अस3.71
नात्मानमीक्षेत जले न तटस्थो जलाशयम्।
न प्रतिस्फालयेदम्बु पाणिना चरणेन वा॥
अस3.72
स्नात्वा न मृज्यात् गात्राणि धुनुयान्न शिरोरुहान्।
निवसीताऽर्द्र एव+आशु सोष्णीषे धौतवाससी॥
अस3.73
न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्।
वासोऽन्यदन्यच्छयने निर्गमे देवतार्च्चने॥
अस3.74
स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥
अस3.75
अन्नपानविधानेन भुञ्जीतान्नं विनाऽत्ययात्।
अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः॥
अस3.76
पाकं सजलमेकान्ते यथासुखमितिश्रुवन्।
प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्नाऽन्नमात्मने॥
अस3.77
नाऽन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनां।
स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणां॥
अस3.78
गणारिगणिकासत्रधूर्त्तान्नापणिकञ्च न।
नोत्सङ्गे भक्षयेत् भक्ष्यान् जलं नाञ्जलिना पिबेत्॥
अस3.79
सर्वञ्च तिलसम्बद्धं नाऽद्यादस्तमिते रवौ।
न भुक्तमात्र आस्येन्न निषिद्धं भजेत्सुखं॥
अस3.80
धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः।
मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्॥
अस3.81
न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः।
कलिवैररुचिर्न स्यात् धीरः सम्पद्विपत्तिषु॥
अस3.82
श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली।
क्षान्तिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत्॥
अस3.83
ह्रीमान् धीमान् महोत्साहः संविभागी प्रियातिथिः।
अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः॥
अस3.84
दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः।
अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः॥
अस3.85
आश्वासकारी भीतानां क्रुद्धानामनुनायकः।
पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः॥
अस3.86
वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्।
आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्॥
अस3.87
सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्।
धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः॥
अस3.88
ना+आत्मानमवजानीयान्न स्तूयान्न च पीडयेत्।
न हीनानवमन्येत् वृत्तार्थाङ्गबलश्रुतैः॥
अस3.89
नाऽरुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नोऽपतापवान्।
हेतावीर्ष्येन्न तु फले पापं पापेऽपि नाचरेत्॥
अस3.90
परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत्।
अन्यत्रपुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः॥
अस3.91
नृत्यवादित्रगीतादि नोल्बणामाचरेत् क्रियाम्।
प्रसिद्धकेशवाग्वेषशमसान्त्वपरायणः॥
अस3.92
ऊर्ध्वं नाभेः शरीरस्य स्पृशोन्नाऽधरवाससा।
न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्॥
अस3.93
नाऽसंवृतमुखो हास्यक्षवोत्गारविजृम्भणम्।
पाणिद्वयेन युगपत् कण्डूयेन्नात्मनः शिरः॥
अस3.94
वहेन्न भारं शिरसा युगपच्चाग्निवाहिणी।
नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्॥
अस3.95
कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम्।
पादं पादेन नाऽक्रामेन्न कण्डूयेन्न शौचयेत्॥
अस3.96
न कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत्।
अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्॥
अस3.97
नाऽसमिद्धमुपासीत हुताशं नैव चाशुचिः।
नाऽनुवातं न विवृतो न क्लान्तो नाऽन्यमानसः॥
अस3.98
धमेन्नाऽस्येन न स्कन्देन्नाऽधः कुर्यान्न पादतः।
सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च॥
अस3.99
नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्।
उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्॥
अस3.100
उपरक्तं च भास्वन्तं वाससा वा तिरोहितम्।
नाऽन्यदप्यतितेजस्वि न क्रुद्धभ्य गुरोर्मुखम्॥
अस3.101
स्त्रियं स्त्रवन्तीं नोदक्यां न नग्नां नाऽन्यसङ्गताम्।
न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने॥
अस3.102
शयीत नैकशयने न चाश्नीयास्तया सह।
तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्॥
अस3.103
नोच्छिष्टस्तारकाराहुतुहिनाशुदिवाकरान्।
पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेछिरः॥
अस3.104
पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्।
अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च॥
अस3.105
नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत्॥
अस3.106
न+आत्मनो जन्मलग्नर्क्षधनसारं गृहे मलम्।
प्रकाशयेन्नावमानं न च निःस्नेअतां प्रभोः॥
अस3.107
पुरोवातातपरजस्तुषारपरुषानिलान्।
अनृजुः क्षवथूद्रारकासस्वप्नान्नमैथुनम्॥
अस3.108
सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम्।
कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः॥
अस3.109
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः।
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्॥
अस3.110
आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम्।
तोयाग्नि पूज्यमध्येन यानं धूमं शवाश्रयम्॥
अस3.111
मद्यातिसक्तिं विस्त्रंभस्वातन्त्र्ये स्त्रीषु च त्यजेत्।
नैकाहमप्यधिवसेद्वास्तु तच्छास्त्रगर्हितम्॥
अस3.112
न देशं व्याधिबहुलं नावैद्यं नाप्यनायकम्।
नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्॥
अस3.113
वसेत् प्राज्याम्बुभैषज्यसमित् पुष्पतृणेन्धने।
सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे॥
अस3.114
नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः।
आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च॥
अस3.115
दश कर्मपतान्रक्षन् जयन्नभ्यन्तरानरीन्।
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम्॥
अस3.116
संभिन्नलापं व्यापादमभिध्यां दृग्विपर्ययम्।
पापं कर्मेतिदशधा कायवाङ्मानसैस्त्ययेत्॥
अस3.117
परोपघातक्रियया वर्जयेदार्जनं श्रियः।
अर्थानां धर्मलब्धानामदाताऽपिह्यसम्भवात्॥
अस3.118
स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति।
सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः॥
अस3.119
शास्तारमनुसंस्मृत्य स्वचर्यां चाथ संविशेत्।
देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः॥
अस3.120
युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्।
जानुतुल्यं मृदु शुभं सेवेत शयनासनम्॥
अस3.121
प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति।
पूर्वापरदिशो भागे धर्ममेवानुचिन्तयन्॥
अस3.122
आददीत सदा देहादित्थं सारमसारतः।
बिभ्यत् प्रतिक्षणं मृत्योरयथातथचेष्टितात्॥
अस3.123
आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः।
सुखमायुर्हितं चोक्तं विपरीतं विपर्यये॥
अस3.124
सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि।
अदूषयन्मनस्तस्मात् भक्तिमांस्तमुपाचरेत्॥
अस3.125
पर्यस्तिकोपाश्रयकोपहासविवादनिष्ठीवनजृम्भणानि।
सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्सन्निधाने परिवर्जयेत्तु॥
अस3.126
सत्वाद्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्या+आत्महितं विदध्यात्।
अन्योऽपि यः कश्चिदिहाऽस्ति मार्गो हितोपदेशेषु भजेत तं च॥
अस3.127
इति चरितमुपेतः सर्वजीवोपजीव्यं प्रथितपृथुगुणौधो रक्षितो देवताभिः।
समधिकशतजीवी निर्वृतः पुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदेऽपि तुष्टिम्॥
इति तृतीयोऽध्यायः
चतुर्थोऽध्यायः
[सम्पाद्यताम्]अस4.1
अथात ऋतुचर्यां व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
अस4.2
कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी।
यदनुरोधादादित्यादयः खादयश्च महाभूतविशेषास्तथा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्यर्तुरसवीर्यदोपदेहबलव्यापत्सं पदां च कारणत्वं पत्ययतां प्रतिपद्यन्ते॥
अस4.3
स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षभेदेन द्वादशधा विभज्यते॥
अस4.4
तत्राक्षिनिमेषो मान्त्रा। ताः पञ्चदश काष्ठा तास्त्रिंशत् कला। ताः सदशभागा विंशतिर्नाडिका। नाडिकाद्वयं मुहूर्तश्च। ते तुल्यरात्रिन्दिवे राशिभागे चत्वारः पादोना यामः। तैश्चतुर्भिरहो रात्रिश्च। पञ्चदशाहोरात्राः पक्षः। पक्षद्वयं मासः स शुक्लान्तः। तैर्मार्गशीर्षादिभिर्द्विसंख्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षशरदाख्याः षडृतवो भवन्ति। तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानञ्च शेषा दक्षिणायनं विसर्गश्च। तावादानविसर्गौ वर्षम्॥
अस4.5
तयोरादानमाग्नेयम्। तस्मिन् खलु कालस्वभावमार्गपरिगृहीतोऽत्यर्थोप्णगभस्तिजालमण्डलोऽर्कस्तत्संपर्काद्वायवश्च तीव्ररूक्षाः सोमजं गुणमुपशोषयन्तो जगतः स्नेहमाददाना ऋतुक्रमेणो पजनितरौक्ष्या रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयन्तो नृणां दौर्बल्यमावहन्ति॥
अस4.6
वसर्गस्तु सौम्यः। तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगेऽर्के शशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेन्द्रसलिल प्रशान्त सन्तापे जगत्यरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति॥
अस4.7
भवति चात्र
हेमन्ते शिशिरे चाग्र्यं विसर्गादानयोर्बलम्। शरद्वसन्तयोर्मध्यं हीनं वर्षानिदाघयोः॥
अस4.8
धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः।
दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः॥
अस4.9
लोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्वलाः।
दृप्ता गजाजमहिषवाजिवायससूकराः॥
अस4.10
हिमानीपटलच्छन्ना लीनमीनविहङ्गमाः।
नद्यः सबाष्पाः सोष्माणः कूपापश्च हिमागमे॥
अस4.11
देहोष्माणो विशन्तोऽन्तः शीते शीतानिलाहताः।
जठरे पिण्डितोष्माणं प्रबलं कुर्वतेऽनलम्॥
अस4.12
विसर्गे बलिनां प्रायः स्वभावादिगुरुक्षमम्।
बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये॥
अस4.13
अनिन्धनोऽन्यथा सीदेदत्युदीर्णतयाऽथवा।
धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत्॥
अस4.14
तेजः सहचरः कुप्येच्छीतः शीते विशेषतः।
अतो हिमे भजेत्स्निग्धान् स्वाद्वम्ललवणान्रसान्॥
अस4.15
बिलेशयौदकानूपप्रसहानां भृतानि च।
मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च॥
अस4.16
माषेक्षुक्षीरविकृतिवसातैलनवौदनान्।
व्यायामोद्वर्तनाभ्यङ्गस्वेदधूमाञ्जनातपान्॥
अस4.17
सुखोदकं शौचविधौ भूमिगर्भगृहाणि च।
साङ्गारयानां शय्यां च कुथकम्बलसंस्कृताम्॥
अस4.18
कुङ्कुमेनानुलिप्ताङ्गो गुरुणाऽगरुणाऽपि वा।
लघूष्णैः प्रावृतः स्वप्यात् काले धूपाधिवासितः॥
अस4.19
पीनाङ्गनाङ्गसंसङ्गनिवारितहिमानिलः।
शिशिरे शीतमधिकं मेघमाउतवर्षजम्॥
अस4.20
रौक्ष्यं च+आदानजं तस्मात् कार्यः पूर्वोऽधिकं विधिः।
वसन्ते दक्षिणो वायुराताम्रकिरणो रविः॥
अस4.21
नवप्रवालत्वक्पत्राः पादपाः ककुभोऽमलाः।
किंशुकाशोकचूतादिवनराजिविराजिताः॥
अस4.22। कोकिलालिकुलालापकलकोलाहलाकुलाः।
शिशिरे सञ्चितः श्लेष्मा दिनकृद्भाभिरीरितः॥
अस4.23
तदा प्रबाधमानोऽग्निं रोगान् प्रकुरुते बहून्।
अतोऽस्मिंस्तीक्ष्णवमनधूमगण्डूषनावनम्॥
अस4.24
व्यायामोद्वर्त्तनक्षौद्रयवगोधूमजाङ्गलान्।
सेवेत सुहृदुद्यानयुवतीश्च मनोरमाः॥
अस4.25
स्नातः स्वलङ्कृतः स्रग्वी चन्दनागरुरूषितः।
विचित्रामत्रविन्यस्तान् सहकारोत्पलाङ्कितान्॥
अस4.26
निगदांश्च+आसवारिष्टशीधुमार्द्वीकमाधवान्।
क्वथितं मुस्तशुण्ठ्यम्बु साराम्भः क्षौद्रवारि वा॥
अस4.27
गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्।
ग्रीष्मेऽतसीपुष्पनिभस्तीक्ष्णांशुर्दावदीपिताः॥
अस4.28
दिशो ज्वलन्ति भूमिश्च मारुतो नैऋतः सुखः।
पवनातपसंस्वेदैर्जन्तवो ज्वरिता इव॥
अस4.29
तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः।
दिवाकरकराङ्गारनिकरक्षपिताम्भसः॥
अस4.30
प्रवृद्धरोधसो नद्यः च्छायाहीना महीरुहाः।
विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः॥
अस4.31
आदत्ते जगतस्तेजस्तद+आदित्यो भृशं यतः।
व्यायामातपकट्वम्ललवणोष्णं त्यजेदतः॥
अस4.32
मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबहुवारि वा।
अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्॥
अस4.33
नवमृद्भाजनस्थानि हृद्यानि सुरभीणि च।
पानकानि समन्थानि सिताढ्यानि हिमानि च॥
अस4.34
स्वादु शीतं द्रवं चान्नं जाङ्गलान्मृगपक्षिणः।
शालिक्षीरघृतद्राक्षानालिकेराम्बुशर्कराः॥
अस4.35
तालवृन्तानिलान् हारान् स्रजः सकमलोत्पलाः।
तन्वीर्मृणालवलयाः कान्ताश्चन्दनरूषिताः॥
अस4.36
सरांसि वापिः सरितः काननानि हिमानि च।
सुरभीणि निषेवेत वासांसि सुलघूनि च॥
अस4.37
निष्पतद्यन्त्रसलिले स्वप्याद्धारागृहे दिवा।
रात्रौ च+आकाशतलके सुगन्धिकुसुमास्तृते॥
अस4.38
कर्पूरचन्दनार्द्राङ्गो विरलानङ्गसङ्गमः।
वर्षासु वारुणो वायुः सर्वसस्यसमुद्गमः॥
अस4.39
भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः।
दीर्घिकानववार्यौघमग्नसोपानपङ्क्तयः॥
अस4.40
वारिधाराभृशाघातविकासितसरोरुहाः।
सरितः सागराकारा भूरव्यक्तजलस्थला॥
अस4.41
मन्द्रस्तनितजीमूतशिखिदर्दुरनादिता।
इन्द्रगोपधनुःखण्डविद्युदुद्योतदीपिता॥
अस4.42
परितः श्यामलतृणा सिलिन्ध्रकुटजोज्वला।
तदादानाबले देहे मन्देऽग्नौ बाधिते पुनः॥
अस4.43
वृष्टिभूबाष्पतोयाम्लपाकदुष्टैश्चलादिभिः।
बस्तिकर्म निषेवेत कृतसंशोधनक्रमः॥
अस4.44
पुराणाशालिगोधूमयवान् यूषरसैः कृतैः।
निगदं मदिरारिष्टमार्द्वीकं स्वल्पमम्बु वा॥
अस4.45
दिव्यं क्वथितकूपोत्थं चौण्डं सारसमेव वा।
वृष्टिवाताकुलेत्वन्हि भोजनं क्लेदवातजित्॥
अस4.46
परिशुष्कं लघुस्निग्धमुष्पाम्ललवणं भजेत्।
प्रायोऽन्नपानं सक्षौद्रं संस्कृतं च घनोदये॥
अस4.47
असरीसृपभूबाष्पशीतमारुतशीकरम्।
साग्नियानं च भवनं निर्दंशमशकोन्दुरम्॥
अस4.48
प्रघर्षोद्वर्तनस्नानधूमगन्धागरुप्रियः।
यायात् करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः॥
अस4.49
नदीजलोदमन्थाहः स्वप्नातिद्रवमैथुनम्।
तुषारपादचरणव्यायामार्ककरांस्त्यजेत्॥
अस4.50
शरदि व्योम शुभ्राभ्रं किञ्चित् पङ्काङ्किता मही।
प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी॥
अस4.51
विक्षिप्ततीक्ष्णकिरणो मेघौघविगमाद्रविः।
बभ्रुवर्णोऽतिविमलाः क्रौञ्चमालाकुला दिशः॥
अस4.52
कमलान्तरसंलीनमीनहंसांसघट्टनैः।
तरङ्गभङ्गानि सरांसि विमलानि च॥
अस4.53
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः।
तप्तानां सञ्चितं पूर्वं तदा पित्तं प्रकुप्यति॥
अस4.54
शस्तं तिक्तहविःपानं विरेकोऽस्रस्रुतिः सदा।
शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकम्॥
अस4.55
शालिषष्टिकगोधूमयवमुद्गसितामधु।
पटोलामलकं द्राक्षा जाङ्गलं क्षुद्वतां भृशम्॥
अस4.56
दिवा दिवाकरकरैर्निशाकरकरौर्नीशि।
सन्तप्तं ह्लादितं तोयमगस्त्येनाविषीकृतम्॥
अस4.57
निर्मलं शुचि कालेन पक्वं पानेऽमृतोपमम्।
हंसौघपक्षविक्षेपभ्रमत्भ्रमरपङ्क्तिषु॥
अस4.58
सुसरोरुहसेव्यासु सरसीषु प्लवेत च।
लघुशुद्धाम्बरः स्रग्वी शीतोशीरविलेपनः॥
अस4.59
सेवेत चन्द्रकिरणान् प्रदोषे सौधमाश्रितः।
तृप्तिदध्यातपक्षारवसातैलपुरोनिलान्॥
अस4.60
तीक्ष्णमद्यदिवास्वप्नतुषारांश्च विवर्जयेत्।
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ॥
अस4.61
र्त्वोरन्तादिसप्ताहावृतुसन्धिरिति स्मृतः।
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्॥
अस4.62
असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्।
र्तुष्वेवंविधेष्वेष विधिः स्वास्थ्ये च देहिनां॥
अस4.63
निर्दिश्यतेऽन्यरूपेषु विरुद्धाज्ञानिको विधिः।
मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम्॥
अस4.64
यथोत्तरंभजेच्चर्यां तत्र तस्य बलादिति॥
इति चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
[सम्पाद्यताम्]अस5.1
अथातो रोगानुत्पादनीयं नामाध्ययं व्याख्यास्यामः।
इतिहस्माहुरात्रेयादयो महर्षयः॥
अस5.2
वेगान् नधारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम्।
निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्॥
अस5.3
अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः।
वातमूत्रशकृत्सङ्गद्दष्ट्यग्निवधहृद्गदाः॥
अस5.4
शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः।
ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्॥
अस5.5
मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः।
अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः॥
अस5.6
मूत्रस्य रोधात् पूर्वे च प्रायो रोगाः तदौषधम्।
वर्त्यभ्यङ्गवगाहाश्च स्वेदनं बस्तिकर्म च॥
अस5.7
अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु।
मूत्रजेषु तु पाने च प्राग्भक्तं शस्येत घृतम्॥
अस5.8
जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्।
अवपीडकमेतच्च संज्ञितं धारणात् पुनः॥
अस5.9
उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः।
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्॥
अस5.10
शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः।
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥
अस5.11
प्रवर्तयेत् क्षुतिं सक्तां स्वेदाभ्यङ्गौ च शीलयेत्।
योज्यं वातघ्नमन्नं च घृतं चौत्तरभक्तिकम्॥
अस5.12
शोषाङ्गसादबधिर्यसम्मोहभ्रमहृद्गदाः।
तृप्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः॥
अस5.13
अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः।
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्॥
अस5.14
निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः।
अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च॥
अस5.15
कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः।
शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः॥
अस5.16
गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्।
हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः॥
अस5.17
जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः।
पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः॥
अस5.18
सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः।
विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः॥
अस5.19
सकासश्वसहृल्लासव्यङ्गश्वयथवो वमेः।
गण्डूषधूमानाहारं रुक्षं भुक्त्वा तदुद्वमः॥
अस5.20
व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्।
सक्षारलवणं तैलमभ्यङ्गार्थे च शस्यते॥
अस5.21
शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः।
हृद्व्यथा मूत्रसङ्गाङ्गभङ्गवर्ध्माश्मषण्ढताः॥
अस5.22
तास्रचूडसुराशलिबस्त्यभ्यङ्गावगाहनम्।
बस्तिशुद्धिकरैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः॥
अस5.23
तत्र सेवेत सर्वं च वर्जयेद्वेगधारिणम्।
विड्वामिनं परिक्लिष्टं क्षीणं तृट्छूलपीडितम्॥
अस5.24
रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति॥
अस5.25
ततश्चानेकधा प्रायः पवनो यत् प्रकुप्यति।
अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्॥
अस5.26
क्रमादपामपि मणौ पङ्कोऽवश्यंभवत्यतः।
उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति॥
अस5.27
चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः।
प्रायशः सुचिरेणापि भेषजद्वेषिणोगदान्॥
अस5.28
अतिस्थौल्याग्निसदनमेहकुष्ठहृतौजसः।
स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपाण्डुताः॥
अस5.29
आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान्।
च्छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम्॥
अस5.30
कण्ठामयान् मूर्द्धरुजं प्रणाशं बुद्धिनिद्रयोः।
तेजोवर्णबलानां च तृप्यतो बृंहणैरपि॥
अस5.31
उचितैरपि चाहारैर्यस्मादस्य वहन्ति न।
दोषोपलिप्तवदना रसं रसवहाः सिराः॥
अस5.32
वमनादीनतो युञ्ज्यात् स्वस्थस्थैव यथाविधि।
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः॥
अस5.33
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः।
यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्॥
अस5.34
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्।
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्॥
अस5.35
शालिषष्टिकगोधूममांसक्षीरघृतादिभिः।
हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः॥
अस5.36
साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः।
तथा स लभते शर्म सर्वपावकपाटवम्॥
अस5.37
धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः।
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः॥
अस5.58
कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः।
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः॥
अस5.59
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्।
अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्॥
अस5.60
भूताद्यस्यर्शनोपायो निर्दिष्टश्च पृथक् पृथक्।
अनुत्पत्यै समासेन विधिरेष प्रदर्शितः॥
अस5.61
निजागन्तुविकाराणामुत्पन्नानां च शान्तये॥
अस5.62
शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले।
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान् न जातु॥
अस5.63
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥
अस5.64
अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमपायवत्सु।
जितेन्द्रियं नानुपतान्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्॥
अस5.65
कालेऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुखानुबन्धि।
सत्त्वं विधेयं विशदा च बुद्धिर्भवन्ति धीरस्य सदा सुखाय॥
इति पञ्चमोऽध्यायः
षष्ठोऽध्यायः
[सम्पाद्यताम्]अस6.1
अथातोद्रवद्रव्यविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
अस6.2
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्।
तन्वव्यक्तरसं मृष्टं शीतं शुच्यमृतोपमम्॥
अस6.3
सूर्योध्दृतप्रमुक्तत्वाल्लघु वातकंफापहम्।
शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित्॥
अस6.4
गङ्गाम्बु नभसो भ्रष्टं त्वर्केन्दुमारुतैः।
हिताहितत्वे तत् भूयो देशकालावपेक्षते॥
अस6.5
येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम्।
अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा॥
अस6.6
सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना।
खातधौतशिलापृष्ठवस्त्रादिभ्यश्च्युतं जलम्॥
अस6.7
हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत्।
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्॥
अस6.8
श्वेते कषायं तत्स्वादु कृष्णे तिक्तं च पाण्डुरे।
नीले कषायमधुरं देशे लवणमूषरे॥
अस6.9
सक्षारं कपिले मिश्रं मिश्रेऽथाम्बुगुणाधिके।
मधुरं लवणाम्लं तु भवेत्भूमिगुणाधिके॥
अस6.10
तेजोधिके तिक्तकटु कषायं पवनाधिके।
दिव्यानुकारि त्वव्यक्तरसत्वात् खगुणाधिके॥
अस6.11
शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतम्।
कौपसारसताटाकचौण्डप्रास्रवणौद्भिदम्॥
अस6.12
वापीनदीतोयमिति तत् पुनः स्मृतमष्टधा।
सक्षारं पित्तकृत् कौपं दीपनान्नातिवातलम्॥
अस6.13
सारसं स्वादु लघु च ताटाकं गुरु वातलम्।
चौण्डं तु पित्तलं दोषहरं प्रास्रवणोदकम्॥
अस6.14
औद्भिदं स्वादु पित्तघ्नं स्वादु वापीजलं गघु।
नादेयं वातलं रूक्षं कटुकं च तदादिशेत्॥
अस6.15
धन्वानूपमहीध्राणां सामीप्यात् गुरुलाघवम्।
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः॥
अस6.16
पथ्याः समासात्ता नद्यो विपरीतास्ततोऽन्यथा।
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः॥
अस6.17
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिताः।
क्रिमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते॥
अस6.18
प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः।
उदरश्लीपदातङ्कान् सह्यविन्ध्यभवाः पुनः॥
अस6.19
कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः।
बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत्॥
अस6.20। कीटाहिमूत्रविट्कोथतृणजालोत्कराविलम्।
पङ्कपङ्कजशैवालहठपर्णादिसंस्तृतम्॥
अस6.21
सूर्येन्दुपवनादृष्टं जुष्टं च क्षुद्रजन्तुभिः।
अभिवृष्टं विवर्णं च कलुषं स्थूलफेनिलम्॥
अस6.22
विरसं गन्धवत्तप्तं दन्तग्राह्यतिशैत्यतः।
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्॥
अस6.23
लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्।
तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान्॥
अस6.24
कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः।
तद्वर्जयेदभवे वा तोयस्यान्यस्य शस्यते॥
अस6.25
घनवस्त्रपरिस्रावैः क्षुद्रजन्त्वभिरक्षणम्।
व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः॥
अस6.26
पर्णीमूलबिसग्रन्थिमुक्ताकतकशैवलैः।
वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम्॥
अस6.27
पाटलाकरवीरादिकुसुमैर्गन्धनाशनम्।
पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे॥
अस6.28
अजीर्णे क्वथितं चा++आमे पक्वे जीर्णेऽपि नेतरत्।
शीते विधिरयं तप्ते त्वजीर्णे शिशिरं त्यजेत्॥
अस6.29
पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्।
अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वार्यते॥
अस6.30
आस्यशोषाङ्गसादाद्या मृत्युर्वा तदलाभतः।
न हि तोयाद्विना वृत्तिः स्वस्थस्य व्याधितस्य वा॥
अस6.31
केवलं सौषधं पक्वमाममुष्णं हितं च तत्।
समीक्ष्य मात्रया युक्तममृतं विषमन्यया॥
अस6.32
अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्।
प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः॥
अस6.33
वर्धयत्यामतृण्निद्रातन्द्राध्मानाङ्गगौरवम्।
कासाग्निसादहृल्लासप्रसेकश्वासपीनसान्॥
अस6.34
पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितम्।
तस्मादयोगपानेन लाघवान्न वियोजयेत्॥
अस6.35
आमविष्टब्धयोः कोष्णं निष्पिपासोऽप्यपः पिबेत्।
यावत्यः क्लेदयन्त्यन्नमतिक्लेदोऽग्निनाशनः॥
अस6.36
विबद्धः कफवाताभ्यां मुक्तामाशयबन्धनः।
पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः॥
अस6.37
अनव्बस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च।
नाल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत्॥
अस6.38
तेजसः प्रतिपक्षत्वान्मन्दाग्निर्वर्जयेज्जलम्।
सर्वमेव तथा स्यन्दप्लीहविद्रधिगुल्मिनः॥
अस6.39
पाण्डूदरातिसारार्शोग्रहणीशोषशोफिनः।
काममल्पमशक्तौ तु पेयमौषधसंस्कृतम्॥
अस6.40
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः।
भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम्॥
अस6.41
अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात् कफम्।
मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम्॥
अस6.42
शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान्।
तृष्णोष्णदाहपित्तासृग्विषाणि च निहन्ति तत्॥
अस6.43
क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात्।
क्वथितं फेनरहितमवेगममलं हितम्॥
अस6.44
हिध्माध्मानानिलश्लेष्मतृट्कासश्वासपीनसे।
पार्श्वशूलाममेदस्सु सद्यःशुद्धौ नवज्वरे॥
अस6.45
दीपनं पाचनं कण्ठ्यं लघु बस्तिविशोधनम्।
पाषाणरूप्यमृद्धेमजतुतापार्कतापितम्॥
अस6.46
पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडरितिजित्।
लघ्वरूक्षं क्लमघ्नञ्च तोयंक्वथितशीतलम्॥
अस6.47
संसर्गे पित्तकफयोः सन्निपाते च शस्यते।
तोयं वन्हिगुणभ्रष्टं पाकेऽम्लं सर्वदोषकृत्॥
अस6.48
भवेत् पर्युषितं तच्च तोयं हिमकरोद्भवम्।
अतिशैत्यगुरुस्थैर्यङ्घातैः कफवातकृत्॥
अस6.49
चन्द्रकान्तभवं रक्षोविषपित्तज्वरापहम्।
दृष्टिमेधावपुस्थैर्यकरं स्वादु हिमं लघु॥
अस6.50
नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु।
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम्।
दिव्यं वारि वरं वर्षे नादेयमवरं॥
इति तोयवर्गः।
अस6.51
स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलं॥
अस6.52
प्रायः पयः अत्र गव्यं तु जीवनीयं रसायनम्।
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्॥
अस6.53
श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः।
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्॥
अस6.54
हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्।
अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु॥
अस6.55
आजं शोषज्वरश्वासरक्तपित्तातिसारजित्।
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु॥
अस6.56
शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्।
मानुषं वातपित्तासृग्भिघाताक्षिरोगजित्॥
अस6.57
तर्पणाश्च्योतनैर्नस्यैः अहृद्यं तूष्णमाविकम्।
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्॥
अस6.58
हस्तिन्याः स्थैर्यकृत् बाढं उष्णं त्वैकशफं लघु।
शाखावातहरं साम्ललवणं जडताकरम्॥
अस6.59
पयोऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा।
भवेत् गरीयोऽतिशृतं धारोष्णममृतोपमम्॥
अस6.60
पिण्याकाम्लाशिनीनां तु गुर्वभिष्यन्दि तत् भृशम्।
अचेष्टया च प्रादोषात् गरीयः स्मृतमौषसम्॥
अस6.61
व्याख्यातस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि।
ह्रस्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत्॥
अस6.62
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्।
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्॥
अस6.63
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे।
पीनसे मूत्रकुछ्रे च रूक्षं तु ग्रहणीगदे॥
अस6.64
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न।
नामुद्गसूपं नाक्षौद्रं नाघृतं नासितोपलम्॥
अस6.65
न चानामलकं नापि नित्यं नो मन्दमन्यथा।
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयप्रदम्॥
अस6.65?। तक्रं लघु कषायाम्लं दीपनं कफवातजित्।
शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः॥
अस6.66
गुल्मप्लीहघृतव्यापद्गरपाण्ड्वामयान् जयेत्।
तद्वन्मस्तु सरं स्रोतश्शोधि विष्टम्भजिल्लघु॥
अस6.67
शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतं।
यक्ष्मार्शोर्द्दितपित्तासृग्वातजिद् ग्राहि दीपनम्॥
अस6.68
क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित्।
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्॥
अस6.69
बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्।
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्॥
अस6.70
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्।
स्नेहानामुत्तमं शीतं वयसः स्थापनं घृतम्॥
अस6.71
सहस्रवीर्यं विधिभिः शृतं कर्मसहस्रकृत्।
मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान्॥
अस6.72
पुराणं जयति व्याधीन् व्रणशोधनरोपणम्।
पूर्वोक्तांश्चाधिकान् कुर्यात् गुणांस्तदमृतोपमम्॥
अस6.73
तद्वच्च घृतमण्डोऽपि रुक्षस्तीक्ष्णस्तनुश्च सः।
कीलाटदधिकूचीकातक्रपिण्डकमोरटाः॥
अस6.74
सक्षीरशाकपीयूषा रोचना वह्निसादनाः।
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः॥
अस6.75
विद्याद्दधिघृतादीनां गुणदोषान् यथा पयः।
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे॥
इति क्षीरवर्गः।
अस6.76
इक्षोः सरो गुरुः स्निग्धो वृंहणः कफमूत्रकृत्॥
अस6.77
वृष्यः शीतः पवनजित् भुक्ते वातप्रकोपनः।
रक्तपित्तप्रशमनः स्वादुपाकरसो रसः॥
अस6.78
सोऽग्रे सलवणो दन्तपीडितः शर्करासमः।
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्॥
अस6.79
किञ्चित् कालविधृत्या च विकृतिं याति यान्त्रिकः।
विदाही गुरु विष्टम्भी तेनासौतत्र पौण्ड्रकः।
शैत्यप्रसादमाधुर्याद्वरस्तमनुवांशिकः॥
अस6.80
शातपर्वककान्तारनैपालाद्यास्ततः क्रमात्।
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः॥
अस6.81
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्।
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृत् गुडः॥
अस6.82
प्रभूतक्रिमिमज्जासृङ्भेदोमांसकफोऽपरः।
हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत्॥
अस6.83
वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः।
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः॥
अस6.84
तद्गुणा तिक्तमधुरा कषाया याषशर्करा।
त्रिदोषघ्नी सिता काशेषुदर्भच्छदसम्भवा॥
अस6.85
दाहतृट्च्छर्दिमूर्च्छासृक्तिपत्तघ्नः सर्वशर्कराः।
शर्करेक्षुविकाराणां फाणितं च वरावरे॥
अस6.86
चक्षुष्यं च्छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्।
कुष्ठमेहकृमिच्छर्दिश्वासकासातिसारजित्॥
अस6.87
व्रणशोधनसन्धानरोपणं वातलं मधु।
रूक्षं कषायमधुरम् तत्तुल्या मधुशर्करा॥
अस6.88
उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्।
विषान्वयत्वेन विषपुष्पेभ्योऽपि यतो मधु॥
अस6.89
कुर्वते ते स्वयं यच्च सविषा भ्रमरादयः।
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते॥
अस6.90
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते।
गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु॥
अस6.91
न हि कष्टतमं किञ्चित्तदजीर्णाद्यतो नरम्।
उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम्॥
अस6.92
नानाद्रव्यात्मकत्वाच्च्च योगवाहि परं मधु।
वृष्ययोगैरतो युक्तं वृषतामनुवर्तते॥
अस6.93
भ्रामरं पौष्पिकं क्षौद्रं माक्षिकं च यथोत्तरम्।
वरं जीर्णं च तेष्वन्त्ये द्वे एव ह्युपयोजयेत्॥
इति इक्षु वर्गः।
अस6.94
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च।
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च॥
अस6.95
कृशानां बृंहणायालं स्थूलानां कर्शनाय च।
बद्धविट्कं क्रिमिघ्नं च संस्कारात्सर्वरोगजित्॥
अस6.96
तैलप्रयोगादजरा निर्विकारा जितश्रमाः।
आसन्नतिबला युद्धे दैत्याधिपतयः पुरा॥
अस6.97
सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु।
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्॥
अस6.98
रुक्छोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति॥
अस6.99
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्।
दन्तीमूलकरक्षोघ्नकरञ्जारिष्टशिग्रुजम्॥
अस6.100
सुवर्चलेड्गुदीपीलुशाङ्खिनीनीपसम्भवम्।
सरलागरुदेवाह्वशिंशपासारजन्म च॥
अस6.101
तुवरारुष्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत्।
अर्शःकुष्ठक्रिमिश्लेष्मशुक्रमेदोनिलापहम्॥
अस6.102
करञ्जनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत्।
कषायतिक्तकटुकं सारलं व्रणणोधनम्॥
अस6.103
भृशोष्णतीक्ष्णकटुके तुवरारुष्करोद्भवे।
विशेषात् क्रिमिकुष्ठघ्ने तथोर्ध्वाधोविरेचने॥
अस6.104
अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्।
त्रपुसोर्वारुकूष्माण्डश्लेष्मातकप्रियालजम्॥
अस6.105
वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम्।
पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम्॥
अस6.106
तिलतैलं वरं तेषु कौसुम्भमवरं परम्।
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ॥
अस6.107
मांसानुगस्वरूपौ च विद्यान्मेदोपि ताविव।
बौलूकी सौकरी पाकहंसजा कुक्कुटोद्भवा॥
अस6.108
वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा।
काकमद्गु वसा तद्वत् कारण्डोत्था च निन्दिता॥
अस6.109
दीपनं रोचनं मद्यं तीक्ष्णोक्ष्णं तुष्टिपुष्टिदम्।
सत्वादुतिक्तकटुकमम्लपाकरसं सरम्॥
अस6.110
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु।
नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम्॥
अस6.111
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्।
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा॥
अस6.112
गुरु तद्दोषजननं नवं जीर्णमतोऽन्यथा।
पेयं नोष्णोपचरेण न विरिक्तक्षुधातुरैः॥
अस6.113
नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा।
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः॥
अस6.114
सुरनिलघ्नी मेदोसृक्स्तन्यमूत्रकफावहा।
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च॥
अस6.115
शूलकासवमिश्वासविबन्धाध्मानपीनसान्।
शूलप्रवाहिकाटोपतृष्णाशोफार्शसां हितः॥
अस6.116
जगलः पाचनो ग्राही रूक्षस्तद्वच्च मेदकः।
बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः॥
अस6.117
नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा।
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते॥
अस6.118
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला।
कौहली बृंहणी गुर्वी श्लेष्मलस्तु मधूलकः॥
अस6.119
यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः।
ग्रहणीपाण्डुकुष्ठार्शः शोषशोफोदरज्वरान्॥
अस6.120
हन्ति गुल्माक्रिमिफीहः कषायकटुवातलः।
मार्द्विकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्॥
अस6.121
अल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम्।
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु॥
अस6.122
शार्करः सुरभिः त्वादुर्हृद्यो नातिमदो मघुः।
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः॥
अस6.123
वातपित्तकरः शीधुः स्नेहश्लेष्मविकारहा।
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः॥
अस6.124
च्छेदि मध्वासवस्तीक्ष्णो मेहपीनसकासजित्।
सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णोऽनिलापहः॥
अस6.125
मैरेयो मधुरो हृष्यः सरः सन्तर्पणो गुरुः।
धातक्यभिषुतो जीर्णो रूक्षो रोचनदीपनः॥
अस6.126
द्राक्षासवो मधुसमः परमं स तु दीपनः।
मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः॥
अस6.127
समासादासवो हृद्यो वातलः सौषधानुगः।
द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः॥
अस6.128
मद्याकरा यत्तेभ्योऽन्यत्तन्मद्यप्रतिरूपकम्।
गुणैर्यथोद्बणैर्विद्यान्मद्यमाकरसङ्करात्॥
अस6.129
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्।
विदाहि भृशतीक्ष्णोक्ष्णं हृद्यं रुचिकरं सरम्॥
अस6.130
दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्।
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्॥
अस6.131
कन्दमूलफलाद्यांश्च तद्वद्विद्यात्तदासुतान्।
शाण्डाकी चाऽसुतं चान्यत् कालाम्लं रोचनं लघु॥
अस6.132
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम्।
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्॥
अस6.133
शस्तमास्थापने हृद्यं लघु वातकफापहम्।
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके॥
अस6.134
क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे।
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते॥
इति मद्यवर्गः।
अस6.135
मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु॥
अस6.136
क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान्।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु॥
अस6.137
विरेकास्थापनालेपस्वेदादिषु च पूजितम्।
दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम्॥
अस6.138
श्वासकासहरं च्छागं पूरणात् कर्णशूलजित्।
दद्यात् क्षारे किलासे च गजवाजिसमुद्भवम्॥
अस6.139
हन्त्युन्मादमपस्मारं क्रिमीन्मेहञ्च रासभम्।
कषायतिक्तमेतेषां हिध्माश्वासहरं शकृत्॥
अस6.140
मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत्।
प्रसहानामपस्मारमुन्मादञ्च नियच्छति॥
अस6.141
महामृगसमुद्भूतं कुष्ठहृज्जलचारिणाम्।
नेत्ररोगहरं पित्तं प्रवृद्धं च नियच्छति॥
अस6.142
पित्तं तिक्तं विषहरं रोचना कफवातजित्।
तिक्ता पाप्माहरामूत्रं मानुषं तु विषापहम्॥
अस6.143
तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्।
इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः॥
इति षष्ठोऽध्यायः
सप्तमोऽध्यायः
[सम्पाद्यताम्]अस7.1
अथात अन्नस्वरूपविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस7.2
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः।
शारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः॥
अस7.3
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ।
काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः॥
अस7.4
लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः।
पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः॥
अस7.5
स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः।
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः॥
अस7.6
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा।
महांस्तं चानु कलमस्तं चाप्यनु ततः परे॥
अस7.7
यवका हायनाः पांसुवाप्यनैषधकादयः।
स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः॥
अस7.8
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः।
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः॥
अस7.9
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः।
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः॥
अस7.10
कुक्कुटाण्डकलाबाक्षपारावतकसूकराः।
वरकोद्दालकोज्जालचीनशारददर्दुराः॥
अस7.11
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः।
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः॥
अस7.12
बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः।
कङ्गुकोद्रवजूर्णाह्वगदीवरुणपादिकाः॥
अस7.13
श्यामाकतोयश्यामाकहस्तिश्यामाकशिल्बिकाः।
शिशिरोद्दालनीवारवरूकबरकोत्कटाः॥
अस7.14
मधूलिकान्तनिर्गण्डीवेणुपर्णीप्रशान्तिकाः।
गवेथुकाण्डलौहित्यतोयपर्णीमुकुन्दराः॥
अस7.15
कफपित्तहरा रूक्साः कषायमधुरा हिमाः।
वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः॥
अस7.16
भग्नसन्धानकृत्तत्र प्रियङ्गुबृंहणी गुरुः।
कोरदूषः परं ग्राई स्पर्शे शीतो विषापहः॥
अस7.17
उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः।
शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका॥
अस7.18
रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः।
वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत्॥
अस7.19
पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्।
गुणैर्न्यूनतरा ज्ञेया यवादनुयवाह्वयाः॥
अस7.20
ऊष्णाः सरा वेणुयवाः कषाया वातपित्तलाः।
वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा॥
अस7.21
सन्धानकरी मधुरो गोधूमः स्थैर्यकृत् सरः।
पथ्या नन्दीमुखी शीता कषाया मधुरा लघुः॥
इति शूकधान्यवर्गः।
अस7.22
शिम्बिजा मुद्गमङ्गल्यवनमुद्गमकुष्ठकाः।
मसूरकफलाढक्यश्चणकाश्चपृथग्विधाः॥
अस7.23
कषायस्वादुलघवो विबन्धाध्मानकारिणः।
रूक्षा बद्धमलाः शीता विपाके कटुका हिताः॥
अस7.24
पित्तासृक्कफमेदस्सु सूपालेपादियोजनात्।
सूप्यानामुत्तमा मुद्गा लघीयांशोऽल्पमारुताः॥
अस7.25
हरितास्तेष्वपि वरा मकुष्ठाः क्रिमिकारिणः।
वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्॥
अस7.26
राजमाषो गुरुर्भूरिशकृद्रूक्सोऽतिवातलः।
कषायस्वादुरूक्षोष्णाः कुलत्था रक्तपित्तलाः॥
अस7.27
पीनसश्वासकासार्शोहिध्मानाहकफानिलान्।
घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम्॥
अस7.28
ग्राहिणो लघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः।
निष्पावस्तु सरो रूक्षः कषायमधुरो गुरुः॥
अस7.29
पाकेऽम्लो वातविष्टम्भी स्तन्यमूत्रास्रपित्तकृत्।
उष्णो विदाही दृक्च्छुक्रकफशोफविशापहः॥
अस7.30
माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः।
गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्॥
अस7.31
फलानि गुणवद्विद्यात् काकाण्डोलात्मगुप्तयोः।
कुशाम्रशिम्बी मधुरा वातपित्तहरा हिमा॥
अस7.32
मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः।
स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बिजातयः॥
अस7.33
स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः।
मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतोऽनिलापहः॥
अस7.34
अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत्।
कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुण॥
अस7.35
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः।
दृक्च्छुक्रहृत् कटुः पाके तद्वत् बीजं कुसुम्भजम्॥
अस7.36
माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च।
नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत्॥
अस7.37
लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम्।
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्॥
इति शिम्बिधान्यवर्गः।
अस7.38
मण्डपेयाविलेपीनामोदनस्य च लाघवम्।
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः॥
अस7.39
तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्।
स्रोतोमार्दवकृत् स्वेदी सन्धुक्षयति चानलम्॥
अस7.40
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा।
मलानुलोमनी पथ्या पेया दीपनपाचनी॥
अस7.41
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिताम्॥
अस7.42
सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः।
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः॥
अस7.43
विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः।
इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्॥
अस7.44
शुष्यतां व्याधिमुक्तानां शुद्धानां शुद्धिकाङ्क्षिणाम्।
कृशक्षामक्षतोरस्कक्षीणधात्विन्द्रियौजसाम्॥
अस7.45
दृष्टिश्रवणवह्न्यायुर्बलवर्णस्वरार्थिनाम्।
भग्नाविश्लिष्टसन्धीनां व्रणिनां वातरोगिणाम्॥
अस7.46
हृद्यः पथ्यः परं वृष्यो बृंहणः प्रीणनो रसः।
मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्॥
अस7.47
वातानुलोमी कौलत्थो गुल्मतूनिप्रतूनिजित्।
प्रभूताभ्यन्तरमलो माषसूपः परं स्मृतः॥
अस7.48
खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वौषधानुगौ।
पिशितेन रसस्तत्र यूषो धान्यैः खलः फलैः॥
अस7.49
मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः।
ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः॥
अस7.50
अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः।
विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम्॥
अस7.51
गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा।
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्॥
अस7.52
चाण्डाकीवटकं दृघ्नं दोषलं ग्लपनं गुरु।
पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः॥
अस7.53
हृद्या वृष्या रुचिकरा गुरुवो रागषाडवाः।
प्रीणना भ्रमतृट्च्छरिदिमेदमूर्छाश्रमच्छिदः॥
अस7.54
तृट्च्छर्दिश्रमनुन्मन्थः शीतः सद्योबलप्रदः।
प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनः॥
अस7.55
रसाला बृंहणी वृष्या स्निग्धा बलय रुचिप्रदा।
श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु॥
अस7.56
विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्।
लाजास्तृट्च्छर्द्यतीसारमेहमेदःकफच्छिदः॥
अस7.57
कासपित्तोपशमना दीपना लघवो हिमाः।
पृथुका गुरवो बल्याः कफविष्टम्भकारिणः॥
अस7.58
धान विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः।
कण्ठनेत्रमयक्षुत्तृट्श्रमछर्दिव्रणापहा॥
अस7.59
सक्तवो लघवः पानात् सद्य एव बलप्रदाः।
निचयात् कठिना गुर्वी प्रोक्ता पिण्डी मृदुर्लघुः॥
अस7.60
सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका।
शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना॥
अस7.61
नोदकान्तरितान्न द्विर्न निशायां न केवलान्।
न भुक्त्वा न द्विजैश्छित्वा सक्तूनद्यान्न वा बहून्॥
अस7.62
कर्कन्धुबदरदीनां श्रमतृष्णाक्लमच्छिदः।
सक्तवोऽम्लरसा हृद्या यथाद्रव्यगुणाश्च ते॥
अस7.63
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः।
वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः॥
अस7.64
मुद्गदिजास्तु गुरवो यथाद्रव्यगुणानुगाः।
कुकूलकर्परभ्राष्टकन्द्वङ्गारविपाचितान्।
एकयोनीन् लघून्विद्यादपूपानुत्तरोत्तरम्॥
इति कृतान्नवर्गः।
अस7.65
हरिणैणकुरङ्गर्श्यगोकर्णमृगमातृकाः।
कालपुच्छकचारुष्कवरपोतशशोरणाः॥
अस7.66
श्वदंष्ट्रामशरभकोहकारकशम्बराः।
करालकृतमालौ च पृषतश्च मृगाः स्मृताः॥
अस7.67
लाववातिकवर्तीररक्तवर्त्मककर्कराः।
कपिञ्जलोपचक्राख्यचकोररुरुबाहवः॥
अस7.68
वर्तको वर्तिका चेति तित्तिरिः क्रकरः शिखी।
तारचूडाख्यवरकगोनर्दगिरिवर्तिकाः॥
अस7.69
तथा शारपदेन्द्राह्ववारटाश्चेति विष्किराः।
शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः॥
अस7.70
खञ्जरीटकहारीतदुर्नामारिकृशाग्रहाः।
लट्वा लडूषो वटहा रोक्ष्वेलो डिण्डिमाणवः॥
अस7.71
जटी दुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः।
शारिकाशुकशार्ङ्गाख्यचिरीटीककुयष्टिकाः॥
अस7.72
मञ्जरीयकदात्यूहगोधापुत्रप्रियात्मजाः।
कलविङ्कः परभृतः कपोतोऽङ्गारचूडकः॥
अस7.73
पारावतः पाणविक इत्युक्ताः प्रतुदा द्विजाः।
श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः॥
अस7.74
भेकचिल्लटकूचीका गोधाशल्यकशाण्डकाः।
वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः॥
अस7.75
गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः।
मार्जारमूषिकव्याघ्रवृकबभ्रुतरक्षवः॥
अस7.76
लोपाकजम्बुकश्येनचाषोलूकश्ववायसाः।
शशघ्नीभासकुररगृध्रवेश्यकुलिङ्गकाः॥
अस7.77
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः।
महिषन्यङ्कुरोहीतवराहरुरुवारणाः॥
अस7.78
सृमरश्चमरः खड्गो गवयश्च महामृगाः।
हंससारसकादम्बबककारण्डवप्लवाः॥
अस7.79
मृणालकण्ठचक्राह्वबलाका रक्तशीर्षकाः।
उत्क्रोशपुण्डरीकाक्षशरारीमणितुण्डकाः॥
अस7.80
काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः।
नद्यास्योमल्लिकाद्याश्च पक्षिणो जलचारिणः॥
अस7.81
मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः।
शुक्तिशङ्खोद्रुशम्बूकशफरीवर्त्मिचन्द्रिकाः॥
अस7.82
बुलूकीनक्रमकरशिंशुमारतिमिङ्गलाः।
राजी चिलिचिमाद्यश्च मांसमित्याहुरष्टधा॥
अस7.83
योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते।
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ॥
अस7.84
विकीर्यादिक्रियायोगैर्भक्षणाद्विष्किरादयः।
तत्र बद्धमला रुच्या मांसानामुत्तमाः हिमाः॥
अस7.85
कषायस्वादुविशदा लघवो जाङ्गला हिताः।
पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे॥
अस7.86
ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्।
लघीयान् षड्रसश्चासौ ग्राही रूक्षो हिमः शशः॥
अस7.87
कटुपाकोऽग्निकृत् पथ्यः सन्निपातेऽनिलावरे।
तद्वल्लावोऽप्यरूक्षस्तुं किञ्चिद्रूक्षः कपिञ्जलः॥
अस7.88
पारावताः कपोताश्चृअ तद्वद्वन्याः सुपूजिताः।
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः॥
अस7.89
तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्।
ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्॥
अस7.90
धन्वानूपविचारित्वात् स्निग्धोष्णगुरुबृंहणः।
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्॥
अस7.91
तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः।
मेधानलकरा हृद्याः करकराः सोपचक्रकाः॥
अस7.92
गुरुः सलवणः काणकपोतः सर्वदोषकृत्।
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्॥
अस7.93
मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः।
शीता महामृगास्तेषु क्रव्यादाः प्रसहाः पुनः॥
अस7.94
चक्षुष्याः सृष्टविण्मूत्रा मांसलाः कटुपाकिनः।
जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः॥
अस7.95
गोधा नियछति विषं मूषिकः शुक्रवर्धनः।
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्॥
अस7.96
कार्श्यकेवलवातांश्च गोमांसं सन्नियच्छति।
चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्॥
अस7.97
गुरूष्णो महिषः स्निग्धः स्वप्नदार्ढ्यबृहत्वकृत्।
तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः॥
अस7.98
हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः।
कफपित्तकरा मत्स्याः परं पवननाशनाः॥
अस7.99
प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च।
रोहितः प्रवरस्तेषां परं चिलिचिमोऽवरः॥
अस7.100
अगोचरविचारित्वात् सर्वदोषकरो हि सः।
कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः॥
अस7.101
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्।
शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्॥
अस7.102
विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्।
अतिमेद्यं त्यजेन्मांसं हतं व्याधिविषोदकैः॥
अस7.103
स्वयं मृतं धूमपूर्णमगोचरभृतं कृशम्।
सद्योहतं वयस्थं च शुद्धं सुरभि शस्यते॥
अस7.104
एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः।
तित्तिरिः क्रकरो गोधा श्वाविड्गृध्रो मृगाधिपः॥
अस7.105
तथैव शारिका न्यङ्कुर्हंसो रोहितकच्छपौ।
वर्त्मी चाग्र्याः स्ववर्गेषु प्रवरास्तेष्वपि स्मृताः॥
अस7.106
लावैणगोधाः सिंहाश्च निन्दितो गौः सदर्दुरः।
ऋश्यः काणकपोतश्च शेषमुक्तं यथायथम्॥
अस7.107
गुरूण्यण्डानि बालानां कषायमधुरं पलम्।
वृद्धानां स्नायुभूयिष्ठमबल्यं गुरुदोषलम्॥
अस7.108
पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः।
लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान्॥
अस7.109
शिरस्कन्धोरुपृष्ठस्य कट्याः सक्थ्योश्च गौरवम्।
तथामपक्वाशययोर्यथापूर्वं विनिर्दिशेत्॥
अस7.110
शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्।
मांसात् गरीयो बृषणमेढ्रवृक्कयकृत्गुदम्॥
इति मांसवर्गः।
अस7.111
शाकं पाठाशटीश्रूषासुनिषण्डसतीनजम्।
त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम्॥
अस7.112
सुनिषण्डोऽग्निकृद्वृष्यस्तेषु राजक्षवः परम्।
ग्रहण्यर्शोविकारघ्नो वर्च्चोभेदी तु वास्तुकः॥
अस7.113
हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी।
काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी॥
अस7.114
ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः।
पटोलसप्तलारिष्टशार्ङ्गाष्ठावल्गुजामृताः॥
अस7.115
वेत्राग्रबृहतीवाशाकुन्तलीतिलपर्णिकाः।
मण्डूकपर्णीकर्क्कोटकारवेल्लकपर्पटाः॥
अस7.116
नाडीकलायगोजिह्वावार्त्ताकवनतिक्तकम्।
करीरं कूलकं नन्दी कुवेला शकुलादनी॥
अस7.117
कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम्।
तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्॥
अस7.118
हृद्यं पटोलं क्रिमिनुत् स्वादुपाकं रुचिप्रदम्।
पित्तलं दीपन भेदि वातघ्नं बृहतीद्वयम्॥
अस7.119
वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्।
कारवेल्लं सकटुकं दीपनं कफपित्तजित्॥
अस7.120
वार्त्ताकं कटुतिक्तोष्णं मधुरं कफवातजित्।
सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्॥
अस7.121
करीरमाध्मानकरं कषायं स्वादुतिक्तकम्।
कोशातकावल्गुजकौ भेदिनावग्निदीपनौ॥
अस7.122
श्यामाशाल्मलिकाश्मर्यभञ्जकीर्णकयूथिकाः।
वृक्षादिनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः॥
अस7.123
लोध्रः शणः कच्छुदारः सशेलुर्वृषमुष्टिका।
भल्लातकः कोविदारः कमलोत्पलकिंशुकम्॥
अस7.124
पटोलादिगुणं स्वादु कषायं पित्तजित् परम्।
बद्धमूत्रा सरा भञ्जी करीरं स्यादभीरुजम्॥
अस7.125
सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत्।
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघु॥
अस7.126
मदपित्तविषास्रघ्नो मुञ्जातं वातपित्तजित्।
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत् परम्॥
अस7.127
पालक्या पिछिला गुर्व्वी श्लेष्मला भेदिनी हिमा।
मदघ्न्युपोदका चुञ्चुर्ग्राही तौ पूर्ववत्तथा॥
अस7.128
विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला।
जीवनी बृंहणी कण्ठ्या गुर्वीवृष्या रसायनी॥
अस7.129
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा।
शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु॥
अस7.130
वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिका।
कूष्माण्डतुम्बकालिङ्गकर्कारूर्वारुतिण्डिशम्॥
अस7.131
तथा त्रपुसचीनाकचिर्भिटं कफवातकृत्।
भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु॥
अस7.132
वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्।
बस्तिशुद्धिकरं वृषं त्रपुसं त्वतिमूत्रलम्॥
अस7.133
तुम्बं रूक्षतरं ग्राहि कालिङ्गोर्वारुचिर्भिटम्।
बालं पित्तहरं शीतं विद्यात् पक्वमतोऽन्यथा॥
अस7.134
शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्।
रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु॥
अस7.135
मृणालबिसशालूकशृङ्गाटककशेरुकाः।
नन्दीमाषककेलूटक्रौञ्चादनकलोड्यकम्॥
अस7.136
सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु।
कलम्बुनालिकामाषकठिञ्जरकुतुम्बकम्॥
अस7.137
चिल्लीलट्वाकनिष्पावकुरूटकगवेधुकाः।
यातुका सालकल्याणी श्रीपर्णी पीलुपर्णिका॥
अस7.138
कुमारी जीवलोणीका यवशाकसुवर्चलाः।
कुष्माण्डनीलिनी स्वर्चा वृकधूमकलक्ष्मणा॥
अस7.139
आलूपानि च सर्वाणि तथा सूप्यानि लक्ष्मणा।
जीवन्तिकश्चुञ्चुपर्णीप्रपुन्नाटकुबेरकम्॥
अस7.140
स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु।
शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति॥
अस7.141
स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्।
लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥
अस7.142
तक्कारी वरणं स्वादु सतिक्तं कफवातजित्।
वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्॥
अस7.143
दीपनं भेदनं हन्ति गरशोफकफानिलान्।
दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः॥
अस7.144
लघुरुष्णा सरा तिक्ता सोरुपूका च लाङ्गली।
वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ॥
अस7.145
तद्वत् पञ्चाङ्गुलो वंशकरीरास्तु विदाहिनः।
वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः॥
अस7.146
बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित्।
वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ॥
अस7.147
पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्।
क्रिमिकासकफोत्क्लेदान् कासमर्दो जयेत् सरः॥
अस7.148
रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्।
सक्षारं मधुरं स्निग्धमुष्णं गुरु च सार्षपम्॥
अस7.149
शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्।
यद्बालमव्यक्तरसं किंचित्क्षारं सतिक्तकम्॥
अस7.150
तन्मूलकं दोषहरं लघु सोष्णं नियच्छति।
गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्॥
अस7.151
स्वरग्निसादोदावर्तपीनसांश्च महत् पुनः।
गुरूष्णकटुकं स्वादुविपाकं सर्वदोषकृत्॥
अस7.152
गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्।
वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम्॥
अस7.153
कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः।
कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः॥
अस7.154
धान्यतुम्बुरुशैलेययवानीशृङ्गिवेरकाः।
पर्णासो गृञ्जनोऽजाजी जीरकं गजपिप्पली॥
अस7.155
फणिर्जार्जकजम्बीरखराह्वाकालमालिकाः।
दीप्यकः क्षवकद्वीपिबस्तगन्धादि बद्धविट्॥
अस7.156
रसे पाके च कटुकं दोषोत्क्लेशकरं लघु।
विदाहि रूक्षतीक्ष्णोष्णं दृक्शुक्रक्रिमिनाशनम्॥
अस7.157
वर्गो हरितकाख्योऽयमुपदंशेषु युज्यते।
वासनो व्यञ्जनानां च हृद्यो दीपनरोचनः॥
अस7.158
हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा।
सुरसः सुमुखः शोफगन्धहा धानका पुनः॥
अस7.159
कषायतिक्तमधुरा मूत्रला न च पित्तकृत्।
खराह्वा बस्तिशूलघ्नी चित्रको दीपनः परम्॥
अस7.160
पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः।
तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः॥
अस7.161
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः।
भग्नसन्धानकृत् बल्यो रक्तपित्तप्रदूषणः॥
अस7.162
किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान्।
सहिध्मापीनसश्वासकासान् हन्ति रसायनम्॥
अस7.163
पलाण्डुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः।
कफं करोति नो पित्तं केवलानिलनाशनः॥
अस7.164
दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः।
विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः॥
अस7.165
पत्रे पुष्पे फले कन्दे च गुरुता क्रमात्।
वरा शाकेषु जीवन्ती सार्षपस्त्ववराः परम्॥
इति शाकवर्गः
अस7.166
द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्।
स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः॥
अस7.167
निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्।
तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान्॥
अस7.168
उद्रिक्तपित्तान् जयति त्रिदोषान् स्वादु दाडिमम्।
पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्॥
अस7.169
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्।
मोचखर्जूरपनसनालिकेरपरूषकम्॥
अस7.170
आम्राततालकाश्मर्यराजादनमधूकजम्।
सौवीरबदराङ्कोलफल्गुश्लेष्मातकोद्भवम्॥
अस7.171
वातामाभिषुकाक्षोडमुकूलकनिकोचकम्।
ऊरुमाणं प्रियालं च बृंहणं गुरु शीतलम्॥
अस7.172
दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्।
स्वादुपाकरसां स्निग्धं विष्टम्भि कफशुक्रकृत्॥
अस7.173
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्।
बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम्॥
अस7.174
मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्।
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु॥
अस7.175
स्निग्धं स्वादु कषायं च राजादनफलं गुरु।
फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्॥
अस7.176
शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्।
मधूकजमहृद्यं तु बदरं सरणात्मकम्॥
अस7.177
वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्।
परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्॥
अस7.178
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः।
कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः॥
अस7.179
तिन्दुकाश्मन्तकासीनफलिनीबिम्बितोदनम्।
टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्॥
अस7.180
श्वेतपाककपित्थानि सिञ्चतीभव्यजाम्बवम्।
क्षीरिवृक्षभवं बीजं पौष्करं कफपित्तजित्॥
अस7.181
कषायमधुरं रूक्षं शीतलं गुरु लेखनम्।
विबन्धाध्मानजननं स्तम्भनं वातकोपनम्॥
अस7.182
कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत्।
पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्॥
अस7.183
दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम्।
विषघ्नमुभयं ग्राहि कपित्थान्येवमादिशेत्॥
अस7.184
बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम्।
भव्यं विशदमम्लं च जाम्बवं त्वतिवातलम्॥
अस7.185
विष्टम्भकृदकण्ठ्यं च साम्लं तु क्षीरिवृक्षजम्।
पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्॥
अस7.186
बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्।
संपूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदम्॥
अस7.187
स्वादु साम्लं गुरु स्निग्धं मारुतघ्नमपित्तलम्।
हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम्॥
अस7.188
सहकाररसो हृद्यः सुरभिस्निग्धरोचनः।
दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्॥
अस7.189
कषायं रोचनं हृद्यं वातलं लवलीफलम्।
गुर्वग्निसादकृद्विल्वं दोषलं पूतिमारुतम्॥
अस7.190
पक्वं बालं पुनस्तीक्ष्णं पित्तलं लघु दीपनम्।
वातश्लेष्मघ्नमुष्णं च स्निग्धं ग्राह्युभयं परम्॥
अस7.191
वृक्षाम्लं ग्राहि रूक्षोष्णं लघु दीपनरोचनम्।
वातश्लेष्महरं किञ्चिदूनं कोशाम्लम्जं ततः॥
अस7.192
फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च।
गुरुष्णमधुरं रूक्षं केशघ्नं च शमीफलम्॥
अस7.193
कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलम्।
क्रिमिगुल्मोदरगरप्लीहार्शःकफवातजित्॥
अस7.194
सतिक्तं स्वादु यत् पीलु नात्युष्णं तत्त्रिदोषजित्।
नीपं शताक्षिकं प्राचीनागरं तृणशूल्यजम्॥
अस7.195
अस्मादल्पान्तरगुणमैङ्गुदं सविकङ्कतम्।
त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्॥
अस7.196
बृंहणं मधुरं मांसं वातपित्तहरं गुरु।
लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥
अस7.197
आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्।
गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्॥
अस7.198
भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्।
तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्॥
अस7.199
स्वाद्वम्लं शीतमुष्णं च द्विधा पारावतं गुरु।
रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकम्॥
अस7.200
पक्वमाशु जरां याति नात्युष्णं गुरु दोषलम्।
द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्॥
अस7.201
गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्।
तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम्॥
अस7.202
ऐरावतं दन्तशठं सत्रुदं मृगलण्डिकम्।
नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्॥
अस7.203
दीपनं भेदनंशुष्कमम्लिकाङ्कोलयोः फलम्।
तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥
अस7.204
फलानावरं तत्र लिकुचं सर्वदोषकृत्।
हिमानिलोष्णदुर्वातव्याललालादिदूषितम्॥
अस7.205
जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्।
अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च॥
अस7.206
धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्।
असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्॥
अस7.207
प्रायेण फलमप्येवं तथामं बिल्ववर्जितम्।
इति फलवर्गः॥
शूकशिम्बिजपक्वान्नमांसशाकफलाश्रयैः॥
अस7.208
वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्।
निर्दिष्टो रसवीर्याद्यैर्थयथास्वं कर्मसाधने॥
अस7.209
न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा।
हिताहितत्वेऽप्येकान्तनियमोऽस्मादनिश्चितः॥
अस7.210
मात्रायोगक्रियादेशकालावस्थादिभेदतः।
ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा॥
अस7.211
मात्रया सेवितं मद्यं हन्ति रोगास्तदुद्भवान्।
निषेव्यमाणं तिलशो विषमप्यमृतायते॥
अस7.212
हीनातिमात्रमशनं मरुन्निचयकोपनम्।
भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी॥
अस7.213
क्षारोऽम्लरससंयोगे मधुरीभवति क्षणात्।
उत्तुण्डक्यास्तिन्दुकेन तिक्तता मधुरायते॥
अस7.214
हिङ्गुगैरिकसिन्धूत्थं गन्धवर्णरसाधिकम्।
पूगताम्बूलशङ्खेभ्यो वर्णगन्धरसोद्भवः॥
अस7.215
कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः।
कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह॥
अस7.216
गुडः कर्ताग्निसादस्य स हिनस्त्यभयादिभिः।
तृष्यत्यग्नेः समदनं सर्पिरप्युपदिश्यते॥
अस7.217
जीवनीयमपि क्षीरं विषलेशेन मृत्यवे।
तुल्ये अपि हतोऽन्योऽन्यं विषे स्थावरजङ्गमे॥
अस7.218
सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्ति तु।
विनापि चोपयोगेन मणिमन्त्रादि कार्यकृत्॥
अस7.219
आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी।
लघुभ्योऽपि हि सक्तुभ्यो गुरवः सिद्धापिण्डिकाः॥
अस7.220
भृष्टः क्षुण्णोऽपि पृथुको रक्तशालेर्लघोर्गुरुः।
शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति॥
अस7.221
लघु पित्तहरा लाजा व्रीहितो गुरुपित्तलात्।
सङ्ग्राहिणो लघोर्मुद्गात् कुल्माषो भेदनो गुरुः॥
अस7.222
आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्।
गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम्॥
अस7.223
गरीयो गुडदध्युत्था रसाला चातिशुक्रला।
दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात्॥
अस7.224
अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु।
सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत्॥
अस7.225
चक्षुष्योऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा।
मूलकं दोषजननं सिद्धं तु तददोषलम्॥
अस7.226
उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम्।
दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते॥
अस7.227
श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्।
त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः॥
अस7.228
मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः।
तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा॥
अस7.229
दध्नि श्वयथुकारित्वं न तक्रनवनीतयोः।
भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु॥
अस7.230
क्षारः प्राच्येषु मत्स्यास्तु सैन्धवेष्वश्मकेषु तु।
तैलाम्लः कन्दमूलानि मलये कोङ्कणे पुनः॥
अस7.231
पेयामन्थ उदीच्येषु गोधूमोऽवन्तिभूमिषु।
बाल्हीका बाल्हवाश्चीनाः शूलिका यवनाः शकाः॥
अस7.232
मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः।
देहसात्म्यं घृतं क्षीरं मद्यं मासं च कस्यचित्॥
अस7.233
पेया यूषो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः।
अहितैरपि तेषां च तैरेवोपहितं हितम्॥
अस7.234
अन्नपानौषधं दोषमात्राकालाद्यपेक्षया।
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि॥
अस7.235
स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्।
मन्दोऽग्निर्भवति प्रायः कफवातोत्तरे हिमे॥
अस7.236
विषघ्नेनापि पयसा देहेऽहेर्वर्द्धते विषम्।
स्थूलस्थविरबालादौ वमनादि निषिध्यते॥
अस7.237
तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु।
वातहृत्त्वेऽपि मृद्वीकाखर्जूरं कोष्ठवातकृत्॥
अस7.238
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्।
दृष्टे स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम्॥
अस7.239
पयः स्वादु सरं शीतं विपरीतं ततो दधि।
कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम्॥
अस7.240
पयो दधि च वातघ्नमजातं वातलं तु तत्।
तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम्॥
अस7.241
धातकीगुडतोयानि कारणं मद्यशुक्तयोः।
शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः॥
अस7.242
उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ।
समयोगेऽपि घर्माद्या वातादिचयहेतवः॥
अस7.243
ऋतुष्वन्यो रसेष्वन्यो रौक्ष्ये स्नेहे बले क्रमः।
रसायनं काकमाची सद्यः पर्युषिता विषम्॥
अस7.244
मूलकं दोसजिद्बालं विपरीतं तु कन्दवत्।
ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम्॥
अस7.245
षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम्।
छर्दिंहृद्रोगगुल्मार्ते वमनं च चिकित्सिते॥
अस7.246
निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः।
ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता॥
अस7.247
रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः।
आश्च्योतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात्॥
अस7.248
अञ्जनं पक्वदोषस्य प्रतिश्याये च नावनम्।
नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते॥
अस7.249
दुष्टास्रसम्भवेऽपीष्टो नास्रपित्ते सिराव्यधः।
अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम्॥
अस7.250
अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः।
गुल्मिनः क्सीरदध्यादि हपुषाद्यैर्युतं हितम्॥
अस7.251
वातलं वातकोपेऽपि वर्षासु मधु शस्यते।
तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम्॥
अस7.252
घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम्।
आलस्यगौरवे रूपं वातजेऽपि ज्वरे पुरः॥
अस7.253
स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः।
दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न॥
अस7.254
कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसार्शोभिरग्निहृत्।
दुष्पानं दुर्जरं सर्पिर्दीपनं च पयोऽन्यथा॥
अस7.255
सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः।
ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम्॥
अस7.256
स्वयमेव विषं तीव्रं तान् पुनर्नातिबाधते।
सर्वाङ्गव्यापि तेषां च शुक्रवत् संसृतं विषम्॥
अस7.257
तन्मांसमुपयोगाय मांसवर्गे च पठ्यते।
छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्॥
अस7.258
कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः।
तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्॥
अस7.259
सर्वथा दोषजित्तक्रं ग्रहण्यां दोषकृद्व्रणे।
पीनसश्वासकासादौ सिद्धमेव प्रशस्यते॥
अस7.260
इत्येतेऽन्ये च बहवः सूक्स्मा दुर्लभहेतुकाः।
धर्मा विचित्रा भावेषु किञ्चित्तेषां निदर्शितम्॥
अस7.261
दिशानया देशमपि स्वयमूहेत बुद्धिमान्।
न शास्त्रमात्रशरणो न चानालोचितागमः॥
इति मात्रादिप्रकरणम्।
इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः
इति सप्तमोऽध्यायः॥
अष्टमोऽध्यायः
[सम्पाद्यताम्]अस8.1
अथातोऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥
अस8.2
ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवन्ति।
ततस्तत्प्रयुक्ताः समासन्नवर्तिनोऽन्नपानादिषु विषं प्रयच्छन्ति।
स्त्रियश्च तत्प्राणिधिप्रयुक्ताः सौभाग्यलोभेन।
तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकर्मायर्मायपरिग्रहं दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहङ्कृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाम्रायमार्युवेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीयात्।
तमर्थमानाभ्यां यथाकालं गुरुमिव शिषयः पितरमिव पुत्रः पूजयेत्।
प्रतिकूलमपि तद्वचः साम्प्रतं मतमिति प्रतिमन्येत।
न हि भद्रोऽपि गजपतिर्निरङ्कुशः श्लाघनीयो जनस्य।
तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात्।
उपात्तमपि खलु जीवितमुपायबलेन स्वयमधितिष्ठति॥
अस8.3
अपि च बहुपरिग्रहा नरपतयः।
सन्ति चाशुकारिणः शूलसन्यासादयः।
प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः।
ते हि प्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिचारकाश्च तस्माद्भिषजो राजा राजगृहासन्ने निवेशनं कारयेत्।
तथा हि सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥
अस8.4
स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षाणैः पुरःस्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत्॥
अस8.5
भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत्॥
अस8.6
तत्र सविषमन्नं स्राव्यमाणमविस्राव्यं भवति, चिरेण पच्यते, पक्वं च सद्यः पर्युषितमिव निरूष्म स्तब्धं च जायते, यथास्ववर्णगन्धरसैर्व्यापद्यते, प्रक्लिद्यते, चन्द्रकाचितं च भवति॥
अस8.7
व्यञ्जनानामाशु शुष्कत्वं भवति।
क्वाथः ध्यामता श्यामता हीनातिरिक्तविकृतानां चात्रच्छायानां दर्शनमदर्शनमेव वा, फेनपटलसीमन्तोर्ध्वविविधराजितन्तुबुद्बुदप्रादुर्भावो, विशेषेण लवणोल्बणेषु फेनमाला रसस्य मध्ये नीला राजिः, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः श्यावा, तक्रस्य नीलपीता, मस्तुनः कपोताभा, धान्याम्लस्य कृष्णा, द्रवौषधस्य कपिला, घृतस्य कपिलाभा, क्षौद्रस्य हरिता, तैलस्यारुणा, वसागन्धश्च॥
अस8.8
फलानामामानां पाकः, पक्वानां प्रकोथः, दव्याणामार्द्राणां सहसा म्लानत्वमुत्पक्वभावः, शुष्काणां श्यावता वैवर्ण्यं वा, कठिनानां मृदुता, मृदूनां कठिनत्वं, माल्यस्य म्लानता गन्धनाशः स्फुटिताग्रत्वं, आस्तरणप्रावरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च, लोहमणिमयानां पङ्कमलोपदेहः, स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च॥
अस8.9
विषदस्तु स्वदोषशङ्कया त्रस्तो, भीतः, स्वेदवेपथुमान्, शुष्कश्याववक्त्रः, समन्तात् सोद्वेगं विलक्षोऽभिवीक्षते।
यत्र चानेन विषं प्रयुक्तं तद्विशेषेण।
तथा स्रस्तोत्तरीयः स्तम्भकुड्यादिभिरात्मानमन्तर्धत्ते।
स्खलितगतिर्दीनो लज्जावानस्थानहासी पृष्टोऽप्यसम्बन्धमुत्तरं ददाति।
नैववा विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, ग्रीवामालभते, शिरः कण्डूयति, औष्ठौ परिलेढि, जृम्भते, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते॥
अस8.10
नृपाज्ञात्वरयापि केचिदपराधान्तराद्वाऽनवस्थितसत्त्वाः समाचरन्त्येवम्।
तस्मादग्न्यादिप्वपि परीक्षेत।
वह्निस्तु सविषमन्नं प्राप्यैकावर्तो रूक्षमन्दार्चिरिन्द्रायुधवदनेकवर्णज्वालो भृशं चटचटायते।
कुणपगन्धी धूमश्चास्य मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलतां जनयति॥
अस8.11
तत्र नलदकुष्ठलामज्जकैः क्षौद्रद्रुतैर्नस्यमञ्जनं च कुर्यात्।
धूममेव वापामार्गविडङ्गबलाद्वयचित्रकमेषशृङ्गिपुष्पसुमनःक्षारकद्राक्षाघृतगुडकृतं पिबेत्॥
अस8.12
स्नेहलवणयोगादपि चाग्निरित्थं स्यात्।
अतो वयोभिः परीक्षेत।
तत्र विषजुष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवन्ति।
मक्षिकाः सविषान्ने न निलीयन्ते।
निलीनाश्च व्यापद्यन्ते।
दृष्ट एव चास्मिंस्तु चकोरस्याक्षिणी विरज्येते।
कोकिलस्य स्वरो विकृतिमेति।
हंसस्य गतिः स्खलति।
कूजति भृङ्गराजः।
माद्यति क्रौञ्चः।
विरौति कृकवाकुः।
विक्रोशति शुकः शारिका च।
छर्दयति चामीकरः।
अन्यतो याति कारण्डवः।
म्रियते जीवञ्जीवको, ग्लायति वा।
हृष्टरोमा भवति नकुलः।
शकृद्विस्र्जति वानरः।
रोदिति पृषतः।
हृष्यति मयूरः।
दर्शनादेव चास्य विषं मन्दतामुपैति॥
अस8.13
विषदूषितस्य पुनराहारस्योष्मा मयूरकण्ठाभोऽभ्युदेति।
तद्वाष्पेणापि धूमवन्मूर्छादयः।
तेषां तद्वदेव साधनम्।
हस्तेन स्पृष्टमन्नं विषवद्दाहशोफस्वापनखशातान् करोति।
तस्य श्यामेन्द्रगोपसोमोत्पलैर्लेपः॥
अस8.14
अभ्यवह्रियमाणं त्वोष्ठचिमिचिमान्तर्वक्त्रदाहजिह्वामूलगौरवहनुस्तम्भदन्तहर्षलालाः करोति रसापरिज्ञानं च।
तत्र धूमोक्तं दन्तकाष्ठोक्तं च कर्म।
आमाशयगतं स्वेदमदमूर्छछर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिन्दुभिश्चाचयमङ्गानां करोति॥
अस8.15
तत्र मदमफलालबुबिम्बीकोशातकीफलैर्दाधिमधुयुक्तमाशु वमनं दद्यात्, निष्पावाम्बुभिर्वा।
ततः स्निग्धशरीरं विरेचयत्।
त्रिफलात्रिकटुनागपुष्पमधुकबर्हिणपर्णीबृहतीद्वयचूर्णं सिंहव्याघ्रवृकतरक्षुद्वीपिमार्जारसृगालमृगगोधानामन्यतमपित्तरससंयुक्तं सक्षौद्रं पानमेष जीवनो नामागदः परं सर्वविषौषधम्।
तस्मिन् जीर्णे श्यामाव्योषातिविषासिद्धेन पयसा घृतेन वोपस्तम्भितां मुद्गयूषेण किंचिल्लवणेन ससर्पिष्केण मृद्वोदनं भोजयेत्।
मधुकशिरीषचन्दनैश्चैनमालिम्पेत्॥
अस8.16
पक्वाशयगतं तृड्दाहमूर्च्छातीसाराटोपतन्द्रेन्द्रियविकृतिबलभ्रंशकार्श्यपाण्डुत्वोदराणि जनयति।
तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं समाक्षिकं च दूषीविषारिं दध्ना पाययेत्।
दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता तालुदन्तजिह्वोष्ठमांसशोफश्च तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सक्षौद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात्।
दाडिमकरमदर्भव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम्।
अनेन जिह्वानिर्लेखनकवलगण्डूषा व्याख्याताः॥
अस8.17
अञ्जनप्रयुक्तेऽश्रुदूषिकोपदेहरागवेदनादृष्टिविभ्रमा भवन्त्यान्ध्यं च।
तत्र सर्पिष्पानं योज्यम्।
शृतेन पयसा सप्तकृत्वः पिप्पलीर्भावयेत्।
ततस्तत्कल्केन सर्पिर्विपक्वं नेत्रतर्पणम्।
कपित्थमेषशृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन वाञ्जनं बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सप्तकृत्वो मधुना भावयेत्।
तच्च स्रोतोऽञ्जनसुवर्णचूर्णयुक्तमञ्जनं देयम्।
नस्यधूमप्रयुक्ते शिरोरुक्काफास्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च।
तत्रातिविषाश्वेताकाकमाचीमदयन्तिकाकल्के क्षीरसिद्धं सर्पिर्न्नस्ये पाने च विदध्यात्॥
अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि।
तत्र शीताम्बुपरिषिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकामृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनम्।
एतान्येव च सकपित्थरसगोमूत्राणि पानम्।
गिरिकर्णिकाश्वेतमूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगोर्वारुकतकमूलानि शेलुक्वाथपिष्टानि प्रलेपः।
अनेनोद्वर्त्तनघर्षणपरिषेकानुलेपनभूषणयानशय्यास्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः॥
अस8.18
विशेषतस्त्वाभरणकृते विकारेऽश्वगन्धापामार्गकिणिहीखदिरशिरीषकल्कैर्गोपित्तयुक्तैः प्रदेहः।
पादपीठकृते श्लेष्मातकसर्पसुगन्धाम्रकल्को मधुयुक्तः।
छत्रप्रयुक्ते वेदनास्फोटानां क्षिप्रपाकानां पक्वजाम्बवप्रकाशानां प्रादुर्भावः।
तत्र मधुकपाटलाकशेरुकलोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैः सर्वगात्रप्रदेहः।
अनेन चामरव्यजने व्याख्याते॥
अस8.19
शिरोऽभ्यङ्गप्रयुक्ते शिरोवेदना ग्रन्थिजन्म केशच्यवनं च।
तत्र श्यामापालिन्दीतण्डुलीयकचूर्ण घृतर्क्षपित्तैः सुभावितया कृष्णमृदा प्रलेपः।
गोमयमालतीमूषिककर्ण्यन्यतमरसो वागारधूमो वा श्लेष्मातकत्वक्पाटलाशिरीषमधुकहरिद्राद्वयैरजाक्षीरालोडितैः परिषेकः।
अनेन शिरःस्नानोदककङ्कतस्रगुष्णीषा व्याख्याताः॥
अस8.20
कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च।
तत्र बहुपत्रास्वरसो घृतक्षौद्रसंयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः।
मुखालेपप्रयुक्ते मुखश्यावता पद्मकण्टका भवन्त्यभ्यङ्गजाश्च विकाराः।
तत्र मधुकपयस्याबन्धुजीवभञ्जीपुनर्नवचन्दनैः सघृतैर्लेपो, मधुसर्पिषी पानम्।
सविषपुष्पाघ्राणाच्छिरोव्यथा साश्रुनेत्रत्वं गन्धाज्ञानं च।
तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति॥
अस8.21
भवति चात्र।
फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम्।
भाजनव्यञ्जनानां च तथा कुर्यादतन्द्रितः॥
अस8.22
घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृश्य तानपि।
प्रतीवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकाम्॥
अस8.23
ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च।
आहारमुपयुञ्जीत यथावद्वसुधाधिपः॥
अस8.24
मन्दं तीक्ष्णविषाभ्यासाद्विषमुत्क्षीयते भृशम्।
तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक्॥
अस8.25
विषसंधारणं धन्यं रक्षोघ्नं प्रीतिवर्धनम्।
अपि च सापिधानघटीमूटफलकस्थापितौषधम्॥
अस8.26
प्रागुदीच्योर्दिशोर्गुप्तं भेषजागारमिष्यते।
उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्॥
अस8.27
महानसं सुसंमृष्टं विश्वास्यजनसेवितम्।
सद्द्वास्स्थाधिष्ठितद्वारं कक्ष्यावत्सुवितानकम्॥
अस8.28
सुधौतदृठकुम्भादि परिशुद्धजलेन्धनम्।
स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः॥
अस8.29
कॢप्तकेशनखाः पित्र्या राज्ञः कृत्यैरसङ्गताः।
तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः॥
अस8.30
संविभक्तश्च भक्तश्च शुचिर्वैद्यवशूनुगः।
सर्वेऽपि भूभृदासन्नाः शस्ताः सततमीदृशाः॥
अस8.31
मिथो विग्रहसङ्घातरहिता भूभृते हिताः।
तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात्॥
अस8.32
भूभृद्देहोपकरणसंरक्षणसमुद्यतः॥
अस8.33
अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसज्जौषधशस्त्रयन्त्रः।
तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्॥
अस8.34
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्।
दूषयन्त्यरयो यस्मात्तान् विद्याच्छोधयेत च॥
अस8.35
प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्।
भूवारितृणकाष्ठाश्ममार्गोन्मार्गवनस्पतीन्॥
अस8.36
विषेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते।
प्रम्लानतृणगुल्मादिमृतकीटसरीसृपा॥
अस8.37
विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः।
छर्दिर्मूर्छा ज्वरो मोहः शिरोदुःखं च जायते॥
अस8.38
तत्र सौभञ्जनान्मूलं सोमवल्लीमुशीरकम्।
मातुलुङ्गरसं हिङ्गुं पाययेद्दधिमात्रया॥
अस8.39
मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च।
सर्वगन्धैः समं योज्य पचेत्पक्वे च निक्षिपेत्॥
अस8.40
सोमराजीं सुनन्दाख्यां सरलं गन्धनाकुलीम्।
चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम्॥
अस8.41
सविषं विरसं तोयं कवोष्णं राजिभिश्चितम्।
फेनिलं गुरु विच्छिन्नं खगैरनाभिनन्दितम्॥
अस8.42
मृताकुलितमत्स्यं च स्पर्शाद्रुक्शोफकण्डुमत्।
औदनः साधितस्तेन भुक्तमात्रोऽपि दह्यते॥
अस8.43
विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्छाज्वरप्रदः।
दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम्॥
अस8.44
तत्र शिग्रेवादिमगदं भूमिदोषोदितं पिबेत्।
अजशृङ्गीं विशालाख्यां विषघ्नीमुत्तमारणीम्॥
अस8.45
फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्।
बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्॥
अस8.46
कल्कयित्वा प्रतीवापं सरलं रजनीद्वयम्।
एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीअपि॥
अस8.47
पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषीभवेत्।
पाटलापारिभद्राश्वकर्णशम्याकसिध्रकान्॥
अस8.48
कलशान्तर्गतान् दग्ध्वा प्रक्षिपेत्सविषेऽम्भसि।
शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः॥
अस8.49
भ्रममूर्छादिकारी च शिग्र्वादिस्तत्र चेष्यते।
देवदारुनतानन्तामधुकार्जुनगैरिकम्॥
अस8.50
वज्रकन्दं लतां लोध्नं विकिरेच्छ्लक्ष्णचूर्णितम्।
वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च॥
अस8.51
सर्वतश्चूर्णसंपर्कान्निर्विषो जायतेऽनिलः।
विकृता भवति छाया पादपे विषदूषिते॥
अस8.52
निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम्।
कुर्यात् फलपलशादि कण्डूपाकातिसारकृत्॥
अस8.53
भूमिमुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र चेष्यते।
न च कन्यामविदितां संस्पृशेदपरीक्षिताम्॥
अस8.54
विविधान् कुर्वते योगान् कुशलाः खलु मानवाः।
आजन्मविषसंयोगात् कन्या विषमयीकृता॥
अस8.55
स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम्।
तद्धस्तकेशसंस्पर्शान्म्लायते पुष्पपल्लवैः॥
अस8.56
शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि।
जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत्॥
अस8.57
नाप्रोक्षितं नाविदितं भिषजा नानवेक्षितम्।
नाप्राशितं च सूदाद्यैः किञ्चिदप्याहरेन्नृपः॥
अस8.58
धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम्।
परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यतेऽञ्जनम्॥
अस8.59
अथ शुक्लपक्षे पुण्येऽहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थंस्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत्।
तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः।
तत्सर्वं मूषायां प्रक्षिप्य बलिमङ्गलपूर्वकमग्निमुपसामाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिगोमयैर्वा प्रज्वालयेत्।
ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रदित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्यसुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनोऽक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वावृद्धवैद्यब्रह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातं ध्मातमावृत्य पृथक्पृथङ्निषेचयेत्।
गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाशृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु।
ततः शुक्ले वाससि बध्वा द्वादशरात्र मान्तरिक्षेऽम्भासि वासयेत्।
ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालनुसार्याप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्यया दृषदि पेषयित्वासुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवयशृङ्गवैडूर्यस्फटिकमेषशृङ्ग्यसनसारान्यतमघट्टितायामञ्जनिकायां निधापयेत्।
अथ पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्ववित् द्विजन्मा विधिवत्तदभिसंस्कुर्यात्।
ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वनैर्द्विजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्।
अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत्॥
अस8.60
अथ मन्त्रः नमश्चक्षुःपरिशोधनराजाय तथागतायर्हते सम्यक्सम्बुद्धाय तद्यथा औं चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा॥
अस8.61
ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः पत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्।
तस्मोदतद्राज्ञां राजमहामात्राणां च महीं विजगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक्प्रकल्पयेदिति।
भवन्ति चात्र श्लोकाः॥
अस8.62
अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः शिवाः।
यान् सेवमानो नृपतिः शत्रुभ्यो नैति पज्चताम्॥
अस8.63
बिल्वाढकीयवक्षारपाटलीबाल्हिकोषणाः।
श्रीपर्णीसल्लकीयुक्ता निष्क्वाथः प्रोक्षणः परम्॥
अस8.64
सविषं प्रोक्षितं तेन सद्यो भवति निर्विसम्।
यवसेन्धनपानीयशस्त्रशय्यासनोदकम्॥
अस8.65
कवचाभरणच्छत्रबालव्यजनवेश्म च।
शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम्॥
अस8.66
समङ्गावृषमूलत्वक्कपित्थवृषशोणितम्।
सहदन्तशठं तद्वत् प्रोक्षणं विषनाशनम्॥
अस8.67
लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गालहरेणुकाः।
यष्ट्याह्वमधुसंयुक्ता बब्रुपित्तेन कल्किताः॥
अस8.68
निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत्॥
अस8.69
संस्पृष्टं सविषं तेन सद्यो भवति निर्विषम्।
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः॥
अस8.70
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः।
शुनो गोःकपिलायाश्च सौम्याख्योऽयं वरोऽगदः॥
अस8.71
विषजित्परमं कार्यो मणिरत्नं च पूर्ववत्।
मूषिकाजरुहा वापि हस्तबद्धा विषापहाः॥
अस8.72
हरेणुमांसीमञ्जिष्ठारजनीमधुकं मधु।
अक्षत्वक्सुरसं लाक्षा श्वपित्तं पूर्ववन्मणिः॥
अस8.73
वादित्राणि पताकाश्च पिष्टैरोभिश्च लेखिताः।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषम्॥
अस8.74
त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम्।
सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारुणीम्॥
अस8.75
मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्।
तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं विनियोजयेत्॥
अस8.76
विषं भुक्तं जरां याति निर्विषेऽपि न दोषकृत्।
जतुसर्जरसोशीरसर्षपा पत्रवालकैः॥
अस8.77
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च।
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्॥
अस8.78
न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः।
न कृत्या कर्षणा(कार्मणा)द्याश्च धूपोऽयं यत्र दह्यते॥
अस8.79
शिखिपिञ्छं बलाकास्थि सर्षपाश्चन्दनं घृतम्।
धूपो विषघ्नः शयनवसनासनगेहगः॥
अस8.80
विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम्।
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्॥
अस8.81
गोशृङ्गे निहितं योज्यं स्नानीयेऽम्भसि भूपतेः।
पूर्वोकतत्र्यूषणादिं च स्नानीयेऽम्भसि योजयेत्॥
अस8.82
क्वाथोऽथवार्ककुसुमश्वेतापामार्गसर्षपैः।
सदध्याज्यः कृतो युक्तैः कतकानाकुलीद्वयैः॥
अस8.83
कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः।
मूर्वैलावालुसुरसनाकुलीतण्डुलीयकैः॥
अस8.84
क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्हितः।
रोचनापत्ननैपालीकुङ्कुमैस्तिलकान् वहन्॥
अस8.85
विषैर्न बाध्यते स्याच्च नारीनरनृपप्रियः।
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः॥
अस8.86
दिग्धं निर्विषतामेति गात्रमित्याह गौतमः।
नस्यपानाञ्जनालेपैर्युञ्ज्यात् सञ्जीवनात्मकान्॥
अस8.87
अगदान् विषभुक्तस्य तीक्ष्णानि वमनानि च।
पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह॥
अस8.88
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्।
विरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि॥
अस8.89
हृदयावरणं कार्यं प्रागेवामित्रमध्यतः।
पिबेद्घृतमजेयाख्यममृतं वाप्यभुक्तवान्॥
अस8.90
सर्पिः क्षौद्रं दधि क्षीरमन्ततः शीतलं जलम्।
सितामधुकपालिन्दीकल्कवन्मांसमिष्यते॥
अस8.91
गोधाहरिणबभ्रूणां सकणाशुण्ठिपार्षतम्।
सनागरं सातिविषं शिखिनः ससितोपलम्॥
अस8.92
सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः।
विषपीताय दद्याच्च शुद्धायोर्ध्वमधस्तथा॥
अस8.93
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्।
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्॥
अस8.94
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्।
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः॥
अस8.95
इत्थं गरविषादिभ्यो रक्षेद्वैद्यो नरेश्चरम्।
स्यादुच्छेदस्तदुच्छेदात्प्रजानां सर्वकर्मणाम्॥
अस8.96
आज्ञाधैर्यक्षमात्यागा मानुषत्वेऽप्यमानुषाः।
यद्राज्ञः कर्मभिस्तस्मादाराध्योऽसावतीन्द्रियैः॥
अस8.97
यत्र साक्षन्नृपस्तत्र विज्ञातः प्रविशोद्भिषक्।
न सम्मतोऽप्यनुचितं यानस्थानासनं भजेत्॥
अस8.98
उचिते पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत्।
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह॥
अस8.99
देशे काले परार्थं च वदेद्धर्मार्थसंहितम्।
नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम्॥
अस8.100
नाचरेदहितेनैनं मूलच्छेदकरं हि तत्।
अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः॥
अस8.101
उदारैः सान्त्वयन् वाक्यैर्दोषश्चेत्तदुपेक्षया।
तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद्वेष्यसङ्कथाम्॥
अस8.102
विपश्चिदप्यचित्तज्ञो बालिशोऽपि तु भाववित्।
अतिप्रियोऽपि द्वेष्योऽपि यात्याशु विपरीतताम्॥
अस8.103
निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि।
न यायान्न चिरं तिष्ठेत् कोशस्थानावरोधयोः॥
अस8.104
स्वल्पेऽपि दर्शयेत्तुष्टिं लाभेऽनुद्धतमानसः।
मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम्॥
अस8.105
वस्त्रादि राज्ञा सदृशं राजलीलां च वर्जयेत्।
दत्तं यत्तु नृपेणव तद्धार्यं तुष्टिवृद्धये॥
अस8.106
हसितव्ये सिमतं कुर्यात् प्रभोरेवानुवृत्तितः।
उच्यमानेऽवलम्बेत परमर्माणि मूकताम्॥
अस8.107
स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवान्।
अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम्॥
अस8.108
पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा।
आसन्नसेवा नृपतेः क्रीडाशस्त्राहिपावकैः॥
अस8.109
कौशलेनातिमहता विनीतैः सा निरुध्यते।
प्राप्य दुष्प्नापमैश्वर्यं बहुमानं च भूपतेः॥
अस8.110
यथोपभुञ्जीत चिरं तथा स्यादप्रमादवान्।
विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रिताम्॥
अस8.111
रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम्।
रक्षाशक्तिं तथोच्छीर्षे सयवाङ्कुरयावकाम्॥
अस8.112
सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम्।
उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च॥
अस8.113
एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिना शुचेः।
आयुस्यं पौष्टिकं भूतविषकार्मणपाप्मजित्॥
अस8.114
सङ्क्षेप एष विषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरे तु।
आलोच्य सम्यगखिलं मतिपूर्वकारी युञ्जीत तं परिविकल्प्य विकारचिह्नम्॥
अस8.115
इति विषगररक्षोरक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः।
निजपररिपुवृन्दैरप्रधृष्यो महात्मा जनयति जनतायाः क्षेमयोगौ चिराय॥
इति अष्टमोऽध्यायः।
नवमोऽध्यायः
[सम्पाद्यताम्]अस9.1
अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
अस9.2
ग्राम्यानूपौदकपिशितानि मधुगुडतिलपयोमाषमूलकबिसैर्विरूढधान्यैश्च नैकध्यमद्यात्।
विशेषतः पयसा मत्स्यान्।
उभयं ह्येतन्मधुररसविपाकित्वादभिष्यन्दि शीतोष्णवीर्यत्वात् परस्परं विरुद्धम्।
तेष्वपि विशेषेण चिलिचिमः।
स पुनः शकली लोहितनयनः सर्वतो लोहितराजिर्लोहितप्रभाकरः प्रायो भूमौ चरति सोऽत्याभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयत्यामविषं च॥
अस9.3
सर्वं चाम्लं पयसैकध्यं विरुद्धम्।
तत उत्तरं वा विरुद्धं फलञ्च कङ्गुवरकमकुष्ठवेल्लकुलत्थमाषनिष्पावाश्च।
नमूलकदिहरितं भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात्।
पौष्करं रौहिणीकं जातुकं वा शाकं सह मधुप्योभ्यां नाभ्यवहरेत्।
ताभ्यां च सह कपोतान् सर्षपतैलभृष्टान्।
तथा सर्षपतैलभृष्टानां मत्स्यबदराणां बदराणि श्वाविद्वराहमांसं चैकध्यं पित्तेनाममांसानि, दध्ना कुक्कुटं पृषतं च कुसुम्भशाकेनैरौरभ्रं सौवीरकेण तिलशष्कुलीः, क्षीरेण लवणं मूलकेन माषसूपं, नवनीतेन शाकं, उपोदकां मैरेयमार्द्वीकाभ्यां, पीलूनि करीरैः, बिसैर्विरूढकानि, दध्ना माषसूपेन गुडेन मधुना घृतेन वा लकुचफलं, दध्ना तक्रेण गुडेन वा काकमाचीं, तामेव मत्स्यपचने शृङ्गिवेरपचने वा भाजने सिद्धामन्यत्र वा सिद्धां रात्रिमुषितां, कांस्यभाजने दशरात्रोषितं सर्पिर्मद्यदधिमधुभल्लातकेषु चोष्णम्॥
अस9.4
तक्रसिद्धकाम्पिल्लको विरुद्धः।
अङ्गारशूल्यो भासः।
सुराकृसरापायसाश्चैकध्यं विरुद्धाः॥
अस9.5
मधुसर्पिर्वसातैलोदकानि समधृतानि द्विशस्त्रिशः समस्तानि वा।
मधुघृते भिन्नांशे दिव्योदकानुपाने।
मधुपुष्करबीजं पद्मोत्तरिकाशाकं शार्करो मैरयो मधु च सहोपयुक्तं विरुद्धम्।
वातं चातिकोपयति।
हारिद्रकः सर्षपतैलभृष्टो विरुद्धः।
पित्तं चातिकोपयति।
पायसो मन्थानुपानो विरुद्धः।
श्लेष्माणं चातिकोपयति।
उपोदका तिलकल्कसिद्धा हेतुरतीसारस्य।
बलाका वारुण्या कुल्माषैश्च विरुध्दा।
सैव वराहवसया परिभृष्टा सद्यो व्यापादयति।
गोधालावंतित्तिरिमयूरकपिञ्जलाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसम्मूर्छिताः।
हारीतमांसं हारिद्रशूलकावसक्तं हारिद्राग्निप्लुष्टं च।
तदेव भस्मपांसुपरिध्वस्तं सक्षौद्रं च॥
अस9.6
तथा मत्स्यनिस्तालितस्नेहसाधिताः पिप्पल्यः।
शीतोष्णं नवपुराणमामपक्वं च नैकमैकध्यमद्यात्।
सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्योरुपघाताय।
तृष्णाभिप्रवृद्धये च।
तथैव च पयःपानं रक्तपित्ताय।
शरीरेणायस्तस्य सहसाभ्यवहारः छर्दिषे गुल्माय वा।
वाचा त्वायस्तस्य स्वरसादाय।
इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः।
भेषजद्रव्याणां तु यथोपदेशमेव प्रयोगो न्याय्यतरः।
तद्विरोधः पुनरतिप्रसङ्गभयान्नोक्तः।
न च तद्विज्ञानमेकान्तभद्रकं॥
अस9.7
अपिच।
उत्क्लेश्य दोषान्न हरेत् द्रव्यं यत्तत्समासतः।
विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितम्॥
अस9.8
बलिनां मिथोगुणानां विषमतया समतयाप्युभयथापि।
संस्कारादिवशेन च भवति निसर्गादपि विरोधः॥
अस9.9
क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि क्षौद्रघृते समांशे।
वार्यूषरे रात्रिषु सक्तवश्च तोयान्तरास्ते यवकास्तथा च॥
अस9.10
कुशाग्रीयधियामेतदुदाहरणमात्रकम्।
उपनीतमलं विद्धान् सर्वत्र क्रमते यतः॥
अस9.11
विस्फोटशोफमदविद्रधिगुल्मयक्ष्मतेजोबलस्मृतिमतीन्द्रियचित्तनाशान्।
कुर्याद्विरुद्धमशनं ज्वरमस्त्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्॥
अस9.12
तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः।
द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिम्॥
अस9.13
व्यायामस्निग्धदीप्ताग्निवयस्थबलशालिनाम्।
विरोध्यपि न पीडायैसात्म्यमल्पं च भोजनम्॥
अस9.14
दोषादिवैपरीत्येन हरते रोगिणां रुजम्।
ऐकध्यं दधिदुग्धादियोजना न विरुध्यते॥
अस9.15
योगादिभेदाद्यद्यद्वा पथ्यानामप्यपथ्यता।
तद्भेदान्तरतस्तद्वद्विरोधोऽपि निवर्त्तते॥
अस9.16
पादांशेन त्यजेत्सात्म्यमहितं हितमाचरेत्।
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा॥
अस9.17
क्रमेणानेन सन्त्यक्ता दोषाः संवर्द्धिता गुणाः।
प्रभवन्ति न पीडायै प्राप्नुवन्ति स्थिरात्मताम्॥
अस9.18
त्रितयं चतदुपस्तम्भनमाहारः स्वप्नोऽब्रह्मचर्यं च।
एभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोचितमनुवर्त्तते यावदायुःसंस्कारः।
तत्र आहार उक्तो वक्ष्यते च॥
अस9.19
लोकादिसर्गप्रभवा तमोमूला तमोमयी।
बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते॥
अस9.20
श्लेष्मावृतेषु स्रोतस्सु श्रमादुपरतेषु च।
इन्द्रियेषु स्वकर्मभ्यो निद्रा विशति देहिनम्॥
अस9.21
सर्वेन्द्रियव्युपरतौ मनोऽनुपरतं यदा।
विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति॥
अस9.22
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्।
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च॥
अस9.23
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता।
सुखयुषी पराकुर्यात् कालरात्रिरिवापरा॥
अस9.24
सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा।
योगाभियोगिनो बुद्धिर्निर्मला तपसा यथा॥
अस9.25
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा।
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्॥
अस9.26
ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः।
दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः॥
अस9.27
मुक्त्वातिभाष्ययानाध्वमद्यस्त्रीभारकर्मभिः।
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः॥
अस9.28
वृद्धबालाबलक्षीणक्षततृट्च्छूलपीडितान्।
अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि।
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति॥
अस9.29
बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि।
विषार्त्तः कण्ठरोगी च नैव जातु निशास्वपि॥
अस9.30
हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः।
ज्वरभ्रममतिभ्रंशस्रोतोरोधाग्निमन्दताः॥
अस9.31
शोफारोचकहृल्लासपीनसार्द्धावभेदकाः।
कण्डूरूक्कोठपिटकाकासतन्द्रागलामयाः॥
अस9.32
विषवेगप्रवृत्तिश्च भवेदहितनिद्रया।
अपच्यमानो बाहुल्यात् स्रोतांस्यावृणुते कफः॥
अस9.33
ततः स्रोतस्सु रुद्धेषु जायते गात्रगौरवम्।
गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता॥
अस9.34
विरेकः कायशिरसोर्वमनं रक्तमोक्षणम्।
धूमः क्षूत्तृड्व्यथाहर्षशोकमैथुनभीक्रुधः॥
अस9.35
चिन्तोत्कण्ठासुखा शय्यासत्वौदार्यं तमोजयः।
रूक्षान्नं चाहितां निद्रां वारयन्ति प्रसङ्गिनीम्॥
अस9.36
एत एव च विज्ञेया निद्रानाशस्य हेतवः।
कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः॥
अस9.37
निद्रानाशादङ्गमर्द्दशिरोगौरवजृम्भिकाः।
जाड्यग्लानि भ्रमापक्तितन्द्रारोगाश्च वातजाः॥
अस9.38
कफोऽल्पो वायुनोद्धूतो धमनीः सनिरुध्य तु।
कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकरिणीम्॥
अस9.39
उन्मीलितविनिर्भुग्ने परिवर्त्तिततारके।
भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी॥
अस9.40
अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम्।
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः॥
अस9.41
असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्।
शीलयेन्मन्दनिद्रस्तु क्षीरमिक्षुरसं रसान्॥
अस9.42
आनूपौदकमांसानां भक्ष्यान् गौडिकपैष्टिकान्।
शालीन्मद्यानि माषांश्च कीलाटान् माहिषं दधि॥
अस9.43
अभ्यङ्गोद्वर्त्तनस्नानमूर्ध्दश्रवणपूरणम्।
चक्षुषस्तर्पणं लेपः शिरसो वदनस्य च॥
अस9.44
प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते।
संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः॥
अस9.45
सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत्।
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता॥
अस9.46
मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः।
ब्रह्मचर्यरतेर्ग्रम्यसुखनिस्पृहचेतसः॥
अस9.47
निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्त्तते।
एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत्॥
अस9.48
कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च।
निद्रा बिभर्त्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः॥
अस9.49
ग्राम्यधर्मप्रवृत्तौ तु रजस्वलामनिष्टामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणीं सूतिकामनुत्तानां विकृताङ्गां गणिकामप्रजसं दुष्टयोनिमन्ययोनिमन्यस्त्रियं विशेषाच्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रबन्धुभृत्यपत्नीं वर्णिनीं तथा चैत्यचत्वरचतुष्पथोपवनश्मशानाघातसलिलौषधद्विजगुरुसुरनृपालयेष्वहनि गोसर्गे मध्यन्दिनेऽर्द्धरात्रौ पर्वेष्वनङ्गे पिपासुरप्रणीतसङ्कल्पो वा न गच्छेत्।
न च विपरीतव्यवाये योजयेत्।
विशेषेण चातिव्यायतां गर्भिणीं नवप्रसूतामृतुमतीं संवृतयोनिं च।
मूर्द्धाभिघातं च परिहरेत्।
न च निषेकाभिमुखं शुक्रं धारयेदिति।
मनःशरिरस्थितिमात्रमेव व्यवायं सेवेत।
न तत्परः स्यादिति॥
अस9.50
भवति चात्र श्लोकः।
विस्रब्धहृष्टो रहसि तत्कामस्तरुणः पुमान्।
समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः॥
अस9.51
नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम्।
नारीं नारीर्गुणैर्युक्तां सहपूर्वगुणां व्रजेत्॥
अस9.52
द्व्यहाद्वसन्ते तस्यान्ते पक्षात्तद्वत् घनोदये सेवेत कामतः कामं हेमन्ते शिशिरे बली।
स्नानाङ्गरागव्यजनेन्दुपादमांसासवक्षीररसान् रसालाम्॥
अस9.53
भक्ष्यान् सिताढ्यान् सलिलं सुशीतम्।
सेवेत निद्रां च रतान्ततान्तः॥
अस9.54
स्त्रीसंसर्गद्धि सद्यः स्यात् क्लीबता बलिनामपि।
एवं चाप्यायते शीघ्रं तेषां शुक्रं च धाम च॥
अस9.55
दृष्ट्यायुरोजःशुक्रानां क्षयं मेढ्राश्रयान् गदान्।
वायोः कोपमधर्मं च मूढः प्राप्नोत्यतोऽन्यथा॥
अस9.56
उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः।
तिमिरादिगदोत्पत्तिर्मूर्द्धाद्याहननाद्ध्रुवम्॥
अस9.57
भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयः।
अपर्वमरणं च स्याद्विशेषेणातिमैथुनात्॥
अस9.58
नचोनः षोडशाद्वर्षात् सप्ततेः परतो न अच्।
आयुष्कामो नरः स्त्रीभिः संयोगं गन्तुमर्हति॥
अस9.59
अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्।
उपतप्येत सहसा तटाकमिव काजलम्॥
अस9.60
शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्॥
अस9.61
कायस्य तेजः परमं हि शुक्रमाहारसारदपि सारभूतम्।
जितात्मना तत् परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा॥
अस9.62
अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान्।
सुखोदर्केषु सज्जेत देहस्यैतदलं हितम्॥
अस9.63
प्रज्ञापराधोऽसात्म्यार्थसंयोगः कालवैकृतम्।
हितेऽपि रतमाहारे योजयन्त्यामयैर्नरम्॥
अस9.64
नापथ्यसेविनं सद्यः प्रबाधन्ते तदा मलाः।
प्रकोपं प्रतिविघ्नान्ति भिन्नैर्दूष्यादिभिर्यदा॥
अस9.65
न च सर्वोपचारोऽपि सर्वदा सर्वदोषकृत्।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च॥
अस9.66
सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च।
व्याधिक्षमत्वे शक्तानि यतोऽपथ्यं तदेव तु॥
अस9.67
गच्छत्यपथ्यतमतां तुल्यदोषादिवर्द्धितम्।
त एव च पुनर्द्दोषा हेतुभिर्बहुभिश्चिताः॥
अस9.68
मिथो विरुद्धा बलिनो दीर्घकालानुबन्धिनः।
सर्वे समप्रकुपिताः प्राप्याल्पमपि कारणम्॥
अस9.69
प्राणायतनमाश्रित्य गर्भीराः सर्वमार्गगाः।
देहेऽहितोचिते ते स्युश्चिरादप्याशुकारिणः॥
अस9.70
अहितान्यपि चान्येषामभ्यासादुपशेरते।
दोषाश्चैषां क्षयं यान्ति कर्मवातातपादिभिः॥
अस9.71
भिन्नाहारवयः सात्म्यप्रकृतीनां समं भवेत्।
एको विकृतवाय्यादियुगपत्सेवनात् गदः॥
अस9.72
वातादीनां तु विकृतिर्विकृताद्ग्रहचारतः।
भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते।
सम्भवः पुनरेतेषां कर्मणः सामुदायिकात्॥
अस9.73
दुष्टो वायुरभिष्यन्दी स्तिमितोऽत्युष्णशीतलः।
कुण्डली भैरवरवः परुषोऽनार्त्तवो बली॥
अस9.74
अन्योन्यव्याहतगतिः पांसुबाष्पविषान्वितः।
रसवर्णादिविकृतमपक्रान्तविहङ्गमम्॥
अस9.75
निन्दितप्रभवं तोयमुपक्षीणजलाशयम्।
मक्षिकामूषिकाव्यालबहूत्पातप्रदूषितः॥
अस9.76
देशोऽपथ्यान्नबहुलो नष्टधर्ममहौषधिः।
कालश्च विपरीतोऽतिहीनलिङ्गो यथायथम्॥
अस9.77
एते दुष्परिहारत्वादहितायोत्तरोत्तरम्।
येषामनियतं कर्म तस्मिन् काले सुदारुणे॥
अस9.78
कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम्।
शस्यते देहवृद्धिश्च भेषजैः पूर्वमुद्धृतैः॥
अस9.79
ब्रह्मचर्यं दया दानं सदाचाररतिः शमः।
सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनाम्॥
अस9.80
देशानामविपन्नानां साधूनां च निषेवणम्।
दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणम्॥
अस9.81
हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि।
विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम्॥
अस9.82
ऋतुचर्यादिशीतोष्णवृष्टिदोषप्रतिक्रिया।
अत एव च चर्यायां हेमन्तशिशिरे समे॥
अस9.83
सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते।
दैवे पुरुषकारे च स्थितं तस्य बलाबलम्॥
अस9.84
अन्यजन्मकृत कर्म दैवं पौरुषमैहिकम्।
विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः॥
अस9.85
तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च।
नियतस्यायुषो हेतुर्विपरीतस्य चापरा॥
अस9.86
मध्या मध्यस्य मिश्रस्य सङ्कीर्णा श्रुणु चापरम्।
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते॥
अस9.87
तथा दैवेन बलिना पौरुषं कर्म दुर्बलम्।
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः॥
अस9.88
कर्म किञ्चित् क्वचित्काले विपाकनियतं महत्।
किञ्चिच्च कालनियतं प्रत्ययैः प्रतिबोध्यते॥
अस9.89
एवं च द्विविधो मृत्युः कालाकालविभेदतः।
उपदिष्टस्ततश्चैष हिताहितविधिक्रमः॥
अस9.90
एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः।
तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः॥
अस9.91
श्येनादिना च यागेन भ्रातृव्यस्य तथा च तैः।
दीर्घश्रवससोमाद्यैर्विहितश्चात्मनो वधः॥
अस9.92
आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविन्दया।
सर्वस्मादेव चात्मानं गोपयेदीदृशी स्मृतिः॥
अस9.93
तथा मरणमुद्दिष्टं सौगतानां चतुर्विधम्।
विषमापरिहारेण जायते नियतायुषाम्॥
अस9.94
ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि।
अकाण्डे शस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा॥
अस9.95
उद्भ्रान्तचण्डमातङ्गतुरङ्गादिसमागमम्।
आरातिदुष्टवाय्वादिसाहसाहितभोजनम्॥
अस9.96
वर्जयेदिति न ब्रूयुर्मुनयो दिव्यचक्षुषः।
दैवव्यपाश्रयादीश्च रसायनविधीस्तथा॥
अस9.97
न वा तेऽपि यथाकाममायुषः स्थितिमाप्नुयुः।
अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्॥
अस9.98
मिथ्याप्राकारदुर्गाणि मिथ्यामारणरक्षणम्।
आयुष्कामस्य मिथ्यैव परदारादिवर्जनम्॥
अस9.99
मन्त्रदेवतयाहूता नाचक्षीरन् महाहयः।
विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः॥
अस9.100
सन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्।
उपेक्षया न मरणं जीवितं वा चिकित्सया॥
अस9.101
प्रत्यहं नृसहस्रस्य युद्वेऽन्योन्यमभिघ्नतः।
साधुवृत्तस्य चातुल्या न भवेदायुषः स्थितिः॥
अस9.102
नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ।
उपक्रमेरन्न भवेदकालमरणं यदि॥
अस9.103
घटानामामपक्वानां पालनापरिपालनैः।
चिराल्पकालवर्त्तित्वं चित्रस्थानां च दृश्यते॥
अस9.104
इत्यत्यन्तप्रसिद्धेऽपि सिद्धे सर्वागमैरपि।
दृष्टेऽप्यकालमरणे विचिकित्सेत्कथं बुधः॥
अस9.105
गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः।
मृत्युं तं कालजं प्राहुरितरं तद्विपर्यये॥
अस9.106
यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयम्।
यायादात्मवतामायुस्तथान्येषां विपर्ययः॥
अस9.107
शुचितैलदशो दीपः कीटवाताद्यपीडितः।
दीप्तिमान् वर्त्तते सम्यक् यथैवास्नेहसङ्क्षयात्॥
अस9.108
स एवातो यथा च स्याद्विपरीतो विपर्यये।
हिताहितोपचारेण तथैव पुरुषो ध्रुवम्॥
अस9.109
सर्वमन्यत् परित्यज्य शरीरं पालयेदतः।
तदभावे हि भावानां सर्वाभावः शरीरिणाम्॥
अस9.110
नगरी नगरस्येव रथस्येव रथी तथा।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्॥
अस9.111
आहारकल्पनाहेतून् स्वभावादीन् विशेषतः।
समीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः॥
अस9.112
भीलज्जायन्त्रणालोभहर्षशोकवशं गतः।
न जातु धारयेद्वेगांस्तद्धि सर्वापदास्पदम्॥
अस9.113
हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया।
सञ्जायते परामर्शो बलोत्साहेन्द्रियायुषाम्॥
अस9.114
अहितान्यपि सन्त्यज्य दोषमाप्याप्नुयाद्यदि।
तथाप्यानृण्यमायाति साधूनामात्मवानिति॥
अस9.115
यच्च रोगसमुत्थानं न शक्यमिह केनचित्।
परिवर्तुं न तत् प्राप्य शोचितव्यं मनीषिणा॥
अस9.116
हिताहारविहाराणां सदाचारनिषेविणाम्।
लोकद्वयव्यपेक्षाणां जीवितं ह्यमृतायते॥
अस9.117
गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः।
मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन्॥
अस9.118
विदुषान्तश्शरीरस्थान्नित्यं सन्निहितानरीन्।
जित्वा वर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता॥
अस9.119
तदात्वे चानुबन्धे वा तस्मात् कर्माशुभोदयम्।
स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति॥
इति नवमोऽध्यायः॥
दशमोऽध्यायः
[सम्पाद्यताम्]अस10.1
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः।
इतिहस्माहुरात्रेयादयो महर्षयः॥
अस10.2
विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते।
यदायत्तानि ह्योजस्तेजोधात्विन्द्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि।
तदिन्धना चान्तराग्नेः स्थितिः।
अग्निमूलं च देहधारणमिति॥
अस10.3
अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यफलानां हेतुभूताः समीक्ष्य हितमेव अनुरुध्येत।
तत्र स्वभावतो दिव्योदकरक्तशालिषष्टिकमुद्गैणलावादयो लघवः।
क्षीरेक्षुव्रीहिमाषानूपामिषादयो गुरव इति।
ते खल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते॥
अस10.4
तत्र संयोगो नाम द्वयोर्बहूनां वाद्रव्याणां संहतीभावः।
स विशेषमारभते यन्नैकैकशो द्रव्याणि।
संस्कारस्तु तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते।
मात्रा पुनः पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः।
देशो द्रव्यस्योपयोक्तुश्चोत्पत्यवस्थाने।
तत्र पुनरुपयोक्तास्वस्थातुरत्वतः प्रकृतिभेदतश्च परीक्ष्यः॥
अस10.5
कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च।
अजीर्णेऽपि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसंसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु।
जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्यादुत्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरेऽग्नावुदीर्णे जाताया बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति।
केवलमयमेव कालो भोजनस्य॥
अस10.6
अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्राद्विपच्यते कर्शयत्यन्नरुचिं च पुनरुपहन्ति।
उपयोगव्यवस्था तु नास्नातो न दिग्वासा नैकवस्त्रधृक् न मलिनवसनो नाहुत्वा न जपित्वा नानिरूप्य देवताभ्यो न पितृभ्यो न दत्वाग्रमन्नमग्नये न गुरुभ्यो नातिथये नाभ्यागतेभ्यो न श्ववयःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितोपाशितानपि तिरश्चोऽपि स्वपरिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुरन्धिरार्द्रपाणिपादः सुविशुद्धवदनोऽभिमतसहायः केशमक्षिकाद्यनुपजुष्टमनिन्द्यमनिन्दन्ननिन्दितमपुनरुष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिसायं नातिप्रगे नाकाशे नातपे नान्धकारे नाधो वृक्षस्य न श्य्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भिन्ने नासंवृते न मलिने भावदूषिते वा न चासनस्थिते न हस्तस्थे न हस्ते प्राङ्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्रीयात्।
न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः।
नाशेषमन्यत्र दधिमधुघृतसलिलसक्तुशुक्तपायसेभ्योऽपि च।
स्निग्धं लघूष्णमविलम्बित मनतिद्रुतमजल्पन्नहसंस्तन्मनाः समीक्ष्य सम्यगात्मानम्॥
अस10.7
स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्ठं परिशोधयान्ति धातून्न विकुर्वते क्षिप्रं जरयन्ति अनिलमनुलोमयन्ति।
तथा स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं बलमभिवर्द्धयति वर्णप्रसादमभिनिर्वर्त्तयति।
लघु च पुनः स्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानं परिणाममेति।
विपन्नमपि चाल्पदोषं भवति।
उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम्।
विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति।
अतिद्रुतं तु भुञ्जानस्य जल्पतो हस्तोऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च॥
अस10.8
समीक्ष्य सम्यगात्मानमिति ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः प्रत्यवेक्षेत।
तत्र सात्म्यं नाम सहात्मना भवत्यभ्यस्तं तदौचित्यादुपशेत इत्येके।
सात्म्यविपरीतमनुपशयादसात्म्यम्।
अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति।
ते ह्युपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते।
तुल्यगुणं चानुपशयादसात्म्यम्।
सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधम्।
तत्र सर्वरसं प्रवरमेकरसमवरं मध्यं तु मध्यममेव।
तेषु प्रवरं समदोषस्योपदिशन्तीति।
इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन वा विवर्जयेदित्युक्तं प्राक्।
तत्र यदाहारजातं समधातूननुवर्त्तयति विषमांश्च समीकरोति तत्समासतो हितम्।
विपरीतमहितम्।
तत् पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च॥
अस10.9
तथा विशेषतः समशनमध्यशनममात्रशनं विषमाशनं च वर्जयेत्।
तत्र पथ्यापथ्येमकत्रभुक्तं समशनम्।
भुक्तस्योपरि भुक्तमध्यशनम्।
अमात्राशनं पुनः पृथगेवोपदेक्ष्यते।
अप्राप्तातीतकालं तु भुक्तं विषमाशनमिति।
भुञ्जानस्तु पेयायूषरसान् व्यञ्जनानि राजतेषु पात्रेषु निदध्यात्।
परिशुष्कप्रदिग्धानत्युष्णं च पयः सौवर्णेषु।
खलखट्वरकाम्बलिकान् कांस्येषु।
रागषाडवसट्टकान् वज्रवैडूर्य विचित्रेषु।
घृतमायसे पयः सुशीतं ताम्रमये पानीय पानकानि च मृद्धेमस्फटिककाचमयेषु औदनं च विस्तीर्णे मनोरमे स्थाने।
अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात्॥
अस10.10
अपि च।
दक्षिणपार्श्वे भक्ष्यं स्थापयेत्।
सव्ये पेयं लेह्यं मुखोद्घर्षणपिण्डीं च मध्ये भोज्यमिति।
यथाग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाश्नीयात्।
प्रागेव तु गुरुस्वादुस्निग्धं च।
मध्येऽम्ललवणम्।
अन्ते रूक्षं द्रवमितररसयुक्तं च।
तत्र मन्दाग्रेर्द्रवोष्णेन समुत्तेजितोष्मणोऽन्यदुपयुक्तं सम्यक् पाकमेति॥
अस10.11
अनुपाने तु सलिलमेव श्रेष्ठं सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च।
तच्छीतं दधिमधुयवगोधूममद्यविशेषेषु सर्वेषु च विदाहिषु शरद् ग्रीष्मयोश्च।
उष्णं पिष्टमयेष्वन्येषु च दुर्जरेषु हेमन्ते च।
द्रवद्रव्यविज्ञानीयं चेक्षेत।
क्षीरं शालिषष्टिकयोः तथैवोपवासाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु।
मांसरसः शोषादिषु।
वाते त्वम्लानि च।
पित्ते शर्करोदकम्।
त्रिफलोदकं तु सक्षौद्रं श्लेष्मणि प्राथश्चाक्षिगलरोगेषु।
मस्त्वेव वा दध्नि कूचिकाकीलाटयोश्च।
धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु।
मद्यं मांसेषु फलाम्लमम्बु वासवांश्च विविधान् विभज्य प्रयोजयेत्।
विशेषतस्तु मध्वासवान् ग्राम्येषु तीक्ष्णान् त्रिफलासवान् वन्येषु।
न्यग्रोधादिफलासवान् विष्किरेषु अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु दिग्धहतेषु च।
अम्लफलासवान् प्रसहेषु काशेक्षुपद्मबीजशृङ्गाटककशेरुकमृद्वीकाखदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्चिद्वा महामृगेष्वौदकेषु च।
सुरां प्रतुदेषु तथा श्रमार्त्तेषु कृशेषु च।
मधूदकं स्थूलेषु।
मद्यं मद्यमांससात्म्येष्वल्पाग्निषु।
अपि च।
समासेनान्नविपरीतमविरोधि च॥
अस10.12
अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिनिर्वर्तयति भुक्तमवसादयत्यन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयति।
वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च।
तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्।
पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत्।
पानं च प्रक्लिन्नदेहमेदहण्ठाक्षिरोगव्रणिन इति॥
अस10.13
ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थं च शनैः शनैः शोधनेन विशोध्य लेपगन्धस्नेहापनोदमाचान्तोऽङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूलादिकृत वदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्।
द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत।
यानप्लवनवाहनाग्न्यातपांश्च भुक्तवान् वर्जयेत्।
आहारपरिणामकराः पुनरिमे भावाः।
तद्यथा ऊष्मा वायुः स्नेहः क्लेदः कालः समयोगश्च।
तत्रोष्मा पचति वायुरपकर्षति स्नेहो मार्दवं जनयति क्लैदः शैथिल्यमापादयति कालः सर्ववपुर्व्याप्तिमभिनिर्वर्त्तयति।
समयोगस्त्वेषामन्नपरिणामधातुसाम्यकरः सम्पद्यते।
समयोगस्य तु पुनः कारणान्युचितो हितश्च देहसंस्कारोऽभ्यवहारश्चेष्टा शयनं सौमनस्यं च।
परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः।
विरुद्धास्तु विहताश्च विरोधिभिर्विहन्युः शरीरमिति।
भवन्ति चात्र॥
अस10.14
औकुलाभ्योषपृथुकान् सुपिष्टकृततण्डुलान्।
न जातुभुक्तवानद्यान्मात्रयाद्यात्सुकाङ्क्षितः॥
अस10.15
शाकावरान्नकट्वम्लकषायलवणोत्कटम्।
त्यजेदेहरसासात्म्यं गुरु शुष्कं च भोजनम्॥
अस10.16
वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम्।
अत्यभिष्यन्दि विष्टम्भि विदाहि गुरु रूक्षणम्॥
अस10.17
कीलाटदधिकूचीकामत्स्यशुष्काममूलकम्।
क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत्॥
अस10.18
शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्।
सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्॥
अस10.19
पथ्यामलकमृद्धीकापटोलीमुद्गशर्कराः।
घृतंदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्॥
अस10.20
त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च।
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्॥
अस10.21
स्वभावमात्रायोगादिपरस्परविपर्ययैः।
भोजनानि विरुध्यन्ते तानि विद्वान् विवर्जयेत्॥
अस10.22
त्यागाद्विषमहेतूनां समानां चोपसेवनात्।
विषमा नानुबध्नन्ति जायन्ते धातवः समाः॥
अस10.23
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्।
आश्रयं पवनादीनां चतुर्थमवशेषयेत्॥
अस10.24
मन्दानलबलारोग्यनृपेश्वरसुखात्मसु।
योज्यः क्रमोऽयं सततं नावश्यमितरेषु च॥
अस10.25
करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम्।
स्निग्धं त्वतिश्लेष्मचयप्रसेक हृद्गौरवालस्यरुचिप्रणाशान्॥
अस10.26
अत्युष्णमन्नं मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम्।
शीतं तु सादारुचिवह्निसादहृल्लासविष्टम्भनरोमहर्षान्॥
अस10.27
अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिमशीघ्रपक्तिम्।
अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलं च हन्ति॥
अस10.28
अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः।
अतिलवणमचक्षुष्यं तीक्ष्णात्यमलं जरा साक्षात्॥
अस10.29
तनुमपि तनुजां रुजां त्वनाप्य व्रजति नरः स समाशतस्य पारम्॥
इति दशमोऽध्यायः॥