अष्टाङ्गसंग्रहः सूत्रस्थानम् अध्याय ११-२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अष्टाङ्गसंग्रहः

अथैकाअदशोऽध्यायः।

अस11.1
अथातो मात्राशितीयं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्त्रेयादयो महर्षयः॥

अस11.2
मात्राशी स्यात्।
मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी।
कुक्षेरप्रतिपीडनमाहारेण हृदयस्यासंरोधः पार्श्वयोरविपाटनमनतिगौरवमुदरस्य प्रीणनमिन्द्रियाणां क्षुत्पिपासोपरतिः स्थानासनशयनगमनोच्छ्वासप्रश्वासभाष्यसङ्कथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं चेति मात्राया लक्षणम्॥

अस11.3
त्रिभागसौहित्यमर्द्धसौहित्यं वा गुरूणामुपदिश्यते।
लघूनामपि नातिसौहित्यम्।
अनिलानलगुणबहुलानि हि लघूनि तुल्यगुणत्वादग्निसन्धुक्षणान्यविधिना चाल्पदोषाणि।
इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाग्निबलात्।
अमात्रा पुनरशनस्य हीनताधिक्यं च।
तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धीन्द्रियोपघातकरं विबन्धकृदवृष्यमनौजस्यं सारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनम्।
अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः।
तेन हि प्रपीड्यमाना वातादयो युगपत्प्रकुपिताः कुक्ष्यैकदेशस्थास्तदेवापरिपक्वमाविश्य विष्टम्भयन्तोऽलसकमभिनिर्वर्तयन्ति।
सहसा वाधरोत्तराभ्यां मार्गाभ्यां प्रत्त्यावयन्तो विषूचिकाम्॥

अस11.4
अपि च।
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते।
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः॥

अस11.5
विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः।
सूचीभिरिव गात्राणि विध्यतीति विषूचिका॥

अस11.6
तत्र वातः शूलानाहाङ्गमर्दमुखशोषप्रलापकम्पमूर्च्छभ्रमजृम्भोद्वेष्टनाक्षिप्रवेशशिरोहृदयातिरुक्सिरा कुञ्चनस्तम्भनानि करोति।
पित्तं पुनर्ज्वरातिसारान्तर्दाहवैवर्ण्यतृष्णामदभ्रमप्रलयानि।
श्लेष्मा तु छर्द्यरोचकप्रसेकाङ्गसादाविपाकशीतज्वरगात्रगौरवाणि विशेषतस्तु दुर्बलस्याल्पवह्नेर्बहुश्लेष्मणोवातमूत्रपुरीषवेगविधारिणोऽन्नपानमनिलप्रपीडितं श्लेष्मणाविबद्धमार्गमलसत्वादबहिर्मुखीभवत् छर्द्यतीसारवर्ज्यानि यथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि।
सोऽलसः।
अतिमात्रदुष्टास्तु दोषाः शरीरं दण्डवत् स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते॥

अस11.7
विरुद्धाध्यशनाजीर्णशीलिनः पुनरामदोषमामविषमामनन्ति।
विषसदृशलिङ्गत्वात्।
तत्परमसाध्यानाम्।
अशुकारितया विरुद्धोपक्रमत्वाच्च।
न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुं शक्यं स्वभावादीनां भिन्नफलत्वात्॥

अस11.8
तथा हि।
गुरुरूक्षशुष्कशीतद्विष्टविष्टम्भिविदाअह्यशुचिविरुद्धात्यम्बुपानद्रवमकाले काले वा कामक्रोधलोभेर्ष्याद्व्रीशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति॥

अस11.9
तत्र साध्यमानं दुष्टमलसीभूतमुल्लिखेत् पाययित्वा सलवणमुष्णं वारि।
तथात्वच्छर्दयन्तमतिलीनदोषं कृष्णानागदन्तीकल्कयुक्तं पाययेत्।
मदनफलकषायं वा पिप्पलीसिद्धार्थकल्कयुक्तम्।
दन्तीमागधिकावचूर्णितं वा कोशातकीरसम्।
अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि।
ततः स्वेदवर्त्तिप्रणिधानाभ्यामुपाचरेत्॥

अस11.10
अपि च।
सद्यः सम्यग्विशुद्धस्य शाम्यन्ति तदुपद्रवाः।
शूले निरन्नकोष्ठेऽद्भिः कोष्णाभिश्चूर्णिताः पिबेत्॥

अस11.11
हिङ्गुप्रतिविषाव्योषसौवर्चलवचाभयाः।
अथवा पिप्पलीमूलं त्रिवृतादारुसैन्धवम्॥

अस11.12
शुण्ठीः सक्षीरलवणपिप्पलीमरिचानि च।
पाठाम्लवेतसक्षारयवानीपौष्कराणि वा॥

अस11.13
द्विरुत्तरं हिङ्गुवचाग्निकुष्ठ सुवर्चिकाक्षारबिडाजमोजम्।
शूलोदरानाहविषूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥

अस11.14
मुस्ताजमोजपूजीकवचाशुण्ठ्यग्निधान्यकैः।
सवालकशठीबिल्वैः क्वाथं तृट्च्छूलवान् पिबेत्॥

अस11.15
रास्नाकट्फलषङ्ग्रन्थाबृहतीद्वयजोङ्गकैः।
गुग्गुल्वतिविषाकुष्ठपत्रत्र्याघ्रनखाम्बुदैः।
कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्त्तनधूपनम्॥

अस11.16
सरुक्चानद्धमुदरमम्लपिष्टैः प्रलेपयेत्।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥

अस11.17
यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित् परम्।
योजयेत्सैन्धवान्तैश्च वर्तिं विण्मूत्रसङ्ग्रहे॥

अस11.18
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्।
विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते॥

अस11.19
द्विक्षारजीर्णपिण्याककुष्ठारुष्करचित्रकैः।
सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम्॥

अस11.20
सुच्छर्दितविरिक्तस्य गात्रायामेऽतिदारुणे।
भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः।
घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमम्॥

अस11.21
त्वक्पत्ररास्नागरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः।
उद्वर्त्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि॥

अस11.22
तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्।
सामान्येनेति सिद्धोक्ता विषूच्यलसकक्रिया॥

अस11.23
आमदोषेषु त्वन्नकाले जीर्णाहारं दोषोपलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधं वह्निसन्धुक्षणार्थं च।
अजीर्णाहारं पुनर्न पाययेत्।
यत आमदोषदुर्बलो ह्यग्निर्युगपदामदोषमौषधमाहारजातं चाशक्तः पक्तुम्॥

अस11.24
अपि चैषा विभ्रमोऽतिबलत्वादुपरतानलबलमातुरं सहसैवातिपातत्येत्।
आमदोषजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति॥

अस11.25
तत्तु त्रिविधम्।
लङ्घनं लङ्घनपाचनमवसेचनं च।
तत्र लङ्घनमल्पदोषाणाम्।
तेन ह्यनिलानलवृध्या वातातपपरीत इवाल्पः सलिलाशयोऽल्पदोषः प्रशोषमापद्यते।
लङ्घनपाचनाभ्यां मध्यदोषे वातातपाभ्यां पांसुभस्मावकिरणैरिव चानतिमहान् सलिलाशयः।
बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्।
न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति॥

अस11.26
तस्मात्सन्तर्पणनिमित्तानां नान्तरेणापतर्पणमस्ति शान्तिः।
अपतर्पणनिमित्तानां च नान्तरेण सन्तर्पणमिति।
एवमन्येषामपि व्याधीनां यथास्वं निदानविपरीतमौषधमेवावचारयेत्।
सति त्वनुबन्धे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा।
विमुक्तामदोषस्य पुनः परिपक्वामदोषशेषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विविधस्नेहपानं च युक्त्या प्रयोज्यम्।
प्रसमीक्ष्य दोषौषधादीनामवस्थान्तराणि।
भवन्ति चात्र॥

अस11.27
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञः छर्द्यर्दितोऽन्तर्गतताम्रनेत्रः।
क्षामस्वरः स्रस्तसमस्तसन्धिर्यायान्नरोऽसौ पुनरागमाय॥

अस11.28
व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः।
छयाविशुष्का गुलिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन॥

अस11.29
शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामाअर्गफलैश्च वर्त्तिः।
बस्तस्य मूत्रेण विषूचिकाघ्नी प्रलेपधूपाञ्जननस्ययोगैः॥

अस11.30
अजीर्णं च कफादामं विष्टब्धमनिलाद्भवेत्।
विदग्धं पित्तकोपेन त्रिप्रकारमिति स्मृतम्॥

अस11.31
तत्रामे गुरुतोत्क्लेदः शोफो गण्डाक्षिकूटयोः।
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते॥

अस11.32
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः।
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम्॥

अस11.33
विदग्धे भ्रमतृण्मूर्छाः पित्तच्च विविधा रुजाः।
उद्गारश्च साधूमाम्लः स्वेदो दाहश्च जायते॥

अस11.34
लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम्।
विदग्धे वमनं यद्वा यथावस्थं हितं भवेत्॥

अस11.35
रगीयसो भवेल्लीनादामादेव विलम्बिका।
कफवातानुविद्धामलिङ्गा तत्समसाधना॥

अस11.36
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे।
तत्राभुक्त्वा दिवस्वप्यात् क्षुद्वानद्याल्लघुप्रति॥

अस11.37
यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे।
पाकोऽग्नौयुक्तयोर्द्राक्च तीक्ष्णे मन्दे पुनश्चिरात्॥

अस11.38
सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्।
पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम्॥

अस11.39
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति।
अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति॥

अस11.40
दिवा प्रबोध्यतेऽर्केण हृदयं पुण्डरीकवत्।
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥

अस11.41
व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः।
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥

अस11.42
अक्लिन्नेष्वन्नमासिक्तमत्यन्तेन न दुष्यति।
अविदग्धेष्विव पयस्स्वन्यत्संमिश्रितं पयः॥

अस11.43
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च।
यान्ति कोष्ठे परिक्लेदं संवृते सर्वधातवः॥

अस11.44
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति।
विदग्धेषु पयस्स्वन्यात् पयस्तप्तेष्विवापितम्।
नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्॥

अस11.45
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः।
लघुता क्षुत्पिपास च जीर्णाहारस्य लक्षणम्॥

अस11.46
प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते।
नृणामशनलुब्धानां विशेषेण विषूचिका॥

अस11.47
दोषोपनद्धं यदि लीनमन्नं पित्तोल्बणरयावृणुयान्न वह्निम्।
जायेत दुष्टा तु ततो बुधुक्षा या मन्दबुद्धीन् विषवन्निहन्ति॥
इति एकादशोऽध्यायः॥


अथ द्वादशोऽध्यायः।

अस12.1
अथातो द्विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

अस12.2
द्विविधमौषधमूर्जस्करं रोगघ्नं च।
उभयमपि चोभयात्मकम्।
बाहुल्येन तु निर्देशः।
तत्रोर्जस्करं द्विविधं रसायनं वाजीकरणं च।
रोगघ्नमपि द्विविधम्।
रोगस्य प्रशमनमपुनर्भवकरं च।
पुनश्च द्विविधम्।
द्रव्यमद्रव्यम् च।
तत्र द्रव्यम् त्रिविधम्।
भौममौद्भिदं जङ्गममिति।
तेषु वक्ष्यमाणं हेमादि लवणान्तं प्रायेण भौमम्।
औद्भिदं पुनर्वनस्पतिवानस्पत्यवीरुदौषधिभेदेन चतुर्विधं भवति।
तत्र फलिनो वनस्पतिः।
पुष्पफलवान् वानस्पत्यः।
वल्लीगुल्मवीरुत्।
फलपाकान्ताश्चौषध्य इति।
जङ्गमोद्भवं मधुघृतादि जङ्गमद्रव्यमाहुः॥

अस12.3
अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसान्त्वदानभयोत्त्राससङ्क्षोभणहर्षणभर्त्सनहसनस्वप्नजागरण संवाहनादीनि।
पुनरपि च त्रिविधं दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्चेति।
तत्र दैवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तो पवासस्वस्त्ययनप्रणिधानगमनादि।
युक्तिव्यपाश्रयमाहारौषधयोजनादि।
सत्वावजयः पुनरहितान्मनोनिग्रहः।
पुनरपि च त्रिविधम्।
अपकर्षणं प्रकृतिविघातो निदानत्यागश्च॥

अस12.4
ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यन्तरभेदेन।
तत्र बाह्यमपकर्षणं ग्रन्थ्यर्बुदोपपक्ष्मक्रिमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः।
आभ्यन्तरं पुनर्वमनविरेचनादिभिः।
प्रकृतिविघातः संशमनम्।
तत् बाह्यमभ्यङ्गस्वेदप्रदेहपरिषेकोपमर्दनादि।
आभ्यन्तरं यदन्तरमनुप्रविश्याविक्षोभयद्दोषान् शमयति।
निदानत्यागो यथादोषं शीतोष्णशनव्यायामादीनां वर्जनं स्निग्धरुक्षाद्यनभ्यवहारश्च।
तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि॥

अस12.5
पुनरपि त्रिविधं हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च।
तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि।
तथेतरस्मिन्नितरत्।
व्याधिविपरीतम्।
द्वौ मूलोपक्रमौ लङ्घनबृंहणे।
पञ्च कर्माणि वमनादीनि सधूमधूपाञ्जनादीनि च।
तथा विम्लापनोपनाहनपाटनादीनि॥

अस12.6
यच्च दोषशमनत्वे सत्यपि ज्वरे विशेषतो हितं मुस्ता पर्पटकं यवाग्वश्च प्रमेहे रजनी यवान्नं चेत्यादि।
रक्तपित्ते चोर्ध्वागे विरेचनमधोगे वमनम्।
उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम्।
तथा छर्द्यां छर्दनमतिसारे विरेचनं मदात्ययेमद्यपानं तुत्थदग्धेऽग्निप्रतपनं पित्तेऽन्तर्न्निगूढे विमार्गगे वा स्वेदः कट्वम्ललवणतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्त्तनाय स्वमार्गापादनाय च।
श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारस्तत्पीडितस्योष्मणोऽन्तःप्रवेशेन कफो विलयतामुपयाति।
एवंविधं ह्यविपरीतमेव सत् भेषजं हेतुव्याधिविपरीतमर्थं करोति॥

अस12.7
अनौषधं पुनर्द्विविधं बाधनमनुबाधनं च।
तत्र सद्यः प्राणहरं बाधनम्।
कालान्तरेणानुबाधनमिति।
परं चातो रसवीर्यादिभेदेन यथास्थूलमौषधैकदेश उपदिश्यते॥

अस12.8
सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः।
विषदोषहरं शीतं सकषायं रसायनम्॥

अस12.9
रूप्यं स्निग्धं कषायाम्ल विपाके मधुरं रसम्।
वयसः स्थापनं शीतं लेखनं वातपित्तजित्॥

अस12.10
ताम्रं सतिक्तमधुरं कषायं लेखनं लघु।
कटुपाकरसं शीतं रोषणं कफपित्तजित्॥

अस12.11
कस्यं कषायानुरसं विशदं लेखन लघु।
दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम्॥

अस12.12
सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्।
लेखनं पित्तलं किञ्चित् त्रपु सीसं च तद्गुणम्॥

अस12.13
चक्षुष्यं कृष्णलोहं तु कषायं स्वादुतिक्तकम्।
लेखनं वातलं शीतं कृमिकुष्ठकफप्रणुत्॥

अस12.14
गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्।
तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम्॥

अस12.15
पद्मरागमहानीलपुष्परागविदूरकाः।
मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्॥

अस12.16
मणिरत्नं सरं शीतं कषायं स्वादुलेखनम्।
चक्षुष्यं धारणात्तत्तु पाप्मालक्ष्मीविषापहम्॥

अस12.17
धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम्।
सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात्॥

अस12.18
शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ।
तुत्थकं कटु सक्षारं कषायं विषदं लघु॥

अस12.19
लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्।
विशदो गैरिकः स्निग्धः कषायमधुरो हिमः॥

अस12.20
कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा।
स्निग्धं कषायकटुकं हरितालं विषप्रणुत्॥

अस12.21
कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम्।
रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्॥

अस12.22
स्रोतोऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्।
कफघ्नं तित्तकटुकं छेदि सोष्णं रसाञ्जनम्॥

अस12.23
स्वादु हिध्माप्रशमनं कासमेहक्षयापहम्।
कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्॥

अस12.24
तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित्।
विशेषात् कृछ्रमेहार्शःपाण्डुशोफकफापहम्॥

अस12.25
कषाया मधुरा रूक्षा कासघ्नी वंशरोचना।
तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा॥

अस12.26
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः।
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्॥

अस12.27
सैधन्वं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्।
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्॥

अस12.28
लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्।
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्॥

अस12.29
ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम्।
विबन्धानाहविष्टम्भशूलगौरवनाशनम्॥

अस12.30
विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्।
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्॥

अस12.31
कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः।
रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु॥

अस12.32
लवणानां प्रयोगे तु सैन्धवादीन् प्रयोजयेत्।
गुल्महृत् ग्रहणीपाण्डुप्लीहानाहगलामयान्॥

अस12.33
श्वासार्शःकफवातांश्च शमयेद्यवशूकजः।
स्वर्जिका तद्गुणान्न्यूना क्षारेण तु ततोऽधिका॥

अस12.34
क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः।
पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः।
अपथ्यः कटुलावण्याच्शुक्रौजःकेशचक्षुषाम्॥

अस12.35
कषाया मधुरा पाके रूक्षा विलवणा लघुः।
दीपनी पाचनी मेध्या वयसः स्थापनी परम्॥

अस12.36
उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा।
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्॥

अस12.37
शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्।
सशोषशोफातीसारमेहमोहवमिक्रिमीन्॥

अस12.38
श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्।
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्॥

अस12.39
हरीतकी जयेद्व्याधींस्ताअंस्तांश्चकफवातजान्।
तद्वदामलकं शीतं माधुर्यात् पित्तजित् परम्॥

अस12.40
कफं कटुविपाकित्वादम्लत्वान्मारुतं जयेत्।
परं च कण्ठ्यं चक्षुष्यं हृद्यं दाहज्वरापहम्॥

अस12.41
अक्षं तु तद्गुणान्न्यूनं कषायमधुरं हिमम्।
कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु॥

अस12.42
परं केश्यस्तु तन्मज्जा शुक्रघ्नं च ततोऽञ्जनम्।
इय रसायनवरा त्रिफलाक्ष्यामयापहा।
रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्॥

अस12.43
सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्।
पित्तप्रकोपि तीष्णोष्णं रूक्षं रोचनदीपनम्॥

अस12.44
रसे पाके च कटुकं कफघ्नं मरिचं लघु।
श्लेष्मला स्वादु शीतार्द्रा गुर्वीं स्निग्धा च पिप्पली॥

अस12.45
सा शुष्का विपरीतातःस्निग्धा वृष्या रसे कटुः।
स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा॥

अस12.46
न तामत्युपयुञ्जीत रसायनविधिं विना।
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्॥

अस12.47
रुच्य लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्।
तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्॥

अस12.48
स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्।
चविका पिप्पलीमूलं मरिचाल्पान्तरं गुणैः॥

अस12.49
चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा।
पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्।
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्॥

अस12.50
बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत्।
जयेत् कषायं तिक्तोष्णं पञ्चमूलं कफानिलौ॥

अस12.51
ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्।
स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्॥

अस12.52
बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च।
मध्यमं कफवातघ्नं नातिपित्तकरं लघु॥

अस12.53
अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्।
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्॥

अस12.54
तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजित्।
अजशृङ्गी हरिद्रा च विदारीशारिवामृताः॥

अस12.55
बल्याख्यं कण्टकाख्यं तु श्वदंष्ट्राभीरुसैर्यकैः।
सहिस्त्राकरमर्दीकैस्सर्वदोषहरे च ते॥

अस12.56
कारवीकुञ्चिवाजाजीकवरीधान्यतुम्बरु।
अन्नगन्धहरं रुच्यं दीपनं कफवातजित्॥

अस12.57
वाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्।
शूलाटोपहरा रुच्या दीप्यकः कोष्ठशूलजित्॥

अस12.58
अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्त्तिताः।
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्॥

अस12.59
कटुपाकरसं रुच्यं दीपनं पाचनं लघु।
पित्तास्रकोपि तच्चैव श्रेष्ठं बोष्काणदेशजम्॥

अस12.60
ततो न्यूनगुणं त्वन्यद्द्रव्यव्यञ्जनधूपनम्।
शताह्वाकुष्ठतगरसुरदारुहरेणवः॥

अस12.61
एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः।
लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः॥

अस12.62
सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्।
बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः॥

अस12.63
पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम्।
कफघ्नं तिक्तकटुकं मुस्तं संग्राहि पाचनम्॥

अस12.64
तिक्तामृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी।
दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्॥

अस12.65
तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ।
निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः॥

अस12.66
महानिम्बः परं ग्राही कषायो रूक्षशीतलः।
गुग्गुलुः पिच्छिलः स्पर्शे विशदोऽभ्यवहारतः॥

अस12.67
सस्वादु सकटुस्तिक्तः सकषायो रसायनम्।
व्रण्यः स्वर्यः कटुः पाके रुक्षः सूक्ष्मोऽग्निदीपनः॥

अस12.68
क्लेदमेदोनिलश्लेष्मगण्डमेहापचीक्रिमीन्।
पिटकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः॥

अस12.69
शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा।
कटुतिक्तोष्णमगरु स्निग्धं वातकफापहम्॥

अस12.70
पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम्।
सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्॥

अस12.71
लघु रक्तं तथोशीरं वालकं पाचनं च तत्।
ज्वरातिसारवमथुरक्तपित्तक्षतापहम्॥

अस12.72
मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्।
गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्॥

अस12.73
कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे।
प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्॥

अस12.74
प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्।
कषायतिक्तमधुरं रक्तपित्तप्रसादनम्॥

अस12.75
बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्।
तत्र नागबला बल्या क्षतक्षीणहिता गुरुः॥

अस12.76
ताम्बुलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्।
भेदि सम्मोहकृत् पूगं कषायं स्वादु रोचनम्॥

अस12.77
जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्।
लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्॥

अस12.78
सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्च्छेदनो हिमः।
लताकस्तूरिका तद्वन्मुखशोषहरा परम्॥

अस12.79
कषायमधुरं शीतं पद्मं पित्तकफास्रजित्।
तद्वत् बकुलपुन्नागकुमुदोत्पलपाटलम्॥

अस12.80
सचम्पकं ततो न्यूनं गुणैः कोरण्डकिंशुकम्।
मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्॥

अस12.81
विषपित्तकफान्नगं सिन्दुवारं च तद्गुणम्।
कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च॥

अस12.82
वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्।
चातुर्थिकज्वरहरं नावनेनोपयोजितम्॥

अस12.83
बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका।
कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्।
अवल्वेडकजं बीजं कटिवातकफप्रणुत्॥

अस12.84
आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा।
अतोऽध्वाग्निबलांयूषि कुर्याच्चङ्क्रमणं सुखम्॥

अस12.85
मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम्।
अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्द्धनम्॥

अस12.86
वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्।
प्रवातो रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्॥

अस12.87
श्रमाग्निमूर्च्छाश्च जयेदप्रवातस्त्वतोऽन्यथा।
प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन्॥

अस12.88
सन्निपातज्वरं श्वासमामं वायुं च कोपयेत्।
पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषं विषम्॥

अस12.89
दक्षिणो मारुतः श्रेष्ठो नेत्र्योऽङ्गबलवर्द्धनः।
रक्तपित्तप्रशमनो न च वातप्रकोपनः॥

अस12.90
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च।
कषायानुरसः शीतो दोषाणामप्रकोपनः॥

अस12.91
आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः।
कुर्यात् पित्तास्रवह्नींश्च छाया चैतानपोहति।
तमः कषायकटुकं ज्योत्स्ना मधुरशीतला॥

अस12.92
भवति चात्र।
रसादिभेदैरिति भेषजाना दिङ्मात्रमुक्तं न यतोऽस्ति किञ्चित्।
अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः॥
इति द्वादशोऽध्यायः।

अथ त्रयोदशोऽध्यायः

अस13.1
अथातोऽग्र्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस13.2
श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम्।
स्नानं सुरा च श्रमहराणाम्।
क्षीरं जीवनीयानाम्।
मांसं बृंहणीयानाम्।
रसः प्रीणनानाम्।
लवणमन्नद्रव्यरुचिकराणाम्।
तिन्दुकमन्नद्रव्यारुचिकराणाम्।
अम्लं हृद्यानाम्।
कुक्कुटो बल्यानाम्।
तैलं वातश्लेष्मप्रशमनानाम्।
सर्पिर्वातपित्तप्रशमनानाम्।
मधु श्लेष्मपित्तप्रशमनानाम्।
स्वेदो मार्दवकराणाम्।
व्यायामः स्थैर्यकराणाम्।
क्षारः पुंस्त्वोपघातिनाम्।
आमं कपित्थमकण्ठ्यानाम्।
आविकं सर्पिरहृद्यानाम्।
महिषीक्षीरं स्वप्नजननानाम्।
मन्दकं दध्यभिष्यन्दकराणाम्।
इक्षुर्मूत्रजननानाम्।
यवाः पुरीषजननानाम्।
जाम्बवं वातजननानाम्।
कुलत्थोऽम्लपित्तजननानाम्।
माषाः शष्कुल्योऽविक्षीरं च पित्तश्लेष्मजननानाम्।
दुरालभा पित्तश्लेष्मोपशोषणानाम्।
उपवासो ज्वरहराणां।
वृषो रक्तपित्तप्रशमनानाम्।
कण्टकारिका कासघ्नानाम्।
लाक्षा सद्यःक्षतघ्नानाम्।
नागबलाभ्यासः क्षतक्षयघ्नानाम्।
पुष्करमूलं हिध्माश्वासकासपार्श्वशूलारुचिहराणाम्।
अजापयः शोषघ्नस्तन्यकररक्तसङ्ग्रहणप्रशमनानाम्।
मृद्भृष्टलोष्टप्रसादः छर्दितृष्णातियोगप्रशमनानाम्।
अरुष्करश्चित्रकमूलं च शुष्कार्शःप्रशमनानाम्।
कुटजो रक्तर्शःप्रशमनानाम्।
लाजाश्छर्दिघ्नानाम्।
यावशूकः स्रंसनीयपाचनीयार्शोघ्नानाम्।
तक्राभ्यासोऽर्शःश्वयथुग्रहणीदोषघृतव्यापत्प्रशमनानाम्।
क्रव्यान्मांसाभ्यासोऽर्शःशोषग्रहणीदोषघ्नानाम्।
मुस्तं सङ्ग्रहणीयदीपनीयपाचनीयानाम्।
अतिविषा सङ्ग्रहणीयपाचनीयसर्वदोषहराणाम्।
बिल्वं सङ्ग्रहणीयदीपनीयवातकफप्रशमनानाम्।
उदीच्यं निर्वापणदीपनीयछर्द्यतीसारहराणाम्।
कट्वङ्गं सङ्ग्रहणीयदीपनीयानाम्।
कुटजत्वक् श्लेष्मपित्तरक्तसङ्ग्रहणीयोपशोषणीयानाम्।
उत्पलकुमुदकिञ्जल्कोऽनन्ता च सङ्ग्रहणीयरक्तपित्तप्रशमनानाम्।
काश्मर्यफलं रक्तसङ्ग्रहणीयरक्तपित्तप्रशमनानाम्।
गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानाम्।
पृश्निपर्णी रक्तसङ्ग्रहणीयदीपनीयपाचनीयवातहरवृष्याणाम्।
सालपर्णी वृष्यसर्वदोषहराणाम्।
बला सङ्ग्रहणीयबल्यवातहराणाम्।
पिप्पलीमूलं दीपनीयपाचनीयानाहहराणाम् चित्रकमूलं दीपनीयपाचनीयगुदशोफशूलहराणाम्।
गोक्षुरको मूत्रकृच्छ्रानिलहराणाम्।
हरिद्रा प्रमेहहराणाम्।
रक्तावसेको विद्रधिविसर्पपिटकागण्डमालापहराणाम्।
एरण्डतैलाभ्यासो वर्ध्मगुल्मानिलशूलहराणाम्।
लशुनो गुल्मानिलहराणाम्।
हिङ्गुनिर्यासःश्छेदनीयपाचनीयानुलोमिकवातकफप्रशमनानाम्।
अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्।
उष्ट्रीक्षीरमुदरश्वयथुघ्नानाम्।
अयोरजः पाण्डुरोगघ्नानाम्।
खदिरः कुष्ठघ्नानाम्।
विडङ्गः कृमिघ्नानाम्।
रास्ना वातहराणाम्।
एरण्डमूलं वृष्यवातहराणाम्।
गुग्गुलुर्मेदोनिलहराणाम्।
अमृता सङ्ग्रहणीयदीपनीयवातश्लेष्मशोणितविबन्धप्रशमनानाम्।
मदनफलं वमनास्थापनानुवासनोपयोगिनाम्।
त्रिवृत्सुखविरेचनानाम्।
चतुरङ्गुलो मृदुविरेचनानाम्।
स्नुक्पयस्तीक्ष्णविरेचनानाम्।
प्रत्यक्पुष्पी शिरोविरेचनानाम्।
त्रिफलातिमिरघ्नानाम्।
गुग्गुलुर्व्रण्यानाम्।
शिरीषो विषघ्नानाम्।
आमलकं वयस्थापनानाम्।
हरीतकी पथ्यानाम्।
क्षीरघृताभ्यासो रसायनानाम्।
समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणाम्।
सङ्कल्पो नक्ररेतश्च वृष्याणाम्॥

अस13.3
दौर्मनस्यमवृष्याणाम्।
तैलगण्डूषाभयासो दन्तबलरुचिकराणाम्।
चन्दनोदुम्बरं दाहनिर्वापणलेपनानाम्।
रास्नागरुणी शीतापनयनप्रलेपनानाम्।
लामज्जकोशीरे दाहत्वग्दोषस्वेदापनयनप्रलेपनानाम्।
कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनाम्।
मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यबल्यविरेचनीयरोपणीयानाम्।
अजीर्णाशनं ग्रहणीदूषणानाम्।
विरुद्धवीर्याशनं निन्दितव्याधिकराणाम्।
गुरुभोजनं दुर्विपाकानाम्।
अतिमात्राशनमामदोषहेतूनाम्।
यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानाम्।
यथासात्म्यमाहारविहारौ सेव्यानाम्।
एकासनशयनभोजनं सुखनाशकराणाम्।
विषमाशनमग्निवैषम्यकराणाम्।
काले भोजनमारोग्यकराणाम्।
सुदर्शनमन्नं श्रद्धाजननानाम्।
वेगधारणमनारोग्यकराणाम्।
तृप्तिराहारगुणानाम्।
अनशनमायुषो ह्रासकराणाम्।
प्रमिताशनं गवेधुकान्नं च कर्शनीयानाम्।
उद्दालकान्नं रूक्षणीयानाम् मद्यं सौमनस्यजननानाम्।
मद्याक्षेपो धीधृतिस्मृतिहराणाम्।
स्त्रीष्वतिप्रसङ्गः शोषकराणाम्।
शुक्रवेगविनिग्रहः षाण्ढ्यकराणाम् पादाभ्यामुद्वर्तनमन्नश्रद्धाजननानाम्।
सूनादर्शनमन्नाश्रद्धाजननानाम्॥

अस13.4
मिथ्यायोगो व्याधिमुखानाम्।
रजस्वलागमनमलक्ष्मीमुखानाम्।
ब्रह्मचर्यमायुष्याणम्।
परदारगमनमनायुष्याणाम्।
अयथाप्राणमारम्भः प्राणोपरोधिनाम्।
विषादो रोगवर्द्धनानाम्।
हर्षः प्रीणनानाम्।
शोकः शोषणानाम्।
आश्वासो बलकराणाम्।
निर्वृतिः पुष्टिकराणाम्।
पुष्टिः स्वप्नकराणाम्।
स्वप्नः तन्द्रीकराणाम्।
सर्वरसाभ्यासो बलकराणाम्।
एकरसाभ्यासो दौर्बल्यारोचकान्यतमदोषप्रकोपकराणाम्।
गर्भशल्यमाहार्याणाम्।
अग्निरामस्तम्भशीतशूलोद्वेष्टकप्रशमनानाम्।
अजीर्णमुद्धार्याणाम्।
बालो मृदुभेषजार्हाणाम्।
वृद्धो याप्यानाम्।
गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानाम्।
सौमनस्यं गर्भधारणानाम्।
असौमनस्यं दुःखजनानाम्।
सन्निपातो दुश्चिकित्स्यानाम्।
आमविषमचिकित्स्यानाम्।
ज्वरः शीघ्ररोगाणाम्।
कुष्ठं दीर्घरोगाणाम्।
राजयक्ष्मा रोगसमूहानाम्।
प्रमेहोऽनुषङ्गिणाम्।
जलौकसोऽनुशस्त्राणाम्।
बस्तिर्यन्त्राणाम्।
हिमवानौषधभूमीनाम्।
सोम औषधीनाम्।
मरुभूमिरारोग्यदेशानाम्।
आनूपभूमिरहितदेशानाम्।
निर्देशकारित्वमातुरगुणानाम्।
अनिर्देशकारित्वमरिष्टानाम्।
भिषक्चिकित्साङ्गानाम्।
सिद्धिर्वैद्याङ्गानाम्।
नास्तिको वर्ज्यानाम्।
लौल्यं क्लेशकराणाम्।
आत्मवत्तोपकारिणाम्।
शास्त्रसहितस्तर्कः साधकानाम्।
दृष्टकर्मता निस्संशयकराणाम्।
असमर्थता भयंकराणाम्।
तद्विद्यसम्भाषा बुद्धिवर्द्धनानाम्।
आचार्यः शास्त्राधिगमहेतूनाम्।
आयुर्वेदोऽमृतानाम्।
सद्वैद्यद्वेषः प्राणत्यागहेतूनाम्।
सद्वचनमनुष्ठेयानाम्।
वायुः प्राणसंज्ञाप्रदानहेतूनाम्।
सर्वसन्यासः सुखानामिति।
तत्रोदकाग्निमृद्भृष्टलोष्टप्रसादतक्राभ्यासरक्तावसेकैरण्डतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसगर्भिणीनामेकैकस्मात् समुदायाच्च निर्द्धारणम्।
पुष्करमूलादीनां तु समुदायादेवेति॥

अस13.5
भवति चात्र।
अग्र्याणां शतमुद्दिष्टं पञ्च पञ्चाशदुत्तरम्।
अलमेतद्विजानीयाद्धिताहितविनिश्चये॥
इति त्रयोदशोऽध्यायः।

अथ चतुर्दशोऽध्यायः।

अस14.1
अथ शोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस14.2
मदननीमूतकेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरुप्रपुन्नाटानां फलानि शारदानि च हस्तिपर्ण्याः कोविदारकर्बुदारारिष्टश्वगन्धानीपविदुलबिल्वबिम्बीबन्धुजीवकश्वेताशणपुष्पीसदापुष्पीवचाचित्राचित्रकमृगेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादु कण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासप्तपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवानीवृश्चीवपुनर्नवामहा सहाक्षुद्रसहेक्षुकाण्डकालक्तपिप्पलीमूलचविकानलदोशीरह्रीबेरमूलानि। शाल्मलीशेलुकाभद्रपण्यैरावण्यावर्त्तक्युपोदकोद्दालधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः।
प्रियङ्गुपूष्पम्।
तालीसपत्रम्।
हरिद्राशृङ्गवेरकन्दौ।
मधुयष्टीदारुहरिद्रासासौ।
तगरगुडूचीमधुफणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि॥

अस14.3
त्रिवृच्छामादन्तीद्रवन्तीशङ्खिनीसप्तलाजगन्धाजशृङ्गीवचागवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्रस्वपञ्चमूलवृश्चीवपुनर्नवापलङ्कषावास्तुकशाकसालमूलानि।
तिल्वकरम्यककाम्पिल्यकपाटलीत्वच।
त्रिफलापीलुप्रियालकुवलबदरकर्कन्धुकाश्मर्यपरूषकद्राक्षानीलिनीक्लीतनकोदकीर्याविडङ्गपूगपञ्चाङ्गुलफलानि।
चतुरङ्गुलफलपत्राणि।
पूतीकस्य त्वक्फलपत्राणि।
महावृक्षसप्तच्छदज्योतिष्मतीक्षीराणि।
क्षीरमद्यमस्तुतक्रधान्याम्लमूत्राणि चेति विरेचनोपयोगीनि॥

अस14.4
कोशातकीदेवदालीसप्तलाकारवोल्लिकास्वरसमर्कक्षीरमुष्णोदकं चेत्युभयात्मकानि।
बस्तिषु तु तेषु तेष्ववस्थान्तरेषुयान्युपयुज्यन्ते द्रव्याणि तान्यसङ्ख्येयत्वान्नोपदिश्यन्ते।
रसस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत्।
सर्वेषु तु प्रायो मदनकुटज जीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुंसासिद्धार्थकशताह्वाफलानि।
बलादशमूलैरण्डत्रिवृद्वचायष्ट्याह्वकुष्ठरास्नापुनर्नवकत्तृणमूलानि।
सरलदेवदारुहपुषाहिङ्गुरसाञ्जनव्योषपत्रैलामृतायवकोलकुलत्थगुडलवणमस्तुधान्याम्लमूत्रस्नेहक्षीरक्षौद्राणि चेति निरूहोपयोगीनि॥

अस14.5
अपामार्गविडङ्गमरिचपिप्पलीशिरीषविल्वाजाज्यजमोजवार्ताकपृथ्वीकैलाहरेणुफलानि।
तालीसतमालतर्कारीहरितकवर्गपत्राणि।
सर्षपाफलपत्राणि।
शिग्रुफलपत्रत्वचः।
हरिद्रामूलकलशुननागरकन्दपत्राणि।
अतिविषाकन्दाः।
कुष्ठवचाभार्ङ्गीश्वेताकिणिहीनागदन्तीज्योतिष्मतीगवाक्षीवयस्थावृश्चिकालीबम्बीकरञ्जमूलानि।
अर्कालर्कपुष्पमूलानि।
लोध्रमदनसप्तपर्णनिम्बपीलुबीजानि।
मुरुङ्गीमातुलुङ्गीलवङ्गपुष्पाणि।
अगरुसुरदारुसरलसल्लकीजिङ्गिण्यसनरसाञ्जनहिङ्गुलाक्षानिर्यासाः।
तमालसालतालमधूकदार्वीसाराः।
तेजस्विनीमेषशृङ्गीवराङ्गेङ्गुदीबृहतीद्वयचोचत्वचः।
राजादनमज्जक्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्रपित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यान्यपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि॥

अस14.6
मधुकपद्मकमञ्जिष्ठाशारिवामुस्तापुन्नागनागकेसरैलवालुकसुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षाशतपुष्पासल्लकीशर्करामदनकमरुबकन्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वक् पद्मोत्पलानि सर्वगन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि अगरुगुग्गुलुसल्लकीशैलेयकनलदह्रीबेरहरेणूशीरमुस्ताध्यामकवराङ्गश्रीवेष्टकस्थौणेयकपरिपेलवैलवालुककुन्दुरुकसर्जरसयष्ट्याह्वफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जयवतिलमाषकुङ्कुमानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि।
शिरोविरेचनद्रव्याणि गन्धद्रव्याणि च तीक्ष्णानि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि॥

अस14.7
भद्रदारुकुष्ठतगरवरुणबलातिबलार्तगलकच्छुराह्लादिनीकुबेराक्षीवत्सादिन्यर्कालर्ककतकभार्ङ्गीकार्पासीवृश्चिकालीपत्तूरप्रभृतीनि विदार्यादिगणो वीरतरादि स्तृणाख्यवर्ज्यानि षट् पञ्चमूलानि चेति वातशमनानि।
दूर्वानन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयककदलीकन्दलीपयस्यात्मगुप्तानालिकेरखर्ज्जूरद्राक्षाविदारीबदरीबलानागबलानागपुष्पशतावरीशीत पाक्योदनपाकीतृणशूल्यांशुमतीद्वयारिष्टकारिष्टाटरूषकेत्कटर्प्रियङ्गुधातकीधवधवधन्वनस्यन्दनखदिरकदरप्रियालतालसालसर्जतिनिशाश्वकर्णगुन्द्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलिनसौगन्धिकपुण्डरीकशतपत्रशैवालकल्हारोत्पलकाकोल्युत्पलिकाशलूकशृङ्गाटककशेरुकक्रौञ्चादनप्रभृतीनि अन्यानि च शीतवीर्याणि सारिवादिः पद्मकादिः पटोलाअदिर्न्यग्रोधादिर्दाहहरो महाकषायस्तृणपञ्चमूलं चेति पित्तशमनानि।
शीतशिवशतपुष्पासरलसुरदारुरास्नेङ्गु दीसातलासुमनःकाकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यन्यानि च रूक्षोष्णवीर्याण्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकादिर्मुस्तादिः शीतघ्नश्च महाकषायो वल्लीकण्टकपञ्चमूले च श्लेष्मशमनानीति॥

अस14.8
भवति चात्र।
समीक्ष्य दोषदूष्यादीनमी वर्गाः सुयोजिताः।
सर्वामयजयायालं जायन्ते नियतात्मनाम्॥
इति चतुर्दशोऽध्यायः।

अथ पञ्चदशोऽध्यायः

अस15.1
अथातो महाकषायसङ्ग्रहमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः॥

अस15.2
आनन्त्यादौषधानामामयानां चानन्ता एव कषायाः।
ये तु सुतरामुपयोगवन्तः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः।
प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते।
तत्प्रतिपत्यर्थमेव मन्दबुद्धीनाम्।
बुद्धिमतामुदाहरणामात्रप्रदर्शनार्थम्।
शक्यं हि बुद्धिमद्भिः स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाक्षोडविदारीकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम्।
यथोक्तानुसरणमेव तु श्रेयो मन्दबुद्धेरिति।
व्यस्ताश्च ते चत्वारि पञ्चाशदधिकानि तदभिधानान्येव।
यद्यपि तानि तान्येव द्रव्याणीति द्रव्यसङ्करः कषायेषु तथापि न संज्ञाविरोधः।
एकस्यापि बहुकार्यनिर्वर्तनात्।
तत्र लवणवर्ज्या रसाः कल्पनायां कषाया इत्युचयन्ते।
तद्योनित्वात्।
लवणस्य यतो निर्यासादिकल्पनानामसम्भवः।
पृथगुपयोगोपकाररहितत्वाच्च नैरथक्यमिति॥

अस15.3
भवति चात्र।
जीवन्तीकाकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च।
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः॥

अस15.4
वाट्या बला पयस्याकाकोल्याविक्षुवाजिगन्धे च।
क्षीरिणिराजक्षवके भारद्वाजी च बृंहणीयोऽयम्॥

अस15.5
हैमवती चिरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च।
चित्रककटुकातिविषा वर्गोयं लेखनीयाख्यः॥

अस15.6
अर्कैरण्डौ चित्रा चित्रकचिरिबिल्वशङ्खिनीसरला।
हेमक्षीरी कटुका वह्निमुखी भेदनीयोऽयम्॥

अस15.7
मधुमधुकपृश्निपर्णीकट्फललोध्रप्रियङ्गुधातक्यः।
अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानः॥

अस15.8
हिङ्गुमरिचाम्लवेतस दीप्यकभल्लातकास्थिसंयोगात्।
वर्गः सपञ्चकोलो निर्दिष्टो दीपनीयोऽयम्॥

अस15.9
ऐन्द्र्यतिरसा पयस्या ऋष्यप्रोक्ता स्थिरा बलातिबला।
इति बल्यो दशकोऽयं हयगन्धा रोहिणी ऋषभः॥

अस15.10
चन्दनतुङ्गपयस्या सितालतामधुकपद्मकोशरिम्।
वर्ण्यो गणोयमुदितो मञ्जिष्ठासारिवासहितः॥

अस15.11
हंसपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि।
कैडर्यमधुककृष्णाः सविदार्यः कण्ठजननानि॥

अस15.12
वृक्षाम्लबदरदाडिमकुवलाम्राम्रातालिकुचकरमर्दम्।
हृद्यं समातुलुङ्गाम्लवेतसं विद्धि वर्गमिमम्॥

अस15.13
नागरचविकाचित्रकविडङ्गमूर्वामृतावचामुस्ताः।
सहपिप्पलीपटोलास्तृप्तिघ्नोऽयं गणः प्रथितः॥

अस15.14
कुटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः।
धन्वयवासं पथ्या दारुहरिद्रागणोऽयमर्शोघ्नः॥

अस15.15
खदिरामलकारुष्करनिशाभयासप्तपर्णकरवीराः।
कुष्ठाघ्नाश्चतुङ्गुलविडङ्गजातिप्रवालाश्च॥

अस15.16
नलदकृतमालचन्दनसर्षपघननिम्बकुटजमधुकानि।
कण्डूं दारुहरिद्रासनक्तमालानि निघ्नन्ति॥

अस15.17
अक्षीवमरिचकेबुकविडङ्गगण्डीरकिणिहिनिर्गुण्ड्यः।
घ्नन्ति क्रिमीन् श्वदंष्ट्राविषाखुपर्ण्यस्तथा न चिरात्॥

अस15.18
मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः।
सैलाचन्दनकत्काः ससिन्दुवारा विषं घ्नन्ति॥

अस15.19
शालिकुशकाशषष्टिकवीरणदर्भेक्षुवालिकेक्षूणाम्।
तद्वद् गुन्द्रोत्कटयोर्मूलमलं स्तन्यजननाय॥

अस15.20
पाठानागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः।
कटुकाकिराततिक्तं वर्गोऽयं स्तन्यशुद्धिकरः॥

अस15.21
मेदाकाकोलीद्वयवृक्षरुहाजीवकर्षभकुलिङ्गाः।
शुक्रजननो गणोऽयं सह जटिलाशूर्पपर्णीभिः॥

अस15.22
कुष्ठैलवालुककट्फलकाण्डेक्ष्विक्ष्वब्धिफेनकोशीरैः।
वसुकेक्षुरकैः शुक्रं शुध्येत् सकदम्बनिर्यासैः॥

अस15.23
द्राक्षाकाकोलीद्वय मधुपर्णीमधुकजीवकविदार्यः।
स्नेहोपगाः समेदा जीवन्तीशालिपर्णीकाः॥

अस15.24
सौभञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि।
स्वेदोपगानि विद्यात् सयवतिलार्कोरुपूगानि॥

अस15.25
लाजाम्रबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि।
जम्ब्वाम्रपल्लवानि च वमिनिग्रहणानि मृत्सा च॥

अस15.26
नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः।
भूनिम्बघनपटोली कुस्तुम्बर्यस्तृषं घ्नन्ति॥

अस15.27
बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृङ्ग्यः।
हिध्मां निघ्नन्ति शटी दुरालभा बदरबीजं च॥

अस15.28
शामानन्ता पद्मा कट्वङ्गः पद्मकेसरं लोध्रम्।
धातकिकुसुमसमङ्गामोचरसाम्रास्थि विड्ग्रहणम्॥

अस15.29
जम्बूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्र्याह्वम्।
भृष्टा च मृत् पयस्या सशाल्मली विड्विरजनानि॥

अस15.30
जम्ब्वाम्रोदुम्बरवटकपीतनप्लक्षपिप्पलाश्मन्तम्।
भल्लातसोमवल्कं मूत्रग्रहणाय् निर्दिष्टम्॥

अस15.31
कमलनलिनकुमुद मधुकसौगन्धिकधातकीलताकुसुमम् मूत्रं नयति विरागं सोत्पलशतपत्रपुण्डरीकं च॥

अस15.32
वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशिरकुशकाशाः।
मूत्रं विरेचयेयुर्गुन्द्रा पाषाणभेदश्च॥

अस15.33
द्राक्षामलकपुनर्नबवृश्चीवदुरालभाभयाकृष्णाः।
कासं घ्नन्ति सशृङ्गी तामलकी कण्टकारी च॥

अस15.34
चण्डाम्लवेतसशटी तामलकीसुरसहिङ्गुजीवन्त्यः।
पुष्करमूलैलागुरुवर्गोऽयं श्वासशमनाय॥

अस15.35
द्राक्षापीलुपरूषकमञ्जिष्ठासारिवामृतापाठाः।
त्रिफला चेति गणोऽयं ज्वरस्य शमनाय् निर्दिष्टः॥

अस15.36
दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि।
श्रमनाशनानि विद्याद् द्राक्षाखर्ज्जूरसहितानि॥

अस15.37
पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदीच्यम्।
काश्मर्यफलं चन्दनमेष गणो दाहहा प्रोक्तः॥

अस15.38
नतनागरागुरुवचाधान्यकभूतीकपिप्पलीव्याघ्रयः।
शीतं शमयन्त्यचिरात् स्योनाकः साग्निमन्थश्च॥

अस15.39
तिन्दुकप्रियालवीजकसप्तच्छदखदिरकदरबदराणि।
अरिमेदवाजिकर्णौ ककुभश्चोदर्दशमनानि॥

अस15.40
काकोल्येला सेव्यं निदिग्धिके शालिपृश्निपर्ण्यौ च।
घ्नन्त्यङ्गमर्दमचिराचन्दनमधुकोरुबूकं च॥

अस15.41
दीप्यकमरिचाजाजीगण्डीरं साजगन्धमथ शूलम्।
शमयति सपञ्चकोलं शोफं दशमूलमाद्यं च॥

अस15.42
मधुमधुकलाजगैरिकफलिनीमोचरसमृत्कपालानि।
संस्थापयन्ति रुधिरं रुधिरं च सशर्करं लोध्रम्॥

अस15.43
शैलैलवालुकट्फलमोचरसाशोकपद्मकशिरीषम्।
स्थापयति वेदनामथ सहतुङ्गकदम्बविदुलं च॥

अस15.44
कैडर्यहिङ्गुचोरकपलङ्कषाशोकरोहिणिवयस्थाः।
पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः॥

अस15.45
ऐन्द्री दूर्वामोघाविष्वक्सेना व्यथा शिवारिष्टा।
ब्राह्मी सवाट्यपुष्पी शतवीर्या स्थापयेद् गर्भम्॥

अस15.46
अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरायुक्ता।
मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः॥

अस15.47
इति नानाविधव्याधिविघातार्थमुदाहृताः।
योगा रोगातुरवशात् कल्पयेत्तान् यथायथम्॥
इति पञ्चदशोऽध्यायः।

अथ षोडशोऽध्यायः।

अस16.1
अथातो विविधद्रव्यगणसङ्ग्रहमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस16.2
विदारिपञ्चाड्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः।
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी॥

अस16.3
विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा।
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः॥

अस16.4
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्।
यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्॥

अस16.5
पद्मकपुण्ड्रौ वृद्धितुगर्ध्यः शृङ्ग्यमृता दश जीवनसंज्ञाः।
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः॥

अस16.6
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्।
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्।
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्।
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्॥

अस16.7
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्।
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्॥

अस16.8
गुडूचीपद्मकारिष्टधानका रक्तचन्दनम्।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्॥

अस16.9
आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठाः। भूनिम्बसैर्यकपटोलकरञ्जयुग्मसप्तच्छदाग्निसुषवीफलबाणघोण्टाः॥

अस16.10
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्।
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः॥

अस16.11
असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः।
त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः॥

अस16.12
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्।
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः॥

अस16.13
वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः।
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः॥

अस16.14
वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति।
आढ्यवातं शिरश्शूलं गुल्मं चान्तः सविद्रधिम्॥

अस16.15
ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्।
सशिलाजतु कृच्छ्राश्मगुल्ममेदः कफापहम्॥

अस16.16
भवन्ति चात्र वीरतरारणिकौ नगगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम्।
मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च॥

अस16.17
वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः॥

अस16.18
लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः।
कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः॥

अस16.19
एष लोध्रादिको नाम मेदःकफहरोगणः।
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः॥

अस16.20
अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या।
प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः॥

अस16.21
अयमर्कादिको वर्गः कफमेदोविषापहः।
कृमिकुष्ठप्रशमनो विशेषात् व्रणशोधनः॥

अस16.22
सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः।
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी॥

अस16.23
सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः।
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः॥

अस16.24
मुष्ककस्नुग्वराद्वीपीपलाशधवशिंशपाः।
गुल्ममेहाश्मरीपाण्डुमेदोऽर्शःकफशुक्रजित्॥

अस16.25
वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः।
रोहिणीस्थपनिहिंगुभार्ङ्गयः शूलघाति दशकं घुणप्रिया॥

अस16.26
वत्सकाद्योऽनिलश्लेष्ममेदोऽरोचकपीनसान्।
शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः॥

अस16.27
वचाजलददेवाह्वनागरातिविषाभयाः।
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः॥

अस16.28
वचाहरिद्रादिगणावामातीसारनाशनौ।
मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ॥

अस16.29
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता।
सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः॥

अस16.30
अम्बष्ठामधुकनमस्करीनन्दीवृक्षपलाशकच्छुराः।
लोध्रं घातकिविल्वपेशिका वटवङ्गः कमलोद्भवं रजः॥

अस16.31
गणौ प्रियङ्ग्वम्बष्ठादी पक्वतीसारनाशनौ।
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ॥

अस16.32
मुस्तावचाग्निद्विनिशाद्वितिक्ताभल्लातपाठात्रिफलाविषाख्याः।
कुष्ठं त्रुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च॥

अस16.33
न्यग्रोधपिप्पलसदाफललोध्रयुग्मजम्बूद्वयार्जुनकपीतनसोमवल्काः।
प्लक्षास्रवञ्जुलप्रियालपलाशनन्दीकोलीकदम्बविरलामधुकं मधूकम्॥

अस16.34
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः॥

अस16.35
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकस्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः।
शुक्तिव्याघ्रनखौ सुराह्वमगरुःश्रीवासकःकुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराःपुन्नागनागाह्वयम्॥

अस16.36
एलादिको वातकफौ विषं च विनियच्छति।
वर्णप्रसादनः कण्डूपिटकाकोठनाशनः॥

अस16.37
श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्णक्षीरिगवाक्षीशिखरिरजनिका छिन्नरोहा करञ्जः।
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृछ्रम्॥

अस16.38
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गुहिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति॥

अस16.39
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः।
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः॥

अस16.40
पञ्चविंशीतरित्युक्ता वर्गास्तेषु त्वलाभतः।
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्॥

अस16.41
एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः।
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृछ्रान्॥
इति षोडशोऽध्यायः।

अथ सप्तदशोऽध्यायः।

अस17.1
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस17.2
इह हि द्रव्यं पञ्चमहाभूतात्मकम्।
तस्याधिष्ठानं पृथिवी योनिरुदकं खानिलानलसमवायान्निर्वृत्तिविशेषौ।
उत्कर्षेण तु व्यपदेशः।
तस्माद्भूतसमवायसम्भवान्नैकरसं द्रव्यम्।
ततश्च नैकदोषा व्याधयः॥

अस17.3
तत्र व्यक्तो रसः।
अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो वा किञ्चिदन्ते।
रसस्य तु छेदनोपशमने द्वे कर्मणी।
हिताहितौ प्रभावौ।
तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषु गुणाः प्रकृतिविकृतिविचारदेशकालवशाद्गुर्वादयो रसेषु साहचर्यादुपचर्यन्ते॥

अस17.4
तत्र द्रव्यं गुरुकठिनविशदमन्दसान्द्रस्थूलस्थिरगन्धगुणबहुलं पार्थिवं उपचयगौरवसङ्घातस्थैर्यकरम्॥

अस17.5
द्रवस्निग्धशीतगुरुमन्दसान्द्रसरमृदुपिच्छिलरसगुणबहुलमौदकं उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकरम्॥

अस17.6
तीक्ष्णोष्णरूक्षसूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं दाहपाकप्रकाशप्रभावर्णकरम्॥

अस17.7
रूक्षसूक्ष्मलघुविशदविकाषिव्यवायिशीतखरस्पर्शगुणबहुलं वाय्व्यं रौक्ष्यलाघववैशद्यग्लानिविचारकरम्॥

अस17.8
सूक्ष्मलघुविशदश्लक्ष्णव्यवायिविविक्तशब्दगुणबहुलमाकाशात्मकं सौषिर्यलाघवकरम्॥

अस17.9
इत्थं च नानौषधभूतं जगति किञ्चिद् द्रव्यमस्ति विविधार्थप्रयोगवशात्॥

अस17.10
तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागिकम्।
तयोर्हिलाघवादूर्ध्वगतित्वाच्चाग्नेः प्लवनत्वाच्च मारुतस्य॥

अस17.11
भूम्यौदकात्मकं तु प्रायेणाधोभागिकम्।
तयोर्हि गौरवानिम्नगत्वाच्च तोयस्य॥

अस17.12
व्यामिश्रात्मकमुभयतोभागम्॥

अस17.13
शमनं तु दोषविपरीतगुणमुक्तं प्राक्।
तत्सङ्करे च यतो बाहुल्येन कार्यकर्तृत्वं भवति यदेवाधिकं तदेव तत्कार्यकरमिति व्यपदेशः।
तथानिलात्मकं ग्राहि।
अनलात्मकं दीपनपाचनम्।
उभयात्मकं लेखनम्।
भूम्युदकात्मकं बृंहणम्॥

अस17.14
तत्र कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः।
तिक्तकषायमधुराः शीताः॥

अस17.15
तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रमारुताः।
लवणाम्लमधूराःस्निग्धाःसृष्टविण्मूत्रमारुताः॥

अस17.16
लवणकषायमधुरा गुरवः।
तद्वदम्लकटुकतिक्ता लघवः।
अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छन्ति॥

अस17.17
वीर्यं तु केचिद् गुरुलघुस्निग्धरूक्षतीक्ष्णमन्दशीतोष्णभेदेनाष्टविधमाहुः।
अपरे पुनः पठन्ति॥

अस17.18
वीर्यं द्रव्यस्य तद्ज्ञेयं यद्योगात् क्रियते क्रिया।
नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा॥

अस17.19
तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौधगुणसारभूतानामष्टानामेव गुर्वादीनां वीर्यसंज्ञा विशिष्टाम्नायविहितापि लौकिकीति समुद्भाव्यते।
तथा हि तया रसविपाकगुणान्तरविजयिनो भूयांसश्च वरिष्ठाश्च गुणाः सङ्गृहीताः।
विशेषवृत्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवृत्तितो भवति।
अत एव सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः।
सत्यपि च क्रियानिर्वर्त्तनसामान्ये तद्विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञया वा न परामृश्यन्ते॥

अस17.20
अन्ये तु गुर्वादीनामग्नीषोमात्मकत्वादादानविसर्गविभाअगेन कालस्य चोष्णशीतात्मकत्वाद् द्विविधमेवामनन्ति।
एवं चाहुः॥

अस17.21
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्॥

अस17.22
तत्रोष्णं दहनपचनस्वेदनविलयनानिलकफशमनानि करोति॥

अस17.23
शीतं ह्लादनस्तम्भनजीवनरक्तपित्तप्रसादनादीनि॥

अस17.24
इति वीर्यमुक्तं विपाकस्तूच्यते।
विपाकस्तु प्रायः स्वादुः स्वादुलवणयोरम्लोऽम्लस्य कटुरितरेषाम्।
रसैरसौ तुल्यफलः॥

अस17.25
द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत्॥

अस17.26
पराशरस्तु पठति।
पाकास्त्रयो रसानामम्लोऽम्लं पच्यते कटुः कटुकम्।
चत्वारोऽन्ये मधुरं सङ्कीर्णरसास्तु सङ्कीर्णम्॥

अस17.27
कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः।
तेषां पित्तविघाते तिक्तकषायौ कथं भवतः॥

अस17.28
तत्र यन्मधुरं रसविपाकयोः शीतवीर्यं च द्रव्यं यच्चाम्लं तयोरुष्णवीर्यं च यद्वा कटुकं तेषां यथास्वं रसेभ्यः प्रायो गुणान् दोषकोपशमनत्वं च विद्यात्।
तद्यथा क्षीरमदिरामरिचादीनाम्॥

अस17.29
रसादिसङ्करेण त्वन्यथात्वम्।
यथा मधु मधुरं श्लेष्माणं शमयति कटुविपाकतया।
सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च।
तथा यवोऽपि।
आनूपौदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात्।
तथा तैलं कटुविपाकतया च विपाकत एव बद्धविण्मूत्रम्।
अम्लं काञ्जिकं कफं जयति रूक्षोष्णत्वात् कपित्थं तु रौक्ष्यात् पित्तं तु शीतवीर्यत्वात्।
आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातम्।
लवणं सैन्धवं स्वादुपाकतया पित्तं जयति लाघवात् कफं जयति।
कटुकापि शुण्ठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपयति पिप्पली च।
लशुनोऽपि स्नेहौष्ण्यगौरवैः।
पलाण्डुश्च।
स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम्।
वृद्धं च मूलकं स्वादुपाकतया।
स्निग्धानि तिक्तानि व्याघ्रीविशल्यार्कागरूण्युष्णवीर्यत्वात् पित्तं जनयन्ति।
कषायतिक्तं महत् पञ्चमूलं वातं जयति न तु पित्तं उष्णवीर्यत्वात्।
कषायश्च कुलत्थोऽम्लपाकतया चेत्येतन्निदर्शनमात्रमुक्तम्॥

अस17.30
तस्मात्।
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्।
द्रव्यं गुणेन वीर्येण प्रभावेणैव किञ्चन॥

अस17.31
यदद् द्रव्ये रसादीनां बलवत्त्वेन वर्तते।
अभिभूयेतरांस्तत्तत् कारणत्त्वं प्रपद्यते॥

अस17.32
विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते॥

अस17.33
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति।
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्॥

अस17.34
विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने।
नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा॥

अस17.35
रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः।
एकरूपा विरूपा वा द्रव्यं समधिशेरते॥

अस17.36
माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः।
सह वृत्त्या स्थिताः क्षीरे नत्वानूपौदकामिषे॥

अस17.37
गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः।
स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः॥

अस17.38
रसं विद्यान्निपातेन तेनाधिवसनेन च।
वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया॥

अस17.39
मधुरस्कन्धनिर्दिष्टघृततैलगुडादिषु।
गुणास्वादादीभेदेन रसषट्कं न युज्यते॥

अस17.40
अस्तु भेदादसङ्ख्यत्वमैक्यं वास्वादलक्षणात्।
भूतोत्कर्षापकर्षेण भेदो योऽल्पेन कल्प्यते॥

अस17.41
सङ्कीर्णत्वात् फले चासौ तुल्यत्वान्न विवक्ष्यते।
गुर्वादीनां विशेषेऽपि स्वजातेरनतिक्रमात्॥

अस17.42
सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः।
दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु॥

अस17.43
न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः।
आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम्॥

अस17.44
गुर्वाअंद्या वीर्यमुच्यन्ते शक्तिमन्तोऽन्यथागुणाः।
परसामर्थ्यहीनत्वात् गुणा एवेतरे गुणाः॥

अस17.45
यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम्।
यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम्॥

अस17.46
याति तैलं च कटुतां कटुकापि न पिप्पली।
यथारसत्वे पाकानां न स्यादेवं विपर्ययः॥

अस17.47
यस्मादृद्ष्टो यवः स्यादुर्गुरुरप्यनिलप्रदः।
दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी॥

अस17.48
कटुपाकोऽपि पित्तघ्नो मुद्गो माषस्तु पित्तलः।
स्वादुपाकोऽपि चलकृत् स्निग्धोष्णं गुरु फाणितम्॥

अस17.49
रसः स्वादुर्यथा चैतत्तथान्येष्वपि दृश्यते।
वातलं कफपित्तघ्नमम्लमप्याक्षकीफलम्॥

अस17.50
कुरुते दधि गुर्वेव वह्निं पारावतं न तु।
कपित्थं दाडिमं साम्लं ग्राहि नामलकीफलम्॥

अस17.51
कषाया ग्राहिणी शीता धातकी न हरीतकी।
अप्रधानाः पृथक् तस्माद्रसाद्याः संश्रितास्तुते॥

अस17.52
प्रभावश्च यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतम्।
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्॥

अस17.53
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी।
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्॥

अस17.54
कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्।
लशुनो वातकफकृन्न तु तैरेव यद्गुणैः॥

अस17.55
मिथो विरुद्धान् वातादीन् लोहिताद्या जयन्ति यत्।
कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम्॥

अस17.56
शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये।
मणिमन्त्रौषधीनां च यत् कर्मविविधात्मकम्॥

अस17.57
शल्याहरणपुञ्जन्मरक्षायुर्द्धीवशादिकम्।
दर्शनाद्यैरपि विषं यन्नियच्छति चागदः॥

अस17.58
विरेचयति यद् वृष्यमाशु शुक्रं करोति वा।
ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादि च॥

अस17.59
मात्रादि प्राप्य तत्तच्च यत् प्रपञ्चेन वर्णितम्।
तच्च प्रभावजं सर्वमतोऽचिन्त्यः स उच्यते॥

अस17.60
रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेन च यद्विदध्यात्।
सद्योऽन्यथा तत् कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरोऽस्ति॥
इति सप्तदशोऽध्यायः।


अथ अष्टादशोऽध्यायः

अस18.1
अथातो रसभेदीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस18.2
रसः खल्वाप्यः प्रागव्यक्तश्च।
स षडृतुकत्वात् कालस्य महाभूतगुणैरूनातिरिक्तैः संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन॥

अस18.3
तत्र भूजलयोर्बाहुल्यान्मधुरो रसः।
भूतेजसोरम्लः।
जलतेजसोर्लवणः।
वाय्वाकाशयोस्तिक्तः।
वायुतेजसोः कटुकः।
वायूर्व्योः कषायः॥

अस18.4
तेषां स्वादुरास्वाद्यमानो मुखमुपलिम्पतीन्द्रियाणि प्रसादयति।
देहं प्रह्लादयति।
षट्पदपिपीलिकादीनामपीष्टतमः।
अम्लस्तु जिह्वामुद्वेजयत्युरःकण्ठं विदहति।
मुखं स्रावयत्यक्षिभ्रुवं सङ्कोचयति दशनान् हर्षयति रोमाणि च।
लवणो मुखं विष्यन्दयति कण्ठकपोलं विदहति अन्नं प्ररोचयति।
तिक्तो विशदयति वदनं विशोधयति कण्ठं प्रतिहन्ति रसनाम्।
कटुको भृशमुद्वेजयति जिह्वाग्रं चिमिचिमायति कण्ठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहम्।
कषायस्तु जडयति जिह्वां बध्नाति कण्ठं पीडयति हृदयम्॥

अस18.5
तत्र मधुरो रसो जन्मप्रभृतिसात्म्यात् सर्वधातुविवर्धनः आयुष्यो बालवृद्धक्षतक्षीणबलवर्णेन्द्रियत्वक्केशकण्ठहितः प्रीणनो बृंहणो जीवनस्तर्पणः स्थैर्यसन्धानः स्तन्यकरो वातपित्तविषदाहमूर्छातृष्णाप्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च॥

अस18.6
एवंगुणोऽपि स सदात्युपयुज्यमानः स्थौल्याग्निसादगुरुतालसकातिन्द्रियाः।
श्वासप्रमेहगलरोगाविसंज्ञतास्यमाधुर्यलोचनगलार्बुदगण्डमालाः॥

अस18.7
छर्द्युदर्दमूर्द्धरुक्कासपीनसक्रिमीन् श्लीपदज्वरोदरष्ठीवनानि चावहेत्॥

अस18.8
अम्लोऽनिलनिबर्हणोऽनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शोबोधयतीन्द्रियाणि।
रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च॥

अस18.9
जनयति शिथिलत्वं सेवितः सोतिदेहे कफविलयनकण्डूपाण्डुतादृग्विघातान्।
क्षतविहितविसर्पं रक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वात् भ्रमं च॥

अस18.10
लवणः स्तम्भबन्धसङ्घातविध्मापनः सर्वरसप्रत्यनीको दीपनो रोचनः पाचनः क्लेदनः शोषणः स्नेहनः स्वेदनो भेदनः छेदनः सरो व्यवायी विकाषी हरति पवनं विष्यन्दयति कफं विशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्ष्णोष्णश्च॥

अस18.11
खलतिपलिततृष्णातापमूर्च्छाविसर्पश्वयथुकिटिभकोष्ठाक्षेपरोधास्रपित्तम्।
क्षतविषमदवृद्धिं वातरक्तं करोति क्षपयति बलभोजः सोति वा सेवनेन॥

अस18.12
तिक्तः स्वयमरोचिष्णुररुचिविषकृमिमूर्च्छोत्क्लेदज्वरदाहतृटकुष्ठकण्डूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोषणो दीपनः पाचनो लेखनः स्तन्यकण्ठविशोधनो मेध्यो नातिरूक्षः शीतो लघुश्च॥

अस18.13
धातुबलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरुषत्वम्।
खरविशदरौक्ष्यभावैः सोति समासेवितःकुर्यात्॥

अस18.14
कटुकोऽलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठकण्डूप्रसाधनो व्रणावसादनः स्नेह क्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसंघातं छिन्नत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्ष्णोष्णश्च॥

अस18.15
कुरुतेऽतिनिषोवितः स तृष्णामदमूर्च्छावमिमोहदेहसादान्।
बलशुक्रगलोपशोषकम्पभ्रमतापग्लपनातिकर्शनानि॥

अस18.16
करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्यकोपमतितीव्रम्।
सङ्काचतोदभेदैर्वाव्यग्निगुणाधिकत्वेन॥

अस18.17
कषायो बलासं सपित्तं सरक्तं निहन्त्याशु बध्नाति वर्चोतिरूक्षः।
गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषी हिमः प्रीणनो रोपणो लेखनश्च॥

अस18.18
अत्यभ्यासात् सोऽपि शुक्रोपरोधं तृष्णाध्मानस्तम्भविष्टम्भकार्श्यम्।
स्रोतोबन्धं वातविण्मूत्रसङ्गं पक्षाघाताक्षेपकादींश्च कुर्यात्॥

अस18.19
अथ मधुरस्कन्धो घृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाक्षोडखर्जूरमोचचोचपनससिञ्चतिकाप्रियालराजादनखर्यूरीतालमस्तककाश्मर्यमधूकपरूषकतामलकीवीराविदारीशतावरीतुगाक्षीरीजीवकर्षभक्षीरशुक्लामधूलिकात्मगुप्ताबलातिबलाविश्वदेवासहदेवासालपर्णीमुद्गपर्णीपृश्निपर्णीमषपर्णीमहासहाक्षुद्रसहाऋद्धिवृद्धिश्रावणीच्छत्रातिच्छत्रर्श्यर्पोक्ताश्व गन्धाश्वदंष्ट्रामृणालिकापुष्करबीजशृङ्गाटककशेरुकतककनकबिम्बीप्रपौण्डरीकप्रभृतीनि जीवनीयो गणस्तृणपञ्चमूलं च॥

अस18.20
अम्लद्रव्यस्कन्धो दाडिमामलकाम्राम्रातककोशाम्रमातुलुङ्गवृक्षाम्लाम्लीकाम्लेवतसकुवललकुचपारावतभव्यकरमर्दधवधन्वनकोलबदरैरावतकपित्थदन्तशठप्राचीनामलकनारङ्गतिलकण्टकरूप्यदधिमस्तुतक्रधान्याम्लमद्यशुक्तप्रभृतीनि॥

अस18.21
लवणद्रव्यस्कन्धः सैन्धवादीनि क्षारान्तानि त्रपुसीसप्रभृतीनि॥

अस18.22। तिक्तद्रव्यस्कन्धोऽगरुतगरोशीरवालकचन्दननलदकृतमालनक्तमालापामार्गहरिद्राद्वयमुस्तमूर्वामदनफलाजशृङ्गीत्रायमाणाकटुकाकिराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठाविकङ्कतार्ककाकमाचीवचावरणवत्सकवैजयन्तीवेतससप्तपर्णसोमवल्कसुमनःकांस्यलोहप्रभृतीनि पटोलादिश्च शाकवर्गः॥

अस18.23
कटुकद्रव्यस्कन्धो मरिचहिङ्गुतेजोवतीहस्तिपिप्पलीविडङ्गभल्लातकास्थिमूलकसर्षपलशुनपलाण्डुकरञ्जमनश्शिलालदेवदारुकुष्ठैलासुरसचोरकहरेणुकामूत्रपित्तप्रभृतीनि कुठेरादिश्च हरितवर्गः पञ्चकोलं च॥

अस18.24
कषायद्रव्यस्कन्धो हरीतकीप्रियङ्ग्वनन्ताक्षौद्रलोध्रकट्फलधवधन्वनधात्रीफलधातकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुकोत्पलतुङ्गतिन्दुककदम्बोदुम्बरजम्ब्वाम्रप्लक्षवटबिभीतकविकङ्कतजम्ब्वाम्रास्थ्यामकपित्थाश्वत्थमोचरससमङ्गासोमवल्कसप्तपर्णस्यन्दनासनसल्लकीसालतालप्रियालैलावास्तुकपरिपेलवजिङ्गिणीबदरीखदिरकदरारिमेदकाशकशेरुकवंशाश्मन्तकाशोकशिरीषशिंशपापलाशशमशिणशङ्खनाभिमेषशृङ्गीतरुणखर्ज्जूरस्फूर्ज्जकभूर्ज्जार्जुनाजकर्णवरणप्रियालमुक्ताञ्जनैगरिकबिसमृणालप्रभृतीनि॥

अस18.25
तत्र प्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजाङ्गलमांसात्।
प्रायोऽम्लं पित्तलमन्यत्र दाडिमामलकात्।
प्रायोलवणमचक्षुष्यमन्यत्र सैन्धवात्।
प्रायस्तिक्तकटुकं वातलमवृष्यं चान्यत्रामृतापटोलीनागरपिप्पलीलशुनात्।
प्रायः कषायं शीतं स्तम्भनं चान्यत्र हरीतक्याः॥

अस18.26
इति यथास्थूलं नित्योपयोगिनां प्रधानतमानां चोपसङ्ग्रहः॥

अस18.27
घृतामलकसिन्धूत्थपटोलीनागराभयाः।
श्रेष्ठा यथास्वं स्कन्धेषु रसदेशस्तु वक्ष्यते॥

अस18.28
अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतटाकपल्वलोदपानकमलकुमुदकुवलयावकीर्णोरम्यः स्थिरस्निग्धभूमिर्भूरिहरिततृणोऽतिदूरविस्तृतप्रतानप्रवालोपसंच्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापाचींज्वराद्यामयोपद्रुतजनपदः सोऽनूपो मधुररसयोनिः॥

अस18.29
यस्तु विषमविपुलसिकतास्थलबहुलोऽतिदूरावगाढविरससलिलः क्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदोऽनूपरीतश्च स जाङ्गलः कटुकरसयोनिः।
अत एव चानूपसाधारणो जाङ्गलसाधारणश्च विकल्प्यः।
तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः।
संयोगास्त्वेषां सप्तपञ्चाशद्भवन्ति।
भवन्ति चात्र॥

अस18.30
स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम्।
द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशैव ते॥

अस18.31
त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः।
त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते॥

अस18.32
स्वादुर्दशैवमम्लः षट् संयोगान् पूर्ववत्क्रिया।
लवणस्त्रीन् भजत्येकं तिक्त एवं तु विंशतिः॥

अस18.33
स्वादुश्चाम्लश्चतुष्केषु षट् त्रयं लवणानुगः।
एकं तिक्तयुतो याति दशैव मधुरो रसः॥

अस18.34
चत्वारोऽम्लः पटुश्चैकं भेदाः पञ्चदशेति च।
एकैकस्य परित्यागात् संयोगाः पञ्चके च षट्॥

अस18.35
एकश्च षड्रसः षट् च पृथगेवं त्रिषष्टिधा।
ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च।
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः॥
इति अष्टादशोऽध्यायः।

अथ एकोनविंशोऽध्यायः।

अस19.1
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
दोषधातुमलमूलो हि देहः।
तस्मात्तेषां लक्षणमुपदेक्ष्यामः।
तमुच्छ्वासनिश्वासोत्साहप्रस्पन्दनेन्द्रियपाटववेगप्रवर्तनादिभिर्वायुरनुगृह्णाति।
पक्त्यूष्माभिलाषक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्यमार्दवादिभिः पित्तम्।
स्थैर्यस्नेहसन्धिबन्धवृषताक्षमाधीधृतिबलालौल्यादिभिः श्लेष्मा॥

अस19.2
तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः।
जीवनवर्णप्रसादनमांसपोषणैरसृक्।
देहलेपमलमेदःपुष्टिभिर्मांसम्।
नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्मेदः।
देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि।
स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा।
हर्षबलगर्भोत्पादनैः शुक्रम्।
अवष्टम्भानिलानलधारणैः शकृत्।
अन्नक्लेदनिर्वाहणेन मूत्रम्।
क्लेदत्वक्स्नेहरोमधारणैः स्वेद इति॥

अस19.3
कार्श्यकार्ष्ण्यगात्रकम्पस्फुरणोष्णकामितासंज्ञानिद्रानाशबलेन्द्रियोपघातास्थिशूलमज्जाशोषमलसङ्गाध्मानाटोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति।
पीतत्वग्ग्लानीन्द्रियदौर्बल्यौजोविस्रंसशीताभिलाषदाहतिक्तास्यतातृण्मूर्च्छाल्पनिद्रताक्रोधादिभिः पित्तम्।
श्वैत्यशैत्यस्थौल्यालस्यगौरवाङ्गसादस्रोतःपिधानमूर्च्छातन्द्रानिद्राश्वासकासप्रसेकहृल्लासाग्निसादसन्धिविश्लेषादिभिः श्लेष्मा॥

अस19.4
प्रसेकारोचकास्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषाङ्गमर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैः रसः।
कुष्ठविसर्पपिटकासृग्दराक्षिमुखमेढ्रगुददाहगुल्मविद्रधिप्लीहव्यङ्गकामलाग्निनाशतमःप्रवेशरक्ताङ्गनेत्रतावातरक्तपित्तादिभिरन्यैश्च पित्तविकारप्रायैरसृक्।
गलगण्ड गण्डमालार्बुदग्रन्थितालुजिह्वाकण्ठरोगस्फिग्गलौष्ठबाहूदरोरुजङ्घागौरववृद्धिभिः श्लेष्मरक्तविकारप्रायैश्च मांसम्।
प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्चान्यैरपि श्लेष्मरक्तमांसविकारप्रायैर्मेदः।
अध्यस्थिभिरधिदन्तैश्चास्थि।
नेत्राङ्गरक्तगौरवैः पर्वसु च स्थूलमूलारुर्भिर्मज्जा।
अतिस्त्रीकामताशुक्राश्मरीसम्भवाभ्यां शुक्राधिक्यम्।
कुक्षिशूलाटोपगौरवैः शकृदाधिक्यम्।
बस्तितोदाध्मानैर्मूत्राधिक्यम्।
कण्डूदौर्गन्ध्यैः स्वेदः।
अन्येऽपि च दूषिकादिमला बाहुल्यद्रवताकण्डूगौरवैः॥

अस19.5
प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहर्षाङ्गसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति।
स्तम्भशैत्यानियततोदारोचकाविपाकाङ्गपारुष्यकम्पगौरवनखनयनशौक्ल्यादिभिः पित्तम्।
भ्रमोद्वेष्टनानिद्राङ्गमर्दपरिप्लोषतोददवदाहस्फोटनवेपनधूमायनसन्धिशैथिल्यहृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा॥

अस19.6
शब्दासहत्वहृदयद्रवकम्पशोषशूलशून्यतास्पन्दनघट्टनैरल्पयापि च चेष्टया श्रमतर्षाभ्यां रसः।
त्वग्रौक्ष्याम्लशीताभिलाषसिराशैथिल्यैरसृक्। स्फिग्गण्डादिशुष्कतातोदरौक्ष्याक्षग्लानिसन्धिस्फोटनधमनीशैथिल्यैर्मांसम्।
प्लीहवृद्धिकटीस्वापसन्धिशून्यताङ्गरौक्ष्यकार्श्यश्रमशोषमेदुरमांसाभिलाषैर्मांसक्षयोक्तैश्च मेदः।
दन्तनखरोमकेशशातनरौक्ष्यपारुष्यसन्धिशैथिल्यास्थितोदास्थिबद्धमांसाभिलाषैरस्थि।
अस्थिसौषिर्यनिस्तोददौर्बल्यभ्रमतमोदर्शनैर्मज्जा।
श्रमदौर्बल्यास्यशोषतिमिरदर्शनाङ्गमर्दपाण्डुतासदनक्लैब्यमुष्कतोदमेढ्रधूमायनैश्चिराच्च निषेकेण सरक्तनिषेकेण वा शुक्रम्।
सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनान्त्रवेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत्।
बस्तिनिस्तोदमुखशोषकृछ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रम्।
स्तब्धरोमकूपतारोमच्यवनत्वक्परिपाटनस्वापपारुष्यस्वेदनाशैः स्वेदः॥

अस19.7
अन्येऽपि च मला यथायथं मलायनं शोषशून्यत्वलाघवैः।
विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत्।
मलानां त्वतिसङ्गोत्सर्गाभ्यां च वृद्धिक्षयौ।
वृद्धेस्तु मलानां क्षयः पीडयति सुतरामनौचित्यात्॥

अस19.8
तत्रास्थनि स्थितो वायुरसृक्स्वेदयोः पित्तम्।
शेषेषु श्लेष्मा।
तस्मादेकवृद्धिक्षयकारणत्वमेषाम्।
न त्वेवमस्थिवाय्वोः।
सर्वैव हि वृद्धिः प्रायोऽतिसन्तर्पणनिमित्तत्वाच्छ्लेष्मणानुगता।
तद्विपर्ययाच्च क्षयो वायुना।
तस्माल्लङ्घनबृंहणाभ्यां वृद्धिक्षयजान् विकारानुपचरेत्।
पवने तु बृंहणलङ्घनाभ्याम्।
सर्वत्र च द्रव्यगुणकर्मविपर्ययतुल्यभावेनाविरुद्धेन॥

अस19.9
धातवः खलु शारीराः समानैः समानगुणभूयिष्ठैर्वाहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवन्ति।
ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठैर्वा।
तथा हि देहधातवो ये गुरवस्ते गुरुभिरैक्यकारितयोपचीयन्ते।
लघवस्तु लघुभिस्तद्विपरीतैस्तु पृथक्त्वकारिभिरपचीयन्ते।
तस्मादन्येभ्यो द्रव्येभ्योऽपि सुतरां रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसास्थि तरुणास्थ्ना मज्जा मज्ञा शुक्रं शुक्रेणामगर्भेण गर्भः।
यत्र त्वेवं लक्षणेन सामान्येन सामान्यवतामाहारविहाराणामसान्निध्यं स्यात् सन्निहितानां चाभ्यवहरणमशक्यं विरुद्धत्वाद् घृणित्वादरुचेरन्यस्माद्वा कारणान्तरात्।
तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामाहारविहाराणामभ्यवहारः श्रेयान्॥

अस19.10
तद्यथा शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणाम्।
कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्य तस्य वृद्धिमभिलषता तत्तदासेव्यम्।
तथैव चतुल्यक्रियतया ह्रासकरं तदर्थिनेति।
अपि च।
विशेषतो रक्तवृद्धिजान् रक्तनिर्हरणप्रसादनकायविरेचनेन।
मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः।
मेदोजान् स्थौल्यकार्श्यक्रियाक्रमेण।
रसक्षयजान् मांसरसमद्यक्षीरैः।
अस्थिक्षयजान् बस्तिभिस्तिक्तोपहितैः क्षीरबस्तिभिश्च।
शकृद्वृद्धिजानतीसारविधानेन।
शकृत्क्षयजान्यवमाषकुल्माषाजमेषमध्यादिभिः।
मूत्रवृद्धिक्षयजान् मेहकृछ्रचिकित्सया।
स्वेदक्षयजानभ्यङ्गव्यायाममद्यस्वप्ननिवातशरणस्वेदैरिति।
भवति चात्र॥

अस19.11
ये पाचकांशा धातुस्थास्तेषां मान्द्यातितैक्ष्ण्यतः।
वृद्धिः क्षयश्च धातूनां जायते शृणु चापरम्॥

अस19.12
पारम्पर्येऽपि दावाग्नेस्तत्तत् प्राप्येन्धनं शिखा।
वृद्धिक्षयौ यथा याति तद्वद्धातुपरम्परा॥

अस19.13
द्रव्यं तुल्यं विशिष्टं हि स्वं स्वं वृद्ध्यै क्षयाय च।
प्रत्यात्मबीजनियतं भृशमाशु प्रजायते॥

अस19.14
पूर्वो धातुः परं कुर्यात् वृद्धः क्षीणश्च तद्विधम्।
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्॥

अस19.15
अधो द्वे सप्त शिरसि खानि स्वेदवहानि च।
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः॥

अस19.16
वक्ष्यन्ते वातजास्तत्र निदाने वातरौगिके।
पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः॥

अस19.17
रक्ते विसर्पं दाहं च मांसे मांस्पाककोथनम्।
सदाहान्मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्॥

अस19.18
अस्थ्नि दाहं भृशं मज्ञि हारिद्रनखनेत्रताम्।
पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम्॥

अस19.19
सिरागतं क्रोधनतां प्रलापं स्नावगं तृषम्।
कोष्ठगं मदतृड्दाहान् व्यापिनोऽन्यांश्चयक्ष्मणः॥

अस19.20
श्लेष्मा त्वचि स्थितः कुर्यात् स्तम्भं श्वेतावभासताम्।
पाण्ड्वामयं शोणितगो मांससंस्थोऽर्बुदापचीः॥

अस19.21
आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्।
मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः॥

अस19.22
मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्।
विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम्॥

अस19.23
स्नायुगः सन्धिशूलत्वं कोष्ठगो जठरोन्नतिम्।
अरोचकाविपाकौ च तांस्तांश्च कफसम्भवान्॥

अस19.24
विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते।
उपतापोपघातौ तु स्वाश्रयेन्द्रियगा मलाः॥

अस19.25
व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि।
कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च॥

अस19.26
दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्।
वृध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्॥

अस19.27
तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः।
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि॥

अस19.28
तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु।
कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु॥

अस19.29
आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा।
तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते।
मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्॥

अस19.30
यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः।
संवर्तमानं हृदयं समाश्रयति यत्पुरा॥

अस19.31
यच्छरीररसः स्नेहः प्राणो यत्र प्रतिष्ठितः।
यस्यानाशान्ननाशोऽस्ति प्रीणिता येन देहिनः॥

अस19.32
हृदयस्थमपि व्यापि तत् परं जीवितास्पदम्।
ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः॥

अस19.33
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः।
दुश्च्छायो दुर्मना रूक्षो भवेत् क्षामश्च तत्क्षये॥

अस19.34
जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्।
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः॥

अस19.35
यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु।
तत्तत्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्॥

अस19.36
कुर्वतेऽभिरुचिं दोषा विपरीतसमानयोः।
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधा न तत्॥

अस19.37
यथाबलं यथास्वं च दोषा वृद्धा वितन्वते।
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते॥

अस19.38
य एव देहस्य समा विवृध्यै त एव दोषा विषमा वधाय।
यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः॥
इति एकोनविंशोऽध्यायः॥

अथ विंशोऽध्यायः

अस20.1
अथातो दोषभेदीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
वाय्वाकाशधातुभ्यां वायुः।
आग्नेयं पित्तम्।
अम्भःपृथिवीभ्यां श्लेष्मा।
तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनं च वातस्थानानि।
अत्र च पक्वाशयो विशेषेण।
नाभिरामाशयः स्वेदो लसीका रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि।
अत्र नाभिर्विशेषेण।
उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो घ्राणं रसनं च श्लेष्मस्थानानि।
अत्राप्युरो विशेषेण।
इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमगारमिव स्थूणात्रितयेन स्थिरीकृतम्।
अतश्च दोषा देहस्य स्थिरीकरणात् स्थूणा इत्युच्यन्ते।
धारणाद्धातवः।
मलिनीकरणादाहारमलत्वाच्च मलाः।
दूषणस्वभावाद्दोषा इति॥

अस20.2
त एते प्रत्येकं पञ्चधा भिद्यन्ते।
तद्यथा प्राणोदानव्यानसमानापानभेदैर्वायुः।
तत्र प्राणो मूर्द्धन्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठीवनक्षवथूद्गारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः।
उदान उरस्यवस्थितः कण्ठनासिकानाभिचरो वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्रोतःप्रीणनधीधृतिस्मृतिमनोबोधनादिक्रियः।
व्यानो हृद्यवस्थितः कृत्स्नदेहचरः शीघ्रतरगतिः गतिप्रसारणाकुञ्चनोत्क्षेपावक्षेपनिमेषोन्मेषजृम्भणान्नास्वादनस्रोतोविशोधनस्वेदासृक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्य किट्टात् सारं तेन क्रमशो धातूंस्तर्पयति।
समानोऽन्तरग्निसमीपस्थस्तत्सन्धुक्षणः पक्वामाशयदोषमलशुक्रार्तवाम्बुवहः स्रोतोविचारी तदवलम्बनान्नधारणपाचनविवेचनकिट्टाधोनयनादिक्रियः।
अपानस्त्वपानस्थितो बस्तिश्रोणिमेढ्रवृषणवङ्क्षणोरुचरोविण्मूत्रशुक्रार्तवगर्भनिष्क्रमणादिक्रिय इति॥

अस20.3
पाचकरञ्जकसाधकालोचकभ्राजकत्वभेदैः पित्तम्।
तत्र यदामाशयपक्वाशयमध्यस्थं पञ्चमहाभूतात्मकत्वेऽपि तेजोगुणोत्कर्षात् क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरनुग्रहाद्दहनपचनादिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति सारकिट्टौ विभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृह्णाति तत् पाचकमित्युच्यते।
आमाशयस्यं तु रसस्य रञ्जनाद्रञ्जकम्।
हृदयस्थं बुद्धिमेधाभिमानोत्साहैरभिप्रेतार्थसाधनात्साधकम्।
दृष्टिस्थं रूपालोचनादालोचकम्।
त्वक्स्थं त्वचो भ्राजनात् भ्राजकम्।
तदभ्यङ्गपरिषेकालेपादीन् पाचयति छायाश्च प्रकाशयति॥

अस20.4
अवलम्बकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा।
स तूरस्थः स्ववीर्येण त्रिकस्यान्नवीर्येण च सह हृदयस्य च शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्मणावलम्बनादवलम्बक इत्युच्यते।
आमाशयस्थितोऽन्नसङ्घातस्य क्लेदनात् क्लेदकः।
रसनास्थः सम्यग्रसबोधनात् बोधकः।
शिरस्थश्चक्षुरादीन्द्रियतर्पणात् तर्पकः।
पर्वस्थोऽस्थिसन्धिश्लेषणात् श्लेषक इति॥

अस20.5
एवममीषु स्थानेषु भूयिष्ठमविकृताः सकलशरीरव्यापिनोऽपि वातपित्तश्लेष्माणो वर्तन्ते।
तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु।
सामान्यतश्च वृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये।
वृद्धिर्हि द्वेधा चयप्रकोपभेदेन।
तत्रोष्णगुणोपहिता रुक्षादयो वायोः सञ्चयमापादयन्ति।
शीतगुणोपहिताः प्रकोपमुष्णगुणोपहिताः स्निग्धादयः प्रशमम्।
शीतगुणोपहितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मन्दादयः प्रशमम्।
शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रूक्षादयः प्रशमम्॥

अस20.6
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु।
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता॥

अस20.7
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः।
स्वस्थानस्थस्य समता विकारासम्भवः शमः॥

अस20.8
देहेऽक्रुद्धोऽनिलवशात् कृत्स्नेऽर्द्धेऽवयवेऽपि वा।
दोषो विकारं कुरुते खे वर्षमिव तोयदः॥

अस20.9
अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतपन्ति।
आविष्कृततमास्तु वायोरशीतिर्विकाराः तद्यथा।
नखभेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातखुडता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृद्ध्रसी जानुभेदो जानुविश्लेषः ऊरुसाद ऊरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वङ्क्षणानाहः श्रेणिभेदो विङ्भेद उदावर्तः खञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायाम्यता मुखशोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैःश्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्खभेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षेपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नोऽनवस्थितचित्तता च॥

अस20.10
पित्तविकाराः पुनरोषः प्लोषो दवो दवथुर्विदाहोऽन्तर्दाहस्त्वग्दाहोऽंसदाहो धूमकोऽम्लक ऊष्माधिक्यमतिस्वेदोऽङ्गगन्धोऽवयवसदनं शोणितक्लेदो मांसक्लेदस्त्वङ्मांसावदरणं चर्मदरणं रक्तकोठो रक्तविस्फोटो रक्तमण्डलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगन्धास्यता पूतिमुखत्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाकोऽक्षिपाकः पायुपाको मेढ्रपाको जीवादानं तमःप्रवेशो हरितहारिद्रनेत्रमूत्रशकृत्त्वं च॥

अस20.11
श्लेष्मविकारास्तु तृप्तिस्तन्द्रा निद्राधिक्यं स्तैमित्यं गुरुगात्रतालस्यं मुखमाधुर्यं प्रसेकः श्लेष्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कण्ठोपलेपो धमनीप्रतिचयो गलगण्डोऽतिस्थौल्यं शीताग्नित्वमुदर्दः श्वेतावभासता श्वेतनेत्रमूत्रशकृत्त्वं च॥

अस20.12
तत्र सर्वाङ्गीणस्तीव्रः सन्तापो दाहः।
स्वेदारतिमानोषः।
प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः प्लोषः।
मुखोष्ठतालुषु दाहो दवः।
चक्षुरादीन्द्रियेषु दाहो दवथुः।
पाणिपादांसमूलेषु विविधः सन्तापो विदाहः।
कोष्ठे दाहोऽन्तर्दाहः।
शिरोग्रीवाकण्ठतालुषु धूमायनं धूमकः।
सान्तर्दाहहृदयशूलोद्गारोऽम्लकः।
शोणितस्य कृष्णतादौर्गन्ध्यतनुत्वानि क्लेदः।
मांसस्य तु कृष्णता दैर्गन्ध्यं च।
बाह्यत्वक्संहतिश्चर्मकोथः।
कोष्ठगौरवादाहारास्पृहा तृप्तिः।
अन्ये पुनराहुरन्नानभिनन्दता तृप्तिरिव तृप्तिररोचकः।
निद्रार्त्तस्येव विषयाग्रहणं तन्द्रा।
स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितम्।
उपलेप इवोपलेपः।
तदतिशयः प्रतिचयोऽतिपूरणम्।
अग्नेरतिमन्दता शैल्यम्।
उरसोऽभिष्यन्द उदर्दः।
केषाञ्चिच्छीतवेपथुरुदर्दः।
अन्ये पुनराहुः॥

अस20.13
शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः।
सरागकण्डूः शोफः स्यादुदर्दः स कफोद्भव इति॥

अस20.14
महाविकारास्तु यथास्वमेवोपदेक्ष्यन्ते।
क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते।
यथा नखशङ्खललाटभेदाः सान्तर्दाहकण्ठहृदयोपलेपादयः।
तेषां हि तथैव स्वरूपमुपदिष्टं भवति॥

अस20.15
सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसङ्ख्येयत्वाद्विकारेष्विमान्येव दोषाणामात्मलिङ्गानि सकलशरीरव्यापीन्यव्यभिवारीणि च।
तथा कर्माण्युपक्रमश्च।
तत्रात्मलिङ्गान्यायुष्कामीये निर्दिष्टानि॥

अस20.16
कर्माणि तु वायोः स्रंसव्याससङ्गसाधेदतोदहर्षतर्षवर्त्ताङ्गमर्दकम्पव्यथवेष्टभङ्गशूलशोषस्वापपारुष्यसौषिर्यसङ्कोचस्पन्दनानि कषायरसत्वं श्यावारुणवर्णता च।
पित्तस्य दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ज्यवर्णता च।
श्लेष्मणः कण्डूस्थैर्यगौरवोपदेहस्नेहशैत्यबन्धचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति॥

अस20.17
कपिलबलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश।
कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः।
कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः॥

अस20.18
सुश्रुतः पुनः पठति।
पित्तं विद्ग्धमम्लतामुपैति श्लेष्मा लवणताम्।
तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्षयेदागमप्रत्यक्षानुमानैः।
अनन्तरं च देशकालमात्रादीन् प्रमाणीकृत्याश्वेवोपक्रमेतेति।
भवन्ति चात्र॥

अस20.19
वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः।
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव॥

अस20.20
त्रीनेव समया वृद्ध्या षडेकस्यातिशायने।
त्रयोदश समस्तेषु षड् द्व्येकातिशयेन तु॥

अस20.21
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्।
पञ्चविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः॥

अस20.22
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्।
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययापि ते॥

अस20.23
भेदा द्विषाष्टिर्निर्दिष्टास्त्रिषष्टिः स्वाथ्यकारणम्।
रोग्यवस्थासु युगपद् वृद्धिसाम्यक्षयानुगम्॥

अस20.24
षट्कं हि दुर्बोधतरं विकारैरुपदेक्ष्यते।
प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये।
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति॥

अस20.25
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितौ।
गात्रोद्देशे तथा स्यातां बलहानिपरिश्रमौ॥

अस20.26
प्रकुतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली।
कर्षेत् कुर्यात् तदा शूलं सशैत्यस्तम्भगौरवम्॥

अस20.27
प्रकृतिस्थं यदा वातं पित्तं वृद्धं कफक्षये।
संरुणद्धि तदा दाहः शूलं चास्योपजायते॥

अस20.28
प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा।
सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरव ज्वरम्॥

अस20.29
प्रकृतिस्थं यदा वायुं वृद्धः पित्तक्षये कफः।
सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्॥

अस20.30
प्रकृतिस्थं यदा पित्तं वृद्धः श्लेष्मानिलक्षये।
सन्निरुन्ध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्॥

अस20.31
निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवम्।
ष्ठीवनं पित्तकफयोर्नखादीनां च पीतताम्॥

अस20.32
ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्।
शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्॥

अस20.33
संसर्गाद्रसरुधिरादिभिस्तथैषां दोषाणां क्षयसमताविवृद्धिभेदैः।
आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्॥

इति विंशोऽध्यायः॥